०८

(४.८)

अथाष्टमोऽध्यायः

विषयः

प्रतिसर्ग-वर्णने ध्रुवोपाख्यानम्—विमातुर् दुरुक्त्या विद्धस्य ध्रुवस्य वन-गमनं तत्र नारदोपदेशेन भगवद्-आराधनं च ।

॥ ४.८.१ ॥

मैत्रेय उवाच—

सनकाद्या नारदश् च ऋभुर् हंसोऽरुणिर् यतिः ।

नैते गृहान् ब्रह्म-सुता ह्य् आवसन्न् ऊर्ध्व-रेतसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

दक्ष-कन्यान्वये प्राप्ता दक्ष-यज्ञ-कथोदिता ।

मनु-पुत्रान्वये प्राप्ता ध्रुव-चर्याथ पञ्चभिः ॥

अष्टमे गुरु-दारोक्तिर् ओषमत् सरतः पुरात् ।

निर्गतेन ध्रुवेणाह तपसा तोषणं हरेः ॥

एवं तावन् मनु-कन्यान्वयोक्त्यैव मरीच्य्-आदीनां ब्रह्म-पुत्राणां वंशा वर्णितास् तत्रावशीष्टं किञ्चिद् आह—सनकाद्या इति । नावसन्न् आश्रिताः ऊर्ध्व-रेतसो नैष्ठिकाः । अतस् तेषां वंशो नास्ति ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पञ्चभिरधुनोच्यत इति शेषः । गुरुदारा मातृसपत्नी तस्या उक्तेर्यो रोषो मत्सरश् च भ्रात्रुत्कर्षासहनजस्ताभ्याम् इति द्विवचनान्ताभ्यां तसिः ॥ तत्र ब्रह्मपुत्रेषु अत ऊर्ध्वरेतस्त्वात् । तेषां सनकादीनाम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

विमातुर् वाग्-विष-प्लुष्टो मातुर् वाग्-अमृताप्लुतः ।

ध्रुवोऽष्टए मधुवने तपसातोषयद् धरिम् ॥

तद् एवं मनोः कन्या-वंशोक्त्यैव मरीच्य्-आदीनां ब्रह्म-पुत्राणां वंशा वर्णिताः । इदानीं तस्य पुत्र-वंशे वक्तव्येऽपि लाघवाद् अवशिष्टानां ब्रह्म-पुत्राणां वंश-जिज्ञासायाम् आह—सनकाद्या इति ॥१॥


॥ ४.८.२ ॥

मृषा-धर्मस्य भार्यासीद् दम्भं मायां च शत्रु-हन् ।

असूत मिथुनं तत् तु निरृतिर् जगृहेऽप्रजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधर्मोऽपि ब्रह्म-पुत्रस् तस्य वंशम् आह—मृषेति चतुर्भिः । दम्भः पर-प्रतारणम् । माया तद्-उचिता चेष्टा । तयोः सोदरयोर् अपि दाम्पत्यम् अधर्मांशतया । एवम् उपर्य् अपि । अप्रजोऽपुत्रः ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हेयत्वेन त्यक्तुमधर्मवंशम् आह हे शत्रुहन्न् इति । अधर्म एव शत्रुस्तं भवद्विध एव हन्तीत्यभिप्रायः । तत् मिथुनम् । निरृतिर् इति नरकाधिष्ठातृदेवता रक्षस्तुल्यस्वभावास्ति । यद् वा, दिक्पालो\ऽलक्ष्म्यधिष्ठातृदेवता निरृतिः स्याद् अलक्ष्म्यां तु दिक्पाले नरकाधिपे इति कोशात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं श्री-कर्दम-कन्या-रूपाणां सात्त्विक-शक्ति-देवीनां विवरणम् उक्त्वा तामस-शक्ति-देवीनाम् आह—मृषेति । निरृतिर् नैरृतकाणाधिपतिः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधर्मोऽपि ब्रह्म-पुत्रस् तस्य वंशम् आह—मृषेति । हे शत्रुहन्न् इति । अधर्म एव शत्रुस् तं भवद्-विधा हन्तीत्य् अर्थः । दम्भः पर-प्रतारणम् । माया तद्-उचिता क्रिया । तयोः सोदरयोर् अपि दाम्पत्यम् अधर्मांशतया । निरृतिर् नैरृत-कोणाधिपतिः ॥२॥


॥ ४.८.३ ॥

तयोः समभवल् लोभो निकृतिश् च महा-मते ।

ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निकृतिः शठता । यत् याभ्यां कलिश् च तस्य स्वसा दुरुक्तिश् चेत्य् अर्थः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोर्दंभ माययोः । हे महामते तव महे सर्वपूज्ये हरावासमन्तान्मतिर् यस्य तथाविधत्त्वाल्लोभादयो न सन्तीति भावः । ताभ्यां लोभनिकृतिभ्याम् । इत्य् अर्थ इति व्याख्येयम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निकृतिः शठता । यत् याभ्यां कलिश् च तस्य स्वसा दुरुक्तिश् च ॥३॥


॥ ४.८.४ ॥

दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम ।

तयोश् च मिथुनं जज्ञे यातना निरयस् तथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यातना तीव्र-वेदना ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्तमेति । कलिसंबन्धाभावम् आह कलिना धीरभीरुणा इत्याद्युक्तेः । तयोर्मृत्युभययोः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अत्र शास्त्रे भक्तेर् अभिधेयत्वेन तस्याःश् चानुकूल-प्रतिकूल-वस्तु-जिज्ञासायां वर्जनीयत्वेनाधर्म-वंशो नरकान्त उक्तः ॥४॥


॥ ४.८.५ ॥

सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ ।

त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिसर्गोऽनुसर्ग एव । यद् वा, प्रतिसर्गः प्रलयः । अधर्मस्य प्रलय-हेतुत्वात् प्रतिसर्गत्वम् । एतद् एतम् अधर्म-वंशम् । पुण्यम् इति वर्जन-द्वारा पुण्य-हेतुत्वात् ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इह शास्त्रे\ऽभिधेयत्वेन तस्याश् चानुकूल-प्रतिकूल-वस्तु-जिज्ञासायां वर्जनीयत्वेनाधर्म-वंशो नरकान्तः सङ्ग्रहेण सङ्क्षेपेणोक्तः । अनुसर्गः पश्चात् सर्गः पृष्ठ-भागीय इत्य् अर्थः । अधर्मः पृष्ठतो यस्मात् इत्य् उक्तेः । अनघ इति त्वयायं नानुभूत इति भावः । त्रिः श्रवणं तु दृढीकरणार्थम् । आत्मनश् चेतसो मलं दंभादि-रूपम् एव ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्ग्रहेण सङ्क्षेपेण । प्रतिसर्गः प्रलयः, प्रलय-हेतुत्वात् प्रलयः । हे अनघेति अधर्म-वंशोऽयं त्वया नानुभूत इति भावः । पुण्यं वर्जन-द्वारा पुण्य-करम् ॥५॥


॥ ४.८.६ ॥

अथातः कीर्तये वंशं पुण्य-कीर्तेः कुरूद्वह ।

स्वायम्भुवस्यापि मनोर् हरेर् अंशांश-जन्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आविष्टा हरिणा जीवा ब्रह्मा दक्षो मनुः पृथुः ।

शक्राद्या ऋषयश् चैव मत्स्य-व्यासादयो हरिः ॥ इति ब्रह्म-वैवर्ते ॥६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् अंशो ब्रह्मा तस्यांशाद् देहार्धज् जन्म यस्य ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वक्तव्यकथायाः समाप्तत्वादतः परं किं वक्तव्यम् इति तत्राह अथात इति । अथेत्यनेन पूर्वस्माद्वक्ष्यमाणस्यार्थस्य मङ्गलत्वं वक्ति । यतो\ऽधर्मादिकं हेयमत उपादेयं कथयामीत्यत इति । यद् वा, अथातो ब्रह्मजिज्ञासा - अथात आदेशमप्राक्ष्म इतिवत् श्रुतिसूत्रतुल्यत्वमस्योपाख्यानस्य सूचितम् इति । अपिना वंशाधिक्यं च सूचितम् । कुरूद्वहेति । भवदीयवंशवदयम् अपि वंशो वर्णनार्ह एवेत्याह । यद् वा, हरेरंशानां ध्रुवपृथुदत्तयज्ञर्षभाणां जन्म यतस् तस्य यज्ञदत्तयोर्दौहित्रत्वं ध्रुवस्य पौत्रत्वं पृथोर्ध्रुवप्रपौत्रत्वमृषभस्यापि प्रपौत्रत्वं चास्तीति विवेकः । अत्रैवं बोध्यं वत्सां मनोरुच्चपदः स्वसारम् इति कर्दमप्रार्थनायां मुनिकर्तृकपूर्वनामोच्चारणेन ज्येष्ठत्वे प्रतीते\ऽप्य् उच्चपदस्तथापि प्रियव्रतोत्तानपदोः स्वसेयमित्य् अत्रान्यत्रापि प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ अत्रापि च द्वन्द्वे प्रियव्रतस्यैव ज्येष्ठत्वेन प्राधान्यात्पूर्वनिपाताज्ज्येष्ठत्वं सिद्ध्यति । तद्वंशस्य प्रथमं वर्णनीयत्वाद्यदुत्तानपदो वंशवर्णनं पूर्वं कृतं तद्भक्तबाहुल्योत्सुकतयेति बोध्यं, स्वतन्त्रेच्छस्य मुनेः पर्यनुयोगानर्हत्वाद् इति न्यायेन वा बोध्यम् । किं च, पूर्वं प्रियव्रतेनैव राज्यं कृतं यदा विरजसन्तत्यन्तस्तद्वंशः समाप्तिमितस्तदा पुनर् उत्तानपाद्राजाभूत् । प्रियव्रतादिराज्यकाले स योगसमाधिनिष्ठस्तपोनिष्ठो वा तद्वंशसमाप्तौ स्वर्गादागत्य मनुना ब्रह्मणा च पुनस्तस्मै राज्यं दत्तं समाधेरुत्थाप्य मन्वागमनं हि ध्रुवानुशासनार्थागमनवत्संभावितम् एव । अन्यथा प्रथमं प्रियव्रतराज्याभावे भूमण्डलजलधिमेखलमाकलय्येति ध्रुवचरितोक्तिः समुद्रमुपविस्तीर्णम् इति प्राचेतसोपाख्यानोक्तिश् च न सङ्गच्छेत । प्रियव्रतात्पूर्वं समुद्राद्य्-अभावात्समुद्रादीनां तद्रथचरणनेमिनिम्नोद्भूतत्वस्य यो निमिनिम्नैरकरोच्छायां घ्नन्सप्तवारिधीन् इत्य्-आदिनोक्तत्वाद् इति प्रतिभाति । युगपदेकभूमण्डले चक्रवर्तिद्वयासंभवात् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेर् अंशांशानां कपिल-दत्त-यज्ञ-पृथु-ऋषभादीनां जन्म यतस् तस्य ॥६॥


॥ ४.८.७ ॥

प्रियव्रतोत्तानपादौ शतरूपा-पतेः सुतौ ।

वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्रियव्रतोत्तानपाद-प्रमुखेषु हरिः स्वयम् ।

आविष्टः स्मरण्स्मृतेषु ऋषभाद्याः स्वयं हरिः ॥ इति हरिवंशेषु ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : जगतो रक्षायां स्थितौ ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वासुदेवस्य कलया कलारूपेण विष्णुना या जगतो रक्षा तस्यां स्थितौ विष्णोर्वासुदेवकलारूपत्वं श्रीदशमस्कन्धोपक्रमे वर्णयिष्यामः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासुदेवस्य कलया कला-रूपेण विष्णुना या जगतो रक्सा तस्यां क्रियायां स्थितौ ॥७॥


