(४.५)
पञ्चमोऽध्यायः
विषयः
वीरभद्र-कृत-यज्ञ-विध्वंसः, दक्ष-वधश् च ।
॥ ४.५.१ ॥
मैत्रेय उवाच—
भवो भवान्या निधनं प्रजापतेर्
असत्-कृताया अवगम्य नारदात् ।
स्व-पार्षद-सैन्यं च तद्-अध्वरर्भुभिर्
विद्रावितं क्रोधम् अपारम् आदधे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्चमे तु सती-देह-त्यागम् आकर्ण्य शङ्करः ।
वीरभद्रं रुषोत्पाद्य तेन दक्षम् अघातयत् ॥
प्रजा-पतेर् हेतोर् निधनम् । कुतः ? तेनासत्-कृतायाः । तस्याध्वरे ऋभवो देवास् तैः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन वीरभद्रेण निधने हेतुं पृच्छति कुत इति । तेन दक्षेण । असत्कृताया अवज्ञातायाः । तस्य दक्षस्य! अपारं महान्तम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-अध्वर-र्त्विग्-विद्रावितम् इति चित्सुखः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चमे श्रुत-वृत्तान्तः कुप्यान् दक्षम् अघातयत् ।
उत्कृत्य स्व-जटोत्थेन वीरभद्रेण धूर्जटिः ॥
प्रजापतेर् हेतोर् निधनम् । कुतः तेनासत्कृतायाः तस्याध्वरे ये ऋभवो देवास् तैः ॥१॥
॥ ४.५.२ ॥
क्रुद्धः सुदष्टौष्ठ-पुटः स धूर्जटिर्
जटां तडिद्-वह्नि-सटोग्र-रोचिषम् ।
उत्कृत्य रुद्रः सहसोत्थितो हसन्
गम्भीर-नादो विससर्ज तां भुवि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स धूर्जटिः रुद्रो घोरः सन् जटाम् उत्कृत्योत्पाट्योत्थितः संस् तां भुवि विससर्ज । सुदष्ट ओष्ठ-पुटो येन । तडितां वह्नीनां च सटा ज्वालास् तद्वद् उग्रं रोचिर् यस्यास् ताम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धूता कंपिता जटा अस्येति धूर्जटिः पृषोदरादिः । सुदष्टे ओष्ठयोः पुटे\ऽग्रे येन स तथा । पुटमग्रे च संश्लेषे इति निरुक्तिः । सटा जटाकेशरयोः इति मेदिनी । लक्षितलक्षणामाश्रित्य स्वामिचरणैर्ज्वालेत्युक्तम् । तां जटाम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सटा ज्वालाः रुद्रो घोरः सन् ॥२॥
॥ ४.५.३ ॥
ततोऽतिकायस् तनुवा स्पृशन् दिवं
सहस्र-बाहुर् घन-रुक् त्रि-सूर्य-दृक् ।
कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्धजः
कपाल-माली विविधोद्यतायुधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो जटायाः सकाशाद् अतिक्आयो वीरभद्रो जात इति शेषः । तनुवा तन्वा देहेन दिवं स्पृशन्**,** अत्युच्च इत्य् अर्थः । घन-रुक् कृष्ण-वर्णः । त्रयः सूर्या इव दृशो यस्य । करालास् तुङ्गा दंष्ट्रा यस्य । ज्वलद्-अग्निर् इव मूर्धजा यस्य । कपाल-माला-युक्ताः । विविधान्य् उद्यतान्य् आयुधानि यस्य ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । अल्पदेहेन दिवः स्पर्शानुपपत्तेर् इति भावः । करालो दन्तुरे तुङ्गे भीषणे त्वभिधेयवत् इति मेदिनी ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो जटायाः तन्वा दिवं स्पृशन् । त्रयः सूर्या इव दृशो यस्य सोऽभवत् ॥३॥
॥ ४.५.४ ॥
तं किं करोमीति गृणन्तम् आह
बद्धाञ्जलिं भगवान् भूत-नाथः ।
दक्षं स-यज्ञं जहि मद्-भटानां
त्वम् अग्रणी रुद्र भटांशको मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे रुद्र ! हे भट**,** युद्ध-कुशल ! मद्-भटानां त्वम् अग्रणीः सन् स-यज्ञं दक्षं जहि । ब्रह्म-तेजो दुर्जयम् इति मा मंस्थाः, यतस् त्वं मेऽंशकः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भटः स्यात्पुंसि वीरे च विशेषे पामरस्य च इति मेदिनी ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे रुद्र ! हे भट ! हे युद्ध-कुशल ! त्वं मे अंशक इति ब्रह्म-तेजो दुर्जयम् इति मा मंस्था इति भावः ॥४॥
॥ ४.५.५ ॥
