१२

अथ द्वादशोऽध्यायः ।

विषयः

ध्रुवाय कुबेरस्य वर-दानं, ध्रुवस्य गङ्गा-द्वारे तपश्-चरणं भगवत्-पदारोहणं च ।

॥ ४.१२.१ ॥

मैत्रेय उवाच—

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद्

अपेत-मन्युं भगवान् धनेश्वरः ।

तत्रागतश् चारण-यक्ष-किन्नरैः

संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वादशे धन-देनाभि- नन्दितः पुरम् आगतः ।

यज्ञैर् इष्ट्वा हरेः स्थानम् आरुरोहेति कीर्त्यते ॥

वैशसाद् वधात् । निवृत्तं ज्ञात्वा ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युद्धे हिंसाक्रूरयोश् च वैशसस्त्रिषु वर्त्तते इति निरुक्तिः । यत्र मनुनोपदिष्टं तत्रेत्य् अर्थः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वादशे धनदाल् लब्ध-वरो गत्वा पुरीम् हरिम् ।

यज्ञैर् इष्ट्वा विरज्यागात् स-शरीरो हरेः पदम् ॥

वैशसाद् वधात् ॥१॥


॥ ४.१२.२ ॥

धनद उवाच—

भो भोः क्षत्रिय-दायाद परितुष्टोऽसामान्याधिकरणि तेऽनघ ।

यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : हे क्षत्रिय-दायाद क्षत्रिय-पुत्र ! अत्यजः त्यक्तवान् असि ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भो भो इति संबुद्धिद्वये पृथग्योज्यम् । क्षत्रियदायादेति युद्धलक्षणक्षत्रधर्मनिष्ठत्वात् । अनघेति समर्थेनापि प्राक्तनमात्सर्याद् भ्रातृहन्ता न हत इति लोकापवाद-रूपाद्यतिवर्तनायैवं त्वया यक्षवधादि कृतम्, अन्यथा हरिभक्तस्य तवात्र प्रवृत्तिर्न संभवतीत्यभिप्रायः । स्वधर्मनिष्ठत्वाल्लोकापवादभीतत्वाच् च तवाहं प्रीतोस्मि । परितोषे कारणान्तरमप्याह । यस्त्वम् इति ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भो भो इत्य्-आदिका देवताभिमानोक्तयः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.३ ॥

न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव ।

काल एव हि भूतानां प्रभुर् अप्यय-भावयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च वैरस्य कारणम् अस्तीत्य् आह—न भवान् इति । अप्यय-भावयोर् मृत्यु-जन्मनोः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मद्भृत्ययक्षहन्तृत्वं तव नास्तीति ममापि त्वया साकं वैरं नास्तीति मनोः स्वस्य चैकमत्यं व्यंजयन्नाह—न भवानिति । प्रभुः कारणम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.४ ॥

त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि ।

स्वाप्नीवाभात्य् अतद्-ध्यानाद् यया बन्ध-विपर्ययौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

परमेश्वरं विनाहं त्वं कर्तेति भ्रान्तिः ।

नाहं कर्ता न कर्ता त्वं कर्ता यस् तु सदा प्रभुः ॥ इति मोक्ष-धर्मे ।

विपर्ययो दुःखादि सुखादि-रूपस्य ॥४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं तर्ह्य् अहं हन्तेत्य्-आदि-बुद्धिः ? तत्राह—त्वम् इति । आभाति प्रकाशते । जायत इत्य् अर्थः । अतस् तद्-ध्यानाद् देहानुसन्धानात् । यया धिया बन्धः । विपर्ययो दुःखादिः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र ध्रुवः शङ्कते—कथम् इति । पुरुषस्यात्मनो\ऽज्ञानात् । इत्य् अर्थ इति । अनेकार्थत्वाद्धातूनामत्र भातेराविर्भावार्थकत्वमुपसर्गवशाद्वेति भावः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अज्ञानद् उपाध्य्-अभिमानाद् एव या अहं त्वम् इति धीः, साऽपार्थैव । अतद्-ध्यानाद् इत्य् अत्र "अनुध्यानाद्" इति चित्सुखः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतद्-ध्यानाद् देहानुसन्धानात् बन्धः संसारश् च । ततो ज्ञानानन्द-मयस्य जीवात्मनो विपर्ययोऽज्ञान-दुःखादिकश् च तौ ॥४॥


॥ ४.१२.५-६ ॥

तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् ।

सर्व-भूतात्म-भावेन सर्व-भूतात्म-विग्रहम् ॥

भजस्व भजनीयाङ्घ्रिम् अभवाय भव-च्छिदम् ।

युक्तं विरहितं शक्त्या गुण-मय्यात्म-मायया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्म-सामर्थ्याख्यया शक्त्या युक्तम् । गुण-मय्या विरहितम् ॥६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तसामान्याधिकरणाद् गच्छ गत्वा च भगवन्तं भजस्वेत्य् उत्तरेणान्वयः । सर्व-भूतात्मको विग्रहो यस्य ॥५॥ भजनीयावङ्घ्री यस्य तम् । गुण-मय्या शक्त्या युक्तम् । किं तत्त्वतः ? न आत्म-मायया । अतस् तत्त्वतस् तया विराहितम् । यद् वा, शक्त्य्-आत्म-मायया युक्तं विरहितं च सगुण-निर्गुण-भेदेन ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो\ऽहङ्कारादिकमात्माज्ञानकार्यम् एव, तन्निवृत्तये भगवद्-भजनम् एव कार्यमतस्तदपवादार्थं भज सर्वात्मना हरिम् इति श्रीरुद्रगीतोक्तेस्तस्माद्धेतोः, विग्रहो देहः ॥ युक्तं सृष्ट्यादिकाले विरहितमन्यदा ॥५-६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति युग्मकम् । सर्व-भूतानाम् आत्म-रूपो विग्रहो यस्य तम् इति विग्रहस्यैव परम-तत्त्व-रूपत्वात् । शक्त्या स्वरूप-भूतया मुख्य-शक्त्या युक्तं त्रि-गुण-मय्या स्वात्माधीन-मायया विरहितं स्वाश्रययापि तया न स्पृष्टम् इत्य् अर्थः ॥५-६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषु भूतेषु आत्मनः स्वस्येव भावो भावना तेन । सर्व-भूतानि आत्म-विग्रहे यस्य तम् । अभवाय नास्ति भवो यस्मात् तं विष्णुं प्राप्तुं मायायाः स्व-शक्तित्वाद् युक्तं स्वरूप-भूतत्वाभावाद् विरहितम् ॥५-६॥