॥ ४.८.८ ॥

जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः ।

सुरुचिः प्रेयसी पत्युर् नेतरा यत्-सुतो ध्रुवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुनीतिः सुरुचिश् च जाये । तयोर् मध्ये इतरा सुनीतिः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रियव्रतोत्तानपात्पत्नी पितरौ तु ग्रन्थान्तरादवसेयौ । उक्तम् अपि स्कान्दीयकेदारखण्डे—

कर्दमस्य सुता देवी काम्या नाम्नी प्रियव्रतम् ।

पतिं लेभे सूनृता तु धर्मकन्योच्चपादकम् ॥

इति प्रियव्रतस्य विश्व-रूपदुहिता बर्हिष्मत्यपि भार्यासीद् इति वक्ष्यति पञ्चम-स्कन्धे । सूनृतेति । सुनीतेरे व नामान्तरम् एवं सुरुचिपितापि तदानीन्तनः प्रजापतिविशेषो ज्ञेयः । तयोः सुनीतिसुरुच्योः । इतरा सुनीतिः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोर् जाययोर् मध्ये ॥८॥


॥ ४.८.९ ॥

एकदा सुरुचेः पुत्रम् अङ्कम् आरो\ऽप्य् अ लालयन् ।

उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोः प्रियाप्रियत्वे प्रपञ्चयन् ध्रुव-चरित्रम् आह पञ्चभिर् अध्यायैः । सुरुचेः पुत्रम् उत्तम-संज्ञं लालयन् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नाभ्यनन्दत नाङ्ग्यकरोत् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुरुचेः पुत्रम् उत्तम-संज्ञम् ॥९॥


॥ ४.८.१० ॥

तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् ।

सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा अङ्कारोहणं चिकीर्षमाणम् ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सेर्ष्यं यथा भवति तथा ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.११ ॥

न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति ।

न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गर्वोक्तिम् एवाह त्रिभिः—नेति । नृपतेर् धिष्ण्यम् आसनं नृपात्मजोऽपि भवान् नारोढुम् अर्हति ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सेति साक्षेपा संबुद्धिः वत्सवदज्ञोसीत्यभिप्रायः । नृपात्मज इति । न हि नृपात्मजत्वम् एव राज्यासनारोहकरं किन्तु राज्ञ्यात्मजत्वम् । नृपात्मजत्वस्य दास्यादिपुत्रे\ऽपि संभवादित्य् अभिप्रायः । नैवं धृत इति पाठे एवमुत्तमवत्कुक्षौ न धृतः, अपि न कदाचिल्लालनार्थं कुक्षौ कटिपरिदेशे न गृहीत इत्य् उक्तम् । वस्तुतस् तु यस्त्वं हरिभक्तो मया लालनार्थम् अपि कुक्षौ न धृतोस्यहो मे भाग्यमान्द्यम् इति वागर्थः । तथा नृपतेर्धिष्ण्यमात्रमारोढुं नार्हसि किं तु सर्वोत्कृष्टं विष्णुपदं, हे नृपतेर्नरपालकस्य विष्णोर्वत्स प्रिय! नृपपदमत्रोपलक्षणं नृप आत्मजो यस्येति तथा तव पुत्रस्यापि राज्यं भविष्यति तव तत्र कः सन्देह इति भावः । वत्सः पुत्रे प्रिये चाद्यवर्षे धेनुसुते च ना । उरसि क्लीबम् इति धरणिः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धिष्ण्यम् आसनं यद् यस्मात् नृपात्मजोऽपि त्वं मया कक्षौ न गृहीतः ॥११॥


॥ ४.८.१२ ॥

बालोऽसि बत नात्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् ।

नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्लभे राज्यासनारोहण-रूपे यस्य तव ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं बालोऽस्य् अत एव नात्मानम् इत्य्-आदि ॥१२॥


॥ ४.८.१३ ॥

तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे ।

गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषम् ईश्वरम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषम् आराध्येति भक्तं-मन्येयं राज्ञः सन्निधौ, न तु वस्तुतो हरि-भक्तेयम् । त्वम् आत्मानं मम गर्भे साधयेति सम्प्रत्य् एव त्रि-चतुरैः पञ्च-षैर् वा व्रतैर् मद्-गर्भ-प्राप्ति-साधनैर् हरिं सन्तोष्य त्वं शीघ्रं म्रियस्व । तन्-मातरम् अहं रुदतीं पश्येयम् इत्य् एवं तव च मम च सुखं भवत्व् इति भावः ॥१३॥


॥ ४.८.१४ ॥

मैत्रेय उवाच—

मातुः सपत्न्याः स दुरुक्ति-विद्धः

श्वसन् रुषा दण्ड-हतो यथाहिः ।

हित्वा मिषन्तं पितरं सन्न-वाचं

जगाम मातुः प्ररुदन् सकाशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मिषन्तं पश्यन्तम् । सन्न-वाचम् ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि राज्यासनलाभः कथं स्यात्तत्राह—तपसेति । पुरुष नारायणम् । तस्य पुरुषस्य गर्भे साधय संप्रत्येव त्रिचतुरैः पञ्चषैर्व्रतैर्मद्भर्तृप्राप्तिसाधनैर्हरिं सन्तोष्य त्वं शीघ्रं म्रियस्व । त्वन्मातरं रुदन्तीं पश्येयमित्य् एवं तव च मम च सुखं भवत्व् इति भावः । पुरुषमाराध्येति भक्तंमन्येयं नृपसन्निधाने न तु भक्तेयम् इति भावः ॥१३-१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिषन्तं पश्यन्तम् । सन्न-वाचं स्त्रैनत्वात् कुण्ठित-वाचम् ॥१४॥


॥ ४.८.१५ ॥

तं निःश्वसन्तं स्फुरिताधरोष्ठं

सुनीतिर् उत्सङ्गम् उदूह्य बालम् ।

निशम्य तत्-पौर-मुखान् नितान्तं

सा विव्यथे यद् गदितं सपत्न्याः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उदूह्यआरो\ऽप्य् अ । अन्तः-पुर-जन-मुखात् श्रुत्वा ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरे\ऽतःपुरे भवाः पौरा दासीजनास् तेषां मुखात् । अत्रापि पुरपदमेकदेशोच्चारणन्यायेनान्तःपुरं वक्तीति निशम्य भानुनन्दनीतिवत् । तत्सपत्न्युदितम् । नितान्तमतिशयेन सा सुनीतिः । विव्यथे दुःखिता बभूव ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उदूह्य आरो\ऽप्य् अ ॥१५॥


॥ ४.८.१६ ॥

सोत्सृज्य धैर्यं विललाप शोक-

दावाग्निना दाव-लतेव बाला ।

वाक्यं सपत्न्याः स्मरती सरोज-

श्रिया दृशा बाष्प-कलाम् उवाह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शोक एव दावाग्निस् तेन । दाव्आग्नि-गता लतेव स्थिता सा बाला विलापं चकार ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दावलतापि वह्निस्पर्शाच्चटचटेति शब्दं कुर्वती प्रस्विन्नेव जलमप्यश्रुवन्मुञ्चतीति भावः । हेतौ तृतीया । प्राप्तेतिपदाध्याहारो वा । बालेति परिचारकस्त्रीतुल्यताम् आह—बाला त्रुटिस्त्रियोः इति मेदिनी ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दाव-लता वन-लता ॥१६॥


॥ ४.८.१७ ॥

दीर्घं श्वसन्ती वृजिनस्य पारम्

अपश्यती बालकम् आह बाला ।

मामङ्गलं तात परेषु मंस्था

भुङ्क्ते जनो यत् पर-दुःखदस् तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वृजिनस्य दुःखस्य । अमङ्गलम् अपराधं परेषु मा मंस्थाःयद् यतः परेभ्यो दुःखं ददाति यः स स्व-दत्तम् एव दुःखं भुङ्क्ते ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शलभभक्षितसश्यवत्पूर्वकृतकर्मणो\ऽपरिहार्यत्वं पश्यन्त्याह—हे तातेति । प्रियत्वं द्योतयन्ती तत्र स्वासामर्थ्यमाहेत्यभिप्रायः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमङ्गलं दोषं विमात्रे मा देहि । प्राचीन-स्व-कृत-दुष्कृत-फलम् एव त्वम् अन्वभूर् इत्य् आह । यद् यतः परेभ्यो दुःखं ददाति यः, स [तत्] स्व-दत्तम् एव भुङ्क्ते ॥१७॥


॥ ४.८.१८ ॥

सत्यं सुरुच्याभिहितं भवान् मे

यद् दुर्भगाया उदरे गृहीतः ।

स्तन्येन वृद्धश् च विलज्जते यां

भार्येति वा वोढुम् इडस्पतिर् माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्भगया मया उदरे गृहीतस् तस्या एव स्तन्येन वृद्धश् च । दुर्भगत्वम् एवाह । यां माम् इडस्पतिर् भू-पतिर् भार्येति वोढुं स्वीकर्तुं विलज्जते । वा-शब्दाद् दासीत्य् अपि ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परेण द्वेषादुक्तम् अपि गुणग्राहिणस्तत्पथ्यम् एव प्रतिभातीत्य् आह—सत्यम् इति । विलज्जते मद्रक्षणपालने यो भारस्तं वोढुं त्रपत इत्य् अर्थः । स्वास्याननुरूपतामननेनेति भावः । इडस्पतिरिहेडाया इडसादेशश्छान्दसः । इडा भूमिस्तस्याः पतिः मे दुर्भगाया इति षष्ट्यौ तृतीयार्थे, तस्या दुर्भगाया एव स्तन्येन क्षीरेण न तु पितृदत्तरसायनेनेति भावः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वाचोढुम् इति चित्सुख-पुण्यारण्यौ । वाचा ऊढुं वक्तुम् इत्य् अर्थः ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहीतः धृतः । दुर्भगत्वम् एवाह—यां माम् इडस्पतिर् भू-पतिर् भार्येति वोढुम् इयं मे भार्या भवतीति बुद्ध्या यो मद्-रक्षण-पालन-भारः, तं वोढुम् लज्जते । वा-शब्दाद् दासीति भावम् अपि ॥१८॥


॥ ४.८.१९ ॥

आतिष्ठ तत् तात विमत्सरस् त्वम्

उक्तं समात्रापि यद् अव्यलीकम् ।

आराधयाधोक्षज-पाद-पद्मं

यदीच्छसेऽध्यासनम् उत्तमो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पितृ-भार्यात्वेन मात्रा समा मातुः सपत्नी तयापि, यद् उक्तं—तपसाराध्य पुरुषम् इत्य्-आदि तद् आतिष्ठ कुरु । अध्यासनं यदीच्छसि ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मात्रा समा स-माता तया विमात्रापि त्वद्-वधम् अभिलषन्त्यापि यद् उक्तं तद् आतिष्ठ कुरु । अव्यलीकं तद् अपि प्रियं न भवति । न हि हरि-भजनं कस्याप्य् अप्रियम् अतो विमत्सरस् तस्या द्वेषं परित्यज्येत्य् अर्थः । मम रोदनम् आजन्म विधात्रा ललाटे लिखितम् एव तव तु सुखं भवत्व् इति भावः ॥१९॥


