अथैकादशोऽध्यायः
विषयः
स्वायम्भुव-मनु-कृतं ध्रुवस्य सान्त्वनं युद्ध-विरामश् च ।
॥ ४.११.१ ॥
मैत्रेय उवाच—
निशम्य गदताम् एवम् ऋषीणां धनुषि ध्रुवः ।
सन्दधेऽस्त्रम् उपस्पृश्य यन् नारायण-निर्मितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एकादशे तु यक्षाणां क्षयं दृष्ट्वा मनुः स्वयम् ।
आगत्य वारयामास ध्रुवं तत्त्वोपदेशतः ॥
एवं गदतां वचनम् उपदेशम् इव निशम्य । उपस्पृश्याचम्य यन् नारायण-निर्मितं नारायणास्त्रं तत् सन्दधे ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्त्वोपदेशतः ज्ञानोपदेशेन आसुरमायानाशे समर्थं नारायणास्त्रम् एवेति जानन्ध्रुवो मुनिभिरप्येतद् एवोपदिष्टम् इति तदस्त्रं सन्दधे ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम्बन्धोक्ति-मते त्व् अत्राध्यायो नास्ति । चतुर्थ-स्कन्धश् चोनत्रिंशत्य्-अध्यायात्मक इति ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
यक्षाणां क्षयम् आलक्ष्य मनुर् एकादशे ध्रुवम् ।
तद्-वधाद् वारयामास शास्त्र-तत्त्वोपदेशतः ॥
ऋषीणां वचः ॥१॥
॥ ४.११.२ ॥
सन्धीयमान एतस्मिन् माया गुह्यक-निर्मिताः ।
क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्लेशा रागादयो यथा ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतस्मिन्नारायणास्त्रे योजिते सति क्लेशाः पञ्च अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः इति पतंजलिसूत्रात् । विदुरेति । यथा तव वेदनशीलस्य क्लेशो नास्तीत्यभिप्रायः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतस्मिन् नारायणास्त्रे ॥२॥
॥ ४.११.३ ॥
तस्यार्षास्त्रं धनुषि प्रयुञ्जतः
सुवर्ण-पुङ्खाः कलहंस-वाससः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तस्यार्षास्त्रम् ऋषेर् नारायणाद् उद्भूतम् अस्त्रं प्रयुञ्जतः सन्दधतः सतः । सुवर्ण-मयाः पुङ्खा मूल-प्रान्ता येषाम् । कल-हंसानां वासांसि पक्षा येषाम् । शरा विनिःसृता इति द्रष्टव्यम् । उपरिष्टाच् छिली-मुख-ग्रहणात् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यास्त्रस्य फलम् आह—किं चेति । सुवर्णालङ्कृताः पुङ्खा ज्यानुसन्धानप्रदेशाः येषां ते तथा । वस-आच्छादने वस्त आत्मानमनेनेति वासस्तेन पक्षा लक्ष्यन्ते, कलहंसानां वासांसि पक्षा इव पक्षा येषां ते कलहंसवाससः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भीमरवा इति शराणाम् एव विशेषणम् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आर्षास्त्रम् ऋषेर् नारायणस्यास्त्रं पुङ्खा मूल-प्रान्ता वासांसि पक्षा विनिःसृताः शरा इति शेषः ॥३॥
॥ ४.११.४ ॥
तैस् तिग्म-धारैः प्रधने शिली-मुखैर्
इतस् ततः पुण्य-जना उपद्रुताः ।
तम् अभ्यधावन् कुपिता उदायुधाः
सुपर्णम् उन्नद्ध-फणा इवाहयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रधने युद्धे उन्नद्धा उच्छ्रिताः फणा येषां ते सर्पाः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तिग्मं तीक्ष्णं खरं तद्वत् इत्य् अमरः । तं ध्रुवम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.११.५ ॥
स तान् पृषत्कैर् अभिधावतो मृधे
निकृत्त-बाहूरु-शिरोधरोदरान् ।
निनाय लोकं परम् अर्क-मण्डलं
व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृषत्कैर् बाणैर् निकृत्ता बाह्व्-आदयो येषां तान् । परं लोकं निनाय । कथं भूतम् ? ऊर्ध्व-रेतसः सन्न्यासिनोऽर्क-मण्डलं निर्भिद्य यं व्रजन्ति तम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स तान् परं सत्यलोकं, भगवद्-भक्तहस्तमृतितो विशिष्टस्वर्गिणो बभूवुः आब्रह्मभुवनाल्लोकाः पुनर् आवर्तिनो\ऽर्जुन इति गीतोक्तेरावर्त्तयिष्यत एव तेन तु संन्यासिसाहचर्यात्तेषां मुक्तिर्व्याख्येया । स्वयं भगवन्तं श्री-कृष्णं विना सङ्ग्राममृतानां कालनेम्यादीनामवतारान्तरेभ्यो\ऽपि मोक्षाश्रवणादर्शनाभ्याम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परं सत्याख्यं लोकम् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृषत्कैर् वाणैर् निकृत्त-बाह्व्-आदीन् तान् परं सत्य-लोकं निनाय यं लोकम् ऊर्ध्व-रेतसः सन्न्यासिनोऽर्क-मण्डलं निर्भिद्य व्रजन्तीति भगवद्-भक्त-हस्त-मृत्युतो विशिष्ट-स्वर्गिणस् ते बभूवुः । आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन [गीता ८.१७] इति श्री-गीतोक्तेर् आवर्तिष्यन्त एव ते । न तु सन्न्यासि साहचर्येण तेषां मुक्तिर् व्याख्येया । स्वयं भगवन्तं श्री-कृष्णं विना सङ्ग्रामम् ऋतानां कालनेम्य्-आदीनाम् अवतारान्तरेभ्योऽपि मोक्षादर्शनात् ॥५॥
॥ ४.११.६ ॥
तान् हन्यमानान् अभिवीक्ष्य गुह्यकान्
अनागसश् चित्र-रथेन भूरिशः ।
औत्तानपादिं कृपया पितामहो
मनुर् जगादोपगतः सहर्षिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् अनागसो निरपराधान् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चित्रो\ऽद्भुतो रथान्तरविलक्षणो रथो गमनसाधनसाधर्भ्याद्धरिपदप्रापकस्तपोविशेषो यस्य स चित्ररथः । यद्वा—चैत्ररथं कुबेरोद्यानं गतो यक्षनाशमुद्दिश्येति चित्ररथः अत्रार्षत्वाद्भूत भव्यवृद्ध्यथभावो\ऽण् प्रत्ययश् च गतार्थे, तथा च ध्रुव इति निर्णीतम् । यद्वा—चित्ररथेन विमानेनर्षिभिः सहोपयातो मनुर् इति योज्यम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.११.७ ॥
