०७

सप्तमोऽध्यायः

विषयः

रुद्र-वर-दानं दक्ष-जीवनं यज्ञ-सन्धानं सर्व-देव-कृत-विष्णु-स्तुतिश् च ।

॥ ४.७.१ ॥

मैत्रेय उवाच—

इत्य् अजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्तमे विष्णुर् उद्भूतः स्तुतो दक्ष-भवादिभिः ।

यज्ञं प्रवर्तयामास दक्षेणेति निरूप्यते ॥

अजेन योऽनुनीतः प्रार्थितो भवस् तेनाभिहितम् । हे महा-बहो विदुर ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिनेन्द्रमुनिदेवादिग्रहः । इत्य् उक्तरीत्या धर्मपरिपन्थिनो बाधेत इति बाहू महान्तौ बाहू यस्य स तथेति । यमावतारत्वादित्य् अभिप्रायः । यद् वा, स्वसङ्गिनां तत्त्वोपदेशेन बाधते शोकमोहादिकम् इति बाहुर्विवेकी महाश्चासौ बाहुर्विवेकी तत्संबुद्धौ तथा ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महाद् एव उवाचेति न सार्वत्रिकम् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

शम्भुं स्तुतवता विष्णुर् आविर्भूतः स तुष्टुवे ।

दक्षेण ऋत्विग्-आद्यैश् च यज्ञ-पूर्तिश् च सप्तमे ॥ओ॥

अजेनानुनीतो यो भवस् तेन ॥१॥


॥ ४.७.२ ॥

महाद् एव उवाच—

नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देव-मायाभिभूतानां दण्डस् तत्र धृतो मया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अघम् अपराधम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजेशेत्यनेन दण्डाधिकारो वस्तुतस् तवैव तवोद्भूतत्वान्ममापि दण्डकरणे न दोष इत्य् उक्तम् । किं च—बालत्वादृक्षस्य तदपराधम् अपि न गणये । ननु तव श्वशुरत्वात्तस्यातिज्येष्ठत्वं कथं तं बालं मन्यसे इति चेद् अत्र श्रीमद्वाल्मीकीयवाक्येन समाधत्ते तथाहि—

गुरु-लाघवम् अर्थानां प्रारंभे कर्मणः फलम् ।

तत्त्वतो यो न जानाति स बालः प्रोच्यते बुधैः ॥

इत्य् उक्त-बाल-लक्षणवत्त्वात् स बाल एव । बहुत्वं तद्-ऋत्विग्-अपेक्षं तर्हि बालत्वे\ऽपि श्वशुरत्वाद् अनुतापं तु करोष्य् एव तत्राह—नानुचिन्तये पश्चात्-तापं न करोमि । तत्र हेतुः दण्डस् तत्रेति । तत्र दक्षादौ । अपराधाननुरूप-दण्डे हि पश्चात्तापो भवति मया तु तथा न कृतम् इति भावः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दण्डः, किन्तु तेषाम् एव हितार्थाय शिक्षा इत्य् अर्थः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे प्रजेश । परेशेति च पाठः । बालानाम् अज्ञानां दण्डस् तेषां हितार्थं शिक्षा-रूपः ॥२॥


॥ ४.७.३ ॥

प्रजापतेर् दग्ध-शीर्ष्णो भवत्व् अज-मुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वापराधम् अपहृत्यानुगृह्णाति । दग्धं शीर्षं यस्य तस्य प्रजा-पतेर् अजस्य मुखं यस्मिंस् तत् तथाभूतं शिरोऽस्तु । बर्हिषः सम्बन्धिनं भागम् । मित्र-नाम्नो देवस्य ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्रच्छात्रादिभिर्गुरोर्वाक्यं सबहुमानं ग्राह्यम् इति दर्शयन्नाह—प्रजापतेर् इति । दग्धशीर्षत्वात्पूर्वशिरो\ऽनुसन्धानाभावः । स्वपौरुषजयस्तंभस्थापनायाज्ञजनशिक्षणाय च भगादीनामप्यन्यावयवैरे व स्वनिर्वाहः स्याद् इत्य् अभिप्रेत्याह—मित्रस्येति । स्वनेत्रस्य सूचकत्वलक्षणदोषदुष्टत्वाद् इति भावः । भागं स्वम् इति । तद्विधजनचक्षुषः । स्वभोज्यमात्रवस्तुदर्शनतात्पर्यकत्वेन पारमार्थकत्वाभावाद्वैयर्थ्यम् इति भावः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अज-मुखम् इति तस्य तत्-तुल्य-वाग्-बुद्धित्वाद् इति भावः । मित्रस्य चक्षुषेति स्वनेत्र-सूचकत्व-लक्षण-दोष-दुष्टत्वाद् इति भावः । भागं स्वम् इति तद्-विध-जन-चक्षुषः स्व-भोज्य-वस्त-मात्र-दर्शन-तात्पर्यकत्वेन पारमार्थिकत्वाभावाद् वैयर्थ्याद् इति भावः ॥३॥


॥ ४.७.४ ॥

पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् ।

देवाः प्रकृत-सर्वाङ्गा ये म उच्छेषणं ददुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकर्षेण कृतानि लग्नान्य् अङ्गानि येषां ते भवन्तु । उच्छेषणं यज्ञावशिष्टम् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूषा केवलश्चेत्पिष्टभुग्भवतु, अन्यसहितश्चेद्यजमानस्य दद्भिर्जक्षतु भक्षतु जक्ष-भक्षहसनयोः इति । तस्य दन्तान्प्रकाश्य साधून्हसतः सर्वथैव दन्तधारणानौचित्याद् इति भावः । उच्छेषणमुत्कृष्टशेषं शिवभागं ददुः । उच्छेषणभागो वै रुद्र इति श्रुतेः । ये ये वा मे मह्यं दक्षयज्ञे मामनादृत्य प्रथमं भुक्तत्वाच्छिन्नाङ्गा अभूवन्संप्रति ते प्रकृतसर्वाङ्गा भवन्तु । मन्निन्दनसमये दक्षपक्षग्रहणाच्छिन्नाङ्गा अप्यधुना मम भागदानात्पूर्णाङ्गाः सन्त्व् इति भावः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मे म उच्छेषणं यज्ञावशिष्टं ददुर् इति माम् अनादृत्य स्वयं प्रथमं भूक्तत्वात् ये च्छिन्नाङ्गा बभूवुस् ते प्रकृत-सर्वङ्गा भवन्त्व् इत्य् अर्थः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूषा केवल्श् चेत् पिष्ट-भुग् भवतु । अन्य-सहितश् चेत् यजमानस्य दद्भिर् इति तस्य दन्तान् प्रकाश्य साधून् हसतः सर्वथैव दन्त-धारणानौचित्याद् इति भावः । उच्छेषणम् उत्कृष्टं शेषं शिव-भागं ये न ददुस् ते देवाः अस्मद्-द्वेषिणः दक्षस्य यज्ञे भुक्त-भागत्वात् छिन्नाङ्गा अभूवन् । सम्प्रति प्रकृत-सर्वाङ्गा भवन्तु । मन्-निन्दन-समये दक्ष-पक्षस्याग्रहणाद् इति भावः ॥४॥


॥ ४.७.५ ॥

बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृत-बाहवः ।

भवन्त्व् अध्वर्यवश् चान्ये बस्त-श्मश्रुर् भृगुर् भवेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येषां त्व् अङ्गानि नष्टानि ते त्व् अश्विनोर् बाहुभ्यां कृत-बाहवः पूष्णो हस्ताभ्यां कृत-हस्ताश् च भवन्तु । अध्वर्यवः अन्ये च ऋत्विजः । बस् तस्य श्मश्रूण्य् एव श्मश्रूणि यस्य ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्-मध्ये ये केचिद् अध्वर्यवो दक्ष-पक्षपातिनस् तत्-समये बाहु-हस्त-चालनं चक्रुस् ते भग्न-बाहु-हस्ता अश्विनोर् बाहुभ्यां कृत-बाहवः पुष्णो हस्ताभ्यां कृत-हस्ता भवन्तु । किं च, भृगोः श्मश्रूण्य् उल्लुञ्चितानि । स च दक्षस्य मुख एवामात्योऽतो वस्त-मुखस्य तस्य । श्मश्रूणि प्राप्नोत्व् इत्य् अभिप्रेत्याह—ब् अस्त-श्मश्रुर् इति ॥५॥


॥ ४.७.६ ॥

मैत्रेय उवाच—

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।

परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मीढूष्टमः शिवस् तेनोक्तम् । परितुष्टैश् चित्तैः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्मध्ये ये केचिदध्वर्यवो दक्षपक्षपातिनो हस्तचालनं चक्रुस्ते च भग्नहस्ता आसन् देवस्य त्वा सवितुः प्रसवे\ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् इति श्रुतेः । भृगुर्हि दक्षस्य मुख्यामात्यो\ऽतो बस्तमुखस्य दक्षस्य बस्तश्मश्रुरेवामात्य उचित इति भावः ॥५-६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिशयेन मीढ्वान् काम-वर्षी । मीढुष्टमः शिवस् तस्योदितं वचनम् ॥६॥


॥ ४.७.७ ॥

ततो मीढ्वांसम् आमन्त्र्य शुनासीराः सहर्षिभिः ।

भूयस् तद् देव-यजनं स-मीढ्वद्-वेधसो ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मीढ्वांसं शिवं त्वयागत्य सर्वं कार्यम् इत्य् आमन्त्र्य संप्रार्थ्य । शुनासीरा देवाः सह-मीढुषा वेधसा च वर्तमानाः स-मीढ्वद्-वेधसः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रणतजनेभ्यो\ऽभीष्टं मिमिहुर् इति मीढ्वांसः मिह-सेचने क्वसुप्रत्यये रूपं दाश्वान्साह्वान्मीढ्वांश् च इति निपातात्सिद्धम् । तेषामतिशायेन मीढ्वान् मीढुष्टमः अनेन तदानीम् एवैतन्नामोपलब्धम् इति रहस्यं ज्ञायते । परितुष्टात्मभिः प्रसन्नचेतोभिः, तत्र यज्ञे । अथेति मङ्गले । साधु साध्व् इति मङ्गलमब्रुवन् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मीढ्वांसं शिवम् आमन्त्र्य त्वया तत्रागत्य यज्ञः सम्पादनीय इति सम्प्रार्थ्य सुनासीरा देवाः मीढुषा वेधसा च सह वर्तमानाः ॥७॥


॥ ४.७.८-९ ॥

विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः ।

सन्दधुः कस्य कायेन सवनीय-पशोः शिरः ॥

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कार्त्स्न्येन वक्त्र-हस्त-बाह्व्-आदि-साधारण्यं विधाय ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मङ्गलध्वनेरनन्तरं सुष्ठु नासीरं सेनामुखं येषां ते तथा शुनो वायुः शीरः सूर्यस्तौ विद्येते येषु ते शुनाशीरा इति अन्येषाम् अपि इति पूर्वपदस्य दीर्घ इति तालव्यद्वयको\ऽपि पाठो\ऽस्ति ।

शुनो वायुः समाख्यातः शीरः सूर्यस् तथा हलम् ।

नासीरोग्रेसरे प्रोक्तस् तथा सेना-मुखे\ऽपि च ॥ इति हरिदीक्षितः ॥

तद्विधाय मित्रादिर् भगादिभ्यश् चक्षुरादि-दानम् एव साधारण्यं तत्-कृत्वेत्य् अर्थः । यद् भगवान् मित्रस्य चक्षुषैक्षेतेत्य् आद्य् आह तद् इत्य् अर्थः । सवनीय-पशोर् यज्ञ-पशोश् छागस्येत्य् अर्थः । कस्य दक्षस्य ॥८-९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् आह—तद्-विधायेति । भगादिभ्यश् चक्षुर्-आदीनि दत्त्वेत्य् अर्थः ॥८॥


॥ ४.७.१० ॥

तदा वृषध्वज-द्वेष- कलिलात्मा प्रजापतिः ।

शिवावलोकाद् अभवच् छरद्-ध्रद इवामलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वं वृषध्वज-द्वेषेण कलिलः कलुषीकृत आत्मा यस्य सः । तदा शरत्-कालीनो ह्रद इवामलोऽभवत् ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा रुद्र-दृष्ट्य्-उत्तरम् उत्थाने ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कलिलात्मा कौषीकृतात्मापि ॥१०॥


॥ ४.७.११-१२ ॥

भव-स्तवाय कृत-धीर् नाशक्नोद् अनुरागतः ।

औत्कण्ठ्याद् बाष्प-कलया सम्परेतां सुतां स्मरन् ॥

कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : औत्कण्ठ्यात स्नेहजन्यात् ॥ भावेन प्रेम्णा ॥११-१२॥


न केनतमेन व्याख्यातम्।


॥ ४.७.१३ ॥

दक्ष उवाच—

भूयान् अनुग्रह अहो भवता कृतो मे

दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः ।

न ब्रह्म-बन्धुषु च वां भगवन्न् अवज्ञा

तुभ्यं हरेश् च कुत एव धृत-व्रतेषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् अपि यद्य् अपि प्रलब्धः पराभूतो मया भवांस् तथापि त्वया दण्डो भृतः शिक्षा कृता, नतुपेक्षितोऽस्मि । युक्तम् एवैतद् इत्य् आह । ब्रह्म-बन्धुषु च ब्राह्मणाभासेष्व् अपि तुभ्यं तव हरेश् चेति वां युवयोर् अवज्ञोपेक्षा नास्ति ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धृतव्रतेषु तपोविद्यायुक्तेषु ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि विप्रलब्धस् तिरस्कृतः, तद् अपि मयि दण्डो भृतः धृत आत्मीयत्व-बुद्ध्या शिक्षा कृता न तूपेक्षितोऽस्मि । युक्तम् एवैतद् इत्य् आह—ब्रह्म-बन्धुषु च ब्राह्मणाभासेष्व् अपि तुभ्यं तव हरेश् चेति वाम् अवज्ञा नास्ति ॥१३॥


॥ ४.७.१४ ॥

विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान्

ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् ।

तद् ब्राह्मणान् परम सर्व-विपत्सु पासि

पालः पशून् इव विभो प्रगृहीत-दण्डः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुम् आह—विद्येति । ब्रह्मा भूत्वा त्वम् अस्राग् अस्राक्षीः । किम् अर्थम् ? आत्म-तत्त्वम् अवितुम् । यद् वा, ब्रह्म वेदम् आत्म-तत्त्वं चावितुं संप्रदाय-प्रवर्तनेन ज्ञापयितुम् इत्य् अर्थः । तत् तस्मात् । हे परम उत्कृष्ट ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रोपेक्षाभावे । अस्रागिति सिचो लोप आर्षः । भूत्वेति क्रियापदाध्याहारे गौरवमालक्ष्याह—यद्वेति । इत्य् अर्थ इति । अध्ययनाध्यापनवेदरक्षणार्थम् उपदेशविचारादिनात्मतत्त्वरक्षणार्थं चेति भावः । एतेन ब्राह्मणस्यैवात्मतत्त्वोपदेशे\ऽधिकारो नान्यस्यात एव विदुरो धृतराष्टोपदेशार्थं स्वस्य साक्षाद्यमराजावतारत्वे\ऽप्यनधिकारिणं मत्वा सनत्सुजातमानाय्यैव धृतराष्ट्रायात्मतत्त्वमुपदेशितवानित्युद्योगपर्वणि महाभारते स्फुटम् । वस्तुतस् तु—