॥ ४.८.२० ॥

यस्याङ्घ्रि-पद्मं परिचर्य विश्व-

विभावनायात्त-गुणाभिपत्तेः ।

अजोऽध्यतिष्ठत् खलु पारमेष्ठ्यं

पदं जितात्म-श्वसनाभिवन्द्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिचर्य निषेव्य । विश्वस्य विभावनाय पालनाय आत्ता स्वीकृता गुणाभिपत्तिः सत्त्व-गुणाधिष्ठानं येन, तस्य । जित आत्मा मनः श्वसनः प्राणश् च यैस् तैर् अभिवन्द्यम् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मात्रा समा समाता तया विमात्रापि त्वद्-वधमभिलषन्त्यापि यत्तप उक्तं तत्कुरु अव्यलीकं प्रियं तत्, न हि हरिभजनं कस्याप्यप्रियम्भवति विमत्सरः तस्या द्वेषं परित्यज्येत्य् अर्थः । मम रोदनमाजन्म विधात्रा ललाटे लिखितं तव सुखं भवत्व् इति भावः । अलीकमप्रिये\ऽपि स्याद् दिव्ये सत्ये नपुंसकम् इति मेदिनी । विशेषेणालीकं व्यलीकं न व्यलीकमव्यलीकम् । अध्यासनमधिकमासनम् उद्गतं तमो\ऽज्ञानं यस्य स तथा यथा ज्ञानी भगवत्प्राप्तये तत्पादं सेवते तं च प्राप्नोति तथा त्वम् अपि तं प्राप्स्यसीति भावः ॥१९-२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्याङ्घ्रीति । परिचर्य निषेव्य आत्ता सान्निध्य-मात्रेणापकृता गुणाभिपत्तिर् गुण-साम्यं प्रकृतिर् येन, तस्य वन्द्यम् इत्य् अत्र पद्यम् इति सम्बन्ध-सम्मत1-पाठान्तरम् ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किं हरिम् आराध्य तस्याः पापीयस्याः गर्भं प्रवेक्ष्यामीति तत्र सा वराकी खलु का, तस्याः किङ्करस् त्वत्-पितैव वराको दीन-बुद्धिस् त्वं ब्रह्म-पदाद् अप्य् उत्कृष्टं पदं प्राप्तुं पारयिष्यसि, तद् इतः शीघ्रं व्रज । हरिं भज मा विषीदेत्य् आह—यस्येति चतुर्भिः । विश्वस्य विभावनाय पालनाय आत्ता स्वीकृता गुणाभिपत्तिः सत्त्व-गुणाधिष्ठानं येन तस्य । जितात्म-श्वसनैर् विजित-मनः-प्राणैर् योगिभिर् अभिवन्द्यम् ॥२०॥


॥ ४.८.२१ ॥

तथा मनुर् वो भगवान् पितामहो

यम् एक-मत्या पुरु-दक्षिणैर् मखैः ।

इष्ट्वाभिपेदे दुरवापम् अन्यतो

भौमं सुखं दिव्यम् अथापवर्ग्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एक-मत्या सर्वान्तर्यामि-दृष्ट्या ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चतुर्मुखस्य भगवत्पुत्रत्वेन तत्प्रसादयोग्यतया तस्य तादृशैश्वर्यप्राप्तिर्युक्तैवास्मत्पूर्वजेन केनाप्तं येन श्रद्धयास्माकम् अपि तत्र झटिति प्रवृत्तिः स्यात्तत्राह—तथेति । यथाजस् तथा अन्यतो भक्त्यादिव्यतिरिक्तसाधनेनान्येभ्यो देवेभ्यो वा भौमं मन्वन्तराधिपत्यं दिव्यं स्वर्गसम्बन्धि आपवर्ग्यं कैवल्यसम्बन्धि, अथेत्यनेन देहत्यागानन्तरम् एवापवर्गसुखावाप्तिर्न जन्मातरं प्राप्येत्याह ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एक-मत्या एकाग्र-बुद्ध्या ॥२१॥


॥ ४.८.२२ ॥

तम् एव वत्साश्रय भृत्य-वत्सलं

मुमुक्षुभिर् मृग्य-पदाब्ज-पद्धतिम् ।

अनन्य-भावे निज-धर्म-भाविते

मनस्य् अवस्थाप्य भजस्व पूरुषम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृग्या पदाब्जयोः पद्धतिर् मार्गो यस्य तम् एवाश्रय शरणं व्रज । ततो भजस्व । नान्यस्मिन् भावो यस्य तस्मिन् । निज-धर्मैर् भाविते शोधिते ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं बहूक्त्या सारं वक्ष्यामीत्य् आह—तम् इति । एवेति । देवतान्तरनिरासाय यत्किंचिद्दोषदृष्ट्या विमुखो न भविष्यतीत्य् आह—भृत्यवत्सलम् इति । चक्रवर्ती तु—मद्विधमातृकोटितो\ऽपि त्वयि भृत्ये तस्य वात्सल्यमुदेष्यत्यतो दुःखगन्धम् अपि न प्राप्स्यतीति भावः । यं त्वं प्राप्स्यसि तस्य पदाब्जयोः पद्धतिर्मार्ग एव मुमुक्षुभिर्मृग्यते, न तु तैर् अपि सुलभ इति भावः । एतेन न केवलं सकामैरे व स सेव्यो\ऽपि तु मोक्षेप्सुभिरपीत्युक्तम् । आश्रितस्य च नान्यस्मिन्भाव आसक्तिर् यस्य तादृशे मनसि । वत्सेति । पञ्चवार्षिकस्य ते कर्मान्तरानधिकाराद्भक्तिरे व कार्येत्याह—निजधमैर्भक्तिधर्मैर्यमनियमादिभिः पुरुषमित्यनेन स्वान्तस्थम् एव तं न देशान्तरादानेयम् इत्य् उक्तम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भृत्य-वत्सलम् इति मद्-विध-मातृ-कोटितोऽपि त्वयि भृत्ये तस्य वात्सल्यम् उदेष्यत्य् अतो दुःख-गन्धम् अपि न प्राप्स्यतीति भावः । यं त्वम् आश्रययिष्यत् तस्य पदाब्जयोः पद्धतिर् मार्ग एव मुमुक्षुभिर् मृग्यते, न तु सा तैर् अपि सुलभा इति भावः । आश्रित्य च नान्यस्मिन् भाव आसक्तिर् यस्य तादृशे मनसि । पञ्चवार्षिकस्य ते कर्मानधिकारात् निज-धर्मैर् भक्ति-धर्मैर् भाविते शोधिते मनसि पुरुषम् अवस्थाप्य भजस्व ॥२२॥


॥ ४.८.२३ ॥

नान्यं ततः पद्म-पलाश-लोचनाद्

दुःख-च्छिदं ते मृगयामि कञ्चन ।

यो मृग्यते हस्त-गृहीत-पद्मया

श्रियेतरैर् अङ्ग विमृग्यमाणया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एवेत्य् अनेन सूचितं सर्वोत्तमत्वं प्रपञ्चयति—नान्यम् इति । हस्तेन गृहीतं दीपवत् पद्मं यया । इतरैर् ब्रह्मादिभिः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुतोयम् एवाशेषपुरुषार्थावाप्तौ नियमो\ऽन्यः किं न स्याद् इति चेत्सुखाराध्यस्यापि देवतान्तरस्य नश्वरफलदायित्वात् त्वद्-दुःखं निर्मूलयितुमसमर्थस्य भजनपरिणामदर्शिन्यहं नोपदिशामीत्य् आह—नेति । यो युष्माकं कुलदेवता लक्ष्मीकान्तः स्तुतस्तस्मात्पद्मपलाशलोचनादित्यनेन तस्य दृष्टिपातेनैव तप्तस्त्वं शीतलीभविष्यसीति ध्वनितं, त्वयानन्विष्यैतद् उक्तं विचारिते कश्चित्स्याद् एवेत्यत आह—मृगयामि विचारेणान्यं तादृशं न पश्यामीति भावः । लक्ष्मीरे व स कुतो न स्यात्तत्राह य इति । श्रीत्वं तु भारत्यादावप्यस्तीत्यत आह—इतरैर् इति । तर्हि संपल्लक्षणा श्रीरे व सा स्याद् इत्यत आह—हस्तेति । अनेन श्रीप्रिया मूर्तिमती साक्षाल्लक्ष्मीर् इति ज्ञायते मृग्यत इत्यनेन हरेर्गुणतः स्वरूपतश्चोत्कर्षो ध्वनितः । विमृग्यमाणयेत्यनेन श्रीकटाक्षमोक्षस्य दुःसाधनत्वमुक्तम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रिया जगद्-अधिष्ठात्र्या हस्त-गृहीत-पद्मयेति तल्-लोचन-साम्येनाधिक-तद्-रुचेः । सर्व-सम्पत्ति-निधानेन तेन पद्मेन सेवाभिलाषाद् वा ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुखाराध्यस्यापि देवतान्तरस्य नश्वर-फल-दायित्वात् त्वद्-दुःखं निर्मूलयितुम् असमर्थस्य भजनं परिणाम-दर्शिन्य् अहं त्वां नोपदिशामीत्य् आह—नान्यम् इति । पद्म-पलाशेति तस्य दृष्टि-पातेनैव तप्तस् त्वं शीतलीभविष्यामीति भावः । हस्ते गृहीतं दीपवत् पद्मं यया । इतरैर् ब्रह्मादिभिः ॥२३॥


॥ ४.८.२४ ॥

मैत्रेय उवाच—

एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः ।

सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सञ्जल्पितं विलापम् । ततोऽर्थस्यागमो यस्मात्, तथाभूतं वच आकर्ण्य ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बालत्वाद्रोषतोषयोः क्षणकालीनत्वेन समत्वान्मातृवचः श्रुत्वापि गृह एवावस्थानं हृदि संनिधाय तत्समर्थनाय ततो निर्गमनं वा युक्तम् इति ध्रुवेण द्वयोर्मध्ये किमकारीत्यान्तरीं शङ्कां परिहत्तुत्म् आह—एवम् इति । ततो विलापाकर्णनानन्तरम् । अर्थस्याभिप्रेतस्य । आत्मना धैर्येणात्मानं मनः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.२५ ॥

नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।

स्पृष्ट्वा मूर्धन्य् अघ-घ्नेन पाणिना प्राह विस्मितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्*।***


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्रुवस्याभीष्टसिद्धिलक्षणं नारदसंवादं वक्ति नारद इति । उपाकर्ण्येत्यनेन नारदस्य दूरश्रवणशक्तिर्योगीन्द्रत्वात्स्वाभाविकीति सूचयति । सर्वप्राणिचित्तविषयं ज्ञानं वा योगसिद्धं स्पृष्ट्वति गुरुप्रसादं ध्वनयति—अघघ्नेनेति । सर्वदुरितविनाशकेन पित्रादिद्वेषनिमित्तदोषनाशं वक्ति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नारदो यदृच्छयैवागतः सन्न् इति ज्ञेयम् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राह स्वगतम् ॥२५॥


॥ ४.८.२६ ॥

अहो तेजः क्षत्रियाणां मान-भङ्गम् अमृष्यताम् ।

बालोऽप्य् अयं हृदा धत्ते यत् समातुर् असद्-वचः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मित इत्य् उक्तं तद् एवाह—अहो तेजः प्रभावः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव विस्मितत्वम् एव तेजो धैर्यलक्षणम् । अमृष्यतामसहमानानां समातुः समानमातुः सुरुच्याः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो इति स्वगतं वाक्यम्, उवाचेत्य् अग्रे स्फुटोक्ति-ख्यापनात् । तेजः परिभवेच्छा ।*।*२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.२७ ॥

नारद उवाच—

नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक ।

लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्रकेति पुत्रसहदृशत्वाच्छिष्यस्येत्यभिप्रेत्योक्तम् । सादृश्ये\ऽपि कप्रत्ययः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विकल्पे विद्यमानेऽपि असन्तोष-हेतवो मोहम् ऋते न सन्तीत्य् एव यतोऽमी मोहाद् अभिन्नाः । यच् च सुखं दुःखं कर्मभिर् इति लोके श्रूयते, तत्र च पक्षे तानि मोहम् ऋते न सन्तीत्य् अर्थः ॥२७॥