॥ ४.१२.७ ॥

वृणीहि कामं नृप यन् मनो-गतं

मत्तस् त्वम् औत्तानपदेऽविशङ्कितः ।

वरं वरार्होऽम्बुज-नाभ-पादयोर्

अनन्तरं त्वां वयम् अङ्ग शुश्रुम ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : निरन्तरं भगवत्-पाद-मनसा ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कामम् असङ्कोचेन । अविशङ्कितो निर्भयः । अनन्तरम् अतिनिकटम् ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपेति । राज्य-पालनोपयोगि-वर-दानार्हस् त्वम् असीत्य् आह । तत्र हेतुत्वेन पितृ-नाम्ना मन्त्रयति—औत्तानपद इति । त्वं राजास्य् अहं च राज-राजो\ऽस्म्य् अतो न्व् अर्थ-नाम-करणेच्छया वर-दाने प्रवृत्तिः । वस्तुतस् तु हरि-भक्तस्य तवादरे हरिर् एवादृतः स्याद् इत्य् आह—वरार्ह इति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वृणीहीति पद्यं व्याख्येयम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्तरम् अव्यवधानम् अतिनिकटम् इत्य् अर्थः ॥७॥


॥ ४.१२.८ ॥

मैत्रेय उवाच—

स राज-राजेन वराय चोदितो

ध्रुवो महा-भागवतो महा-मतिः ।

हरौ स वव्रे ञ्चलितां सामान्याधिकरणृतिं यया

तरत्य् अयत्नेन दुरत्ययं तमः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स वराय चोदित इत्य् अनुवाद-रूपं पृथग्-वाक्यम् । अतः स वव्र इति तच् छब्दस्यापौनरुक्त्यम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तमः संसारम् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स राजराजेनेत्य्-आदि । हरौ श्री-कृष्णे प्रगाढ-रतिमान् एव, तथापि यक्ष-वधादिना जातं बहिर्मुखत्वं मन्वानो मनु-वचसापि जात-निर्वेदः पुनर् अचलां भक्तिं वव्रे इति भावः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महाभागवतोऽपि अचलां सामान्याधिकरणृतिं वव्र इति । न यावन् महतां तेज इत्य्-आदि-पितामह-वाक्याद् भगवत्-सामान्याधिकरणरणादौ विघ्नम् आशङ्क्येति भावः ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञा सह वर्तमानेषु सर्वेषु लोकेषु राजत इति स राज-राजः कुवेरः, तेन ॥८॥


॥ ४.१२.९ ॥

मैत्रेय उवाच—

तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः ।

पश्यतोऽन्तर्दधे सोऽपि स्व-पुरं प्रत्यपद्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य ध्रुवस्य ततः तां भगवत्यचलितस्मृतिम् । इडविडाया अपत्यमैलविलः डलयोरैक्यं कुबेरः । ततो वरदानानन्तरम् । सो\ऽपि ध्रुवो\ऽपि ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐडविडः कुवेरः ॥९॥


॥ ४.१२.१० ॥

अथायजत यज्ञेशं क्रतुभिर् भूरि-दक्षिणैः ।

द्रव्य-क्रिया-देवतानां कर्म कर्म-फल-प्रदम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : द्रव्य-क्रिया-देवतानां विषयम् । अकर्म-फल-प्रदं मोक्ष-प्रदाम् ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्य-क्रिया-देवतानां कर्म-साध्यं फल-रूपं कर्म-फल-प्रदं चेत्य् अर्थः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ नगरमागत्य । इत्य् अर्थ इति । द्रव्यक्रियादेवतानां पुरोडाशावहननेन्द्रादिदेवतार्चनाभिर् भगवानेव फल-रूपेण साध्यते । स एव कर्मवैगुण्यनिवर्तकत्वेन सत्फलदाता चेति भावः । विश्वनाथस्तु—द्रव्यक्रियादेवतासंबन्धिकर्मप्रदं कर्मफलप्रदञ्चेत्य् अर्थः । स एव कर्म कारयति स एव कर्मफलं योजयतीति भाव इत्य् आह ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : द्रव्य-क्रिया-देवताम् इति । द्रव्याद्य्-आत्मकस्य यज्ञस्येत्य् अर्थः ॥१०॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**द्रव्य-क्रिया-देवता-सम्बन्धि-कर्म-प्रदं कर्म-फल-प्रदं चेति स एव कर्म कारयति, स एव कर्म-फलं भोजयतीत्य् अर्थः ॥१०॥


॥ ४.१२.११ ॥

सर्वात्मन्य् अच्युतेऽसर्वे तीव्रौघां भक्तिम् उद्वहन् ।

ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विश्वः पूर्णस् तथा सर्वः समस्तश् चाभिधीयत इत्य् अभिधानम् ॥११॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वस्यात्मनि असर्वे सर्वोपाधि-विवर्जिते ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजानो हि देव-ब्राह्मणादि-सन्तर्पकान् क्रतून् कुर्वन्ति । तान् विना न राज्ञः व्यवहार-सिद्धिर् इति तद्-अनुरोधेनैव तस्य यज्ञादि-कर्म-करणं स्व-प्रतिमूर्ति-द्वारैव । वस्तुतस् तु स स्वयम् अवकाशम् एव कर्मणि नैव लभत इत्य् आह । सर्वात्मनि अथ चासर्वे सर्व-व्यतिरिक्त-स्वरूपे आत्मन्य् अन्तः-करणे सर्व-भूतेषु बहिर् अपि तद्-ध्यान-परिपाकात् स्फूर्त्या ददर्श ॥११॥


॥ ४.१२.१२ ॥

तम् एवं शील-सम्पन्नं ब्रह्मण्यं दीन-वत्सलम् ।

गोप्तारं धर्म-सेतूनां मेनिरे पितरं प्रजाः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजानो हि देव-ब्राह्मणादि-तर्पकान् क्रतून् कुर्वन्ति । तान्विना न राज्ञो व्यवहार-सिद्धिर् इति तद्-अनुरोधेनैव तस्य यज्ञादि-कर्म-करणं स्व-प्रतिमूर्ति-द्वारैव । वस्तुतस् तु स स्वयम् अवकाशम् एव कर्मणि नैव लभत इत्य् आह—सर्वात्मनीति । तीव्रौघां काल-व्यवधान-रहिताम् । आत्मन्य् अन्तःकरणे भूतेषु बहिर् अपि तद्-ध्यान-परिपाकात् स्फूर्त्या तम् एव यं पुरा तपसा प्रत्यक्षी-चकारेत्य् अर्थः । अत्र तीर्थो\ऽकार-प्रश्लेषं विना व्याचख्यौ—सर्वे पूर्णे विश्वः पूर्णस् तथा सर्वः समस्तश् चाभिधीयते इत्य् अभिधानात् । सर्वः शर्वः शिवः स्थाणुः इति नामत्वात् सर्व-नाम-संज्ञाभावात् अस्मिन्न् आदेशाभावः । सर्वादिः सर्वकार्थी स्यान् न चेद् गौणो\ऽथ वाभिधा इत्य् उक्तेः ॥११-१२॥