मनुर् उवाच—
अलं वत्सातिरोषेण तमो-द्वारेण पाप्मना
येन पुण्य-जनान् एतान् अवधीस् त्वम् अनागसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमसो नरकस्य द्वारेण । येन रोषेण ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.११.८ ॥
नास्मत्-कुलोचितं तात कर्मैतत् सद्-विगर्हितम्
वधो यद् उपदेवानाम् आरब्धस् तेऽकृतैनसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सेति । वत्सोपलक्षितवृषभाणामतिरोषो भवति तद्वत्तव ह्ययुक्तस्तत्साम्यावाप्तेरित्य् आह । यद् वा, प्रियत्वात्त्वामहं वारयामीत्यभिप्रायः । तमो-द्वारेण यथार्थज्ञानप्रतिबन्धकत्वेन मोक्षनिरोधकत्त्वात्संसारहेतुनेत्य् अर्थः ॥७-८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपदेवानां यक्षाणाम् ॥८॥
॥ ४.११.९ ॥
नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः
भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृ-वत्सल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मद्-भ्रातृ-हन्तारः कथम् अकृतैनसोऽत आह—नन्व् इति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपतिनन्वकृतापराधत्वं कथं भ्रातवधलक्षणापराधप्रसिद्धेर् इति चेत्तत्राह—नन्व् इति । ननु निश्चये एकस्य त्वद्-भ्रातृहन्तुर्यक्षस्यापराधेन तत्सङ्गाद्धेतोरित्य् अर्थः । भ्रातृवत्सलेति । भगवद्-भक्तस्य सर्वत्र भगवन्तं पश्यतस्तव देहसंबन्धिषु देहेषु स्नेहो नोचितः, किन्तु सर्वत्रैवेति भावः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु निश्चितम् एकस्य त्वद्-भ्रातृ-हन्तर् यक्षस्यापराधेन तत्-सङ्गात् तत्-सङ्ग-हेतोर् इत्य् अर्थः ॥९॥
॥ ४.११.१० ॥
नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम्
यद् आत्मानं पराग् गृह्य पशुवद् भूत-वैशसम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्य् अप्य् अपराधे तवैतद् उचितं न भवतीत्य् आह—नायम् इति । पराग् गृह्य पराग् भूतं देहम् आत्मानं गृहीत्वा पशवो यथा देहाभिमानाद् अन्योन्यं घ्नन्ति तथा भूतानां वैशसं हिंसेति यत् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उक्तमर्थं विशदयन्नाह व्यावहारिकस्नेहपारवश्यं भक्तानां नोचितं किं पुनस्तेन परहिंसेत्यभिप्रायेण स्वाम्याह—सत्यपीति । एतद्यक्षहिंसनं पराग्भूतं जडम् आत्मानं गृहीत्वात्मत्वेन मत्वा पशवो मूढाः पशुर्मूढे वृषादौ च देवदेयबलौ तथा इति निरूक्तिः । परेति पाठे परा-निराकरणेर्थे आत्मानमगृहीत्वाज्ञात्वेत्य् अर्थः । हृषीकेशानुवर्तिनां सर्वत्रान्तर्यामित्वेन भगवन्तं पश्यताम् । इति यत् अयम् इति विधेयापेक्षं पुंस्त्वम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यवहारिक-स्नेह-पारवश्यं भक्तानाम् अनुचितं किं पुनस् तेन पर-हिंसेत्य् आह—नायम् इति । यद् आत्मानं देहं पराग्-गृह्य पराग्-भूतम् आत्मत्वाभिमानेन गृहीत्वा पशवो यथा देह-सम्बन्धेनान्योन्यं घ्नन्ति, तथा भूतानां वैशसं हिंसेति यत्, छन्दसि क्त्वो ल्यप् । पराग् गृह्येति पाठे परेति निषेध्य्-अर्थकम् । जीवात्मानम् अगृहीत्वेत्य् अर्थः ॥१०॥
॥ ४.११.११ ॥
सर्व-भूतात्म-भावेन भूतावासं हरिं भवान्
आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं च बाल्ये साधुः सन्न् इदानीं कथम् अन्यथा कृतवान् इत्य् आह—सर्व-भूतात्म-भावेनेति द्वाभ्याम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हृषीकेशानुवर्तित्वं तस्याप्याह—त्वं चेति! तत्प्रसिद्धम् । भूतेषु प्राणिष्वावासो यस्य भूतान्यावसन्त्यस्मिन्न् इति वा भूतावासस्तम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव तु भक्तेष्व् अप्य् अतिश्रेष्ठस्यैतद् अत्यन्तम् अनुचितम् इत्य् आह द्वाभ्याम् । सर्वेषु भूतेष्व् आत्मनः स्वस्यैव भावो भावना तेन ॥११॥
॥ ४.११.१२ ॥
स त्वं हरेर् अनुध्यातस् तत्-पुंसाम् अपि सम्मतः
कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुध्यातो हरेर् हृदि स्थितो वा । तत् पुंसां हरि-दासानाम् अपि साधुत्वेन मतः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तव तु भक्तेष्वष्यतिप्रियस्यैतदत्यन्तमनुचितम् इत्य् आह । यस्तत्पदमाप स त्वं हरेरनु निरन्तरं ध्यातं ध्यानं यस्मिन्स तथा वात्सल्याद्धरिणापि स्मर्यमाण इत्य् अर्थः । तत्पुंसां नारदादीनाम् अपि संमतः । कृपापात्रीकृतः । सन्दर्भस्तु—तत्पुंसाम् इति हर्यनुसन्ध्यातत्वे\ऽपि न प्रौढिमान् किं तु तद्भक्तजनसंमतिं गृहीत्वैव सर्वमनुष्ठातेत्य् अर्थः । यथोक्तमंबरीषमुद्दिश्य स वै मन इत्यादौ यथोत्तमश्लोकजनाश्रया रतिः, इति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् पुंसाम् अपि सम्मत इति हर्य्-अनुध्यानत्वेऽपि । न प्रौढिमान किन्तु तद्-भक्त-जन-सम्मतिं गृहीत्वैव सर्वम् अनुष्ठातेत्य् अर्थः । यथोक्तम् अम्बरीषम् उद्दिश्य—स वै मन इत्य् आदौ, यथोत्तमश्लोकजनाश्रया रतिः इति ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेर् अनुध्यातः अनु निरन्तरं ध्यातं ध्यानं यस्मिन् सः । वैराग्य्लक्षणाद् धरिणापि स्मर्यमाण इत्य् अर्थः । तत्-पुंसां नारदादीनाम् अपि कृपा-पात्री-भूतः ॥१२॥
