१०

अथ दशमोऽध्यायः

विषयः

स्व-भ्रातुर् उत्तमस्य यक्ष-द्वारा वधं श्रुत्वा क्रुद्धस्य ध्रुवस्य युद्धे यक्षाणां संहारारम्भः ।

॥ ४.१०.१ ॥

मैत्रेय उवाच—

प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्-सुतौ कल्प-वत्सरौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

दशमे भ्रातृ-हन्तॄणां यक्षाणाम् अकरोद् वधम् ।

एक एवालकां गत्वेत्य् अस्य विक्रम उच्यते ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलकां कुबेरपुरीम् उपयेमे विवाहविधिना स्वीचक्रे । एतद्विवाहः पितुर्वनगमनात्पश्चादवगम्यते तत्सुतौ भ्रमिसुतौ ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रजेति । अस्माद् उद्वाहतः पूर्वम् एवोत्तानपाद-वन-गमनम् इति गम्यते । भ्रम्यादाव् अपि पूर्ववद् भगवच्-छक्त्यादि-रूपत्वं ज्ञेयम् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ध्रुवो भ्रातुर् वधं यक्षैः श्रुत्वा गत्वालकां पुरीम् ।

यक्षान् युद्धे जघानेति दशमे कथ्यते कथा ॥१॥


॥ ४.१०.२ ॥

इलायाम् अपि भार्यायां वायोः पुत्र्यां महा-बलः ।

पुत्रम् उत्कल-नामानं योषिद्-रत्नम् अजीजनत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योषितां रत्नम् इवाति-मनो-हरम् । कन्या-रत्नं चेति वा ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इलायां पूर्वमुद्वाहितायाम् अपि योषिद्रत्नं श्रेष्ठां कन्याम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इलायां पूर्व-परिणीतायाम् ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योषिद्-रत्नं कन्या-रत्नं च ॥२॥


॥ ४.१०.३ ॥

उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा ।

हतः पुण्य-जनेनाद्रौ तन्-मातास्य गतिं गता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यक्षेणाद्रौ हिमवति हतः । आजाव् इति पाठे युद्धे । अस्य गतिं गता मृतेत्य् अर्थः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्तमस्यापि ध्रुवभ्रातृत्वात्कथा वर्णनीयेति चेत्तत्राह उत्तमस्त्व् इति । मृगयाव्यसनित्वेन सदैव वनाद्यटनशीलत्वादनुद्वाहित एव मृतस्तन्माता सुरुचिर् अपि । इत्य् अर्थ इति । वने पुत्रान्वेषणार्थं गता दवानलेन दग्धेति वक्ष्यमाणरीत्या मृतेति भावः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अद्रौ हिमवति । आजाव् इति पाठे तैः सह युद्धे । अस्य गतिं पुत्रम् अन्विष्यन्ती दावानलान् मृत्युम् ॥३॥


॥ ४.१०.४ ॥

ध्रुवो भ्रातृ-वधं श्रुत्वा कोपामर्ष-शुचार्पितः ।

जैत्रं स्यन्दनम् आस्थाय गतः पुण्य-जनालयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कोपामर्ष-शुचां द्वन्द्वैकम् । तेनार्पितो व्याप्तः । जैत्रं जय-हेतुम् । पुण्य-जनालयम् अलकाम् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भागुरिमते शुचाशब्दो\ऽप्य् अस्ति । तथा च कोपामर्षशुचाभिः क्रोधासहनशोकैर्व्याप्तः । जैत्रं जयहेतुकमुहूर्तघटितम् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्पितो व्याप्तः ॥४॥


॥ ४.१०.५ ॥

गत्वोदीचीं दिशं राजा रुद्रानुचर-सेविताम् ।

ददर्श हिमवद्-द्रोण्यां पुरीं गुह्यक-सङ्कुलाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रुद्रानुचरा भूतादयः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना पिशाचादि-ग्रहः । द्रोणी निम्न-तटे गिरेः इति कोशात् । गुह्यका यक्षास् तैर् निविडाम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१०.६ ॥