॥ ४.८.२८ ॥

विकल्पे विद्यमानेऽपि न ह्य् असन्तोष-हेतवः ।

पुंसो मोहम् ऋते भिन्ना यल् लोके निज-कर्मभिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विविध-कल्पने विद्यमानेऽपि परिणततया ॥२८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : विकल्पे मानापमान-विवेके सत्य् अपि भिन्ना न सन्ति, किं तु मोह-कल्पिता एवेत्य् अर्थः । कुतः ? यत् सुखं दुःखं वा तन् निज-कर्मभिर् एव भवति यतः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असन्तोषहेतवो दुःखहेतवो\ऽमानादयस्तत्कर्तारो वा । इत्य् अर्थ इति । अज्ञानकल्पिता एवेति भावः । अत्र विश्वनाथः—विकल्पो भेदस्तस्मिन्विद्यमाने\ऽपि ज्ञानयोगिनां तावद्विकल्पो नास्त्येवेति को वासन्तोषः के वा तस्य हेतवः । भक्तियोगिनां कर्मयोगिनां च विकल्पो विद्यत एवेति विद्यमाने विकल्पे पुंसो मोहं विनासन्तोषस्य हेतवो\ऽपमानादयस्तत्कर्तारश् च भिन्ना न सन्ति किं तु मोह एवेत्य् अर्थः । यद् यस्माल्लोके सर्वत्र निजकर्मभिरेवापमानादयो भवन्तीत्यात्मानं विना कस्मै दोषो देय इत्यत एवं विवेकिनो भक्ताः सकर्माणश् च केचिद्भवन्तीति भावः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विकल्पो भेदः, तस्मिन् विद्यमानेऽपीति ज्ञान-योगिनां तावद् विकल्पो नास्त्य् एवेति को वासन्तोषः ? के वा तस्य हेतवः ? भक्ति-योगिनां कर्म-योगिनां विकल्पो विद्यत एवेति । विद्यमानेऽपि विकल्पे पुंसो मोहं विना असन्तोषस्य हेतवोऽवमानादयस् तत्-कर्तारश् च भिन्ना न सन्ति, किन्तु मोह एवेत्य् अर्थः । यद् यस्माल् लोके सर्वत्र निज-कर्मभिर् एवाशुभैर् असन्तोष-हेतवोऽवमानादयः, तत्-कर्तारश् च भवन्तीत्य् आत्मानं विना कस्मै दोषो देयः ? इति । अत एव विवेकिनो भक्ताः कर्मिणश् च केचिन् निर्मत्सरा भवन्ति इति भावः ॥२८॥


॥ ४.८.२९ ॥

परितुष्येत् ततस् तात तावन्-मात्रेण पूरुषः ।

दैवोपसादितं यावद् वीक्ष्येश्वर-गतिं बुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपशमोपदेशेन निवर्तयति—परितुष्येद् इति षड्भिः । ईश्वर-गतिं वीक्ष्य ईश्वरानुकूल्यं विना नोद्यमाः फल-हेतव इति ज्ञात्वा परितुष्येत् सन्तोषम् एव कुर्यात् ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निवर्तयति-तपस इति । यतः कर्मैव दुःखादिहेतुस्ततो हेतोः यत्र फलप्रापकं तत्रैवेश्वरानुकूल्यं भवतीति दैवोपपादितेनैव तुष्येद् इति भावः । बुध इति । स्वोपार्जितविवेकबुद्ध्येत्याह इति ज्ञात्वेश्वरप्रेरितम् एव कर्म फलतीति विचार्य ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्र फल-प्रापकं दैवं, तत्रैवेश्वरानुकूल्यं भवतीति दैवोपसादितेनैव परितुष्येद् इति भावः । दैवम् ईश्वरो वा ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् एवं तस्माद् दैवेन प्राचीन-निज-कर्मणा उपसादितं प्रापितं यावत् यत् प्रमाणकं सुखं दुःखं वा, तावन्-मात्रेण परितुष्येत् । विवेकेन सोपार्जित-बुद्ध्येति भावः । तच् च ईश्वर-गतिं वीक्ष्य ईश्वर-प्रेरितम् एव कर्म फलतीति ज्ञात्वेत्य् अर्थः ॥२९॥


॥ ४.८.३० ॥

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।

यत्-प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुष्करश् च तवायम् उद्यम इत्य् आह—अथेति द्वाभ्याम् । यस्य प्रसादम् अवरोढुं प्राप्तुम् इच्छसि ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तव तु प्रारिप्सितोयमुद्यमोतिकठिन इत्य् आह—अथेति । अथ यदि योगेनोपायेन मातृपदमत्रोभयमातृपरे ज्ञेयं सुरुच्यापि तपसाराध्य पुरुषमित्युपदिष्टत्वात् । दुराराध्यस्य कुतः प्रसादः कुतस्तरां फलाप्तिर् इति भावः । वा इत्यनेन स्वानुभवसिद्धम् इति दर्शयति ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव तु प्रारिप्सितोऽयम् उद्यमोऽतिकठिन इत्य् आह—अथेति । अवरोद्धुं प्राप्तुम् इच्छसि ॥३०॥


॥ ४.८.३१ ॥

मुनयः पदवीं यस्य निःसङ्गेनोरु-जन्मभिः ।

न विदुर् मृगयन्तोऽपि तीव्र-योग-समाधिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निःसङ्गेन तीव्र-योगेन युक्तेन समाधिना मृगयन्तोऽपि यस्य पदवीं मार्गं न विदुः, स देवो दुराराध्यः [३०] ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुनयो\ऽपि यन्मार्गं समाराध्यं न जानन्ति बालकस्त्वं किमुतेति भावः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.३२ ॥

अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः ।

यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रेयसां काले वृद्धत्वे ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः स दुराराध्योस्त्यतो निवर्तताम् । एष तत्प्रसादनलक्षणो हठः । वास्तवोर्थस्तु-विनिश्चितं फलं यत्र तथाभूत एव सन्निवर्ततां काले प्राप्त्यवसरे एवास्मिन् यतिष्यतीति वर्तमानसामीप्ये ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत इति वास्तवार्थे । [निष्फलम्] निश्चितं फलं यत्र तथा-भूत एव सन् निवर्तताम्काले प्राप्तावसर एवास्मिन् । यतिष्यतीति वर्तमान-सामीप्ये ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रेयसां काले वयसो वृद्धत्वे ॥३२॥


॥ ४.८.३३ ॥

यस्य यद् दैव-विहितं स तेन सुख-दुःखयोः ।

आत्मानं तोषयन् देही तमसः पारम् ऋच्छति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुख-दुःखयोर् मध्ये सुखे सति पुण्यं क्षीयत इति, दुःखे सति पापं क्षियत इत्य् आत्मानं तोषयंस् तमसः पारं मोक्षं [ऋच्छति] प्राप्नोति ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन दैवविहितेन ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्येति । निष्काम-कर्मान्य् अत्राधिकारी ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुख-दुःखयोर् मध्ये तेन सुखेन दुःखेन वा तोषयन्, सुखे सति पुण्यं क्षीयते, दुःखे सति पापं क्षियत इति बुद्ध्येत्य् अर्थः । तमसः संसारात् ॥३३॥


॥ ४.८.३४ ॥

गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् ।

मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, गुणैर् अधिकात् पुंसम् इति ल्युब्-लोपे पञ्चमी । तं दृष्ट्वा प्रीतिं कुर्यात्, न त्व् असूयाम् इत्य् अर्थः । अनुक्रोशं कृपां लिप्सेत्, न तु तिरस्कारम् । समानान् मैत्रीं न तु स्पर्धाम् ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मनोदुःखाभावे उपायान्तरम् आह—किं चेति । गुणाः शमदमादयः । इत्य् अर्थ इति । तादृशगुणाप्तये\ऽन्यथा तद्गुणातिर्न स्याद् इति भावः । कृपाम् इति । अयम् अपि मादृशो भवत्वित्य् अर्थः । न तु स्पर्धाम् इति । स्पर्द्धया नरकपातादि स्याद् इत्य् अर्थः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, गुणाधिकात् गुणाधिकं प्राप्येति ल्युब्-लोपे पञ्चमी । मुदं लब्धुम् इच्छेत्, न त्व् असूयाम् । अनुक्रोशं कृपां, न त्व् अवज्ञाम् । मैत्रीं, न तु स्पर्धां लिप्सेद् इति यदि स्व-स्वभाव-दोषान् न लभेत, तद् अपि लब्धुं कामयेतापीत्य् अभिप्रायः ॥३४॥


४.८.३५ ॥

ध्रुव उवाच—

सोऽयं शमो भगवता सुख-दुःख-हतात्मनाम् ।

दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्-विधैस् तु यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नारदेनैवं बोधितो\ऽपि ध्रुवस् तं प्रशस्य स्व-हार्दं विज्ञापयति—सो\ऽयं शमो भगवन्-निष्ठा-लक्षणः । सुख-दुःखाभ्यां पीडित-मनसाम् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्मद्-विधैर् यो दुर्दर्शः, सोऽपि यद्यपि कृपया दर्शितः ॥३५॥


॥ ४.८.३६ ॥

अथापि मेऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः ।

सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षात्त्रं स्वभावं प्राप्तवतोऽत एवाविनीतस्य दुर्वाक्य-बाणैर् भिन्ने हृदि न श्रयते न तिष्ठति ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विश्वनाथम् अनु।


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथापि तथापि ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वया यद्यप्य् अनधिकारिणेऽपि मह्यं कृपयेदम् उपशमामृतं दत्तम् । अथापि तथापि । अत एव स्वभावं प्राप्तत्वाद् एव । भिन्ने मृद्-भाजनवद् विदीर्णे न तिष्ठतीति व्याज-स्तुत्या शौर्यादि-हीनान् दुर्बलान् ब्राह्मणान् एवोपशमामृतं पायय, मम तु महा-घोर-शौर्यवतः क्षत्रिय-कुमारस्य दृष्टिर् अप्य् अत्र न पततीति व्यञ्जितम् ॥३६॥


॥ ४.८.३७ ॥

पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।

ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यैर् अनधिष्ठितं त्रि-भुवने उत्कृष्टं पदं जेतुम् इच्छोर् मे साधु वर्त्म मार्गं ब्रूहि ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि तवाकाङ्क्षायाः कियानवधिरित्याकाङ्क्षायाम् आह—पदम् इति । त्रिभुवनोत्कृष्ट त्वे\ऽप्य् अस्मत्पितृभिर् इति या मामवमन्यते स्म तत्पतिनोत्तानपादेन तत्पित्रा मनुना तत्पित्रा ब्रह्मणा तदन्यैर् अपि ब्रह्मपुत्रपौत्रादिभिरनधिष्ठितमप्राप्तं पदं जेतुम् इच्छोर्वर्त्म ब्रूहीति त्वं तावद्वर्त्ममात्रमुपदिशन्नचिरेणैव तद्विजये किञ्चन शौर्यं मे पश्येति भावः । एतेन ब्रह्माद्यप्राप्ये पदे तत्पुत्रस्योत्तमस्य तु मनोरथो\ऽपि दुर्घट इत्यसूचि । किं च, राजसिंहासनस्यानित्यत्वेन तपसा तन्नाकाङ्क्ष इति च ध्वनितम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि त्वं किम् इच्छसि ? इत्य् अत आह—पदम् इति । त्रि-भुवनोत्कृष्टत्वेऽपि अस्मत्-पितृभिर् इति यो माम् अवमन्यते स्म, तेन सुरुचेः पत्या उत्तानपादेन, तत्-पित्रा मनुना, तत्-पित्रा ब्रह्मणापि, अन्यैर् अपि ब्रह्मणैः पुत्र-पौत्रादिभिः अनधिष्ठितम् अप्राप्तं पदं जिगीषोः स्वीचिकीर्षोर् वर्त्म ब्रूहीति, "त्वं तावत् वर्त्म मात्रम् उद्दिशन्न् अचिरेणैव तद्-विजये किञ्चन शौर्यं मे पश्य" इति भावः ॥३७॥