न कतमेनापि व्याख्यातम्।


॥ ४.१२.१३ ॥

षट्-त्रिंशद्-वर्ष-साहस्रं शशास क्षिति-मण्डलम् ।

भोगैः पुण्य-क्षयं कुर्वन्न् अभोगैर् अशुभ-क्षयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भोगैर् ऐश्वर्यादिभिः । अभोगैर् यज्ञाद्य्-अनुष्ठानैः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना व्रत-नियमादि-ग्रहः । कुर्वन् कर्तुम् इच्छन्न् इत्य् अर्थः । अत्र तुम्-अर्थे शतृ-प्रत्ययः । तुमुनि च सर्वत्रेच्छतिर् आक्षेप-लब्ध एव । यथा देवदत्तो भोक्तुं व्रजतीत्यत्र भोक्तुम् इच्छन्द्रव्रजतीत्यर्थो लभ्यते इति तस्य पुण्य्-पाप-क्षय-चिकीर्षा दैन्येनैव । वस्तुतस् तूत्पन्न-प्रेमत्वात् तस्य पुण्य-पापे नैव स्त इति पूर्वं भगवद्-अवतारेषु गणनयापि तस्य ते नोचिते इति भावः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भोगैर् इत्य्-आदिकं लोकानुकरण-मात्रं मायया ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभोगैर् व्रत-नियमादिभिर् अशुभ-क्षयं कुर्वन् कर्तुम् इच्छन्न् इत्य् अर्थः । अत्र तुम्-अर्थे शतृ-प्रत्ययः । तुमुनि च सर्वत्र इच्छतेर् आक्षेप-लब्ध एव भवति, यथा देवदत्तो भोक्तुं व्रजतीत्य् अत्र भोक्तुम् इच्छन् व्रजतीत्य्-अर्थो लभ्यते इति तस्य पुण्य-पाप-क्षय-चिकीर्षा दैन्येनैव । वस्तुतस् तु उत्पन्न-प्रेमत्वात् तस्य पुण्य-पापे नैव स्तः ॥१३॥


॥ ४.१२.१४ ॥

एवं बहु-सवं कालं महात्माविचलेन्द्रियः ।

त्रि-वर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहवः सवा यागाः संवत्सरा वा यसामान्याधिकरणिन्, तं कालं त्रि-वर्ग-साधकं नीत्वा । अविचलानि संयतानीन्द्रियाणि यस्य ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वः सन्धानयज्ञाब्दसामकालोद्भवेषु च इति निरुक्तिः । नीत्वा गमयित्वा ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अविचलानि विपरिणामादि-रहितानि इन्द्रियाणि यस्य ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहवः संवत्सरा यत्र तं त्रिवर्गोपयोगिनं कालं नीत्वा गम꣡ ॥१४॥


॥ ४.१२.१५ ॥

मन्यमान इदं विश्वं माया-रचितम् आत्मनि ।

अविद्या-रचित-स्वप्न-गन्धर्व-नगरोपमम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अन्यथात्वात् क्षिप्र-नाशाज् जगत् स्वप्नादिवत् स्मृतम् ।

वर्तमानं नियत्यैव सदैव परमात्मै ॥ इति वाराहे ।

महामायेत्य् अविद्येति नियतिर् मोहिनीति च ।

प्रकृतिर् वासनेत्य् एवं तवेच्छानन्त कथ्यते ॥ इति स्कान्दे ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं देहादि भगवन्-माययात्मनि स्वसामान्याधिकरणिन् रचितं मन्यमानः । अत्राविद्यासृष्टिं दृष्टान्तयति । अविद्या-रचितेति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गन्धर्वनगरं तु वायुनिर्मितहर्म्यगोपुरगजाश्वादिवत्प्रतीयमानार्कंशुसंवलितोत्तराशामेघालिवैचित्र्यम् एव । तच् च क्षणिकम् एव ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्येति युग्मकम् । मायया रचितम् अध्यस्तम् । आत्मा स्वपत्येति चित्सुखः । असवः प्राणाः ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं माया-रचितं माया-रचितत्वात् सत्यम् अपि आत्मनि या अविद्या तया रचितैः स्वप्न-गन्धर्व-नगरैः सहोपया यस्य तत् असत्यम् इवानुभवन्न् इत्य् अर्थः ॥१५॥


॥ ४.१२.१६ ॥

आत्म-स्त्र्य्-अपत्य-सुहृदो बलम् ऋद्ध-कोशम्

अन्तः-पुरं परिविहार-भुवश् च रम्याः ।

भू-मण्डलं जलधि-मेखलम् आकलय्य

कालोपसृष्टम् इति स प्रययौ विशालाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मा देहः । आत्मादि मायिकम् अपि पुनः कालेनोपसृष्टम् अनित्यम् आकलय्य विचिन्त्य । विशालां बदरिकाश्रमम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपसृष्टं ग्रस्तम् विशाला बदरी प्रोक्ता पुरी भूमिश् च निम्नगा इति कोशात् । स ध्रुवः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा देहः । तद्-आदिकम् सर्वं कालेनोपसृष्टम् ग्रस्तम् आकलय्य विशालां बदरिकाश्रमम् ययौ ॥१६॥


