०६

अथ चतुर्थोऽध्यायः

विषयः

ब्रह्म-सहितानां देवानां कैलासे गमनं रुद्रस्य स्तवनं च ।

॥ ४.६.१ ॥

मैत्रेय उवाच—

अथ देव-गणाः सर्वे रुद्रानीकैः पराजिताः ।

शूल-पट्टिश-निस्त्रिंश- गदा-परिघ-मुद्गरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

षष्ठे तु देव-सङ्घेन सह गत्वा भवं विधिः ।

सान्त्वयाम् आस दक्षादि जीविताद्य् अर्थम् आदरात् ॥

अथ देव-गणाः स्वयंभुवे न्यवेदयन्न् इति द्विटियेनान्वयः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना भृग्वादिग्रहः । द्वितीयादिना श्मश्रुरोहादिग्रहः ॥ अथ दक्षयज्ञनाशानन्तरम् । रुद्रानीकैः शिवसैन्यैः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति युग्मकम् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

कैलास-वर्णनं षष्ठे तत्रत्य-बट-मूलगम् ।

शिवं सह सुरैर् गत्वा स्तुत्वा प्रासादयद् विधिः ॥१॥


॥ ४.६.२ ॥

सञ्छिन्न-भिन्न-सर्वाङ्गाः सर्त्विक्-सभ्या भयाकुलाः ।

स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शूलादिभिः सञ्छिन्नानि त्रुटितानि भिन्नानि विदीर्णान्य् अङ्गानि येषाम् । सह ऋत्विग्भिः सभ्यैश् च वर्तमानाः ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयंभुवे स्वयंभुवमनुकूलयितुम् इत्य् अर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति तुमुनो\ऽप्रयुक्तस्य कर्मणि चतुर्थी, न तु नमोयोगे । उपपदविभक्तेर्बलीयस्त्वाच्छान्दसी वा । एतद्वृत्तं कार्त्स्न्येन सामस्त्येन ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वयंभुवे स्वयम्भुवम् ॥२॥


॥ ४.६.३ ॥

उपलभ्य पुरैवैतद् भगवान् अब्ज-सम्भवः ।

नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : त्रि-मूर्ति-गत-रूपेण नारायणो नाययौ ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कस्य दक्षस्य यज्ञे ब्रह्मा विष्णुश् च नेयतुर् न जग्मतुः । यत्रारुद्रको यज्ञस् तत्र नारायण-विरिञ्चाव् अपि नागतौ ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु अग्नौ वैष्णवं पुरोडाशं निर्वपति प्रजापतेन त्वद्-एतानि इति श्रुतस्तौ कथं नाहूतौ तत्र । किञ्चानाहूताग्रे तत्सन्धानादिप्रार्थनं च कथं युक्तम् इति चेदाहूतावपि तत्र न गतावित्य् आह—उपलभ्य ज्ञात्वा । समष्टिजीवत्वाद् ब्रह्मा परमात्मत्वान्नारायणश् च विश्वात्मेत्युभयोर्विशेषणम् । पुराज्ञाने हेत्वन्तरं च भगवानिति । एतदपि द्वयोर्विशेषणम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : समष्टि-जीवत्वात् ब्रह्मा परमात्मत्वान् नारायणो विश्वात्मा । कस्य नेयतुर् अध्वरम् इति चित्सुखः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपलभ्य सर्वज्ञतया ज्ञात्वा । कस्य दक्षस्य । नेयतुः न जग्मतुः ॥३॥


॥ ४.६.४ ॥

तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।

क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विभुर् ब्रह्मा । तेजीयस्य् अतितेजस्विनि पुरुषे कृतागसि सत्य् अपि स्वयं तत्र कृतागसा बुभूषताम् अपराधं कर्तुम् इच्छतां सा तथा बुभूषा तेषां क्षेमाय न भूयात् । प्रायेणेति लोकोक्तिः । न भवेद् एवेत्य् अर्थः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तेजस्विनि तथा बभूषा कृतागसां तेषां तेजस्विन्यपराधकृतवताम् । इत्यर्थं इति । प्रायेणत्यनेन कस्याचन्महदतिक्रमकर्तुर् अपि क्षेमो भवेद् इति न मन्तव्यम् इति भावः । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः इति श्रीदशमोक्तेः

॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् आकर्ण्येति । बुभूषतां प्राप्तुम् इच्छतां कृतागस्त्वम् इति शेषः । कृतागसाम् इति चित्सुख-पुण्यारण्ययोर् मतः । कृतापराधीभवितुम् इच्छताम् इत्य् अर्थः । यद् वा, तेजीयसि तत्र शिवे बुभूषतां सम्बन्धम् इच्छतां मध्ये कृतागसि तत्र दक्षे सा सती प्रायेण प्राचुर्येण क्षेमाय न भूयात् न भवेद् इत्य् अर्थः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विभुर् ब्रह्मा । तेजीयसि महात्मनि जने कृतागसि कृतम् आगोऽपराधो यस्य तयाभावे सति । क्षेमाय स्व-कल्याणाय बुभूषताम् जिजीविषतां तत्र क्षेमे विषये सा बुभूषा जिजीविषा मा भूयात् न भवतु । श्री-रुद्रे महा-तेजीयस्य् अपराध-विषयी-भूते सति अपराधिनां दक्षादीनां मृत-म्रियमाण-मरिष्यतां स्व-क्षेमाय विषय-भोगाद्य्-अर्थं जिजीविषतां सा जिजीविषा मा भवत्व् इत्य् अर्थः । दक्षादयोऽपराधिनो मिर्यन्तां नाम मा जीवन्तु, जीवित्वा पुनर् अप्य् अपराधं करिष्यतां तेषां जीवनेनालं, मरणम् एव वरम् इति भावः । भवतेः सत्तार्थत्वात् सत्तायाश् च जीवन-रूपत्वात् बुभूषा-जिजीविषयोस् तुल्यथार्थता ज्ञेया । प्राय-ग्रहणं तेषाम् एव मध्ये केषाञ्चिज् जीवित्वा अपराधम् अकरिष्यतां जिजीविषा जीवनं च भूयाद् इत्य् अर्थ-लाभाय ॥४॥


॥ ४.६.५ ॥

अथापि यूयं कृत-किल्बिषा भवं

ये बर्हिषो भाग-भाजं परादुः ।

प्रसादयध्वं परिशुद्ध-चेतसा

क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथापि प्रसादयध्वं क्षमापयत । ये भवन्तो बर्हिषो यज्ञस्य भाग-भाजं परादुर् दूराद् एव खण्डितवन्तः । प्रगृहीताङ्घ्रि-पद्मं पादौ प्रगृह्येत्य् अर्थः॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथापि यदि बुभूषथेत्य् अर्थः । इत्यर्थं इति । पादग्रहणमात्रेणैव स प्रसीदति तदन्तःकरणमहं जानामीति भावः । प्रणिपातप्रतीकारः संरंभो हि महात्मनाम् इत्य् उक्तेः । उष्णत्वमग्न्यातपसंनियोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य इति न्यायात् । बर्हिर्यज्ञकुशाग्निषु इति धरणिः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथापि यदि बुभूषथेत्य् अर्थः । कृत-किल्बिषा यूयं भवं परादुः दूराद् एव खण्डितवन्तः । न च तत्-प्रसादो दुष्कर इति वाच्यम् । प्रगृहीतेति अङ्घ्रि-पद्म-ग्रहण-मात्रेणैव स प्रसीदत्य् एवेति तद्-अन्तः-करणम् अहं जानाम्य् एवेति भावः ॥५॥


॥ ४.६.६ ॥

आशासाना जीवितम् अध्वरस्य

लोकः स-पालः कुपिते न यस्मिन् ।

तम् आशु देवं प्रियया विहीनं

क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अध्वरस्य जीवितं पुनः सन्धानं प्रार्थयमानाः सन्तः । यस्मिन् कुपिते सति स-पालो लोको न भवेन् नश्येद् इत्य् अर्थः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कोपेन सपाललोकस्यापि नाशसंभवादतस्तं तूर्णं प्रसादयध्वं, किं च तत्कोपे केवलं दक्षदुरुक्तिरे व न कारणम् अपि तु प्रियावियोगोपीतीतः शीघ्रं यतध्वम् इति भावः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हृदि विद्धम् इति बहिरङ्ग-दृष्ट्यैवोक्तम् ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्मिन् कुपिते सति स-पाल एव लोको न भवेत्, तं क्षमापयध्वम् । यूयम् अध्वरस्य जीवितं प्रार्थयमानाः ॥६॥


॥ ४.६.७ ॥

नाहं न यज्ञो न च यूयम् अन्ये

ये देह-भाजो मुनयश् च तत्त्वम् ।

विदुः प्रमाणं बल-वीर्ययोर् वा

यस्यात्म-तन्त्रस्य क उपायं विधित्सेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यज्ञ इन्द्रः । यज्ञो यज्ञपतिस् त्व् इन्द्रः पुरुहूतः पुरुष्टुत इत्य् अभिधानम् । तस्यात्म-तन्त्रस्य तस्य विष्णोर् मनो-वशस्य ।