॥ ४.८.३८ ॥

नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः ।

वितुदन्न् अटते वीणां हिताय जगतोऽर्कवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्कज इति पाठे उत्सङ्गाज् जातो यो नारदः स भवान् । तत्र लिङ्गम्, वीणां वितुदन् वादयन् हितायाटति ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मम त्वयं मनोरथः सेत्स्यत्येव यद् गृहान्निष्काम्यत एव भवद्दर्शनमिदम् एवात्र ज्ञापकम् इत्य् आह—नूनम् इति । अङ्गादुत्सङ्गादाविर्भूतो लोकहिताय भगवद्-अवतार एवं त्वं न कस्यापि पुत्र इति भावः, पाठान्तरं स्वामिचरणौर्व्याख्यातम् एव । तत्र नारदत्वे श्रीनारदस्यैवैतादृशत्वात् नारं नरसमूहं दयते हितोपदेशेन पालयतीति निरुक्तेरन्वर्थत्वात् ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवान् परमेष्ठिनोऽङ्गजोऽप्य् अङ्कज इति पाठे उत्सङ्गाज् जातोऽपि यद् वीणां वितुदन्न् अटति तनूनं जगत एव हितायेति । अत्र श्री-मैत्रेय उवाचेति क्वचित् इतीति । स-निर्बन्धं स्वस्मिन् विश्वास-युक्तं सर्वोत्कृष्ट-साधन-साध्य-लिप्सा-युक्तं च, अत एव प्रीतः ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ममायं तु मनोरथः सेत्स्यत्य् एवेत्य् अत्र गृहान् निष्क्रम्य त एव भवद्-दर्शनम् एव लिङ्गम् इत्य् आह—नूनम् इति । अङ्काद् उत्सङ्गाद् आविर्भूतो लोक-हिताय भगवद्-अवतार एव त्वं न कस्यापि पुत्र इति भावः । अङ्गज इति पाठे भवान् परमेष्ठिनोऽङ्गजोऽपि मद्-वीणां विनुदन्न् अटति तज् जगतो हितायैव ॥३८॥


॥ ४.८.३९ ॥

मैत्रेय उवाच—

इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा ।

प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यादृच्छिकमुनित्वात्तद् उक्तमाकर्ण्य स्मित्वा योगित्वेनादृश्यशक्तित्वात्तूष्णीं गतमुत किम् अप्युक्तम् इति तत्राह—इतीति ॥३९॥


न कतमेन व्याख्यातम्।


॥ ४.८.४० ॥

नारद उवाच—

जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।

भगवान् वासुदेवस् तं भज तं प्रवणात्मना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निःश्रेयसस्य अभिप्रेतार्थस्य पन्थाः । कोऽसौ ? इत्य् अत आह—भगवान् वासुदेवोऽत एव भज ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रागुक्तं दृढीकर्तुम् आह—जनन्येति । वा-इत्य् एवार्थः । यो जनन्याभिहितः स एव ते निःश्रेयसस्य परमसुखस्य स्यान्नान्य इत्य् एवान्वयः । कोसाव् इति तत्राह—यो हरेर्विग्रहेषु वासुदेवनामा भगवांस्तं, तस्मिन्प्रवणस्तत्प्रवणः स चासावात्मा मनस्तेन—

प्रवणो ना चतुर्माग्यां क्रमनिम्नमहीतले ।

प्रह्वे च जठरे लग्ने प्रकृष्टवचने\ऽपि च ॥ इति कोशात् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.४१ ॥

धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः ।

एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हरिसेवनम् एव सर्वाभीष्टहेतुरित्य् आह । तस्येति शेषः । तस्य तत्र तत्प्राप्तावेकम् एव कारणान्तरव्यावर्तकं हरेः पादसेवनं कारणम् इत्य् अर्थः ॥४१॥


न कतमेन व्याख्यातम्।


+॥ ४.८.४२ ॥

तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि ।

पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु-वनाख्यं यमुनायास् तटं गच्छ । यत्र मधुवने ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभीष्टसाधनं क्षेत्रं चोपदिशति—यस्माद्धरेरे व प्रधानसाधनत्वं तत्तस्माद्यमुनायास्तटं गच्छ । किंभूतं तटं वीरहा माधवो मधुः इति सहस्रनामसु पठितत्वान्मधोरन्वयोद्भूतत्वाद्वा मधोर्विष्णोर्वनो भजनं यत्र तन्मधुवनं वन संभक्तौ इत्यतो घञर्थे कविधानम् इति कप्रत्यये भावे वननं वन इति । हरेर्नित्यञ्च सांनिध्यं यत्र तदेस्तीति । एतेन व्रजान्तर्गतं तल्लक्ष्यते । तत्रैव भगवतो नित्यविहारस्य नारदपुराणादौ नित्यं श्रीयमुनातटे व्रजभुवि लेलायते माधवः इत्याद्युक्तेः श्रवणात् । अत एव शुचि पवित्रतापादकत्वेन दीप्तं पुण्यं तपस्यं पुण-शुभे कर्मणि पुणाय हितं पुण्यं सर्वक्षेत्रेषु मुख्यं सिद्धिस्थानम् । यद्वा-मधुवनस्य नित्यत्वेनाविर्भावतिरोभावावेव तस्य स्तो\ऽतो ध्रुवकाले\ऽपि तदस्त्येवेति मन्तव्यम् । स्वामिचरणोक्तिस्तु—मधुवनमाख्यातवानिति मधुवनाख्यम् इति डान्ता बोध्या ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतिशय-कृपया सुखाराध्यत्वोपायम् उपदिशति । तत् तातेति, तातेत्य् अनुकम्पायां विघ्न-विघाताय शुभाशीर्वादः, भद्रं त इति, नित्यदा स्वभावत एव न त्व् अध्ययनादि-साधन-वशात् ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव जनन्या यद् अभिहितं तद् एव मद्-अभिहितम् । इमं च विशेषम् उपदिशामीत्य् आह—तत् तातेति । मधुवनम् इति सर्वेषु सिद्ध-क्षेत्रेषु तस्यैव मुख्यत्वात् ॥४२॥


॥ ४.८.४३ ॥

स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे ।

कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अध्ययनाद्य्-अभावेऽप्य् आत्मन उचितानि योग्यानि देवता-नमस्कारादीनि कृत्वेति यमनियमा उक्ताः । आसन-कल्पनं च कुशादिभिः स्वस्तिकादिभिश् च ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र किं कर्तव्यम् इति तत्राह—स्नात्वेति । अनुसवनं त्रिकालं प्रथमादिना चैलाजिनग्रहः । चैलाजिनकुशोत्तरम् इति गीतोक्तेः । यद्वा—काशादि ग्राह्यमादिना । स्वस्तिकादिभिरित्य् अत्रादिना पद्मासनादिग्रहः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्नात्वेत्य् अष्टकम् ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्ययनाद्य्-अभावेऽप्य् आत्मन उचितानि योग्यानि देवता-नमस्कारादीनि ॥४३॥


॥ ४.८.४४ ॥

प्राणायामेन त्रि-वृता प्राणेन्द्रिय-मनो-मलम् ।

शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिध्यायेद् इत्य्-आदि-षड्भिः । गुरुणा धीरेण मनसा । गुरुं श्री-हरिम् ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुरुणाम् इति चित्सुखः, ह्रस्वश् छान्दसः ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिवृता रेचक-पूरक-कुम्भकात्मकेन गुरुणा विशुद्धत्वात् श्रेष्ठेन ॥४४॥


॥ ४.८.४५ ॥

प्रसादाभिमुखं शश्वत् प्रसन्न-वदनेक्षणम् ।

सुनासं सुभ्रुवं चारु- कपोलं सुर-सुन्दरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरेषु सुन्दरम् ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रिवृता पूरकादित्रित्वसङ्ख्यायुक्तेन । यद्वा—प्रणवेन व्युदस्येत्युक्त्या प्रत्याहारो\ऽपि ध्वनितः । मनसश्चेन्द्रियाणां च विषयेभ्यः प्रत्याहरणम् एव व्युदास इति शुद्धत्वाच्छ्रेष्ठेनेति वा गुरुणेत्यस्यार्थः ॥४४-४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुरेभ्योऽपि सुन्दरम् ॥४५॥


॥ ४.८.४६ ॥

तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् ।

प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रमणीयान्य् अङ्गानि यस्य । ओष्ठश् च ईक्षणा ईक्षणं च ओष्ठेक्षणे अरुणे ओष्ठेक्षणे धारयतीति तथा तम् । अरुणम् ओष्ठम् ईक्षणं च धारयतीति वा । नृम्णं सुख-करम् । यद् वा, नृम्णं धनम्, सर्व-पुरुषार्थ-निधिम् इत्य् अर्थः ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृम्णपदस्यार्थद्वयवाचित्वादर्थान्तरम् आह—यद्वेति । नृम्णं स्यात्सुन्दरे धने इति धरणिः । इत्य् अर्थ इति । सर्वधन-रूपत्वं हरेरे व कल्याणहेतुत्वात्तदनं यत्सुखप्रदम् इति भावः । नेत्रारुण्यस्य भयहेतुत्वे\ऽपि प्रान्तारुण्यस्य शोभाहेतुत्वमपीत्यभिप्रेत्याह—अरुणेति ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ओष्ठम् उपरि अधरस् त्व् अधस्तात् । नृम्णम् इति छान्दसम् ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपर्य्-अधः-स्थितौ दन्त-च्छदाव् अधरोष्ठाधराव् उच्येते । प्रणतानाम् आश्रयणं नृम्णं तेषां धन-रूपम् ॥४६॥


॥ ४.८.४७ ॥

श्रीवत्साङ्कं घन-श्यामं पुरुषं वन-मालिनम् ।

शङ्ख-चक्र-गदा-पद्मैर् अभिव्यक्त-चतुर्भुजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषं पुरुष-लक्षण-युक्तम् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रीवत्सार्थो हि श्री-कृष्णावतारवर्णने स्फुटीभविष्यतीति । पुरुषलक्षणं श्यामवर्णशङ्खचक्रादि तद्युक्तम् ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषं पुरुषस्य भगवतो लक्षणेनान्वितम् इत्य् अर्थः । शङ्खादिभिः सर्वत्र विख्याताश् चत्वारो भुजा यस्य तम् ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.४८ ॥

किरीटिनं कुण्डलिनं केयूर-वलयान्वितम् ।

कौस्तुभाभरण-ग्रीवं पीत-कौशेय-वाससम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कौस्तुभस्याभरणं ग्रीवा यस्य ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कौस्तुभस्याभरणं भूषण-रूपं ग्रीवा यस्य तम् । न तु कौस्तुभेन ग्रीवाशोभा ग्रीवयैव कौस्तुभशोभेत्य् अर्थः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.८.४९ ॥

काञ्ची-कलाप-पर्यस्तं लसत्-काञ्चन-नूपुरम् ।

दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : काञ्ची-कलापेन पर्यस्तं परिवेष्टितम् । मनो-नयनयोर् वर्धनं हर्ष-करम् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कलाप-विन्यस्तम् इति चित्सुखः ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काञ्ची-कलापेन क्षुद्र-घण्टिका-समूहेन । पर्यस्तं परिवेष्टितम् ॥४९॥


॥ ४.८.५० ॥

पद्भ्यां नख-मणि-श्रेण्या विलसद्भ्यां समर्चताम् ।

हृत्-पद्म-कर्णिका-धिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हृत्-पद्म-कर्णिकाया धिष्ण्यं मध्य-स्थानं तद् आक्रम्य समर्चताम् आत्मनि मनसि स्थितम् ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कांचीकलापेन तत्संज्ञभूषणेन कलापो भूषणे बर्हे समूहे चन्द्रमस्यपि इति निरुक्तिः ॥४९-५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मन्य् अवस्थितं मनसि स्फुरन्तम् ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समर्चताम् भक्तानां धिष्ण्यं स्थानम् आत्मनि बुद्धौ जीवे च ॥५०॥