॥ ४.११.१३ ॥
तितिक्षया करुणया मैत्र्या चाखिल-जन्तुषु
समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सतां व्रतम् एवाह । महत्सु तितिक्षया, नीचेषु करुणया, समेषु मैत्र्या, अखिलेषु जन्तुषु समत्वेन च ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महत्सु तितिक्षयेति । पूर्वोक्त गुणाधिकान्मुदं लिप्सेत् इति न्यायानुरोधेन ध्येयम् । चक्रवर्ती तु—समत्वेन स्वतुल्यहर्षशोकक्षुत्पिपासादिभावनया । तद् उक्तम्—
आत्मौपम्येन सर्वत्र समं पश्यति यो\ऽर्जुन ।
सुखं वा यदि दुःखं स योगी परमो मतः ॥ इति ।
सर्वात्मेति । सर्वभूतेषु तुष्यत्सु भगवत्तोषो\ऽनुमेय इत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्विषत्सु तितिक्षया हीनेषु करुणया समेषु मैत्र्या, अखिलेषु जन्तुषु समत्वेन सुख-दुःखादिष्व् आत्म-साम्य-ज्ञानेन ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सतां व्रतम् एवाह—महत्सु तितिक्षया नीचेषु करुणया समेषु मैत्र्या एवम् अखिल-जन्तुषु समत्वेन स्वतुल्य-हर्ष-शोक-क्षुत्-पिपासादिमत्त्व-भावनया । यद् उक्तं—
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ [गीता ६.२३] इति ।
सर्वात्मेति स्मरण्स्मृतेषु तुष्यत्सु भगवत्-तोषोऽनुनेय इत्य् अर्थः ॥१३॥
॥ ४.११.१४ ॥
सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः
विमुक्तो जीव-निर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः कृताथा भवतीत्य् आह—सम्प्रसन्ने सति गुणैर् विमुक्तोऽत एव तत् कार्येण जीवेन लिङ्ग-शरीरेण निर्मुक्तः सन् निर्वाणं सुखात्मकं ब्रह्म प्राप्नोति ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस्तितिक्षादिभिर् भगवत्तेषात् । अत एव प्राकृतगुणविमुक्तत्वाद् एव निर्वाणं ज्ञानी चेत्सायुज्यं भक्तश्चेदधोक्षजालंबनकं दास्यम् । अधोक्षजालंबमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधाः इति प्रह्लादोक्तेस्तदा प्राकृतैर्गुणैर्विमुक्तो\ऽप्राकृतैर्विशिष्ट इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मणस् तत्-सुखस्यापि निर्वाणं लयोऽन्तर्-भावो यत्र तत् श्री-भगवत्-सुखम् इत्य् अर्थः । निर्वाण-पदस्य विशेषण-वैयर्थ्यात् ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवेन लिङ्ग-शरीरेण निर्मुक्तः । ब्रह्म-निर्वाणं ज्ञानी चेत् सायुज्यं, भक्तेश् चेत् अधोक्षजालम्बनकं दास्यं, अधोक्षजालम्बनम् इहेत्य् अत्र तद् ब्रह्म निर्वाण-सुखं विदुर् बुधा इति प्रह्लादोक्तेस् तदा प्राकृतैर् गुणैर् विमुक्तः, अप्राकृतैस् तु विशिष्ट इत्य् अर्थः ॥१४॥
॥ ४.११.१५ ॥
भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि
तयोर् व्यवायात् सम्भूतिर् योषित्-पुरुषयोर् इह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रातृ-हन्तृ त्वम् अङ्गीकृत्योक्तम्, इदानीं तु नात्मनो भ्रातृ-पुत्रादि-संबन्धो न चान्योन्यं हन्तृत्वादि कम् अपीत्य् आह—भूतैर् इति दशभिः । भूतैः पञ्चभिर् आरब्धैर् देहाद्य्-आकारेण परिणतैर् योषित्-पुरुषश् चेति प्रसिद्धिः तयोर् व्यवायान् मैथुनात् संभूतिर् अन्ययोर् योषित्-पुरुषयोर् इह संसारे भवति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं भ्रातृहन्तृत्वं यक्षाणामङ्गीकयोक्तमिदानीं तु विचार्यमाणे तु वस्तुनि कः कस्य हन्ता वध्यो वेत्याह—नात्मन इत्य्-आदिना ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वस्तुनि विचार्यमाणे तु कः कस्य हन्ता बध्यो वेत्य् आह दशभिः । भूतैः पृथिव्यादिभिर् आरब्धैर् देहैर् योषित् पुरुषश् च तयोर् व्यवाहादन्ययोर् योषित्-पुरुषयोः संभूतिर् उत्पत्तिर् भवति ॥१५॥
॥ ४.११.१६ ॥
एवं प्रवर्तते सर्गः स्थितिः संयम एव च
गुण-व्यतिकराद् राजन् मायया परमात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावत् सर्गः प्रवर्तते । एवं पालकाकारेण परिणतैर् भूतैर् एव स्थितिः । हन्तृ-देहाकार-परिणतैः संयमः संहारः, स च परमात्मनो मायया गुणानां व्यतिकरात्, न तु स्वतः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पालकाकारेण नृपाद्याकारेण हन्तृदेहा दस्युव्याघ्रसर्पाद्यास्तदाकारेण परिणतैर्नाशश् च व्यतिकरादन्यतमाधिक्यात् रजसा सर्गः सत्त्वेन स्थितिस्तमसा संहार इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एति भावःभावैर् यथा सर्गः प्रवर्तते तथा तैर् एव पितृ-मात्र् :अद्य्-आकारैः स्थितिः पालनं तैर् एव दस्यु-व्याघ्र-सर्पाद्य्-आकारैः संयमो नाशश् च । तत्र किं च परमात्मनो मायया गुण-व्यतिकराद् एव, न तु स्वतः । रजसा सर्गः सत्त्वेन स्थितिः तमसाहङ्कार इत्य् अर्थः ॥१६॥
॥ ४.११.१७ ॥
निमित्त-मात्रं तत्रासीन् निर्गुणः पुरुषर्षभः
व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
