०९

अथ नवमोऽध्यायः

विषयः

ध्रुवस्य भगवद्-दर्शनं भगवत्-स्तवनं वरं लब्ध्वा पुर-प्रत्यागमनं राज्य-प्राप्तिश् च ।

॥ ४.९.१ ॥

मैत्रेय उवाच—

त एवम् उत्सन्न-भया उरुक्रमे

कृतावनामाः प्रययुस् त्रिपिष्टपम् ।

सहस्रशीर्षापि ततो गरुत्मता

मधोर् वनं भृत्य-दिदृक्षया गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

नवमे तु हरिं स्तुत्वा लब्ध्वा तस्माद् वरान् ध्रुवः ।

प्रत्यागत्याकरोद् राज्यं पित्रा दत्तम् इतीर्यते ॥*॥

एवं भगवद्-वाक्येन गत-भयाः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सहस्र-शीर्षापि तत इत्य्-आदि । सहस्र-शीर्ष्णः पुरुषाद् अपि अपिततोऽभिव्याप्तेः, तेनोतः कर्तरि क्तः । समागच्छन्तं तं दृष्ट्वा सहस्रश इन्द्रादयो देवाः प्रययुस् त्रिपिष्टपम् इति प्रयाण-समये दण्डवन् निपेतुः । स तु दूरागमन-हेतोस् तेषां शीर्षाण्य् अभिलङ्घ्याजगामेति भावः । भृत्य एव प्रभु-दिदृक्षया याति, इदं तु विपरीतम् इत्य् अहो कारुणिकत्वम् ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्माद्धरेः । ते देवाः । उरुक्रमाय सप्तमी चतुर्थ्यर्थे । गर्भोदशायिनाभेदविवक्षया सहस्रशीर्षेति । तदानीन्तनो\ऽवतारस्तु पृश्निगर्भाख्यो भागवतामृते उक्तः । गरुत्मता गरुडेन । भक्तेति वक्तव्ये\ऽवश्यभर्तव्यत्वविवक्षया भृत्येति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सहस्र-शीर्षेति ध्रुव-लोकाधिष्ठातुस् तद्-अभेदात् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

हरि-स्तुतिर् वर-प्राप्तिः स्वानुतापो गृहागमः ।

बन्धुभिर् मिलनं राज्यं ध्रुवस्य नवमेऽभवत् ॥*॥

गर्भोदक-शायिना अभेदात् सहस्र-शीर्षा तदानीन्तनोऽवतारः पृश्निगर्भो भागवतामृताद् अवगन्तव्यः ॥१॥


॥ ४.९.२ ॥

स वै धिया योग-विपाक-तीव्रया

हृत्-पद्म-कोशे स्फुरितं तडित्-प्रभम् ।

तिरोहितं सहसैवोपलक्ष्य

बहिः-स्थितं तद्-अवस्थं ददर्श ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स वै ध्रुवो योगस्य विपाकेन दार्ढ्येन तीव्रया निश्चलया । गरुडाधिरूढं पुरतः स्थितम् अपि यदान्तर्-दृष्टित्वाद् असौ नापश्यत्, तदा भगवतैवान्तः-स्थं रूपम् आक्र्ष्टम् अतस् तिरोहितम् उपलक्ष्य व्युत्थितः सन् तद्-अवस्थं यादृग् अन्तः-स्फुरितस् तादृशम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत आकृष्टमतो तोः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स वै धियेत्य्-आदि । बहिः-स्फुरता अन्तः-स्फुरितं रूपं तिरोधापितम्, स तु अन्तर् अपश्यन् बहिः-स्फुरन्तं ददर्श—अन्तर्-दृष्टौ बहिर्-दृष्ट्य्-अभावात् । तद्-अवस्थं नारद-कथित-रूपम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तडित्-प्रभं यथा स्यात् तथा सहसैव तिरोहितम् ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च गत्वा योग-निमीलिताक्षस्य ध्रुवस्यान्तः-करणं प्रविश्य दर्शनं दत्त्वा तत्रैव पुनर् अन्तर्धाय बहिस् तद्-अग्रे तस्थाव् इत्य् आह—स वा इति । ध्यान-योगस्य परिपाकेन तीव्रया धिया हृदिसहसैव स्फुरितं तडित्-प्रभं यथा स्यात् तथा तिरोहितंउपलक्ष्य स्व-समीपे एव दृष्ट्वा लब्ध-नष्ट-धन इव व्याकुलो भग्न-समाधिर् उद्घाटित-नेत्रस् तद्-अवस्थंस्थितं तं बहिर् ददर्श ॥२॥


॥ ४.९.३ ॥

तद्-दर्शनेनागत-साध्वसः क्षिताव्

अवन्दताङ्गं विनमय्य दण्डवत् ।

दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश्

चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आगत-साध्वसो जात-संभ्रमः । विनमय्य आनतं कृत्वा । संभ्रमम् एवाह—दृग्भ्यां प्रपिबन्न् इव पश्यन्न् अवन्दतआस्येन चुम्बन्न् इव अवन्दत । भुजाभ्याम् आश्लिषन्न् इव अवन्दतेत्य् अर्थः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्ञातानन्दवेगः । इत्य् अर्थ इति । दृग्भ्यां मुखारविन्दमाधुर्मत्यादरेण गृह्णन्निव । आस्येन चरणारविन्दमाधुर्यं चुंबन्निव भुजाभ्यां चरणाङ्गुलिशिखराणि स्पृशन्निव ननामेति भावः । भुजैर् इति बहुत्वेन भुजयोर्व्यापारबाहुल्यं लक्षयित्वानन्दकंपो ध्वनितः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद्-दर्शनेत्य्-आदि । प्रपिबन्न् एव दृग्भ्यां प्रपश्यन्, भुजैर् इति बहु-वचनं श्लाघ्यत्व-सूचनार्थं, अथवा मनोरथ-कृते बहुत्वे प्रेमातिशये तात्पर्यम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रपिबन्न् इवेत्य्-आदि सर्वात्मावेश-मात्र-तात्पर्यकम् । यद् वा, यथा प्रपश्यन् प्रपिबन्न् इवेत्य् अत्र प्रदर्शनम् एव प्रपानत्वेनोत्प्रेक्षते । तथा वास्तवार्थम् ओष्ठ-स्पन्दनेन चुम्बनं तत्राञ्जलि-बन्धार्थं बाहु-द्वय-घटनयालिङ्गनम् अपीति ज्ञेयम् । भूजेन वेति क्वचित् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :आगत-साध्वसो जातानन्द-सम्भ्रमः । दृग्भ्यां मुखारविन्द-माधुर्यं प्रपिबन्निव प्रपश्यन्, आस्येन चरणारविन्द-माधुर्यं चुम्बन्न् इवअवन्दत,भुजाभ्याम् आश्लिषन्न् इव चरणाङ्गुलि-शिखरान् पस्पर्श । बहु-वचनेन भुजयोर् व्यापार-बाहुल्यं लक्षयित्वा आनन्द-कम्पो ध्वनितः ॥३॥


॥ ४.९.४ ॥

स तं विवक्षन्तम् अतद्-विदं हरिर्

ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः ।

कृताञ्जलिं ब्रह्म-मयेन कम्बुना

पस्पर्श बालं कृपया कपोले ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विवक्षन्तं तद्-गुणान् वक्तुम् इच्छन्तम् । अतद्-विदं स्तुत्य्-आदि कर्तुम् अजानन्तम् । अस्य ध्रुवस्य सर्वस्य च हृद्य् अवस्थितत्वात् ज्ञात्वाब्रह्म-मयेन देवात्मकेन शङ्खेन ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स हरिः । तं ध्रुवं व्याकरणाद्यज्ञानात्संस्कृतं ग्रयोक्तुमशक्नुवन्तम् । अस्य ध्रुवस्य कपोले कपोलोपलक्षिते वदने । यद् वा, कपोले वसते वाणी इत्याद्युक्तेस् तत्र सरस्वती सुप्तेव स्थिता, सा भगवता वेदमयशङ्खेनैव संचाल्योत्थापिता मय्यागतेति सुप्तैवेति भावः । पांचजन्यो वा एष आम्नाय उत् इति श्रुतेः । स्याच्छङ्खः कंबुरस्त्रियाम् इत्य् अमरः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : बालत्वात् स्तुताव् असमर्थः । अथ च स्तुतिं करवाणीत्य् अभिलषन्तं कृपया शब्द-ब्रह्म-मयेन कम्बुनाकपोले पस्पर्शेत्य् अहो कारुणिकत्वम् । अतो ध्रुवो यत् स्तौति, ब्रह्म-भूतः शङ्ख एव वदतीत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विवक्षन्तं तद्-गुणान् वक्तुम् इच्छन्तम् । अथ च अतद्-विदं व्याकरणाद्य्-अज्ञानात् संस्कृतं प्रयोक्तुम् अशक्नुवन्तं ज्ञात्वाइति । अत्र हेतुः—असत्येत्य्-आदि ब्रह्म-मयेन देवात्मकेन शङ्खेन ॥४॥


॥ ४.९.५ ॥

स वै तदैव प्रतिपादितां गिरं

दैवीं परिज्ञात-परात्म-निर्णयः ।

तं भक्ति-भावोऽभ्यगृणाद् असत्वरं

परिश्रुतोरु-श्रवसं ध्रुव-क्षितिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवता प्रतिपादितां गिरं प्रतिपद्येति शेषः । प्रतिपद्यताम् इति पाठे तां वेदात्मिकाम् । परिज्ञातः परात्मनोर् ईश्वर-जीवयोर् निर्णयो येन सः । अत एव भक्त्या भावः प्रेम यस्य । असत्वरं स्थैर्येण । परितः श्रुतं विख्यातम् उरु-श्रवः कीर्तिर् यस्य तम् । ध्रुवा क्षितिः स्थानं यस्येति भावि-निर्देशः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स ध्रुवः । प्रतिपादितां दत्ताम् । अत एव ज्ञातजीवेश्वर-स्वरूपत्वाद् एव ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दैवीं भगवद्-विषयां निर्णयामीति । "ध्रुव-क्षितिम्" इति चित्सुखः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिपद्य प्राप्य । प्रतिपदिताम् इति पाठे प्राप्येति शेषः । परिज्ञातः परात्मनोर् ईश्वर-जीवयोर् निर्णयो येन सः । भक्ताव् एव, न तु साङ्ख्य-योगादिषु भावोऽभिप्रायः स्वभावो वा यस्य सः । असत्वरं स्थैर्यम् आलम्ब्य परिश्रुतोरु-श्रवसं विख्यात-बहु-यशसम् । ध्रुवा प्रलयेऽप्य् अनश्वरो क्षितिः स्थानं यस्येति भावि-सूचनम् ॥५॥


॥ ४.९.६ ॥

ध्रुव उवाच—

योऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां

सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना ।

अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन्

प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ईशानुग्रह-संप्राप्त- वाग्-आद्य्-अद्भुत-वृत्तिभिः ।

द्वादशादित्य-सङ्काशैः श्लोकैर् अस्तौद् धरिं ध्रुवः ॥

योमेप्रसुप्तां लीनां वाचमन्यांश् च प्राणान् इन्द्रियाणि स्व-धाम्ना चिच्-छक्त्या सञ्जीवयति । यतः, अखिलाश् चक्षुर्-आदि-ज्ञान-क्रिया-शक्तीर् धारयतीति तथा । पुरुषाय अन्तर्यामिणे ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद्-अत्तवेदार्थज्ञानस्तुष्टाव यद्ध्रुवः । वेदार्थो हि स एवेति नात्र संशेरते बुधाः अकस्माद् एव स्वीयवागादिसर्वेंद्रियाणां भगवद्-उन्मुखीभावमालक्ष्यैषामीदृशमप्राकृतत्वं श्रीभगवत्कृतम् इति जानन्स स्वस्मिन्भगवतो निरुपमां निरुपाधिकां तां कृपाम् एव साक्षादनुभवन्न् इति विस्मयेन नमस्यति—य इति । मम त्वद्-दासस्येमां वैखरीं नाम वाचं त्वत्--स्वरूप-गुणलीलादिकम् एव वर्णयित्रीम् । इदंशब्देन वैखरीग्रहणं तु तुरीयां वाचं मनुष्या वदन्ति इति श्रुतेरे व ध्वनितम् । तुरीयां परापश्यन्तीमध्यमावैखरीति चतुःसङ्ख्यासु वाक्षु चतुर्थीम् । प्रसुप्ताम् एव तत्कालपर्यन्त सुप्तेव स्थितां मृताम् इव संजीवयति या तु स्वीयान्नपानादिप्रकृतभोगवार्तां विषयीकुर्वती जाग्रत्येव वागासीत्तामत आरभ्य शाययति स्म नाशयति स्मेति भावः । न केवलं वागिन्द्रियम् एवापि त्वन्यानपि त्वत्परिचर्यादिकं विषयीकरिष्णून्प्राणांश् च त्वद्-उन्मुखानिति ध्रुवस्येन्द्रियादीनां चिन्मयत्वेनाप्राकृतत्वं सद्योजातम् इति सूचितम् । अत्र ममेतीमाम् इति विशेषाभ्यां वागादीन्द्रियाणि विशिष्टान्येवोपलभ्यन्ते असुप्तः सुप्तानभिचाकशीति इति श्रुतिरीशस्येन्द्रियादिप्रबोधने मानं ब्रह्मणो वा एतानि करणानि इति श्रुतिश् च ब्रह्मणः सकाशादेतानीन्द्रियाण्यवाप्तचेष्टानीत्य् अर्थः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रथमं [सर्व्]{।मर्क्}हि-दशाम् आपन्नस्य वाग्-आदीनां सुप्तत्वात् तद्-दर्शनेन पुनस् तेषां प्रबोधम् उपलभ्य तस्य तत्-कर्तृकत्वेन तम् एव स्तौति—योऽन्तः-प्रविश्येत्य्-आदि । मृत-सञ्जीवनी शक्तिस् तवेयम् इति नमति—भगवते तुभ्यं[श्री-कृष्ण्]{।मर्क्}आय नमःअपुरुषाय पुरुषेभ्यः पराय पुरुषोत्तमायेति वा । अथवा तुभ्यं भगवते [श्री-कृष्ण्]{।मर्क्}आय पुरुषाय आद्यावताराय नमः । च-कार-द्वयम् अध्याहार्यम् । वस्तुतस् तु तस्य [सर्व्]{।मर्क्}हि-दशायां पृआणादयो नासन्, व्युत्थानेऽपि पुनर् नाभवन्, सद्यस् तेनैव देहेन पार्षदत्व-प्राप्तेः, तेन तसेन्द्रियाधिष्ठातृ-देवता अपि नासन् । सर्वं भगवच्-छक्तिर् एव, तथा तथा चकार । एतेन पार्षद-तनूनाम् अप्राकृतत्वम् इत्य् अयम् एव पन्थाः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

भगवद्-दत्त-वेदार्थ-ज्ञानस् तुष्टाव यद् ध्रुवः ।

वेदार्थो हि स एवेति नात्र संशेरते बुधाः ॥

अकस्माद् एव स्वीय-वाग्-आदि-सर्वेन्द्रियाणां भगवद्-उन्मुखी-भावम् आलक्ष्य एषाम् ईदृशम् अप्राकृतत्वं श्री-भगवत्-कृतम् इति जानन् स्वस्मिन् भगवतो निरुपमां निरुपाधिक्यं तां कृपाम् एव साक्षाद् अनुभवन्न् इति विस्मयेन नमस्यति—य इति । स्वेन धाम्ना चिच्-छक्त्या इमां मम त्वद्-दासस्य वाचं त्वत्-स्वरूप-गुण-लीलादिकम् एव वर्णयित्रीं प्रसुप्ताम् एतावत्-काल-पर्यन्तं शयितेव स्थितां मृताम् इव सञ्जीवयति, या तु स्वीयान्न-पानादि-प्रकृत-भोग-वार्तां विषयीकुर्वती जाग्रत्य् एव वाग् आसीत्, ताम् अत आरभ्य शाययति स्म, नाशयति स्मैव इति भावः । न केवलं वाग्-इन्द्रियम् एव, अपि त्व् अन्यान्हस्त-पादादीन् अपि त्वत्-परिचर्यादिकं विषयी-करिष्णून् प्राणांश् च त्वद्-उन्मुखान् इति । ध्रुवस्येन्द्रियादीनां चिन्मयत्वेन अप्राकृतत्वं सद्यो जातम् इति सूचितम् । अत्र ममेति इमाम् इति विशेषाभ्यां वाग्-आदीन्द्रियाणि विशिष्टान्य् एव लभ्यन्ते ॥६॥


