(४.३)
तृतीयोऽध्यायः
विषयः
पितुर् यज्ञोत्सवं द्रष्टुं जिगमिषन्त्याः सत्याः शिवात् स्वीकृति-प्रार्थनं शिव-द्वारा तत्र गमन-निषेधश् च ।
॥ ४.३.१ ॥
मैत्रेय उवाच—
सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः ।
जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
तृतीये तु सती तात-यज्ञोत्सव-दिदृक्षया ।
गमिष्यन्ती महेशेन वारिता नीति-हेतुभिः ॥*॥
ध्रियमाणयोर् अवतिष्ठमानयोः । धृङ् अवस्थाने इत्य् अस्मात् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तातो दक्षः । नीति-युक्तैर् हेतुभिर् वाक्य-लक्षणैः ॥*।। शिवस्य तु द्वेषस् तद्-अज्ञान एव न तु तस्मिन् बाले पितुर् इवेति ।
द्वयोर् द्वित्वं समादाय त्रयाणां त्रित्वम् एव च ।
विशेषणे स्याद् द्वित्वादि विशेष्य-प्रत्ययस्य च ॥
इत्य् उक्तेर् विद्विषतोर् इति षष्ठी-द्वि-वचनम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्मिन्न् अध्याये न कापि व्याख्या।
जीव-गोस्वामी (क्रम-सन्दर्भः) : सदा इति । शिवस्य तु द्वेषस् तद्-अज्ञान एव, न तु तस्मिन् बाले पितुर् इव ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
तृतीये स्व-पितुर् यज्ञं दिदृक्षुर् यास्यती सती ।
निवारिता नीति-वाक्यैर् अदत्ताज्ञा हरेण सा ॥ओ॥
ध्रियमाणयोः अवतिष्ठमानयोः । क्षमां क्षमापणं चाप्राप्तवतोर् इत्य् अर्थः । धृङ् अवस्थान इत्य् अस्मात् ॥१॥
॥ ४.३.२ ॥
यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना ।
प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयोऽभवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अपि रुद्र-विहीनो यज्ञो नास्त्य् एव, तथापि दक्षस्य रुद्र-परित्यागो द्वेषाद् गर्वाच् च । तत्र द्वेषे हेतुर् उक्तः । गर्वे हेतुम् आह । यदा तु प्रजापतीनाम् आधिपत्येऽभिषिक्तः, तदा तस्य स्मयो गर्वोऽभवत् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र द्वयोर् मध्ये द्वेषे हेतुर् [नत्य]{।मर्क्}भावादिर् उक्तः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदाभिषिक्त इति शिव-द्वेषिणो दक्षस्य सम्पत्तिर् इयं राज्यस्यापराध-फलम् एव पुनर् अप्य् अपराध-वृद्ध्य्-अर्थम् एव । अत एवाह—स्मयो गर्वम् ॥२॥
॥ ४.३.३ ॥
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च ।
बृहस्पति-सवं नाम समारेभे क्रतूत्तमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गर्वाद् एव ब्रह्मिष्ठान् सेश्वरान् अभिभूय तिरस्कृत्य । वाजपेयेनेष्ट्वा बृहस्पति-सवेन यजेत इति श्रुतेर् वाजपेयेनेष्ट्वा समारेभे ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाठान्तरे "वाजि-पेयं" यत्र स वाजिपेयो याग-भेदः । आमिक्षावशिष्टं जलं वाजीत्य् उच्यते इति । आमिक्षा सा शितोष्णे या क्षीरे स्याद् दधि-योगतः इत्य् अमरः । श्रुत्य्-अन्तरे च वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इति । वाजि-संज्ञका देवा अपि सन्ति तेभ्यो वाजिनं दद्याद् इति । आमिक्षातो\ऽवशिष्टं यद्वारि तद्वाजि संस्मृतम् इति कोशान्तराच् च । सेश्वरान् । भवं तत्-पक्षीयांश् च भाग-दानामन्त्रणाद्य्-अकरणेन तिरस्कृत्य ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गर्वाद् एव ब्रह्मिष्ठान् अभिभूय बृहस्पति-सवम् इति । वाजपेयेनेष्ट्वा बृहस्पति-सवेन यजेत इति श्रुतेः ॥३॥
॥ ४.३.४ ॥
तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि-पितृ-देवताः ।
आसन् कृत-स्वस्त्ययनास् तत्-पत्न्यश् च स-भर्तृकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत-स्वस्त्ययनाः कृत-मङ्गलाः । स-भर्टृका इति दक्षिणादिभिः प्रथमम् अर्हितानाम् अपि पत्न्य्-अर्हणे पुनर् अर्हणम् उक्तम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् यज्ञे । कृत-मङ्गलाः कृतार्हणाः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृत-स्वस्त्ययनाः कृतार्हणाः । स-भर्तृका इति तेषां पत्न्य्-अर्हणैः पुनर् अप्य् अर्हणम् उक्तम् ॥४॥
॥ ४.३.५-७ ॥
तद् उपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।
सती दाक्षायणी देवी पितृ-यज्ञ-महोत्सवम् ॥
व्रजन्तीः सर्वतो दिग्भ्य उपदेव-वर-स्त्रियः ।