हरिर् अक्लिष्ट-कर्मत्वाद् अयस्कान्तवद् उच्यते ।
काम-कर्म-स्वभावेषु काले चावस्थितो हरिः ।
सर्व-कारण-भूतः सन् तत्-तन्-नामभिधीयते ॥ इति सत्य-संहितायाम् ॥१७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु जडानां देहानां गुणानां वा कथं सर्गाद्-हेतुत्वम् ? तत्राह—निमित्त-मात्रं पुरुषर्षभ ईश्वरः । यत्र यस्मिन् निमित्ते सति कार्य-कारणात्मकं विश्वं भ्रमति परिवर्तते । यथाऽयस्कान्ते निमित्ते सति लोहं प्रवर्तते तद्वत् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् अत्राक्षिपति—नन्व् इति । प्रवर्तते जडम् अपि चेतनीभवति लोहं प्रवर्तते तद्वद्यथा निश्चेष्टम् अपि सचेष्टं भवतीत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु जडानां योषित्-पुरुषादि-देहानां गुणानां वा चैतन्याधिष्ठानं विना कथं सर्गादि-हेतुत्वं तत्राह—निमित्त-मात्रं पुरुषर्षभ ईश्वरोऽधिष्ठाता यत्र यस्मिन् निमित्ते सति कार्य-कारणात्मकं विश्वं भ्रमति जडम् अपि चेतनीभवत् देव-मनुष्यादि-रूपेण तथा तथा परिवर्तते । यथा अयस्कान्ते निमित्ते सति लौहं निश्चेष्टम् अपि स-चेष्टं भवति ॥१७॥
॥ ४.११.१८ ॥
स खल्व् इदं भगवान् काल-शक्त्या
गुण-प्रवाहेण विभक्त-वीर्यः ।
करोत्य् अकर्तैव निहन्त्य् अहन्ता
चेष्टा विभूम्नः खलु दुर्विभाव्या ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु स चेन् निमित्तं, तर्हि तस्याविशेषाद् युगपद् एव सर्गादि-त्र् अयं भवेत् । अत आह—स खल्व् इति । काल-शक्त्या क्रमेण गुणानां प्रवाहः क्षोभस् तेन विभक्तं सृष्ट्य्-आदि-विषयं वीर्यं शक्तिर् यस्य । ननु कालोऽपि गुणान् युग-पद् एव क्षोभयतु तत्राह । चेष्टा काल-शक्तिर् दुर्विभाव्या चिन्त्या ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनः प्रतिवन्द्याक्षिपति—नन्व् इति । करोतीति गुणकालजीवानां तच्छक्तित्वेन तद्भेदाभावात्स एवोपादानकारणं स एव निमित्तकारणं चेत्य् अर्थः । अकर्तेति । तेषां गुणादीनां स्वरूपभूतत्वाभावात् एवं हन्तेत्यहन्तेत्यपि । अत्र पुनर् आक्षिपति—ननु विश्वं किमर्थं करोति सर्वदा किं न करोतीति विषमं किं करोतीति सर्वाक्षेपपरिहारार्थम् आह चेष्टेति—अचिन्त्यातर्क्या ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शक्तीनां क्रमेण प्रवर्तनया कर्तृत्वादित्वेऽपि अकर्तृत्वादिना च चेष्टाया दुर्विभाव्यत्वं ज्ञेयम् ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स चेन् निमित्तं, तर्हि तस्याविशेषाद् युगपद् एव सर्गादि-त्र् अयं भवेत् । मैवं रजः-सत्त्व-तमसां काल-शक्त्या क्रमेणैव क्षोभो भवति, न तु युगपद् अतः क्रमेणैव सर्गादि-त्र् अयं भवतीत्य् आह—स खल्व् इति । काल-शक्त्या क्रमेण गुणानां प्रवाहः क्षोभस् तेन विभक्तम् आत्मनः सकाशात् विभक्तीकृतं वीर्यं चिद्-आभासं जीव-शक्त्य्-आत्मकं माया-शक्ति-प्रविष्टं यस्य सः । करोतीति गुण-काल-जीवानां शक्तित्वेन त्वद्-भेदाभावात् स एवोपादान-कारणं स एव निमित्त-कारणं चेत्य् अर्थः । अकर्तेति तेषां गुणादीनां स्वरूप-भूतत्वाभावात् । एवं निहन्त्यहन्तेत्य् अपि ।
ननु विश्वं किम्-अर्थं करोति सदैव वा किं न करोति विषमं वा किं कओर्तीति । सर्वाक्षेप-परिहारार्थम् आह—चेष्टा दुर्विभाव्या अतर्क्या विभूम्नो विभूत्वाद् इति । एतद् एव तस्य विभूत्वम् इत्य् अर्थः ॥१८॥
॥ ४.११.१९ ॥
सोऽनन्तोऽन्त-करः कालोऽनादिर् आदि-कृद् अव्ययः
जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पित्रादिः सृजति पालयति राजादिर् निहन्ति च चोरादिः, न त्व् ईश्वरः ? तत्राह—स इति । जनेन पित्रादिना जनं पुत्रादिं जनयन्न् आदि-कृत् । अन्तकं चोरादिकं तन् मृत्यु-हेतुना मारयन्न् अन्त-करः । स्वयं त्व् अनन्तोऽनादिश् च । अव्ययोऽक्षीण-शक्तिश् च । अयं भावः—पित्रादयोऽन्यत उत्पत्त्य्-आदिम् अन्तो न स्वातन्त्र्येण कारणं, किं त्व् ईश्वर एव तन्-नियन्ता स सर्व-कारणम् इति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । अत्राशयम् आह—अयं भाव इति । अव्ययः चिन्तामणिरिव सर्वप्रसवितापि व्ययशून्यः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यच् च तस्य विभुत्वं पश्येत्य् आह स स्वयम् अनन्तः नाश-रहितः । अथ चान्येषाम् अन्त-करो नाश-करः, केन रूपेणेत्य् अत आह—कालः । स्वयम् अनादिः जन्म-शून्यः । अथ चान्येषाम् आदिकृत् । अव्ययः चिन्तामणिर् इव सर्व-प्रसवितापि व्यय-शून्यः । स्वयम् एवादिकृद् अपि जनेन पित्रादिना जनं पुत्रादिं जनयन् । स्वयम् एवान्त-कृद् अपि मृत्युना मृत्यु-हेतुना कालाग्नि-रुद्रेण अन्तकं यमम् अपि मारयन् ॥१९॥
॥ ४.११.२० ॥
न वै स्व-पक्षोऽस्य विपक्ष एव वा
परस्य मृत्योर् विशतः समं प्रजाः ।
तं धावमानम् अनुधावन्त्य् अनीशा