॥ ४.९.७ ॥

एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या

मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् ।

सृष्ट्वानुविश्य पुरुषस् तद्-असद्-गुणेषु

नानेव दारुषु विभावसुवद् विभासि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु वाग्-आदीन्द्रिय-शक्ति-धरा वह्न्य्-आदयः प्रसिद्धा नाहम् इत्य् आह—एक इति । अनुविश्य पुरुषोऽन्तर्यामी त्वम् एक एव । तस्या मायाया असत्सु गुणेष्व् इन्द्रियादिषु स्थितः संस् तत्-तद्-देवता-रूपो नानेव भासि, न तु त्वद्-व्यतिरेकेण ज्ञान-क्रिया-शक्ति-धरः कश्चिद् अस्तीत्य् अर्थः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । योध्यात्मिकोयं पुरुषः सो\ऽसावेवाधिदैविकः इत्य् उक्तेर् इति भावः । अत्र विश्वनाथः—त्वद्-भक्तानामिन्द्रियाणि त्वप्रसादात्त्वाम् एव विषयीकुर्वन्ति त्वन्मयान्यप्राकृतान्येव भवन्ति । अन्येषाञ्च तानि मायाम् एव विषयीकुर्वन्ति मायामयान्येवेति । स्वधाम्नेति मायाख्येति पदाभ्यां सिद्धान्तो ध्वनित इत्य् आह ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् अहम् एव, कथं पुरुषत्वेन भगवत्त्वेन च पृथक् नमसीत्य् आह—एकस् त्वम् एवेत्य्-आदि । हे भगवन् श्री-कृष्ण ! त्वम् एक एव । किन्तु पुरुषः सन् मायाख्यायाम् आत्मनः शक्त्या महद्-आद्य्-अशेषं सृष्ट्वा अनुविश्य नानेव भासि, न तु नानासि । अतस् तुभ्यं पुरुषाय च नम इति पूर्व-श्लोक-सङ्गतिः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधारणानि तानि जडानि तु सर्व-साधारण-जगतां त्वं माया-शक्त्या सह प्रविश्यान्तर्यामी सन्न् उदासीन एव चेतयसीति जानाम्य् एवेत्य् आह—एक इति । अनुप्रविश्य पुरुषोऽन्तर्यामी, तस्या मायाया असत्सु गुणेष्व् इन्द्रियादिषु चेतयितुं स्थितः सन् नानेव भासि, तेन त्वद्-भक्तानाम् इन्द्रियाणि त्वत्-प्रसादात् त्वाम् एव विषयीकुर्वन्ति त्वन्-मयान्य् अप्राकृतान्य् एव भवन्ति, अन्येषां तु तानि मायाम् एव विषयीकुर्वन्ति माया-मयान्य् एवेति स्व-धाम्नेति मायाख्ययेति पदाभ्यां सिद्धान्तो ध्वनितः ॥७॥


॥ ४.९.८ ॥

त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं

सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः ।

तस्यापवर्ग्य-शरणं तव पाद-मूलम्

विस्मर्यते कृत-विदा कथम् आर्त-बन्धो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च किं वक्तव्यं वह्न्य्-आदयो ज्ञानादि-शक्ति-धरा न भवन्तीति, यस्माद् ब्रह्मणोऽपि ज्ञानं त्वद्-अधीनम् एवेत्य् आह । त्वद्-दत्तया वयुनया ज्ञानेन भवन्तं शरणं प्रपन्नो ब्रह्मा इदं विश्वम् अचष्टापश्यत् । कथम् ? सुप्तः पुरुषः प्रबुद्धः सन्यथा पश्यति तद्वत् । अत आपवर्ग्या मुक्तास् तेषाम् अपि शरणम् । कृत-विदा सर्वेन्द्रिय-जीवनेन त्वत्-कृतम् उपकारं जानता कथं विस्मर्यते । एवं भूतं त्वाम् अभजन्तः कृत-घ्ना इत्य् अर्थः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वद्-दत्त-ज्ञानेनैव सर्वेन्द्रियप्रबोधो भवेदतो हेतोः । इत्य् अर्थ इति । त्वत्प्रसादावाप्तसर्वेंद्रियशक्तयो यदि त्वां न भजन्ति तदा ते कृतघ्नशिरोमणय एवेति भावः । नाथेति । त्वम् एव सर्वैश्वर्यदोसीत्य् आह । आर्तस्य भक्तस्य बन्धो इति, एवञ्च ज्ञानिभक्तो जिज्ञासुभक्त आर्तभक्तश्चेति त्रयो गीतोपनिषदुक्ता भक्ता व्याख्याताः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वम् एव सर्व-शक्ति-धरस् त्वद्-दत्त-ज्ञानादिमतां भक्तानाम् एव कृत-ज्ञानां त्वं भजनीयो भवसीत्य् आह—त्वद्-दत्तयेति । भवत्-प्रपन्नो ब्रह्मादिः सनकादिर् वा ज्ञानि-भक्तः त्वद्-दत्तया वयुनया ज्ञानेन इदम् इश्वम् अचष्ट अपश्यत् । कथम् ? सुप्तः पुरुषः प्रबुद्धः सन् यथा पश्यति, तद्वत् । अतः कृत-विदा त्वत्-कृतम् एवम् उपकारं जानता तस्य तव पाद-मूलं कथं विस्मर्यते । कीदृशम् ? आपवर्गस्य अपवर्गो मुक्तिस् तद्-अर्हस्य जिज्ञासु-भक्तस्य शरणम् एवं-भूतं त्वां त्वत्त एव लब्ध-ज्ञाना अपि त्वाम् अभजन्तः कृतघ्ना एवेत्य् अर्थः । हे आर्त-भक्तस्य बन्धो । एवं च ज्ञानि-भक्तो जिज्ञासु-भक्त आर्त-भक्तश् चेति श्री-गीतोपनिषद्-उक्तास् त्रयो भक्ता व्याख्याताः ॥८॥


॥ ४.९.९ ॥

नूनं विमुष्ट-मतयस् तव मायया ते

ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः ।

अर्चन्ति कल्पक-तरुं कुणपोपभोग्यम्

इच्छन्ति यत् स्पर्शजं निरयेऽपि नॄणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ये च मादृशाः कामाद्य्-अर्थं भजन्ति तेऽतिमूढा इत्य् आह—नूनम् इति । भवाप्ययौ जन्म-मरणे तद् विमोक्षे हेतुं त्वाम् अन्य-हेतोः कामाद्य्-अर्थं ये भजन्ति, ते नूनं विमुष्ट-मतयो वञ्चित-चित्ताः । यतस् ते कल्प-तरुं त्वाम् अर्चन्ति । ततः कुणप-तुल्येन देहेन उपभोग्यं सुखम् इच्छन्ति । न चेच्छा-योग्यं तद् इत्य् आह—यत् स्पर्श-जं विषय-सम्बन्ध-जन्यं सुखं, तन् नरकेऽपि भवति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यश् चतुर्थो\ऽर्थार्थी मद्-विधो भक्तः, स त्व् अतिनिकृष्टो मूढ इत्य् आह—नूनम् इति । ततः कल्पतरोः कुणपो मृत-देहः, तत्-सदृशेन । कुणपः शव-दुर्गन्ध्योः इति मेदिनी । तद्-द्वारा भोगं च दक्षिणस्यां दिशि कुरुक्षेत्रादौ श्मशान-वृत्तिक-ब्रह्म-बन्धुषु महा-दक्षिणा-लोभेन शव-हस्ते बद्ध-बृहद्-दर्वी-कृत-पायसादि-भोजनेन प्रसिद्धम् इति नरके\ऽपि तत्-तुल्य-शूकरादि-योनाव् अपि तथा च । तन् नेच्छा-योग्यम् इति भावः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा केचित् कल्प-तरुम् आश्रयन्ते । अथ च तत्-सकाशाद् एव मृतक-द्वारा भोगम् इच्छन्ति, तद्-द्वारा भोगश् च कुरुक्षेत्रादौ श्मशान-वृत्तिक-ब्रह्म-बन्धुषु तद्-धस्तेन भोजनादि-रूपः प्रसिद्धः ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यश् चतुर्थोऽर्थार्थि-भक्तो मद्-विधः, स त्व् अतिनिकृष्टो मूढो इत्य् आह—नूनं निश्चितम् एव विमृष्ट-मतयो वञ्चित-बुद्धयस् ते भवन्ति । के ? ये भवाप्ययौ जन्म-मरणे तयोर् विमोक्षकं त्वाम् अन्य-हेतोस् तुच्छ-फलार्थम् अर्चन्ति । अतस् ते त्वां कल्प-तरुम् अर्चन्ति । अथ च कुणपेन मृतक-तुल्य-देहेन उपभोग्यं सुखम् इच्छन्ति । न चेच्छा-योग्यं तद् इत्य् आह—यत् स्पर्शजं विषय-सम्बन्ध-जन्यं सुखं तन् नरकेऽपि शूकरादि-योनाव् अपि भवति ॥९॥


॥ ४.९.१० ॥

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-

ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।

सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्

किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : पर-ब्रह्मणि स्थितस्य ध्यानादिकं विना न भवति, सुप्तौ दृष्टत्वात् ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु स्वर्गादि-सुखं सकामैः प्राप्यते निष्काम-भजने तन् न स्याद् इत्य् अत आह—येति । स्व-महिमनि निजानन्द-रूपेऽपि मा भूत्, न भवतीत्य् अर्थः । अन्तकस्यासिना कालेन लुलितात् खण्डिताद् विमानात्पततां सा नास्तीति किम् उ वक्तव्यम् ॥१०॥


कैवल्य-दीपिका : या इति । भवज्-जना जीव्न्मुक्ताः । स्व-महिमन्य् अपि स्वाधीन-माहात्म्येऽपि, किन्तु किं पुनः ? अन्तकस्य आसिना लुलिताद् विमानात् पततां पराधीन-माहात्म्यानाम् इत्य् अर्थः ॥१०॥ [मु।फ। १९.४२]


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति नन्व् इति । इत्य् अर्थ इति । इह लडर्थे लुङ् माङि लुङ् इति सर्वलकारविषये लुङो विधानाद् इति भावः । अत्र विश्वनाथः—ननु तर्हि भवाप्ययविमोक्षणम् इत्य् उक्त्या ब्रह्मसायुज्यम् एवार्चनफलं ब्रूषे तस्यैव कुणपोपभोग्यत्वाभावात्तदिच्छन्त एव भवन्मते\ऽभिज्ञास् तत्र नहि नहि इत्य् आह—येति । ध्यानादित्युपलक्षणं श्रवणादेर् अपि श्रवणेनेत्युपलक्षणं ध्यानादेरपि, सा निर्वृतिः स्वस्य महिम-रूपे ब्रह्मणि ब्रह्मानन्दे\ऽपि मा भून्न भवति । महतो भावो महिमा त्वं महांस्तत्तु तव महत्त्वं सर्वव्यापकत्वलक्षणो धर्म एवेति त्वन्निष्ठा यावती निर्वृतिस्तावती तत्र कथं वर्तताम् इति भावः । मदीयं महिमानं च परं ब्रह्मेति शब्दितम् इति मत्स्यदेवोक्त्यापि ब्रह्मणो भगवन्महिमत्वमवगतं ततश्चान्तकासीति स्वामिचरणैर्व्याख्यातम् एव । विमानात्स्वर्गीयात् ततश् च स्वर्गापवर्गाभ्यामन्यस्य कस्यापि फलत्वाश्रवणात् त्वद्-भक्तेर्वास्तवं फलं त्वद्-भक्तिरेवेति भक्तेः स्वतः फलत्वं भक्तानां च निष्कामत्वमुपपादितम् ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वर्गादि-सुखं मद्-आराधने सति भवति, तत् किं निन्द्यते ? तत्राह—या निर्वृतिर् इत्य्-आदि । तनुभृन्-मात्रस्य तव पाद-पद्म-ध्यानात्, अस्तु तावद् दर्शनादि, अस्तु तव पाद-पद्म-ध्यानं, भवज्-जनात् यत् तव कथा-चरणारविन्दं तस्मात् । यद् वा, भवज्-जनानाम् एव कथा-चरणारविन्दाद् या निर्वृतिः परम-सुखावाप्तिः, सा तु स्व-महिमनि स्वैश्वर्य-रूपे नास्ति, किम् उत अन्तकः कालः, स एवासिः खड्गः, तेन लुलिताद् विमानात् स्वर्गादि-लोक-स्थ-देव-यानात् पततां सा निर्वृतिर् माभूत् । मा बभूव । एतावता कालेनापि नाभवद् एव, अतो भविष्यति प्रमाणाभावः । ब्रह्मणः श्री-कृष्ण-वैभवत्वं ब्रह्म-स्वरूप-शङ्ख-स्पर्शेन भगवान् एव भाषयति, अतोऽत्र मा असूयया भक्ता गर्हणीया इति श्री-शुकदेवस्याभिप्रायः ॥१०॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४] अस्यार्थः—भवज्-जनानां कथायाः श्रवणेनस्व-महिमनि निजानन्द-रूपे\ऽपि मा भूत् न भवत्व् इत्य् अर्थः । अन्तकस्य असिना कालेन लुलितात् खण्डितात् विमानात् पततां सा नास्तीति किम् उ वक्तव्यम् इति । महतां प्रसङ्गेन परम-कृतार्थता भवतीति किं वक्तव्यं, तद् भक्त-भक्तानाम् अपि सङ्गेन स्याद् इति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ये शुद्ध-भक्तास् ते भवाप्यय-मोक्षाविर्भावि ब्रह्म-सुखम् अपि न बहु मन्यन्त इत्य् आह—येति ॥१०॥

ये शुद्ध-भक्तास् ते भवाप्यय-मोक्षाविर्भावि ब्रह्म-सुखम् अपि न बहु मन्यन्त इति श्री-भगवता शब्द-ब्रह्म-मय-कम्बु-स्पृष्ट-कपोलः तत्-प्रकाशित-यथार्थ-निगदो ध्रुवो बालकोऽपि तथा विवृतवान् इत्य् एवम् आनन्द-चमत्कार-विशेष-श्रवणाद् अपि तस्यैव पूर्णत्वम् आह—येति । स्व-महिमन्य् असाधारण-माहात्म्येऽपि ब्रह्मणि मा भूत्, न भवतीत्य् अर्थः । अन्तकासिः काल-रूपः खड्गः ॥१०॥ [भगवत्-सन्दर्भः ९१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि भवाप्यय-विमोक्षणं [भा।पु। ४.९.९] इत्य् उक्त्या ब्रह्म-सायुज्यम् एवार्चनस्य फलं ब्रूषे, तस्यैव कुणपोपभोग्यत्वाभावात् । तद् इच्छन्त एव भवन्-मतेऽभिज्ञाः ? तत्र न हि न हीत्य् आह—येति । ध्यानाद् इत्य् उपलक्षणं श्रवणादेर् अपि, श्रवणेनेत्य् उपलक्षणं ध्यानादेर् अपि सा निर्वृतिःस्वस्य महिम-रूपे ब्रह्मणि ब्रह्मानन्देऽपि मा भूत् न भवति । महतो भावो महिमा, त्वं महान्, तत् तु तव महत्त्वं सर्व-व्यापकत्व-लक्षणो धर्म एवेति त्वन्-निष्ठा यावती निर्वृतिः, तावती तत्र कथं वर्तताम् ? इति भावः । मदीयं महिमानं च परं ब्रह्मेति शब्दितं [भा।पु। ८.२४.३८] इति मत्स्य-देवोक्त्यापि ब्रह्मणो भगवन्-महिमत्वम् अवगतम् । ततश् च अन्तकासिना कालेन लुलितात् खण्डितात् विमानात् स्वर्गीयात् पततां नास्तीति किम् उ वक्तव्यम्, ततश् च स्वर्गापवर्गाभ्याम् अधिकस्यान्यस्य कस्यापि फल-श्रवणात् । त्वद्-भक्तेर् वास्तवं फलं त्वद्-भक्तिर् एवेति भक्तेः स्वतः फलत्वं भक्तानां च निष्कामत्वम् उपपादितम् ॥१०॥