ब्राह्मणस्यैवाधिकारो धर्ममात्रोपदेशने ।

अन्योपदिष्टधर्मेण फलं प्रायो न जायते ॥

जानानो\ऽपि स्वयं विप्रमुखात् श्रुत्वा समाचरेत् ।

अपृष्ट्वा ब्राह्मणं कर्म कर्ता नरकमाप्नुयात् ॥ इति संहितोक्तेः ।

तथैव पञ्चमे वक्ष्यति । यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिर्जनतामनुशशास इति वचनात्स्वयमीश्वरावतारो\ऽप्य् ऋषभदेवो धर्मरक्षणार्थं तथा चकारेत्यलं प्रसक्तानुप्रसक्त्या । तस्मादात्मतत्त्वरक्षणार्थसृष्टत्वात् । शिष्टाचारप्रवर्तकत्वादाह—हे परम हे शीर्षण्य—

धर्मात्मा धर्मकर्ता च तथा धर्मप्रवर्तकः ।

परमः प्रोच्यते विज्ञैस्तद्धीनो\ऽपरमो मतः ॥ इति संहितोक्तेः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र हेतुः—विद्येति । त्वम् एव ब्रह्मा भूत्वा अस्राक् अस्राक्षीः । यद् वा, ब्रह्म वेदम् आत्म-तत्त्वं च रक्षितुं तत् तस्मात् हे परम पशून् इत्य् अस्माकं पशुत्वम् । तव पशुपतित्वम् ॥१४॥


॥ ४.७.१५ ॥

योऽसौ मयाविदित-तत्त्व-दृशा सभायां

क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् ।

अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद्

दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र च प्रत्य्-उपकारो नास्तीय् आह—योऽसाव् इति । अविदित-तत्त्व-दृशा अप्राप्त-तत्त्व-ज्ञानेन । तद् अगणय्य विस्मृत्य । अर्हत्-तम-निन्दयाऽर्वाग् अधः पतन्तं माम् अपाद्रक्षितवान् । स्व-कृतेनैव परानुग्रहेणैव तुष्येत् । न मया तत् प्रतिकर्तुं शक्यम् इत्य् अर्थः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवान्कृपासमुद्रोऽहं निर्घृण इत्य् अभिप्रेत्याह—अत्र चेति । मद्रक्षणकर्मणि तन्मत्कृतस्वावज्ञाम् अर्हत्तमस्य तव । अधो नरके । इत्य् अर्थ इति । स्वकर्मणा स्वयम् एव तुष्टो भव, न च त्वत्तोषहेतुर्मयि किञ्चिदस्तीति भावः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महद्-अपराधस् तु—चाटुकारादिना वा, तत्-प्रीत्य्-अर्थ-कृतेन निरन्तर-दीर्घ-कालीन-भगवन्-नाम-कीर्तनेन वा तं प्रसाद्य क्षमापणीय इत्य् अवोचामैव—तत् प्रसादं विना तद्-असिद्धेः । अत एव पूर्वत्रोक्तं श्री-शिवं प्रति दक्षेण—योऽसाव् इति । एवम् उत्तरत्रापि ज्ञेयम् ॥१५॥ [भक्ति-सन्दर्भ ३०३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतत् प्रत्युपकर्तुं न शक्नोमीत्य् आह—योऽसौ भवान् अविदित-तत्त्व-ज्ञानेन तत्-तिरस्करणं विगणय्य वस्तु-बुद्ध्या न गणयित्वा अर्वाग् अधः पतन्तं कृपामृतेनार्द्रया दृष्ट्या अपात् । अन्यथा मम नरकाद् उद्धारो नाभविष्यद् इति भावः । स्व-कृतेन पुरानुग्रहेणैव तुष्येत् । न तु तत्-तोष-कारणं किम् अपि मय्य् अस्तीति भावः ॥१५॥


॥ ४.७.१६ ॥

मैत्रेय उवाच—

क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः ।

कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्-आदिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुमन्त्रितोऽनुज्ञातः । उपाध्याय-सहितैर् ऋत्विग्-आदिभिः अनुवर्तयाम् आस ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स दक्षः अनुवर्तयामास प्रवर्त्तयांचकार ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोपाध्यायिर् ऋत्विग्-आदिभिर् अनुवर्तयामास ॥१६॥


॥ ४.७.१७ ॥

वैष्णवं यज्ञ-सन्तत्यै त्रि-कपालं द्विजोत्तमाः ।

पुरोडाशं निरवपन् वीर-संसर्ग-शुद्धये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वीराणां प्रमथादीनां संसर्ग-कृत-दोषस्य शुद्धये निवृत्त्य्-अर्थम् ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैष्णवं विष्णुदेवताकं त्रिकपालं त्रिकपालसंस्कृतं निरवपन् समन्त्रं ददुः । वीरो वीरभद्रस् तस्य संसर्ग उपद्रवस् तस्य शुद्धये निवृत्त्यै, एतेन दुष्टयागो\ऽपि विष्णुपूजनाच्छुध्यतीत्युक्तम् । तण्डुलपिष्टनिर्मितकूर्माकारः पुरोडाशः पुरो दाश्यत इति पुरोडाशोत्र दस्य डत्वमार्षम् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैष्णवं विष्णु-देवताकं निरवपन् जुहुवुः । वीराणां प्रमथादीनां संसर्ग-कृत-दोष-शुद्ध्य्-अर्थम् ॥१७॥


॥ ४.७.१८ ॥

अध्वर्युणात्त-हविषा यजमानो विशाम्पते ।

धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपात्त-हविषाऽध्वर्युणा सह विशुद्धया दध्यौ । हे विशां-पते विदुर ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा दध्यौ तथा तेन रूपेण विशांपते इत्यस्य विशां विषयप्रवेशवतामिन्द्रियाणां पतेर्वशीकर्तुस्तव यथा शुद्धबुद्धित्वाद्धरेः प्रादुर्भावस् तथा तत्रापीत्यभिप्रायः । यद् वा, राजभ्रातृत्वाद्विदुरे\ऽपि विशांपतित्वमस्त्येवेति ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्त-हविषा अध्वर्युणा सह । हे विशां-पते विदुर तथा दध्यौ यथा प्रादुरभूद् इति ॥१८॥


॥ ४.७.१९ ॥

तदा स्व-प्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्र-वाजिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वया प्रभया तेषां तेजो मुष्णंस् तिरस्कुर्वन् । उपानीतः समीपं प्रापितः । स्तोत्रे बृहद्-रथन्तरे वाजौ पक्षौ तद् वता । बृहद्-रथन्तरे पक्षौ इति श्रुतेः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा ध्यानकाले बृहद्रथन्तराख्ये वेदोपनिषदाव् इति श्रुतिपदार्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तदेति त्रिकम् ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां ब्रह्मादीनां तेजो मुञ्चन् हरिः उपानीतः समीपं प्रापितः । स्तोत्रे बृहद्रथन्तरे वाजौ पक्षौ तद्वता बृहद्-रथन्तरे पक्षौ इति श्रुतेः ॥१९॥


॥ ४.७.२० ॥

श्यामो हिरण्य-रशनोऽर्क-किरीट-जुष्टो

नीलालक-भ्रमर-मण्डित-कुण्डलास्यः ।

शङ्खाब्ज-चक्र-शर-चाप-गदासि-चर्म-

व्यग्रैर् हिरण्मय-भुजैर् इव कर्णिकारः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एवानुवर्णयति—श्याम इति द्वाभ्याम् । हिरण्यवद् रशना यस्येति वस्त्रं लक्ष्यते । अर्क-तुल्येन किरीटेन जुष्टः । नीलालका एव भ्रमरास् तैर् मण्डितं कुण्डल-युक्तम् आस्यं यस्य । कम्ब्व्-आदिभिर् आयुधैर् भृत्य-रक्षार्थं व्यग्रैर् हिरण्मयैर् भुजैः पुष्पितः कर्णिकार इव शोभमानः । भुजानां हिरण्मयत्वं केयूर-कङ्कण-मुद्रिकाद्य्-अलङ्कारैः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् एव तत्रागतम् एव । यद् वा, कम्ब्वादीनि हस्तानस्थितत्वाद्विशिष्टान्यग्राणि येषु तथाभूता हिरण्मया भुजा एव प्रथमातिशयोक्त्याष्टैव दलानि तैः शोभमानः कर्णिकारः कमलराज इव मत्त्वर्थीयार्श आदिनाचा वा कर्णिकायामरास्तदाकाराणि दलानि सन्त्यस्येति कर्णिकारः । यद् वा, कर्णिकां राति ददातीति व्युत्पत्त्या वा कर्णिकारशब्देनात्र पद्माभिधानात् । कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले इति मेदिनी । द्रुमश्चोत्पलञ्च द्रुमोत्पलम् इति समाहारद्वन्द्वो\ऽपि सम्भवतीति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कम्ब्व्-अब्जादिभिर् विशिष्टान्य् अग्राणि येषां तैः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एवानुवर्णयति—श्याम इति द्वाभ्याम् । हिरण्य-रशनः कङ्कण-किङ्किणीकः । पीताम्बरस्यार्थतः प्राप्तत्वाद् अनुक्तिः रसना-शब्देन वस्त्रं वा लक्षयितव्यम् । अर्क-तुल्योज्ज्वल-किरीट-युक्तः । नीलालका एव भ्रमरास् तैर् मण्डितं कुण्डल-युक्तम् आस्यं यस्येति भ्रमर-पदेनास्यस्य पद्मत्वम् । ततश् च कुण्डलयोस् तत्-फुल्लीकरणार्थम् आगतयोः सूर्यत्वं कम्ब्व्-आदिभिर् आयुधैर् भृत्य-रक्षार्थं व्यग्रैर् हिरण्मयैः कनक-केयूर-कङ्कण-मुद्रिकादि-मत्तेन कनक-मयैर् भुजैः पुष्पितः कर्णिकार इव शोभमानः ।

यद् वा, कम्ब्व्-आदीनि हस्ताग्र-स्थितत्वाद् विशिष्टान्य् अग्राणि येषु तयाभावा हिरण्मया भुजा एव प्रथमातिशयोक्त्यात् अष्टैव दलानि तैः शोभमानः कर्णिकारः कमल-राज इव मत्व्-अर्थीयार्शादिना च वा कर्णिकां राति ददातीति व्युत्पत्त्या वा कर्णिकार-शब्देनात्र पद्माभिधानम् ॥२०॥


॥ ४.७.२१ ॥

वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार-

हासावलोक-कलया रमयंश् च विश्वम् ।

पार्श्व-भ्रमद्-व्यजन-चामर-राज-हंसः

श्वेतातपतत्र-शशिनोपरि रज्यमानः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वक्षस्य् अधिश्रिता वधूर् लक्ष्मीर् यस्य सः । उदारो हासोऽवलोकश् च तयोः कलया लेशेन । पार्श्वे उभयतो भ्रमती व्यजन-चामरे एव राज-हंसौ यस्मिन् सः । रज्यमानः शोभातिशयं नीयमानः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वधूर् लक्ष्मीः । उदारयोर् महा-माधुर्य-रत्न-वर्षिणोर् हासावलोकयोः कलया वैदग्ध्या विश्वम् एव रमयन् किं पुनर् भक्तान् । पार्श्वयोर् भ्रमन्ती व्यजन-चामरे एव राज-हंसौ यस्मिन् सः । श्वेतातपत्रम् एव शशी तेन उपरि-स्थितेनेति सर्वोपरि शशी तत्-तले किरीट-रूपोऽर्कः, तत्-तले आस्य-रूपं कमलं, तत्-पार्श्व-द्वये नृत्यत्-कुण्डल-रूपं पुनर् अर्क-द्वयम् । तत्-पार्श्व-द्वये चामर-रूपे हंस-द्वयम् । मुख-कमल-तले लक्ष्मी-रूपा विद्युत्-सर्व-समुदितं पुनर् अष्ट-दलम् एकं कमलम् एव चन्द्रार्क-विद्युद्-भ्रमर-हंस-शङ्ख-चक्र-गदा-पद्म-चाप-शर-चर्मासि-युक्तम् अत्यद्भुतम् । स विष्णुर् अदृश्यत इत्य् अर्थः ॥२१॥


॥ ४.७.२२ ॥

तम् उपागतम् आलक्ष्य सर्वे सुर-गणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मेन्द्र-त्र्यक्ष-नायकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मेन्द्र-त्र्यक्षा नायका मुख्या येषां ते ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मेन्द्र-त्र्यक्षा नायका येषां ते ॥२२॥


॥ ४.७.२३ ॥

तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः ।

मूर्ध्ना धृताञ्जलि-पुटा उपतस्थुर् अधोक्षजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हत-रुचस् तिरस्कृत-प्रभाः । सन्न-जिह्वा गद्गद-वाचः । स-साध्वसास् तन् महिम्ना क्षुभित-चित्ताः । उपतस्थुस् तुष्टुवुः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उदारयोर्महामाधुर्यरङ्गवर्षिणोर्हासावलोकयोः कलया वैदग्ध्या विश्वम् एव रमयन् किं पुनर् भक्तान् । तथा च सर्वोपरि शशी तत्तले किरीट-रूपोर्कः तत्तले आस्य-रूपं कमलं तत्पाश्र्वद्वये नृत्यत्कुण्डल-रूपं पुनर् अर्कद्वयं तत्पार्श्वद्वये चामर-रूपं हंसद्वयं मुखकमलतले लक्ष्मीरूपा विद्युत् सर्वसमुचितं पुनर् अष्टदलमेकं कमलम् एव चन्द्रार्कविद्युद्भ्रमरहंसशङ्खचक्रगदापद्मचापशरचर्मासियुक्तमत्यद्भुतं स विष्णुरदृश्यतेत्य् अर्थः ॥२१-२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्न-जिह्वाः स-गद्गद-वाचः, स-साध्वसास् स-सम्भ्रमां क्षुभित-चित्ताः । मूर्ध्ना मूर्ध्नि ॥२३॥