यथा रजांस्य् अनिलं भूत-सङ्घाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न चैवं कुर्वतोऽपि वैषम्य-प्रसक्तिः, पक्ष-पाताभावाद् इत्य् आह द्वाभ्याम्—न वा इति । मृत्यु-रूपस्य समं यथा भवति तथा प्रजाः कर्म-भूता विशतः । तस्य साम्येऽपि भूतेषु फल-वैषम्यं, तत् कर्म-वशाद् इति सदृष्टान्तम् आह । तं धावन्तम् अन्व् अनीशाः कर्माधीना भूत-सङ्घा धावन्ति । अनिलं धावन्तम् अनु रजांसीव । तत्र यथा रजसां तमः-प्रकाश-जलाग्न्य्-आदि-प्रवेशेऽपि नानिलस्य वैषम्यम्, एवम् ईश्वरस्यापीति भावः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि विषमः स चेदाह—न चेति । तत्कर्म तथात्वात्तेषां भूतानां कर्मण एव तथात्वाद्वैषम्यजनकत्वात् । इति भाव इति । ईश्वरस्तु—जडानां कर्मणां प्रेरकतया तदनुसारेणैव फलं ददाति न स्वतो\ऽतस् तत्र वैषम्यं नास्तीत्याशयः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनिल-दृष्टान्तस् तथापि साम्यम् इत्य् अत्रांशे धावत्य् अनीशो यथा रजांस्य् अनिलं भूत-सङ्घम् इति चित्सुखः ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चैवं कुर्वतोऽपि वैषम्य-प्रसक्तिः, पक्ष-पाताभावाद् इत्य् आह—न वा इति द्वाभ्याम् । मृत्योर् मृत्यु-रूपस्य समं यथा स्यात् तथा प्रजा विशतः । तस्य साम्येऽपि भूतेषु फल-वैषम्यं तत्-तत्-कर्मणस् तथा-भावाद् इति स-दृष्टान्तम् आह—तं धावन्तम् अन्व् अनीशाः कर्माधीना भूत-सङ्घा धावन्ति । अनिलं धावन्तम् अनुधावन्ति रजांसीव । तत्र रजसां तमः-प्रकाश-जलाग्न्य्-आदि-प्रवेशेऽपि नानिलस्य वैषम्यम्, एवम् ईश्वरस्यापीति भावः ॥२०॥
॥ ४.११.२१ ॥
आयुषोऽपचयं जन्तोस् तथैवोपचयं विभुः ।
उभाभ्यां रहितः स्व-स्थो दुःस्थस्य विदधात्य् असौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपचयम् अकाल-मृत्युम् । उपचयं काल-मृत्योर् अपि रक्षाम् । यद् वा, अपचयं मशकादाव् उपचयं देवादौ । स्व-स्थत्वाद् उपचयापचयाभ्यां रहितोऽसौ विभुर् दुःस्थस्य कर्माधीनस्य विदधाति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आयुर्-आदि-फल-याचकत्वेनान्तादिकर इत्य् उक्तं स्पष्टयति । अकाल-मृत्युं दुर्मृतिं—
शृङ्गि-दंष्ट्रि-गर-व्याल-नीराग्न्य्-उद्गन्धनैस् तथा ।
विद्यान् निर्घात् वृक्षैश् च विप्रैश् चैवात्मना मृताः ॥
व्रण-संजात-कीटाश् च म्लेच्छैश् चैव हता नराः ।
पाप-मृत्यव एवैते ह्य् अन्ये\ऽपि बहवस् तथा ।
दुर्मतिः पाप-मरणम्-अकाल-मरणं तथा ।
पर्याय एव विज्ञेया न कालेन विना मृतिः ॥ इति पराशरादिभिर् उक्तत्वान् ।
काल-मृत्युस् त्व् आयु-पीते स्वभावत एव देह-यातः । हानि-वृद्धि-रूप-प्रसिद्धाक्षरार्थ-त्यागेन तन्त्रातरावलंबनेन चोपचयापचय-पद-व्याख्याने गौरवं मत्वाह—यद्वेति । आदिना दंशादि-ग्रहः । मशकादीनाम् एकस्मिन्न् एव दिवसे\ऽ नेक-जन्म-लाभोपलंभाद् अपचयत्वम् एव । द्वितीयादिना गन्धर्वादि-ग्रहः, देवादीनां यावद्-अधिकार-स्थिति-श्रवणात् स्वस्थत्वात् स्वरूप-स्थितिमत्त्वात् । असाव् इति । प्रकृत-परामर्शी काल-शक्तिर् ईश्वर इत्य् अर्थः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वस्थः स्वानन्द-मग्न एव सन् स्वैरितयैव,न त्व् अन्य-भाव-भावितयेत्य् अर्थः । अतो वैषम्य-नैर्घृण्ये अपि परिहृते ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्राप्य् आयुषोऽपचयं मशकादाव् उपचयं देवादौ । दुःस्थस्य कर्माधीनस्य ॥२१॥
॥ ४.११.२२ ॥
केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप ।
एके कालं परे दैवं पुंसः कामम् उतापरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं भूतश् चेश्वरः सर्व-वादि-सम्मतः, विवादस् तु नाम-मात्र इत्य् आह—केचिद् इति । पुंसः कामं वात्स्यायनादयः । श्रुतिश् च—कामोऽकार्षीत् कामः करोति कामः कर्ता कामः कारयिता इत्य्-आदि ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवंभूत उपचयापचयरहितः । केचिन्मीमांसकाः । अपरे चार्वाकादयः । एके पौराणिकादयः । परे मौहूर्त्तिकाः । दैवं ग्रहादिरूपां देवताम् । अपरे वात्स्यायनादयः । आदिना भारतादिग्रहः । कामस्य सर्वहेतुत्वे प्रमाणम् आह—श्रुतिश्चेति कामः सङ्कल्पः । नृपेति । एते वादा नृपत्वात्तव श्रुतप्राया एव राज्ञां सर्वविधविद्वत्सङ्गस्य सुलभत्वादित्य् अभिप्रायः । अतो ज्ञानाभावात् । इत्य् अर्थ इति । अनेकविधवादस्तत्पदार्थतात्पर्यापरिज्ञानेनैवेति ध्येयम् । वस्तुतस् तु तत्तन्नाम्नैव भेद इति । एनं प्रकृतम् । अन्वादेशत्वादेतद एनदादेशः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : केचिद् एनं कर्मादिकं वदन्तीति । अस्य ये कर्तृत्वादयो धर्मास् तान् कर्मादिष्व् एवारोपयन्तीत्य् अर्थः । दैवं ग्रहादि । कामं सङ्कल्पं दृष्टि-सृष्टि-वादिनः ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि कर्मैव सुख-दुःख-जन्म-मरणादि-कारणम् अस्तु सत्यम् अत्रैवं वादिनो विवदन्तु इत्य् आह—केचिद् इति । केचिन् मीमांसका एनं सुख-दुःख-प्रदं कर्म, अपरे लोकायतिकाः स्वभावम् । एके व्यवहारिकाः कालं, परे ज्योतिषिकाः दैवं, ग्रहादि-रूपां देवतां, अपरे वात्स्यायनादयः कामम् । श्रुतिश् च—कामोऽकार्षीत् कामः करोति कामः कर्ता कामः कारयिता इत्य्-आदि ॥२२॥
॥ ४.११.२३ ॥
अव्यक्तस्याप्रमेयस्य नाना-शक्त्य्-उदयस्य च