॥ ४.१२.१७ ॥

तस्यां विशुद्ध-करणः शिव-वार् विगाह्य

बद्ध्वासनं जित-मरुन् मनसाहृताक्षः ।

स्थूले दधार भगवत्-प्रतिरूप एतद्

ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्थूले पातालादिके । शिलावत् प्रतिमैषा हि विष्णुर् लोक-चतुर्दशीति च ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तत्-कृतम् अष्टाङ्ग-योगम् आह । तस्यां शिवं वाः उदकं विगाह्य प्रविश्येति स्नानादि-नियमा उक्ताः । विशुद्ध-करण इति शमादयो यमाः । आसनादीनि स्फुटम् एवोक्तानि । जितो मरुत्प्राणो येन । आहृतान्य् अक्षाणि येन । भगवतः प्रतिनिधि-भूते स्थूले विराड्-रूपे एतन् मनो दधार । ध्यायन्न् अव्यवहितो ध्यातृ-ध्येय-भेद-शून्यः सन् समाधौ स्थितस् तत् स्थूलं व्यसृजत् ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र विशालायाम् । तत्कृतं ध्रुवकृतम् । तस्यां विशालायाम् । जितमरुद् इति प्राणायाम उक्तः । मनसा हृताक्ष इति प्रत्याहार उक्तः । दधार धारणामकरोत् । प्रतिनिधिभूते प्रतिमासदृशे शिलावत्प्रतिमैषा हि विष्णोर्लोकचतुर्दशी इति तीर्थोक्तेः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्यां विशुद्धेत्य्-आदि । तस्यां विशालायां वदर्यां श्वराः पुण्य-जलं विगाह्य विशुद्ध-करणः सन् आसनं बद्द्वा जित-मरुत् जित-प्राणः कृत-।प्रकृत इति स्थूले विराड्-रूपेऽकृतान्य-दत्तान्य् अक्षाणि इन्द्रियाणि येन स तथा सन् भगवत्-प्रतिरूपे साक्षा-दृष्टस्य भगवतः प्रतिबिम्बे मनो-मये एतन् मनो दधार । तद्-अव्यवहितः सन् तेन भगवत्-प्रतिबिम्बेन सह व्यवधान-रहितः सन् मनसा ध्यायन् सर्व्हौ सति तं सर्व्हिं व्यसृजत्

यद् वा, एतद् इत्य् आवर्तनीयम् । एतन् मनः प्रतिबिम्बिते भगवति दधानः सर्व्हौ सर्व्ह-विषये व्यसृजत् । सर्व्हितोऽपि ध्यान-सुखस्य परम-रहस्यत्वात् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशुद्ध-करण इत्य्-आदीनि यमाद्य्-अष्टाङ्गानि भगवत्-प्रतिरूपे प्रतिनिधि-भूते विराड्-रूपे दधार धारणाम् अकरोत् । एतद्-ध्यायन्न् अव्यवहितः भगवत्-स्वरूपे व्यवधान-शून्यः सन् सर्व्हौ स्थितः तत् स्थूलं व्यसृजत् ॥१७॥


॥ ४.१२.१८ ॥

भक्तिं हरौ भगवति प्रवहन्न् अजस्रम्

आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः ।

विक्लिद्यमान-हृदयः पुलकाचिताङ्गो

नात्मानम् असामान्याधिकरणरद् असाव् इति मुक्त-लिङ्गः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अजस्रम् नित्यं हरौ भक्तिं प्रकर्षेण वहन्न् असौ ध्रुवोऽहम् इत्य् आत्मानं न स-सामान्याधिकरणार । यतो मुक्त-लिङ्गस् त्यक्त-शरीराभिमानः । तत्र हेतवः—आनन्द-बाष्पस्य कलया बिन्दु-प्रवाहेण अभिभूयमानः । विक्लिद्यमानं द्रवद्-धृदयं यस्य । पुलकैर् व्याप्त्आङ्गः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतच् च सर्वं तत्रत्यानां योगिनां सदाचार-संमानार्थं द्वि-त्रि-दिनम् एवानुरोधेन चकार । वस्तुतस् तु तस्य योगे\ऽवकाश एवं नास्तीत्य् आह—भक्तिम् इति । इति हेतोर् एव न तु योगाद् धेतोः । गार्हस्थे कर्म-योगो वैराग्ये भक्ति-योगश् च तस्य लोक-प्रदर्शनार्थक एव बभूवेति भावः । तत्र मुक्त-लिङ्गत्वेन हि देहाभिमानिन आनन्दाश्रु-निपात-हृदय-क्लेद-पुलकाङ्गानि प्रादुर्भवन्तीति ॥१८॥


कैवल्य-दीपिका : भक्तिम् इति । असाव् अहम् इत्य् आत्मानं नास्मरत् । यतो मुक्त-लिङ्गाः त्यक्त-शरीराभिमानः ॥१८॥ [मु।फ। १९.१८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अत आह—भक्तिं हरौ भगवति इत्य्-आदि । आनन्द-बाष्प-कलया मुहुर् अर्द्यमानत्वं विक्लिद्यमान-हृदयत्वं च सर्वौ ध्यान-त्यागे सति न सङ्गच्छते ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतच् च सर्वं तत्रत्यानां योगिनां सद्-आचार-सम्मानार्थं द्वि-त्र-दिनम् एवानुरोधेन चकार । वस्तुतस् तु योगे तस्यावकाश एव नास्तीत्य् आह—भक्तिम् इति । इति हेतोर् एव मुक्त-लिङ्गस् त्यक्त-देहाभिमानः, न तु योगाद् धेतोर् इति । गार्हस्थ्ये कर्म-योगो वैराग्येऽष्टाङ्ग-योगश् च तस्य लोक-प्रदर्शनार्थक एव बभूवेति भावः ॥१८॥


॥ ४.१२.१९ ॥

स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः ।

विभ्राजयद् दश दिशो राकापतिम् इवोदितम् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राका-पतिं पूर्ण-चन्द्रम् ॥१९॥


न केनापि व्याख्यातम्।


॥ ४.१२.२० ॥

तत्रानु देव-प्रवरौ चतुर्-भुजौ

श्यामौ किशोराव् अरुणाम्बुजेक्षणौ ।

स्थिताव् अवष्टभ्य गदां सुवाससौ

किरीट-हाराङ्गद-चारु-कुण्डलौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्व् अनन्तरं देव-प्रवरौ ददर्शेत्य् अनुषङ्गः । गदाम् अवष्टभ्य स्थितौ । किरीटादिभिः सहिते चारुणी कुण्डले ययोः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र विमाने । अवष्टभ्य धृत्वा ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र विमाने अनु अनन्तरं देव-प्रवरौ ददर्श ॥२०॥


॥ ४.१२.२१ ॥

विज्ञाय ताव् उत्तमगाय1-किङ्कराव्

अभ्युत्थितः साध्वस-विसामान्याधिकरणृत-क्रमः ।

ननाम नामानि गृणन् मधुद्विषः

पार्षत्-प्रधानाव् इति संहताञ्जलिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तम-गायः पुण्य-श्लोकस् तस्य किङ्करौ तौ विज्ञाय मधुद्विषः पार्षत्-प्रधानाव् इति हेतोः । साध्वसेन सम्भ्रमेण विसामान्याधिकरणृत-पूजा-क्रमः केवलं तस्य नामानि गृणन् ननाम ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्2