नाहम् इन्द्रो न चैवान्ये यत् तत्त्वं न विदुः परम् ।

तस्य विष्णोर् वशे रुद्रो मम वायोर् अथापि वा ।

नान्यस्य कस्यचित् पुंसस् तस्येत्थं वः कुतः कृतम् ॥ इति ब्रह्म-वैवर्ते ।

मुमुक्षवो ब्रह्मणश् च शिवादीन्द्रादिभिस् तथा ।

श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह ॥ इति कौर्मे ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वयं तु तत्र गन्तुं बिभीमस् त्वम् एव कञ्चिद् उपायं विधत्स्वेति चेद् अत आह—नेति । यज्ञस् तदानीं तन इन्द्रः । यस्य तत्त्वं बल-वीर्ययोः प्रमाणम् इयत्तां च न विदुः । वीर्यं पराक्रमः । पापम् इति पाठेऽपराधम् ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यज्ञा यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुतः इति तीर्थोक्तेर्यज्ञपदमत्र न विष्णुपरं तस्य यः सर्वज्ञः सर्ववित् इति श्रुतेर्व्याकोपात् । तत्त्वं स्वरूपं बलवीर्येत्युपलक्षणं ज्ञानादीनाम् । यद्यपि यज्ञः स्वायंभुवमन्वन्तरेन्द्रः श्रीविष्णोरवतारः यज्ञाधिष्ठातृत्वेन तस्य प्राचीनबर्हिषो राज्ये षष्ठमन्वन्तरे\ऽपि स्थितेर् इति उक्तं स्वामिचरणैस्तदानीन्तन इन्द्र इति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यज्ञः स्वायम्भुव-मन्वन्तरेन्द्रः श्री-विष्णोर् आवेशावतारः यज्ञाधिष्ठातृत्वेन तस्य प्राचीनबर्हि-राज्ये षष्ठ-मन्वन्तरेऽपि स्थितेस् तथोक्तम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वाम् एव वयं प्रपन्ना अतस् त्वम् एव कम् अप्य् उपायं विधत्स्वेति तत्राह—नाहं ब्रह्मापि न यज्ञः इदानीन्तन इन्द्रोऽपि न च यूयं याज्ञिको वेद-विदोऽपि यस्य तत्त्वं बल-वीर्ययोः प्रमाणम् इयत्तां च न विदुः ॥७॥


॥ ४.६.८ ॥

स इत्थम् आदिश्य सुरान् अजस् तु तैः

समन्वितः पितृभिः स-प्रजेशैः ।

ययौ स्व-धिष्ण्यान् निलयं पुर-द्विषः

कैलासम् अद्रि-प्रवरं प्रियं प्रभोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मया सह गमने चैतेषां शिवः क्षिप्रं प्रसेत्स्यतीति महादयालोरजस्य कैलासयात्राम् आह—स इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स इत्थम् इत्य्-आदि-चतुर्दशकम् ॥८॥


॥ ४.६.९ ॥

जन्मौषधि-तपो-मन्त्र- योग-सिद्धैर् नरेतरैः ।

जुष्टं किन्नर-गन्धर्वैर् अप्सरोभिर् वृतं सदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कैलासं वर्णयति—जन्माउषधीत्य्-आदि चतुर्दशभिः । नरेतरैः देवैर् जुष्टम् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जन्मना विशिष्टकुलोत्पत्त्या ओषधिना चित्रकाद्यौषधेन । तपसा कृछ्रचान्द्रायणादिना । मन्त्रेण महामृत्युंजयादिना । महामृत्युंजयमन्त्रश् च मन्त्रमहोदधावुक्तः—महामृत्युंजयं वक्ष्ये दुरितापन्निवारणम् ।

यं प्राप्य भार्गवः शंभोर्मृतान्दैत्यानजीवयत् तारः खं व्यापिनी चन्द्रयुक्ता रश्चतुराननः । अर्वीशबिन्दुसंयुक्तो हंसः सर्गी च भूर्भुवः ।

सकारबालसर्गाढ्यस्त्र्यंबकं वैदिको मनुः ।

भूर्भुवः स्वो भुजङ्गेशस्तारो जूंसर्गवान्भृगुः ॥

आकाशो मनुबिन्द्वाढ्यः प्रणवान्तो मनूत्तमः ॥

तथा हि—

ॐ हौं ॐ जूं सः भूर्भुवः स्वः त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान्मृत्योर्मुक्षीय मामृतात् भूर्भुवः स्वरों जूं सः हौं ॐ ॥

योगेनाष्टाङ्गेन । एतैः सिद्धैर्नरेतरैर्दैवादिभिः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कैलासं वर्णयति—जन्माउषधीत्य्-आदि चतुर्दशभिः । नरेतरैः देवैः ॥९॥


॥ ४.६.१० ॥

नाना-मणिमयैः शृङ्गैर् नाना-धातु-विचित्रितैः ।

नाना-द्रुम-लता-गुल्मैर् नाना-मृग-गणावृतैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शृङ्गै रमणं रति-प्रदम् इत्य् उत्तरेणान्वयः । कथं-भूतैः ? नाना-धातुभिर् विचित्रितैः नाना-द्रुम-लता गुल्माश् च येषु ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मणयो मरकतादयः । धातवो हरितालादयः सुवर्णादयः । मृगाणां चमर्यादीनां गणाः समूहास्तैरावृतैर्वेष्टितैः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शृङ्गाणां पूर्वापरं विशेषण-द्वयं नाना-द्रुमेत्य् अस्य नाना-मृगेति विशेषाणम् ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.६.११ ॥

नानामल-प्रस्रवणैर् नाना-कन्दर-सानुभिः ।

रमणं विहरन्तीनां रमणैः सिद्ध-योषिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाना अमलानि प्रस्रवणानि येषु । नाना कन्दराः सानवश् च येषु । रमणैः सह क्रीडन्तीनाम् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्झरः प्रस्रवोंभसाम् इति हलायुधः । जलस्य नानात्वं मारकतादिस्थलसंपर्कात् । कर्दमराहित्येनामलत्वं न तु शौक्ल्येन तथात्वे नानात्वं, कन्दरा गुहा । सानवो नगोर्ध्वसमभूमागाः । रमणं रतिप्रदम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नानामलेत्य्-आदि द्वयं तु पृथग् पृथग् एव ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रमणैः कान्तैः सह विहरन्तीनां सिद्ध-योषितां रमणं रति-प्रदम् ॥११॥


॥ ४.६.१२ ॥

मयूर-केकाभिरुतं मदान्धालि-विमूर्च्छितम् ।

प्लावितै रक्त-कण्ठानां कूजितैश् च पतत्त्रिणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मयूराणां केकाभिः स्वनैर् नादितम् । मदान्धैर् अलिभिर् विमूर्छितं मूर्छना राग-गति-विशेषस् तद् व्याप्तं कृतम् । रक्त-कण्ठानां कोकिलानां प्लावितैः प्लुतत्वं नीतैः स्वरैः अन्येषां च पतत्त्रिणां कुजितैः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्रमयुक्ताः स्वराः सप्त मूर्च्छना यत्र सा भवेत् । स्वरा निषादादयः । प्लुतत्वमुच्चैस्त्वम् । नीतैः प्रापितैः स्वरैश्चाभिरुतम् । यद् वा, मयूरकेकाभिः रुतं कृतशब्दम् । रलोपे दीर्घाभावो\ऽत्र छन्दोभङ्गभयात् गतो\ऽसौ पुनराजसु इतिवत् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयूराणां केका एव अभितो रुतानि गृहस्थानाम् इवोक्ति-प्रत्युक्ति-कोलाहलो यत्र तं मदान्धानाम् अलीनां गायकानाम् इव मूर्छितानि राग-स्वरालाप-मूर्च्छना, यत्र तं रक्त-कण्ठानां कोकिलानां पतत्रिणाम् अन्येषां च पक्षिणां प्लावितैः प्लुतत्वं नीतैः कुजितैः ॥१२॥


॥ ४.६.१३ ॥

आह्वयन्तम् इवोद्धस्तैर् द्विजान् काम-दुघैर् द्रुमैः ।

व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्धस्तैर् उन्नत-शाखैर् द्रुमैर् द्विजान् पक्षिण आह्वयन्तम् इव । लोके हि हस्तम् उत्क्षिप्योच्चैः स्वरेणाऽऽह्वानम् अर्थिनां कुर्वन्ति । अद्रिश् चोत्क्षिप्त-हस्ताकारैर् द्रुमैस् तत् रत्य्-अपक्षिस्वनैश् च तथा लक्ष्यत इत्य् अर्थः । व्रजद्भिर् मातङ्गैर् व्रजन्तम् इव निर्झर-ध्वनिभिर् गृणन्तं भाषमाणम् इव ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । अत्र कैलासस्य तद्वासस्थानस्याप्यर्थिमनोरथपूरकत्वकथनेन शिवस्य तथात्वं तु कैमुत्यन्यायसिद्धम् इति ध्वनितम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्धस्तैर् उद्गतैर् हस्तैर् इव काम-दुघैर् द्रुमैर् द्विजान् पक्षिणोऽतिथीन् ब्राह्मणान् इव आह्वयन्तम् । व्रजद्भिर् मातङ्गैर् व्रजन्तम् इव गृणद्भिर् निर्झरैर् गृणन्तम् इव मधुरं भाषणम् ॥१३॥