॥ ४.७.२४ ॥

अप्य् अर्वाग्-वृत्तयो यस्य महि त्व् आत्मभुव्-आदयः ।

यथा-मति गृणन्ति स्म कृतानुग्रह-विग्रहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य महिमानं प्रति तु अर्वाग् एव वृत्तिर् येषां तेऽपि यथा-मति गृणन्ति स्म अस्तुवन् । कृतः प्रकटीकृतोऽनुग्रहार्थं विग्रहो येन तम् । यद् वा, तेषाम् अर्वाग्-वृत्तित्वे हेतुः, ते तु तस्य महि महिमा । विभूति-मात्र-रूपा इत्य् अर्थः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तुतिसाधनवागिन्द्रियस्य सन्नत्वात्तद्व्यापाराभावे कथं ते तुष्टुवुस् तत्राह—अपीति । महि प्रति अनन्तत्वादर्वाग्वृइत्तयो\ऽप्राप्तवाङ्मनसव्यापारा अपि । महिशब्दस्य महिमार्थवाचकत्वे\ऽपि प्रतिपदाध्याहारे गौरवं मत्वाह—यद्वेति । वेदाः प्रमाणमितिवद्यस्य भगवत आत्मभुवादयो महीति प्रयोगः । इत्य् अर्थ इति । न हि शक्तीनां शक्तत्वं संभवतीति भावः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महित्वं महिमानं प्रति । तु अर्वाग् एव वृत्तिर् येषां तेऽपि ॥२४॥


॥ ४.७.२५ ॥

दक्षो गृहीतार्हण-सादनोत्तमं

यज्ञेश्वरं विश्व-सृजां परं गुरुम् ।

सुनन्द-नन्दाद्य्-अनुगैर् वृतं मुदा

गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तावद् दक्ष-स्तुति-प्रकारम् आह—दक्ष इति । गृहीतम् अर्हण-सादनोत्तमं येन तम् । उत्तमे पात्रे आसाद्यार्हणेषु समर्पितेषु प्रीत्या सार्हण-पात्रं स्वयम् एव येन गृहीतम् इत्य् अर्थः । यद् वा, कथं प्रपेदे । गृहीतम् अर्हण-सादनोत्तमं यथा भवति तद् गृहीत्वा प्रपेदे इत्य् अर्थः । गृहीत्वेति पाठस् तु सुगमः । गृणन् स्तुवन् प्रपेदे शरणं जगाम ।

दक्ष-ऋत्विक्-सदस्येश-भृगु-ब्रह्मेन्द्र-योषितः ।

ऋषयश् च तथा सिद्धा यजमानी च लोक-पाः ॥

योगि-ब्रह्माग्नि-देवाश् च स्तुवन्ति जगदीश्वरम् ।

तथा गन्धर्व-विद्याधर-ब्राह्मणाश् च पृथङ् मतैः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तेष्वात्मभुवादिषु । यक्षस्य यजमानत्वेन मुख्यत्वात्तावदादौ तत्कर्तृकस्तुतिप्रकारम् आह—उत्तमे पात्रे स्वर्णादिनिर्मिते पात्रे । आगते प्राप्ते\ऽर्हणेषु पूजाद्रव्येषु समर्पितेषु स्थापितेषु सत्सु । इत्य् अर्थ इति । पूजाद्रव्यसहितं पात्रं स्थालम् एव येन भक्तिपारवश्यात्स्वीकृतम् इति भावः । अर्थ्यते पूज्यते एभिरित्यर्हणानि पुष्पाक्षतादीनि । तानि साद्यन्ते स्थाप्यन्ते\ऽस्मिन्नित्यर्हणसादनं तचोत्तममर्हणसादनोत्तमम् । यद् वा, साद्यते\ऽस्मिन्न् इति सादनं तच्चोत्तमं सादनोत्तममर्हणसादनोत्तमम् इति । संभवत्वात्प्रकारान्तरम् आह— यद्वेति । इत्य् अर्थ इति । पूजनपात्रमादाय स्तुतिं कुर्वन्प्रापेति भावः । दक्षादय ऊनविंशतिसङ्ख्याकाः पृथङ्मतैर्निजनिजाभिमतवाक्यैः । पृथक्पृथक्छन्दोभिश् च सर्वेश्वरं स्तुवन्तीति स्वामिचरणैः सङ्गृहीतश्लोकार्थः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्वाग्-वृत्तित्वम् एव सर्वेषां दर्शयति—दक्ष इत्य्-आदिना ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहीतम् अर्हण-साधनोत्तमं यत्र तद् यथा स्यात् तथा, सादनं पात्रं, गृहीत्वेति च पाठः ॥२५॥


॥ ४.७.२६ ॥

दक्ष उवाच—

शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं

चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् ।

तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम्

आस्ते भवान् अपरिशुद्ध इवात्म-तन्त्रः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जड-माया न तस्यास्ति शरीरत्वेन कुत्रचित् ।

सृष्ट्वा तथा शरीराणि तत्-स्थितेः पुरुषः स्मृतः ॥

माया-मय-शरीरायाम् अपि विष्णुः स्वयं स्थितः ।

तस्मात् प्राकृत इत्य् एव जीववत् तं वदन्ति हि ॥

अदृष्टत्वेऽपि तद्-धर्मस् तद्गत्वाद् एव कारणात् ॥ इति तत्त्व-विवेके ॥२६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु साक्षात् परमैश्वर एव रुद्रस् तस्य ब्रह्म-पुत्रत्वेन जीवत्वम् अनुकार-मात्रम् । हन्त किम् इति त्वया भेद-दृष्ट्याऽसाव् अवज्ञात इति मां भगवान् आक्षेप्स्यतीत्य् आशङ्क्य, अप्रच्युत-स्वरूपस्य जीव-धर्म-नाट्यं तवैव सङ्गछते नान्यस्येत्य् आह—शुद्धम् इति । स्व-धाम्नि स्वरूपे तिष्ठन् भवान् शुद्धं चिन्-मात्रं चैतन्य-धनः । शुद्धत्वे हेतुः, उपरता नित्य-निवृत्ताऽखिला बुद्ध्य-वस्था यस्मात् । अतः एकं भेद-शुन्यम् । अत एवाभयम् । द्वितीयाद् वै भयं भवति [बृ।आ।उ। १.४.२] इति श्रुतेः । जीवस्यापि वस्तुत एवं भूतत्वात् तद् वैलक्षण्यार्थम् उक्तम् । मायां प्रतिषिध्याभिभूय स्व-तन्त्र एव संस्तया मायया पुरुषत्वं मनुष्य-नाट्यम् उपेत्य तस्यां मायायां तिष्ठन्न् अपरिशुद्ध इव रागादिमानिवास्ते । राम-कृष्णाद्य्-अवतारे तथा प्रतीयते भवान् इत्य् अर्थः । अन्ये त्व् अविद्योपाधयो मायाभिभूताः संसरन्ति । अतस् त्वम् एवेश्वरो न रुद्रादय इति भावः । अत एवेमां दृष्टिं भगवान् वारयिष्यति । अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् इत्य्-आदिना ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयमाक्षिप्य समादधान आह—नन्व् इति । तस्य रुद्रस्य बुद्ध्यावस्था जागरणादयः । बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति वृत्तयः इत्य् उक्तेः । अतो निवृत्ताखिलबुद्ध्यवस्थत्वात् । भेदश् च विश्वतैजसादिरूपो जाग्रदादिकृत एवेत्य् अर्थः । अत एवैकत्वाद् एव । स्फुटार्था श्रुतिर्न व्याख्याता । इत्य् अर्थ इति । विद्योपाधिर् ईश्वरस्त्वम् एव यतो मनुष्यनाट्यं यथार्थमभिनेतुं सत्राजितं श्वशुरं मृतं श्रुत्वा अहो नः परमं कष्टमित्यस्राक्षौ विलेपतुः इति सत्यभामासन्निधौ सराग इवारोदीत्तथा रामावतारे पितृमृतिं श्रुत्वा सर्वसन्निधावेव चित्रकूटे व्यलपत्सीताहरणोत्तरमतीव कामार्त इव लक्ष्मणपार्श्वे शुशोच । तेन च किं तवात्मारामता प्रच्युता? नेति भावः । इति भाव इति । अविद्योपाधयो रुद्राद्यास्त्वद्-दृष्ट्या मानुष्यनाट्यं कुर्वन्तो\ऽप्य् अभिनेतुं न जानन्ति यतो मयि श्वशुरे सभायामात्मारामत्वं प्रकाशितवानतस्त्वम् एवाखिलकलाविचक्षण ईश्वरोसि नान्य इत्याशयः । पुनर् अपि श्रीरुद्रे कटाक्षः श्रीरुद्रापराधशेषेणैव भगवद्-विग्रहे माथिकबुद्धिरपीति ज्ञेयम् । अत एवेश्वरत्वाद् एव । छन्दश्चेदं वसन्ततिलका तभजा जगौ गः इति लक्षणवत्त्वात् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुण-संसर्गिणाम् तद्-आवेशो नाद्भुतः, यतः सृजामि तन्-नियुक्तोऽहम् [भा।पु। २.६.३२] इत्य् आदि न्यायेनास्वतन्त्रतया ब्रह्म-रुद्राव् अपि कदाचित् तद्-आविष्टौ भवतः । किन्तु, भवान् एव तत्-संसर्गेऽपि तद्-अनाविष्ट इति स्व-दोषमार्जनार्थम् आह—शुद्धम् इति । शुद्धम् इत्य् आदि-लक्षणं यत्-तत्त्वं तद्-रूपो भवान् श्री-भगवद्-रूपे स्व-धाम्नि स्वरूप-शक्ति-वैभवे परम-वैकुण्ठे तिष्ठन् शुद्ध-सत्त्वादौ हेतुः मायां प्रतिषिध्य न यत्र मायेत्य् उक्तत्वात् स्वरूप-शक्त्याविष्कारेण तत्-सम्बन्धं परिहृत्येति तद् एवं तिष्ठन्न् एवात्म-तन्त्रः सन्न् अंशेन तयैव मायया पुरुषत्वं तद्-द्रष्टृत्वम् उपेत्य तस्याम् एव मायायां स्व-कार्यायां तत्-तन्-नियमादिना अपरिशुद्ध इवास्ते । तथा प्रतीयते मात्रम् इत्य् अर्थः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुद्धं चिन्-मात्रम् एव भवान्-मायां प्रतिषिध्य स्व-धाम्नि स्वरूपे तिष्ठन्न् एव भवान् तयैव मायया पुरुषत्वं मनुष्य-नाट्यम् उपेत्य तस्यां मायाय्;म् राम-कृष्णाद्य्-अवतारेषु अपरिशुद्ध इव रागादिमान् इवास्ते । अतस् त्वम् एवेश्वरो विद्योपाधिर् अन्ये त्व् अविद्योपाधयो रुद्राद्यास् तद्-दृष्ट्या मनुष्य-नाट्यं कुर्वन्तोऽप्य् अभिनेतुं न जानन्ति । श्वशुरे मयि सभायाम् आचार्य्रूपत्वं प्रकाशितवन्तः । त्वं तु श्वशुरं सत्राजितं मृतं श्रुत्वा, अहो नः परमं कष्टम् इत्य् असक्षौ विलेपतुर् इति सत्यभामा-सन्निधौ स-राम एवारोदीः इति तेन किं तवाचार्य्रूपत्वं प्रच्युतम् इति भगवान् एवाखिल-कला-विचक्षण इति पुनर् अपि श्री-रुद्रे कटाक्षः । श्री-रुद्रापराध-शेषेणैव भगवद्-विग्रहे मायिकत्व-बुद्धिर् अपीति ज्ञेयम् ।

किं च, स्व-धाम्नि वैकुण्ठे तिष्ठन्न् एव तयैव मायया सहितः पुरुषत्वं महत्-स्रष्टृ-रूपम् उपेत्य तस्यां मायायां मायिकेषु समष्टि-व्यष्टिषु च आस्ते अन्तर्यामि-रूपेण वसति । यद् उक्तं—

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।

एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।

तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ इति ।

अपरिशुद्धः न त्व् अपरिशुद्धः मायायां स्थितोऽपि तत्-सम्बन्धाभावाद् इति भावः । इति तु वास्तवार्थो ज्ञेयः ॥२६॥


॥ ४.७.२७ ॥

ऋत्विज ऊचुः—

तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात्

कर्मण्य् अवग्रह-धियो भगवन् विदामः ।

धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं

ज्ञातं यद्-अर्थम् अधिदैवम् अदो व्यवस्थाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अधिदैवम् उत्तम-दैवम् । यद् यज्ञ-भागार्थम् । यज्ञ-भुक् देवता शरीरम् आस्थाय । भुङ्क्ते यज्ञ-भुजो देवान् आविश्य पुरुषोत्तम इति च ॥२७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋत्विजोऽपि स्वस्यापराधं परिहरन्तः स्तुवन्ति । भो अनञ्जन ! उपाधि-मल-शून्य ! यद्य् अपि त्वम् एव रुद्रादि-देवता-रूपः, तथापि नन्दीश्वर-शापात् कर्मण्य् एव दुराग्रह-धियः सन्तस् तव तत्त्वं न विद्मः किं तु धर्मस्यापूर्वस्योपलक्षण-भूतं त्रि-वृत् त्रयी-प्रतिपाद्यम् अध्वराख्यं तव रूपम् अस्माभिर् ज्ञातम् । कीदृशम् ? यद् अर्थं यस्य सिद्धयेऽधिदैवं देवताऽधिकारेणादो-व्यवस्थाः अमूर्ख्य-वस्थाः । अत्रेयम् एव देवता नान्येत्य् एवं भूता नियमा इत्य् अर्थः । यद् वा, व्यवस्था इत्य् आख्यातम् । अडागमाद्य्-अभाव आर्षः । यद्-अर्थमद इदम् इन्द्राद्य्-अधिदैवं रूपं विशेषेणास्थितवान् असीत्य् अर्थः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । देवताधिकरणे पूर्वमीमांसायां तत्तद्देवताधिकारेण तत्तत्कर्मव्यवस्थाः कृतास्त्वयैव जैमिन्यादिरूपेणेति भावः । भवतु व्यवस्था, किं तया ममेति चेदर्थंरम् आह—यद्वेति । आख्यातं तिङन्तम् । इत्य् अर्थ इति । यज्ञकर्मनिष्पत्तय एवैकस्त्वमिन्द्रादिदेवतारूपेण बहुधासीति भावः । अनंजनेत्यामन्त्रणेन त्वां विना सर्वे सोपाधिका एवातस्त्वम् एवोपाधिनिवृत्तये सेव्य इत्य् उक्तम् ॥२७॥