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साध्वसेन सम्भ्रमेण विसामान्याधिकरणृत-पूजा-क्रमः केवलं तस्य नामानि « जय नारायण ! जय गोपाल ! जय गोविन्द ! » इत्य् आद्य् उच्चारयन् ननाम ॥२१॥


॥ ४.१२.२२ ॥

तं कृष्ण-पादाभिनिविष्ट-चेतसं

बद्धाञ्जलिं प्रश्रय-नम्र-कन्धरम्।

सुनन्द-नन्दाव् उपसृत्य ससामान्याधिकरणितं

प्रत्यूचतुः पुष्करनाभ-सम्मतौ ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रागदृष्टश्रुतवस्तुदर्शनसाध्वसलक्षणोन्तः करणवृत्तिविशेषः संभ्रमो भवति तेन विस्मृतः । नामानि जय नारायण जय गोपाल जय गोविन्देत्याद्युच्चारयन्ननामेत्य् अर्थः ॥२१-२२॥


न केनापि व्याख्यातम् ।


॥ ४.१२.२३-२४ ॥

सुनन्द-नन्दाव् ऊचतुः—

भो भो राजन् सुभद्रं ते वाचं नोऽवहितः शृणु ।

यः पञ्च-वर्षस् तपसा भवान् देवम् अतीतृपत् ॥

तस्याखिल-जगद्-धातुर् आवां देवस्य शार्ङ्गिणः ।

पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्-पदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुभद्रम् इति स-शरीरस्यैव विष्णु-पदारोहाभिप्रायम् । अतीतृपत् तर्पितवान् ।आवां तस्य पार्षदौ ॥२३-२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भो भो इत्य् अर्धकम् । यं पं च इति सार्धकम् ॥२३-२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुभद्रं त इति सशरीरस्यैव विष्णोः पदारोहणाभिप्रायम् ॥२३-२४॥


॥ ४.१२.२५ ॥

सुदुर्जयं विष्णु-पदं जितं त्वया

यत् सूरयोऽप्राप्य विचक्षते परम् ।

आतिष्ठ तच् चन्द्र-दिवाकरादयो

ग्रहर्क्ष-ताराः परियन्ति दक्षिणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : शिशुमारो ध्रुवश् चैव संस्थितौ यत्-पुरे सदा ।

तत् पश्यन्ति न यान्त्य् अन्ये लोकं यान्ति सुरान् विना ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदुर्जयत्वे हेतुः, सूरयः सप्त-र्षयोऽपि यद् अप्राप्य केवलम् अधः-स्थिताः पश्यन्ति, यच् चन्द्रादयः प्रदक्षिणं यथा भवेत्य् एवं परिक्रामन्ति तद् आतिष्ठाधितिष्ठ ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भो भो इति वीप्सादरे । राजन्न् इति । सर्वदा दीप्तिमांस्त्वं भविष्यसीत्य् आह ॥२३-२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सुदुर्जयम् इति । यद् अप्राप्यैव परं ब्रह्मान्वेषयन्ति, न तु तत् प्राप्यापि । तस्यैव पर-ब्रह्म-रूपत्वात् सूर्यादीनां स्वगत्या वामावर्तत्वेऽपि प्राप्तिः परियन्ति दक्षिणम् इति । ज्योतिश्-चक्र-गत्या व्यपदिश्यते—ध्रुव-पदस्य तद्-असक्तत्वात् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूरयः सप्तर्षयोऽपि यद् अप्राप्य केवलम् अधः-स्थिताः पश्यन्ति । चन्द्रादयः दक्षिणं परियन्ति प्रदक्षिणीकुर्वन्ति ॥२५॥


॥ ४.१२.२६ ॥

अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् ।

आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥

न कतमेनापि व्याख्यातम्।


॥ ४.१२.२७ ॥

एतद् विमान-प्रवरम् उत्तमश्लोक-मौलिना ।

उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका),


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आयुष्मन्न् इत्य् अपि स-शरीर-यानाभिप्रायम् एव ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.१२.२८ ॥

मैत्रेय उवाच

निशम्य वैकुण्ठ-नियोज्य-मुख्ययोर्

मधु-च्युतं वाचम् उरुक्रम-प्रियः ।

कृताभिषेकः कृत-नित्य-मङ्गलो

मुनीन् प्रणम्याशिषम् अभ्यवादयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु च्यवते स्रवतीति मधु-च्युत् ताम् । पाठान्तरे, मधु च्युतं यस्यां ताम्, अमृत-स्राविणीम् इत्य् अर्थः । कृतं नित्यं कर्म मङ्गलं चालङ्करणं येन । अभ्यवादयद् वादयाम् आस ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मधु क्षौद्रं तद्वदास्वादजनकमक्षरवृंद, पाठान्तरे मधुच्युताम् इति । मङ्गलं भूषणादावप्यस्तीति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नियोज्याः किङ्कराः । मधु च्यवते स्रवतीति मधु-च्युत् तां, मधु-च्युतम् इति पाठे मधु-च्युतं यस्यां ताम् । अभ्यवादयत् वाचयामास ॥२८॥


॥ ४.१२.२९ ॥

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च ।

इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव रूपं हिरण्मयं प्रकाश-बहुलं बिभ्रत् सन्न् इयेष ऐच्छत् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव रूपं हिरण्मयं शुद्ध-सत्त्व-तेजो-विशेष-रूपम् ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :परीत्य विमानं प्रदक्षिणीकृत्य, अभ्यर्च्य गन्ध-पुष्पादिभिर् "भगवद्-विमानाय नमः" इति सम्पूज्य, तद् एव स्वीयं रूपं हिरण्मयं तेजो-बहुलं बिभ्रत् सन् आरोढुम् ऐच्छत् ॥२९॥


॥ ४.१२.३० ॥

तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् ।

मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहं विमानम् । अयं भावः—यदा ध्रुवो विमानम् आरोढुम् ऐच्छत्, तदा मृत्युर् आगत्य प्रणम्योवाच—"हे महाराज ! माम् अङ्गीकुरु ।" उवाच ध्रुवः—"स्वागतं ते, क्षणं तावद् उपविश ।" एवम् उक्त्वा ध्रुवो विष्णोः स्मरणं कृत्वा मृत्योर्मूर्ध्नि पदं दत्त्वा विमानाग्र्यम् आरुरोह ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परीत्य प्रदक्षिणीकृत्य धिष्ण्याग्रं विमानं भगवद्-विमानाय नमः इति पुष्पगन्धादिभिः संपूज्य ॥२९-३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