॥ ४.६.१४ ॥

मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् ।

तमालैः शाल-तालैश् च कोविदारासनार्जुनैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्दारैः पुष्पद्रुमैः । पारिभद्रैः । सरलैर्देवदारुभिः । तमालैस्तापिच्छैः । शालैः सर्जैः । तालैस्तृणराजैः । कोविदारैः कांचनारकैः । असनैः प्रियकपुष्पैः । अर्जुनैः ककुभैः ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मण्डारादिभिर् मण्डितम् ॥१४॥


॥ ४.६.१५ ॥

चूतैः कदम्बैर् नीपैश् च नाग-पुन्नाग-चम्पकैः ।

पाटलाशोक-बकुलैः कुन्दैः कुरबकैर् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चूताम्रयोर् नीप-कदम्बयोर् अवान्तर-जाति-भेदः । वेणु-कीचकयोश् च नीरन्ध्र-सरन्ध्रत्वेन भेदः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नागो नागकेसरः । पुन्नागः सुरवल्लभः । कुरबकैस्तिलकैः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चूताम्रयोर् नीप-कदम्बयोर् अप्य् अवान्तर-जाति-भेदः । वेणु-कीचकयोश् च नीरन्ध्र-सरन्ध्रत्वेन ॥१५॥


॥ ४.६.१६ ॥

स्वर्णार्ण-शत-पत्रैश् च वर-रेणुक-जातिभिः ।

कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्णार्णैः स्वर्ण-वर्णैः शत-पत्रैर् मण्डितम् । रेणुक-जातिभिर् इत्य् अत्र रेणुका एला । जातिर् मालती ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरः करवीरः । कुब्जकैः कुङ्कुमतरुभिः । माधवी वासन्ती । अत्र संस्कृताधिकारित्वात्पर्यायान्तरम् एवोक्तमपभ्रंशानां नानत्वात्तैर्बोधनस्याशक्यत्वात् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वर्णार्णेति । अर्णो वर्णः ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रेणुक-जातिभिर् इति रेणुका एला । जातिर् मालती ॥१६॥


॥ ४.६.१७ ॥

पनसोदुम्बराश्वत्थ-प्लक्ष-न्यग्रोध-हिङ्गुभिः ।

भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पनसः प्रकाण्डोद्भूतमहाफलवृक्षविशेषः । उदुंबरो जन्तुफलः । अश्वत्थश्चलदलः । प्लक्षः पर्कटी । न्यग्रोधो बटः । हिङ्गू रामठवृक्षः । भूर्जैर्भूर्जपत्रैः । औषधीभिः सौभांजनादिवृक्षैः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हिङ्गुर् अत्र कराञ्ज-तुल्यो वृक्ष-विशेषः ॥१७॥


॥ ४.६.१८ ॥

खर्जूराम्रातकाम्राद्यैः प्रियाल-मधुकेङ्गुदैः ।

द्रुम-जातिभिर् अन्यैश् च राजितं वेणु-कीचकैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रुम-जातिभिर् इत्य् अत्र जातिर् अवान्तर-भेद-सामान्वयम् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आम्रातकः विदुलः । प्रियालो राजादनम् । मधुको मधूकः । इङ्गुदी तापसतरुः । अवान्तरभेदसामान्यमवान्तरजातिः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.६.१९ ॥

कुमुदोत्पल-कह्लार-शतपत्र-वन-र्द्धिभिः ।

नलिनीषु कलं कूजत्-खग-वृन्दोपशोभितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमुदादि-समृद्धिभिर् हेतुभिर् नलिनीषु सरःसु कलं मधुरं यथा भवत्य् एवं कूजन्ति यानि पक्षि-वृन्दानि तैर् उपशोभितम् ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुमुदाद्याः कमलजातयस्ताभिः । वनर्द्धिभिर्जलसमृद्धिभिः । यद् वा, । कुमुदादिवनानां समूहानां समृद्धिभिराधिक्यैः वनं नपुंसकं नीरे समूहालयकानने इति कोशात् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नलिनीषु सरःसु ॥१९॥


॥ ४.६.२० ॥

मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्ष-शल्यकैः ।

गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृगादिभिर् निर्जुष्टं निषेवितम् । पूर्वं मृग-गणाः शृङ्ग-विशेषणत्वेनोक्ता इदानीं स्वातन्त्र्येणेत्य् अपौनरुक्त्यम् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शाखामृगा वानराः । क्रोडा वराहाः । मृगेन्द्राः सिंहाः । ऋक्षा भल्लूकाः । शल्यकाः कण्टकबराहाः । गवया वनगावः । आदिना शरभादयो ग्राह्याः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नाना-मृग (१०) इत्य् अस्यैव विवरणं मृगैर् इति । मृगनाभिभिर् इति क्वचित् पाठः । कर्णोर्णादयो मनुष्याकारा मृग-प्रायाः ॥२०॥1


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाभिः कस्तूरी-मृगः । कदली-समूहैः संरुद्धानि आवृतानि नलिनीनां पुलिनानि तैः श्रीः शोभा यत्र तम् ॥२०॥


॥ ४.६.२१ ॥

कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृक-नाभिभिः ।

कदली-खण्ड-संरुद्ध-नलिनी-पुलिन-श्रियम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाभिभिः कस्तूरी-मृगैः कदली-षण्डैः संरुद्धान्यावृतानि नलिनीनां पुलिनानि तैः श्रीः शोभा यस्मिन् ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शाखामृगा वानराः । क्रोडा वराहाः । मृगेन्द्राः सिंहाः । ऋक्षा भल्लूकाः । शल्यकाः कण्टकबराहाः । गवया वनगावः । आदिना शरभादयो ग्राह्याः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुण्यं तु चार्व् अपि इत्य् अमरः । चारुत्वं तत्र सौगन्धिक-प्रायम् एवेति तथा तैर् व्याख्यातम् । अतो मन्वन्तरान्तरेऽपि गङ्गाया आगमनं प्रकारान्तरेण ज्ञेयं मध्य-पद-लोपश् च ज्ञेयः ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.६.२२ ॥

पर्यस्तं नन्दया सत्याः स्नान-पुण्यतरोदया ।

विलोक्य भूतेश-गिरिं विबुधा विस्मयं ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्दया गङ्गया पर्यस्तं परिवेष्टितम् । सत्या भवान्याः स्नानेन पुण्यतरम् अति-सुगन्धम् उदकं यस्याम् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुण्यं धर्मे शोभने च सुगन्धे सुकृतौ जले इति कोशात् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विलोक्येति सार्धकम् ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्दया गङ्गया पर्यन्तं परिवेष्टितम् । सत्या रुद्राण्याः स्नानेन पुण्यतरम् उदकं यस्याः तया ॥२१॥


॥ ४.६.२३ ॥

ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् ।

वनं सौगन्धिकं चापि यत्र तन्-नाम पङ्कजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र गिरौ वनं च ददृशुः । यत्र वने तन्-नाम सौगन्धिकं पङ्कजं भवति । जाताव् एक-वचनम् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पङ्कजानि सन्ति सौगन्धिकाख्यानि मानससरोवरीयकमलजातीनीत्य् अर्थः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्-नाम सौगन्धिकं नाम पङ्कजं भवति । जाताव् एक-वचनम् ॥२३॥


॥ ४.६.२४ ॥

नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः ।

तीर्थपाद-पदाम्भोज- रजसातीव पावने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरीं वर्णयति—नन्दा चेति चतुर्भिः । सरितौ पुरः पुराद् बाह्यतो भवतः । तीर्थ-पादस्य हरेः पादाम्भोज-रजसा ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तीर्थौ तीर्थवत्पवित्रकरौ ध्यानार्चनादिना पादौ यस्य तस्य विष्णोः पदांभोजरजसा । एतेन भगीरथानयनात्पूर्वमप्यलकायां गङ्गासदृश्यौ नद्यावास्तां ते च भगीरथसङ्गमादतीव पावन्यावभूताम् इति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरः पुराद् बाह्यतः सरितौ भवतः ॥२४॥


॥ ४.६.२५ ॥

ययोः सुर-स्त्रियः क्षत्तर् अवरुह्य स्व-धिष्ण्यतः ।

क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रति-कर्शिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ययोर् विगाह्य प्रविश्य क्रीडन्ति ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ययोर्नन्दालकनन्दयोः । तयो रतिकर्शितद् एवस्त्रीपावनकर्तृत्वेन त्वाम् अपि पावयिष्यत इति मा दासीजत्वेनापावनशङ्कां कुर्वित्य् अभिप्रेत्याह—क्षत्तर् इति । त्वं तु व्यासोद्भूतत्त्वाच्छुद्ध एवेति भावः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययोर् विगाह्य ॥२५॥


॥ ४.६.२६ ॥

ययोस् तत्-स्नान-विभ्रष्ट- नव-कुङ्कुम-पिञ्जरम् ।

वितृषोऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ययोर् अम्भो विगत-तृषोऽपि गजाः पिबन्ति । तत्र हेतुः—तासां सुर-स्त्रीणां स्नानेन विभ्रष्टं गलितं यन् नवं कुङ्कुमं तेन पिञ्जरं पीत-वर्णम् । गजीः करिणीः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पाने कुङ्कुमसङ्गात्सुगन्धं सुवर्णं च वारि दृष्ट्वा पानलोलुपा आसन्न् इत्य् अर्थः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययोर् अम्भो गजा विगत-तृषोऽपि पिबन्ति । तत्र हेतुः—तासां सुर-स्त्रीणां स्नानेन विभ्रष्टैर् नव-कुङ्कुमैः पिञ्जरं पीत-वर्णम् सुगन्धं च ॥२६॥