विमान-यानाः स-प्रेष्ठा निष्क-कण्ठीः सुवाससः ॥
दृष्ट्वा स्व-निलयाभ्याशे लोलाक्षीर् मृष्ट-कुण्डलाः ।
पतिं भूत-पतिं देवम् औत्सुक्याद् अभ्यभाषत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तदा खेचराणां प्रजल्पतां सतां पितृ-यज्ञ-महोत्सवं श्रुत्वा तत्र व्रजन्तीर् उपदेवानां गन्धर्वादीनां वर-स्त्रियश् च स्वस्य निलयस्य अभ्याशे समीपे दृष्ट्वा औत्सुक्यात् पतिम् अभ्यभाषत इति त्रयाणाम् अन्वयः ॥५॥ कथं-भूताः ? स्त्रियो दृष्ट्वा । विमानानि यानानि यासां ताः । प्रेष्ठैः सहिताः । निष्काणि पदकानि कण्ठेषु यासाम् । शोभमानानि वासांसि यासाम् ॥६॥ लोलानि चञ्चलान्य् अक्षीणि यासाम् । मृष्टान्य् उज्ज्वलानि कुण्डलानि यासां ताः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खेचराणां विद्याधरादीनाम् ॥ भूतानां सर्व-देहिनां पतिम् ईश्वरम् । औत्सुक्याद् उत्कण्ठातः ॥५-७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् उपश्रुत्य इति त्रिकम् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तदा खेचराणां प्रजल्पतां मुखात् पितृ-यज्ञ-महोत्सवम् उपश्रुत्य व्रजन्तीर् उपदेव-वर-स्त्रियो दृष्ट्वा पतिम् अभ्यभाषत ॥५-७॥
॥ ४.३.८ ॥
सत्य् उवाच—
प्रजापतेस् ते श्वशुरस्य साम्प्रतं
निर्यापितो यज्ञ-महोत्सवः किल ।
वयं च तत्राभिसराम वाम ते
यद्य् अर्थितामी विबुधा व्रजन्ति हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्यापितः प्रवर्तितः । हे वाम शिव ! ते यद्य् अर्थिता इच्छा तर्हि वयं च तत्राभिसराम गच्छामः । न चाद्यापि यागो निवृत्तः । यतोऽमी विबुधा व्रजन्ति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजापतयो\ऽनेके सन्तीति चेत्, तत्राह । ते श्वशुरस्य इति । यज्ञ-पदोपादानात् तत्र तव मुख्य-भागित्वम् इतो\ऽवश्यं तत्र गन्तव्यम् इति ध्वनितम् । वाम इत्य् आमन्त्रणेनात्र वक्रता न विधेया । सरलो\ऽसि सुन्दरो\ऽसि वा तेन गन्तव्यम् एव । वामो वक्रे\ऽतिसुन्दरे इति धरणिः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३.९ ॥
तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर्
ध्रुवं गमिष्यन्ति सुहृद्-दिदृक्षवः ।
अहं च तस्मिन् भवताभिकामये
सहोपनीतं परिबर्हम् अर्हितुम्1 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : औत्सुक्यं प्रकटयन्त्य् आह—तस्मिन्न् इति षड्भिः । पितृभ्याम् उपनीतं दत्तं परिबर्हम् अलङ्कारादि-द्रव्यं भवता सह अर्हितुं स्वीकर्तुम् अभिकामये । "अर्हितम्" इति पाठे तत्-कृतं परिबर्हम् इच्छामीति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तव मम वा किं कार्यम् ? अत आह—अस्मिन्न् इति । तासां स-भर्तृकाणाम् अर्हणम् इव ममापि स-भर्तृकाया अर्हणं भवत्व् इति कामय इत्य् आह—अहं च इति । परिबर्हो राज-योग्य-द्रव्य-परिच्छद इति मेदिनी ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मिन्न् इति सार्धकम् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तव मम वा किं प्रयोजनम् ? अत आह—तस्मिन् भगिन्य इति । तासां स-भर्तृकाणाम् अर्हणम् इव ममापि स-भर्तृकाया अर्हणं भवत्व् इति कामये इत्य् आह—अहं च इत्य्-आदि । पितृभ्याम् उपनीतं दत्तं परिबर्हं वस्त्रालङ्कारादि-द्रव्यं भवता सह अर्हितुम् अर्हयितुं स्वीकर्तुम् इति यावत् । कामये इच्छामि ॥९॥
॥ ४.३.१० ॥
तत्र स्वसॄर् मे ननु भर्तृ-सम्मिता
मातृ-ष्वसॄः क्लिन्न-धियं च मातरम् ।
द्रक्ष्ये चिरोत्कण्ठ-मना महर्षिभिर्
उन्नीयमानं च मृडाध्वर-ध्वजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वसॄर् भगिनीः । भर्तृभिः संमिताः सदृशीः । क्लिन्न-धियं स्नेहार्द्र-चित्ताम् । चिरम् उत्कण्ठम् उत्सुकं मनो यस्याः, साहं द्रक्ष्यामि । हे मृड ! उन्नीयमानं प्रवर्त्यमानम् अध्वरेषु ध्वजम् इव दृश्यं श्रेष्ठम् अध्वरम् । यद् वा, उत्क्षिप्यमाणं यज्ञे केतुं यूपं वा ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं परिबर्हार्थिनी यियाससि ? इति तत्राह—तत्र इति । तत्र यागोत्सवे । यज्ञानां जप-यज्ञो\ऽस्मि इति श्री-मुखोक्तेर् भगवत्-स्वरूप-यागस्य सर्व-याग-श्रेष्ठत्वम् अस्तीति चेत् तत्राह—यद् वा इति । यूपस्य दूरतो दृश्यत्वात् केतुत्वम् एवेत्य् आह—यूपं वा इति । मृड इति सर्व-सुखदत्त्वात् तव मद्-अभिलषित-पूरणेन मह्यम् अपि तद् देयम् इत्य् आह ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं परिबर्हार्थिनी यियाससि ? इति तत्राह—तत्र इति । क्लिन्न-धियं स्नेहार्द्र-चित्तानाम् । उन्नीयमानं प्रवर्तमानम् अध्वरेषु मध्ये ध्वजम् इव श्रेष्ठम् । यद् वा, उत्क्षिप्यमाणं यज्ञ-केतुम् ॥१०॥