[अत्र ३.१४.६-स्थ-पद्यं द्रष्टव्यम्।]


॥ ४.१२.३१ ॥

तदा दुन्दुभयो नेदुर् मृदङ्ग-पणवादयः ।

गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दीनां हित्वा कथम् अगं दुर्गमं त्रि-विष्टपं यास्यामीत्य् अन्वस्म्रणरत् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गन्धर्वेषु मुख्यास्तुंबुरुप्रभृतयः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.३२ ॥

स च स्वर्-लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः ।

अन्वसामान्याधिकरणरद् अगं हित्वा दीनां यास्ये त्रि-विष्टपम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दीनं हित्वा कथम् अगं दुर्गमं त्रिपिष्टपं यास्यामीत्य् अन्वसामान्याधिकरणरत् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च ध्रुवः । अत्र भगवता नाहम् एव सत्यसङ्कल्पः किं तु मद्भक्तोपीति भावेन स्फुरितान्तःकरणवृत्तिविशेषो ध्रुव एतादृशं पुत्रं सूतवत्याः स्वकृते त्यक्तविषयभोगायाः सुनीतेः पुत्रेण सह देवलोकाप्तिर्नअभूत्स्वयं च नास्मार्षीद् इति लोकापवादं मन्वान इव यदा स्वमातरमस्मार्षीत्तदा कैटभारेः सङ्कल्पज्ञानवन्तौ पार्षदौ तस्य पुरतो यान्तीं दर्शयामासतुर् इति ध्रुवस्य सत्यसङ्कल्पत्वं ज्ञापितम् इति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्मिन् समये मातुः स्मरणं न मोहकरम्, अपि तु मातुर् उपदेशाद् एव ममेदं सौभाग्यम् इति कृत्वा उपदेष्टृत्वेनैव तस्याम् आदर इत्य् आह—स च स्वर्-लोकम् आरोक्ष्यन्न् इत्य्-आदि । स्वः स्वर्गीया लोकास् तैर् लोक्यत इति स्वर्-लोको विष्णु-पदम् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अगं सर्वागम्यं त्रिपिष्टपं विष्णु-पदम् ॥३२॥


॥ ४.१२.३३ ॥

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।

दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यवसितम् अभिप्रायम् । व्यवसाय ज्ञात्वा ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यवसायेति । न ल्यपि इत्य् उक्तेर्नेत्वं, विमाने देवमार्गे च देवयानं सुरार्चने इति निरुक्तिः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देवीं ध्रुववद् धिरण्मय-स्वरूपाम् इत्य् अर्थः ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यवसितम् अभिप्रायम् । व्यवसाय ज्ञात्वा ॥३३॥


॥ ४.१२.३४ ॥

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः ।

अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : [+++]{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ग्रहान्सूर्यचन्द्रादीन् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.३५ ॥

त्रि-लोकीं देव-यानेन सोऽतिव्रज्य मुनीन् अपि ।

परस्ताद् यद् ध्रुव-गतिर् विष्णोः पदम् अथाभ्यगात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-यानेन देव-मार्गेण विमानेनेति वा । मुनीन् सप्त-र्षीन् अपि । ततः परस्ताद् यद् विष्णोः पदां तद् अभ्यगात् । ध्रुवा गतिर् यस्य सः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ मङ्गले ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनीनां सप्तर्षीन् अपि । ततः परस्तात् यद् विष्णोः पदं तद् अभ्यगात् । ध्रुवा गतिर् यस्य सः ॥३५॥


॥ ४.१२.३६ ॥

यद् भ्राजमानं स्व-रुचैव सर्वतो

लोकास् त्रयो ह्य् अनु विभ्राजन्त एते ।

यन् नाव्रजन् जन्तुषु येऽननुग्रहा

व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् भ्राजमानम् अनु यस्य रुचा लोका विभ्राजन्ते । येऽननुग्रहा निष्कृपास् ते यन् नाव्रजन् न गतवन्तः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् भ्रजमानं यत् पश्चात् यस्य रुचा लोका विभ्राजन्ते ॥३६॥


॥ ४.१२.३७ ॥

शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः ।

यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अच्युतः प्रियो बान्धवो येषाम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अच्युत एव प्रिय-बान्धवो येषाम् । अच्युतस्य पदं तत्-सनाथं लोकम् । अच्युत-शब्दावृत्त्या फलस्य केनाप्य् अंशेन व्यभिचारित्वं नेति दर्श्यते ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.३८-३९ ॥

इत्य् उत्तानपदः पुत्रो ध्रुवः कृष्ण-परायणः ।

अभूत् त्रयाणां लोकानां चूडा-मणिर् इवामलः ॥

गम्भीर-वेगोऽनिमिषं ज्योतिषां चक्रम् आहितम् ।

यसामान्याधिकरणिन् भ्रमति कौरव्य मेढ्याम् इव गवां गणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिमिषम् अनलसं ज्योतिषां चक्रं यसामान्याधिकरणिन्न् आहितम् अर्पितं सद् भ्रमति । मेढ्याम् आहितो गम्भीर-वेगो गवां गण इव ॥३८-३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्पदाधिकारिणो\ऽन्वयव्यतिरेकाभ्याम् आह—यद् इति । भद्राणि हरिभजनादीनि ॥ यस्मिन्नित्यनेनोपरि प्रतीतिं वारयति मेढीसमीपे तथा परितो गवां गणः तथात्रापीत्य् अर्थः ॥३६-३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिमिषं जाग्रद् एव काल-रूपं गम्भीर-वेगो गवां गण इव ॥३८-३९॥


॥ ४.१२.४० ॥

महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।

आतोद्यं वितुदञ् श्लोकान् सत्रेऽगायत् प्रचेतसाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आतोद्यं वीणां वितुदन् वादयन् प्रचेतसां ब्रह्म-सत्रे भगवन्-माहात्म्य-प्रसङ्गेन ध्रुव-महिम-प्रतिपादन-परांस् त्रीन् श्लोकान् अगायत् ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आतोद्यं वाद्यमिष्यते इति हलायुधोक्तेर्नारदस्य वीणैव वाद्यम् ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नारदो हि मद्-उपदेशाद् अयम् ईदृशो भाग्यवान् अभूद् इत्य् आत्मनस् तं प्रति शिष्य-वात्सल्यात् प्रिय-पुत्रस्य पितेव महिमानं गायति सामान्याधिकरणेत्य् आह—महिमानं विलोक्येत्य्-आदि बहुभिः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आतोद्यं वीणां विनुदन् वादयन् ॥४०॥