॥ ४.६.२७ ॥

तार-हेम-महा-रत्न-विमान-शत-सङ्कुलाम् ।

जुष्टां पुण्य-जन-स्त्रीभिर् यथा खं स-तडिद्-घनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तारं रूप्यम् । तारादि-मय-विमानानां शतैः सङ्कुलाम् । तडिद्भिः स्त्रीणां, घनैर् विमानानां, खेन पुर्याः सादृश्यम् ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तारं रूप्ये न ना ताम्रे मौक्तिकात्युच्चशब्दयोः इति । महारत्नानि हीरकादीनि । सङ्कुलां व्याप्ताम् । पुण्यजना यक्षाः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तार-हेमेति पञ्चकम् ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तारो मुक्ता तडिद्भिः स्त्रीणां, घनैर् विमानानां, खेन पुर्याः सादृश्यम् ॥२७॥


॥ ४.६.२८ ॥

हित्वा यक्षेश्वर-पुरीं वनं सौगन्धिकं च तत् ।

द्रुमैः काम-दुघैर् हृद्यं चित्र-माल्य-फल-च्छदैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यक्षेश्वर-पुरीं हित्वाऽतिक्रम्य तद् वनं च दृष्ट्वा ते देवा आराद् दूराद् वटं ददृशुर् इति चतुर्थेनान्वयः । कथं-भूतं वनम् ? चित्राणि माल्यानि फलानि छदाश् च पत्राणि येषु तैर् द्रुमैर् हृद्यं सुख-करम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यक्षेश्वर-पुरीं वनं च हित्वा अतिक्रम्य ते देवा आराद् दूराद् वटं ददृशुर् इत्य् अन्वयः ॥२८॥


॥ ४.६.२९ ॥

रक्त-कण्ठ-खगानीक- स्वर-मण्डित-षट्पदम् ।

कलहंस-कुल-प्रेष्ठं खरदण्ड-जलाशयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रक्त-कण्ठ-खगानाम् अनीकस्य स्वरैर् मण्डिताः षट्-पदाः षट्-पद-स्वरा यस्मिन् । कल-हंसानां कुलस्य प्रेष्ठम् । खर-दण्डानि पद्मानि तैर् युक्ता जलाशया यस्मिन् ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलकान्तः प्रवेशे तद्वैचित्र्यदर्शनेन तत्स्थेन जनसंल्लापेन कालक्षेपे छिन्नदक्षदेहेन यज्ञानुसन्धानं दुष्करं स्याद् इति धिया तां पुरीं तद्वनञ्च हित्वा बहिरे व गच्छन्तस्ते देवा इति । माल्यानि पुष्पाणि । छदाः पत्राणि ॥२८-२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रक्त-कण्ठ-खगानाम् अनीकस्य स्वरैर् मण्डिताः षट्-पदाः षट्-पद-स्वरा यस्मिन् । कल-हंस-कुल-प्रेष्ठानि खर-दण्डानि पद्मानि येषु ते जलाशया यस्मिंस् तत् ॥२९॥


॥ ४.६.३० ॥

वन-कुञ्जर-सङ्घृष्ट- हरिचन्दन-वायुना ।

अधि पुण्यजन-स्त्रीणां मुहुर् उन्मथयन् मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वन-कुञ्जरैः सङ्घृष्टा ये हरि-चन्दन-द्रुमास् तत्-सम्बन्धिना वायुना पुण्य-जन-स्त्रीणां मनः अधि अधिकम् उन्मथयत् ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्घृष्टाः कण्डूतिवारणार्थम् । उन्मथयद्विलोडयत् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधि अधिकं मन उन्मथयत् कामोद्दीपकत्वात् इति भावः ॥३०॥


॥ ४.६.३१ ॥

वैदूर्य-कृत-सोपाना वाप्य उत्पल-मालिनीः ।

प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र चोत्पल-मालिन्यो वाप्यस् तत् किंपुरुषैः प्राप्तं वनं दृष्ट्वा । पाठान्तरे किंपुरुषैः प्राप्ता वापीश् च दृष्ट्वेत्य् अर्थः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र च वने । पाठान्तरे प्राप्ता इति पाठे । इत्य् अर्थ इति । द्वितीयार्थेयं प्रथमेति भावः । किंपुरुषा देवयोन्यवान्तरभेदः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाप्यो वापीश् च दृष्ट्वा किंपुरुषैः प्राप्ता । प्राप्तम् इति पाठे वन-विशेषणम् ॥३१॥


॥ ४.६.३२ ॥

स योजन-शतोत्सेधः पादोन-विटपायतः ।

पर्यक्-कृताचल-च्छायो निर्नीडस् ताप-वर्जितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योजन-शतम् उत्सेध उच्छ्रायो यस्य । पादोनैः सर्वतः पञ्च-सप्तति-योजन-प्रमाणैर् विटपैः शाखाभिर् आयतो विस्तृतः । पर्यक् सर्वतः कृता अचला छाया येन । निर्गतं नीडं यस्मात् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स वटः । नीडं स्यानकुलाययोः । निश्चयेन स्तुते पक्षिगृहे\ऽपि इति निरुक्तिः । तापेति । शीतस्याप्युपलक्षणं शीतोष्णरहित इत्य् अर्थः । पक्षिवासरहितत्वादनुपद्रवश् च ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योजन-शतम् उत्सेध उच्छ्रायो यस्य सः । पादोनैः सर्वतः पञ्च-सप्तति-योजन-प्रमाण-विटपैः शाखाभिर् आयतो विस्तृतः । पर्यक् सर्वतः कृता अचला छाया येन सः । निर्नीडः पक्षि-वास-रहितत्वाद् अनुपद्रवः ॥३२॥


॥ ४.६.३३ ॥

तस्मिन् महा-योगमये मुमुक्षु-शरणे सुराः ।

ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुमुक्षूणां शरणे आश्रये । त्यक्ताम् अर्षो योऽन्तकस् तत् तुल्यम् ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्वटे सामीपिकाधारे सप्तमी । महायोगानां सनकानां प्राचुर्यं यत्र तस्मिंस् तथा दक्षकृतापराधस्मृत्यैवेत्युक्तम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मिन्न् इति षट्कम् ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तकम् इवेति तस्मिन् कृतस्यापराधस्य स्मृत्या, त्यक्तामर्षम् इवेति तद् अपि स्वेषु क्रोध-रहितम् इव ॥३३॥


॥ ४.६.३४ ॥

सनन्दनाद्यैर् महा-सिद्धैः शान्तैः संशान्त-विग्रहम् ।

उपास्यमानं सख्या च भर्त्रा गुह्यक-रक्षसाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं विशिनष्टि—सनन्दनाद्यैर् इति पञ्चभिः । सख्या कुवेरेणोपास्यमानम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सनन्दनाद्यैर् इत्य् अत्र सनकाद्यैर् इति सम्बन्धोक्तिः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिद्धैर् उपास्यमानं सख्या कुवेरेण च ॥३४॥


॥ ४.६.३५ ॥

विद्या-तपो-योग-पथम् आस्थितं तम् अधीश्वरम् ।

चरन्तं विश्व-सुहृदं वात्सल्याल् लोक-मङ्गलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्या उपासना, तपश् चित्तैकाग्र्यं योगः समाधिस् तेषां पन्थानं प्रवर्तन-द्वारा । लोकस्य मङ्गलं हितं तपो-वात्सल्यात् स्नेहाद् आचरन्तम् ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं शिवम् । सनन्दः सनन्दनः ॥३४-३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विद्या-तपो-योगानां पन्थानाम् । प्रवर्तन-द्वारा आस्थितम् आश्रितं लोक-मङ्गलं तपश् चरन्तम् ॥३५॥


॥ ४.६.३६ ॥

लिङ्गं च तापसाभीष्टं भस्म-दण्ड-जटाजिनम् ।

अङ्गेन सन्ध्याभ्र-रुचा चन्द्र-लेखां च बिभ्रतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्ध्याभ्र-रुचा रक्त-वर्णेनाङ्गेन भस्मादि-लिङ्गं चन्द्र-लेखां च बिभ्रतम् ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लिङ्गं चिह्नं लिङ्गं शेफसि बेषे च चिह्ने बुद्ध्यादिसंहतौ इति यादवः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तापसाः शैवाः तेषाम् अभिष्टम् । अङ्गेनेत्य् अत्र कक्षेणेति चित्सुखः । कक्षेण योग-पदेन ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तापसानां शैवानां सन्धाभ्र-रुचा रक्त-वर्णेनाङ्गेन ॥३६॥