॥ ४.८.५१ ॥

स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् ।

नियतेनैक-भूतेन मनसा वरदर्षभम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्यानम् आह—स्मयमानम् इति । नियतेन प्राग्-उक्तया धारणया सुस्थिरेणात एवैक-भूतेनैकाग्रेण । धारणोक्तानि विशेषणानि ध्यानेऽपि द्रष्टव्यानि । यद् वा, यथोक्त-मात्रम् एव । तद् उक्तम् एकादश-स्कन्धे, नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेन् मुखम् [भा।पु। ११.१४.४३] इति ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः संस्थितत्वात् । धारणोक्तानि प्रसन्नवदनेक्षणम् इत्यादीनि तथा च धारणाध्यानयोर्भेदो न सेत्स्यति तुल्यविशेषणत्वादुभयोर् इति चेत्तत्राह—यद्वेति ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अभिध्यायेत् तत्-तद्-वैशिष्ट्येन चिन्तयेद् इत्य् अर्थः ॥५१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नियतेनासक्तेन एक-भूतेन एकाग्रेण ॥५१॥


॥ ४.८.५२ ॥

एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।

निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समाधिम् आह—एवम् इति । तूर्णं शीघ्रं सम्पन्नं सत् ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समाधिश्चित्तवृत्तिनिरोधः इति लक्षणसद्भावाद् आह—समाधिम् आह एवम् इति । परया निवृत्त्योद्रिक्तानन्देन सम्पन्नं पूर्णं ध्येयादितरत्र न गच्छतीत्य् अर्थः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न निवर्तते ध्येयं न त्यजति ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न निवर्तते योगिनो मन इव ध्येयं न त्यजति ॥५२॥


॥ ४.८.५३ ॥

जपश्2 च परमो गुह्यः श्रूयतां मे नृपात्मज ।

यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जप्यो मन्त्रः ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपात्मजेति । नरपालकपुत्रत्वात्त्वम् अपि न रान्पालयिष्यसीत्यतस् त्वां गो\ऽप्य् अम् अपि वदामीत्यभिप्रायः । खेचरान् देवान् प्रकृष्टं तदाकारचेतस्त्वेन पठन् ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रपठन् वाचिकम् अपि जपन् किम् उतोपंशु मानसं वा खेचरान् पार्षदान् अथ दक्षिण-कर्णे रह उपदिशति । ॐ इति । अनेनानुपनीताय ध्रुवाय स-प्रणव-महामन्त्रोपदेशेन वैष्णव-मन्त्राणां द्विजत्वाद्य्-अवस्थापेक्षा परिहृता ॥५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जप्यो मन्त्रः । श्रूयतां दक्षिणः कर्ण आधीयताम् उपदिशामीत्य् अर्थः । प्रपठन् वाचिकम् अपि जपन् किम् उतोपंशु मानसं वा । खेचरान् पार्षदान् ॥५३॥


॥ ४.८.५४ ॥

ॐ नमो भगवते वासुदेवाय ।

मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः ॥

सपर्यां विविधैर् द्रव्यैर् देश-काल-विभागवित्

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्रुवस्य पञ्चवर्षत्वेन एकादशे राजन्यमुपनयीत इति श्रुतेरुपनयनाभावे\ऽपि सर्वज्ञनारदकर्तृक-सप्रणवमन्त्रोपदेशाद्वैष्णवमन्त्राणां नायं नियमो यदुपनीतस्यैव ब्राह्मणादेरुपदेष्टव्यास् तथा सति श्रीनारदस्तं कथमुपदिशेद् इति ज्ञेयमत्र विज्ञैः । अस्य मन्त्रस्य विनियोगाङ्गन्यासादि तु षष्ठ-स्कन्धे नारायणवर्मव्याख्याने वर्णयिष्यामः । जपितुं योग्यो जप्यः । द्रव्यमयीं द्रव्यप्रधानाम् । सपर्यां पूजाम् । अर्चा पूजा सपर्या स्यात् इति कोषात् ॥५४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ॐ इति अनेनानुपनीताय स-प्रणव-महा-मन्त्रोपदेशेन वैष्णव-मन्त्राणां द्विजत्वाद्य्-अवस्थापेक्षा परिहृता ॥५४॥


॥ ४.८.५५ ॥

सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः ।

शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्याण्य् एवाह—सलिलैर् इति । शस्तैर् दूर्वाङ्कुरैर् वन्यैर् एवांशुकैर् भूर्ज-त्वग्-आदिभिः ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुचिभिः शूद्रादिभिरनानीतैः ।

शूद्रानीतैः स्त्रियानीतैर्यः स्नापयति केशवम् ।

स याति नरकं घोरं वस्त्रापूतैस् तथा जलैः ॥ इत्य्-आदिपुराणात् ।

आदिना त्वगादिग्रहः । अंशुकैः सूक्ष्मैर्वस्त्रैः पत्रैर्वा । अंशुकं सूक्ष्मवस्त्रे स्याद् वस्तुमात्रोत्तरीययोः । इति मेदिनी । तद् उक्तं हरिभक्तिचन्द्रोदये—

दूर्वाङ्कुरं तु हरये पूजाकाले प्रयच्छति ।

पूजाफलं शतगुणं सम्यगाप्नोति मानवः ॥

शमीपत्रैश् च देवेशं पूजयन्त्यसुरद्विषम् ।

यममार्गं महाघोरं न ते पश्यन्ति नारद । धात्रीपत्रैर्बिल्वपत्रैस्तथैवाश्वत्थपत्रकैः ।

नवीनैर्मृदुभिर्ये च पूजयन्ति जनार्दनम् ।

न तेषां पुनर् आवृत्तिर्वैकुण्ठाज्जायते द्विज ॥

धात्री धुनोति पापानि शमी शमयते\ऽशुभान् ।

दूर्वा हरति दुःखानि तुलसी सर्वकामदा ।

श्रियं ददति बैल्वान्याश्वत्थान्यारोग्यसंपदः ॥ इति ।

प्रिययेति तुलस्या भगवतो हृदयजत्वात्प्रियत्वमन्यपुष्पपत्राद्यपेक्षया । तद् उक्तं तुलस्युपनिषदि तथा हि—नमः श्री-कृष्णाय निःश्रेयसारण्यविविधविचित्रानन्तपारिजातादिपुष्पामोदानन्द हीश्वरहृदयानन्द-रूपाहृद्यामनोरमासुन्दर्येवाभूत् ता । सपत्नी । ब्रह्ममहिषी अमृष्यमाणा शशाप त्वं जडा भवेति सा वृक्ष-रूपा भगवत्करस्थिता दिव्यपरिमला तर्पयन्ती । ह्रियमाणां शिरसा धारयामीत्युद्यनि स्थापितवान् परब्रह्मपत्नी स्वशक्तिभिः परिबृंहिता । सपरिकरदिव्याभरणाभूषितां विचिक्रीडिषयोद्यानमागता । हितच्चरणनूपुरध्वन्युद्भवाप्रमदोत्तमा तत्-स्वरूप । हि ध्यात्वोपचारैर्दिव्यपरिमलकरजातुलसीमहाहारैः सपर्यां प्राप्ता । सा ननाम सा होवाच वरं वृणीष्वेति युगलतच्चरणपरिचर्यारतान्तिके तिष्ठामीत्यब्रुवाणा । होवाच त्वच्छेमुषीसमुत्थिता । हि दिव्यगुणज्वालाङ्गां स्त्रियं समातरं वैकुण्ठमहिषीप्रियां निवेशयिष्यामीत्यन्तर्हितैकदा ध्यायन्ती स्ववाक्योद्भवा गायन्ती वीणा क्वणिताब्जहस्ता तदन्तिके भगवन्तं दृष्ट्वा प्रणम्य स्थितवतीति सर्वज्ञः सपुत्रिकां प्रेक्ष्योवाच त्वं का किमर्थमागतासीति लीलया पृच्छन्तं । हिदेव्युवाच त्वच्छक्त्युद्भवा । हं त्वत्कैकर्यमिच्छती । हीत्यभिनन्द्य तत्पुत्रिकां भक्तिं हरिवल्लभां कारयामास । इदमन्न । ह वै तुलस्यसंस्कृतं । पुरुषाराधनानर्हं भवति न तेन विष्णुः प्रीणाति तस्मात्तुलसीमिश्रित । समर्पणं कुर्यात् तुलसीरहितं निवेदितं यो भुंक्ते स किल्बिष । सर्वं भुंजानः पापीयान्भवति स सर्वलोकगर्हितो भवति कृष्णे अभक्तो भवति ॥ इति श्रुतेः ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वन्यैर् एवांशुकैर् भूर्ज-त्वग्-आदिभिः ॥५५॥


॥ ४.८.५६ ॥

लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्-अम्ब्व्-आदिषु वार्चयेत् ।

आभृतात्मा3 मुनिः शान्तो यत-वाङ् मित-वन्य-भुक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूजाया अधिष्ठानम् आह । लब्ध्वा संपाद्य । द्रव्य-मयीं शिलादि-निर्मिताम् । अर्चां प्रतिमाम् । पूजासाद् गुण्य-हेतूनाह सार्धाभ्याम् । आवृतात्मा धृत-चित्तः । मितं वन्यं भुङ्क्त इति तथा ।।५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना सुवर्णादिग्रहः । अर्चा स्यात्प्रतिमा पूजा इति कोशात् ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : लब्ध्वेत्य् अर्धकम् । अर्चां श्रीमत्-प्रतिमाम् ॥५६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रव्य-मयीं शिलादि-निर्मिताम् अर्चां प्रतिमां प्राप्य ताम् अर्चयेत् । पुनः क्षित्य्-अम्ब्व्-आदिष्व् अपि, आभृतात्मा सम्यग्-धृत-चित्तः ॥५६॥


॥ ४.८.५७ ॥

स्वेच्छावतार-चरितैर् अचिन्त्य-निज-मायया ।

करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्गमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् करिष्यतीति तदानीम् अवतार-प्राचुर्याभावात् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : करिष्यतीति भविष्यन्निर्देशः तदानीं स्वायंभुवमन्वन्तरे । यत्कंसवधादिलक्षणं चरितम् ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आभृतेति सार्धकम् । आहृतेति चित्सुःखः । शान्तो मित-वन्य-फलादि-भुग् इति चित्सुखः ॥५७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् करिष्यतीति तदानीम् अवतार-प्राचुर्याभावात् ॥५७॥


॥ ४.८.५८ ॥

परिचर्या भगवतो यावत्यः पूर्व-सेविताः ।

ता मन्त्र-हृदयेनैव प्रयुञ्ज्यान् मन्त्र-मूर्तये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मन्त्र-हृदयेन मन्त्रेण च नमः-शब्देन च ॥५८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व-सेविताः सेवनं कारिताः कार्यत्वेन निहिता इत्य् अर्थः । मन्त्र-हृदयेन द्वादशाक्षरेण ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्व-सेविता इति सेवन-मात्रानुशीलनं तच् चात्र श्रवणं ततो णिच्-प्रयोगात् पूर्वं सलिलैर् इत्य्-आदिना श्राविता इत्य् अर्थः । पूर्वैः सेविताः सद्-आचार-लब्धा इति वा ॥५८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-सेविताः पूर्व-पूर्व-भक्तैर् अनुष्ठितास् ता परिचर्याः गन्ध-चन्दन-ताम्बूल-छत्र-चामरादि-विविध-द्रव्यवतीर् मन्त्र-हृदयेन एव मूल-मन्त्रोच्चारणेनैव मनसा प्रकल्प्यानीतैर् एवोपचारैर् इत्य् अर्थः । विरक्तस्य प्रस्तुत-तत्-तद्-वस्त्व्-अभावाद् इति भावः । मन्त्र-मूर्तये मन्त्रेणैव ध्याता मूर्तिर् यस्य तस्मै तं प्रसादयितुम् प्रयुञ्ज्याद् विदधीत ॥५८॥