॥ ४.९.११ ॥

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयाद् अनन्त महताम् अमलाशयानाम् ।

येनाञ्जसोल्बणम् उरु-व्यसनं भवाब्धिम्

नेष्ये भवद्-गुण-कथामृत-पान-मत्तः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् ते कथा-श्रवणाय सत्-सङ्गतिं देहीत्य् आह—भक्तिं त्वयि प्रवहतां सातत्येन कुर्वताम् । ननु मोक्षं किं न याचसे ? अत आह—येन महत्-प्रसङ्गेन अञ्जसा अयत्नत एव उरूणि व्यसनानि यस्मिंस् तम् । नेष्ये पारं गमिष्यामि । भवद्-गुण-कथैव अमृतं, तस्य पानेन मत्तः सन् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा च श्रवणकीर्तनादिमयी भक्तिः । सत्सङ्गं विना न सुरसीभवतीति सत्सङ्गं प्रार्थयते अत इति । यतः श्रवणादिभक्तिरे व मुख्यातो हेतोः अत्राशङ्कते तर्हि संसाराब्धेर्भयं ते स्थास्यत्येवातो मोक्षं वरयेति चेत्साटोपं सभुजास्फोटं चाह—येनेति । नेष्ये ग्रहीष्यामि स यदि ममाभिमुखमभ्येति तदारात्तु द्रक्ष्यामि किं मे कर्तुं शक्नुयाद् इति भावः । किं चामृतं पिबतं मृत्युर् अपि स्प्रष्टुं न शक्नोतीति तथा स्पर्द्धावज्ञाद्वेषादयश् च तं न व्यथयितुं शक्नुवन्तीति भावः । अत्र सत्सङ्गोत्थया भक्त्या भगवन्तं साक्षात्कृत्यापि पुनः सत्सङ्गस्य प्रार्थनाद्भक्तिकारणम् अपि भक्तिफलम् अपि भक्तिर् अपि सत्सङ्ग इति भक्तानां मतं व्यंजितम् ॥११॥


कैवल्य-दीपिका : भक्तिम् इति । प्रकृष्टः सङ्गः प्रसङ्गः । भक्तत्वाद् विष्णु-कथा-श्रावकत्वं महत्त्वाद् आश्रित-वत्सलत्वम् अमलाशयत्वाद् बोधकत्वम् । नेष्ये अतिक्रमिष्यामि ॥११॥ [मु।फ। १९.१५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् त्वत्-कथा-चरणारविन्दं यतो भवति, तं महत्-सङ्गं देहीति प्रार्थयन्न् आह—भक्तिं मुहुर् इत्य्-आदि । त्वयि मुहुर् भक्तिं प्रवहतां महतां प्रसङ्गः प्रकृष्टः सङ्गो भूयात्, मुहुर् भूयाद् इति वान्वयः । येन महत्-सङ्गेन भवत्-कथा-पान-मत्तः सन् भवाब्धिं नेष्ये, शोषयिष्यामीत्य् अर्थः । अथवा, भवाब्धिम् उरु-व्यसनं नेष्ये, नीञो द्वि-कर्मकता ॥११॥


सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.२९०] भक्तिं त्वयि प्रवहतां सातत्येन कुर्वताम्, अत एव अमलाशयानां प्रसङ्गो मे मया सह भूयात् । ननु मोक्षः किं न याचसे ? अत आह—येन महत्-प्रसङ्गेन अञ्जसा अयत्नत एव, उरूणि व्यसनानि यस्मिन् तत्, नेष्ये पारं गमिष्यामि । भगवद्-गुण-कथा एव अमृतं, तस्य पानेन मत्तः सन् ।

अत्र मत्त-शब्देनैवं सूच्यते—यथा मदिरा-मत्तो न जानाति कथं रात्रिर् गता, दिनम् आयातं वेति, तथा सत्-सङ्ग-जात-कथामृत-पान-मत्तोऽपि न जानाति कथं संसारोऽपगतः, मोक्षो वा जात इति । एवम् अमृत-पानस्य यथा देह-गेहाद्य्-अननुसन्धानं न फलं, किन्तु परम-मधुर-रसास्वादनादिकम् एव, तथा सत्-सङ्गस्य भगवत्-कथामृत-पानम् एव फलं, मोक्षस् त्व् आनुषङ्गिकः स्वयम् एवोपस्थास्यति, किं तद्-याचनेनेति भावः ॥११॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४] अस्यार्थः—भक्तिं त्वयि प्रवहतां सातत्येन कुर्वताम् अतो\ऽमलाशयानां विशुद्ध-चित्तानाम्, अत एव महतां प्रकृष्टः सङ्गो मे भूयात् । ननु तुरीय-पुरुषार्थं मोक्षं किं न याचसे ? आनुषङ्गिक-फलत्वेन तस्य स्वयम् एव सिद्धेर् इत्य् आह—येन महत्-प्रसङ्गेन भवद्-गुण-कथयैवामृतं, तस्य पानेन मत्तः सन् अञ्जसा अनायासेनैव उरूणि व्यसनानि यस्मिन्, तम् अपि भवाब्धिम् संसार-सागरं नेष्ये उत्तरिष्यामि ।

एतद् उक्तं भवति—यथा हि मधु-पानासक्तानां तद्-आस्वादनम् एव मुख्य-फलं शीतादि-तरणं चानुषङ्गिकं, तथा भगवद्-भक्ति-सुधा-पान-रसिकानां निरन्तर-तत्-पानम् एव मुख्यं फलम् मोक्षादिकं च नान्तरीयकम् इति स्वत एव सिध्येद् इति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अमलाशयानां निष्कामानां येन परम-पुरुषार्थतयाभिमतेन अञ्जसा अयत्नतः एव उरूणि व्यसनानि यस्मिन् नेष्ये गमयिष्यामि, तस्यानुभव-मात्रं दूरीकरिष्यामीत्य् अर्थः ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा च श्रवण-कीर्तनादि-मयी भक्तिः सत्-सङ्गं विना न सुरसीभवतीति सत्-सङ्गं प्रार्थयते—भक्तिं त्वयि प्रवहतां प्रवाह-रूपेणाविच्छिन्नाम् एव दधताम् । ननु तर्हि संसार-दुःखाब्धेर् भयं ते स्थास्यत्य् एवेति तत्र साटोपं स-भुजास्फोटम् आह—येन महत्-सङ्ग-बलेन उल्बणम् अपि बहु-व्यसन-युक्तम् अपि भवाब्धिंनेष्ये ग्रहीष्यामि, यदि स मद्-अभिमुखम् अभ्येति, तदा आयातु, द्रक्ष्यामि, किं मे कर्तुं शक्नुयाद् इति भावः ।

कीदृशः सन् ? भवद्-गुण-कथा एव अमृतं तत्-पानेन मत्त इति, नहि स्पर्धावज्ञा-द्वेषादयः सांसारिका धर्मा मत्तं दुःखयितुं शक्नुवन्ति, नापि मृत्युर् अमृतं पिबन्तं स्प्रष्टुम् अपि शक्नुयाद् इति भावः । अत्र सत्-सङ्गोत्थयैव भक्त्या भगवन्तं साक्षात्कृत्यापि पुनः सत्-सङ्गस्य प्रार्थनाद् भक्ति-कारणम् अपि भक्ति-फलम् अपि स्वयं भक्तिर् सत्-सङ्ग इति भक्तानां मतं व्यञ्जितम् ॥११॥


॥ ४.९.१२ ॥

ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यम्

ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः ।

ये त्व् अब्ज-नाभ भवदीय-पदारविन्द-

सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ये स्वां सम्पदः स्मरन्ति, ते त्वां न स्मरन्ति । ये भगवद्-भक्त-सङ्गाः ते स्वाः सम्पदो न स्मरन्ति ॥१२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथामृत-पानस्य मादकत्वम् आह । तेऽतितरां प्रियम् अपि मर्त्यं देहं न स्मरन्ति नानुसन्दधते । येचसुतादयःअदः मर्त्यम् अनुसंबद्धास् तान् अपि । के ते न स्मरन्ति ? ये कृत-प्रसङ्गाः । केषु ? भवदीय-पदारविन्द-सौगन्ध्येलुब्धं हृदयं येषां तेषु । तु-शब्देनान्येषां केवल-योगादि-निष्ठानां देहाद्य्-अभिमानानिवृत्तिं दर्शयति ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु तद् अप्य् अहन्तास्पद-ममतास्पदयोर् विद्यमानत्वे खलु द्वेषो दुर्वार इत्य् अत आह— इति । भक्तानां निष्कामत्व-द्योतकः स्वभाव एव । वस्तुतस् तु,

कथम् अनुवर्ततां भव-भयं तव यद् भृकुटिः

सृजति मुहुस् त्रिणेमिर् अभवच् छरणेषु भयम् [भा।पु। १०.८७.३२] इति ।

जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३३]

इत्य्-आदेर् अननुसंहितं भक्तेः फलं संसार-निवृत्तिर् अस्त्य् एव ॥१२॥


कैवल्य-दीपिका : ते न इति । मर्त्यं शरीरं प्रियम् अपि न स्मरन्तिये च अदो मर्त्यम् अनु अमुना देहेन सह स्थिताः । तत्-सम्बन्धात् सम्बन्धिनः सुतादयः । तान् अपि न स्मरन्ति । के ये भगवद्-भक्तेषु कृत-प्रसङ्गः ॥१२॥ [मु।फ। १९.४३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु सत्सु सुत-दुहितृ-सुहृद्-दारादिषु बद्ध-मूलेषु केवलेनैकेन महत्-सङ्गेन भव-सिन्धुं कथं तरिष्यसि ? इति तत्राह—ते न स्मरन्तीति । हे अब्जनाभ ! ये तु भवदीय-पदारविन्द-सौगन्ध्य-लुब्ध-हृदयेषुकृत-प्रसङ्गाः, तेऽतितरां प्रियम् अपि मर्त्यं देहं न स्मरन्ति, अतोऽनु ये सुतादयस् तान् न स्मरन्तीति किम् उत वाच्यम् ? ॥१२॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४] भवदीया वैष्णवाः, तेषां पदारविन्दयोः सौगन्ध्य-सेवायाम् इत्य् अर्थः लुब्धं हृदयं येषां, तेषु ये कृत-प्रसङ्गाःतु-शब्देन अन्येषां केवल-योगादि-निष्ठानां देहाद्य्-अभिमानाद्य्-अनिवृत्तिं दर्शयति । ते अतितराम् अतिशयेन प्रियम् अपि मर्त्यं देहं न स्मरन्ति नानुसन्दधते, अतितरां न स्मरन्तीति वान्वयः, भगवच्-चरणारविन्द-विषयक-प्रेम-सिद्धेः । यथोक्तम् एकादश-स्कन्धे श्री-हंसेन—

देहं च नश्वरम् अवस्थितम् उत्थितं वा

सिद्धो न पश्यति यतो\ऽध्यगमत् स्वरूपम् ।

दैवाद् अपेतम् अथ दैव-वशाद् उपेतं

वासौ यथा परिहितं मदिरा-मदान्धः ॥ [भा।पु। ११.१३.३६] इति ।

अत एव अदो मर्त्यम् अनु सम्बन्धा ये सुतादयः, तान् अपि न स्मरन्त्य् एवेति ॥।१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तद् अप्य् अहन्तास्पद-ममतास्पदयोर् विद्यमानत्वे खलूद्वेगो दुर्वार इत्य् अत आह—ते अतितरां प्रियम् अपि मर्त्यं देहं न स्मरन्ति नानुसन्दधते—ये च अदो मर्त्यम् अनु लक्षीकृत्य वर्तमानाः सुतादयस् तान् अपि । के ते ? ये भवदीयेत्य्-आदि । "तु-शब्देनान्येषां केवल-योगादि-निष्ठानां देहाभिमानानिवृत्तिं दर्शयतीति" स्वामि-चरणाः । भक्तानां निष्कामत्व-द्योतकः स्वभाव एवायम् । वस्तुतस् तु,

कथम् अनुवर्ततां भव-भयं तव यद् भ्रुकुटिः

सृजति मुहुस् त्रिणेमिर् अभवच्-छरणेषु भयम् [भा।पु। १०.८७.३२] इति ।

जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३३] इत्य्-आदेर् अननुसंहितं भक्तेः फलं संसार-निवृत्तिर् अस्त्य् एव ॥१२॥


॥ ४.९.१३ ॥

तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य-

मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् ।

रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकम्

नातः परं परम वेद्मि न यत्र वादः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

पश्यमानोऽपि तु हरिं न तु वेत्ति कथञ्चन ।

वेत्ति किञ्चित् प्रसादेन हरेर् अथ गुरोस् तथा ॥ इति ब्रह्म-तर्के ॥१३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं विद्वान् अपि त्वं किम् इत्य् अभिमानं वहसि ? अत आह—तिर्यग् इति । तिर्यङ्-नगादिभिः परिचितं व्याप्तम् । सन्तोऽसन्तश्विशेषा यस्य । महद्-आदीन्य् अनेकानि कारणानि यस्य । हे परम ! अज ! ते इदं स्थविष्ठं विराड्-रूपं केवलं वेद्मिअतःपरम् ईश्वर-स्वरूपं वेद्मि । यत्र वादः शब्द-व्यापारो नास्ति, तद् ब्रह्म-रूपं च न वेद्मि । अतोऽभिमानो न निवर्तत इति भावः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्तु तावत् तेषां सुतादि-स्मरणं , ते तव विराड्-रूपं न स्मरन्तीत्य् आह—तिर्यङ्-नग-द्विज- इत्य्-आदि । अतः पुरतो दृश्यमानात् मद्-अनुग्रह-हेतोः स्वयम् आविर्भूतात्, परम् अन्यत् तव स्थविष्ठं विराड्-रूपं न स्मरन्तीति पूर्वेणान्वयः । अतः इत्य् अस्य विवरणं—न यत्र वादः, अस्मिन् श्री-विग्रहे वादो नास्ति, तत्र तु बहव एव वादाः अत एव भक्तैर् उच्यते—श्री-विग्रहो घनानन्दो ब्रह्मादिकः <details>

विषयः

परः ।

ब्रह्म-भूयं गतं ब्रह्मानन्दयत्य् एष पश्यतः । आनन्दयति आनन्दं करोति । तत्र वादो नास्तीति कृत्? ज्ञातं बालकेन भवता ? तत्राह---वेद्मि, मयायम् अनुभवः । त्वद्-अनुभवे किं प्रामाण्यम् इति वक्तव्यम्, यतो भवतैव शङ्ख-स्पर्शेन कारितोऽयं ममानुभव इति वेद्मि-पदस्य तात्पर्यम् ॥१३॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं जानासि चेत् तर्हि मत्पित्रादिभ्यो\ऽप्य् अप्राप्तं पदं साधयामीति सङ्कल्पः । किम् इति तद्भजनम् एव कुतो नाकार्षीरित्याक्षिपतिनन्व् इति । न वेद्मीति वर्तमानसामीप्ये वर्तमानवद्वा इति विधानादेतावन्तं कालं नावेदिषम् इत्य् अर्थः । अजेति परमेति च विराड्रूप एव मे\ऽनाद्यन्तदृष्टिरस्ति दुर्ज्ञेयमतः परं यद्रूपमस्ति तत्र मे बुद्धिर्नारोहतीति भावम् आह । अतस्तज्ज्ञानाभावात् । इति भाव इति । अहं ममेति भावोयं विना ज्ञानं न नश्यति इति पूर्वं बालत्वेनाज्ञत्वात्तथादुर्भावनामकरवमधुना त्वदीय-कंबुस्पर्शेन सर्वम् एव वेदार्थमज्ञासिषमत एव श्रीमच्चरणेष्वेवं निवेदयामीति तात्पर्यम् ॥१३॥