॥ ४.६.३७ ॥

उपविष्टं दर्भ-मय्यां बृस्यां ब्रह्म सनातनम् ।

नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रतिनाम् आसनं बृसी तस्याम् । ब्रह्म प्रवोचन्तम् ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्म वेदं सतां शृण्वतां सनकादीनां मध्ये नारदस्य भक्तत्वाच्छ्रैष्ट्यम् । वेदस्यापि प्रायो भक्तिप्रतिपादकत्वम् एवेति ज्ञेयम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्म श्री-भगवत्-तत्त्वम् । प्रवोचन्तम् इत्य् उपदिशन्तम् इत्य् अर्थः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रतिनाम् आसनं वृषी तस्याम् उपविष्टं ब्रह्म वेदं शृण्वतां सनन्दनादीनां सनन्दनाद्यैर् इति पूर्वोक्तेः षष्ठ्य्-अन्तत्वात् तेष्व् अपि नारदस्य श्रैष्ठ्यं, तस्य भक्तत्वात् । तत्-प्रष्टव्यस्य वेदस्यापि प्रायो भक्ति-पदार्थकत्वं ज्ञेयम् ॥३७॥


॥ ४.६.३८ ॥

कृत्वोरौ दक्षिणे सव्यं पाद-पद्मं च जानुनि ।

बाहुं प्रकोष्ठेऽक्ष-मालाम् आसीनं तर्क-मुद्रया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सव्यं पाद-पद्मं दक्षिणे ऊरौ कृत्वा विन्यस्य जानुनि न सव्ये बाहुं कृत्वा दक्षिण-बाहु-प्रकोष्टे मणि-बन्ध-स्थाने अक्ष-मालां च कृत्वा दक्षिण-हस्त-कृतया तर्क-मुद्रयोपलक्षितम् आसीनम् इत्य् अर्थः । तद् उक्तं योग-शास्त्रे—

एक-पादम् अथैकस्मिन् विन्यसेद् ऊरु-संस्थितम् ।

इतरस्मिंस् तथा बाहुं वीरासनम् इदं स्मृतम् ॥

तर्क-मुद्रा चोक्ता—

तर्जन्य्-अङ्गुष्ठयोर् अग्रे मिथः संयोज्य चाङ्गुलीः ।

प्रसार्य बन्धनं प्राहुस् तर्क-मुद्रेति मान्त्रिकाः ॥ इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : बाहु करम् ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सव्यं पाद-पद्मं दक्षिणे ऊरौ कृत्वा । जानुनि च सव्ये सव्यं बाहुं कृत्वा दक्षिण-बाहु-प्रकोष्टे मणि-बन्ध-स्थाने अक्ष-मालां कृत्वा दक्षिण-पाणि-कृतया तर्क-मुद्रया उपलक्षितम् आसीनम् इत्य् अर्थः । तद् उक्तं योग-शास्त्रे—

एक-पादम् अथैकस्मिन् विन्यसेद् ऊरु-संस्थितम् ।

इतरस्मिंस् तथा बाहुं वीरासनम् इदं स्मृतम् ॥

तर्क-मुद्रा चोक्ता—

तर्जन्य्-अङ्गुष्ठयोर् अग्रे मिथः संयोज्य चाङ्गुलीः ।

प्रसार्य बन्धनं प्राहुस् तर्क-मुद्रेति मान्त्रिकाः ॥ इति ॥३८॥


॥ ४.६.३९ ॥

तं ब्रह्म-निर्वाण-समाधिम् आश्रितं

व्युपाश्रितं गिरिशं योग-कक्षाम् ।

स-लोक-पाला मुनयो मनूनाम्

आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-निर्वाणं ब्रह्मानन्दस् तत्र समाधिर् ऐकाग्र्यं तम् आश्रितम् । योग-कक्षतां योग-पट्तं च वाम-जानु-दृढीकरणार्थं विशेषेणोपाश्र्तवन्तम् । मनन-शीला मनवस् तेषाम् आद्यं मुख्यम् ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । एतेन वीरासनमुक्तम् इति भावः, तत्तथा । तर्कमुद्रा च तत्रैवोक्ता ॥३८-३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-निर्वाणं ब्रह्मानन्दम् ।

अधोक्षजालम्बम् इहाशुभात्मनः

शरीरिणः संसृति-चक्र-शातनम् ।

तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधाः

इति प्रह्लादोक्तेर् अधोक्षजालम्बनं वा तत्र समाधिं चित्तैकाग्र्यम् आश्रितम् । योग-कक्षां वाम-जानु-दृढी-करणार्थं योग-पट्टं च विशेषेणोपाश्रितम् । मनूनां मनन-शीलानाम् आद्यं मुखम् ॥३९॥


॥ ४.६.४० ॥

स तूपलभ्यागतम् आत्म-योनिं

सुरासुरेशैर् अभिवन्दिताङ्घ्रिः ।

उत्थाय चक्रे शिरसाभिवन्दनम्

अर्हत्तमः कस्य यथैव विष्णुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : महत्तमस् तेजस्वितमोऽर्कस्य सकाशाद् अपि ।

तेजोऽर्थे उत्तमार्थे च पूजार्थे च प्रयुज्यते ।

महच्-छब्दो महः-शब्दो मान्य-शब्दस् तथैव च ॥ इति शब्द-निर्णये ॥४०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्हत्तमो विष्णुर् वामन-मूर्तिर् यथा । कस्य कश्यपस्य ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शिवः । आत्मयोनिं ब्रह्माणं यथैव कस्य ब्रह्मणो जनकत्वाद्विष्णुरर्हत्तमः पूज्यतमस् तथा रुद्रस्य ब्रह्मेत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स तूपलभ्येति सार्धकम् । ब्रह्मणः प्रकटेन वन्दनेन सत्त्वं विशुद्धम् इत्य् अस्य तथा व्याख्यानं प्रकटीकृतम् ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिवन्दनम् अर्थात् तस्यात्म-योनेश् चक्रे, अर्हत्तमः यद्यप् स्वतः पूज्यस् तद् अपि तस्य पितृत्वाद् इति भावः । यथा विष्णुर् वामनः कस्य कश्यप-प्रजापतेः ॥४०॥


॥ ४.६.४१ ॥

तथापरे सिद्ध-गणा महर्षिभिर्

ये वै समन्ताद् अनु नीललोहितम् ।

नमस्कृतः प्राह शशाङ्क-शेखरं

कृत-प्रणामं प्रहसन्न् इवात्मभूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महर्षिभिः सहिता ये नील-लोहितम् अनुवर्तन्ते तेऽपि तस्मै वन्दनं चक्रुः । एवं सर्वैर् नमस्कृतः प्राह । कृतः प्रणामो देवैर् यस्मै तम् ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते\ऽपरे\ऽपि । तस्मै ब्रह्मणे । तथा रुद्रवत् । वन्दनं नतिम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नमस्कृत इत्य् अर्धकम् ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महर्षिभिः सहिता ये नारदादयो नील-लोहितम् अनुवर्तन्ते स्म, तेऽपि तस्य वन्दनं चक्रुः । एवं नमस्कृतो ब्रह्मा कृत-प्रणामो देवैर् यस्मै तम् शिवम् । इवेत्य् अनेनान्तर्-भयाद् बहिर् एव मुख-प्रसादः प्रकाशित इत्य् उक्तम् ॥४१॥


॥ ४.६.४२ ॥

ब्रह्मोवाच—

जाने त्वाम् ईशं विश्वस्य जगतो योनि-बीजयोः ।

शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अन्तर्याम्य्-अपेक्षया शक्तेः शिवस्य च परम् इति ।

क्रियन्ते स्तुतयोऽन्यत्र तद्-अन्तर्याम्य्-अपेक्षया ।

न जीवेषु गुणाः पूर्णा यथा-योग्या हि तद्-गताः ॥ इति ब्राह्मे ॥४२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्यपि त्वं नीचवन् मां नमस्करोषि तथापि तवैश्चर्यम् अहं वेद्मीत्य् आह—जान इति । त्वां विश्वस्येशं जाने । तत्र हेतुः, जगतो योनिर् या शक्तिः प्रकृतिर् बीजं शिवः पुरुषस् तयोः कारणम् । तथापि निरन्तरं निर्भेदं यद् ब्रह्म निर्विकारं तद् एव त्वम् इति जाने ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र विश्वेशत्वे । तथापीशत्वे\ऽपि ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र शैव-मतम् आश्रित्य सर्व-परत्वेन स्तौति—जाने इति । शैवाः खलु भगवत्-प्रकृति-पुरुषान् सदा-शिव-रूपत्वेन मन्यन्ते । ततश् चायम् अर्थः—त्वां विश्वस्य प्राकृताऽप्राकृत-लक्षणस्य सर्वस्यैवेशं सदा-शिव-रूपं जाने । यतो जगतः प्राकृत-प्रपञ्चस्य योनि-बीजयोः परं जाने । योनि-बीजे एव क्रमेण व्यनक्ति शक्तेः शिवस्य चेति । तत्र केचिन् निर्भेदं ब्रह्म परम-कारणत्वेन यन् मन्यन्ते तच् च त्वाम् एव जाने इत्य् आह—यत् तद् इति ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि त्वं मां प्रणमसि, तद् अपि परमेश्वरेणैक्यात् तवैश्वर्यम् अधिकम् इति शैव-मतम् आश्रित्य् आह—जाने इति । शैवाः खलु भगवत्-प्रकृति-पुरुषान् सदा-शिव-रूपत्वेन मन्यन्ते । ततश् चायम् अर्थः—त्वां विश्वस्य प्राकृताप्राकृत-लक्षणस्य सर्वस्येशं सदा-शिव-रूपं जाने । यतो जगतः प्राकृत-प्रपञ्चस्य योनि-बीजयोः परं जाने । योनि-बीजे एव क्रमेण व्यनक्ति—शक्तेः शिवस्य चेति यत् प्रसिद्धं निरन्तरं निर्भेदं ब्रह्म, तद् अपि त्वाम् एव जाने ॥४२॥