कैवल्य-दीपिका : उत्पत्ति- इति । उत्पत्तिः संसारः । अशरणे रक्षक-हीने । व्यालाः अन्विष्टो हृष्टः मृग-तृड् मृगतृष्णा । आत्मा गेहो गेहं च । उरुर् भारो यस्य द्वन्द्वानि हर्ष-विषादादीनि । श्वभ्रं गर्तः । मृगाः सिंहादयः । अज्ञाः पण्डितं-मन्याः । तेषां स्वार्थ-सङ्घः उपसृष्ट उपद्रुतः कदा याति ? कोऽपि कदापि न याति । मार्गान्तरयति तत्त्वाद् इत्य् अर्थः । अत्र च घोर-संसार-दर्शनात् । सदस्येषु भयम् उत्पन्नम् इति शरणद इत्य् अनेन व्यञ्जितम् । भीतानां हि शरणेच्छा ॥२७॥ [मु।फ। १५.२५]


जीव-गोस्वामी (क्रम-सन्दर्भः) : व्यवस्येति चित्सुख-पाठान्तरम् ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अनञ्जन ! मायोपाधि-रहित ! नन्दीश्वर-शापात् कर्मणि दुराग्रह-धियो वयम् अपि न विद्मो दक्षः कथं ज्ञास्यतीति दक्षे कटाक्षः । तर्हि किं जानीथ ? इति तत्राहुः—धर्म उपलक्ष्यतेऽनेनेति तत् त्रिवृत् त्रयी-प्रतिपाद्यम् अध्वराख्यं तव स्वरूप म् एव ज्ञातम् अस्माभिः । यद्-अर्थं यस्य सिद्धये । अधिदैवं देवाधिकरणे अदो व्यवस्था इयम् अत्र देवतेत्य् एवम् अमूर् व्यवस्था भवन्ति ॥२७॥


॥ ४.७.२८ ॥

सदस्या ऊचुः—

उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गेऽन्तकोग्र-

व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः ।

द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावे\ऽज्ञ-सार्थः

पादौकस् ते शरणद कदा याति कामोपसृष्टः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

उत्पत्तिर् हरि-रूपाणां व्यक्तिर् एव न संशयः ।

उत्पत्तिर् एव जीवानां देहोत्पत्तिर् इतीर्यते ॥ इति तत्त्व-निर्णये ॥२८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सदस्यास् तु निरीश्वरेऽपि दक्षाध्वरे धन-लोभेन स्व-प्रवृत्तिम् अनुचिन्त्यानुतप्ता विरक्तिम् आशासानाः स्तुवन्ति--हे शरणद ! आश्रय-पद, उत्पत्त्य्-अध्वनि संसार-मार्गे वर्तमानोऽज्ञानां सार्थः समूहस् ते पादौकः त्वत्-पाद-रूपं निवासं कदा यास्यति ? कथं-भूते संसार-मार्गे ? अशरणे विश्राम-स्थान-शून्ये । उरु-क्लेशा एव दुर्गम् अस्थानानि यस्मिन् । अन्तक एवोग्रो व्यालः, तेनान्विष्टे लक्ष्यीकृते विषय-रूपा मृग-तृण् मृग-तृष्णिका यस्मिन् । आत्मा अहङ्कारास्पदं शरीरं ममत्वास्पदं गेहं च स एव उरुर् भारो यस्य सः । द्वन्द्वानि सुख-दुःखादीन्य् एव श्वभाणि गर्ता यस्मिन् । खला एव मृगा व्याघ्रादयस् तेभ्यो भयं यस्मिन् । शोक एव दावाग्निर् यस्मिन् । कामेनोपसृष्टः पीडितः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सदस्या विधि-दर्शिनः इत्य् अमरः । शरणं गृह-रक्षित्रोः इत्य् अमरश् च । हे आश्रयप्रद ! इति । यदि त्वाम् आश्रय-प्रदं नाश्रयेत तदा त्वया किं कर्तव्यम् ? इति दक्षे कटाक्षाभिप्राया संबुद्धिः । उत्पत्ति-रूपो यो\ऽध्वा तस्मिन्न् उत्पत्ति-पदम् उपलक्षणं मृत्य्-आदेः, कदा याति विभाषा कदा-कर्ह्योः इति भविष्यति लट् । छन्दश् चेदं मन्दाक्रान्ता—मन्दाक्रान्ताम्बुधि-रसनगैर् मो म-नौ तौ ग-युग्मम् इति लक्षणात् ॥२८॥


कैवल्य-दीपिका : उत्पत्ति- इति । उत्पत्तिः संसारः । अशरणे रक्षक-हीने । व्यालाः अन्विष्टो हृष्टः मृग-तृड् मृगतृष्णा । आत्मा गेहो गेहं च । उरुर् भारो यस्य द्वन्द्वानि हर्ष-विषादादीनि । श्वभ्रं गर्तः । मृगाः सिंहादयः । अज्ञाः पण्डितं-मन्याः । तेषां स्वार्थ-सङ्घः उपसृष्ट उपद्रुतः कदा याति ? कोऽपि कदापि न याति । मार्गान्तरयति तत्त्वाद् इत्य् अर्थः । अत्र च घोर-संसार-दर्शनात् । सदस्येषु भयम् उत्पन्नम् इति शरणद इत्य् अनेन व्यञ्जितम् । भीतानां हि शरणेच्छा ॥२८॥ [मु।फ। १५.२५]


जीव-गोस्वामी (क्रम-सन्दर्भः) : सदस्यास् तु कर्म-मार्गैर् नाना-दुःखं विचार्य तद्-उपरति-सदनं तच्-चरणोपसरणम् एव प्रार्थयन्ते—उत्पत्तीति । "व्यालाकृष्ट" इति चित्सुखः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : [+++]{।मर्क्}


॥ ४.७.२९ ॥

रुद्र उवाच—

तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे

ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये ।

यदि रचित-धियं माविद्य-लोकोऽपविद्धं

जपति न गणये तत् त्वत्-परानुग्रहेण ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आशिषोऽपि तत एव भवन्तीत्य् अतश् च शब्दः ॥२९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-रुद्रस् तु पूर्वं मम निन्दा दुःसहा आसीत्, इदानीं तु तां न गणयामीत्य् आह—तवेति । आशिषा कामेनासक्तैर् निष्कामै रचित-धियम् अभिनिवेशित-चित्तम् । मा काम-विद्यो विद्या-हीनो लोको यद्य् अपविद्धं जपत्य् आचारा-भ्रष्टं जल्पति तज् जल्पनम् अहं न गणये । तत्र हेतुः—तव यः परोऽनुग्रहस् तेन । त्वत्-पराणां वा योऽनुग्रहस् तेन ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तवाङ्घ्रौ त्वच्चरणे । मालिनी वृत्तम् । ननमयययुतेयं मालिनी भोगिलोकैः इति लक्षणात् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-रुद्रस् तु अन्यैर् दुरूहं स्व-रहस्यं भक्त्यावेशेन प्रकटयन्न् एव स्तौति तवेति । आशिषा कामनया हेतुना अखिलार्थे तद्-दातरीत्य् अर्थः । आशिषम् आशयाध्ये इति । चित्सुखः । माविद्येत्य् आदौ मां विद्धि लोकान् अपि स्वान् अजितेति चित्सुखः ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आशिषा कामेन हेतुना । अखिलार्थे अखिलार्थ-दातार्य् अपि असक्तैर् निष्कामैर् अर्हनीये सेवितुम् अर्हे अङ्घ्रौ रचित-धियम् आवेशित-बुद्धिम् । मा माम् । न विद्यते विद्या ज्ञानं यस्य तयाभावो लोको दक्षादिर् यदि अपविद्धम् आचारा-भ्रष्टं जपति जल्पति, तद् अपि तज् जल्पनम् तव यः परोऽनुग्रहस् त्वत्-पराणां वानुग्रहस् तेन न गणये ॥२९॥


॥ ४.७.३० ॥

भृगुर् उवाच—

यन् मायया गहनयापहृतात्म-बोधा

ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः ।

नात्मन्श्रितं तव विदन्त्य् अधुनापि तत्त्वं

सोऽयं प्रसीदतु भवान् प्रणतात्म-बन्धुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भृगुस् तु स्वभावतस् तत्त्व-ज्ञान-हीना जीवा अतोऽज्ञान-कृतं मम दुश्चेष्टितं क्षमस्वेत्य् आह—यन् माययेति । आत्मन्न् आत्मनि श्रितम् अनुगतं तव तत्त्वं न विदन्ति । प्रणतानाम् आत्म बन्धुश् च ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतस्तत्त्वज्ञानहीनत्वात् । ब्रह्मादय इति रुद्रे कटाक्षः । यद् वा, ब्रह्मादिकारणं येषां ते तथा तत्त्वं स्वरूपं न विदन्ति । जानीम इत्य् अभिमानग्रस्ता अन्यानेवाज्ञानिनो वदन्तीति भावः । अहं तु यथार्थवादित्वादपराधी भवाम्येवेति भावः । भवांस्तु न ब्रह्मादीनां न मद्विधानां किं तु प्रणतानां नम्रस्वभावानामकिंचनानां बन्धुर्हितकरस्तदपि प्रसीदतु मदपराधं क्षाम्यतु । वसन्ततिलका वृत्तम् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नात्माश्रितम् इति पुण्यारण्यः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मादय इति श्री-रुद्रे कटाक्षः । तमसि स्वपन्त इति तेऽप्य् अविद्या-ग्रस्ता एव आत्मानुश्रितं स्व-प्रकाशं तव तत्त्वम् अधुनापि न विदन्ति, जानीम इत्य् अभिमान-ग्रस्तान्यान् एवाज्ञानिनो वदन्तीति भावः । प्रसीदत्व् इति अहं त्व् अपराधी यथार्थ-वादित्वाद् भवाम्य् एवेति भावः । भवांस् तु न ब्रह्मादीनां नापि मद्-विधानां किन्तु प्रणतानां नम्र-स्वभावानाम् अकिञ्चनानां बन्धुः । तद् अपि प्रसीदतु मद्-अपराधम् इमं क्षमतु ॥३०॥


॥ ४.७.३१ ॥

ब्रह्मोवाच—

नैतत् स्वरूपं भवतोऽसौ पदार्थ-

भेद-ग्रहैः पुरुषो यावद् ईक्षेत् ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो

मायामयाद् व्यतिरिक्तो मतस् त्वम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अव्यक्तादि-पदार्थानां विशेष-ज्ञानिनाम् अपि तु ।

न देहो वैष्णवो ज्ञेयः आनन्दः प्राकृतो न हि ॥ इति तत्त्व-सारे ।

पदार्थ-भेद-ग्रहः पदार्थ-विशेषज्ञः ।

भेदोऽन्तरं विशेषश् च सूक्ष्मेक्षा चाभिधीयते ॥ इति तत्त्व-निर्णये ॥३२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मादयो न विदन्तीति भृगुणोक्ते तद् असहमानो ब्रह्मा तत्त्व-ज्ञानम् आविष्कुर्वन्न् इवाह—नैतद् इति । पदार्थ-भेद-ग्राहकैर् इन्द्रियैः । गुणस्येन्द्रियस्य । यद् वा, ज्ञानार्थयोः कारणस्य सत्त्वादेः । अत एवासतो माया-मयाद् व्यतिरिक्तो भवान् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावदीक्षेत तावत्सकलमेतद्भवतः स्वरूपं नेत्यन्वयः । यत एतद् दृश्यं ज्ञानार्थेन्द्रियाणां मायामयानामाश्रयो विषयः अर्थोन्तःकरणं त्वं तु तद्रहित इत्य् अर्थः स्वामिसंमतः । विश्वनाथस्तु-पदार्थानां शब्दस्पर्शादीनां भेदग्राहकैरिन्द्रियैस्तवैतत्-स्वरूपं श्रीमूर्तिं यावन्न पश्येत्तावद् एव ज्ञानस्याधिदैवस्यार्थस्याधिभूतस्य गुणस्याध्यात्मत्वस्य चाश्रयः स्यात् । त्वत्-स्वरूपे साक्षाद्दृष्टे सति न ज्ञानादेराश्रयः । किं त्वप्राकृत एव स्याद् यतस्त्वं मायामयादधिदैवादेर्व्यतिरिक्तश्चिद्रूपो न तैर्गृह्यस इत्येतावत्तत्त्वं वयं जानीमोत एते प्राकृतेन्द्रियाः पश्याम इत्य् अभिमानवन्तो\ऽपि तत्-स्वरूपं नैव पश्यन्तीति भृग्वादिषु कटाक्षः । सन्दर्भस्तु-श्रीब्रह्मापि भृगुवाक्यमनुमोदमान एवाह—इन्द्रियैः करणभूतैः पुरुषो यावद्वस्तु जानाति तावति वस्तुनि भवत एतच्छ्रीविग्रहात्मकं स्वरूपं न स्यात्किन्तु तावदतिक्रम्यैव स्यात् यतो वाचो निवर्त्तन्ते इत्य्-आदिश्रुतेः । तर्हि किं लक्षणं तत्राह—ज्ञानस्येति । तदेतद्विग्रहलक्षणत्वम् एवाश्रयः नातः परं परम यद्भवतः स्वरूपम् इत्याद्युक्तेः । तस्मात्कृपया स्वयम् एव प्रकाशत इति भावः । व्यतिरिक्तोमतस्त्वम् इति चित्सुखसंमतः पाठः । तत्र व्यतिरिक्तश्चासावोमोङ्कारश्चेति व्यतिरिक्तोम् अतस्त्वम् इति च्छेदः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-ब्रह्मापि भृगु-वाक्यम् अनुमोदमान एवाह—नैतद् इति । इन्द्रियैः करण-भूतैः पुरुषो यावद् वस्तु जानाति तावति वस्तुनि भवत एतत् श्री-विग्रहात्मकं स्वरूपं न स्यात् । किन्तु तावद् अतिक्रम्यैव स्याद् इत्य् अर्थः । तर्हि किं-लक्षणम् ? तत्राह—ज्ञानस्येति । तद् एव तद्-विग्रह-लक्षणस् त्वम् एवाश्रयः । नातः परं परमं यद् भवतः स्वरूपम् इत्य्-आदेः तस्मात् कृपया स्वयम् एव प्रकाशत इति भावः । व्यतिरिक्तो मतस् त्वम् इति चित्सुख-पाठान्तरम् । व्यतिरिक्तश् चासौ ओङ्कारश् चेति ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदार्थ-भेद-ग्रहैर् विषय-ग्राहकैर् इन्द्रियैस् तव एतत्-स्वरूपं श्री-मूर्तिं यावन् न पश्येत् तावद् एव ज्ञानस्याधिदैवस्यथार्थस्याधिभूतस्य गुणस्याध्यात्मस्य चाश्रयः स्यात् । तत्-स्वरूपे साक्षाद्-दृष्टे सति न ज्ञानाद् एवाश्रयः । किन्त्व् अप्राकृत एव स्यात्, यतस् त्वं माया-मयाद् असतोऽधिदैवादेर् व्यतिरिक्तश् चिद्-रूपो न तैर् गृह्यसे इत्य् एतावत् तत्त्वं तु वयं जानीमोऽत एते प्राकृतेन्द्रियाः पश्याम इत्य् अभिमानवन्तोऽपि तत्-स्वरूपं नैव पश्यन्तीति भृग्व्-आदिषु कटाक्षः ॥३१॥