न वै चिकीर्षितं तात को वेदाथ स्व-सम्भवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कर्मादीनां जटत्वादिना स्वरूपतोऽपि भिन्नत्वात् कथम् ऐकमत्यं तत्राह—अव्यक्तस्यात एवाप्रमेयस्य । तथापि सत्त्वे हेतुः, नाना-शक्तीनां महद्-आदीनाम् उदयो यस्मात् । चिकीर्षितम् एव तावत् कोऽपि । अथ स्वस्य संभवो यस्मात् तम् ईश्वरं को वेद, न कोऽपि । अद्धेति पाठे साक्षात् । अतस् तत्त्व-ज्ञानाभावाद् विशेषांशे विवाद इत्य् अर्थः । तथा च श्रुतिः—
कोऽद्धा वेद क इह प्रावोचत्
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्-देवा अस्य विसर्जनेनाथा
को वेद यत आबभूव ॥ [ऋ।वे। १०.१२९.१७] इत्य्-आदि ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । अव्यक्तस्य कैर् अपि बल्बुद्ध्यादिभिर्व्यक्तीकर्तुमशक्यस्य अत एव अव्यक्तत्वाद् एव । अप्रमेयस्य प्रत्यक्षादिप्रमाणैः प्रमातुमशक्यस्य नानाशक्तीनां कालकर्मस्वभावकामादीनामुदयो यस्माद् इति । तस्यैकैकां शक्तिमाश्रित्यैव विवदमानानां तेषां शक्तिमति तस्मिन्वस्तुतो नास्त्येव वाद इति भावः । अथास्येत्य् अर्थः । चिकीर्षितम् अपि यस्य न ज्ञायते तस्य ज्ञानं तु कथं स्याद् इति । तद् उक्तं भीष्मेण—
न ह्यस्य कर्हिचिद्राजन्पुमान्वेद विधित्सितम् ।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयो\ऽपि हि ॥ इति ।
तीर्थस्तु—को वेदाद्धास्य संभवम् इति पाठम् आह—को ब्रह्मास्य संभवं वेद सो\ऽप्य् अद्धा न जानातीति व्याचख्यौ च । तदपरिज्ञाने प्रमाणम् आह—तथा चेति । सर्ग उत्पत्तिस्तद्विरुद्धो विसर्गो मृत्युः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चिकीर्षीतम् इच्छा-शक्ति-लेशम् अपि किं पुनः सर्व-शक्त्य्-आश्रयन्तम् इत्य् अर्थः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एषां विवदमानानां मध्ये को व्यवस्थापकः ? तत्र तत्-तन्-मूल-तत्त्व-वस्तुनोऽज्ञानान् नो कोऽपिपि इत्य् आह—अव्यक्तस्य कैर् अपि बल-बुद्ध्यादिभिर् व्यक्ती-कर्तुम् अशक्तस्य । तत्र हेतुः—अप्रमेयस्य प्रत्यक्षादि-प्रमाणैः प्रमातुम् अशक्यस्य नाना-शक्तीनां काल-कर्म-स्वभाव-कामादीनाम् उदयो यस्माद् इति तस्यैकैकां शक्तिम् आश्रित्यैव विवदमानानां तेषां शक्तिम् अति तस्मिन् वस्तुतो नास्त्य् एव विवाद इति भावः । तस्य भगवतश् चिकीर्षितम् एव कोऽपि नो वेद स्वस्य सम्भवो यस्मात् तं को वेद । यद् उक्तं भीष्मेण—
न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् ।
यद् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ [भा।पु। १.९.१६] इति ।
तथा च श्रुतिः—
कोऽद्धा वेद क इह प्रावोचत्
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्-देवा अस्य विसर्जनेनाथा
को वेद यत आबभूव ॥ [ऋ।वे। १०.१२९.१७] इत्य्-आदि ।
॥ ४.११.२४ ॥
न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः
विसर्गादानयोस् तात पुंसो दैवं हि कारणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वर-वादस्य प्रकृतोपयोगम् आह—न चैते भ्रातुर् हन्तारः । उक्तम् एव हेतुम् अनुवदति । विसर्गादानयोर् मृत्यु-जन्मनोः । यद् वा, विसर्गः सृष्टिः । आदानं संहारः । दैवम् ईश्वर एव हि कारणम् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदानमत्र देहस्वीकारः विसर्गस्य सृष्टिपरत्वादादानस्य च संहारपरत्वादाह—यद्वेति । आदानं स्वीकृतौ नाशे विसर्गः सृष्टिदानयोः इति स्वाम्युक्तेः । पुत्रस्य कं सुखं येन स पुत्रकः पौत्रस्तत्संबुद्धौ तथा । तव हिंसादिकर्मपरत्वे तस्य सुखं न स्याद् इति भावः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फलितम् आह—न चैते इति । विसर्गादानयोः सृष्टि-संहारयोः । दैवम् ईश्वरः ॥२४॥
॥ ४.११.२५ ॥
स एव विश्वं सृजति स एवावति हन्ति च
अथापि ह्य् अनहङ्कारान् नाज्यते गुण-कर्मभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि निर्लेपताम् आह—स एवेति ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथापि विसर्गादानयोर्हेतुत्वे\ऽपि कर्दमक्षेत्रप्रवृत्तद् एवदत्तवद् गुणकर्मभिर्गुणकार्यभूतैः सृष्ट्यादिभिरस्य लेपो नास्ति अहं कर्तास्मीत्याद्यभिमानाभावात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथापि तस्य निर्लेपताम् पश्येत्य् आह—स एवेति ॥२५॥
॥ ४.११.२६ ॥
एष भूतानि भूतात्मा भूतेशो भूत-भावनः
स्व-शक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनहङ्कारत्वे हेतुम् आह—एष इति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मायया युक्तः मायया बहिरङ्गत्वेन स्वरूप-शक्तित्वाभावात्तत्कार्येषु तस्याहङ्कारो नोदयत इति भावः । भूतानामात्मा कारणमीशो नियामकः भावनस्तद्रूपतापादकस् तत्र हेतुः स्वशक्त्येति सन्दर्भः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कथं सृजति ? इत्य्-आदौ तत्राह—एष इति । भूतस्यात्मा कारणम् । ईशो नियामकः । भावनस् तत्-तद्-रूपता-प्रापकश् च । तत्र हेतुः—स्वरूप-शक्त्या मायया च युक्तः । बहिरङ्ग-शक्ति-माया-कार्ये तस्याहङ्कारत्वं च योजितम् ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनहङ्कारत्वे हेतुम् आह—एष इति । स्व-शक्त्या मायया युक्त इति मायया बहिरङ्गत्वेन स्वरूप-शक्तित्वाभावात् तत्-कार्येषु तस्य नाहङ्कारो भवतीति भावः ॥२६॥