॥ ४.६.४३ ॥

त्वम् एव भगवन्न् एतच् छिव-शक्त्योः स्वरूपयोः ।

विश्वं सृजसि पास्य् अत्सि क्रीडन्न् ऊर्ण-पटो यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तद्-वशत्वात् स्वरूपं तु विष्णोः सर्वम् उदीर्यते ।

स्वरूपं स च सर्वत्र बिम्बत्वाद् एव सूच्यते ॥

साक्षात् स्वरूपं मत्स्याद्या विष्णोत्तम्र् नान्यत् कथञ्चन ।

तस्माद् अन्य-गता दोषो न तस्मिन् पुरुषोत्तमे ॥ इति तत्त्व-निर्णये ॥४३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विरुद्धम् एतत् ? तत्राह—त्वम् एव स-रूपयोर् अविभक्तयोः शिव-शक्त्योः कृईडन् विश्व-सृष्ट्य्-आदि करोषि । ऊर्ण-नाभिर् इव । स्वरूपयोर् इति पाठे स्वांशयोः । अतो न विरोधः ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । एतदीशत्वे ब्रह्मत्वं विरुद्धं मायाशबलेशस्य तद्रहितब्रह्मत्वं तेजस्तिमिरैकत्रस्थितिवन्न सङ्गच्छते\ऽतो विरुद्धम् । अतस्तयोः तदभिन्नाभिन्नस्य तदभिन्नत्वनियमात् इति न्यायेन तदभिन्नत्वात् । तथा हि-तच्छब्देन ब्रह्म तदभिन्न ईशस्तदभिन्नौ प्रकृतिपुरुषौ तयोस्तदभिन्नत्वं ब्रह्माभिन्नत्वम् एवेत्य् अर्थः । शिवशक्त्योरित्यधिकरणे सप्तमी । तत्र क्रीडन्न् इत्य् अर्थः । यद् वा, द्वितीयार्थे षष्ठी । ते क्रीडन् क्रीडयिष्यन्न् इत्य् अर्थः । तृतीयार्थे षष्ठीति चक्रवर्ती । ताभ्यां क्रीडन्न् इत्य् अर्थः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शिव-शक्त्योर् इति शिव-शक्ती निमित्ती-कृत्येत्य् अर्थः ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शिव-शक्त्योः पुरुष-प्रकृत्योः स्वरूपयोः स्वांशयोर् इति पाठे शिवस्य स्वांशत्वात् शक्तेस् तच्-छाया-रूपत्वात् तत्-समान-रूपयोः । तृतीयार्थे षष्ठी ताभ्याम् विश्वं सृजसि ॥४३॥


॥ ४.६.४४ ॥

त्वम् एव धर्मार्थ-दुघाभिपत्तये

दक्षेण सूत्रेण ससर्जिथाध्वरम् ।

त्वयैव लोकेऽवसिताश् च सेतवो

यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अभिपत्तये प्रतीकाराय । सूत्रेण दोष-सूचकेन ॥४४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्मम् अर्थं च दोग्धि या त्रयी तस्या अभिपत्तये रक्षणायाध्वरं सृष्टवान् असि । यद् वा, हे धर्मार्थ-दुघ, धर्माद्य्-अभिपत्तये तत्-प्राप्तये । दक्षेण सूत्रेण निमित्तेन । सेतवो वर्णाश् च मर्यादाश् च अवसिता निबद्धा निर्णीता इति वा श्रद्दधते श्रद्धयाऽनुतिष्ठन्ति ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिपूर्वपदे रक्षणार्थानुपलब्धेराह—यद्वेति । अभिपत्तिपदेन धर्माद्यन्वयस्तु प्रसङ्गबलेनैवेत्याह—तत्प्राप्तये धर्मादिप्राप्तये । सूत्रं स्यात्तन्तुशास्त्रयोः इति निरुक्त्युक्तेः । सूत्रपदस्यार्थद्वयवाचकत्वादाह—निर्णीता इति वेति । तथा च सूत्रेण तन्तुना वस्त्रम् इव निबद्धाः सूत्रेण निर्णीता इति विवेकः । अतो दक्षवधे सति संप्रति धर्मप्रवर्तकस्याभावाद्धर्मस्य लोपे लोकस्य दुर्गतिः स्याद् इति भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वम् इत्य् अस्य टीकायां निबद्धा इत्य् अत्र सूत्रेण तन्तुना निर्णीता इति सूत्रेण शास्त्र-विशेष-रूपेणेति ज्ञेयम् ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे धर्मार्थ-दुघ ! अभिपत्तये धर्म-रूपार्थस्य प्रवर्तनाय दक्षेण दक्ष-रूप-सूत्रेण अध्वर-रूपं वस्त्रं तन्तुवाय इव त्वं ससर्जिथ, तथा लोके सेतवो वर्णाश्रम-धर्म-मर्यादाश् च त्वयैवावसिता निर्णीता । अतो दक्ष-वधे सति सम्प्रति धर्म-प्रवर्तकस्याभावात् धर्मस्य लोपे लोकस्य दुर्गतिः स्याद् इति भावः ॥४४॥


॥ ४.६.४५ ॥

त्वं कर्मणां मङ्गल मङ्गलानां

कर्तुः स्व-लोकं तनुषे स्वः परं वा ।

अमङ्गलानां च तमिस्रम् उल्बणं

विपर्ययः केन तद् एव कस्यचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-कर्म-फल-दातापि त्वम् एवेत्य् आह—हे मङ्गल ! मङ्गलानां शुभानां कर्मणां कर्तुः स्वः स्वर्गं परं मोक्षं वा तनुषे । अमङ्गलानाम् अशुभानां कर्माणां कर्तुश् च तमिस्रं नरकं तनुषे । तत्र केन हेतुना ? तद् एव तस्मिन्न् एव कस्यचिद् विपर्ययो भवति ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे मङ्गल कल्याण-रूप । तत्र शुभाशुभयोर्मध्ये । तस्मिन्नेव शुभाशुभकर्मण्येव । यथा पुण्यकर्तुर्दक्षादेस्तमिस्रं पापं कर्तुरजामिलादेरपवर्ग इति त्वं पृच्छ्यसे इति भावः । तीर्थस्तु-नायं नियमो द्रढीयान्विपर्ययदर्शनादित्याक्षिप्य समादधौ । केनचिद्भक्तद्वेषादिना हेतुना कस्यचिद् एव धर्मादेः फलविपर्ययः स्यान्न तु सर्वस्येत्यज्ञानां धर्मसूक्ष्मत्वज्ञानं दुर्लभम् इति भावः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विपर्ययः केनेत्य् अत्र महापराध-महद्-उपासन-स्वभावेनेति तत्त्वं ज्ञेयम् । वक्ष्यते च—कुर्व् अध्वरस्य [भा।पु। ४.६.५०] इत्य्-आदिना तद् एवेत्य् अत्र तु देवेति पुण्यारण्य-पाठान्तरम् ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-फल-दातापि त्वम् एवेत्य् आह—त्वम् इति । मङ्गलानां पुण्यानां कर्तुः स्वः स्वर्ग-लोकं तनुषे परं मोक्षं वा । अमङ्गलानाम् पापानां कर्तुस् तमिस्रं नरकम् । तद् एव तत्रैव केन हेतुना कस्यचिद् विपर्ययो भवेत् ? पुण्य-कर्तुर् अपि दक्षादेस् तमिस्रं, पाप-कर्तुर् अप्य् अजामिलादेर् अपवर्ग इति त्वं पृच्छसे इति भावः ॥४५॥


॥ ४.६.४६ ॥

न वै सतां त्वच्-चरणार्पितात्मनां

भूतेषु सर्वेष्व् अभिपश्यतां तव ।

भूतानि चात्मन्य् अपृथग्-दिदृक्षतां

प्रायेण रोषोऽभिभवेद् यथा पशुम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तव त्वाम् । चतुर्षु षष्ठीति सूत्रात् ।

विष्ण्व्-अधीना जगत्-सत्ता-प्रतीति-चेष्टितं गतिः ।

इति यन् नियतं ज्ञानम् अपृथग्-दर्शनं स्मृतम् ॥

मिथ्या ज्ञानं पृथग् ज्ञानम् इति वेद-विदो विदुः ।

यथैवार्थस् तथा ज्ञानम् अपृथग्-दृष्टिर् उच्यते ॥ इति गारुडे ॥४६-४७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वत्-कोपोऽत्र हेतुर् इत्य् असंभावितम् इति कैमुत्य-न्यायेनाह । न वै सतां सतः रोषोऽभिभवेत् । तव त्वाम् । द्वितीयार्थे षष्ठ्यौ । पशुम् अज्ञं यथाऽभिभवति तद्वत् ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र यज्ञनाशे । चक्रवर्ती तु-मम रोषप्रसादावेव तत्र हेतू इति चेन्मैवं तव प्रसाद एव भवेन्न तु रोष इति कैमुत्यन्यायेनाह—आत्मनि परमात्मनि त्वयि । यद् वा, आत्मनि स्वस्मिन्नपृथग्भेदेन स्वस्मिन्सुखदुःखे इव भूतान्यपि सुखदुःखवन्ति दिदृक्षतां द्रष्टुमिच्छताम् एव किमुत पश्यताम् इति पशव एव रोषवन्तो भवन्ति न तु सन्तः । प्रायेणेति जयविजयविषयकरोषवतां सनकादीनाम् इव दक्षविषयकस्तव रोष आत्मारामस्याप्यभूद् इति सूचयति ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न वै इति । आत्मनि परमात्मनि त्वयि अनन्यत्वेन पश्यताम् ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्-कोपोऽत्र हेतुर् इत्य् असंभावितम् इति कैमुत्य-न्यायेनाह । न वै सतां सतः रोषोऽभिभवेत् । तव त्वाम् । द्वितीयार्थे षष्ठ्यौ । पशुम् अज्ञं यथाऽभिभवति तद्वत् ॥४६॥