॥ ४.७.३२ ॥

इन्द्र उवाच—

इदम् अप्य् अच्युत विश्व-भावनं

वपुर् आनन्द-करं मनो-दृशाम् ।

सुर-विद्विट्-क्षपणैर् उदायुधैर्

भुज-दण्डैर् उपपन्नम् अष्टभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रस् त्व् इन्द्रिय-विषयः सर्वोऽपि मिथ्येति ब्रह्मणोक्तम् असहमान आह । इदं तव वपुर् अप्य् उपपन्नम् एव नतु प्रपञ्चवद् अनिर्वचनीय-तयानुपपन्नम् । सुराणां विद्विषः क्षपयन्तीति तथा तैर् भुज-दण्डैर् उपलक्षितम् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे अच्युतेति । ते सर्वाणि रूपाणि च्युतिवर्जितान्येवेत्याह—इदमष्टभुजं वपुः शुभाकारं तनुः शुभाकारे तनौ वपुः इति यादवः । विश्वं भावयति भाववन्तं करोतीति तथा । अस्मदाद्यानंदान्यथानुपपत्तिरेवात्र प्रमाणम् इति ब्रह्मणि कटाक्षः । उपजातिरिदं छंदः सहजासीधुच्छंदसोर्लक्षणवत्त्वात् आद्यपादे तु सहजा ससजं गुरुयदा इति लक्षणमन्येषु सीधुरस्ति इह सीधुः सभरा लगौ यदि इति लक्षणात् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रायोऽसौ चतुर्भुज एवाविर्भवति सम्प्रति त्व् अष्ट-भुज इति साश्चर्यम् इन्द्र उवाच । इदम् अपीति । न केवलम् आनन्द-करं भुज-बाहुल्येनासुर-क्षपणाऽतिशयाद् युक्तेश् च ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं तव वपुर् विश्वम् अपि कृपया भाववन्तं करोतीति तत् । सुर-विद्विट्-क्षपणैर् दुष्ट-संहारकैर् इत्य् अष्ट-भुजम् इदं ते वपुर् अस्माभिः प्राकृतेन्द्रियैर् अप्य् अनिर्वच्यया त्वत्-कृपया दृष्टम् एव आनन्द-करम् इत्य् अस्मद्-आद्य्-आनन्दान्यथानुपपत्तिर् एवात्र प्रमाणम् इति ब्रह्मणि कटाक्षः ॥३२॥


॥ ४.७.३३ ॥

पत्न्य ऊचुः—

यज्ञोऽयं तव यजनाय केन सृष्टो

विध्वस्तः पशुपतिनाद्य दक्ष-कोपात् ।

तं नस् त्वं शव-शय-नाभ-शान्त-मेधं

यज्ञात्मन् नलिन-रुचा दृशा पुनीहि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋत्विजां पत्न्यः स्तुवन्ति । यज्ञोऽयं तव यजनाय त्वां यष्टुम् । केन ब्रह्मणा पूर्वं सृष्टः । हे यज्ञात्मन् ! तं नो यज्ञं नलिन-कान्त्या दृशा नेत्रेण पुनीहि पवित्रं कुरु । कथं-भूतं यज्ञम् ? शवाः शेरते यस्मिन्न् इति शव-शयनं श्मशानं तद्वद् आभा प्रतीतिर् यस्य स चासौ शान्त-मेधश् चोपरतोत्सवः । मेध-शब्देन पशु-हिंसाद्य्-उत्सवो लक्ष्यते । शवम् उदकं तत्र शेते इति तथा पद्मं तन्-नाभेति संबोधनं वा ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तरायितस्य कर्मणः पूर्णफलवत्त्वसिद्धिः श्रीनारायणकटाक्षेणैवेत्यभिप्रेत्य पत्न्यः स्तुवन्ति यज्ञात्मन्नित्यस्य यज्ञो वै विष्णुः इति श्रुतेर्यज्ञस्य तव रूपत्वादेतदपूर्तौ त्वद्-अङ्गवैकल्यम् एव स्यात्तच्च नोचितमतोस्य पूर्तिम् एव संपादयेत्यभिप्रायः । शवशयनादिनाशुचितां प्राप्तस्य शोधनं त्वत्कृपादृष्ट्यैव नान्यथेति भावः । यत्र त्वद्-आगमनं नास्ति तत्र तु तव नामोच्चारणाद्येव वैकल्यमपाकरोति ।

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।

सर्वं करोति निश्छिद्रं नामसङ्कीर्तनं तव ॥ इति वक्ष्यमाणत्वात् ।

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।

न्यूनं संपूर्णतां याति तं ध्यायेदच्युतं सदा ॥ इति पुराणान्तराच् च ।

साक्षाद् अत्र तवागमने यद्यपि यज्ञपूर्तौ संशयो नास्ति तथाप्यत्युदारात्त्वत्तः किञ्चित्प्रार्थनमुचितम् एवास्माकं स्त्रीस्वभावत्वाद्वेति मत्वाहुः पुनीहीति । यद् वा, शयनाभेति सर्वादिकारणस्य तवैवैतदपि संपाद्यमित्य् अभिप्रायेणाहुः । शवमित्युदकपर्यायत्वेन वैदिकनिघण्टौ प्रसिद्धं मेदिन्यामप्युक्तं शवः स्यात्कुणपे पुमान् । नपुंसकं तु पानीये इति हिंसार्थकत्वान्मेधृधातोः तव सन्निधानं विना सप्रयत्नैरप्येतैर्न किञ्चित्सिध्यतीत्यवगतमस्माभिर् इति सर्वेषु कटाक्षः । प्रहर्षिणीवृत्तं त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् इति लक्षणात् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यज्ञपत्न्यस् तु तत्-कृपा-दृष्ट्यार्द्रित-चित्ताः दुःखं निवेदयन्ति—यज्ञ इति ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केन ब्रह्मणा ? शव-शब्दस्योदक-वाचित्वात् शव-शयनं कमलं तन्-नाभ, शान्त-मेधम् उपरत-पशु-हिंसोत्सवं दृशा पुनीहीति त्वत्-सन्निधानं विना वर्तमानैः स-प्रयत्नैर् अप्य् एते किम् अपि न सिध्यतीत्य् अवगतम् इति सर्वेष्व् एव कटाक्षः ॥३३॥


॥ ४.७.३४ ॥

ऋषय ऊचुः—

अनन्वितं ते भगवन् विचेष्टितं

यद् आत्मना चरसि हि कर्म नाज्यसे ।

विभूतये यत उपसेदुर् ईश्वरीं

न मन्यते स्वयम् अनुवर्ततीं भवान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ईश्वरांस् तु ॥३३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋषयस् तु कर्माण्य् अनुतिष्ठन्तस् तत् पुण्येन तत् फलेन च युज्यन्ते भगवति तु तद् अभावम् आलक्ष्य विस्मिताः स्तुवन्ति । अनन्वितम् अघटमानं यद् यस्माद् आत्मना स्वयं कर्माचरस्य् अनुतिष्ठसि, न त्व् अज्यसे लिप्यसे । यतश् चान्ये विभूतये संपदे ईश्वरीं लक्ष्मीम् उपसेदुर् भेजुः । यद् वा, यत इति सार्व-विभक्तिकस्तसिः । याम् इत्य् अर्थः । भवांस् तु स्वयम् एवानुवर्तमानां तां न मन्यते नाद्रियते ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवन्नित्यतर्क्यैश्वर्यम् आह—कर्मकारिणस्त्वन्ये सर्वे लिप्यन्त एवेति ब्रह्मादिषु कटाक्षः । लक्ष्मीरप्यप्राप्तप्राप्तये भजतीति न जानामि किं कर्तुर्धर्मवज्जालस्यन्दनवद्भक्तिकरणमस्याः स्वभाव एवेति जानामीत्य् अर्थः । रुचिरावृत्तम् जभौ सभौ गुरु रुचिरा चतुर्ग्रहैः इति तल्लक्षणात् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ईश्वरीं जगल्-लक्ष्मीम्, अनुवर्तनीम् इति चित्सुखः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्वितम् अघटमानं यद् यस्माद् आत्मना स्वयं कर्माचरसि अनुतिष्ठसि, अथ च नाज्यसे न लिप्यसे कर्म-कारिणस् त्व् अन्ये सर्वे लिप्यन्त एवेति ब्रह्मादिषु कटाक्षः । यतश् च अन्ये विभूतये सम्पदे ईश्वरीं लक्ष्मीम् उपसेदुः भेजुः । यद् वा, यत इति सार्वविभक्तिकस् तसिः, याम् इत्य् अर्थः । भवांस् तु स्वयम् एवानुवर्तमानां तां न मन्यते नाद्रियते ॥३४॥


॥ ४.७.३५ ॥

सिद्धा ऊचुः—

अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां

मनो-वारणः क्लेश-दावाग्नि-दग्धः ।

तृषार्तोऽवगाढो न सस्मार दावं

न निष्क्रामति ब्रह्म-सम्पन्नवन् नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धास् तु तत् कथा-सुखम् अभिनन्दन्तः स्तुवन्ति--अयं नो मनो-गजस् त्वत्-कथैव मृष्टं शुद्धं पीयूषं तन्-मयी या नदी तस्याम् अवगाढः प्रविष्टो दावाग्नि-तुल्यं संसार-तापं न संस्मरति स्म । न च ततो निर्गच्छति । ब्रह्म-संपन्नवद् ब्रह्मैक्यं प्राप्त इव ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सिद्धाः केवलया मुक्त्यैव प्रेमसिद्धिं प्राप्ता इत्य् अर्थः । देवयोनिविशेषा वा किं कर्मकरणाकरणलेपालेपविचारेण भगवतो लीलाकथामृत एव निमज्जतेति ऋषिषु कटाक्षः । भुजङ्ग-प्रयातं वृत्तम् चतुर्भिर् य-कारैर् भुजङ्ग-प्रयातम् इति लक्षणात् ॥३५॥


कैवल्य-दीपिका : सिद्धाः । अयम् इति । मृष्टं निर्मलं मन एव वारणो गजः । क्लेशाः अविद्यादयः पञ्च अवगाढो मग्नः । दाहं प्राग् जातम् । ब्रह्म सम्पन्नवत् समाधिस्थवत् ॥३५॥ [मु।फ। १७.३६]


जीव-गोस्वामी (क्रम-सन्दर्भः) : सिद्धा अत्र आत्मारामाः ते इति चित्सुखः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिद्धा इति केवलया भक्त्यैव प्रेम-सिद्धिं प्राप्ता इत्य् अर्थः । तत्-कथैव मृष्ट-पीयूष-नदी शुद्धामृत-नदी तस्याम् अवगाढः निमग्नः दावं संसार-ज्वालां विस्मृतवान् । अतस् ततो न निष्क्रामति । ब्रह्म-सम्पन्नवत् ब्रह्मैक्यं प्राप्त इवेति किं कर्म करणाकरण-लेपालेपाविचारेण भगवतो लीला-कथामृते निमज्जाम् एति ऋषिषु कटाक्षः ॥३५॥


॥ ४.७.३६ ॥

यजमान्य् उवाच—

स्वागतं ते प्रसीदेश तुभ्यं नमः

श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वाम् ऋतेऽधीश नाङ्गैर् मखः शोभते

शीर्ष-हीनः क-बन्धो यथा पुरुषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यजमानी दक्ष-पत्नी स्तौति—ते स्वागतं भद्रम् आगमनं जातम् । हे अधीश ! यथा शिरसा हीनः कबन्ध-मात्रः पुरुषोऽङ्गैः कर-चरणाद्य्-अवयवैः शोभमानैर् अपि न शोभते तथा त्वां विना केवलं प्रयाजाद्य्-अङ्गैर् मखो न शोभते । अतो नः श्रिया सह त्रायस्व त्वद्-भक्तान् कुर्व् इत्य् अर्थः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दक्षपत्नी प्रसूतिः । ईश श्रीनिवासाधीशेति संबुद्धित्रयेण स्वस्य भगवज्ज्ञाने स्वायंभुवपुत्रीत्त्वेन देवहूतिस्वसृत्त्वेन मातृष्वसृत्वात्तद्वत्तकृपाकटाक्षं बोधयतीति ज्ञेयं, प्रथममीशोक्त्या शिवेति प्रसङ्गस् तद्-वारणायाह—अधीश इति । तथापि ब्रह्मणः सुरज्येष्ठत्वासर्वप्रवर्तकत्वात्तत्र प्रसक्तिवारणाय श्रीनिवासेति । यतः श्रिया सह मद्गृहमागतोस्यतो रुद्रापराधविध्वस्तान्नस्त्राहीति यतो न शोभते\ऽतो हेतोः । इत्य् अर्थ इति । भक्त्यैव साक्षाद्भवस्यतो भक्तिदानेन नो\ऽनुगृहाणेति भावः । त्वामृते इत्य् उक्त्या सर्वदेवेषु कटाक्षः । स्रग्विणीवृत्तं कीर्तितैषा चतूरोफिका स्रग्विणी इति लक्षणात् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यजमाना इति चित्सुखः ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यजमानी दक्ष-पत्नी प्रसूतिः । श्रिया कान्तयेति मयि त्वद्-दास-स्वायम्भुव-मनोः पुत्र्यां देवहूताव् इव तव महती कृपास्तीत्य् अवगतम्, यतः स्वकान्तां श्रियं मद्-गृहमानैषीस् तन् नोऽस्मान् रुद्रापराध-विध्वस्त न त्राहि । त्वाम् ऋत इति ब्रह्मादि-सर्व-देवेषु कटाक्षः ॥३६॥