दध्मौ शङ्खं बृहद्-बाहुः खं दिशश् चानुनादयन् ।

येनोद्विग्न-दृशः क्षत्तर् उपदेव्योऽत्रसन् भृशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दध्मौ वादितवान् । येन शङ्ख-वादनेन । हे क्षत्तः ! उपदेव्यो यक्ष-स्त्रियः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षत्तर् इति । यथा त्वं पाप-शकली-करणे समर्थस् तद्वत् सो\ऽपीत्य् आह । क्षद-शकली-करणे धातुस् ततस् तृ-प्रत्यये क्षत्तेति रूपम् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपदेव्यो यक्ष-स्त्रियः ॥६॥


॥ ४.१०.७ ॥

ततो निष्क्रम्य बलिन उपदेव-महा-भटाः ।

असहन्तस् तन्-निनादम् अभिपेतुर् उदायुधाः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः शङ्खध्वन्याकणेनोत्तरम् ॥७॥


न कतमेन व्याख्यातम्।


॥ ४.१०.८ ॥

स तान् आपततो वीर उग्र-धन्वा महा-रथः ।

एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एकैकं त्रिभिस् त्रिभिर् इत्य् एवं सर्वांस् त्रयोदशायुतानि यक्षान् युगपद् अहन् जघान ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स ध्रुवस्तान्यक्षान् । युगपदेककालावच्छेदेन ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१०.९ ॥

ते वै ललाट-लग्नैस् तैर् इषुभिः सर्व एव हि ।

मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरस्तं पराजितम् । तस्य ध्रुवस्य तत् कर्म आशंसन् तुष्टुवुः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आशंसन् मनसा सम्यक् तुष्टुवुः ॥९॥


॥ ४.१०.१० ॥

तेऽपि चामुम् अमृष्यन्तः पाद-स्पर्शम् इवोरगाः ।

शरैर् अविध्यन् युगपद् द्वि-गुणं प्रचिकीर्षवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेऽपि तत् कर्मासहमाना अमुम् अविध्यन् । द्वि-गुणं यथा भवत्य् एवं षड्भिः षड्भिः । प्रतिकर्तुम् इच्छन्तः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते यक्षाः निरस्तं दीनम् । तस्य ध्रुवस्य । तत्कर्म सर्वेषां युगपत्ताडन-रूपम् । आशंसन् श्लाघयामासुः ॥९-१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वि-गुणं यथा स्यात् तथा षड्भिः षड्भिः प्रतिकर्तुम् इच्छवः ॥१०॥


॥ ४.१०.११-१२ ॥

ततः परिघ-निस्त्रिंशैः प्रासशूल-परश्वधैः ।

शक्त्य्-ऋष्टिभिर् भुशुण्डीभिश् चित्र-वाजैः शरैर् अपि ॥

अभ्यवर्षन् प्रकुपिताः सरथं सह-सारथिम् ।

इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चित्र-वाजैर् विचित्र-पक्षैः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिघो लोहबद्वलगुडः । ऋष्टिभिर्द्विधारखड्गैः ।

उड्डीयोड्डीय च प्राप्य नदन्ती दशकर्त्रिका ।

क्रमते चानताङ्गी या सा भुशण्डी निगद्यते ॥ इति नागेशोक्तेः ॥

अयुतानां त्रिंशत्सहस्राधिकैकलक्षसङ्ख्याकाः ॥११-१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः परिघेति युग्मकम् ॥११॥


॥ ४.१०.१३ ॥

औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा ।

न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धारा-संपातेन छन्नो गिरिर् इव नैवादृश्यत ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आसारेण धारासंपात आसारः इत्य् अमरः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसारेण धारा-सम्पातेन छन्नो गिरिर् इव नैवादृश्यत ॥१३॥