जीव-गोस्वामी (भगवत्-सन्दर्भः ३८) : इत्थम् एवात्र श्री-ध्रुवेण निर्विवादत्वम् उक्तम्—तिर्यग् इति । अत्र रूप-शब्दस्यैवोभयत्र विशेष्यत्वेन, भूप रूपम् अरूपं च परं चापरम् एव च [वि।पु। ६.७.४७] इति वैष्णव-वाक्यानुसारेण च । अतः परं चतुर्भुजादित्व-लक्षणं रूपं वपुर् इत्य् अर्थः । तन् न वेद्मि वर्तमान-सामीप्ये वर्तमानवद् वेति विधानाद् एतावन्तं कालं नाज्ञासिषम्1 इत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तथा कस्माद् आविर्भूतं श्री-भगवन्तम् अनुभूय निज-पूर्वावस्थाम् अनुशोचति—तिर्यग् इति । न वेद्मि वर्तमान-सामीप्ये वर्तमानवद् वेति विधानात् एतावन्तं कालं नावेदिषम् इत्य् अर्थः । येनान्यथा सङ्कल्प्य तवाराधनं कृतम् इति भावः । यथा विराड्-रूपे सत्यत्वासत्यत्व-विचार-मयो वादस् तथा यत्र नास्तीति प्रौढि-वचनम् ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि भवाप्यय एवं विद्वान् अपि त्वं किम् इत्य् अभिमानं वहसि ? अत आह—तिर्यग् इति । तिर्यङ्-नगादिभिः परिचितं व्याप्तम् । सन्तोऽसन्तश्विशेषा यस्य । महद्-आदीन्य् अनेकानि कारणानि यस्य । हे परम ! अज ! ते इदं स्थविष्ठं विराड्-रूपं केवलं वेद्मिअतः परम् ईश्वर-स्वरूपं न वेद्मियत्र वादः शब्द-व्यापारो नास्ति, तद् ब्रह्म-रूपं च न वेद्मि । अतोऽभिमानो न निवर्तत इति भावः ॥१३॥


॥ ४.९.१४ ॥

कल्पान्त एतद् अखिलं जठरेण गृह्णन्

शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के ।

यन्-नाभि-सिन्धु-रुह-काञ्चन-लोक-पद्म-

गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं भगवद्-अनुकम्पया तद् रूप-द्वयं ज्ञात्वेश्वर-रूपम् अनुवर्णयन् नमस्करोति—कल्पान्त एतद् इति । एतत् त्रैलोक्यं यः पुमान् शेते । स्वस्मिन्न् एव दृक् न बहिर् यस्य योग-निद्रारूढत्वात् । अनन्त-सखः शेष-सहायः । तद् अङ्के शेषोत्सङ्गे । यस्य नाभिर् एव सिन्धुः समुद्रस् तस्मिन् रोहतीति तथा तस्मिन् काञ्चन-लोक-पद्मस्य गर्भे कर्णिकायां द्यु-मांस् तेजस्वी ब्रह्मा भवति । तं प्रणतोऽस्मीत्य् अर्थः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु मां जानासि चेत् तर्हि त्वामहं परीक्षिष्ये कथय कोहम् इति चेत्तदैव भगवद्-एतद्-उक्ति-समकालम् एव कांचनलोकपद्मस्यागन्तुकसौवर्णवर्णकमलस्य । इत्य् अर्थ इति । तं प्रसादयितुं नतोस्मि केवलं, न तु परिचरितुं किम् अपि शक्नोमीति भावः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एतद् दृश्यमान-परम-रूपम् एव सर्वाश्रयत्वेन प्रतिपादयति—कल्पान्त इति ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मां जानासि चेत्, त्वाम् अहं परीक्षिष्ये, कथय, कोऽहम् इति तत्राह—कल्पान्त इति त्रिभिः । स्वस्मिन्न् एव दृक्, न तु बहिर् यस्य योग-निद्रारूढत्वात्, तस्यानन्तस्य शेषस्याङ्के उत्सङ्गे शेते । यस्य नाभि-सिन्धु-रुहे नाभि-कमले आगन्तुकं काञ्चन-वर्णं लोकात्मकं यत् पद्मं तस्य गर्भे कर्णिकायां द्युमांस् तेजस्वी ब्रह्मा भवति, तस्मै तं त्वां प्रसादयितुम् नतोऽस्मि केवलं, न तु परिचरितुं किम् अपि शक्नोमीति भावः ॥१४॥


॥ ४.९.१५ ॥

त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा ।

कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः।

यद्-बुद्ध्य्-अवस्थितिम् अखण्डितया स्व-दृष्ट्या

द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आः से ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वधिम् अवधिम् । अल्पोपेन संसारस्यावधि-ब्स्थितं त्वाम् आस्थिताः । सहैवास्ते ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ममापि स्वापाद्य् अवस्थावत्त्वे को जीवाद् विशेष इत्य् अत आह त्वं तु व्यतिरिक्तो जीव-विलक्षण आः से तिष्ठसि । वैलक्षण्यम् एवाह । त्वं तु नित्य-मुक्तो जीवस् तु त्वत्-प्रसादान् मुच्यन्ते । त्वं परिशुद्धः स तु मलिनः । त्वं तु विबुद्धः स त्व् अज्ञः । त्वम् आत्मा स तु जडः । त्वं कूट-स्थः स तु विकारी । त्वम् आदि-पुरुषः स त्व् आदि-मान् । त्वं तु भगवान् स तु भग-हीनः । त्वं त्रयाणां गुणानाम् अधीशः स तु पर-तन्त्रः । कुत एतद् वैलक्षण्यम् । यद्य् अतो बुद्ध्य्-अवस्थितिं बुद्धेस् तां ताम् अवस्थाम् अखण्डितया स्व-दृष्ट्या चिच्-छक्त्या द्रष्टा पश्यसि । द्रष्टेति तॄन् प्रत्ययान्तः । अतो बुद्ध्य्-अवस्थितिम् इत्य् अत्र षष्ठ्य्-अभावः तथाभूत एव त्वं स्थितौ पालनेऽधिमखो यज्ञाधिष्ठाता श्री-विष्णुः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । नित्यमुक्तः अविद्याकर्माजनित-स्वरूपत्वात् परिशुद्धः शुद्धसत्त्वात्मक-रूपत्वात् विबुद्धस्तत एव स्वरूपसिद्धज्ञानस्यानावरणात् प्रत्युतोल्लासात् आत्मा स्वरूपाभिन्नत्वात् । कूटस्थ एक-रूपतया कालव्यापी, स तु नानारूपतयैव, आदिपुरुष आदित एव पुरुषाकारः स्वभावसिद्ध-रूपत्वात् । चक्रवर्ती तु—आदिकारणं पुरुषाकारश् च स तु न कारणं स्त्रीपुंनपुंसकाकारश्चेत्याह । भगवान् पूर्णशक्त्याश्रयः वस्तुलक्षण-रूपत्वात् त्र्यधीशस्त्रिगुणशक्तेर्नियामकः तदतिरिक्त-स्वरूप-शक्त्यात्मक-रूपत्वात् तस्मात्तव रूपस्य च प्रकृत्यतीतशक्तिमयत्वादेकात्मकत्वेनान्याभ्यां रूपिरूपाभ्यां विशेष एवेति सन्दर्भः । तां तां स्वापाद्यवस्थाम् । जीवस्तु-बुद्ध्यवस्थाभिः खण्डितदृष्टिः त्वं तु स्थितौ जगत्पालनकर्मण्याः से, स तु स्वपालने\ऽप्य् असमर्थः । त्वं यज्ञादिकर्माधिष्ठाता स तु यज्ञादिकर्माधीनः । अतस्त्वं तस्माद्विविक्त एवाः से तव योगनिद्रादिकं च चिच्छक्तिविलास इति जानाम्येवेति भाव इति विश्वनाथः । अतस्तृन्प्रत्ययान्तत्वात् न लोकाव्ययनिष्ठाखलर्थततृनाम् इति निषेधात् षष्ठी न ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु रूपित्वे सति विराड्-व्यष्टि-रूपि-रूपेभ्यः प्रपञ्चेभ्यो मम को विशेषः येन रूपस्यापि वैलक्षण्यं हेतुत्वेन तर्क्यते, तत्राह—त्वं नित्य-मुक्तः अविद्या-कर्माजनित-रूपत्वात् परिशुद्धः शुद्ध-सत्त्वात्मक-रूपत्वात् विबुद्धः । तत एव स्वरूप-सिद्ध-ज्ञानस्यानावरणात् प्रत्युतोल्लासात् । आत्मा स्वरूपाभिन्नत्वात् कूटस्थ एक-रूपतया काल-व्यापी । सदातनः सर्व-रूपत्वात् आदि-पुरुषः आदित एव पुरुषाकारः स्वभाव-सिद्धत्वात् । भगवान् पूर्ण-शक्त्य्-आश्रयः वस्तु-लक्षणत्वात् अधीशः त्रिगुण-शक्तेर् नियामकः तद्-अतिरिक्त-स्वरूप-शक्त्य्-आत्मक-रूपत्वात् । तस्मात् तव रूपस्य च प्रकृत्य्-अतीत-शतिमयत्वाद् एकात्मकत्वेनान्याभ्यां रूपि-रूपाभ्यां विशेष एव तद्-अतीत-शक्ति-मयत्वम् एव योजयति—यद् इति ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ममापि शयनाद्य्-अवस्थावत्त्वे को जीवाद् विशेषस् तत्राह—यद् यतस् त्वं नित्य-मुक्तः, जीवस् तु त्वत्-प्रसादान् मुच्यते, त्वं परिशुद्धः, स च मलिनः, त्वं विबुद्धः सर्वज्ञः, स त्व् अल्प-ज्ञः, त्वम् आत्मा, स तु देहाध्यासी जडः । त्वं कूटस्थो निर्विकारः, स तु विकारी । यद् वा, त्वं कूटस्थ एक-रूपतया काल-व्यापी, स तु नाना-रूपतयैव, त्वम् आदिः कारणं पुरुषः पुरुषाकारश् च, स तु न कारणम्, स्त्री-पुं-नपुंसकाकारश् च, त्वं भगवान्, स तु भग-हीनः । त्वं त्र्यधीशः, स तु त्रिगुणाधिणः । त्वं बुद्ध्य्-अवस्थितिं जीवस्य बुद्धेर् अवस्थां स्वापादिकाम् अखण्डितया स्व-दृष्ट्या चिच्-छक्त्या साक्षित्वेन द्रष्टा, स तु बुद्ध्य्-अवस्थाभिः खण्डित-दृष्टिः, त्वं स्थितौ सर्व-जगत्-पालने कर्मण्य् आः से, स तु स्व-पालनेऽप्य् असमर्थः । त्वम् अधिमखः मखादि-कर्माधिष्ठाता, स तु मखादि-कर्माधीनः । अतस् त्वं तस्माद् व्यतिरिक्त एवाः से, तव योग-निद्रादिकं तु चिच्-छक्ति-विलास इति जानाम्य् एवेति भावः ॥१५॥


॥ ४.९.१६ ॥

यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति

विद्यादयो विविध-शक्तय आनुपूर्व्यात् ।

तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम्

आनन्द-मात्रम् अविकारम् अहं प्रपद्ये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आनुपूर्वी श्रुतिश् चैव त्रयी चाम्नायौच्यते इत्य् अभिधानम् ॥१६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एव ब्रह्म-रूपेण ज्ञातं नमस्करोति—यस्मिन्न् इति । पतन्त्य् अकस्माद् उद्भवन्ति । विश्वस्य भवो यस्मात् । एकम् अखण्डम् । आद्यम् अनादिम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सविशेषं स्वरूपमुक्त्वा निर्विशेषम् आह—यस्मिन्न् इति । अविकारं केवलमानन्दमात्रम् एव नित्यचिदानन्दात्मकनानाविशेषग्रहणासमर्थानां दूरस्थानां केवलशान्तानां भक्ति-मिश्र-ज्ञानदृष्ट्या भातं तद्ब्रह्म त्वन्महिम-स्वरूपं प्रपद्य यस्मिन् निःशक्तिकत्वेन प्रतीतपि विश्वशक्तयो\ऽ निशं स्थिता आनुपूर्व्यात्पतन्ति प्रतीता भवन्ति । अत एव त्वं भक्तितारतम्येन सामीप्यतारतम्यवतां विशेषतारतम्यग्रहणसमर्थानां भक्ति-मिश्र-ज्ञानिभ्यः किञ्चिदधिकभक्तिमतां प्रथमं विद्याशक्तिमानात्मेति भासि । ततो\ऽप्य् अधिकभक्तिमतां मायाशक्तिमान्पुरुषो जगत्कारणम् इति । अत एव विश्वभवम् इति विशेषणं ततः संपूर्णभक्तिदृष्ट्या ऐश्वर्यमाधुर्याद्यनन्तशक्तिमान्भगवानिति । तत्राप्यतिप्रविष्टधियां लीलालावण्यकलाकुतूहलवैदग्धीमहोदधिर् इति त्वमनुभवगोचरीभवसि । यथा नगरस्यातिदूरस्थजना विशेषमनुपलभमाना इदमग्रे स्थितं वस्तुमात्रम् इति तद् एव पश्यन्ति अनतिदूरस्था वृक्षखण्डम् इति समीपस्था विविधनिष्कुटाट्टपुरगोपुरगृहध्वजपताकादियुक्तं नगरम् इति तत्र प्रविष्टास्तु विचित्रतडागरथ्याविपणिशृङ्गाटकाजिरनृत्यगीतवादित्रादिसकलसुखास्पदमित्यनुभवन्ति । यथाहुः प्रांचोपि—

चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।

विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ इति ।

शक्तयः कीदृश्यः विरुद्धगतय इति विद्याविद्ययोः सर्गसंहारयोर्जन्मवत्ताजत्वयोरनीहत्वसलीलत्वयोरात्मारामत्वभक्तवात्सल्ययोर्विरोधे\ऽपि तत्तच्छक्तीनामतर्क्यैव त्वयि नित्या स्थितिरेवेति ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् उभय-शक्ति-युक्तत्वाच् च तव नायुक्तम् । सर्व-शक्तित्वाद् विरुद्ध-शक्ति-निधानम् एव हि त्वम् इत्य् आह—यस्मिन्न् इति । आनुपूर्व्यात् स्व-स्व-वर्गे उत्तम-मध्यम-कनिष्ठ-भावेन वर्तमाना विविध-शक्तयः प्रायः परस्परं विरुद्ध-गतयोऽपि यस्मिन् यद् आश्रित्याऽनिशं पतन्ति प्रवर्तन्ते स्व-स्व-व्यापारं कुर्वन्तीत्य् अर्थः ।*।*१६॥ (भगवत्-सन्दर्भ १०)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-विशेषं भगवत्-स्वरूपम् उक्त्वा निर्विशेष-ब्रह्म-स्वरूपम् आह—यस्मिन्न् इति । निर्विकारं केवलम् आनन्द-मात्रम् एव । नित्य-चिद्-आत्मक-नाना-विशेष-ग्रहणासमर्थानां दूरस्थानां केवल-शान्तानां भक्ति-मिश्र-ज्ञान-दृष्ट्या भातं तद् ब्रह्म त्वन्-महिम-स्वरूपं प्रपद्ये, यस्मिन् निःशक्तिकत्वेन प्रतीतेऽपि विद्यादयो विविध-शक्तयोऽनिशं स्थिता आनुपूर्व्यात् पतन्ति प्रतीत्य भवन्ति । अत एव त्वं भक्ति-तारतम्येन सांईप्य-तारतम्यवतां विशेष-तारतम्य-ग्रहण-समर्थानां भक्ति-मिश्र-ज्ञानिभ्यः किञ्चिद् अधिक-भक्तिमतां प्रथमं विद्या-शक्तिमान् आत्मेति भासि, तातोऽप्य् अधिक-भक्तिमतां माया-शक्तिमान् पुरुषो जगत्-कारणम् इति । अत एव विश्व-भवम् इति विशेषणम्, ततः सम्पूर्ण-भक्ति-दृष्ट्या ऐश्वर्य-माधुर्याद्य्-अनन्त-शक्तिमान् भगवान् इति, तत्राप्य् अतिप्रविष्ट-धियां लीला-लावण्य-कला-कुतूहल-वैदग्धी-महोदधिर् इति त्वम् अनुभव-गोचरीभवसि । यथा नगरस्यातिदूरस्थ-जना विशेषम् अनुपलभमाना इदम् अग्रे स्थितं वस्तु-मात्रम् इति । तद् एव पश्यन्ति अनतिदूरस्था वृक्ष-षण्डम् इति । समीप-स्थास् तु विविध-निष्कुटाट्टा-पुर-गोपुर-गृह-ध्वज-पताकादि-युक्तं नगरम् इति तत्र प्रविष्टास् तु विचित्र-तडाग-रथ्या-विपणि-शृङ्गाटकाजिर-नृत्य-गीत-वादित्रादि-सकल-सुखास्पदम् इत्य् अनुभवन्ति । यथाहुः प्राञ्चोऽपि—