॥ ४.३.११ ॥
त्वय्य् एतद् आश्चर्यम् अजात्म-मायया
विनिर्मितं भाति गुण-त्रयात्मकम् ।
तथाप्य् अहं योषिद् अतत्त्व-विच् च ते
दीना दिदृक्षे भव मे भव-क्षितिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो किं तत्राश्चर्यं येन तवैतद् औत्सुक्यम् ? इति चेद्, अत आह—त्वयि इति । हे अज ! एतद् विश्वम् आश्चर्य-रूपं त्वय्य् एव त्वन्-मायया रचितं विभाति । अतो यद्य् अपि तव नाश्चर्य-बुद्धिः, तथाप्य् अहं योषिद् उत्सुक-स्वभावा तव तत्त्वं न जानामि । अतो दीना कृष्णा सती । हे भव ! मे भव-क्षितिं जन्म-भूमिं दिदृक्षे द्रष्टुम् इच्छामि ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अजत्वात् तव जन्म-भूर् एव नास्ति यतस् तवापि मत्-तुल्यौत्सुक्यं स्याद् इत्य् अभिप्रायः । अतस् त्वन्-माया-रचितत्वात् । अतस् त्वत्-तत्त्वानभिज्ञत्वात् । हे भव ! इति मङ्गल-रूपत्वात् तव मङ्गल-कर्म-दर्शनाज्ञां देहीति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्याश्चर्यम् इदं यत् तवापि प्राकृत-लोकस्येव बन्धुष्व् एव तावान् मोहस् तत्राह—त्वयि इति । हे अज ! एतन् मोहादिकं तवात्मारामत्वात् त्वय्य् एव आश्चर्यं भाति । अस्माकं तु स्वाभाविक एवायं धर्म इति भावः । यतो गुण-त्रयात्मकम् इदं विश्वम् आत्म-मायया विनिर्मितम् अतो मुह्यत्य् एवेति भावः । तथाप्य् एतद् विश्व-मध्येऽपि अहं योषित्, तत्रापि दीना । भव-क्षितिं जन्म-भूमिं दिदृक्षे । हे भव ! ॥११॥
॥ ४.३.१२ ॥
पश्य प्रयान्तीर् अभवान्य-योषितो\ऽप्य्
अलङ्कृताः कान्त-सखा वरूथशः ।
यासां व्रजद्भिः शिति-कण्ठ मण्डितं
नभो विमानैः कल-हंस-पाण्डुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिदृक्षाम् एव कैमुत्य-न्यायेन व्यनक्ति—पश्य इति द्वाभ्याम् । हे अभव ! इति । सुहृद्-वियोग-दुःखं त्वया नास्वादितम् इति भावः । अन्या योषितः संबन्ध-रहिता अपि प्रयान्तीः पश्य । कान्त-सखा भर्तृ-सहिताः । वरूथशः सङ्घशः । कथं-भूताः ? यासां विमानैर् नभो मण्डितं, ताः । हे शिति-कण्ठ ! नील-कण्ठ ! इति परानुग्रहाय त्वया विषम् अपि भक्षितम् इति सूचयति ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलम् अहम् एकैवैतादृशी इत्य् आह—पश्य इति । अभव ! इति । इति भाव इति**—**जन्मादिमताम् एव सुहृद्-वियोगादि-दुःखं भवतीत्य् आशयः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् अहम् अकैतवैतादृशीत्य् आह—पश्य इति । हे अभव ! इति सुहृद्-वियोग-दुःखं त्वया नानुभूतम् इति भावः । अन्या योषितः सम्बन्ध-रहिता अपि कान्त-सखा भर्तृ-सहिताः वरूथशः सङ्घशः । यासां विमानैर् व्रजद्भिर् नभो मण्डितम् । हे शितिकण्ठ! इति परानुग्रहाय त्वया विषम् अपि भक्षितम् अत आज्ञां देहीति भावः ॥१२॥
॥ ४.३.१३ ॥
कथं सुतायाः पितृ-गेह-कौतुकं
निशम्य देहः सुर-वर्य नेङ्गते ।
अनाहुता अप्य् अभियन्ति सौहृदं
भर्तुर् गुरोर् देह-कृतश् च केतनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा हे सुर-श्रेष्ठ ! पितृ-गेहोत्सवं निशम्य सुताया देहः कथं नेङ्गते द्रष्टुं न प्रचलति ? तथाप्य् अनाहुताः सन्ताह् कथं गच्छामः ? तत्राह—सौहृदं सुहृत्-संबन्धि केतनं गृहं तथा भर्त्र्-आदीनं च गृहम् अनाहूता अप्य् अभियन्ति सन्तः । ह्रस्वत्वम् आर्षम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् औत्सुक्यम् । अहं तु तस्य कन्या भूत्वा कथं धैर्यं धास्यामि ? इत्य् आह—कथम् इति । इह गुरु-पदेन श्वशुरो\ऽपि गृह्यते, देह-कृतः पितुः । गृहे स्थाने च केतनम् इति धरणिः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं तु तस्य कन्या भूत्वा कथं धैर्यं धास्यामि ? इत्य् आह—कथम् इति । नेङ्गते न द्रष्टुं प्रचलति । ननु तद् अप्य् अनाहूताः कथं गच्छामः ? तत्राह—अनाहूता अपि। सौहृदं सुहृदः केतनं गृहम् । गुरोः श्वशुरस्य देह-कृतः पितुश् च ॥१३॥