॥ ४.१०.१४ ॥

हाहा-कारस् तदैवासीत् सिद्धानां दिवि पश्यताम् ।

हतोऽयं मानवः सूर्यो मग्नः पुण्य-जनार्णवे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्य-तुल्यः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुण्यजनार्णवे सूर्यः सूर्यतुल्यः इति तेषां सरस्वत्या ध्रुवस्य को\ऽपि नापकारो\ऽभूद् इति व्यज्यते । न ह्यर्णवे मग्नस्य सूर् यस्य किम् अपि कष्टं भवतीति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुण्य-जनेत्य्-आदिकं दैत्य-दानववत् यक्ष-रक्षसोर् अभेद-निर्देशात् । हतः प्रतिबद्धः, मनोहतः प्रतिहतः प्रतिबद्धो हतश् च सः इत्य् अमरः । हतोऽयम् इत्य् अत्र हन्तेति चित्सुखः ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्यः सूर्य-तुल्यः पुण्य-जनार्णव इति तेषां सरस्वत्या ध्रुवस्य कोऽपि नापकारोऽभूद् इति व्यज्यते, न ह्य् अर्णवे मग्नस्य सूर् यस्य किम् अपि कष्टं भवेद् इति ॥१४॥


॥ ४.१०.१५ ॥

नदत्सु यातुधानेषु जय-काशिष्व् अथो मृधे ।

उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यातुधानेषु राक्षसेषु जय-काशिषु जितं जितम् इति जय-प्रकाशकेषु सत्सु ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नीहाराद् इव भास्कर इति तद्वच् छक्त्यैव तद्-अतिक्रमो ज्ञेयः ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जय-काशिषु जितं जितम् इति स्व-जय-प्रकाशकेषु सत्सु ॥१५॥


॥ ४.१०.१६ ॥

धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् ।

अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यधमत् सञ्चूर्णयामास ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथो मज्जनानन्तरम् एव । तस्य ध्रुवस्य ॥१५-१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.१०.१७ ॥

तस्य ते चाप-निर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।

कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वर्माणि कवचानि ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते बाणाः । अशनयो वज्राणि दंभोलिरशनिर्द्वयोः इत्य् अमरः । अत्र च गिरीनशनयो यथा इति आसारेण यथा गिरिः इति दृष्टान्ताभ्यां यक्षाणां बाणाः ध्रुवस्याकिंचित्कराः प्रत्युतोत्साहवर्द्धका एव यथा धारासंपातेन गिरयः क्षालितमला उद्दीप्ता एव भवन्ति ध्रुवस्य शराश् च यक्षाणां प्राणहारिण एव यथाशनिभिर्गिरयो विदीर्यन्त एवेति व्यंजितम् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गिरीन् अशनयो यथेति आसारेण यथा गिरिर् इति दृष्टान्ताभ्याम् यक्षाणां शरा ध्रुवस्याकिञ्चित्कराः प्रत्युतोत्साह-वर्धका एव यथा धारा-सम्पातेन गिरयः क्षालित-मला उद्दीप्ता एव भवन्ति, ध्रुवस्य शरास् तु यक्षाणां प्राणापहारिण एव यथा अशनिभिर् गिरयो विदीर्यन्ते एवेति व्यञ्जितम् ॥१७॥


॥ ४.१०.१८-१९ ॥

भल्लैः सञ्छिद्यमानानां शिरोभिश् चारु-कुण्डलैः ।

ऊरुभिर् हेम-तालाभैर् दोर्भिर् वलय-वल्गुभिः ॥

हार-केयूर-मुकुटैर् उष्णीषैश् च महा-धनैः ।

आस्तृतास् ता रण-भुवो रेजुर् वीर-मनो-हराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शिरः-प्रमुखैर् आस्तृताः प्रकीर्णा रेजुर् इति द्वयोर् अन्वयः ॥१८॥ प्रायो बाहुल्येन विवृक्णाः सञ्छिन्ना अवयवा येषाम् ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हेमतालाभैर्गौरवर्णत्वेन दीर्घत्वेन च स्वर्णतालतरुसदृशैः तालो माने तरौ गानकालमाने च वाद्यके इति धरणिः । वलयैः कङ्कणैः । वलयः कण्ठरोगे ना कङ्कणे पुंनपुंसकम् इति मेदिनी ॥ उष्णीषं तु शिरोवेष्टे इति कोशात् । वीरमनोहराः शूरप्रियाः ॥१८-१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भल्लैर् इति युग्मकम् ॥१८॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**आस्तृता आच्छन्नाः ॥१८-१९॥