॥ ४.१२.४१ ॥

नारद उवाच—

नूनं सुनीतेः पति-देवतायास्

तपः-प्रभावस्य सुतस्य तां गतिम् ।

दृष्ट्वाभ्युपायान् अपि वेद-वादिनो

नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नूनम् इति । पतिर् एव देवता यस्यास् तस्याः सुतस्य यस् तपः-प्रभावः, तस्य तां गतिं फलम् अधिगन्तुं वेद-वाद-शीला ब्रह्मर्षयोऽपि नैव प्रभवन्तिअभ्युपायान् भगवद्-धर्मान् दृष्ट्वापिकिं पुनर् नृपाः ? ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभ्युपायान् अन्तरङ्ग-साधनानि ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नूनम् इति । तां गतिं दृष्ट्वापि तस्य अभ्युपायान् अन्तरङ्ग-साधनान्य् अप्य् अधिगन्तुं वेद-वादन-शीला ब्रह्मर्षयोऽपि नैव प्रभवन्ति, किम् उत ताम् ? यद्यप्य् एवं तेऽपि न तर्हि किम्-उततरां नृपा इत्य् अर्थः । "दृष्ट्वाभ्युपायाति" इति चित्सुखः ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपः-प्रभाव-रूपस्य सुतस्य तां प्रसिद्धां पतिं फलं दृष्ट्वापि तस्या अभ्युपायान् अन्तरङ्ग-साधनान्य् अप्य् अधिगन्तुं न प्रभवन्ति, किम् उत ताम् । यद्य् एवं तेऽपि, न । तर्हि किम् उततरां नृपा इत्य् अर्थः ॥४१॥


॥ ४.१२.४२ ॥

यः पञ्च-वर्षो गुरु-दार-वाक्-शरैर्

भिन्नेन यातो हृदयेन दूयता ।

वनं मद्-आदेश-करो ञ्जितं प्रभुं

जिगाय तद्-भक्त-गुणैः पराजितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तपः-प्रभावं गतिं च विशिनष्टि द्वाभ्याम् । गुरु-दाराः पितृ-पत्नी सुरुचिः, तस्या वाक्-शरैर् भिन्नेनात एव दूयता हृदयेन वनं यातः सन्न् अजितम् अपि या जिगाय वशीकृतवान् ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दूयता तप्यमानेन टुदु-उपतापे । तत्पूर्वोक्तं मधुवनं यातः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दूयता दूयमानेन ॥४२॥


॥ ४.१२.४३ ॥

यः क्षत्र-बन्धुर् भुवि तस्याधिरूढम्

अन्व् आरुरुक्षेद् अपि वर्ष-पूगैः ।

षट्-पञ्च-वर्षो यद् अहोभिर् अल्पैः

प्रसाद्य वैकुण्ठम् अवाप तत्-पदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्याधिरूढं तेन प्राप्तं पदं यो भुवि क्षत्र-बन्धुः क्षत्रियो भवेत्, स तम् अनु वर्ष-समूहैर् अप्य् आरोढुम् इच्छेद् अपि किम् । तत् सङ्कल्पोऽप्य् अशक्यो दूरत आरोहणम् इत्य् अर्थः । कथं-भूतं पदम् ? षड् वा पञ्च वा वर्षाणि यस्य सः । अल्पैर् एवाहोभिर् वैकुण्ठं प्रसाद्य यत् तस्य पदम् अवाप तत् ॥४३॥


**जीव-गोस्वामी (क्रम-सन्दर्भः) : “**यः” इत्य् अत्र “कः” इति क्वचित् चित्सुख-सम्मतश् च, किन्तु स्वाम्य्-असम्मतः ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षत्र-बन्धुः क्षत्रियोत्तमोऽपि तम् अपेक्ष्य क्षत्रियाधमो यः तस्य रूढः पदम् अनु पश्चाद् आरोढुम् इच्छेत् सकिं वर्ष-समूहैर् अपि आरोहेद् इति शेषः । यद् यसामान्याधिकरणात् षड् वा पञ्च वा वर्षाणि वयांसि यस्येति वयः-शब्दस्य वृत्ताव् अन्तर्भावः ॥४३॥


॥ ४.१२.४४ ॥

मैत्रेय उवाच—

एतत् तेऽभिहितं सर्वं यत् पृष्टोऽहम् इह त्वया ।

ध्रुवस्योद्दाम-यशसश् चरितं सम्मतं सताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्दामम् उत्कृष्टं यशो यस्य ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एतद् इति युग्मकम् । यत् पृष्टोऽहम् इत्य् अनुसारेण ध्रुवस्य चरितम् अपि पृष्टम् इत्य् अवगन्तव्यम् ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.४५-४६ ॥

धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्-अयनं महत् ।

स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघ-मर्षणम् ॥

श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् ।

भवेद् भक्तिर् भगवति यया स्यात् क्लेश-सङ्क्षयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धनादेर् निमित्तम् । ध्रौव्यं ध्रुव-स्थान-प्रापकम् । प्रशस्यं प्रशंसार्हम् । अघ-मर्षणं पाप-नाशनम् ।

अच्युत-प्रियस्य ध्रुवस्य चेष्टितं श्रुत्वा यो वर्तते तस्य भक्तिर् भवेत् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षत्रेण क्षतत्राणेन बध्नाति दस्युगणानिति क्षत्रबन्धुः । क्षत्रियोत्तमो\ऽपि कस्तत्पदं प्राप्तुं शक्नुयाद् इति । इत्य् अर्थ इति । तत्पदारोहणसङ्कल्पस्याप्यशक्तत्वे कुतस्तदारोहणम् इति भावः । गर्भापेक्षया षडित्य् उक्तिरस्ति सर्वज्ञशिरोमणेश्रीव्यासदेवस्य संशयानुपपत्तेः । यद्वा—पडिति पृथक्पदम् एव यः पञ्चवर्ष इति पूर्वश्लोकानुरोधात्, तच्चाहोभिरित्यन्तेनान्वेति प्रथमान्तम् अपि तृतीयार्थे\ऽस्ति, अहश्चात्रोपलक्षणं रात्रेर् अपि स चाहोरात्रो\ऽप्य् अत्र पैत्रो ग्राह्यः । पैत्रो मासेनेत्यमरोक्तेः । मासैरहं षड्भिरमुष्य पादयोः इति ध्रुवोक्तेः । यद्वा—कियद्वर्षोयं बाल इति केनचित्पृष्टो बालपिता यथा पञ्चषडब्दोयमित्युत्तरयति तथा लोकोक्तिवदियमुक्तिर्ज्ञेयेति ॥ यथा भक्त्या । क्लेशानामविद्यादीनां क्षयः ॥४३-४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धनादि-कामनावतां धन्यम् इत्य् आदि ध्रौव्यं ध्रुव-स्थान-प्रापकं सुमनसो देवास् तद्-अर्हं तेऽप्य् एतत् श्रोतुं वक्तुं चार्हन्तीत्य् अर्थः श्रुत्वा स्थितस्येति शेषः ॥४५-४६॥