॥ ४.७.३७ ॥

लोकपाला ऊचुः—

दृष्टः किं नो दृग्भिर् असद्-ग्रहैस् त्वं

प्रत्यग्-द्रष्टा दृश्यते येन विश्वम् ।

माया ह्य् एषा भवदीया हि भूमन्

यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : माया ह्य् एषा भवदीया भगवत्-सामर्थ्यम् एव । भगवन्-महिम्नेवासौ यद्-दृश्या भगवान् स्वयम् इति च ॥३७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : लोक-पालास् त्व् ईश्वरत्वाभिमानारूढा भगवतस् तत्त्वम् अपश्यन्त ऊचुः । दृष्टः किम् ? न दृष्ट इत्य् अर्थः । कुतः ? असद्-ग्रहैः । पुंस्त्वम् आविष्ट-लिङ्गत्वात् । असत्-प्रकाश-रूपाभिर् दृग्भिर् इन्द्रियैः । अयं भावः—शुद्ध-चित्तानां त्वं शुद्ध-सत्त्व-मूर्तिर् भासि । अस्माकं तु बहिर्मुखेन्द्रियाणां पञ्च-भूतोपलक्षितो जीव-विशेष इवावभासि । अतस् त्वम् अस्मद् इन्द्रिय-गोचरो न भवसि । धिग् अस्मज् जीवितम् इति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । भक्त्या विना त्वद्-रूपदर्शनं न संभवति पश्यन्ति ते मे रुचिराण्यंब सन्तो दिव्यानि रूपाणि इत्याद्युक्तेर् इति भावः । स्वयम् एवोक्तार्थाशयम् आह स्वामी । अयं भाव इति । अतोन्यथा प्रतीतेः । चक्रवर्ती असद्ग्रहैर्विषयग्राहिभिरिन्द्रियैस्त्वं किं नो दृष्टो\ऽपि तु दृष्ट एवेत्य् अर्थः । प्रत्यगपि द्रष्टापि त्वं त्वत्कृपयैव दृश्यः स्या इत्य् अर्थः । यतस्त्वं षष्ठः पञ्चभूतातिरिक्तो\ऽपि पञ्चभिर्भूतैर्भौतिकशरीरो भासीत्येषा भवदीया मायैव कृपैव वा । ये तु त्वदीय-श्रीविग्रहस्य भौतिकत्वं मन्यन्ते जरासन्धादिभिरिव दृष्टो\ऽपि त्वं माधुर्यानुपलंभान्नैव दृष्ट इति । भूमन्न् इति व्यापकस्यापि व्याप्यत्वेन प्रतीतिर्विना अनुग्रहं न घटत इति तात्पर्यकम् । शुष्कज्ञानिषु देवेष्वृषिषु च कटाक्षः । शालिनीवृत्तम् मात्तौ गौ चेच्छालिनी वेदलोकैः इति लक्षणात् । सन्दर्भकारस्त्वत्र श्रीविग्रहस्य लोकपालास्तु दृश्यत्वं भौतिकत्वं च निवारयन्ति दृष्टः किन्न इति । किं तु स्वयम् एव प्रकाशस इत्य् अर्थः । तत्र हेतुः षष्ठः पञ्चभूतातिरिक्तो यस्त्वं पञ्चभिर्भूतैः स्वोपाधिभिरे व भासि नात्मनेति यत्सैषा त्वदीया मायैव मायाभिभूतानाम् एव तथा विवेको भवतीत्य् अर्थः । प्रत्यग्दृष्ट्येति चित्सुखः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : लोक-पालास् तु तच्-छ्री-विग्रहस्य दृश्यत्वं भौतिकत्वं च निवारयन्ति—दृष्टं किं न इति । किन्तु स्वयम् एव प्रकाशस इत्य् अर्थः । तत्र हेतुः—षष्ठः पञ्च-भूतातिरिक्तो यस् त्वं स-पञ्चभिर् भूतैः स्वोपाधिभिर् एव भासि नात्मनेति यत् सैषा त्वदीया मायैव । मायाभिभूतानाम् एव तथा विवेको भवतीत्य् अर्थः । प्रत्यग्-दृष्ट्या इति चित्सुखः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असद्-ग्रहैर् विषय-ग्राहिणीभिर् इन्द्रियैस् त्वं किं नो दृष्टः ? अपि तु दृष्ट इत्य् अर्थः । असद्-ग्रहैर् इति पुंस्त्वम् अजहल्-लिङ्गत्वात् प्रत्यग् अपि द्रष्टासि । त्वं त्वत्-कृपयैव दृश्यः स्याः इत्य् अर्थः । यतस् त्वं षष्ठः पञ्च-भूतातिरिक्तोऽपि पञ्चभिर् भूतैर् भौतिक-शरीरो भासीत्य् एषा भवदीया मायैवेति । त्वदीय-श्री-विग्रहस्य भौतिकत्वं ये मन्यन्ते तैर् जरासन्धादिभिर् इव दृष्टोऽपि त्वं माधुर्यानुपलम्भात् नैव दृष्ट इति शुष्क-ज्ञानिषु ऋषिषु देवेषु च कटाक्षः ॥३७॥


॥ ४.७.३८ ॥

योगेश्वरा ऊचुः—

प्रेयान् न तेऽन्योऽस्त्य् अमुतस् त्वयि प्रभो

विश्वात्मनीक्षेन् न पृथग् य आत्मनः ।

अथापि भक्त्येश तयोपधावताम्

अनन्य-वृत्त्यानुगृहाण वत्सल ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : न पृथग् य आत्मनः । अन्यथा यो न पश्यति ।

पृथग् ज्ञानं तद् इत्य् आहुर् यत् किञ्चिद् वीक्षतेऽन्यथा ।

ज्ञान-ज्ञेयाविरोधेन न पृथक् वस्तुतो दृशिः ॥

केचिद् भेदं विनिन्दन्ति ह्य् आसुर-ज्ञान-वृत्तयः ।

निराकुर्वन्त्य् अथो मन्दा भेदस्य परमार्थताम् ॥

ये तु तत्त्व-विदो मुख्या भेदं ब्रह्माण्य् अवस्तुनोः ।

परमार्थम् इति ज्ञात्वा नित्यं विष्णुम् उपासते ॥ इति गारुडे ।

हे भूतेश ! तयानन्य-वृत्त्योपधावताम् अस्माकम् अनुग्रहोऽस्त्य् एव, तथापि पुनर् अनुगृहाण ।

यथार्थ-ज्ञानिनो नान्यः प्रियो विष्णोस् तु कश्चन ।

तथाप्य् अधिक-सन्तुष्ट्यै प्रसीदेत्य् अर्थनं पुनः ॥ इति ॥३८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : योगेश्वरास् तद्-अभेदेन भजताम् अनुग्रह-भाक्त्वं मन्यमानाः स्वामि-भृत्य-भावेन भजताम् अप्य् अनुग्रहं प्रार्थयमानाः स्तुवन्ति द्वाभ्याम्—प्रेयान् इति । विश्वात्मनि पर-ब्रह्मणि त्वयि य आत्मनः पृथक्त्वं नेक्षेत, अमुतोऽमुष्माद् अन्यस् ते प्रेष्ठो नास्ति, आत्मनो जीवान् पृथङ् नेक्षेतेति वा । हे वत्सल ! भक्त-जन-प्रिय ! अनन्य-वृत्त्याऽव्यभिचारिण्या भक्त्या भजतोऽनुगृहाणेत्य् अर्थः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : केवलस्य स्वस्याभेददर्शने\ऽप्य् अन्यजीवानां तथादर्शनेनाद्वैतसिद्धिरत आहात्मनो जीवानिति । जीवेषु स्वस्याप्यागतत्वान्नाद्वैतहानिर् इति भावः । इत्य् अर्थ इति । भक्तवत्सलनामत्वाद् इति भावः। नामैकदेशाच्चारणन्यायेन वत्सलपदेन भक्तवत्सल एव लभ्यते यथा देवविश्वद्रुहो\ऽपि हि इत्येकादशे -स्कन्धे देवपदेन वसुदेवग्रहः । यद्यपि ज्ञानिनस्ते प्रेयान्नान्यः प्रियो हि ज्ञानिनो\ऽत्यर्थमहं स च मम प्रियः इति त्वद्-उक्तेस्तथापि तदपि भृत्येशतयाहं ते भृत्यस्त्वं म ईश इति भावेनोपधावतां भजतां भक्त्या अनन्यवृत्तिवर्तनमनुवृत्तिस्तयैव तद्दानेनैवास्माननुगृहाण । निकृष्टा वयं त्वद्-अभेदभावं प्राप्तुं कथं शक्नुम इति द्योतितया व्याजस्तुत्या दासा एव तवातिप्रिया इति ज्ञानिषु कटाक्षस्तद् उक्तं त्वयैव—

न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ इति

नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना इति तत्र लिङ्गं वत्सलेति । त्वं भक्तवत्सल इति सर्वत्र श्रूयसे न ज्ञानिवत्सल इति । सन्दर्भकारस्तु-प्रस्तुतत्वादस्मान् ज्ञानिभक्तानप्यनुगृहाणेति लभ्यत इत्य् आह । वीरासिका स्यात्तयुगं यदा यरौ इति लक्षणवत्त्वाद्वीरासिकावृत्तम् । भृत्येशतया इति पाठो\ऽपि व्याख्यातः । भक्त्येश इति पाठे ईशेति संबुद्धिरनुग्रहे सामर्थ्यबोधिका । भक्त्येश तवोपधावताम् इति पाठे तवेति द्वितीयार्थे षष्ठी । अत्र विश्वनाथः—ननु परब्रह्मणो मम मायाशाबल्य एव साकारत्वं तस्मिंश् च सति भृत्येशभावस् तत्र च सति भक्तवात्सल्यम् इति केचिद्व्याचक्षते सत्यं ते भ्रान्ता एवेत्याहुः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रेयान् इति । अयम् अर्थः—यस् त्वयि विश्वात्मनि आत्मनो जीवान् ईक्षेत त्वच्-छक्तित्वात् त्वद्-अनन्यत्वेनैव जानाति, न तु पृथक् स्वतन्त्रत्वेनेक्षेत अमुतः अमुष्मात् यद्यपि ते प्रेयान् नास्ति । वत्सल! हे भृत्य-प्रिय! भृत्येश-भावेन ये भजन्ति तेषां या अनन्या वृत्तिः अव्यभिचारिणी निज-भक्तिस् तया एव एव अनुग्ऋहाण । प्रस्तुतत्वेनास्मान् ज्ञानि-भक्तान् इति लभ्यत इति ॥३८॥ (भक्ति-सन्दर्भ ०१)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वयि विश्वात्मनि आत्मनो जीवान् यः पृथङ् नेक्षेत त्वच्-छक्तित्वात् तद्-अनन्यत्वेनैव जानाति, अमुतः अमुष्मात् यद्यपि ते प्रेयान् अन्यो नास्ति**,**प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१५] इति त्वद्-उक्तेः, तथापि तद् अपि भृत्येश ! तया अहं ते भृत्यस् त्वं मे ईश इति भेदेन दास-प्रभु-भेद-भावेन उपाधावतां सेवमानानां या अनन्य-वृत्तिः अनन्य-भक्त्या अनुवृत्तिस् तयैव तद्-दानेनैवास्मान् अनुगृहाण ।

वयं निकृष्टास् तद्-अभेद-भावं प्राप्तुं कथं शक्नुम इति द्योतितया व्याज-स्तुत्या दासा एव तवातिप्रिया इति ज्ञानिषु कटाक्षः । यद् उक्तं त्वयैव—

न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।

न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [भा।पु। ११.१४.१५] इति ।

नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना [भा।पु। ९.४.६४] इति ।

तत्र लिङ्गं हे वत्सल ! इति त्वं भक्त-वत्सल इति सर्वत्र श्रूयसे, न तु ज्ञानि-वत्सलः ॥३८॥


॥ ४.७.३९ ॥

जगद्-उद्भव-स्थिति-लयेषु दैवतो

भिद्यमान-गुणयात्म-मायया ।

रचितात्म-भेद-मतये स्व-संस्थया

विनिवर्तित-भ्रम-गुणात्मने नमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रकृत्या जडया मिथ्या-ज्ञानं जनयतीश्वरः ।

तस्य भ्रमश् च सत्त्वाद्या न सन्ति परमेशितुः ॥ इति च ॥३९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्यभिचारिणी भक्तिः कथं स्याद् भजनीयानां बहुत्वाद् इत्य् आशङ्क्याहुः । जगत उद्भवादिषु निमित्तेषु दैवतो जीवादृष्टाद् बहुधा भिद्यमाना गुणा यास्यास् तया स्व-माययात्मनि स्वरूपे रचिता ब्र्ह्मादि-भेद-मतिर् येन तस्मै । स्व-संस्थया केवल-स्वरूपावस्थानेन च विनिवर्तितो भेद-भ्रमो गुणाश् च तद् धेतव आत्मनि येन तस्मै ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विनिवर्तितो भेद-रूपो गुणात्मा गुणबुद्धिर्यत्र तस्मै । आत्मा यत्नो धृतिर्बुद्धिः इत्य् अमरः । सन्दर्भस्तु-ननु योगेश्वरत्वाभिमाने सति भृत्येशत्वाद्यभिमानः कुतः स्यात्तत्राह—सर्वो\ऽप्य् अन्योभिमानस्तन्मायागुणभेदभ्रमेणैव जीवेषु रचितस्ततः स्वस्फूर्त्या तस्मिन्निवर्तिते त्वत्प्रसादात्सो\ऽपि स्याद् इत्याहुर्जगद् इति । आत्मनां जीवानां भेदमतिर्नानाभिमानः । यद् वा, हे निवर्तितभ्रम ज्ञानानन्दादिकल्याणगुणवते नमः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु योगेश्वरत्वाद्य्-अभिमाने सति भृत्यत्वाद्य्-अभिमानः कुतः स्यात् ? उच्यते—सर्वोऽप्य् अन्योऽभिमानस् त्वन्-माया-गुण-भेद-भ्रमेणैव जीवेषु रचितः । ततः स्व-स्फूर्त्या तस्मिन् निवर्तिते त्वत्-प्रसादात् सोऽपि स्याद् इत्य् आहुः—जगद् इति । आत्मनां जीवानां भेद-मतिर् नानाऽभिमानः ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु पर-ब्रह्मणो मम माया-शावल्य एव साकारत्वं तस्मिंश् च सति भृत्येश-भावस् तत्र च सति भक्त-वात्सल्यम् इति केचिद् व्याचक्षते । सत्यं, ते भ्रान्ता एवेत्य् आहुः—जगद् इति । दैवतो जीवादृष्टात् बहुधा भिद्यमाना गुणा यस्यास् तया स्व-मायया रचिता आत्मनि स्व-स्वरूपे सृष्ट्य्-आद्य्-अर्थं ब्रह्मादि-भेद-मतिर् येन तस्मै, स्व-संस्थया स्वरूपावस्थानेन तु विनिवर्तितो भ्रम-रूपो गुणात्मा गुण-बुद्धिर् यत्र तस्मै । आत्मा यत्नो धृतिर् बुद्धिर् इत्य् अमरः ॥३९॥