॥ ४.८.५९-६० ॥

एवं कायेन मनसा वचसा च मनो-गतम् ।

परिचर्यमाणो भगवान् भक्तिमत्-परिचर्यया ॥

पुंसाम् अमायिनां सम्यग् भजतां भाव-वर्धनः ।

श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् उक्त-रीत्या मनो-गतं यथा भवति तथा कायादिभिर् भक्ति-मत्या परिचर्यया परिचर्यमाणो धर्मार्थ-कामेषु यद् अभिमतं तच् छ्रेयो दिशतीति द्वयोर् अन्वयः ॥५९-६०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वैराचार्यः सेविताः या विहिताः परिचर्या धूपगन्धादिसमर्पणलक्षणाः पूजास्ताः सर्वा अपि मन्त्राणां हृदयेन मुख्येन हृदयं मानसे मुख्य वक्षसीश्वरबुक्कयोः इति निरुक्तेः । मन्त्रमूर्तये मन्त्राक्षरप्रतिपाद्याय वासुदेवाय मन्त्रेषूपवर्णिता मूर्तिर् यस्य । यद् वा, मन्त्रो वेदः स एव मूर्तिर् यस्य तस्मै ॥५८-६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति युग्मकम् ॥५९॥ त्रिवर्ग-मात्रस्यापि दाने कारणम् आह—भाव-वर्धन इति । तत्-तद्-उपकारेण स्वस्मिन् भक्तिं वर्धयतीति ॥६०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उक्त-रीत्या मनो-गतं यथा स्यात् तथा कायादिर् भक्ति-मत्या चरणारविन्द-कीर्तनादि-भक्ति-युक्तया परिचर्यया । धर्मादिषु मध्ये यद् अभिमतं तत् दिशति ददाति ॥५९-६०॥


॥ ४.८.६१ ॥

विरक्तश् चेन्द्रिय-रतौ भक्ति-योगेन भूयसा ।

तं निरन्तर-भावेन भजेताद्धा विमुक्तये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विरक्तः सन् भजेत् । किम् अर्थम् ? मुक्तये ॥६१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इन्द्रियरतौ विषयभोगे योभिमतं ददाति तम् ॥६१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतस् तेभ्यो विरक्तो भजेत् । किम्-अर्थम् ? विशिष्टा मुक्तिर् भक्तिस् तद्-अर्थम् ॥६१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् तु इन्द्रिय-रमणे त्रिवर्गे विरक्तः चकारान् मोक्षेऽपि स च निरन्तरो ज्ञान-कर्मादि-व्यवधान-शून्यो भावो दास्यादिर् यत्र तेन । विशिष्ट-मुक्तये प्रेमवत्-पार्षदत्वाय ॥६१॥


॥ ४.८.६२ ॥

इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः ।

ययौ मधुवनं पुण्यं हरेश् चरण-चर्चितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेश् चरणाभ्यां चर्चितं मण्डितम् ॥६२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नारदम् । चरणचर्चितम् इति भूतभविष्यत्त्वापेक्षया । यद् वा, मथुरा भगवान्यत्र नित्यं सन्निहितो हरिः इति श्रीदशमे वक्ष्यमाणत्वात्तत्र सदैव हरेः स्थितत्वाद् ध्रुवकाले\ऽपि तच्चरणचर्चितत्वं नासङ्गतम् ॥६२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य हरेः श्री-कृष्णत्वम् एव व्यनक्ति—इत्य् उक्त इति । पाद्म-कल्पारम्भ-कथने प्रथम-स्वायम्भुव-मन्वन्तरे तस्मिन् हरेश् चरण-चर्चितत्वं श्री-मथुरायास् तन्-नित्यत्वाच् छ्री-कृष्णावतारस्य । तथा हरि-शब्देनाप्य् अत्र श्री-कृष्ण एव विवक्षितः, श्रुत्य्-आदौ तद्-अवस्थिति-प्रसिद्धेः । प्रतिकल्पम् आविर्भावात् तस्यैव चरणाभ्यां चर्चितम् इति श्री-कृष्णस्यैव नित्य-सान्निध्यं गम्यते । अत एव द्वादशाक्षर-विद्या-दैवतस्य श्री-ध्रुवाराध्यस्य त्व् अन्यत एव तत्रानागमनम् अभिहितम् अग्रे, मधोर् वनं भृत्य-दिदृक्षयागतः [भा।पु। ४.९.१] इत्य् अनेनेति ॥६२॥4 [कृष्ण-सन्दर्भ ११३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेः प्रतिकल्पम् आविर्भावात् श्री-कृष्णस्य चरणाभ्याम् चर्चितम् ॥६२॥


॥ ४.८.६३ ॥

तपो-वनं गते तस्मिन् प्रविष्टोऽन्तः-पुरं मुनिः ।

अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्हितं सत्-कृतं सत्-कृत्य समर्पितम् अर्हणम् अर्घादिकं यस्मै ॥६३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तपसे हितं तपोहितं तच् च तद्वनं तपोवनं मध्यमपदलोपी समासः । तस्मिन् ध्रुवे मुनिर्नारदः । अर्हितोर्हणया इति पाठे अर्हणया पूजासाधनेनार्हितोर्चित इत्य् अर्थः । क्वचित् । अर्हिताभ्यर्हणः इति पाठो\ऽप्य् अस्ति ॥६३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्हतः अर्हणायेति चित्सुखः ॥६३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्हितं सत्-कृत्य समर्पितम् अर्हणम् अर्घ्यादि यस्मै ॥६३॥


॥ ४.८.६४ ॥

नारद उवाच—

राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।

किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं वा, न रिष्यते न नश्यतीति स-वितर्कः प्रश्नः ॥६३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रिष्यत इति । रिष-हिंसायाम् आत्मनेपदमार्षम् ॥६४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न रिष्यते न नश्यति किं वेति स-वितर्कः प्रश्नः ॥६३॥


॥ ४.८.६५ ॥

राजोवाच—

सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।

निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मात्रा सह निर्वासित इति तस्या अप्य् अनादृतत्वात् ॥६५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्त्रैणेन स्त्रीवशवर्तिना । न करुणा दयात्मनि चित्ते यस्य तादृशेन । निर्वासितो निष्कासितः । कविर् इति ज्ञानित्वं द्योतयति । यतो\ऽसौ राजसिंहासनतोत्युत्तमं पदं साधयामीति निरूप्य मात्रादींस्त्यक्त्वा पुरान्निरगाद् इति । महानिति मानयोग्यताम् आह ॥६५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सह मात्रेति तस्या अप्य् अनादृतत्वात् ॥६५॥


॥ ४.८.६६ ॥

अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः ।

श्रान्तं शयानं क्षुधितं परिम्लान-मुखाम्बुजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मा स्मादन्ति, किं स्विन् न खादन्तीत्य् अर्थः ॥६६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनाथमरक्षितं वृका व्याघ्राः । इत्य् अर्थ इति । वितर्केण वदति नारदं प्रति क्षुधा परिम्लानास्यं चलनेन श्रान्तमत एव शयानं रक्षकान्तरहीनमर्भकत्वात्स्वयमकल्पं वनगं कथं न वृकादयो भक्षयिष्यन्तीति भावः । ब्रह्मन्न् इति । सर्वज्ञो भवान्मे संशयमपनुदत्व् इति भावः ॥६६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मा खादन्ति अर्भकं किं खादेयुर् एवेत्य् अर्थः । न खादन्तीति चित्सुखः ॥६६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.६७ ॥

अहो मे बत दौरात्म्यं स्त्री-जितस्योपधारय ।

योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बत खेदे ॥६७॥


न कतमेनापि व्याख्यातम्।


॥ ४.८.६८ ॥

नारद उवाच—

मा मा शुचः स्व-तनयं देव-गुप्तं विशाम्पते ।

तत्-प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्-यशो जगत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवेन श्री-हरिणा गुप्तम् आत्म-सात् कृत्वा रक्षितम् । यस्य यशो जगत्प्रावृङ्क्ते व्याप्नोति ॥६८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशां पत इति । देवस्य हरेः सामर्थ्यं त्वत्तोधिकं त्वं तु प्रजापतिरे व स तु त्वादृगनन्तपतिरतस्तद्गुप्तं को वराको वृकादिरित्य् अभिप्रायः । प्रावृक्त इति । वर्तमाननिर्देशस्तु तदुपरि भगवत्प्रसादस्य निश्चितत्वाद् एव । उक्तमर्थं विशदयति यत्त्वयोक्तं स्त्रैणेनाकरुणात्मनेति तेन तवाकरुणत्वे\ऽपि स तु भगवान्कारुण्यसागरोस्ति, अत एवानाथनाथः यद्यमात्मसात्कृत्वात्मीयं मत्वा तस्मिन्प्रहर्तुममी प्रसिद्धा वृकादयः के किं कर्तुं शक्ताः? न किम् अपीति भावः । श्लोकोयं प्रक्षिप्तो\ऽपि प्रकृतोपयुक्तत्वाद्व्याख्यातः ॥६८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा मा सर्वथैव शोकं मा कुरु । तत्-प्रभावम् अविज्ञाय वर्तमान इत्य् अर्थः । प्रावृङ्क्ते व्याप्स्यति वर्तमान-सामीप्ये वर्तमानत्वम् ॥६८॥


॥ ४.८.६९ ॥

सुदुष्करं कर्म कृत्वा लोक-पालैर् अपि प्रभुः ।

ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तस्यैव योग्यत्वाल् लोक-पालानां दुष्करम् ।

नाशक्यं देवतानां तु यद् अन्यैः शङ्कितुं क्वचित् ।

शक्ता अपि न कुर्वन्ति यद् अन्य-विहितं बुधाः ॥ इति ब्राह्मे ॥६९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : विपुलयन् विस्तारयन् ॥६९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रभुः प्राप्तभगवत्प्रसादत्वात्समर्थः । राजन्न् इति । त्वम् अपि राजभोगासक्तत्वात्कर्म कर्तुमशक्त इत्य् आह । किं च, तत्कर्मणैव तव यशो\ऽधिकं भविष्यतीत्य् आह—यश इति ॥६९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.७० ॥

मैत्रेय उवाच—

इति देवर्षिणा प्रोक्तं विश्रुत्य जगती-पतिः ।

राज-लक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं विस्रब्धस्यापि राज्ञो\ऽनुतापपरंपराम् आह—इतीति । अनेन संसारस्य दुस्तरत्वमसूचीति ॥७०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्रुत्येत्य् अत्र विश्रभ्येति चित्सुखः ॥७०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्रुत्य विश्रभ्येति च पाठः ॥७०॥


॥ ४.८.७१ ॥

तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् ।

समाहितः पर्यचरद् ऋष्य्-आदेशेन पूरुषम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : दृष्ट्या निरूपणया । आदेशेन उपदेशेन ॥७१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्रुवो मधु-वने किम् अकरोत् ? इत्य् अपेक्षायाम् आह—तत्रेत्य्-आदिना । अभिषिक्तः स्नातः । यस्यां प्राप्तस् ताम् ॥७१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र मधुवने । प्रयतः पूतः यस्यां विभावर्यां तत्र गतस्तां रात्रिमुपोष्योपवासं कृत्वा ऋष्यादेशेन नारदाज्ञया । पूरुषं हरिम् । अनेन तीर्थव्रतम् अपि तेन कृतम् इत्य् उक्तम् ॥७१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधुवने ध्रुवः किम् अकरोत् ? इत्य् अपेक्षायाम् आह—तत्रेति । अभिषिक्तः स्नातः । प्रयतः पूतः ॥७१॥


॥ ४.८.७२ ॥

त्रि-रात्रान्ते त्रि-रात्रान्ते कपित्थ-बदराशनः ।

आत्म-वृत्त्य्-अनुसारेण मासं निन्येऽर्चयन् हरिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कपित्थानि बदराणि चाशनं यस्य । आत्म-वृत्तिर् देह-स्थितिस् तद्-अनुसारेण ॥७२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य तपस्यतो\ऽशनम् आह—त्रिरात्रान्त इति । कपित्थो बिल्वफलसमफलो वृक्षः । यावता देहस्थितिर्भवेत् तावन्मात्रम् एवाशानेत्य् अर्थः ॥७२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कपित्थ-बदर-मात्र-भोजी आत्मनो वृत्तेर् जीविकाया अनुसारः स्वीकारस् तेन ॥७२॥