॥ ४.३.१४ ॥
तन् मे प्रसीदेदम् अमर्त्य वाञ्छितं
कर्तुं भवान् कारुणिको बतार्हति2 ।
त्वयात्मनोऽर्धेऽहम् अदभ्र-चक्षुषा
निरूपिता मानुगृहाण याचितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे अमर्त्य, तत् तस्मात् प्रसीद । इदं मे वाञ्छितं कर्तुं भवान् अर्हति । कारुणिकत्वम् एवाह—अदभ्र-चक्षुषा अनल्प-ज्ञानेनापि त्वया आत्मनो देहस्य अर्धेऽहं निरूपिता धृता । यतोऽर्ध-नारीश्वर इति ख्यातोऽसि, अतो माम् अनुग्रहाण । याचितः सन् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् अमर्त्यो देवो\ऽसि । तत् तस्मात् देवा हि प्रार्थिता वाञ्छितं कुर्वन्ति इति भावः । अमर्त्या अमृतान्धसः इत्य् अमरः । पूर्वं त्वयाकर्तव्यम् अपि कृतम् इत्य् आह—आत्मनो\ऽर्धे इति । अनल्प-ज्ञानेन आत्मारामेण ॥१४॥
**जीव-गोस्वामी (क्रम-सन्दर्भः) : "**अर्हसि" इति चित्सुखः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि ते नास्ति जिगमिषा, तद् अपि मद्-अनुरोधेन कृपया गच्छेत्य् आह—तन् मे इति । हे अमर्त्य ! देव ! त्वया अकर्तव्यम् अपि कृतम् इत्य् आह—अदभ्र-चक्षुषा अनल्प-ज्ञानेन आत्मार्तामेणापि आत्मनो देहस्य अर्धे अहं निरूपिता धृता । यतोऽर्ध-नारीश्वर इति ख्यातोऽसि अतो मा माम् ॥१४॥
॥ ४.३.१५ ॥
ऋषिर् उवाच—
एवं गिरित्रः प्रिययाभिभाषितः
प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः ।
संस्मारितो मर्म-भिदः कुवाग्-इषून्
यान् आह को विश्व-सृजां समक्षतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिभाषितो याचितः । को दक्षो यान् आह । मर्म भिन्दन्ति ये, तान् कुवाग्-इषून् दुरुक्ति-बाणान् संस्मारितः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु दक्ष-प्रयुक्ताः कटु-वाग्-इषवः श्री-शिवस्य आत्मारामस्य मर्म कथं भिन्दन्ति ? उच्यते**—**शिवस्य परमेश्वरत्वाद् आत्मारामत्वे सत्य् एव तमो-गुणोपहितत्वात् कदाचित् परमैश्वर्याननुसन्धाने सति शोक-मोह-राग-द्वेषादयो\ऽपि भवन्ति । तथैव कृष्णस्य सदैवात्मारामत्वे\ऽपि श्री-यशोदादि-श्री-बलदेवादि-श्री-गोपिकादि-विशिष्टत्वे प्रेमवत्त्वाद् एव स्वीय-पारमैश्वर्याननुसन्धानाच् छोक-मोह-राग-द्वेषादयः । किन्तु शिवस्य तमो-गुणोद्भूतास् ते दुःखाभासानुभव-मयाः । कृष्णस्य प्रेमोद्भुतास् ते आनन्द-परम-काष्ठानुभव-मयाः । प्रेम्णश् चिच्-छक्ति-सार-वृत्तित्वाद् आत्मारामत्वस्याप्य् असङ्कोचकाः असुरादि-हिंसादयश् च सत्त्व-गुण-कार्या एव गुणानां परस्परोपमर्दित्वात् । यथा प्रकाशो\ऽन्धकारं हन्ति, तथैव सत्त्व-गुणस् तमो-रजसी हन्ति, तथैव कृष्णो\ऽसुरादीन् निहन्तीति शुद्ध-सत्त्व-रूपे तस्मिन् प्राकृत-सत्त्व-कार्यास् ते वर्तमाना अपि नापकारका इति व्याख्यातं प्रथमे, सप्तमारम्भे च वक्ष्यते ॥१५॥ [अत्र विश्वनाथानुसृतम्]
जीव-गोस्वामी (क्रम-सन्दर्भः) : अभिभाषित इत्य् "अत्र नाथित" इति क्वचित् । मर्म-भिदस् तद्-भक्तानाम् ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : को दक्षो यान् आह, तान् मर्म-भिदः कटु-वाक्-शरान् प्रियया स्मारितः । ननु दक्ष-प्रयुक्ताः कटु-वाग्-इषवः श्री-शिवस्य आत्मारामस्य मर्म कथं भिदन्ति ? उच्यते—शिवस्य परमेश्वरत्वाद् आत्मारामत्वम् अस्त्य् एव । तमो-गुण-युक्तत्वाच् च कदाचित् पारमैश्वर्याननुसन्धाने सति शोक-मोह-राग-द्वेषादयोऽपि भवन्ति । तथैव कृष्णस्य सदैवात्मारामत्वेऽपि श्री-यशोदादि-श्री-बलदेवादि-श्री-गोपिकादि-विशिष्टत्वे प्रेमवत्त्वाद् एव स्वीय-पारमैश्वर्याननुसन्धानात् शोक-मोह-राग-द्वेषादयः । किन्तु शिवस्य तमो-गुणोद्भूतास् ते दुःखाभासानुभव-मयाः । कृष्णस्य प्रेमोद्भूतास् ते आनन्द-परम-काष्ठानुभव-मयाः । प्रेम्णश् चिच्-छक्ति-सार-वृत्तित्वाद् आत्मारामत्वस्याप्य् असङ्कोचकाः । असुरादि-हिंसादयस् तु सत्त्व-गुण-कार्या एव गुणानां परस्परोपमर्दित्वात् । यथा प्रकाशोऽन्धकारं हन्ति तथैव सत्त्व-गुणस् तमो-रजसी हन्ति । तथैव कृष्णोऽसुरादीन् निहन्तीति शुद्ध-सत्त्व-रूपे तस्मिन् प्राकृत-सत्त्व-कार्यास् ते वर्तमाना अपि नापकारका इति प्रथम एव व्याख्यातम् । सप्तमारम्भे च वक्ष्यते ॥१५॥
॥ ४.३.१६ ॥
श्री-भगवान् उवाच—