आज्ञप्त एवं कुपितेन मन्युना
स देव-देवं परिचक्रमे विभुम् ।
मेनेतदात्मानम् असङ्ग-रंहसा
महीयसां तात सहः सहिष्णुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्युना रुद्रेन । परिचक्रमे प्रदक्षिणीचकार । असङ्गम् अप्रतिघातं यद् रंहो वेगस् तेन । भो तात ! महीयसां बलीयसाम् अपि सहः सहिष्णुं बलं सोढुं क्षमं मेने ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्युर्दैन्ये क्रतौ क्रोधे शोकऽशङ्करबुद्धिषु इति धरणिः । नमस्ते रुद्र मन्यव इति श्रुतेश् च । मन्यू रुद्रः स वीरभद्रो देवदेवं महादेवम् । कथारसाविष्टचेतस्त्वेन प्रीत आह हे तातेति । यद्वासङ्गस्यात्मारामस्य रुद्रस्य रंहसा बलेन ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्युना रुद्रेन । परिचक्रमे प्रदक्षिणी-चकार । असङ्गं केनापि सह गन्तुम् अशक्यं यद् रंहो वेगस् तेन । यद् वा, असङ्गस्यात्म-रूपस्य रुद्रस्य रंहसा महीयसां बलीयसाम् अपि सहः सहिष्णुं बलं सोढुं क्षमं मेने ॥५॥
॥ ४.५.६ ॥
अन्वीयमानः स तु रुद्र-पार्षदैर्
भृशं नदद्भिर् व्यनदत् सुभैरवम् ।
उद्यम्य शूलं जगद्-अन्तकान्तकं
सम्प्राद्रवद् घोषण-भूषणाङ्घ्रिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जगद्-अन्तको मृत्युस् तस्याप्य् अन्तकं शूलम् । घोषयन्ति शब्दं कुर्वन्तीति घोषणानि नूपुरादीनि भूषणानि ययोस् ताव् अङ्घ्री यस्य सः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स वीरभद्रः । प्रसिद्धम् । सुभैरवमतिभयङ्करं यथा स्यात्तथा व्यनदत् । शूलविशेषणं वा प्राद्रवदतिवेगेनागच्छत् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जगद्-अन्तकस्याप्य् अन्तक-तुल्यम् । घोषणानि शब्दायमानानि भूषणानि ययोस् ताव् अङ्घ्री यस्य सः ॥६॥
॥ ४.५.७ ॥
अथ र्त्विजो यजमानः सदस्याः
ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् ।
तमः किम् एतत् कुत एतद् रजोऽभूद्
इति द्विजा द्विज-पत्न्यश् च दध्युः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ककुभि दिशि । तमो न भवति किं तु रज इति ज्ञात्वाहुः । रज एतत् कुतोऽभूत् ? दध्युश् चिन्तयाम् आसुः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ वीरभद्रागमनारंभे । प्रथमं तम इति ततस्तम एतन्न किन्तु रज इति ज्ञात्वाहुः । एतद्रजः कुतो\ऽभूद् इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् अपि विविधं संशेरते—बाता इति । उपदण्डत्वाद्राज्ये चौरभयं सर्वथा नास्तीति भावः । ह प्रसिद्धम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं तम इति । ततस् तम एतन् न भवति, किन्तु रज इति ज्ञात्वाआहुः । रज एतत् कुतोऽभूद् इति ॥७॥
॥ ४.५.८ ॥
वाता न वान्ति न हि सन्ति दस्यवः
प्राचीन-बर्हिर् जीवति होग्र-दण्डः ।
गावो न काल्यन्त इदं कुतो रजो
लोकोऽधुना किं प्रलयाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हेत्व्-अन्तरासम्भवेन औत्पात्तिकं कल्पयन्ति—वाता इति । दस्यूनाम् अभावे हेतुः, प्राचीनबर्हिस् तदानीन्तनो राजा जीवतीति । न काल्यन्ते न शीघ्रं नीयन्ते ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् अपि विविधं संशेरते—बाता इति । उपदण्डत्वाद्राज्ये चौरभयं सर्वथा नास्तीति भावः । ह प्रसिद्धम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि विविधं संशेरते—वाता इति । प्राचीनबर्हिस् तदानीन्तनो राजा इति स्पष्टम् ॥८॥
॥ ४.५.९ ॥
प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता
ऊचुर् विपाको वृजिनस्यैव तस्य ।
यत् पश्यन्तीनां दुहितॄणां प्रजेशः