॥ ४.६.४७ ॥

पृथग्-धियः कर्म-दृशो दुराशयाः

परोदयेनार्पित-हृद्-रुजोऽनिशम् ।

परान् दुरुक्तैर् वितुदन्त्य् अरुन्तुदास्

तान् मावधीद् दैव-वधान् भवद्-विधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो ये पृथग्-धियो भेद-दृशोऽतः कर्मण्य् एव दृष्टिर् येषाम् । दुष्ट आशयो येषाम् । परेषाम् उदयेन सम्पदा अर्पिता हृदि रुग् येषाम् । अरुन्तुदा मर्म-भेत्तारः । दैवेनैव वधो येषां तान् भवद्-विधो निरुपमः साधुर् मावधीन् न हन्यात् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो विज्ञानां रोषाभावात् । अतो भेददर्शित्वात् । युष्मत्कोपविषयीभूतत्वे तेषां कदाप्युद्धारो न भावीति भावः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवद्-विधो भवानिति विशेषः ततो निरुपम इत्य् एवार्थः । यद् वा, भवद्-विधोऽपि किम् उत भवान् इत्य् अर्थः ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् असत्सु रोष-हेतुक-समुचित-शान्ति-प्रदानेन विना कृतानाम् आगसां फलाप्राप्त्या सर्व एवासन्तो भवेयुस् तत्राह—पृथग्-धिय इति । परोदयेन पर-सम्पद्-दृष्ट्या अरुन्तुदा मर्म-भेत्तारः । दैवेनैव वधो येषाम् इति स्वापराधेनैव ते दक्षादयो मरिष्यन्ति, तान् मा वधीर् इति युष्मत्-कोप-विषयीभूतत्वे तेषां कदाप्य् उद्धारो न भावीति भावः ॥४७॥


॥ ४.६.४८ ॥

यस्मिन् यदा पुष्कर-नाभ-मायया

दुरन्तया स्पृष्ट-धियः पृथग्-दृशः ।

कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां

न साधवो दैव-बलात् कृते क्रमम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यदा यस्मात् ।

हृदयस्य द्रवीभावस् त्व् अनुकम्पेति कथ्यते ।

उपकारं कर्तुम् इच्छा कृपेत्य् आहुर् मनीषिणः ॥ इति शब्द-निर्णये ॥४८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्युत साधूनां वृत्तम् आलोक्यानुग्रहम् एव कर्तुम् अर्हसीत्य् आह द्वाभ्याम् । यस्मिन् देशे । यदा काले । स्पृष्ट-धियो मोहित-चित्ताः पृथग् दृशो भवन्ति । तत्रापराधे साधवो ह्य् अनुकम्पयाऽनन्तरम् एव पर-दुःखासहिष्णुतया चित्त-प्रकम्पेन कृपां कुर्वन्ति, नतु क्रमं पराक्रमम् । कुतः ? दैव-बलात् कृतेऽर्थे ममैव दैवम् एवं भूतं कोऽत्रापराधस् तेषाम् इति मत्वा तद् धननं न कुर्वत इत्य् अर्थः ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वसहनशीला अपि साधवः परदुःखासहिष्णवः स्वापराधिनो\ऽपि दयन्त एवेत्याह—साधुवृत्तम् इति । इत्य् अर्थ इति । सुखदुःखप्रदो नान्यः पुरुषस्य इत्याद्युक्तेर् इति भावः ।

हृदयस्य द्रवीभावो ह्यनुकंपेति कथ्यते ।

उपकारं कर्तुम् इच्छा कृपेत्याहुर्मनीषिणः ॥ इति तीर्थः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु पुष्करनाभ एवेश्वरः, अहं तु तद्-भक्त एव । तत्राह—यस्मिन्न् इति द्वाभ्याम् । साधारणा अपि साधवः भगवत्-पक्षे तेषां पृथग्-दृशाम् एव दैव-बलाद् इति ज्ञेयम् ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-सहन-शीला अपि साधवः पर-दुःखासहिष्णवः स्युर् अतस् ते स्वापराधिनोऽपि दयन्त एवेत्य् आह—यस्मिन् देशे यदा वा काले स्पृष्ट-धियोऽभिभूत-बुद्धयः कुर्वन्ति, दुष्कृतम् इति शेषः । तत्र तेषु अनुकम्पया कृपालुत्व-स्वभावेन कृपाम् एव कुर्वन्ति, न तु तेषु दैवेनैव बलात्कृते दुःख-दानार्थं बलात्कारे कृते सति, क्रमं पराक्रमम् ॥४८॥


॥ ४.६.४९ ॥

भवांस् तु पुंसः परमस्य मायया

दुरन्तयास्पृष्ट-मतिः समस्त-दृक् ।

तया हतात्मस्व् अनुकर्म-चेतःस्व्

अनुग्रहं कर्तुम् इहार्हसि प्रभो ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

मायया विष्ण्व्-अधीनया बन्धक-शक्त्या ।

विष्णु-माया हरेर् इच्छा बन्ध-शक्तिश् च तद्-वशा ।

सर्वत्रगा हरेर् इच्छा बन्ध-शक्तिर् ज्ञ-वर्जिता ॥ इति शब्द-निर्णये ॥४९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भवांस् त्व् अस्पृष्ट-मतिः । अत एव समस्त-दृक् सर्व-ज्ञः । तया मायया हत आत्मा येषां तेष्व् अत एव कर्मानुगत-चित्तेष्व् इहापराधेऽनुग्रहं कर्तुम् अर्हसि ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तव तु साधुचूडामणेः कोपो न संभवेद् इत्य् आह—भवांस्त्व् इति । अतो मायास्पृष्टमतित्वात् । समस्तदृक् तेषामपराधफलं महादुःखं पश्यस्येवेति भावः । अत एव मायाहतात्मत्वाद् एव । एते खलु मायया हतबुद्धयः कथं विवेकं लभन्तां नानाकर्मग्रस्तमनसः कथं वा साधून्पश्यन्त्वित्यत एतेषु मम दथैवोचितेति विचार्यानुग्रहं कर्तुमर्हसीति भावः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तु-शब्दस् तेभ्यो वैशिष्ट्य-बोधकः । अर्हसि त्वम् इति शेषः ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव तु साधु-चूडामणेः कोपो नैव सम्भवेद् इत्य् आह—भवांस् त्व् इति । अस्पृष्ट-मतिः, अतः समस्त-दृक् तेषाम् अपराध-फलं महा-दुःखं पश्यस्य् एवेति भावः । तेष्व् अनुग्रह-प्रकारम् आह—तया हतात्मस्व् इति अनुकर्म-चेतःस्व् इति तस्मिन्न् इति । एते खलु मायया हत-बुद्धयः । कथं विवेकं लभन्तां नाना-कर्म-ग्रस्त-मनसः ? कथं वा साधून् पश्यन्त्व् इत्य् अत एतेषु मम दयैवोचितेति ॥४९॥


॥ ४.६.५० ॥

कुर्व् अध्वरस्योद्धरणं हतस्य भोः

त्वयासमाप्तस्य मनो प्रजापतेः ।

न यत्र भागं तव भागिनो ददुः

कुयाजिनो येन मखो निनीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सामान्येनोक्त्वा प्रस्तुतम् आह—कुर्व् इति त्रिभिः । त्वया हतस्य, अत एव असमाप्तस्य प्रजापतेर् अध्वरस्य । हे मनो ! यत्र अध्वरे कु-याज्ञिकाः भागिनोऽपि तव भागं न ददुः । भागार्हत्वम् आह—येन त्वया मखो निनीयते फलं प्राप्यते ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि संप्रति किं कर्त्तव्यं तद् ब्रूहीति प्रस्तुतम् आह—कुर्व् इति । अत एव त्वया हतत्वाद् एव । हे मनो मननशील मन्त्रमूर्ते वा मनुर्मन्त्रे च मनने स्वायंभवप्रभृतिषु इति धरणिः । मन्त्रैरे व मखसिद्धिरस्ति ते च त्वन्मूर्तिभूता अत उक्तं येन त्वयेति स्वामिचरणैः । यागो\ऽमन्त्रो\ऽदक्षिणश् च न फलं दास्यति क्वचित् इति पुराणात् ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कुयाजिन इति क्वचित् कुस्पर्धिन इति चित्सुखः ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि सम्प्रति किं कर्तव्यं तद् ब्रूहीत्य् अत आह—कुर्व् इति । त्वया हतस्य अत एव असमाप्तस्य प्रजापतेर् अध्वरस्य । हे मनो ! यत्र अध्वरे भागिनोऽपि तव भागं न ददुः, येन फल-दात्रा त्वया मखो निनीयते फलं प्राप्यते ॥५०॥