त्वयोदितं शोभनम् एव शोभने
अनाहुता अप्य् अभियन्ति बन्धुषु ।
ते यद्य् अनुत्पादित-दोष-दृष्टयो
बलीयसानात्म्य-मदेन मन्युना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनाहुता अपि इति त्वया यद् उदितम् उक्तं तच् छोभनम् एव, किं त्व् अनात्म्यं देहादाव् अहङ्कारः, तत्-कृतेन मदेन मन्युना च ते बन्धवो यद्य् अनुत्पादित-दोष-दृष्टयो भवन्ति, तर्हि । न उत्पादिते आरोपिते दोषे दृष्टिर् येषां ते ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [???]{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनात्म्यं देहादाव् अहङ्कारः, तत्-कृतेन मदेन मन्युना च ते बन्धवो यद्य् अनुत्पादित-दोष-दृष्टयो भवन्ति ॥१६॥
॥ ४.३.१७ ॥
विद्या-तपो-वित्त-वपुर्-वयः-कुलैः
सतां गुणैः षड्भिर् असत्तमेतरैः ।
स्मृतौ हतायां भृत-मान-दुर्दृशः
स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विद्यादि-गुण-युक्तो दक्षस् त्व् आदृशेषु महत्सु कथं दोष-दृष्टिर् भवेत् ? तत्राह—विद्यादिभिर् एव स्मृतौ हतायां विवेक-ज्ञाने नष्टे सति भूयसां महत्तमानां धाम तेजो न पश्यन्ति हि । ननु गुणैः कथं विवेक-नाशः ? तत्राह—सतां गुणैर् विवेक-हेतुभिर् अप्य् असत्तमानाम् इतरैर् दोष-भूतैः । अत एव तैर् भृतो धृतः पुष्टो वाहं विद्वांस् तापस इत्य्-आदिर् मानो गर्वस् तेन दुष्टा दृष्टिर् येषां ते ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—नन्व् इति । तत्र आक्षेपे । पुनर् आक्षिपति—नन्व् इति । अत एवासत्तम-गुणानां दोष-भूतत्वाद् एव । भृञ्-धातोर् उभयार्थकत्वाद् विकल्प इति । एतेन दुग्धम् अमृतम् अपि सर्पास्य-प्रविष्टं विषम् एव भवेत्, तथाब्धि-जलं क्षारम् अपि मेघ-प्रविष्टं मिष्टं स्याद् इति स्थान एव गुणा गुणायन्ते, अन्यथा दोषा एवेत्य् उक्तं तथा दोषा अपि स्थान-भेदेन गुणा भवन्तीत्य् अन्यत् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भृत-मान- इत्य् अत्र ह्य् "अभिमान" इति क्वचित् । "स्तब्धा" इति चित्सुखस्यापि सम्मतः पाठः ।१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु विदुषो मत्-पितुर् मूढानाम् इव दोष-दृष्टिः कथं सम्भवेत् ? तत्रासतां विद्यादय एवानर्थ-हेतवः । इत्य् आह—विद्यादिभिर् एव षड्भिर् गुणैः स्मृतौ विवेचनायां हतायां सत्यां भृतास् तैर् एव पुष्टाः अहं विद्वांस् तापस इत्य्-आदि मानो गर्वस् तेन दुर्दृशोऽन्धा भूयसां महत्तमानां धाम तेजो न पश्यन्ति । ननु, तैर् गुणाइः कथं स्मृति-भ्रंशः ? तत्राह—सतां गुणैर् असत्तमानां तु इतरैर् दोषैर् दुग्धम् अमृतम् अपि सर्प-मुखे प्रविष्टं विषम् एव भवेत्, अतः स्थान एव गुणा गुणायन्त इति भावः ॥१७॥
॥ ४.३.१८ ॥
नैतादृशानां स्व-जन-व्यपेक्षया
गृहान् प्रतीयाद् अनवस्थितात्मनाम् ।
येऽभ्यागतान् वक्र-धियाभिचक्षते
आरोपित-भ्रूभिर् अमर्षणाक्षिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-जन-व्यपेक्षया बन्धु-दृष्ट्या । गृहान् न प्रतीयान् नावलोकयेत् । **अनवस्थित-**चित्तत्वम् एवाह । ये वक्र-धिया बुद्ध्या पश्यन्ति । आरोपिता उत्तम्भिता भ्रूर् येषु, तान्य् आरोपित-भ्रूणि, तैः । आरोपिताभिर् भ्रूभिर् इति वा । अमर्षणैः स-क्रोधैर् अक्षिभिः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एतादृशाः पित्रादयो\ऽप्य् उपेक्ष्या एवेत्य् आह—नैतादृश- इति । यदि गच्छेत् तदा शत्रु-दृष्ट्यैव गच्छेद् इति भावः । ननु दुरात्मानो\ऽपि स्वापत्य-जामात्र्-आदिषु स्निह्यन्त्य् एव ? इति तत्राह—अनवस्थितात्मनां नायम् अपि तेषां निश्चय इति भावः । अमर्षण-पदेनैव चरितार्थत्वाद् विशेषणानर्थक्यम् आशङ्क्याह**—**आरोपिताभिः भ्रूभिर् इति वेति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वक्र-धिया हेतुना आरोपित-भ्रूभिर् उपलक्षितैर् अमर्षणाक्षिभिः येऽभिचक्षते ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत ईदृशाः पित्रादयोऽप्य् उपेक्ष्या एवेत्य् आह—नैता इति । स्वजना इति या विशिष्टा अपेक्षा, तया न गच्छेद् इति । यदि गच्छेत्, तदा वरं शत्रु-बुद्ध्यैव गच्छेद् इति भावः । ननु, दुरात्मनोऽपि स्वापत्य-जामात्रादिषु स्निह्यन्त्य् एव ? इति तत्राह—अनवस्थितात्मनां नायम् अपि तेषां निश्चय इति भावः । ये आरोपिताभिर् भ्रूभिस् तथा अमर्षणाक्षिभिः क्रोध-नेत्रैर् अभिचक्षते पश्यन्ति ॥१८॥