सुतां सतीम् अवदध्याव् अनागाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसूतिर् दक्ष-पत्नी सा मिश्रा मुख्या यासाम् । विपाकः फलम् । पश्यन्तीनाम् इति तस्याः दुःखाधिक्ये हेतुः—अवदध्यौ अवज्ञातवान् । अनागाम् अनागसम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कस्येत्याकाङ्क्षायाम् आह—यद् इति ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसूतिर् दक्ष-पत्नी सा मिश्रा मुख्या यासां तातस्य वृजिनस्य अपराधस्य एष विपाकः फलम् । पश्यन्तीनाम् इति तस्या दुःखाधिक्ये हेतुः—अवदध्यौ अवज्ञातवान् । अनागां निरपराधम् ॥९॥
॥ ४.५.१० ॥
यस् त्व् अन्त-काले व्युप्त-जटा-कलापः
स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः ।
वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान्
उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न चेदं सुतावज्ञा-मात्रं, किं तु रुद्रावज्ञानं च, अतो नास्य भद्रं भविष्यतीत्य् आहुः—यस् त्व् इति द्वाभ्याम् । व्युप्तो विकीर्णो जटा-कलापो यस्य । स्व-शूलस्य सूच्याम् अग्रेऽर्पिताः प्रोता दिग्-गजेन्द्रा येन । उदितान्य् उन्नमितान्य् अस्त्राणि यैस् ते । दोषो बाहव एव ध्वजास् तान् वितत्य हर्षेण नृत्यति । उच्चोऽट्ट-हासः कठोरो हास एव स्तनयित्नुर् गर्जितं तेन भिन्ना विदीर्णा दिशो येन सः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उन्नमितान्युच्चैःकृतानि ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस् त्व् अन्त-काल इति युग्मकम् ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चास्य प्रजापतेस् तेजस्वित्वं श्री-रुद्रे प्रभवतीत्य् आहुः—यस् त्व् इति द्वाभ्याम् । व्युप्त-जटा-कलापः विकीर्ण-जटा-पुञ्जः । उदितान्य् उन्नमितान्य् अस्त्राणि येषु ते दोषो बाहव एव ध्वजास् तान् वितत्य नृत्यति । स्तनयित्नुर् गर्जितं तेन भिन्ना विदीर्णा दिशो येन सः ॥१०॥
॥ ४.५.११ ॥
अमर्षयित्वा तम् असह्य-तेजसं
मन्यु-प्लुतं दुर्निरीक्ष्यं भ्रु-कुट्या ।
कराल-दंष्ट्राभिर् उदस्त-भागणं
स्यात् स्वस्ति किं कोपयतो विधातुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमर्षयित्वाऽसहन-युक्तं कृत्वा । मन्यु-प्लुतं क्रोध-व्याप्तम् । उदस्तो विक्षिप्तो भगणो नक्षत्र-सङ्घो येन । पुनश् च तं कोपयतो विधातुर् अपि किं स्वस्ति स्यान् न स्याद् एव, काऽन्यस्य कथा ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेन दक्षापराधेन सर्व एव महाविपदि सपापनौरिव निमज्जाम इति भावः । भगण एव भागणः, स्वार्थिको\ऽण् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अमर्षोऽसहनं कोपस् तु तत्-कार्य-भूतः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमर्षयित्वा कोपयित्वा उदन्त उत्क्षिप्तो भागणो वह्नि-सूर्यादीनाम् अपि ज्योतिर्-गणो येन तम् । पुनर् अपि प्रेयस्य्-अवमानेन कोपयतो विधातुः प्रजापतेः पितुर् ब्रह्मणोऽपि किं स्वस्ति स्यात् ? काऽन्यस्य कथेति दक्षस्य दौरात्म्येन सर्व एव महा-विपदि निमङ्क्ष्याम इति भावः ॥११॥
॥ ४.५.१२ ॥
बह्व् एवम् उद्विग्न-दृशोच्यमाने
जनेन दक्षस्य मुहुर् महात्मनः ।
उत्पेतुर् उत्पाततमाः सहस्रशो
भयावहा दिवि भूमौ च पर्यक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्विग्ना प्रचलिता दृग् यस्य तेन जनेन बहु यथा भवत्य् एवम् उच्यमाने सत्य्-उत्पात-तमा महोत्पाता उत्थिताः । पर्यक् सर्वतश् च । कथं-भूताः ? महात्मनोऽपि दक्षस्य भयावहाः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जनेन तत्रत्यलोकेन । महात्मनो विपरीतलक्षणया दुरात्मनः । यद् वा, महे यज्ञोत्सवे आत्मा बुद्धिर् यस्य यज्ञाविष्टचेतसः कर्मतन्त्रं वितनुताम् इत्य्-आदिनन्द्युक्तेः । अपिनातितेजस्विन इत्य् अर्थः स्वाम्यभिप्रेतः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेमातवः, सत्यम् एव ब्रूथेत्य् एवं जनेन तत्रत्य-लोक-समूहेनापि बहु उच्यमाने महात्मनोऽपि दक्षस्य । यद् वा, विपरीत-लक्षणस्य दुरात्मन इत्य् अर्थः ॥१२॥