॥ ४.१२.४७ ॥

महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।

यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तीर्थं महत्त्वावाप्ति-स्थानम् । गुणा यत्र भवन्ति ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :

तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजः सु च ।

अवतारर्षिजुष्टांबुपात्रोपाध्यायमन्त्रिषु ॥ इति मेदिनी ।

तदिच्छूनां तेज आकाङ्क्षमाणानां यत्र यस्मिंश्चरिते\ऽभ्यस्यमाने तेजो भवतीत्य् अर्थः । मनस्विनां मानेप्सूनां मानः पूजा च भवति । यद् वा, मनस्विनां स्थिरचेतसां मध्ये मानो\ऽस्य श्रोतुर्वक्तुर्वा भवतीत्य् अर्थः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तीर्थम् इदं कारणं यत्र श्रुते सति ॥४७॥


॥ ४.१२.४८-४९ ॥

प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् ।

सायं च पुण्य-श्लोकस्य ध्रुवस्य चरितं महत् ॥

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।

दिन-क्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समवाये सभायाम् ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समवायः समूहे च संबन्धे\ऽपि निगद्यते इति ॥ सिनीवाल्यां दृष्टेंदुकलायाममावस्यायां श्रवणर्भस्य हरिंदेवताकत्वेन पर्वत्वमस्तीति दिनक्षये\ऽवमदिने । व्यतीपाते विष्कंभाद्यन्तर्गते योगविशेषे । यद्वा—

श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके ।

यद्यमा रविवारेण व्यतीपातः स उच्यते ॥

नागदैवतमाश्लेषा मस्तकं मृगशिरः, प्रथमपाद इत्यन्ये । स च सर्वेषाम् इत्य् उक्तलक्षणे सङ्क्रमे रविसङ्क्रान्तौ अपिनान्यस्मिन्नपि पुण्यकाले चूडामण्यादियोगे सप्तम्यां रविवारेण योगश्चूडामणिस्मृतः इत्याद्युक्तेः ॥४८-४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रयत इति युग्मकम् ॥४८-४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१२.५० ॥

श्रावयेच् छ्रद्दधानानां तीर्थ-पाद-पदाश्रयः ।

नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मनसा परमात्मानं प्रति सन्तुष्टः ॥५०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नेच्छन् निष्कामस् तत्र श्रवणे आत्मनैवात्मानं प्रति सन्तुष्टो भवतीति हेतोः सिद्धिं प्राप्नोति ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रद्दधानानाम् इति द्वितीयार्थे षष्ठी । निष्कामस्तद्वेतनं किम् अपि द्रव्यं न प्रतिगृह्णन् तत्र हेतुरात्मानं प्रत्यात्मनैव सन्तुष्टः मत्कथ्यमानां कृष्णकथां भक्ताः श्रद्धया शृण्वन्त्वित्येतद् एव मम वेतनम् इति मन्यमानः, इत्यत एव सिद्धिं सर्वाभीष्टनिष्पत्तिं प्राप्नोति ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रद्दधानानाम् इति द्वितीयथार्थे षष्ठी । नेच्छन् तद् वेतनं किम् अपि द्रव्यं न प्रतिगृह्णन् । तत्र हेतुः—आत्मानं प्रति आत्मनैव सन्तुष्टः । तत्र श्रावणे मत्-कथ्यमानां कृष्ण-कथां भक्तः श्रद्धया शृणोतीत्य् एतद् एव मम वेतनम् इति मन्यमान इति । अत एव सिद्धिं प्राप्नोति ॥५०॥


॥ ४.१२.५१ ॥

ज्ञानम् अज्ञात-तत्त्वाय यो दद्यात् सत्-पथेऽमृतम् ।

कृपालोर् दीन-नाथस्य देवास् तस्यानुगृह्णते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सत्-पथे भगवन्-मार्गेऽमृत-रूपं ज्ञानं यो दद्यात् ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीवनिस्तारकं किम् अपि ज्ञानं श्रावयत एव महाफलं किमुतेदृग्भक्तध्रुवचरितमित्याशयेनाह—किं च इति । तस्य भागवतज्ञानदातुर्न केवलं भगवानेवानुगृह्णाति किं तु तदिन्द्रियाभिमानिनो देवा दिग्वातार्कप्रचेताश्विवह्नीन्द्रोपेन्द्रमित्रकाः इत्य् उक्ता अप्यनुगृह्णन्तीत्य् अर्थः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानम् इति । सत्-पथे सन्-मार्गान्तर्-मुख-जननाय । य इति क्वचिन् नास्ति ॥५१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीव-निस्तारकं किम् अपि ज्ञानं श्रावयत एव महा-फलं किम् उत ध्रुव-चरितम् इत्य् आह—ज्ञानेति ॥५१॥


॥ ४.१२.५२ ॥

इदं मया तेऽभिहितं कुरूद्वह

ध्रुवस्य विख्यात-विशुद्ध-कर्मणः ।

हित्वार्भकः क्रीडनकानि मातुर्

गृहं च विष्णुं शरणं यो जगाम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्रुवस्य चरितं मया तेऽभिहितम् । मातुर् गृहं च हित्वा ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् अपि तन्माहात्म्यं सूचयन्नुपसंहरति । शुद्धकुलप्रादुर्भूतत्वेन श्रद्दधानत्वात्त्वमेतच्छ्रावणयोग्योसीत्यभिप्रायेणाह—कुरुद्वहेति । अर्भको बालः सन् ॥५२॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे द्वादशो\ऽध्यायः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्थे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

ध्रुव-चरितं नाम द्वादशोऽध्यायः ।

॥ ४.१२ ॥


(४.१३)


  1. उत्तमैः सनकादिभिर् गीयते इत्य् उत्तमगायः । उत्तम-भावः इति विजय-ध्वजस्य पाठः । ↩︎

  2. एतत् पद्यं भक्ति-रसामृत-सिन्धौ (२.१.३८२) उदाहृतं, तत्र श्री-जीव-विश्वनाथाभ्यां व्याख्यातं च ॥ ↩︎