॥ ४.३.१९ ॥
तथारिभिर् न व्यथते शिलीमुखैः
शेतेऽर्दिताङ्गो हृदयेन दूयता ।
स्वानां यथा वक्र-धियां दुरुक्तिभिर्
दिवा-निशं तप्यति मर्म-ताडितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु स्व-जनानां गृहं सुहृद्भिर् गन्तव्यं तेषां दुश्चेष्टितं च सोढव्यम्, न, तस्य दुःसहत्वाद् इत्य् आह—तथा इति । अरिभिः शिलीमुखैर् बाणैर् अर्दिताङ्गः खण्डित-गात्रोऽपि तथा न व्यथते । यतः शेते स्वपिति । स्वानां दुरुक्तिभिर् मर्मसु ताडितो यथा दूयता व्यथमानेन हृदा दिवा-निशं तप्यति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । एतादृशा बन्धवो\ऽरिभ्यो\ऽप्य् अधिका इति भावः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शेते कदाचिन् निद्रात्य् अपीत्य् अर्थः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृशा बन्धवः शत्रुभ्योऽप्य् अधिका इत्य् आह—अरिभिः प्रयुक्तैः शिलीमुखैर् बाणैः तथा न व्यथते, यतः शेते कदाचित् स्वपिति । दूयता दूयमानेनेत्य् उत्तरेणान्वयः ॥१९॥
॥ ४.३.२० ॥
व्यक्तं त्वम् उत्कृष्ट-गतेः प्रजापतेः
प्रियात्मजानाम् असि सुभ्रु मे मता ।
तथापि मानं न पितुः प्रपत्स्यसे \ऽ
मद्-आश्रयात् कः परितप्यते यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मयि तत्र गतायां नेयं शङ्केति चेत्, तत्राह—व्यक्तं निश्चितम् उत्कृष्टा गतिः स्थितिर् यस्य, तस्य आत्मजानां कन्यानां मध्ये त्वं प्रिया इति मे संमतासि, अथापि पितुः सकाशान् मानं न [प्रपत्स्यसे] लप्स्यसे । मद्-आश्रयान् मत्-संबन्धात् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्कृष्ट-गतेर् इति विपरीत-लक्षणया ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयि तत्र गतायां नेयं शङ्केति चेत्, तत्राह—व्यक्तं निश्चितम् एव उत्कृष्ट-गतेर् इति विपरीत-लक्षणया प्रजापतेर् दक्षस्य आत्मजानां मध्ये त्वं प्रिया अतिस्नेह-पात्री भवसि । तथापि तद् अपि पितुः सकाशात् मानं न प्रतिपस्यस्ये न प्राप्स्यसि । यतो मद्-आश्रयात् मत्-सम्बन्धात् ॥२०॥
॥ ४.३.२१ ॥
पापच्यमानेन हृदातुरेन्द्रियः
समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् ।
अकल्प एषाम् अधिरोढुम् अञ्जसा
परं पदं द्वेष्टि यथासुरा हरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भगवंस् त्वया किम् ? इति दक्षस् तिरस्कृतो यतोऽसौ त्वां द्वेष्टि । अत आह—पापच्यमानेन अलं दह्यमानेन हृदा मनसा दुःखितेन्द्रियः । काभिः ? पूरुषो जीवस् तस्य बुद्धिश् चित्तं तत्-साक्षिणां निरहङ्काराणाम् इत्य् अर्थः । समृद्धिभिः पुण्य-कीर्त्य्-आदिभिः । एषां पदं स्थानम् ऐश्वर्यं प्राप्तुम् अकल्पोऽशक्तः सन् परं द्वेष्टि । असुरा यथा हरिं केवलं द्विषन्ति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इहाक्षिपति—नन्व् इति । परं केवलं, तद् उक्तं—
दह्यमानाः सुतीव्रेण नीचाः पर-यशो\ऽग्निना ।
अशक्तास् तत्-पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ इति ।
अयम् अर्थः—अस्माकं तु त्वत्-पितरि दक्षे द्वेष-लेशो\ऽपि नास्तीति स-शपथं वदन् विशिनष्टि । पूरुषः परमेश्वर एव बुद्धेर् भद्राया अभद्राया वा साक्षी येषां, तेषाम् इति । हे दाक्षायणि! यदि त्वं न प्रत्येषि, तदा क्षणं समाधिना परमेश्वरं साक्षात् कृत्वा मद्-दोष-गुणौ स एव प्रष्टव्य इति भाव इति विश्वनाथः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, भगवंस् तदा त्वया वा दक्षं प्रति मनसा किञ्चित् द्विष्टम्, तत्र नहि नहीति शपथं कुर्वन् । दक्षो मत्सरी सदैवास्मद्-आदीन् द्वेष्टि । सम्प्रति मद्-अपराधं कल्पयित्वा द्वेषं प्रकटयामासेत्य् आह—पापच्य- इति । एषाम् अस्मद्-आदीनां समृद्धिभिर् योगैश्वर्यादिभिर् हेतुभिः पापाच्यमानेन जाज्वल्यमानेन हृदा आतुरेन्द्रियो द्वेष्टि यथा असुरा हरिम् । कीदृशः ? एषां परं सर्वोत्कृष्टं पदम् अधिरोढुम् अकल्पः असमर्थः । अस्माकं तु दक्षे त्वत्-पितरि द्वेष-लेशोऽपि नासीति स-शपथं वदन् विशिनष्टि—पुरुषः परमेश्वर एव बुद्धेर् भद्राया अभद्राया वा साक्षी येषां, तेषाम् इति । हे दाक्षायणि, यदि त्वं न प्रत्येषि, तदा क्षणं समाधिना परमेश्वरं साक्षात्कृत्य मद्-दोष-गुणौ स एव प्रष्टव्य इति भावः ॥२१॥