॥ ४.११.२७ ॥
तम् एव मृत्युम् अमृतं तात दैवं
सर्वात्मनोपेहि जगत्-परायणम् ।
यस्मै बलिं विश्व-सृजो हरन्ति
गावो यथा वै नसि दाम-यन्त्रिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यम् ईश्वर एव कर्ता, तथाप्य् अहङ्कारादि मया न त्यक्तुं शक्यम् इति चेत्, अत आह—तम् एवेति चतुर्भिः । मृत्युम् अभक्तानां, भक्तानां त्व् अमृतम् । उपेहि शरणं गच्छ । तम् एवेत्य् अवधारणे हेतुः—यस्मै नसि नासिकायां दामभिर् बद्धा गाव इव विश्व-सृजोऽपि दामभिर् यन्त्रिता बद्धाः सन्तो बलिं हरन्ति । तत्-कारितं कर्म कुर्वन्तीत्य् अर्थः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिप्रियत्वादाह—तातेति । यद्वा—तातस्य पितुर्दैवमुपास्यम् । इत्य् अर्थ इति । सृजामि तन्नियुक्तोहं हरो हरति तद्वशः इत्याद्युक्तेर् इति भावः । तत्पत्तिं विना ज्ञानेनाहङ्कारापगमो दुःशक इति भावः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं त्वया प्रबोधितोऽप्य् अहङ्कारं त्यक्तुं न प्रभवामीत्य् अत आह—तम् एवेति चतुर्भिः । उपैहि प्रपद्यस्व तत्-प्रपत्तिं विना ज्ञानेनाहङ्कारापगमो दुःशक्य इति भावः ॥२७॥
॥ ४.११.२८ ॥
यः पञ्च-वर्षो जननीं त्वं विहाय
मातुः सपत्न्या वचसा भिन्न-मर्मा ।
वनं गतस् तपसा प्रत्यग्-अक्षम्
आराध्य लेभे मूर्ध्नि पदं त्रि-लोक्याः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आराधनं च तव सुशकम् एवेत्य् आह—यः पञ्च-वर्षः स त्वं यम् आराध्य त्रि-लोक्या मूर्ध्नि पदं स्थानं लेभे लब्धवान् असि । इदानीं तम् एवान्विच्छावलोकयेत्य् उत्तरेणान्वयः । प्रत्यञ्चि अक्षाणि यस्मिन् । क्रिया-विशेषणं वा ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्यंचि प्राप्तानि । तत्र सर्वेन्द्रियप्राप्ति मशक्यां मत्वाह—क्रियाविशेषणं वेति । तीर्थस्टु—प्रति प्रतिगतमतीन्द्रियं यस्य तमनेन मत्क्रियमाणं कर्मे नासौ द्रक्ष्यतीति प्रत्युक्तम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : य इत्य् अत्र यो लेभे स त्वम् उपेहीति पूर्वेणैवान्वयः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं तु तं प्रपन्नो मत्-कुल-पद्मम् एवासीत्य् आह—य इति । प्रत्यञ्चि अक्षाणि योगिनां यस्मिंस् तम् ॥२८॥
॥ ४.११.२९ ॥
तम् एनम् अङ्गात्मनि मुक्त-विग्रहे
व्यपाश्रितं निर्गुणम् एकम् अक्षरम् ।
आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृग्
यस्मिन्न् इदं भेदम् असत् प्रतीयते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिं ध्यायन्तं प्रत्याह—हे अङ्ग ध्रुव ! मुक्त-विरोधे आत्मनि मनसि व्यपाश्रितम् अवस्थितम् आत्म-दृक् प्रत्यग्-दृष्टिः सन् । अयं भेदो यस्मिंस् तद् इदं भेदम् असद् एव विश्वं यस्मिन् प्रतीयते ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं भेदो\ऽयं शत्रुस्यं मित्रादिरित्ययंशब्दनिर्दिष्टो भेदः । यस्मिन्नन्विष्टे सति असदभद्रम् एवारोचकम् एवेति चक्रवर्ती ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानं परमात्मानं यस्मिन् स्फुरिते सति । असद् अपुरुषार्थम् इदं नेदम् असत् प्रतीक्षते इति चित्सुखः । अनुभवाद् इदं युक्त्य्-असहत्वान् नेदम् इति ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एव सम्प्रत्य् अपि अन्विच्छ । अलं तव व्यावहारिक-भद्राभद्र-भावनयेति भावः । न च तत्रान्येषाम् इव तव प्रयास इत्य् आह—आत्मनि तन्-मनसि मुक्त-विग्रहे निर्विरोधे विशेषेण वात्सल्यात् कृत-निवासम् । आत्म-दृक् प्रत्यग्-दृष्टिः सन् । यस्मिन् अन्विष्टे सति इमे शत्रु-मित्रादयो भेदा यत्र तद् इदं भेदं जगत् असत् अभद्रम् अरोचकम् एव प्रतीयते ॥२९॥
॥ ४.११.३० ॥
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ।
भक्तिं विधाय परमां शनकैर् अविद्या-
ग्रन्थिं बिभेत्स्यसि ममाहम् इति प्ररूढम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अन्वेषण-फलम् आह—त्वं तदाऽन्वेषण-काल एव ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा पञ्च-वर्ष-वयसि किम् इदं स्मरसीति अभिज्ञा-वचने लट् इति । भूत-काल एव लड् इति विश्वनाथः ॥३०॥
सनातन-गोस्वामी- [ह।भ।वि। ११.५६२] आत्मानम् अन्विच्छ विमुक्तमात्म-दृक् [भा।पु। ४.११.२९] इति पूर्वम् उक्तं तद्-अन्वेषण-फलम् आह—त्वम् इति । तदा अन्वेषण-काल एव । प्रत्यग्-आत्मनि परमात्मनि सर्वान्तर्यामिणीत्य् अर्थः । अनन्ते अपरिच्छिन्ने । आनन्द-मात्रे सुख-घन-मुक्तौ भगवति श्री-कृष्णे । परमां निष्कामां विशुद्धां वा । शनकैर् विधायेति परम-भक्तेर् दुष्करतया क्रमेणैव तत्-सिद्धेः । यद् वा, शनकैः चिरं क्रमेण योऽविद्या-रूपो ग्रन्थिः, तम् इति दुर्भेद्यतोक्ता ।
ननु तादृशस्य तदैव कथं विभेदो घटते ? तत्राह—उपपन्नाः सम्पन्नाः समस्ताः शक्तयो यस्मिन् । यद् वा, उपपन्नानां प्रपन्नानां समस्ताः शक्तयो यस्मात् तस्मिन्न् इति । एवं प्रत्यग्-आत्मादि-भगवन्-माहात्म्याज्ञानेन पूर्वं निष्काम-भक्त्यैव रणाद् अहङ्काराद्य्-अनपगमेन वैरेण कुवेरानुचरास् त्वया घातिता इति श्री-ध्रुवं प्रति मनोर् वाक्याभिप्रायः । स च केवलं श्री-शिव-सखानुग-रक्षार्थम् एव विभीषिकयान्यथाभासत इत्य् ऊह्यम् । यथा कथञ्चिद् भक्त्या मुक्तेर् अपि सुसिद्धेः ॥३०॥