॥ ४.७.४० ॥

ब्रह्मोवाच—

नमस् ते श्रित-सत्त्वाय धर्मादीनां च सूतये ।

निर्गुणाय च यत्-काष्ठां नाहं वेदापरेऽपि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शब्द-ब्रह्म स्तौति—नमस् त इति । श्रितं स्वीकृतं सत्त्वं येनातो धर्मादि-फल-प्रसवित्रे । ननु सत्त्व-गुणत्वं निर्गुणत्वं चैकस्य कथम् इत्य् आशङ्क्याह । यस्य काष्ठां तत्त्वं नाहं वेद्मि, अपरे ब्रह्मादयश् च विदुस् तस्मै ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शब्दब्रह्म तत्रत्योपयोगी कर्मप्रतिपादको वेदः । वेदस्तत्त्वं तपो ब्रह्म इत्य् अमरः । अतः स्वीकृतसत्त्वत्वात् । धर्मादीहादिना ज्ञानवैराग्यैश्वर्यग्रहः । एकस्य सत्त्वगुणत्वनिर्गुणत्वमाक्षिपति-नन्व् इति । अपरे ज्ञानप्रतिपादका वेदाश् च न विदुः किमुतैते । एतेन स कर्मज्ञानिषु कटाक्षः काष्ठोत्कर्षे सीम्नि दिशि याथार्थ्यपि च कथ्यते इति यादवः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शब्द-ब्रह्मोवाचेति अत्रायं विरिञ्चिः पूर्वत्र तु यज्ञाधिकारीति वा । पक्षे चात्र पूर्वं ब्रह्माऽपेक्षया यद् इन्द्रस्य ज्ञानाधिक्यं स्वामिभिर् दर्शितम् । तद् अपि युक्तम् एव मन्तव्यम् ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मोवाचेति । तत्रत्योपयोगी कर्म-प्रतिपादको वेदः, वेदस् तत्त्वं तपो ब्रह्म इत्य् अमरः । श्रितं सत्त्वंसत्त्व-गुणोऽयं धर्म-ज्ञान-वैराग्य-ऐश्वर्याणां सूतये उत्पत्त्यै काष्ठां तत्त्वम् अपरेऽपि ज्ञान-प्रतिपादका वेदाश् च न विदुः । किम् उतैते इति कर्मिषु ज्ञानिषु च कटाक्षः ॥४०॥


॥ ४.७.४१ ॥

अग्निर् उवाच—

यत्-तेजसाहं सुसमिद्ध-तेजा

हव्यं वहे स्वध्वर आज्य-सिक्तम् ।

तं यज्ञियं पञ्च-विधं च पञ्चभिः

स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यज्ञो यज्ञ-पुमांश् चैव यज्ञेशो यज्ञ-भावनः ।

यज्ञ-भुक् चेति पञ्चात्मा यज्ञेष्व् इज्यो हरिः स्वयम् ॥

आश्रावयन्त श्रौषड् यजाथो ये यजामहे ।

वषात्-कारास्तिकैर् नित्यं यजुर्भिः पञ्चभिर् विभुः ॥ इति तन्त्र-सारे ॥४१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्निस् तु यज्ञ-मूर्तिं प्रणमति । यस्य तेजसा सुष्ठु समिद्धं प्रदीप्तं तेजो यस्य सोऽहं प्रशस्तेऽध्वरे हविर् वहामि । तं यज्ञियं यज्ञाय हितं पालकम् । यज्ञं यज्ञ-मूर्तिम् । पञ्च-विधत्वम् ऐतरेयके उक्तम्—स एष यज्ञः पञ्च-विधोऽग्नि-होत्रं दर्श-पूर्ण-मासौ चातुर्-मास्यानि पशुः शोभः इति । पञ्चभिर् यजुर्भिर् यज्ञ-मन्त्रैः स्विष्टं सुपूजितम् । तथा च श्रुतिः—आश्रावयेति चतुर्-अक्षरं, अस्तु श्रौषड् इति चतुर्-अक्षरं, यजेति द्व्य्-अक्षरं ये यजामह इति पञ्चाक्षरं, द्व्य्-अक्षरो वषट्-कारः । स्मृतिश् च—

चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिर् एव च ।

हूयते च पुनर् द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ इति ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यज्ञकुण्डस्थोग्निराह—केवलं हविर्वहामि न तु तव तत्त्वं जानामि । जानीम इति ज्ञानाभिमानिषु याज्ञिकेषु कटाक्षः स एष इत्य्-आदिश्रुतिः स्पष्टार्था । तथा चेत्युक्तावपि तथा स्मृतेश् च चतुर्भिरित्य्-आदिपदं वर्णसङ्ख्यापरं स यज्ञ-रूपः । उपजातिश्छन्दः । इन्द्रवज्रेन्दुवंशयोः पादवत्त्वात् तृतीयपादे इन्दुवंशा स्याद् इदुवंशा तयुगं यदा जरौ इति लक्षणात् । अपरेषु त्विन्द्रवज्रा स्याद् इन्द्रवज्रा यदि तौ जगौ गः इति लक्षणात् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञ-कुण्ड-स्थोऽग्निर् आह—यत् तेजसेति । स्वध्वरे प्रशस्त-यज्ञे हव्यं हविर् वहामि केवलं, न तु तव तत्त्वं जानामीति ज्ञानाभिमानि-याज्ञिकेषु कटाक्षः । तं यज्ञियं यज्ञाय हितं, पञ्च-विधत्वम् ऐतरेयके उक्तम्—स एव यज्ञः । पञ्च-विधोऽग्निहोत्रं दर्श-पूर्णमासौ चातुर्-मास्यानि पशुः शोभः इति । पञ्चभिर् यजुर्भिर् मन्त्रैः स्विष्टम् । तथा च श्रुतिः—आश्रावयेति चतुर्-अक्षरं, अस्तु श्रौषड् इति चतुर्-अक्षरं, यजेति द्व्य्-अक्षरं ये यजामह इति पञ्चाक्षरं, द्व्य्-अक्षरो वषट्-कारः इति । स्मृतिश् च—

चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिर् एव च ।

हूयते च पुनर् द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ इति ।

यज्ञं यज्ञ-मूर्तिम् ॥४१॥


॥ ४.७.४२ ॥

पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं

त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने ।

पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्म-पदविः

स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवास् तु सत्यं वयम् अपि देवास् तथापि जगद्-आद्य्-अन्तयोस् त्वम् एव नान्यः कश्चिद् इत्य् आहुः—पुरेति । कल्पापाये प्रलये विकृतं कार्य-जातम् उदरीकृत्य संहृत्य त्वम् एव आद्यः पुमान् उरगेन्द्र एवाधिकं शयनं शय्या तस्मिन् शेषे शयनं करोषि । सिद्धैर् जन-लोकादि-वासिभिर् विमृशिता विचिन्तिताअध्य्आत्म-पदवी ज्ञान-मार्गो यस्य स एव त्वं य इदानीम् अक्ष्णोः पथि चरसि प्रत्यक्षो\ऽसि । अवसि रक्षसि ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वत्पालितैर्भृत्यैरे व त्वं दृश्यसे नान्यैर् इति याज्ञिककर्मवत्सु ज्ञानिषु च कटाक्षः । रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी इति लक्षणवत्त्वाच्छिखरिणीवृत्तम् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-कृतं स्व-सृष्टं विकृतं कार्य-जातम् उदरीकृत्य उदरस्थीकृत्य, विमृशिता अध्यात्म-पदवी ज्ञान-मार्गो यस्य सः । भृत्यान् अवसि पालयसीति पथि चरसीत्य् आभ्याम् द्वाभ्याम् त्वत्-पालितैर् भृत्यैर् एव त्वं दृश्यते ज्ञायसे नान्यैर् इति याज्ञिक-कर्मिषु ज्ञानिषु च कटाक्षः ॥४२॥


॥ ४.७.४३ ॥

गन्धर्वा ऊचुः—

अंशांशास् ते देव मरीच्य्-आदय एते

ब्रह्मेन्द्राद्या देव-गणा रुद्र-पुरोगाः ।

क्रीडा-भाण्डं विश्वम् इदं यस्य विभूमन्

तस्मै नित्यं नाथ नमस् ते करवाम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गन्धर्वाप्सरसस् तु वयं भिया केवलं सर्वान् अपि परमेश्वरत्वेन उपश्लोकयामस् त्वम् एव तु परमेश्वरोऽन्ये तु त्वद्-अंशा एवेत्य् आहुः—अंशांशा इति । हे विभूमन् महत्तम ! क्रीडा-भाण्डं क्रीदोपकरणं विश्वं ब्रह्माण्डं यस्य तस्मै ते नमनं कुर्मः ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे देव सर्वेषु देदीप्यमान, अत एव विभूमन्सर्वेश्वर मरीच्यादयो\ऽशांशा अंशो ब्रह्मा तदंशा ब्रह्माद्या अंशा एव । यद् वा, ब्रह्मापि त्वन्नाभिकञ्जोद्भूतत्वादंशांश एव । रुद्राद्या अपि ब्रह्मोद्भुतत्वादंशांशा एव त्वद्-अंशत्वात्तेषां वस्तुतत्वाम् एव स्तुवीमः । ते तु खल्वीश्वराभिमानिन एव, न त्वीश्वरा इति ब्रह्मादिषु कटाक्षः । मत्तमयूरं वृत्तम् वेदै रन्ध्रैर्तौ यसगा मत्तमयूरम् इति लक्षणात् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुभ्यम् एव नित्यं नमः करवामेति वयं यस्य सभां प्रविशामस् तम् एव परमेश्वरत्वेन स्तुवाना अपि तेषां त्वद्-अंशांशत्वात् त्वाम् एव वस्तुतः स्तुवामेति ते खल्व् ईश्वराभिमानिन एव न त्व् ईश्वरा इति ब्रह्मादिषु कटाक्षः ॥४३॥


॥ ४.७.४४ ॥

विद्याधरा ऊचुः—

त्वन्-माययार्थम् अभिपद्य कलेवरेऽस्मिन्

कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः ।

क्षिप्तोऽप्य् असद्-विषय-लालस आत्म-मोहं

युष्मत्-कथामृत-निषेवक उद्व्युदस्येत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्याधरास् तु केवलं विद्याभिः संपदः प्राप्यन्ते अहङ्कारादि-व्यामोह-निवृत्तिस् तु त्वत्-कथा-श्रवणं विना नास्तीत्य् आहुः । अर्थं पुरुषार्थ-साधनं कलेवरम् अभिपद्य प्राप्य त्वन्-माययास्मिन् ममेत्य् अहम् इति चाभिमानं कृत्वेमम् आत्म-मोहं युष्मत् कथामृत-निषेवक उदुच्चैर् व्युदस्येत् परित्यजेन् नान्यः । ननु स्वैः पुत्रादिभिर् अधिक्षिप्तो दुःखितः सन् परित्यजेद् एव, नेत्य् आहुः । क्षिप्तोऽपि दुर्मतिः । असत्सु विषयेष्व् एव लालसा तृष्णा यस्य सः ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति-नन्व् इति । अत्र शुष्कज्ञानिषु कटाक्षः । वसन्ततिलकावृत्तम् ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थं विषयम् अभिपद्य प्राप्य ममाहम् इत्य् अभिमानं च कृत्वा दुर्मतिः स्वैः पुत्रादिभिः क्षिप्तोऽप्य् असद्-विषय-लालस एव इमम् आत्म-मोहं युष्मत्-कथामृत-निषेवकः सन् उच्चैर् व्युदस्येत् परित्यज्येन् नान्य इति शुष्क-ज्ञानिषु कटाक्षः ॥४४॥


॥ ४.७.४५ ॥

ब्राह्मणा ऊचुः—

त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं

त्वं हि मन्त्रः समिद्-दर्भ-पात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता

अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सर्व-शब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः ।

न तु सर्व-स्वरूपत्वात् सर्व-भिन्नो यतो हरिः ॥ इति मात्स्ये ॥४५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणाः स्तुवन्ति—त्वम् इति त्रिभिः । सदस्याश् च ऋत्विजश् च ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्रग्विणी छन्दोद्वयम् ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदस्याश् च ऋत्विजश् च ते ॥४५॥


॥ ४.७.४६ ॥

त्वं पुरा गां रसाया महा-सूकरो

दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदल् लीलया योगिभिर्

व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गां पृथ्वीं रसाया रसातलाद् दंष्ट्रया व्युज्जहर्थ विशेषेणोद्धृतवान् असि योगिभिः स्तूयमानः । हे त्रयी-गात्र देव-मूर्ते, यज्ञो यागः स-यूपस् तद् विशेषः, क्रतुस् तद् रूपी यज्ञ-सङ्कल्प-रूप इति वा । यज्ञः क्रतुः कर्म यस्येति वा ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रयोगात्रेति । वेदस्य सर्वप्रकाशकत्वेन सर्व-रूपतास्तीति भावः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रयी-गात्र हे वेद-मूर्ते, यज्ञः सयूपः क्रतुर् निर्यूपः ॥४६॥


॥ ४.७.४७ ॥

स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां

दर्शनं ते परिभ्रष्ट-सत्-कर्मणाम् ।

कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते

यज्ञ-विघ्नाः क्षयं यान्ति तस्मै नमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स त्वम् अस्माकं त्वद्-दर्शनम् आकाङ्क्षतां प्रसीद अस्मद्-यज्ञम् अप्य् उद्धरेत्य् अर्थः । न चाशक्यं तवैतत् । यतस् तव नाम्नि कीर्त्यमान एव यज्ञ-विघ्नाः क्षयं यान्ति । एवं प्रभावो यस् तस्मै नमः ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कीर्त्यमान एव किं पुनः कीर्तिते किन्तरां तत्साक्षात्सन्निधौ यज्ञविघ्ना रुद्रानुचरा इति तेषु कटाक्षः । अत्र स्तावकानामन्यत्र कटाक्षैर् भगवतो भक्तेश् च प्राय उत्कर्षपोषान्न दोष आख्येयः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाम्नि कीर्त्यमान एव किं पुनः कीर्तिते, किन्तरां तत् साक्षात् सन्निधौ, यज्ञ-विघ्ना रुद्रानुचरा इति तेषु कटाक्षः । अत्र स्तावका-नाम-मात्र-कटाक्षैर् भगवतो भक्तेश् च प्राय उत्कर्ष-पोषाय दोषः आख्येयः ॥४७॥


॥ ४.७.४८ ॥

मैत्रेय उवाच—

इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् ।

कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अनेन प्रकारेण सर्वैः कीर्त्यमाने । हे भद्र विदुर ! सन्निन्ये प्रवर्तयामास ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भद्रेति । भगवद्-भक्तत्वान्मङ्गल-रूप सर्वेषां भद्रचिन्तकत्वाद्वा । भद्रेति । विदुरे लक्षणया भद्रत्वस्थापनेनास्वारस्यं मत्वाह—यद्वेति । भद्ररुद्रो भद्राख्यरुद्रो वीरभद्रस्तेन दूषितम् ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे भद्र ! यद् वा, भद्र-रुद्रेण भद्राख्य-रुद्रेण वीरभद्रेण अभिमर्षितं विदूषितम् । सन्निन्ये प्रवर्तयामास ॥४८॥