चयस् त्विषाम् इत्य् अवधारितं पुरा

ततः शरीरीति विभाविताकृतिम् ।

विभुर् विभक्तावयवः पुमान् इति

क्रमाद् अमुं नारद इत्य् अबोधि सः ॥ [शि।व। १.३] इति ।

शक्तयः कीदृशाः ? विरुद्ध-गतयः इति विद्याविद्ययोः अर्ग-संहारयोर् जन्मवत्त्वाजत्वयोर् अनीहत्व-सलीलत्वयोर् आत्मारामत्व-भक्त-वात्सल्ययोर् विरोधेऽपि तत्-तच्-छक्तीनाम् अतर्कैव त्वयि नित्या स्थितिर् एव ॥१६॥


॥ ४.९.१७ ॥

सत्याशिषो हि भगवंस् तव पाद-पद्मम्

आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः ।

अप्य् एवम् अर्य2 भगवान् परिपाति दीनान्

वाश्रे व वत्सकम् अनुग्रह-कातरोऽस्मान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तव पाद-मूलं भजत आचार् यस्याशिष्टयः शिक्षाः सत्याशीः-प्रदा एव तथापि अस्मान् शिष्यान् विशिष्ट-फल-प्राप्तये पुनः परिपाति भवान् ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सकाम-भजनाद् अपि मोक्षम् आशासान आह—हे भगवन् ! पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य, तव पाद-पद्मम् आशिषो राज्यादेः सकाशात् सत्या आशीः, परमार्थ-फलम् । हि निश्चितम् । कस्य ? तथा तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं निष्कामतया अनुभजतः । यद्य् अप्य् एवं, तथापि हे अर्य ! स्वामिन् ! दीनान् सकामान् अप्य् अस्मान्भगवान् भवान् परिपाति, संसार-भयाद् रक्षत्य् एव । यतः, अनुग्रहे हिताचरणे कातरः पर-वशः । यथा नव-प्रसूता वाश्रा धेनुर् वत्सं क्षीरं पाययति, वृकादिभ्यो रक्षति च, तद्वत् ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु भो बालक सत्यम् एव त्वं मत्-स्वरूपं जानास्येव, किं तु तव सांप्रतिकनिष्कामत्वे\ऽपि यथापूर्वसङ्कल्पम् एव फलमहं दास्यामि गृहाणेति, तत्र स्वस्याज्ञत्वं विवृण्वन्प्रेममाधुर्यमाशासान आह—सत्येति । हे भगवन्न् इति । निरतिशयानन्दयुक्तत्वम् आह—तव पादपद्मम् एवाशिषो राज्यादेः सकाशात्सत्याशीः परमार्थफलं कस्य तथा तेन प्रकारेण त्वम् एव पुरुषार्थमूर्तिरित्य् एवं निष्कामतयात्वनुभजतः, एवम् अपि दीनानस्मान्कृतसकामभजनानपि परिपाति निष्कामप्राप्यपाद पद्मकिंचिन्माधुर्यदानेनेत्य् अर्थः । तत्र हेतुः अनुग्रहकातरः बालत्वाद्यद्यप्ययं शुद्ध-भक्तिन्न जानाति तदपि तत्फलं स्वमाधुर्यमास्वादयामीति बुद्ध्येत्य् अर्थः । वाश्रा धेनुर्यथा वत्सकमज्ञं स्वामभजन्तम् अपि स्वदुग्धं पाययति रक्षति च सिंहादिभ्यस्तद्वन्माम् अपि स्वचरणमाधुर्यमास्वादयतु सकामत्वादिभक्तिविघ्नेभ्यश् च रक्षत्व् इति भावः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहरति—सत्याशिष इत्य्-आदि । हे आर्य ! []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् त्वद्-रूपस्य स्वरूप-पूर्ण-परमानन्द-रूपत्वात् परम-पुरुषार्थस् त्वम् एवेति साधूक्तं या निर्वृतिः [भा।पु।४.९.१०] इत्य्-आदिकम् इत्य् आह—सत्येति । "आशिष्टया" इति चित्सुखः । हे अर्य इति, अर्यः स्वामि-वैश्ययोर् इति निपातात् ह्रस्वादिर् एवायम् ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु "भो बालक ! सत्यम् एव त्वं मत्-स्वरूपं जानास्य् एव, किन्तु तव साम्प्रतिक-निष्कामत्वेऽपि यथा पूर्व-सङ्कल्पम् एव फलम् अहं दास्यामि गृहाण" इति, तत्र स्वस्याज्ञत्वं विवृण्वन् प्रेम-माधुर्यम् आशासान आह—सत्येति ।

हे भगवंस् तव पाद-पद्मम् एव आशिषो राज्यादेः सकाशात् सत्या आशीः परमार्थ-फलम् । कस्य ? तथा तेन प्रकारेण त्वम् एव पुरुषार्थ-मूर्तिर् इत्य् एवं निष्कामतया अन्व् अनुभजतः एवम् अपि दीनान् अस्मान् कृत-सकाम-भजनान् अपि परिपाति निष्काम-प्राप्य-पाद-पद्म-किञ्चिन्-माधुर्य-दानेनेत्य् अर्थः । तत्र हेतुः—अनुग्रह-कातरः, "बालत्वाद् यद्यप्य् अयं मच्-छुद्ध-भक्तिं न जानाति, तद् अपि तत्-फलं स्व-माधुर्यम् इमम् आस्वादयामि" इति बुद्ध्येत्य् अर्थः ।

वाश्रा धेनुर् यथा वत्सकम् अज्ञं स्वम् अभजन्तम् अपि दुग्धं पाययति, वृकादिभ्यो रक्षति च, तद्वन् मां स्व-चरण-भक्ति-माधुर्यम् आस्वादयतु, सकामत्वादिभ्यो भक्ति-विघ्नेभ्यो रक्षतु च इति भावः ॥१७॥


॥ ४.९.१८ ॥

मैत्रेय उवाच—

अथाभिष्टुत एवं वै सत्-सङ्कल्पेन धीमता ।

भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ स्तुत्याकर्णनानन्तरम् । सत्सत्यो\ऽभ्यर्हितः सङ्कल्पो वा उच्चैःपदाप्तिरूपो यस्य तेन सत्सत्ये\ऽभ्यर्हिते श्रेष्ठे साधीयसि भवत्यपि इति यादवः । धीमता योग्यायोग्यविमर्शवता ॥१८॥


न कतमेनापि व्याख्यातम् ।


॥ ४.९.१९ ॥

श्री-भगवान् उवाच—

वेदाहं ते व्यवसितं हृदि राजन्य-बालक ।

तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यवसितं सङ्कल्पितम् ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्यबालकेति । तवैश्वर्यस्पृहा स्वाभाविक्येव तदहं ते प्रयच्छामीत्युक्ते तर्हि स्वप्रेमाणं न दास्यतीति कातरमुखं तमाश्वासयति—भद्रं त इति । मा चिन्तय प्रेमाणम् अपि दास्यामीत्यपिकारार्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भद्रं त इति पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे [भा।पु। ४.८.३७] इति प्राचीन-सङ्कल्पानुरूपम् अपि लभमानस्य ते दुरापं मत्-पद-प्राप्त्या ततो वैशिष्ट्येन भद्रम् एव भविष्यतीति शुभाशीर्वादाभिप्रायः । तत् प्रयच्छामि, तथान्यैर् दुरापम् अपि प्रयच्छामीत्य् अन्वयः ।*।*१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "राजन्य-बालक इति तवैश्वर्य-स्पृहा स्वाभाविक्य् एवेति तद् अहं प्रयच्छामि" इत्य् उक्ते, "तर्हि स्व-प्रेमाणं न दास्यसि" इति कातर-मुखं तम् आश्वसयति भद्रं ते इति मा चिन्तय । प्रेमाणम् अपि प्रयच्छामीत्य् अपि-कारार्थः । त्वया पूर्वं यथा प्रार्थितं—

पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।

ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् [भा।पु। ४.८.३७] इति ॥१९॥


॥ ४.९.२० ॥

नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुव-क्षिति ।

यत्र ग्रह-र्क्ष-ताराणां ज्योतिषां चक्रम् आहितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रयच्छामीत्य् उक्तं किं तद् ? इत्य् अपेक्षायाम् आह—नान्यैर् इति सार्ध-द्वाभ्याम्। हे भद्र ! ध्रुवा क्षितिर् निवासो यस्मिन् । यत्र यस्मिन् । आहितम् अर्पितम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नान्यैर् इति सार्धकम् ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् इदं स्थानं गृहाणेत्य् आह—नान्यैर् इति ध्रुवा नित्या क्षितिर् निवासो यत्र तत्, आहितम् अर्पितम् ॥२०॥


॥ ४.९.२१ ॥

मेढ्यां गो-चक्रवत् स्थास्नु परस्तात् कल्प-वासिनाम् ।

धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।

चरन्ति दक्षिणी-कृत्य भ्रमन्तो यत् स-तारकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धान्याक्रमणाय भ्राम्यमाणानां पशूनां बन्धन-स्तम्भो मेढी, तस्यां [गो-चक्रवत्] बलीवर्द-समूहवत् । अवान्तर-कल्प-वासिनां परस्ताद् अपि स्थास्नु लोक-त्रय-नाशेऽप्य् अनश्वरम् । धर्माग्न्य्-आदयो नक्षत्र-रूपाः । वनौकसः सप्त-र्षयो यत् प्रदक्षिणी-कृत्य भ्रमन्तश् चरन्ति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वया पूर्वं यथा प्रार्थितं पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु-वर्त्म [भा।पु। ४.८.३७] इत्य्-आदि यत् तद् गृहाणेत्य् आह—नेति । चक्रं शिशुमार-लक्षणम् । केचित् तु तिलपीडनोलूखलं मेढीत्य् आहुः । कल्प-वासिनां दैनन्दिन-प्रलय-स्थायिनाम् । महा-प्रलये सति ध्रुवस्य महा-वैकुण्ठारोहणम् इति केचित् । ब्रह्माण्ड-मध्य-वर्तित्वे\ऽपि श्वेतद्वीप-मथुरा-द्वारकादीनाम् इव ध्रुव-लोकस्यापि सुदुर्लभं यत् परमं पदं हरेः [भा।पु। ४.९.२८] इति, ततो गन्तासि मत्-स्थानम् [भा।पु। ४.९.२५] इति, आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् [भा।पु। ४.१२.२६] इति, ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् [भा।पु। ४.१३.१] इत्य्-आदि-प्रमाणेभ्यो भगवल्-लोकत्वेन नित्यत्वान् महा-कल्प-वासिनाम् अपि परस्ताद् इत्य् अपरे ॥२०-२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कल्प-वासिनां दैनन्दिन-प्रलय-पर्यन्त-स्थायिनाम् अपि परस्तात् स्थास्नु । "मेध्याम्" इति क्वचित् पाठः । धर्मादयो गोधाकृतेः पुच्छान्त-स्थित-ध्रुव-क्षितेर् नक्षत्र-व्यूहस्यावयवस्थाः । तत्र विष्णोर् अपि हृदय-स्थत्वे यद्-गणनं कृतं, तत् तु तन्-निज-मण्डलाभ्यन्तर-मण्डल-स्थस्य तस्य लोक-हितार्थं प्रतिच्छवि-मात्र-दर्शनाद् इति गम्यते ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धान्याक्रमणाय भ्राम्यमाणानां पशूनां बन्धन-स्तम्भो मेढी, तस्यां [गो-चक्रवत्] बलीवर्द-समूहवत् । अवान्तर-कल्प-वासिनां परस्तान् महा-कल्प-पर्यन्तं स्थास्नु, ततो महा-प्रलये सति ध्रुवस्य महा-वैकुण्ठारोहणम् इति केचित् । ब्रह्माण्ड-मध्य-वर्तित्वेऽपि श्वेतद्वीप-मथुरा-द्वारकादीनाम् इव ध्रुव-लोकस्यापि, सुदुर्लभं यत् परमं पदं हरेः [भा।पु। ४.९.२८] इति, ततो गन्तासि मत्-स्थानं [भा।पु। ४.९.२५] इति, आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदं [भा।पु। ४.१२.२६] इति ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् [भा।पु। ४.१३.१] इत्य्-आदि प्रमाणेभ्यो भगवल्-लोकत्वेन नित्यत्वान् महाकल्प-वासिनाम् अपि परस्ताद् इत्य् अपरे । धर्माग्न्य्-आदयो नक्षत्र-रूपाः । वनौकसः सप्त-र्षयः ॥२१॥


॥ ४.९.२२ ॥

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म-संश्रयः ।

षट्-त्रिंशद्-वर्ष-साहस्रं रक्षिताव्याहतेन्द्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतच् च राज्यानन्तरं भविष्यतीत्य् आह—प्रस्थित इति । तुभ्यं पृथ्वीं दत्त्वा वनं प्रस्थिते । भावे क्तः । वनं प्रति दीर्घ-गमने कृते सति । रक्षिता रक्षिष्यसि ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतन्मदुक्तम् । राज्यानन्तरं राज्यभोगोत्तरकाले । भावे क्त इत्य् उक्तेर्वनम् इति न कर्मणि द्वितीया, किं तु प्रतियोग इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतच् च राज्य-भोगानन्तरं भविष्यतीत्य् आह—प्रस्थिते इति । तुभ्यं गां पृथ्वीं दत्त्वा वनं प्रस्थिते इति भावे क्तः । रक्षिता गां रक्षिष्यति ॥२२॥


॥ ४.९.२३ ॥

त्वद्-भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्-मनाः ।

अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वया असङ्कल्पितम् अपि मद्-भक्तस्य तव द्रोहाद् एवं भविष्यतीत्य् आह—त्वद् भ्रातरीति । सा सुरुचिर् दावाग्निं प्रवेक्ष्यति ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वम् अपि निगूढभक्तिसंस्कारस्य तव मद्भक्तस्य नारदसङ्गादुद्बुद्धभक्तः । तस्मिन्नुत्तमाख्ये पुत्रे मनो यस्याः सा तन्मनाः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वम् अपि निगूढ-भक्ति-संस्कारेण मद्-भक्तस्यैव तव द्वेषात् तयोर् एवं स्याद् इत्य् आह—त्वद् इति ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-भक्ते त्वयि स-मातृके अपराधिन्याः सुरुचेर् यद् भविष्यति तच् छृण्व् इत्य् आह—त्वद्-भ्रातेति ॥२३॥