॥ ४.५.१३ ॥
तावत् स रुद्रानुचरैर् महा-मखो
नानायुधैर् वामनकैर् उदायुधैः ।
पिङ्गैः पिशङ्गैर् मकरोदराननैः
पर्याद्रवद्भिर् विदुरान्वरुध्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नानायुधानि येषाम् । वामनकैर् ह्रस्वैः । उद्यतायुधैः । पिङ्गैः कपिलैः । पिशङ्गैः पीतैः । मकरस्येवोदरमाननं च येषां तैः । परितो धावद्भिर् अवरुद्धः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावदुत्पाता उत्पन्नास्तावत्कालक्षेपमन्तरेण ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वामनकैर् ह्रस्व-देहैः । अन्वरुध्यत आव्रियत ॥१३॥
॥ ४.५.१४ ॥
केचिद् बभञ्जुः प्राग्-वंशं पत्नी-शालां तथापरे ।
सद आग्नीध्र-शालां च तद्-विहारं महानसम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञ-शालायाः पूर्व-पश्चिम-स्तम्भयोर् अर्पितं पूर्व-पश्चिमायतं काष्ठं प्राग्-वंशस् तम् । यज्ञ-शालायाः पश्चिमतः पत्नी-शाला ताम् । यज्ञ-शालायाः पुरतः स्थितं सदो मण्डपः । सदसः पुरो हविर् धानं तस्योत्तरत आग्नीध्र-शालाम् । तद् विहारं यजमान-गृहम् । महानसं पाक-भोजन-शालाम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञ-शालायाः पूर्व-पश्चिम-स्तम्भयोर् अर्पितं पूर्व-पश्चिमायतं काष्ठं प्राग्-वंशः । यज्ञ-शालायाः पश्चिमतः पत्नी-शाला । यज्ञ-शालायाः पुरतः सदो मण्डपः । सदसः पुरतो हविर् धानं तस्योत्तरत आग्नीध्र-शाला । तद्-विहारं यजमान-गृहम् । महानसं पाक-भोजन-शालाम् ॥१४॥
॥ ४.५.१५ ॥
रुरुजुर् यज्ञ-पात्राणि तथैकेऽग्नीन् अनाशयन् ।
कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदि-मेखलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुरुजुर् बभञ्जुः । उत्तर-वेद्या मेखलाः सीमा-सूत्राणि । आज्ञा गुरूणां ह्य् अविचारणीया इति हेतोर् न ते दोष-भाजिन इति भावः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हविःशालायाः पूर्वभागे यजमानादिस्थित्यर्थे गृहे प्राग्वंशशब्दो वर्त्तते । प्राग्वंशः प्राग्धविर्गेहात् इत्यमरोक्तेः ॥१४-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुरुजुर् बभञ्जुः ॥१५॥
॥ ४.५.१६ ॥
अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् ।
अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यासन्नान् पलायितान् समीप-स्थान् पलायितान् अपि जगृहुः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तिष्ठत, भवतीः संप्रति विधवाः कुर्म इत्यश्लीलवचोभिर्वा पत्नीरतर्जयन । तर्जन्युत्थानपूर्वकमकथयन् । प्रत्यासन्नान्समीपस्थान् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तिष्ठत भवतीः सम्प्रति विधवाः कुर्महे इति अश्लील-वचनैर् वा पत्नीर् अतर्जयन् ॥१६॥
॥ ४.५.१७ ॥
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।
चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मणिमान्कश्चिद्रुद्रगणनाथः । प्रजापतिं दक्षम् । चण्डीशचण्डेश्वरः ॥१७॥
न कतमेनापि व्याख्यातम्।
॥ ४.५.१८ ॥
सर्व एवर्त्विजो दृष्ट्वा सदस्याः स-दिवौकसः ।
तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्रावभिर् अर्द्यमानाः नैकधा अनेकधा दुद्रुवुः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सदस्या विधिदर्शिनः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रावभिर् अर्द्यमानाः नैकधा दुद्रुवुः ॥१८॥
॥ ४.५.१९ ॥
जुह्वतः स्रुव-हस् तस्य श्मश्रूणि भगवान् भवः ।
भृगोर् लुलुञ्चे सदसि योऽहसच् छ्मश्रु दर्शयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्रुवो हस्ते यस्य । भवो वीरभद्रः । लुलुञ्चे उत्पाटितवान् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लुञ्च-अपनयने ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवो वीरभद्रः । लुलुञ्चे उत्पाटयामास ॥१९॥
॥ ४.५.२० ॥
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सद-स्थोऽक्ष्णा यः शपन्तम् असूसुचत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उज्जहाराद् धृतवान् । यः सदस्थः सभायां स्थितः सन् शपन्तं शिव-निन्दां कुर्वन्तं दक्षम् अक्ष्णाक्षिनि-कोचेनासूसुचत् प्रेरितवान् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षिनिकोचेन नेत्रचालनेन ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शपन्तं दक्षम् अक्षि-निकोचेन असूसुचत् प्रेरितवान् ॥२०॥
॥ ४.५.२१ ॥
पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः ।
शप्यमाने गरिमणि योऽहसद् दर्शयन् दतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कलिङ्ग-देश-राजस्यानिरुद्धोद्वाहे बलभद्रो यथा द्यूते दन्तान् पातितवान् । गरिमणि गुरुतरे रुद्रे निन्द्यमाने दतो दन्तान् दर्शयन् यो जहास । पूष्णोर् इति पाठेद् विवचनं—ऐन्द्रापौष्णश् चरुर् भवति इत्य् अत्रान्य-सहितस्यापि पूष्णो दन्त-पात-प्राप्त्य्-अर्थं सूचितवान् । तथा हि—पूषा प्रपिष्ट-भागोऽदन्तको हि तं देवा अब्रुवन् इति विहितस्य पेषणस्य द्वि-दैवत्याभावात् तत्र, तस्य दन्ताः सन्तीति वक्तव्यं स्यात् । नचैतत् सङ्गच्छत इत्य् आशङ्क्य तत्रापि तस्य दन्त-पातोऽवस्थाभेदे प्रवृत्तेन द्वि-वचनेन प्राप्यते, अत एव पूष्णोऽनुग्रहं द्वेधा वक्ष्यति । पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् इति । केवलश् चेत् प्रपिष्ट-भुग् भविष्यति । अन्य-सहितश् चेद् यजमानस्य दद्भिर् भक्षयिष्यतीत्य् अर्थः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऐन्द्रापूषाणौ देवते चरोः स ऐन्द्रापौष्णः । देवाताद्वन्द्वे च ७.३.२ इति पदद्वयादिवृद्धिः । देवताद्वन्द्वे च ६.३.२६ इति पूर्वपदस्यानङ् । अन्यसहितस्येन्द्रसहितस्यापि दन्तपातप्राप्तिरर्थः । प्रयोजनं तद् इति द्विवचनमित्यविशेषणं सूचितवान्मैत्रेय इति शेषः । तद्दर्शयति—तथा हीति । प्रकर्षेण पिष्टः प्रपिष्टो गोधूमचूर्णतण्डुलचूर्णादिस्तल्लक्षणो भागो यस्य स तथा । अदन्तको दन्तरहितः । हि यतो देवास्तं पूषाणमितीत्थमदन्तकमब्रुवन्न् इति मन्त्रविहितस्य पेषणस्य पिष्टभागस्य पूषेत्येकवचनश्रुतेर्द्विदैवत्याभावात् । तत्रेंद्रसाहित्यावस्थायां तस्य पूष्णः वक्तव्यं स्यात् पिष्टातिरिक्तचरुद्रव्यस्य सत्त्वात् । एतत्सदन्तत्वं न च सङ्गच्छते, कुतस् तस्य पूष्णः सदन्तत्वे पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् इत्यग्रिमानुग्रहस्यायोग्यत्वापातात् । तत्रापीन्द्रसाहित्यावस्थायाम् अपि । अवस्थाभेदे केवले साहित्य-रूपे । अत एवावस्थाभेदेन पूष्णो द्विविधत्वाद् एव । इत्यर्थः—इति तात्पर्यम् । कालिङ्गस्य कलिङ्गदेशनृपस्य ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूष्णोर् इति पाठे टीकायां तत्-सहितस्यापीति । इन्द्र-सहितो यः पूषा तस्यापि दन्त-पातम् अकरोद् इति प्राप्त्य्-अर्थम् इत्य् अर्थः । तत्र तस्य दन्तीति तद्-रहितस्येति वक्तव्यं स्यात् । इतीति किं तत्राह दन्ती, स तु पूषा दन्तवान् इत्य् अर्थः । तस्य दन्ताः सन्तीति वा पाठः । आशङ्क्य विचार्य । तत्रापि इन्द्र-सहितत्वेऽपीति पूष्ण इत्य्-आदि पूर्वार्धम् । शप्यमान इत्य्-आदि परार्धम् अनयोः पद्यार्धयोर् विपर्ययेण पाठस् तु न स्वामि-चित्सुखयोः सम्मतः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कलिङ्ग-देश-राजस्यानिरुद्धोद्वाहे बलभद्रो यथा दन्तान् द्यूते उत्पाटितवान्, गरिमणि गरिमवति रुद्रे । दतो दन्तान् । पुष्णोर् इति पाठे द्वि-वचनम् ऐन्द्रापौष्णश् चरुर् भवतीत्य् अत्रेन्द्र-सहितस्यान्यस्यापि पुष्णो दन्त-पातन-प्राप्त्य्-अर्थं ज्ञेयम् ॥२१॥
॥ ४.५.२२ ॥
आक्रम्योरसि दक्षस्य शित-धारेण हेतिना ।
छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : छिन्दन्न् अपीत्य् अत्र शिर इत्य् उपरि व्यक्तीभविष्यति । त्र्यम्बको वीरभद्रः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्छिर उद्धर्तुं छेत्तुम् । तदा छेदनावसरे ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेतिना खड्गेन तन्-मस्तकं त्र्यम्बको वीरभद्रः ॥२२॥
॥ ४.५.२३ ॥
शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्न-त्वचं हरः ।
विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्त्रान्वितैर् मन्त्र-सहितैः । अनिर्भिन्ना त्वग् यस्य तथा-भूतं दृष्ट्वेति शेषः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्छिर उद्धर्तुं छेत्तुम् । तदा छेदनावसरे ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शस्त्रैः खड्गादिभिः अस्त्रान्वितैर् शर-त्रिशूलादि-सहितैर् इच्छन्न् अत्वचं दृष्ट्वेति शेषः ॥२३॥
॥ ४.५.२४ ॥
दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे ।
यजमान-पशोः कस्य कायात् तेनाहरच् छिरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स पशूनां पतिर् मखे संज्ञपनं योगं कण्ठ-निष्पीडनादि-रूपं मारणोपायं दृष्ट्वा तेनोपायेनाहरत् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स प्रसिद्धः पशुपतिः वीरभद्रः अंशांशिनोरभेदोपचाराद्भवत्र्यंबकपशुपतिहरशब्दा वीरभद्रवाचका एव वह्निकणवह्निन्यायेन वा । यजमान एव पशुस् तस्य ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संज्ञपनं योगं कण्ठ-निष्पीडनेन त्रोटनं, तेनोपायेनाहरत् ॥२४॥
॥ ४.५.२५ ॥
साधु-वादस् तदा तेषां कर्म तत् तस्य पश्यताम् ।
भूत-प्रेत-पिशाचानाम् अन्येषां तद्-विपर्ययः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्येषां ब्राह्मणादीनां तद्-विपर्ययोऽसाधु-वादः अभूद् इति शेषः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां रुद्रगणानाम् । साधु कृतम् इति जल्पः साधुवादः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्येषां विप्रादीनां तद्-विपर्ययोऽसाधु-वादः ॥२५॥
॥ ४.५.२६ ॥
जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः ।
तद्-देव-यजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुह्यकालयं कैलासम् ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्यज्ञे । दक्षिणसंज्ञाग्नौ । स च (दक्षश्च) देवयजनं च (यज्ञश्च) इति समाहारद्वन्द्वो वा ॥२६॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे पञ्चमो\ऽध्यायः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुह्यकालयं कैलासम् ॥२६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे श्री-विदुर-मैत्रेय-संवादे दक्ष-यज्ञ-विध्वंसनं नाम
पञ्चमोऽध्यायः ।
॥५॥
(४.६)