जीव-गोस्वामी (भगवत्-सन्दर्भः १): एवं चानन्द-मात्रं विशेष्यं समस्ताः शक्तयो विशेषणानि विशिष्टो भगवान् इत्य् आयातम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथः- तदा पञ्च-वर्ष-वयसि किम् इदं स्मरसीत्य् अर्थः । अविद्या-ग्रन्थिं बिभेत्स्यसि । अभिज्ञा-वचने लुड् इति भूत-काल एव लृट् व्यभिन इत्य् अर्थः ॥३०॥
॥ ४.११.३१ ॥
संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम्
श्रुतेन भूयसा राजन्न् अगदेन यथामयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपदेश-सारम् आह—संयच्छेति द्वाभ्याम् । प्रतीपं प्रति-कूलम् । अगदेनौषधेन यथा रोगं नियच्छति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यावहारिकलोकमनुकुर्वंस्तादृशे\ऽपि भ्रातरि प्रणयं लोके प्रथयन्यद्यपि बहिरे व रोषं धत्से, तथापि मदाज्ञया तम् अपि संयच्छापाकुरु । श्रुतेन मदुपदेशवाक्येन । आमयमिवेति । त्वादृशानां भक्तानां लोके प्रतिष्ठाप्रख्यापनम् अपि रोग एवेति भावः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि व्यावहारिक-लोकम् अनुकुर्वंस् त्वं तादृशेऽपि भ्रातरि प्रणयं लोके प्रणयन् बहिर् एवं रोषं धत्से यम् आज्ञया तम् अपि संयच्छ । श्रुतेन मद्-उपदेश-वाक्येन अगदेन औषधेन आमयम् इवेति । तादृशानां भक्तानां लोके प्रतिष्ठा प्रख्यापनम् अप्य् एको रोग एवेति भावः ॥३१॥
॥ ४.११.३२ ॥
येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् ।
न बुधस् तद्-वशं गच्छेद् इच्छन्न् अभयम् आत्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : येन रोषेणोपसृष्टाद् व्याप्तात् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक उद्विजते क्रोध्ययमेतत्पार्श्वे न गन्तव्यमुपहासे\ऽप्य् अयं प्रहरिष्यतीति बिभेतीत्य् अर्थः । तद्वशं रोषवशम् । अभयं गुणातीतत्वं—
यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् ।
आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ इति प्रचेतसः प्रति पितामहोक्तेः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीतिम् आह—येन रोषेण उपसृष्टात् व्याप्तात् ॥३२॥
॥ ४.११.३३ ॥
हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम्
यज् जघ्निवान् पुण्य-जनान् भ्रातृ-घ्नान् इत्य् अमर्षितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यच् च त्वया कार्यम् इत्य् आह—हेलनम् इति द्वाभ्याम् । यद् यतः । जघ्निवान् घातितवान् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् उक्तेतरत् । भक्तस्य तवैतन् नोचितम् इत्य् आह—जघ्निवान् इति । यत् तद् एव हेलनम् अवज्ञानं त्वया कृतम् इत्य् अन्वयः । भ्रातृघ्ना इति वा स्वामि-पाठः । वैश्रवणस्येश-सखत्वात् तद्-अवज्ञानेन शिवावज्ञानं स्यात्, तद्-अवज्ञानेन श्री-नारायण-विषयं ज्ञानम् अपि नोदेति, ज्ञानम् इच्छेन् महेश्वरात् इति स्मृतेः । तस्यैव देवेषूपदेशाधिकारि-ब्राह्मणाद् एव [त्वादत]{।मर्क्} एव वाराणस्यां तद्-अधीनान् एक-देवान्तर-सत्त्वेऽप्य् अन्येषां ब्राह्मण-देवत्वाभावात् स एव सर्वेभ्यो देहान्ते तारकोपदेशेन ज्ञानं दत्त्वा मोचयतीत्य् अभिप्रेत्योक्तं गिरिश-भ्रातुर् इति । धनं विना राज्य-पालनम् अपि दुर्घटं, तद्-दातृत्वाद् अपि तस्यापराधो नोचित इत्य् अभिप्रेत्याह—धनदस्येति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जघ्निवान् इति । यत् तद् एव हेलनं कृतम् इत्य् अन्वयः । “भ्रातृ-घ्ना” इति वा स्वामि-पाठः । महताम् इति श्री-रुद्राद्य्-अपेक्षया बहुत्वम् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैष्णवस्य तवानौचित्यं शृण्व् इत्य् आह—हेलनम् इति । जघ्निवान् इति यत् तद् एव हेलनम् इत्य् अन्वयः । इति-शब्दः समाप्त्य्-अर्थकः । सर्वान्ते वा देयः ॥३३॥
॥ ४.११.३४-३५ ॥
तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः
न यावन् महतां तेजः कुलं नोऽभिभविष्यति ॥
एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम्
तेनाभिवन्दितः साकम् ऋषिभिः स्व-पुरं ययौ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सेति । प्रियत्वाभिप्रायेण । यद्वा—तर्णकस्वभावनिवृत्त्यर्थं साक्षेपाभिप्रायेण वेति । महताम् इति बहुत्वं रुद्राद्यपेक्षया । नाभिभविष्यति न धक्ष्यति ॥ ऋषिभिः साकम् इति । यदि मनुबोधितो न बुध्येत तदा वयं तं बोधयाम एतदर्थम् एवर्षयो मनुना सहागताः स च तद्बोधित एव निवृत्तवैशसो जातस्ततः परमृषिस्थितिप्रयोजनाभावात्ते\ऽपि तेनैव साकं ययुरित्याशयः । स्वपुरं स्वं लोकम् । यद् वा, तेन प्रार्थितो मनुरृषिभिः सहैव स्वपुरं ध्रुवराजधानीपुरम् इत्य् अर्थः ॥३४-३५॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे एकादशो\ऽध्यायः ॥११॥
न कतमेनापि व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां
चतुर्थ-स्कन्धे ध्रुव-चरिते मनु-वाक्यं
नामैकादशोऽध्यायः ।
॥ ४.११ ॥
(४.१२)