॥ ४.६.५१ ॥

जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः ।

भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यजमान-सद्भावे यागो द्वारः संभवति तस्य मया हतत्वात् कथं नष्टाक्षाद्य्-अवयवानां स्व-भाग-निरीक्षणं कथं चायुधाश्मभिर् भग्न-गात्राणाम् ऋत्विजां च होमाङ्गत्वम् इत्य् आशङ्क्य त्वद्-अनुग्रह-सुधा-समुद्र-मग्नाः सर्वे संपन्ना भवन्त्व् इत्य् आह—जीवताद् इति ॥५१॥


न कतमेन व्याख्यातम्।


॥ ४.६.५२ ॥

देवानां भग्न-गात्राणाम् ऋत्विजां चायुधाश्मभिः ।

भवतानुगृहीतानाम् आशु मन्योऽस्त्व् अनातुरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे मन्यो ! अनातुरम् आरोग्यम् अस्तु ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे मन्यो मूर्ते । एतत्समाप्तिं विना तवैवाङ्गभङ्गो नान्यस्येत्यभिप्रायः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.६.५३ ॥

एष ते रुद्र भागोऽस्तु यद्-उच्छिष्टोऽध्वरस्य वै ।

यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भागश् च तवास्त्व् इत्य् आह—एष इति । हे रुद्र ! यावद् इत्य् अर्थे यद् इत्य् अव्ययम् । यज्ञे कृते यावान् उच्छिष्टोऽवशिष्टोऽर्थस् तावान् एष तव भागोऽस्तु । हे रुद्र ! ते भागेनाद्य यज्ञः कल्पतां सम्पद्यताम् ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वं निरवद्यं स्याद् यदि मम भागो भवेद् इति चेत्तवायमनुशोको मा भूद् इत्य् आह—एष त इति । उच्छिष्टः स्विष्टकृद्भागः यदग्नये स्विष्टकृते समवद्यति भागधेयेनैव तद्रुद्रं समर्द्वयति सकृत्सकृदवद्यति सकृद् एव हि रुद्र उत्तरार्द्धादवद्यत्येषा वै रुद्रस्य दिक् स्वीयायाम् एव दिशि रुद्रं निरवदयते इति श्रुतेर् इति तीर्थः । उत्कृष्टः शिष्टः उच्छिष्टो न तु भुक्तावशिष्ट इत्य् अर्थः । अत एव श्रीमहाभारते\ऽनुशासनिके इत्य् उक्तं रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः इत्यारभ्य रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् इत्यन्तेन । किं च रुद्रस्य देवेष ब्राह्मणत्वाद् अपि नोच्छिष्टभागार्थता ब्रह्माणस्याग्रभोजित्वात् ।

विप्रो वाडवमुख्यौ च सर्वश्रेष्ठोग्रभुग्गुरुः ।

पुरुषो वीरनामा च ब्राह्मणो ब्रह्मवित्कविः ॥

वैष्णवाग्र्यो द्विजाग्र्यश् च सर्वपूज्यो धरामरः ॥ इति सर्वार्थचिन्तामण्युक्तेः ।

रुद्रस्य ब्राह्मणत्वं तु त्वं हि भगवन्देवेषु ब्राह्मणो\ऽहं मनुष्येषु ब्राह्मणः ब्राह्मणो हि ब्राह्मणमुपधावति इति जाबालश्रुतेः । अतो यागार्थानीतशुद्धावशिष्टद्रव्यम् एव रुद्रभागस्तं विना यागो न पुर्य्यते ततो यागेधिकम् एव वसुसंपाद्यम् । उच्छिष्टस्य सर्वोत्कर्षताथर्ववेदैकादशकाण्डचतुर्थानुवाकारंभे प्रोक्ता । तथा हि—

उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।

उच्छिष्ट इन्द्रश्चाग्निश् च विश्वमन्तः समाहितम् ॥

उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।

आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥

सन्नुच्छिष्टे प्रसंश्चोभौ मृत्युर्वाजः प्रजापतिः ।

लौक्या उच्छिष्ट आयत्तावश्चन्द्रश्चापि श्रीमयि ॥

दृढो दृंहः स्थिरो\ऽन्यो ब्रह्मविश्वसृजो दश ।

नाभिम् इव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥

ऋक्सामयजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।

हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश् च तन्मयि ॥

ऐन्द्राग्नं पावमानं महानाम्नीमहाव्रतम् ।

उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥

राजसूयं वाजपेयमग्निष्टोमस्तध्वरः ।

अर्काश्वमेधाउच्छिष्टे जीवबर्हिमदि तमः ॥

अग्न्याधेयमथो दीक्षा कामश्छन्दसा सह ।

उत्सन्ना यज्ञाः सत्राण्युच्छिष्टे\ऽधिसमाहिताः ॥

अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।

दक्षिणेष्टं पूर्तं चोच्छिष्टे\ऽधिसमाहिताः ॥

एकरात्रो द्विरात्रः सद्यः क्रीः प्रक्रीरुक्थः ।

ॐ तं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ।

चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।

षोडशी शतरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृतेहिताः ॥

प्रतीहारो निधनं विश्वज्जिच्चाभिजच्चयः ॥

साह्नातिपत्रावुच्छिष्टे द्वादशाहो\ऽपि तन्मयि सूनृतासंनतिः क्षेमः स्वधोर्जामृतंसह ।

उच्छिष्टे सर्वे प्रत्यंचः कामाः कामेन तातृपुः नवभूमीः समुद्रा उच्छिष्टेधिश्रिता दिवः ।

आसूर्यो भात्युच्छिष्टेहोरात्रे अपि तन्मयि ॥

उपहव्यं विष्वन्तं ये च यज्ञा गुहाहिताः ।

बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता पिता जनितुरुच्छिष्टो\ऽसौ पौत्रः पितामहः ।

स क्षिपति विश्वस्येशानो वृषा भूभ्यामतिघ्नः ॥

ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश् च कर्म च ।

भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीबलं बले ॥

समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।

सꣳवत्सरोɱप्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥

चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।

उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥

अर्द्धमासाश् च मासाश्चार्तवा ऋतुभिः सह ।

उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही ॥

शर्कराः सिकता अश्मान ओषधयो वीरधस्तृणाः ।

अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिताश्रिताः ॥

राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मंहराधतुः ।

अत्याप्तिरुच्छिष्टे भूतिश्चाहितानिहिता हिता ॥

यच्च प्रणिति प्राणेन यच्च पश्यति चक्षुषा ।

उच्छिष्टा जज्ञिरे सर्वे दिवि देवा दिवि श्रिताः ऋचः सामानि च्छन्दांसि पुराणं यजुषा सह ।

उच्छिष्टा जज्ञिरे प्राणापानौ चक्षुः श्रोत्रमचितिश् च क्षितिश् च वा ।

उच्छिष्टाज्ज आनन्दामोदाः प्रमुदो\ऽभीमोदो मुदश् च ये ।

उच्छिष्टाज्जज्ञिरे देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये ।

उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रिताः ॥

इत्थं सर्वोपादानत्वे उच्छिष्टस्य सर्वोत्कृष्टत्वाद् एव देवैः श्रीमहादेवस्य स भागः कल्पितो\ऽन्यथा सर्वदेवगुरोस्तहानं न सङ्गच्छते । स्विष्टकृत्संज्ञाहुतिरेवोच्छिष्टपदवाच्या तां विना न यागपूर्तिरस्तीति । अपूर्णो हि यागो न फलं दातुं शक्नोति यच्चोपयुक्तावशिष्टं वस्तु तन्न रुद्रभागोस्ति, किं तु यागशालागतमनुपहतं यस्थितं तदपि रुद्रभाग एव यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् । चक्रुर्र्भागं हि रुद्राय इति नवमे नभगोक्तेः । उत्कृष्टं शिष्टमुच्छिष्टम् इति निरुक्तेः । त्वं हि भगवन्देवेषु ब्राह्मणो\ऽहं मनुष्येषु इति जाबालोपनिषदुक्तेरग्रभोक्तुर्ब्राह्मणदेवस्य रुद्रस्योच्छिष्टदानौचित्यादुत्कृष्टभाग एवोच्छिष्टपदार्थ इति ॥५३॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे षष्टो\ऽध्यायः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष ते भागोऽस्तु यद् उच्छिष्टः उत्कृष्टः शिष्टोऽवशिष्टोऽर्थः, तेन ते भागेन यज्ञः कल्पतां सम्पद्यताम् ॥५३॥


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठोऽध्यायश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

रुद्र-सान्त्वनं नाम

षष्ठोऽध्यायः ।

॥ ४.६ ॥


(४.७)


  1. नाना-मृग (१०) इत्य् अस्यैव विवरणं मृगैर् इति । मृगेन्द्रैर् ऋक्ष-शल्यकैः गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः । कर्णोर्णैक-पदाश्वास्यैर् निर्जुष्टं मृग-नाभिभिर् इति क्वचित् पाठः । तत्र कर्णोर्णादयो मनुष्याकारा मृग-प्रायाः ॥ इति पाठान्तरः। ↩︎