॥ ४.७.४९ ॥

भगवान् स्वेन भागेन सर्वात्मा सर्व-भाग-भुक् ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वात्मतया सर्व-भाग-भोक्तापि भगवान् निजानन्द-तृप्तोऽपि स्वेन भागेन त्रिकपाल-पुरोडाशेन प्रीयमाण इव दक्षम् आभाष्य संबोध्य बभाषे ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रीयमाण इदानीं प्रीयमाण इवेति । रुद्रापराधित्वान्न वस्तुतः प्रीत इति भावः । तीर्थस्तु-पूर्वं प्रीयमाण इवेत्युभयार्थाभिप्रायेणेवशब्दः । इवोभयार्थे सादृश्ये इत्य् अभिधानात् । यद् वा, न पुरोडाशमात्रं प्रीतिहेतुः किं तु भक्तिरेवेतीवशब्दोपादानम् । हे अनघेति । निरपराधिनाम् एव प्रीणातीत्यत्र त्वम् एव प्रमाणमित्य् अभिप्रायः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्त्वेनआनन्द-पूर्णोऽपि सर्वात्मत्वेन सर्व-भाग-भुग् अपि स्वेन भागेन प्रीयमाण इवेति रुद्रापराधित्वान् न वस्तुतः प्रीतः । हे अनघेति निरपराधिन्य् एव भगवान् प्रीणातीय् अत्र त्वम् एव प्रमाणम् इति भावः ॥४९॥


॥ ४.७.५० ॥

श्री-भगवान् उवाच—

अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयन्-दृग् अविशेषणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योऽहं जगतः कारणम् आत्मा चेश्वरश् च उपद्रष्टा साक्षी च स्वयं-प्रकाशश् च निरुपाधिश् च, स एव ब्रह्मा शर्वश् चेत्य् अन्वयः ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मा पुनर् अपराधं कार्षोर् इति हितमुपदिशति अविशेषणः । त्रयाणामस्माकं नास्ति विशेष इत्य् अर्थः ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वावतारत्वोपदेशेन ब्रह्म-शिवाव् अप्य् आदरयति—अहम् इति ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा पुनर् अपराधं कार्षीर् इति हितम् उपदिशति—अहम् इति । स्वयं-दृक् स्व-प्रकाशः अविशेषणः त्रयाणाम् अस्माकं नास्ति विशेष इत्य् अर्थः ॥५०॥


॥ ४.७.५१ ॥

आत्म-मायां समाविश्य सोऽहं गुणमयीं द्विज ।

सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? इत्य् अत आह—अहम् एवात्म-मायाम् अधिष्ठाय जगत्-सृष्ट्य्-आदि कुर्वन् स च स च सन् सर्व-शक्तिः क्रियोचितां संज्ञां धारयामि ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु परमेश्वरः खल्वेक एव शास्त्रेपूच्यते त्रित्वं तस्य त्वया कुत उक्तमित्य् अत्राह—क्रियासु सृष्टिस्थितिसंहृतिषूचिताम् । स्रष्टा पालकः संहर्तेत्येवंरूपां ब्रह्मविष्णुरुद्राख्याम् ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु परमेश्वरः खल्व् एक एव । स च भवान् एव शास्त्रेषूच्यते इति, तत्राह—आत्मेति । समाविश्याधिष्ठाय स प्रसिद्धो गुणातीत एक एवाहं क्रियाः सृष्टि-स्थिति-संहृतयस् तासु समुचितां संज्ञां स्रष्टेति पालक इति संहर्तेत्य् आख्याम् ॥५१॥


॥ ४.७.५२ ॥

तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि ।

ब्रह्म-रुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन् केवलेऽद्वितीये समानासमान-जातीय-भेद-रहिते ब्रह्मणि मयि ब्रह्म-रुद्रौ भूतानि च भेदेनाज्ञः पश्यतीत्य् अर्थः ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु ब्रह्मणो हिरण्यगर्भत्वेन जीवत्वाद्रुद्रस्येश्वरत्वे\ऽपि गुणस्पर्शात्कथं तयोस्त्वद्-अभेदस् तत्र कैमुत्यन्यायम् आह—इत्य् अर्थ इति । ब्रह्मरुद्रौ च भूतानि जीवानपि भेदेनाज्ञ एव पश्यति किमुत ब्रह्मरुद्रौ, भूतानां मदीयतटस्थशक्तित्वाब्रह्मरुद्रयोस्तु गुणावतारत्वान्मदभेद एवेति भावः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वस्य तद्-उभयेश्वरत्वेऽपि तद्-आदरार्थं तद्-अनन्यत्व-न्यायेनाभेदम् उपपादयति—भूतानीति । कैमुत्येन दृष्टान्तः ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ब्रह्मणो हिरण्यगर्भत्वेन जीवत्वात् रुद्रस्येश्वरत्वेऽपि गुण-स्पर्शात् कथं तयोस् तद्-अभेदः ? तत्र कैमुत्य-न्यायेनाह—ब्रह्म-रुद्रौ चेति भूतानि जीवान् अपि अज्ञ एव भेदेन पश्यति, न तु विज्ञः, किम् उत ब्रह्म-रुद्रौ भूतानां मदीय-तटस्थ-शक्तित्वात् ब्रह्म-रुद्रयोर् गुणावतारत्वान् मद्-अभेद इत्य् अर्थः ॥५२॥


॥ ४.७.५३ ॥

यथा पुमान् न स्वाङ्गेषु शिरः-पाण्य्-आदिषु क्वचित् ।

पारक्य-बुद्धिं कुरुते एवं भूतेषु मत्-परः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्वांस् तु भेदं न पश्यतीति सदृष्टान् तम् आह—यथेति ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा स्वशिरः पाण्यादिसुखदुःखे तथैव सर्वभूतेष्वपि सुखःदुःखे पश्येद् इत्य् एव भक्तानामभेददर्शनम् इत्य् अर्थः ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रकाशश् च निरुपाधिश् च स एव ब्रह्मा च शर्वश् चेत्य् अन्वयः । शर्वस्य मद्-आत्मकत्वान् मत्-परस् तु भूतेष्व् अपि स्वाङ्गेष्व् इव ममताम् एव करोतीत्य् आह—यथेति ॥५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानि तु मद्-भक्तोऽपि स्वाभेदेन पश्येद् इत्य् आह—स्व-शिरः-पाण्य्-आदिषु । सुख-दुःखे यथा तह्तैव सर्व-भूतेष्व् अपि सुख-दुःखे पश्येद् इत्य् एव भक्तानाम् अभेद-दर्शनम् इत्य् अर्थः ॥५३॥


॥ ४.७.५४ ॥

त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् ।

सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अन्तर्यामि-स्वरूपेण ब्रह्म-रुद्राद्य्-अभिन्नता ।

न तु जीव-स्वरूपेण जीवा भिन्ना यतो हरेः ॥

विशेषाभेद-वचनं सन्निधान-विशेषतः ।

सन्निधानं तु तत् प्रोक्तं सामर्थ्य-व्यञ्जनं हरेः ॥ इति भविष्यत्-पर्वणि ।

हरेर् वशत्व-दृष्टिस् तु भूतानाम् अपृथग्-दृशिः ।

प्रियत्व-दृष्टिर् अथवा ब्रह्मआदीनां विशेषतः ॥ इति गारुडे ।

सर्व-भूतात्मना सर्व-भूतान्तर्यामित्वेन ॥५४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् एवम् ऐक्यं पश्यन् कृतार्थो भवतीत्य् आह—त्रयाणाम् एको भावः स्वरूपं येषाम् ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्रिदेव्यां पृथग्-ईश्वरत्वम् अपश्यन्न् एव कृतार्थो भवतीत्य् आह—त्रयाणाम् एकः पुरुषस्यैव भावः । पार्थिवाद् दारुणो धूमः [भा।पु। १.३.३१] इति न्यायेन यथायथं प्राकट्यं येषु, तेषां सर्व-भूतस्य आत्मनां तत्-तत्-कार्ये प्रवर्तकानाम् ॥५४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभेद-दर्शनस्य फलम् आह—त्रयाणाम् इति ॥५४॥


॥ ४.७.५५ ॥

मैत्रेय उवाच—

एवं भगवतादिष्टः प्रजापति-पतिर् हरिम् ।

अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : उभयतः सोमतो हविषश् च ॥५५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वेन क्रतुना त्रि-कपालेष्ट्या । उभयतोऽङ्गैः प्रधानेन च ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः पारक्यधीरनुचिता तस्माद्धेतोः । त्रिदेव्या ऐक्यमेक-रूपत्वम् । सन्दर्भस्तु-त्रयाणामेकः पुरुषस्यैव भावः पार्थिवाद्दारुणो धूमः इति न्यायेन यथायथं प्राकट्यं येषु तेषां सर्वभूतस्यात्मनां तत्तत्कार्यप्रवर्तकानाम् इत्य् आह । इममर्थं कालिदासो\ऽपि कुमारसंभवे प्राह—तथाहि—

एकैव मूर्तिर्बिभिदे त्रिधासौ सामान्यमेषां प्रथमावरत्वम् ।

विष्णोर्हरस् तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥ इति ।

सो\ऽभेददर्शी शान्तिं मोक्षम् ॥५४-५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजापति-पतिर् दक्ष उभयतोऽङ्गैः प्रधानेन च ॥५५॥


॥ ४.७.५६ ॥

रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः ।

कर्मणोदवसानेन सोमपान् इतरान् अपि ।

उदवस्य सह र्त्विग्भिः सस्नाव् अवभृथं ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वेन भागेन यज्ञावशिष्टेन उदवस्यते समाप्यतेऽनेनेत्य् उदवसानं, तेन कर्मणा । सोमपान् इतरान् अप्य् उपाधावद् इत्य् अनुषङ्गः । ततश् चोदवस्य कर्म समाप्य अवभृथ-रूपं यथा भवति, तथा स्नातवान् ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आग्नेयं पञ्चकपालमुदवसानीयं निर्वपेत् इति श्रुत्युक्तेन पञ्चकपालपुरोडाशनिर्वपनलक्षणेनोदवसानकर्मणा सोमपानिति पाणिनेर् अपि सर्वज्ञेन व्यासेन प्रयुक्तत्वात्क्विप्प्रत्ययः प्रायिक इति ज्ञातव्यम् । अत्र च डप्रत्ययो बोध्यः । ततश् च उदवसानेष्ट्यनन्तरमवभृथं यज्ञान्तस्नानं यथा स्यात्तथा ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उदवस्येत्य् अर्धकम् ॥५६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उदवस्यते समाप्यतेऽनेनेत्य् उदवसानं, तेन । उदवस्य समाप्य अवभृथ-स्नानं चकारेत्य् अर्थः ॥५६॥


॥ ४.७.५७ ॥

तस्मा अप्य् अनुभावेन स्वेनैवावाप्त-राधसे ।

धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वेनैवानुभावेनाप्त-राधसे प्राप्त-सिद्धये तस्मा अपि ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मै दक्षाय । स्वेनैवानुभावेन भगवन्महिम्नैव राध-संसिद्धौ इतो\ऽसुः सिद्धिरत्र यागस्यान्या पुनर् जीवनादिरूपा वा ज्ञेया । ये यज्ञे आगतास्ते इत्य् अर्थः ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मै दक्षाय अवाप्त-राधसे प्राप्त-सिद्धाय ॥५७॥


॥ ४.७.५८ ॥

एवं दाक्षायणी हित्वा सती पूर्व-कलेवरम् ।

जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मेनायां मेनकायाम् ॥५८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मेनायां मेनकायाम् ॥५८॥


॥ ४.७.५९ ॥

तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका ।

अनन्य-भावैक-गतिं शक्तिः सुप्तेव पूरुषम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शक्तित्वाद् विष्णु-शक्तिस् तु शक्ति-शब्देन चोच्यते ।

शक्यत्वात् प्रकृतिश् चपि स्वापः सृष्टिं विना हरौ ।

रतिस् तस्यास्तु कथितो न ह्य् अन्यः स्वाप उच्यते ॥ इति तन्त्र-सारे ॥५९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आवृङ्क्ते भजते स्म । अनन्य-भावानाम् एकैव गतिर् यस् तम् । प्रलय-काले सुप्ता शक्तिर् ईश्वरम् इव ॥५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु पतिव्रतायाः पत्या सहैव मुक्तिश्रवणाक्षात्मजया सत्या पत्यौ जीवति निजदेहत्यागो\ऽनुचितः कृत इति चेन्न, सा मुक्तिमिता किन्तु तम् एव देहान्तरेणावापेत्याह—तम् एवेति । सुप्ता उपरता शक्तिमार्यारूपा सृष्ट्यारंभे ईश्वरं यथा भजति तथेत्य् अर्थः ॥५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आवृङ्क्ते भजते स्म । न विद्यतेऽन्यस्मिन् भावो यस्याः सा । एकं गति-रूपं प्रलय-काले सुप्ता शक्तिः पुरुषम् ईश्वरम् असुप्तम् इव ॥५९॥


॥ ४.७.६० ॥

एतद् भगवतः शम्भोः कर्म दक्षाध्वर-द्रुहः ।

श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बृहस्पतेः शिष्यान् मया श्रुतम् । परं पवित्रं य आकर्ण्य तथानुकीर्तयेत् । स आत्मनः परस्याप्य् अघं संसार-व्यसनं सर्वदा धुनोति ॥६०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दक्षस्याध्वरं यागं द्रोहितवान्नाशितवानिति दक्षाध्वरध्रुक् तस्य ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृहस्पतेः शिष्याद् उद्धवात् सकाशात् ॥६०॥


॥ ४.७.६१ ॥

इदं पवित्रं परम् ईश-चेष्टितं

यशस्यम् आयुष्यम् अघौघ-मर्षणम् ।

यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्

धुनोत्य् अघं कौरव भक्ति-भावतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यशसे हितं यशस्यम् एवमायुष्यम् । अघानां पातकानामोघं प्रवाहं मृष्यति हिनस्तीति तथा मृषिरत्र हिंसायामनेकार्थत्वात् भक्तिभावेन प्रेम्णा तृतीयार्थे तसिल् । कौरवेति । कुरुवंशोद्भूतत्वेन तव भक्तिभावोस्त्येवेत्यभिप्रायः ॥६१॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे सप्तमो\ऽध्यायः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भावेन इति चित्सुख-पाठान्तरम् ॥६१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्थे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे दक्ष-यज्ञ-सन्धानं नाम सप्तमोऽध्यायः ।

॥२१॥