॥ ४.३.२२ ॥
प्रत्युद्गम-प्रश्रयणाभिवादनं
विधीयते साधु मिथः सुमध्यमे ।
प्राज्ञैः परस्मै पुरुषाय चेतसा
गुहा-शयायैव न देह-मानिने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्वया प्रत्युत्थान-विनयाद्य्-अकरणाद् अवज्ञात एवासौ तत्राह—हे सु-मध्यमे ! प्रत्युद्गमादिकं मिथो जनैर् यद् विधीयते, तत् प्राज्ञैः साधु विधीयते । साधुत्वम् एवाह—परस्मै श्री-वासुदेवाय । गुहा-शयाय अन्तर्यामिण एव । तच् च चेतसा एव। परिपूर्णे तस्मिन् कायिक-व्यापारायोगात् । अतोऽन्तर्यामि-दृष्ट्या मनसा सर्वं कृतम् इति भावः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्यं त्वद्-द्वेष्टैवेति प्रत्येमि, तद् अपि श्वशुरे तस्मिन् प्रत्युत्थान-विनयादिकम् उचितम् एवेति शङ्कते—नन्व् इति । तच् च नमनादि । अतः कायिक-व्यापारानर्हत्वात् । इति भाव इति । प्राज्ञेतरैः परमेश्वर-स्मरणाभावाद् देह-मानिन एव विधीयते । तन् न साधु, मम दक्षागमनावसरे भगवच्-चरण-समाहित-चेतस्त्वात् । यद्यपि दक्षो मया न दृष्टस् तद् अपि भगवत्-संमानेन दक्ष-संमानो\ऽप्य् अभूद् एव । दक्षस् तु मूर्खो वृथा कुप्यतीत्य् आशयः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रत्युद्गम- इति । अवैष्णव-विषयम् एवेदं वाक्यम् । अथ भागवता यूयं प्रियाः स्थ, भगवान् यथा [भा।पु। ४.२४.३०] इति पुरतस् तद्-उक्तेः, मद्-भक्त-पूजाभ्यधिका [भा।पु। ११.१९.२१] इति भगवद्-उक्तेश् च । अत एव न देह-मानिने बहिर्मुखाय इत्य् उक्तम् ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, सत्यं त्वद्-द्वेष्टैवेति प्रत्येषि, तद् अपि श्वशुरे तस्मिन् प्रत्युत्थान-विनयादिकम् उचितम् एवेत्य् अत आह—प्रत्युद्गमनाभिवादन-प्रत्यभिवादनादिकं मिथो जनैर् यद् विधीयते, तत् प्राज्ञैः परस्मै पुरुषाय गुहाशयायैव । चेतसा अत्र मत्-श्वशुरे मज्-जामातरि च परमेश्वरो वर्तते, तस्मै नम इति भावनयैव विधीयते, न तु देह-मानिने । अप्राज्ञैस् तु परमेश्वर-स्मरणाभावाद् देह-मानिने एव विधीयते । न तत् सम्यग् अतो दक्षागमन-समये श्री-भगवच्-चरण-समाहित-चेतस्त्वात् । यद्यपि दक्षो मया न दृष्टः, तद् अपि भगवत्-सम्मानेन दक्ष-सम्मानोऽभूद् एव । दक्षस् त्व् अज्ञानी वृथा कुप्यतीति भावः ॥२२॥
॥ ४.३.२३ ॥
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः ।
सत्त्वे च तस्मिन् भगवान् वासुदेवो
ह्य् अधोक्षजो मे नमसा विधीयते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : विशेषेण धीयते चिन्त्यते । रुद्रेण धीयते विष्णुर् विष्णु-ध्येयो न कश्चन इति ब्रह्म-वैवर्ते ॥२३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, न केवलम् अभ्यागतेष्व् एव वासुदेव-दृष्ट्या नमनं क्रियते, किं तु नित्यम् एव मनसि वासुदेवश् चिन्त्यत इत्य् आह । विशुद्धं सत्त्वम् अन्तः-करणं सत्त्व-गुणो वा वसुदेव-शब्दितं वसुदेव-शब्देनोक्तम् । कुतः ? यद् यस्मात् तत्र सत्त्वे पुमान् वासुदेव ईयते प्रकाशते, अपगतम् आवृतम् आवरणं यस्मात् सः ।
अयम् अर्थः—वसुदेवे भवति प्रतीयत इति हि वासुदेवः परमेश्वरः प्रसिद्धः । स च विशुद्धे सत्त्वे प्रतीयते । अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्य्-अर्थो निर्धार्यते । ततश् च "वासयति देवम्" इति व्युत्पत्त्या "वसत्य् अस्मिन्न्" इति वा वसुः । देवो दीव्यति द्योतत इति वा । वसुभिः पुण्यैर् दीव्यति प्रकाशत इति वा वसुदेव-शब्द-वाच्यं शुद्धं सत्त्वम् । ततः किम् ? अत आह—सत्त्वे च तस्मिन् मे मया नमसा नमस्कारेण अनुविधीयते सेव्यत इत्य् अर्थः । "मनसा" इति पाठ मनसा विशेषेण धीयते धार्यते चिन्त्यत इत्य् अर्थः । यतोऽधो भूतेषु प्रत्याहृतेष्व् अक्षेषु जायते प्रकाशते । इन्द्रियागोचर इत्य् अर्थः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । वसुदेव-शब्दोक्तत्वे हेतुं पृच्छति अत्राशयम् आह—वासुदेव इत्य् अत्र [शैषिकोण्]{।मर्क्} स च परमेश्वरः । अतो व्युत्पत्तेः प्रत्ययार्थेन अण्-प्रत्ययार्थेन**।