॥ ४.९.२४ ॥

इष्ट्वा मां यज्ञ-हृदयं यज्ञैः पुष्कल-दक्षिणैः ।

भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च—इष्ट्वा माम्यज्ञो हृदयं प्रिया मूर्तिर् यस्य तम् ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोके यशश् च तव भविष्यतीत्य् आह—किं चेति । सत्या-मत्संबन्धेनैव भोगात्—

धर्मार्थकाम इति यो\ऽभिहितस्त्रिवर्ग ईक्षा तपः शमदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥

इति प्रह्लादोक्तेः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्या मत्-सम्बन्धेनैव भोगादयोऽर्थाः ।*।*२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोके यशश् च तव भविष्यतीत्य् आह—इष्ट्वेति ॥२४॥


॥ ४.९.२५ ॥

ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् ।

उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आधिपत्यं नित्यं तु ध्रुव-लोकस्य यद् ध्रुवे ।

तत् तु तत्-स्थान-गन्तॄणां यतीनां गतिर् उत्तमा ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यतः स्थानात् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो नावर्तत इति नित्यत्वं व्यञ्जितम् ॥२५॥


॥ ४.९.२६ ॥

मैत्रेय उवाच—

इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् ।

बालस्य पश्यतो धाम स्वम् अगाद् गरुड-ध्वजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिदिश्य दत्त्वा ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो देहत्यागे विभाव्यमाने मत्स्मरणात् यतिः इन्द्रियसंयमपूर्वकभगवत्स्मरणे कृतप्रयत्नः नावर्त्तते नायाति । एतेन नित्यत्वमुक्तम् ॥२५-२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.९.२७ ॥

सोऽपि सङ्कल्पजं विष्णोः पाद-सेवोपसादितम् ।

प्राप्य सङ्कल्प-निर्वाणं नातिप्रीतोऽभ्यगात् पुरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्कल्प-जं मनो-रथम् । पाद-सेवया [उपसादितम्] प्रापितम् । सङ्कल्पस्य निर्वाणं समाप्तिर् यस्मात् ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽपि ध्रुवो\ऽपि सङ्कल्पनिदानम् अपि तदतीतविष्णुपद-रूपत्वात्सङ्कल्पनिर्वाणं तत्र हेतुः विष्णोः पादसेवार्चनं विष्णोरे व सङ्कल्पजम् इति वा कृपया प्रापितम् इत्य् अर्थः । तथापि स्वसङ्कल्पजत्वानुसन्धानेन तादृशत्वाज्ञानान्नातिप्रीतः तादृशज्ञाने\ऽपि स्वस्य तुच्छसङ्कल्पत्वम् एवाधिकृत्य तिरस्काराद्वेति ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सङ्कल्प-निदानम् अपि तद् अतीत-विष्णु-पद-रूपत्वात् सङ्कल्प-निर्वाणम् । तत्र हेतुः—विष्णोः पादेति । पाद-सेवा अत्रार्चनं विष्णोर् एव सङ्कल्प-जम्, तत् "सङ्कल्प-जित्" इति क्वचित् । कृपया प्रापितम् इति वा हेत्व्-अन्तरम् । तथापि स्व-सङ्कल्पत्वानुसन्धानेन तादृशत्वाज्ञानान् नातिप्रीतः तादृशत्वाज्ञानस्यापि स्वस्य तुच्छ-सङ्कल्पम् एवाधिकृत्य तिरस्काराद् वा ।*।*२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्कल्पस्य निर्वाणं समाप्तिर् यस्मात् तत्-पदम् इतिपूर्वेणैवानुषङ्गः ॥२७॥


॥ ४.९.२८ ॥

विदुर उवाच—

सुदुर्लभं यत् परमं पदं हरेर्

मायाविनस् तच्-चरणार्चनार्जितम् ।

लब्ध्वाप्य् असिद्धार्थम् इवैक-जन्मना

कथं स्वम् आत्मानम् अमन्यतार्थ-वित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मायाविनः सकामस्य यत् सुदुर्लभं हरेः पदं, तद् एकेन एव जन्मना लब्ध्वापि स्वम् आत्मानं मनोऽसिद्धार्थम् अप्राप्त-मनोरथम् इव कथम् अमन्यत ? पुरुषार्थ-विद् अपि ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नातिप्रीत इत्याकर्ण्य पृच्छति—स्व् इति । मायाविन इति । हरेर्विशेषणं वा स्वमायया स्त्रीपुत्रधनमानादिरूपयैव लोकं मोहयति । स्वमार्गप्रवृत्तं तत्प्रेमपरीक्षणार्थमतस्तत्सर्वमुत्सृज्य कश्चिद् एव कथंचन तदाप्नोतीति भावः । यद् वा, मायाविनः कृपालोः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्थ-वित् सारासार-विवेकी ।*।*२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नातिप्रीत इति श्रुत्वा पृच्छति—सुदुर्लभम् इति । मायाविनः कृपालोः अर्थविद् विज्ञोऽपि ॥२८॥


॥ ४.९.२९ ॥

मैत्रेय उवाच—

मातुः सपत्न्या वाग्-बाणैर् हृदि विद्धस् तु तान् स्मरन् ।

नैच्छन् मुक्ति-पतेर् मुक्तिं तस्मात् तापम् उपेयिवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्तिं भक्तिमत्पार्षदत्वं विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिणः इति पाद्मोत्तरखण्डोक्तेः । न वै मुकुन्दस्य इत्य्-आदिवक्ष्यमाणवचनैकवाक्यत्वानुरोधाच् च सायुज्यं न व्याख्येयं या निर्वृतिस्तनुभृताम् इत्य्-आदिना तत्र तदरोचकत्वज्ञापनात् । ननु नैच्छद् इति न सङ्गच्छते भक्तिं मुहुः प्रवहताम् इति तद्वाक्येन भक्तेरे व तदिच्छाविषयत्वावगतः । सत्यम् । अत्र स्मरन्न् इति वर्तमाननिर्देशान्मातृसपत्नीवाग्बाणस्मरणदशायाम् एव नैच्छदतस्तदैव मधुवने आगत्य मत्पित्रादिदुर्लभपरमोच्चपदप्राप्तिकामो भगवन्तं भजे इति सङ्कल्प्य तपश्चकार । भगवत्साक्षाद्दर्शनसमये तु यो\ऽन्तः प्रविश्य इति तद् उक्तेस्तदीयसर्वेन्द्रियाणां भगवद्-आकारत्वात्कुतः सुरुचिवाग्बाणस्मरणं किं तु । वेदाहं ते व्यवसितम् इति भगवद्-वाक्येन स्मृतपूर्वस्वीयसङ्कल्पो मत्सकामत्वलक्षणं व्यभिचारं प्रभुर्मे जानातीति जातापत्रपोन्वतप्यत् । हन्त हन्त दुर्बुद्धिरहं कथम् एवं सङ्कल्पमकरवं भक्तिं मुहुः प्रवहताम् इति सांप्रतिकीं भक्तिप्रार्थनां मे मत्प्रभुमत्कपटम् एव जानाति स्म, अतस्तदनुरूपं किम् अपि स्पष्टं नावोचत् । किं तु पूर्वसङ्कल्पानुरूपम् एव वरं ददौ त्वद्-भ्रातर्युत्तमे नष्टे इत्य्-आदिना पुरातनं मन्मात्सर्यम् अपि मां स्मारयामासेत्येवं तस्य लज्जानुतापदैन्यनिर्वेदास्तद् उक्तश्लोकषट्के द्रष्टव्या इति विश्वनाथः । सन्दर्भस्तु—अत्राहो बत इत्य्-आदिवक्ष्यमाणवचने च श्रीध्रुवस्य यदपूर्णमन्यत्वं तदुच्चपदकामनयैव तत्प्रार्थितवता तेन लब्धमनोरथातीतवरेणापि स्वसङ्कल्पम् एव तिरस्कर्तुमुक्तम् इति घटेत । मनोरथातीतत्वञ्चोक्तं श्रीविदुरेण सुदुर्लभं यत्परमं पदं हरेः इति स्वयं श्रीध्रुवप्रियेण—

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।

उपरिष्टादृषिभ्यस्त्वं यतो नावर्त्तते यतिः ॥

इति वक्ष्यते पार्षदाभ्याम् अपि आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् । सूतेन च ध्रुवस्य वैकुण्ठपदाधिरोहणम् इति । पञ्चमे ज्योतिश्चक्रवर्णने विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति इति यत्तद्विष्णोः परं पदम् अपि वदन्तीति प्रपञ्चान्तर्गतत्वे\ऽपि तद्वर्मातीतत्वमुक्तं जीवन्मुक्तवत् । अतोस्मिन्पद्ये प्रापञ्चिकस्य बहिरंशस्यैव प्रलयो ज्ञेयस् तस्य तु तदानीमन्तर्धानम् एव । एतदालंब्यैव हिरण्यकशिपुनोक्तं किमन्यैः कालनिद्धूर्तैः कल्पान्ते वैष्णवादिभिः इति । ये\ऽद्यापि तथा ब्रुवन्ति ते तत्तुल्या एवेति भाव इत्य् आह । मुमुक्षुणा विषयाभिलाषो न कार्य इत्य् अभिप्रेत्य ध्रुवेणानिन्दीति तीर्थः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मुक्तिः श्री-भगवद्-दास्यम्, विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः [प।पु। ६.२२९.५९] इति पाद्मोत्तर-खण्डात्, न वै मुकुन्दस्य [भा।पु। ४.९.३६] इत्य्-आदि वक्ष्यमाण-मैत्रेय-वचनैक-वाक्यत्वानुरोधाच् च ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुक्तिर् भक्तिर् मत्-पार्षदत्वम्, विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः [प।पु। ६.२२९.५९] इति पाद्मोत्तर-खण्डात् । सायुज्यस् तु न व्याख्येयम्, या निर्वृतिस् तनुभृतां [भा।पु। ४.९.१०] इति वाक्येन तत्र तद् अरोचक्त्व-ज्ञापनात् ।

ननु नैच्छद् इति न सङ्गच्छते, भक्तिं मुहुः प्रवहतां [भा।पु। ४.९.११] इति तद्-वाक्येन भक्तेर् एव तद्-इच्छा-विषयत्वावगतेः ? सत्यम्, अत्र स्मरन्न् इति वर्तमान-निर्देशात् मातृ-सपत्नी-वाग्-बाण-व्यथा-स्मरण-दशायाम् एव नैच्छत्, अतस् तदैव मधुवने आगतो मत्-पित्रादि-दुर्लभ-परमोच्च-प्राप्ति-कामो भगवन्तं भजिष्ये इति सङ्कल्प्य तपश् चकार । भगवत्-साक्षाद्-दर्शन-समये तु, योऽन्तः प्रविश्य [भा।पु। ४.९.६] इति तद्-भक्तेस् तदीय-सर्वेन्द्रियाणां भगवद्-आकारत्वात् कुतः सुरुचेर् वाक्-बाण-स्मरणम् ? किन्तु वेदाहं ते व्यवसितं [भा।पु। ४.९.१९] इति भगवद्-वाक्येन स्मृत-पूर्व-स्वीय-सङ्कल्पो मत्-सकामत्व-लक्षणं व्यभिचारं प्रभुर् मे जानातीति जातापत्रपोऽन्वतप्यत् । "हन्त हन्त ! दुर्बुद्धिर् अहं कथम् एव सङ्कल्पम् अकरवम्, भक्तिं मुहुः प्रवहताम् [भा।पु। ४.९.११] इति साम्प्रतिकीं भक्ति-प्रार्थनां मे मत्-प्रभुर् मत्-कपटम् एव जानाति स्म, अतस् तद्-अनुरूपं किम् अपि स्पष्टं नावोचत् । किन्तु पूर्व-सङ्कल्पानुरूपम् एव वरं ददौ । त्वद्-भ्रातर्य् उत्तमे नष्टे [भा।पु। ४.९.२३] इत्य्-आदिना पुरातनं मन्-मात्सर्यम् अपि मां स्मारयामासेत्य् एवं तस्य लज्जानुताप-दैन्य-निर्वेदास् तद्-उक्त-श्लोक-षट्के द्रष्टव्याः ॥२९॥


॥ ४.९.३० ॥

ध्रुव उवाच—

समाधिना नैक-भवेन यत् पदं

विदुः सनन्दादय ऊर्ध्व-रेतसः ।

मासैर् अहं षड्भिर् अमुष्य पादयोश्

छायाम् उपेत्यापगतः पृथङ्-मतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तापम् एवाह—समाधिनेति सार्धैः षड्भिः । नैके अनेके भवा यस्मिन् । बहु-जन्माभ्यस् तेनेत्य् अर्थः । प्रणाम-स्तुत्य्-आदि-समये गरुडाधिरूढस्य हरेः । पाद-च्छायायां स्थितम् आत्मानं स्मरन्न् आह—छायाम् उपेत्येति । पृथङ् मतिर् भेद-दृष्टिः सन् । हा कष्टम् इति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति । पुनर् दुःखबहुले संसारे पतितः, अहो मे भाग्याल्पतेत्याशयः । छायापदमाश्रयपरं देवानां छायाया अभावात्, पृथग्भावतोन्यत्र विषयेषु मतिर् यस्य स तथा अत एव प्रभुर्मां स्वधाम स्वसङ्गेन नानैषीद् इति भावः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवाह—समाधिनेति । छायाम् आश्रयम् इत्य् अर्थः । देवानां छायाया अभावात् । पृथग् भगवतोऽन्यत्र मतिर् यस्य सः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नैक-भवेन बहु-जन्माभ्यस् तेन गरुडारूढस्य हरेः पाद-च्छायायां स्थितम् आत्मानं स्मरन्न् आह—छायाम् उपेत्य अपगतोऽधः-पतितः यतस् तस्मात् पृथग्-विषये मतिर् यस्य सः । अत एव मां स्व-सङ्गेन प्रभुः स्व-धाम नानिषीद् इति भावः ॥३०॥


॥ ४.९.३१ ॥

अहो बत ममानात्म्यं मन्द-भाग्यस्य पश्यत ।

भव-च्छिदः पाद-मूलं गत्वायाचे यद् अन्तवत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तस्यापि मुक्ति-नियता नियतं चापि तत्-पदम् ।

तथापि कामना-निन्दा ध्रुवेण सुकृतवता ॥ इति भविष्यत्-पर्वणि ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अनात्म्यम् आत्म-शून्यत्वम् अज्ञत्वम् । भव-च्छेत्तुर् यद् अन्त-वत् तद् अयाचे याचितवान् अस्मि ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र तादृशत्वाज्ञानपक्षः स्पष्ट एव । पक्षान्तरन्तु—मह्यं स्वयं स्वपददानेन भवच्छिदस् तस्य पादमूलं प्राप्यापि स्वयं त्वहं त्रिभुवनोत्कृष्टपद-रूपत्वेनान्तवद् एव याचे तन्निर्बंधं न परित्यक्तवानस्मि । अप्येवमार्य भगवान्परिपाति दीनान् इत्याद्युक्तेः । न तु तत्पादसेवां तत्पादम् एवेत्य् अर्थः । अत एव राज्यादिकम् अपि विघ्नत्वेन लब्धम् इति भावः । चक्रवर्ती तु—भवच्छिदो\ऽप्रार्थितो\ऽपि यो भक्तस्य भवं छिनत्ति वैष्णव्या दीक्षया तस्य पादमूलं प्राप्य यत्तमहमन्तवद्याचे प्राप्तुं सङ्कल्पमकरवं तन्ममैव दोषः । प्रभुस्तु तदपि कृपयानश्वरम् एव ददौ ततो गन्तासि मत्स्थानम् इति तद् उक्तेरित्य् आह ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो इत्य्-आदि । अत्र तादृशत्वाज्ञान-पक्षः स्पष्टः । पक्षान्तरेऽपि—मह्यं स्वयं स्व-पाद-दानेन भवच्-छिदस् तस्य पाद-मूलं प्राप्यापि स्वयं त्व् अहं त्रिभुवन-मात्रोत्कृष्ट-पद-रूपत्वेन अन्तवद् एव याचे, तन्-निर्बन्धं न परित्यक्तवान् अस्मि—अप्य् एवम् अर्य भगवान् परिपाति दीनान् [भा।पु। ४.९.१७] इत्य्-आदेः । न तु तत्-पाद-सेवाम्, तत्-पदम् एवेत्य् अर्थः । अत एव राज्यादिकम् अपि विघ्नत्वेन लब्धम् इति भावः । अत्र अहो बतेत्य् आदि-वक्ष्यमाण-वचनेन च श्री-ध्रुवस्य यद् अपूर्णं-मन्यत्वम्, तद् उच्चपद-कामनयैव तत् प्रार्थितवता तेन लब्ध-मनोरथातीत-वरेणापि स्व-सङ्कल्पम् एव तिरस्कर्तुम् उक्तम् इति घटते । तत्र ह्य् एवोक्तं श्री-विदुरेण—सुदुर्लभं यत् परमं पदं हरेर् [भा।पु। ४.९.२८] इति । स्वयं श्री-ध्रुव-प्रियेण—

ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् ।

उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः ॥ [भा।पु। ४.९.२५] इति ।

वक्ष्यते पार्षदाभ्याम् अपि— आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् [भा।पु। ४.१२.२६] इति । श्री-सुतेन च—ध्रुवस्य वैकुण्ठ-पदाधिरोहणं [भा।पु। ४.१३.१] इति । पञ्चमे ज्योतिश्-चक्र-वर्णने च—विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रामन्ति [भा।पु। ५.२२.१७] इति । यद् विष्णोः परमं पदम् अभिवदन्ति [भा।पु। ५.२३.१] इति च । प्रपञ्चान्तर्गतत्वेऽपि तद् धर्मातीतत्वम् उक्तं—विकारावर्ति च तथा हि स्थितिम् आह [वे।सू। ४.४.१९] इति न्यायेन । अतोऽस्मिन् लोके प्रापञ्चिकस्य बहिर्-अंशस्यैव प्रलयो ज्ञेयः । तस्य तु तदानीम् अन्तर्धानम् एव । एतद् आलम्ब्यैव हिरण्यकशिपुनोक्तम्—किम् अन्यैः काल-निर्धूतैः कल्पान्ते वैष्णवादिभिर् [भा।पु। ७.३.११] इति । अतोऽद्यापि ये तथा वदन्ति, तेऽपि तत्-तुल्या इति भावः । अत्र प्रकरणे विशेष-जिज्ञासा चेत् श्री-भगवत्-सन्दर्भो दृश्यः ॥३१॥ [भगवत्-सन्दर्भ, ६१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनात्म्यम् आत्म-शून्यत्वम् अज्ञत्वम् । भव-च्छिदः अप्रार्थितोऽपि यो भक्तस्य भवं छिनत्ति, तस्य पाद-मूलं गत्वा वैष्णव्या दीक्षयैव प्राप्य यद् अन्तवत्, तत् अहं याचे प्राप्तुं सङ्कल्पम् अकरवम् इति ममैव दोषः । प्रभुस् तु तद् अपि कृपया अनश्वरम् एव पदं ददौ, ततो गन्तासि मत्-स्थानं [भा।पु। ४.९.२५] इति तद्-उक्तेर् इति भावः ॥३१॥


॥ ४.९.३२ ॥

मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः ।

यो नारद-वचस् तथ्यं नाग्राहिषम् असत्तमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञत्वे कारणं संभावयति—मतिर् इति । पतद्भिर् मद्-अपेक्षयाधः प्राप्नुवद्भिः, अत एव असहन-शीलैः । नाधुनाप्य् अवमानं ते [भा।पु। ४.८.२७-३३] इत्य्-आदि सत्यम् अपि नारदस्य वचो यो न गृहीतवान् अस्मि, तस्य मे मतिर् विदूषिता ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्निर्बन्धात्त्याग एवाज्ञत्वं तत्र हेतुं कल्पयति अत एवाधः स्थत्वाद् एव । यद्वाधःपतनपर्यवसानैः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तन्-निर्बन्ध-त्यागे हेतुम् आह—मतिर् इति । पतद्भिः पतन-पर्यवसानैः ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्याज्ञतायां कारणं सम्भावयति—मतिर् इति । पतद्भिर् मद्-अपेक्षया अधः-पतद्भिः, अत एव असहन-शीलैःनारद-वचो नाधुनाप्य् अवमानं ते [भा।पु। ४.८.२७-३३] इत्य्-आदि ॥३२॥


॥ ४.९.३३ ॥

दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्न-दृक् ।

तप्ये द्वितीयेऽप्य् असति भ्रातृ-भ्रातृव्य-हृद्-रुजा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

द्वितीयस्य स्वतन्त्रस्य त्व् अभावो द्वय-वर्जितः ।

ईश्वरैश् चेशितव्यस्य भावात् स परमेश्वरः ॥ इति हरि-वंशेषु ॥३३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, दैवीम् इति । प्रसुप्तः स्वप्नान् इव पश्यन् द्वितीयेऽसत्य् अपि भ्रातैव भ्रातृव्यः शत्रुर् इति दृष्ट्या हृद्-रुजा हृदय-शोकेन तप्ये तापम् अनुभवामि ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत्स्फुटयति—किं चेति । द्वितीये सिंहव्याघ्रादिरूपे\ऽसत्यपि तज्जामार्तिं यथा स्वप्ने प्राप्नोति । भ्रातरं व्ययति नाशयतीति भ्रातृव्यः नाशार्थाभावे\ऽपि व्ययतेरनेकार्थत्वाड्डप्रत्यये टिलोपे रूपसिद्धेः । यद् वा, व्यन्सपत्ने इति शत्रौ वाच्ये भ्रातृशब्दाद् व्यन् । भ्रातृव्यौ रिपुबान्धवौ इति धरणिः । यत आत्मदृष्ट्याहं स च मद्भ्रातेत्युभावपि भगवतो जीवाख्यतटस्थशक्तिवृत्तिरूपौ देहदृष्ट्याप्युभयोर् अपि पांचभौतिकत्वान्मायाशक्तिवृत्तिरूपत्वमतो भगवन्माययैव तस्मिञ्छत्रुदृष्ट्या मुह्यामीति भावः । देवस्य विष्णोरिथं दैवी तां देवात्मशक्तिं स्वगुणैर्निगूढाम् इत्य्-आदिश्रुतेः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भिन्न-दृक् श्री-भगवतोऽन्यत्र पुरुषार्थ-बुद्धिर् यस्य सः । क्वचित् सतिततो द्वितीये असति पुरुषार्थेऽपि सति ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसुप्तः स्वप्नान् पश्यन् यथा द्वितीये असत्य् अपि व्याघ्र-सर्पादिभ्यः खिद्यति, तद्वत् । भ्रातैव भ्रातृव्यः शत्रुस् तस्मात् या हृद्-रुक्, पीडा तयाहं तप्ये वृथैव । यत आत्म-दृष्ट्या अहं स च यद्-भ्रातेत्य् उभाव् अपि भगवतो जीवाख्य-तटस्थ-शक्ति-वृत्ति-रूपौ । देह-दृष्ट्याप्य् उभयोर् अपि पाञ्चभौतिकत्वान् माया-शक्ति-वृत्ति-रूपत्वम्, अतो भगवन्-माययैव तस्मिन् भ्रातृव्यत्व-दृष्ट्या मुह्यामीत्य् अर्थः ॥३३॥


॥ ४.९.३४ ॥

मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।

प्रसाद्य जगद्-आत्मानं तपसा दुष्प्रसादनम् ।

भव-च्छिदम् अयाचेऽहं भवं भाग्य-विवर्जितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

हरौ नियत-चित्तत्वाद् गृहवत् तत्-प्रवेशनात् ।

मोक्षं तादात्म्यम् इत्य् आहुर् न तद्-रूपत्वं क्वचित् ॥ इति भविष्यत्-पर्वणि ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मया प्रसाद्य यत् प्रार्थितं तद् व्यर्थम् इत्य् आह—भव-च्छिदम् इति ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आधिपत्यादेरनित्यत्वं प्रेक्ष्याह—किं च इति । भोग्यवस्तुनो भवकारणत्वाद्भवत्वम् एव । गतं नष्टमायुर् यस्य तस्मिन्निश्चितासाध्यसन्निपातादिरोगजिते पुंसि । चिकित्सा तदपनयनौषधप्रदानम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मयैतद् इति सार्धकम् ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोग्य-वस्तुनो भव-कारणत्वात् भवम् ॥३४॥


॥ ४.९.३५ ॥

स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत ।

ईश्वरात् क्षीण-पुण्येन फली-कारान् इवाधनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तच्-चित्ततैव तादात्म्यम्—नैकात्मतां मे स्पृहयन्ति [भा।पु। ३.२५.३४] इत्य् उक्तत्वात् ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव स-दृष्टान्तम् आह । स्वाराज्यं निजानन्दं प्रयच्छतः सकाशाद् अभिमानः क्षीण-पुण्येन मया भिक्षितो याचितः । क्षीणेन पुण्येनेति वा दृष्टान्त एव संबन्धः । यथाऽधन ईश्वराच् चक्र-वर्तिनः फली-कारान् स-तुष-तण्डुल-कणान् याचते, तद्वत् ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् एव व्यर्थप्रार्थनम् एव । स्वस्मिन्भक्त्या राजत इति स्वम् एव राट् राजा येषां ते स्वराजो दासास् तेषां भावः स्वाराज्यं दास्यं यच्छतः ददतः स तु विदग्धः परमोदारो राजा यथा तस्मै तन्मनोरथातीतां सम्पत्तिं ददाति तथैव भगवान्मह्यं स्वधामवासित्वमित्यहो मम दुर्बुद्धित्वपरमकाष्ठा भगवतश् च कारुण्यौदार्यसीमेति क्षणं सविस्मयस्तिमितो\ऽभूद् इति भावः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्मिन् भक्त्या राजते इति, किं वा स्वम् एव राट् राजा येषां ते स्वराज्ये दासाः, तेषां भावः स्वाराज्यं दास्यं यच्छतो ददतः सकाशाद् अभिमानः क्षीण-पुण्येन क्षीण-चारुत्वेन यथा अधनः महाराज-चक्रवर्तिनः सकाशात् फलीकारान् स-तुष-तण्डुल-कणान् भिक्षते, तद्वत् । "यथा तस्मै तन्-मनोरथातीतां सम्पत्तिं ददाति, तथैव भगवान् मह्यं स्व-धाम-वासित्वम् इत्य् अहो मम निर्बुद्धित्व-परम-काष्ठा ! भगवतश् च कारुण्यौदार्य-सीमा !" इति क्षणं स-विस्मय-स्तिमितोऽभूद् इति भावः ॥३५॥


॥ ४.९.३६ ॥

मैत्रेय उवाच—

न वै मुकुन्दस्य पदारविन्दयो

रजो-जुषस् तात भवादृशा जनाः ।

वाञ्छन्ति तद्-दास्यम् ऋतेऽर्थम् आत्मनो

यदृच्छया लब्ध-मनः-समृद्धयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : हरीच्छेच्छतैकात्म्यं तनतेनैक-स्वरूपता इति च, कामेन मे काम आगात्3 इति च श्रुतिः ॥३६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं निस्पृहत्वं तस्य युक्तम् इत्य् आह । तस्य दास्यं विनाऽन्यम् अर्थम् आत्मनो नैव वाञ्छन्तियदृच्छयैव लब्धेन मनसः समृद्धिर् येषां ते ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रजोजुषः परागरसास्वादिनः लब्धेन वस्तुना ॥३६॥


कैवल्य-दीपिका : न वा इति । रजो रेणुः । भवादृशा विदुरादयः । आत्मनोऽर्थे आत्मनः सुख-साधनं ते दास्यन्ति विष्णु-दास्यं मनः-समृद्धीनां मनसः सुख-साधनानां यदृच्छया लब्धत्वात् तान् वाञ्छन्ति । निर्मनस्कात्म-भोग्यं हि निर्विषयं सुखम् । तच् च विष्णु-दास्याद् एव ॥३६॥ [मु।फ। १९.१७]


जीव-गोस्वामी (प्रीति-सन्दर्भः ४५): यदृच्छया अनायासेनैव लब्धा मनः-समृद्धिर् येषां ते । स्वतो भक्ति-माहात्म्य-बलेन सर्व-पुरुषार्थ-प्रतीक्षित-कृपा-दृष्टि-लेशा अपीत्य् अर्थः । एतद्-अनुसारेण, नैच्छन् मुक्ति-पतेर् मुक्तिं तेन तापम् उपेयिवान् [भा।पु। ४.९.२९] इत्य् अत्र श्री-ध्रुवम् उद्दिश्य पूर्वोक्तेऽपि पद्ये मुक्ति-शब्देन दास्यम् एव वाच्यम् । तद् उक्तं—विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः [प।पु। ६] इति ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यदृच्छया अनायासेनैव लब्धा हस्त-गता इवोपसन्ना मनः-समृद्धयः अणिमादि-लक्षणाः सार्ष्ट्य्-आदि-लक्षणा वा येषां, तथाभूता अपि ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं निस्पृहत्वं तस्य युक्तम् इत्य् आह—नेति । रजो-जुषः पराग-रसास्वादिनो दास्यम् ऋते आत्मनोऽर्थम् अन्यं न वाञ्छन्तियदृच्छयैव लब्धेन मनसः समृद्धिर् येषाम् ॥३६॥


॥ ४.९.३७ ॥

आकर्ण्यात्म-जम् आयान्तं सम्परेत्य यथागतम् ।

राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—आकर्ण्येति । संपरेत्य मृत्वा आगतम् आकर्ण्य यथा तथा न श्रद्दधे विश्वासं न चकार । अभद्रस्य मम भद्रं कुत इति मत्वा ॥३


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मधुवनाद् ध्रुवस्य बन्धुमेलनादिकम् आह—प्रस्तुतम् इति । भद्रं पुत्रागमन-रूपम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो मधुवनात् ध्रुवस्य स्व-देश-गमन-बन्धु-मिलनादिकं वर्णयति—आकर्ण्येति ॥३७॥


॥ ४.९.३८ ॥

श्रद्धाय वाक्यं देवर्षेर् हर्ष-वेगेन धर्षितः ।

वार्ता-हर्तुर् अतिप्रीतो हारं प्रादान् महा-धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एष्यत्य् अचिरत इति देवर्षेर् वाक्यं श्रद्धाय ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हर्षस्यात्मजागमनजानन्दस्य वेगेनोद्रेकेण धर्षितो वशीकृतः । वार्ताहर्त्तुर्ध्रुव आयातीति वक्तुः महान्ति धनानि रत्नानि यस्मिन्स तम् यद् वा, महान्ति धनानि मूल्यानि यस्य तम् ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष्यत्य् अचिरत इति देवर्षेर् वाक्यं श्रद्धाय ॥३८॥


॥ ४.९.३९ ॥

सद्-अश्वं रथम् आरुह्य कार्तस्वर-परिष्कृतम् ।

ब्राह्मणैः कुल-वृद्धैश् च पर्यस्तोऽमात्य-बन्धुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणादिभिः पर्यस्तः परिवृतः ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कार्त्तस्वरं महारत्नं सुवर्णं कलधौतकम् इति कोशात् सुवर्णभूषितम् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पर्यस्तः परिवृतः ॥३९॥


॥ ४.९.४० ॥

शङ्ख-दुन्दुभि-नादेन ब्रह्म-घोषेण वेणुभिः ।

निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज्ञः स्नेहोद्रेकम् आह—शङ्खेति ॥४०॥