॥ ४.८.७३ ॥

द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।

तृण-पर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शीर्णैः स्वतः पतितैः । आदिना शुष्कफलग्रहः कृतमन्नमशनं येन स तथा ॥७३॥


न कतमेन व्याख्यातम्।


॥ ४.८.७४ ॥

तृतीयं चानयन् मासं नवमे नवमेऽहनि ।

अब्-भक्ष उत्तमश्लोकम् उपाधावत् समाधिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तृतीयं च आनयन् ईषद् इव नयन्न् उपाधावद् इत्य् अन्वयः । प्रति-मासमाहार-सङ्कोचं तपोऽतिर् एकं च कृतवान् इत्य् अर्थः ॥७४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.८.७५ ॥

चतुर्थम् अपि वै मासं द्वादशे द्वादशेऽहनि ।

वायु-भक्षो जित-श्वासो ध्यायन् देवम् अधारयत् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । धैर्यसंपन्नत्वादतीव दुष्करं तपो विहितवानिति भावः ॥७४-७५॥


न कतमेन व्याख्यातम्।


॥ ४.८.७६ ॥

पञ्चमे मास्य् अनुप्राप्ते जित-श्वासो नृपात्मजः ।

ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यत्र देवैः कृते विघ्ने खण्डितो न पुमान् भवेत् ।

तत्र तद्-यशसे विघ्नं कुर्युर् न तु विघातने ॥

यत्र खण्डितता तत्र खण्डनायैव केवलम् ।

सत्यकामा यतो देवास् ते चित्ताद्य्-अभिमानिनः ॥

अतो विमोहनायैव प्राप्नुयुस् ते पराजयम् ।

तेषाम् अशक्त्तोक्तिश् च विमोहाय सुर-द्विषाम् ॥ इति ब्रह्माण्डे ॥७६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्थाणुः कीलः स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे इति मेदिनी ॥७६॥


नान्यैर् व्याख्यातम्।


॥ ४.८.७७ ॥

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।

ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भूतेन्द्रियाश्र् अयं भगवद्-रूपम् ॥७७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतानि शब्दादीनि इन्द्रियाणि च आशेरते यस्मिंस् तन्-मन आकृष्य ब्रह्म ध्यायन् ॥७७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भूतानां प्राणिनामिन्द्रियेषु न शेते न विषयीभवतीति तथाभूतं भगवद्-रूपं यतो वाचो निवर्तन्ते इत्य्-आदिश्रुतेः । यद् वा, आ ईषच्छेते न तु जागर्ति तदगम्यम् इत्य् अर्थः ॥७७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानां प्राणिनाम् इन्द्रियेषु न शेरते न विषयीभवतीति तयाभावं भगवद्-रूपम् । यद् वा, आ सम्यक् शेते, न तु जागर्तीति तेषाम् अगम्यम् इत्य् अर्थः ॥७७॥


॥ ४.८.७८ ॥

आधारं महद्-आदीनां प्रधान-पुरुषेश्वरम् ।

ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धारयमाणस्य सतस् तस्य तेजः सोढुम् अशक्नुवन्तः कम्पिताः ॥७८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वात्मकत्वेन बृहत्तमत्वाद्भगवतो रूपम् एव ब्रह्म अत एवाधारम् अपि ततस्ताद्दृशत्वेन धारणात्तदात्मकताप्राप्त्या यदा भारविशेषेण कंपते स्म तदा विश्वमति कंपते स्मेति भावः ॥७८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वात्मकत्वेन बृहत्त्व-सत्त्वाद् भगवतो रूपम् एव ब्रह्म । अत एव आधारम् अपि । ततस् तादृशत्वेन धारणात् तदात्मकता-प्राप्त्या यदा भाव-विशेषेण कम्पते स्म तदा विश्वम् अपि कम्पते स्म ॥७८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धारयतः ध्यायतः ध्यायति सतीत्य् अर्थः ॥७८॥


॥ ४.८.७९ ॥

यदैक-पादेन स पार्थिवार्भकस्

तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही ।

ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता

तरीव सव्येतरतः पदे पदे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्याङ्गुष्ठेन निपीडिता आक्रान्ता सती मही तत्र तदा अर्धं ननाम । समेऽंशके अर्ध-शब्दस्य नपुंसकत्वाद् अंशांशिनोर् अभेदाच् चैवं सामानाधिकरण्यम् । इभेन्द्रेणाधिष्ठिता तरी नौर् यथा पदे पदे सव्यतो दक्षिणतश् च नमति, तद्वत् ॥७९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुंस्यर्द्धोर्द्धं समेंशके इत्य् अमरः । अंशी मही अंशस्तस्या अर्द्धं भागः तस्याङ्गुष्ठेन निपीडिता मही अर्द्धमर्द्धं प्रदेशं व्याप्य ननाम । यत्र स्वाङ्गांशेन भारं विन्यस्यति स्म तत्रांशेन पृथिव्या नमनम् अपि युक्तम् एव । स्त्रियां नौस्तरणिस्तरिः इत्य् अमरः । नमति नतोन्नता भवति ॥७९॥


जीव-गोस्वामी (भक्ति-सन्दर्भः): अत एवाधुनिकेषु महानुभाव-लक्षणवत्सु तद्-अदर्शनेऽपि नाविश्वासः कर्तव्यः । कुत्रचिद् भगवद्-उपासना-विशेषेणैव तादृशम् आनुषङ्गिकं फलम् उदयते । यथा—यदैकेति । अत्र सर्वात्मकतयैव विष्णु-समाधिना तादृक् फलम् उदितम् । एतादृश्य् उपासना चास्य भावि-ज्योतिर्-मण्डलात्मक-विश्व-चालन-पदोपयोगितयोदितेति ज्ञेयम् ॥७९॥ [भक्ति-सन्दर्भ १५६]


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततो यत्र स्वाङ्गांशेन भारं विन्यस्यति स्म तत्रांशे पृथिव्या नमनम् अपि युक्तम् ॥७९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा तस्याङ्गुष्ठेन निपीडिता मही । अर्धम् अर्ध-प्रदेशं व्याप्य ननाम । काल-भावेत्य्-आदिना कर्मत्वम् इभेन्द्रेणाधिष्ठिता तरी नौर् यथा पदे पदे सव्यतो दक्षिणतश् च नमति, तद्वत् ॥७९॥


॥ ४.८.८० ॥

तस्मिन्न् अभिध्यायति विश्वम् आत्मनो

द्वारं निरुध्यासुम् अनन्यया धिया ।

लोका निरुच्छ्वास-निपीडिता भृशं

स-लोक-पालाः शरणं ययुर् हरिम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विश्वं भगवन्तम् । आत्मनो द्वारं सर्वं जीवोत्पत्त्य्-आदि-द्वारम् । लोकानाम् एव निरुच्छ्वासो लोक-पालास् तद्-अर्थम् एव शरणं ययुः ॥८०॥

ध्यातुर् ध्रुवस्य कीर्त्य्-अर्थं हरिणा सह देवताः ।

लोकोच्छ्वासं निरुध्याथ स्व-स्वार्थं च हरिं ययुः ।

अन्य-प्रवृत्तयस् तेभ्यो न तेषां स्युः स्व-प्रवृत्तयः ॥ इति तत्त्व-निर्णये ॥८०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यद् अप्य् आश्चर्यम् आह । तस्मिन् ध्रुवे विश्वं विश्वात्मकं विष्णुम् आत्मनः सकाशाद् अन्यया धियात्माभेद-दृष्ट्याऽभिध्यायति सति । किं कृत्वा ? असुं प्राणं तद्-द्वारं च निरुध्य । विश्वम् आत्मन्य् एकीकृत्य स्व-प्राण-निरोधे कृते विश्वस्य प्राण-निरोधो जात इति भावः ॥८०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति । तत्र ध्रुवसंज्ञकशरीरस्य प्राणेषु निरोधनीयेषु बालत्वात्समष्टेरे व प्राणान्न्यरुन्ध अत एवानन्यधियोक्तं व्यष्टिसमष्ट्योरैक्यबुद्धिरे व तत्र कारणमित्याशयः ॥८०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् एव लोक-निरुच्छ्वासतापि ॥८०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन् ध्रुवे आत्मनो देहस्य विश्वं सर्वम् एव द्वारम् असुं प्राणं च निरुध्य हरिं ध्यायति सति, लोका निरुच्छ्वास-निपीडिता इति व्यष्टेर् ध्रुव-संज्ञक-शरीरस्य प्राणेषु निरोधनीयेषु बालत्वात् समष्टेर् एव प्राणान् न्यरुन्ध । अत एव अनन्यया धियेति व्यष्टि-समष्ट्येर् ऐक्य-बुद्धिर् एव तत्र कारणम् इत्य् अर्थः ॥८०॥


॥ ४.८.८१ ॥

देवा ऊचुः—

नैवं विदामो भगवन् प्राण-रोधं

चराचरस्याखिल-सत्त्व-धाम्नः ।

विधेहि तन् नो वृजिनाद् विमोक्षं

प्राप्ता वयं त्वां शरणं शरण्यम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अखिल-सत्त्व-समूहस्य तेजः शक्तिः समूहश् च गृहं धामेति कथ्यते इति तत्त्व-निर्णये ॥८१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्राण-निरोधं कदाचिद् अपि न विद्मः । अखिल-सत्त्व-धाम्नः सर्व-प्राणि-शरीरस्य । तस्माद् वृजिनात् क्लेशात् ॥८१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे भगवन्न् इति । त्वम् एवात्र साक्षीत्यभिप्रायः । सत्त्वं तु प्राणिद्रव्ययोः गुणभेदे\ऽपि इति हलायुधः ॥८१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् एव लोक-निरुच्छ्वासतापि ॥८१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं प्राण-निरोधं कदापि न विद्मः । अखिल-सत्त्व-धाम्नः सर्व-प्राणि-शरीरस्य ॥८१॥


॥ ४.८.८२ ॥

श्री-भगवान् उवाच—

मा भैष्ट बालं तपसो दुरत्ययान्

निवर्तयिष्ये प्रतियात स्व-धाम ।

यतो हि वः प्राण-निरोध आसीद्

औत्तानपादिर् मयि सङ्गतात्मा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो बालात् । कोऽसौ बालः ? कथं च तस्मात् प्राण-निरोधः ? इत्य् अत आह । उत्तानपादस्य पुत्रो मयि विश्व-रूपे सङ्गतात्मा ऐक्यं प्राप्तो वर्तत इति ॥८२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बालत्वाद् एव स्वप्राणेषु निरुध्यमानेषु प्राणान्न्यरुंद्ध । अतो\ऽस्मान्हनिष्यतीति बुद्द्या तस्मान्न भेतव्यम् इत्य् आह—मयि सङ्गतचित्तः कम् अपि नैव जिघांसतीत्य् अर्थः ॥८२॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थस्कन्धे\ऽष्टमो\ऽध्यायः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बालम् इति बालत्वाद् एव स्व-प्राणेषु निरुध्यमाणेषु युष्माकम् अपि प्राणान् न्यरुन्ध । अतोऽस्मान् हनिष्यतीति बुद्ध्या तस्मान् न भेतव्यम् इत्य् आह—यतो ध्रुवात् स मयि सङ्गत-चित्तः कम् अपि नैव जिघांसतीत्य् अर्थः ॥८२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्थे अष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

चतुर्थ-स्कन्धे ध्रुव-चरिते

अष्टमोऽध्यायः ।

॥ ४.८ ॥


(४.९)


  1. सम्बन्धोक्ति- ; स्वामि-सम्मत- ↩︎

  2. जप्यश् ↩︎

  3. आवृतात्मा इति श्रीधरः? ↩︎

  4. थिस् एन्तिरे चोम्मेन्तर्य् इस् मिः सिन्ग् फ़्रोम् सोमे क्रम-सन्दर्भ एदितिओन्स्। ↩︎