॥ ४.१०.२० ॥

हतावशिष्टा इतरे रणाजिराद्

रक्षो-गणाः क्षत्रिय-वर्य-सायकैः ।

प्रायो विवृक्णावयवा विदुद्रुवुर्

मृगेन्द्र-विक्रीडित-यूथपा इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृगेन्द्रस्य विक्रीडितेन यूथपा हस्तिन इव गजसिंहयोः परस्परविरोधप्रसिद्धेरत्र यूथपपदं गजपरम् एव ज्ञेयम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रीडिता इत्य् अत्र द्राविता इति क्वचित् ॥२०॥


॥ ४.१०.२१ ॥

अपश्यमानः स तदाततायिनं

महा-मृधे कञ्चन मानवोत्तमः ।

पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां

न मायिनां वेद चिकीर्षितं जनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आततायिनं शस्त्र-पाणिम् ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र तत्पुरं प्रविश्य तत्सर्वस्वं गृहीत्वा गमनं तत्रावस्थानं चेत्युभयोरेकं प्राप्तं तत्र ध्रुवेण किमकारीत्याशङ्क्योभयम् अपि न कृतं मायिजनकुचेष्टाशङ्कयेत्याह—अपश्यमान इति । स ध्रुवः। तदा यक्षसेनाद्रावणोत्तरकाले सुवर्णाद्यलङ्कृतामलकां दिदृक्षर् अपि यतो मायिजनकुचेष्टा दुर्जेयातो नाविशद् इति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.१०.२२ ॥

इति ब्रुवंश् चित्ररथः स्व-सारथिं

यत्तः परेषां प्रतियोग-शङ्कितः ।

शुश्राव शब्दं जलधेर् इवेरितं

नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इति ब्रुवन्न् इत्य् अत्रापि न मायिनाम् इत्य्-आदेर् अनुषङ्गः । चित्र-रथो ध्रुवः । यत्तो यत्नवान् । प्रतियोगः पुनर् उद्योगस् तस्माच् छङ्कितः । नभस्वतो वायोर् हेतोः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : चित्ररथस् तन्-नामा ध्रुवः । व्यदृश्यतेति तु गौडपादः ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति न मायिनाम् इति वाक्यं ब्रुवन् चित्ररथो ध्रुवः । अनु अनन्तरं नभस्वतो हेतोर् दिक्षु रजः ॥२२॥


॥ ४.१०.२३ ॥

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।

विस्फुरत्-तडिता दिक्षु त्रासयत्-स्तनयित्नुना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्फुरन्त्य् अस्तडितो यस्मिंस् तेन त्रासयन्तः स्तनयित्नवोऽशनयो यस्मिन् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति न मायिनां वेद इत्य्-आदिवाक्यमितिपदार्थः । अत एव स्वामिचरणैरित्य् अत्रापीत्युक्तम् ॥२२-२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षणेन छुरितम् इति चित्सुखः ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१०.२४ ॥

ववृषू रुधिरौघासृक्- पूय-विण्-मूत्र-मेदसः ।

निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतोऽनघ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ववृषुर् निपेतुर् इत्य् अर्थः । न सृजति शरीरम् इत्य् असृग् इह श्लेष्मादि । मेदसः पुंस्त्वम् आर्षम् । मेदांसि अस्याग्नतो निपेतुः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्य ध्रुवस्य मेघा इति शेषः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न सृजति शरीरम् इत्य् असृक् श्लेष्मादि, मेदसः पुंस्त्वम् आर्षं मेदांसि ववृषुर् मेघा इति शेषः । अस्य ध्रुवस्याग्रतः ॥२४॥


॥ ४.१०.२५ ॥

ततः खेऽदृश्यत गिरिर् निपेतुः सर्वतो-दिशम् ।

गदा-परिघ-निस्त्रिंश- मुसलाः साश्म-वर्षिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शाश्म-वर्षिणः अश्म-सहितं यद् वर्षं तद् वन्तः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः कबन्धपातोत्तरम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साश्म-वर्षिणः अश्म-वर्षिभिः सह वर्तमानाः ॥२५॥


॥ ४.१०.२६ ॥

अहयोऽशनि-निःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।

अभ्यधावन् गजा मत्ताः सिंह-व्याघ्राश् च यूथशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अशनि-वन् निःश्वासो येषाम् ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अशनिर्मेघवह्निज्वाला ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१०.२७ ॥

समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् ।

आससाद महा-ह्रादः कल्पान्त इव भीषणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रासनानि भयं कराणि । तिग्मा क्रूरा गतिः प्रवृत्तिर् येषाम् । असुर-राक्षसादि-शब्दैर् अदूरान्तरत्वेन यक्षा एवोच्यन्ते ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महान् ह्रादो यस्य स महाह्रादः आन्महतः इत्य्-आदिना टेरात्वं लक्षणप्रतिपदोक्तपरिभाषा तु समानाधिकरणसामर्थ्यान्न प्रवर्तते ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१०.२८ ॥

एवं-विधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् ।

ससृजुस् तिग्म-गतय आसुर्या माययासुराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवंविधानि कृत्यानि अदूरान्तरत्वेन तुल्यकर्मत्वेन तुल्यदेवयोनित्वेनैकस्थानोद्भूतत्वेन च यैरुक्तं जक्षतेमं ब्रह्माणं ते यक्षा यैरुक्तं रक्षत ते राक्षसा यैरुक्तं न सुरांस्त्यजेम ते\ऽसुरा इति वाल्मीकीये सुरासुरविभागप्रकरणे उक्तं यक्षरक्षसां समानजन्मभूमित्वं तृतीय-स्कन्धे विशाध्याये वर्णितम् इत्य् उक्तं स्वामिचरणैरदूरान्तरत्वेनेति ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमनस्विनां शौर्य-शून्यानां, असुराः असुर-तुल्याः ॥२८॥


॥ ४.१०.२९ ॥

ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् ।

निशम्य तस्य मुनयः शम् आशंसन् समागताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य शं कल्याणम् आशंसन् प्रार्थितवन्तः ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निशाम्य दृष्ट्वा निशम्येति पाठे श्रुत्वेत्य् अर्थः । समाशंसन् इति पाठे\ऽपि सं सुखं संनभेदे समीचीने सुष्ठुपूजासुखेषु च इति यादवोक्तेः । यजौ शसाव् इति प्राच्या इति व्याकरणान्तरसूत्राद्वा । अत एव मा मां जक्षतेत्यत्र जस्थाने यकारो जात इति पूर्वोक्तमनुसन्धेयम् । सूत्रार्थस्तु-प्राचां मते यकारजकारौ शकारसकारौ चान्योन्यस्थाने भवत इति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ध्रुवे इति । समाशंसन्न् इति चित्सुखः जयम् इति शेषः ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१०.३० ॥

मुनय ऊचुः—

औत्तानपाद भगवांस् तव शार्ङ्गधन्वा

देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् ।

यन्-नामधेयम् अभिधाय निशम्य चाद्धा

लोकोऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तव विपक्षान् शत्रून् नाशयतु । अद्धा साक्षात् । अञ्जसा सुखेनैव मृत्युं तरति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृत्युं तरन्ति यक्षमायां न तरिष्यसि किं तु तरिष्यस्येवेति नारायणास्त्रं स्मारयामासुरित्य् अर्थः । यद् वा, यन्नामधेयमभिधाय इत्यनेन भगवन्नाम स्मृत्वा युध्यतस्तव शत्रुजयः स्याद् इत्युपदिष्टम् इति ध्येयम् । औत्तानपाद इति । क्षत्रियत्वात्तव युद्धे भयं नोचितं, यद्वा-उत्तानावुच्चौ सामन्तराजमूर्द्धसु पादौ यस्य स उत्तानपात्तस्यापत्यं त्वम् अपि तादृश एवाधुनैवैषां मूर्ध्नि पदं धास्यसीत्यभिप्रायः । अङ्गेति संबोधने\ऽव्ययम् ॥३०॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे दशमो\ऽध्यायः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृत्युं तरति किं यक्षमायां त्वं न तरिष्यसीति नारायणास्त्रं स्मारयामासुः ॥३०॥


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्थे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

चतुर्थ-स्कन्धे ध्रुव-चरिते

दशमोऽध्यायः ।

॥ ४.१० ॥


(४.११)