न कतमेन व्याख्यातम्।


॥ ४.९.४१ ॥

सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्म-भूषिते ।

आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य राज्ञो महिष्यौ मध्ये उत्तमं निधाय । एकाम् एव शिबिकां नर-विमानम् आरुह्य ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्रुवस्य निष्क्रमणदिने राजा बहुतरमुद्विग्नस्तदा श्रीनारदाश्वासनेन ध्रुवमात्र एव सौभाग्यं ददावुत्तममात्रे च दौर्भाग्यं ददौ, तदपि सुनीतिर्विनयराशिस्तां सपुत्रां स्वशिविकायाम् एवारोहयामासेति तत्त्वमत्राह—सुनीतिर् इति । रुक्मं कांचनं हेम इति कोशात् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्तमेन बालकेन सह एकां शिविकाम् आरुह्येति ध्रुवस्य निष्क्रामणादिने राज्ञा तत्र बहुतरम् अनुतप्तेन नारदाश्वासितेन ध्रुव-मात्रे एव सौभाग्यं दत्तम् उत्तम-मात्रे तु दौर्भाग्यम् । तद् अपि ध्रुव-माता सुनीतिर् विनय-राशिस् तां सपुत्रां स्व-शिविकायाम् एवारोहयामासेति तत्त्वम् ॥४१॥


॥ ४.९.४२ ॥

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।

अवरुह्य नृपस् तूर्णम् आसाद्य प्रेम-विह्वलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपवनस्याभ्याशे समीपे ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् इति युग्मकम् ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.९.४३ ॥

परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठ-मनाः श्वसन् ।

विष्वक्सेनाङ्घ्रि-संस्पर्श- हताशेषाघ-बन्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विष्वक्सेनाङ्घ्रि-संस्पर्शेन हतम् अशेषम् अघं बन्धनं च यस्य ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं ध्रुवम् ।

अभ्याशस्तु समीपे\ऽर्थे स तालव्यः प्रकीर्तितः ।

पूर्व-रूपे च मनने संमुखस्थे स दन्त्यकः ॥

इति शब्दार्थविवेके, तरसा वेगेनाङ्गजं सुतं परिरेभे इति योज्यम् । विष्वक्सेनाङ्घ्रीत्यादि विशेषणेन तत्स्प्रष्टुर् अपि पापहानिर् इति ध्वनितम् ॥४२-४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.९.४४ ॥

अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयन-वारिभिः ।

स्नापयाम् आस तनयं जातोद्दाम-मनोरथः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जात उद्दामो महान् मनो-रथो यस्य ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथालिङ्गनानन्तरं शीतैः शीतलैः सुखलक्षणतयावसितैः । अन्तो ह्यवसिते मृत्यौ स्वभावे परमात्मनि इति यादवः । शमं तोषं च शं सुखम् इति हलायुधः । अनेन राज्याभिषेकमदूरे सूचयति । एतमर्थं ध्वनयन्नाह—आप्तेति । आप्त उद्दाम उत्कटो मनोरथः ज्येष्ठाय राज्यासनप्रदानलक्षणो येन स तथा ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जात इत्य् अत्र स्नात इति चित्सुखः । निस्तीर्ण इत्य् अर्थः ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.९.४५ ॥

अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः ।

ननाम मातरौ शीर्ष्णा सत्-कृतः सज्-जनाग्रणीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिमन्त्रितः पितुर् आशीर्भिः सह तेन कृत-संभाषणः ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद्-भक्तस्यापि रागद्वेषादिदोषो नास्ति किमुत हरेरितीममर्थं ध्वनयन्ध्रुवः पित्राद्युचितक्रियामाचरतीत्याहाभिवन्द्येति । मातरावित्य् उक्तेः पूर्वान्तःकरणकालुष्यं दूरीकृतम् इति व्यनक्ति । शीर्ष्णा ननामेत्युक्तेः पितृतो मातुर्गुरुत्वाधिक्यं सूचितम् । तद् उक्तम् अपि पितुर्दशगुणं माता गौरवेणातिरिच्यते इति । ननु सुरुचिं दुःखदायिनीं कथं ननामेति तत्राह—सज्जनाग्रणीर् इति ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं पितुः पादौ शीर्ष्णाभिवन्द्य मातरौ ननाम तैश् चाशीर्भिः सहाभिमन्त्रितः कृत-सम्भाषणः सत्-कृतो मानितश् च सुरुचाव् अपि तथा भक्तौ हेतुः सज्जनेति ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु सुरुचिं दुःख-दायिनीं कथं शीर्ष्णा ननाम ? तत्राह—सज्जनाग्रणीर् इति ॥४५॥


॥ ४.९.४६ ॥

सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् ।

परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र क्वचित्पुस्तकेषु अंबांब भगवान्नूनं प्रसादात्तव सुव्रते । सात्वतानामभयदं व्यद्धान्मूर्ध्नि मे करम् इत्यधिको\ऽपि श्लोकः पठ्यते, स च सुगम एवेति । परन्तु मूर्ध्नि भगवत्करदानस्य पूर्वमनुक्तेर्विगीत एवेत्युपेक्षितः । यद् वा, श्रीनारदस्यापि भगवद्-अवतारत्वात् स्पृष्ट्वा मूर्द्धन्यघघ्नेन पाणिना इति तत्करदानापेक्षया वोक्तम् । यद्वास्य शिरसि राज्ञः कर इति किंवदत्या मूर्द्धकरदानपदेनानुग्रहो लक्ष्यते । ध्रुवस्य मरणमिच्छन्त्या सुरुच्या जीवेति वाक्कथमुक्तेति तं चेदाह—सुरुच्याः प्रीतिर् इति । तं ध्रुवम् । अर्भकम् इति लुप्तोपमा, अर्भकं प्रेंखच्छिशुमिवेति स्नेहविशेषो ध्वनितः ॥४६॥


न कतमेन व्याख्यातम्।


॥ ४.९.४७ ॥

यस्य प्रसन्नो भगवान् गुणैर् मैत्र्य्-आदिभिर् हरिः ।

तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरुच्याः प्रीतिर् नासंभावितेत्य् आह—यस्येति । नमन्त्य् अनुसरन्ति । आपो यथा स्वयम् एव निम्नं देशम् अवतरन्ति ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना करुणादिग्रहः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन् ध्रुवे सुर्च्याः प्रीतिर् नासम्भावितेत्य् आह—यस्येति ॥४७॥


॥ ४.९.४८ ॥

उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेम-विह्वलौ ।

अङ्ग-सङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऊहतुर् दधतुः ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्रौघं बाष्पप्रवाहम् । ओघः परम्परायां स्याज्जलस्रोतसि संचये इति यादवः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.९.४९ ॥

सुनीतिर् अस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।

उपगुह्य जहाव् आधिं तद्-अङ्ग-स्पर्श-निर्वृता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुनीतेः पश्चान्मेलनानन्दमूर्च्छाभङ्गे सतीति ज्ञेयम् इति विश्वनाथः । सूचीकटाहन्यायेनेति तीर्थः । आधिं क्लेशम् ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुनीतैः पश्चान् मिलनम् आनन्द-मूर्च्छा-भङ्गे सतीति ज्ञेयम् ॥४९॥


॥ ४.९.५० ॥

पयः स्तनाभ्यां सुस्राव नेत्र-जैः सलिलैः शिवैः ।

तदाभिषिच्यमानाभ्यां वीर वीर-सुवो मुहुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीर ! वीर-सुवो ध्रुवम् आतुः । अभिषिच्यमानाभ्यां पयस् तदा सुस्राव ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वीर ! त्वाम् इव भगवद्-धर्म-वीरं ध्रुवं सूते इति तस्या सुनीतेः ॥४९॥


॥ ४.९.५१ ॥

तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्ति-हा ।

प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चिरं नष्टो दर्शनम् अप्राप्तः । रक्षिता रक्षिष्यति ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे वीरेति । यथा त्वं वीरस्तादृशो ध्रुवस्तं सूते या तस्याः यशसं वीरवत्तमम् इति श्रुतेः ॥५०-५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.९.५२ ॥

अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्ति-हा ।

यद्-अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यं भगवन्तमनुध्यातुं शीलं येषां ते यदनुध्यायिनः । मृत्युजये तव पुत्रस्यैवोदाहरणम् । किं च—यदि प्रणतार्तिहरो हरिस्त्वया नाभ्यर्चितस्तर्हि चिरं नष्टः पुत्रो न प्रतिलब्धः स्यात् न तथा तस्मादाभ्यर्चित इति निश्चितम् एव ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभ्यर्चित इत्य् अत एव स्व-पुत्रस्य मृत्युं त्वम् अजैषीर् इति भावः ॥५२॥


॥ ४.९.५३ ॥

लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः ।

आरो\ऽप्य् अ करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कलभश् चैव कन्यानां करिणी बाल-मङ्गलः इति राज-नीतौ ॥५३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् इति व्यवहितं पित्राद्य्-उपलालनं परामृश्यते ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यवहितं परिरेभेंगजं दोर्भ्याम् इत्य्-आदिनोक्तम् । कलभश्चैव कन्यानां करिणी बालमङ्गल इति वचनात्करिणीम् इत्य् उक्तम् ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आल्यमानम् इति पञ्चकम् ॥५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं नृपोऽपि दिष्ट्येति पादोन-श्लोक-द्वयेन जनैः स्तूयमानः पुरम् अविशत् ॥५३॥


॥ ४.९.५४-५५ ॥

तत्र तत्रोपसङ्कॢप्तैर् लसन्-मकर-तोरणैः ।

सवृन्दैः कदली-स्तम्भैः पूग-पोतैश् च तद्-विधैः ॥

चूत-पल्लव-वासः-स्रङ्- मुक्ता-दाम-विलम्बिभिः ।

उपस्कृतं प्रति-द्वारम् अपां कुम्भैः सदीपकैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरं वर्णयति--तत्र तत्र इति चतुर्भिः । स-वृन्दैः फल-मञ्जरी-युक्तैः । पूगानां पोतैर् बाल-वृक्षैस् तद्-विधैः । स-वृन्दैर् उपस्कृतं प्रति-द्वारम् इत्य् उत्तरेणान्वयः ॥५४॥ चूत-पल्लवाश् वासांसिस्रजश्मुक्ता-दामानि च, तेषां विशिष्टं लम्बनम् अस्ति येषु कुम्भेषु ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपसङ्कॢप्तैस् तदानीम् एवोद्यानादिभ्य आनीयारोपितैः लसन्-मकराणि पत्रादि-निर्मित-मकराकाराणि तोरणानि यत्र तैः ॥५४-५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरं वर्णयति—तथा तत्रेति चतुर्भिः । उत्सङ्क्लिप्तैस् तदानीम् एवोद्यानादिभ्य आनीयारोपितैः । लसन्मकराणि तोरणानि यत्र तैः । सवृन्तैः फल-मञ्जरी-युक्तैः । कदली-स्तम्भैर् उपस्कृत-प्रतिद्वारम् इत्य् अन्वयः । चूतेति अपां कुम्भैर् इत्य् अस्य विशेषणम् ॥


॥ ४.९.५६ ॥

प्राकारैर् गोपुरागारैः शातकुम्भ-परिच्छदैः ।

सर्वतोऽलङ्कृतं श्रीमद्- विमान-शिखर-द्युभिः ॥

मृष्ट-चत्वर-रथ्याट्ट- मार्गं चन्दन-चर्चितम् ।

लाजाक्षतैः पुष्प-फलैस् तण्डुलैर् बलिभिर् युतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपुरैर् अगारैश् च । शात-कुम्भाः परिच्छदाः परिकरा येषु । विमानानाम् इव शिखरैर् द्युतिर् येषाम् ॥५६॥ चत्वरम् अङ्गनम् । रथ्या महा-मार्गः अट्ट उच्चस्योपरि निर्मिता भूमिका । मार्गोऽवान्तरः । मृष्टाः संमार्जिताश् चत्वरादयो यस्मिन् ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शातकुंभाः सौवर्णाः परिच्छदाः कलशाद्याः परिकराः सामग्न्य इत्य् अर्थः । प्राकारः परितो वेष्टन-भित्ति-विशेषः ॥ लाजा भ्रष्ट-व्रीहयः, तण्डुलानां पृथग्-उक्तेर् अक्षता यवाः । यवास् तिलास् तण्डुलाश् च कर्म-भेदेन चाक्षताः इत्य् उक्तेः ॥५६-५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपुराणि पुर-द्वाराणि गोपुरैर् आगारैश् च विमान-शिखराणाम् इव द्यौर् द्युतिर् येषां तैः, चत्वरम् अङ्गनं, रथ्या महा-मार्गः ॥५६-५७॥


॥ ४.९.५८-५९ ॥

ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः ।

सिद्धार्थाक्षत-दध्य्-अम्बु- दूर्वा-पुष्प-फलानि च ॥

उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः ।

शृण्वंस् तद्-वल्गु-गीतानि प्राविशद् भवनं पितुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धार्थः श्वेत-सर्षपः । अक्षता यवाः ॥५८॥ उपजह्रुर् व्यक्तिरन् । सतीः सत्यः ॥५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तत्र स्थले सार्द्धेनान्वयः ॥ शृण्वन्नित्यर्धकम् ॥५८-५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ध्रुवायेति सार्धकम् ॥५८॥ शृण्वन्न् इत्य् अर्धकम् ॥५९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिद्धार्थाः श्वेत-शर्षपाः । अक्षता यवाः । उपजह्रुर् व्याकिरन् सतीः सत्याः ॥५८-५९॥


॥ ४.९.६०-६४ ॥

महामणि-व्रातमये स तस्मिन् भवनोत्तमे ।

लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥

पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः ।

आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥

यत्र स्फटिक-कुड्येषु महा-मारकतेषु च ।

मणि-प्रदीपा आभान्ति ललना-रत्न-संयुताः ॥

उद्यानानि च रम्याणि विचित्रैर् अमर-द्रुमैः ।

कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः ॥

वाप्यो वैदूर्य-सोपानाः पद्मोत्पल-कुमुद्-वतीः ।

हंस-कारण्डव-कुलैर् जुष्टाश् चक्राह्व-सारसैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र भवनोत्तमे ॥६०॥ यत्र भवनोत्तमे ॥६२॥ कुमुत् कुमुदम् । पद्मादि-मत्यो वाप्यः ॥६४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स ध्रुवः ॥ दान्ता हस्तिदन्तनिर्मितपादाः रुक्मपरिच्छदाः स्वर्णतन्तुम् इश्रितकोशैयादिवस्त्राच्छादनयुताः । उपस्कराः पात्रादयः रौक्मा हैमाः ॥ यत्रेति द्विकम् । ललनारत्नैः स्त्रीरत्नैः रत्नं श्रेष्ठे\ऽपि निर्दिष्टम् इति हलधरः ॥ अमरद्रुमैः सन्तानादिभिः ॥ वैदूर्याणां विद्रुमाणां सोपानानि आरोहणावरोहणा मार्गा यासां ताः ॥६०-६४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्रेति त्रिकम् ॥६२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्र भवनोत्तमे शय्यादयो वाप्यन्ताः भोगोपस्कराः सन्ति ॥६०-६४॥


॥ ४.९.६५ ॥

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।

श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऊढ-वयसं प्राप्त-यौवनम् । अनुरक्ताः प्रजा यस्मिन् ॥६५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तमलौकिकम् ॥६५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.९.६६ ॥

वीक्ष्योढ-वयसं तं च प्रकृतीनां च सम्मतम् ।

अनुरक्त-प्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राप्तयौवनम् वयो यौवनपक्षिणोः इति धरणिः । एतेन राज्यपालनसामर्थ्यम् । प्रकृतीनां मन्त्र्यादीनाम् ॥६६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊढ-वयसं प्राप्त-यौवनम् ॥६६॥


॥ ४.९.६७ ॥

आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः ।

वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवयसं वृद्धम् ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रगतं वयो यस्य तम् । आकलय्य संचिन्त्य आत्मनः स्वस्य गतिं हरिम् ॥६७॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे नवमो\ऽध्यायः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्थे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

चतुर्थ-स्कन्धे ध्रुव-चरिते

नवमोऽध्यायः ।

॥ ४.९ ॥


(४.१०)


  1. नावेदिषम् ↩︎

  2. आर्य इति क्वचित् पाठः श्रीधर-सम्मतः। ↩︎

  3. अव्श् १९.५२.४अ; अव्प् १.३०.४अ; त ३.१५.२अ। ↩︎