** प्रतीति-रूपेण प्रकृत्य्-अर्थो वसुदेव-पदार्थः । यद् वा, प्रत्ययार्थेन प्रयोजक-लक्षणेन अधिकरण-लक्षणेन च । प्रकृते वंस्-धातोर् अर्थो निवासः, तथा अप्रत्ययेन प्रकृतेर् दिवु-धातोर् अर्थो द्युति-लक्षणश् च निर्धार्यते निश्चीयते । ततश् च निर्धारणात् इति ज्ञातं । तथा हि वासयतीत्य्-आदि निवासयतीति । निवासो निवसत्य् अत्रेति वसि-प्रकृत्य्-अर्थ एवात्र निर्धारितः । ततः वसुदेव-शब्दार्थ-निर्धारणात् किं जातम् इत्य् आक्षेपे । इत्य् अर्थ इति—उपसर्ग-वशात् सेवार्थो\ऽपीत्य् अर्थः । इत्य् अर्थ इति—चिन्तनस्यैव धारण-पदार्थत्वाद् अत्रेति भावः । तत्र हेतुः—यत इति । इत्य् अर्थ इति—मनसैवानवाप्तव्यम् इत्य्-आदि-श्रुतेर् इति भावः । मनः-षष्ठानीन्द्रियाणि [गीता १५.७] इति वाक्येन मनसो\ऽनिन्द्रियत्वोक्तेर् मनसो विषयत्वे\ऽपि नाधोक्षजत्व-हानिः । यत् तु यतो वाचो निवर्तते अप्राप्य मनसा सह [तै।उ। २.७] इत्य् उक्तं तद् बहिर्मुख-मनो\ऽपेक्ष्येत्य् अवधेयम् । इह तु भगवद्-उपास्ति-शुद्ध-मनो-विषयत्वोक्तेर् न दोष इत्य् अनवद्यं सर्वम् ॥२३॥
कैवल्य-दीपिका : एवम् इयता प्रबन्धेन विष्ण्व्-आदि-प्रकरण-चतुष्टयीं साङ्गां सकलां च निरूप्याथ ग्रन्थ-कृत् प्रकरण-प्रतिपाद्याम् इष्ट-देवतां प्रणमति—सत्त्वम् इत्य्-आदि । मे मया भगवान् अधोक्षजो वासुदेवो हि नमसा विधीयते नमस्क्रियते । अधः कृतम् अक्षजम् इन्द्रियजं ज्ञानं येन, स तथा । निराकार इत्य् अर्थः । कथं तर्हि वासुदेवः ? तत्राह—सत्त्वे च इति । तस्मिन् वासुदेवाख्ये उपाधौ यस्य सत्त्वे सद्-भावे अधिष्ठाने स इति ।
अथ वासुदेव-शब्दस्य कोऽर्थः ? तत्राह—सत्त्वम् इति । यद् यस्मात् तत्र विशुद्ध-सत्त्वे पुमान् विष्णुर् अपावृत ईयते प्रत्यक्षः प्रतीयते । अनेन वसत्य् अस्मिन् रमणीयत्वाद् इति वसु, दीव्यति द्योततेऽस्मिन् प्रकाशकत्वाद् इति देव इति शुद्ध-सत्त्वे वसुदेव-शब्दस्य प्रवृत्तौ हेतुर् उक्तः । तद् एवं साकार-निराकारे भगवतो द्वे रूपे नमस्कृते भवतः ॥२३॥ [मु।फ। १९.४७]
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्त्वम् इति । अयम् अर्थः—विशुद्धं स्वरूप-शक्ति-वृत्तित्वाज् जाड्यांशेनापि रहितम् इति विशेषेण शुद्धं तद् एव वसुदेव-शब्देनोक्तम् । कुतस् तस्य सत्त्वता वसुदेवता वा ? तत्राह—यद् यस्मात् तत्र तस्मिन् पुमान् वासुदेव ईयते प्रकाशते, किन्त्व् अत्र परस्थ-वासुदेव-शब्दस्य पूर्वत्राप्य् अन्वयः । आद्ये तावद् अगोचर-गोचरता-हेतुत्वेन लोक-प्रसिद्ध-सत्त्व-साम्यात् सत्त्वता व्यक्ता । द्वितीये त्व् अयम् अर्थः—वसुदेवे भवति प्रतीयत इति वासुदेवः परमेश्वरः प्रसिद्धः । स च विशुद्ध-सत्त्वं प्रतीयते । अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्य्-अर्थो निर्धार्यते । ततश् च वासयति देवम् इति व्युत्पत्त्या व वसत्य् अस्मिन्न् इति वा वसुः । तथा दीव्यति द्योतत इति देवः । स चासौ स चेति वासुदेवः । धर्म इष्टं धनं नॄणां [भा।पु। ११.२५.२४] इति स्वयं भगवद्-उक्ते वसुभिर् भगवद्-धर्म-लक्षणैः पुण्यैर् यावत् प्रकाशत इति वा वसुदेवः । तस्माद् वसुदेव-शब्दितं विशुद्ध-सत्त्वम् ।
इत्थं स्वयं-प्रकाश-ज्योतिर्-एक-विग्रह-भगवज्-ज्ञान-हेतुत्वेन—कैवल्यं सात्त्विकम् इत्य् अत्र मन्-निष्ठं निर्गुणं स्मृतं [भा।पु। ११.२५.२४] इत्य् आदौ बहुत्र गुणातीतावस्थायाम् एव भगवज्-ज्ञान-श्रवणेन च सिद्धम् । अत्र विशुद्ध-पदावगतं स्वरूप-शक्ति-वृत्ति-भूत-स्वप्रकाशता-लक्षणत्वं तस्य व्यक्तम् । ततश् च सत्त्वे प्रतीयत इत्य् अत्र करण एवाधिकरण-विवक्षया । स्वरूप-शक्ति-वृत्तित्वम् एव विशदयति । अपावृत आवरण-शून्यः सन् प्रकाशते । प्राकृतं सत्त्वं चेत्, तर्हि तत्र प्रतिफलनम् एवावसीयते । ततश् च दर्पणे मुखस्येव तद्-अन्तर्गततया तस्य तत्रावृतत्वेनैव प्रकाशः स्याद् इति भावः ।
फलितार्थम् आह—एवम्-भूते सत्त्वे तस्मिन् नित्यम् एव प्रकाशमानो भगवान् मे मया मनसा विशेषेण धीयते धार्यते, चिन्त्यत इत्य् अर्थः । तत् सत्त्वं तादात्म्यापन्नेनैव मनसा चिन्तयितुं शक्यते इति पर्यवसितम् ।
ननु केवलेन मनसैव चिन्त्यतां, किं तेन सत्त्वेन ? तत्राह—हि यस्माद् । अधोक्षजः अधः-कृतम् अतिक्रान्तम् अक्षजम् इन्द्रियजं ज्ञानं येन सः । "नमसा" इति पाठे हि-शब्द-स्थानेऽप्य् अनु-शब्दः पठ्यते । ततश् च विशुद्ध-सत्त्वाख्यया स्व-प्रकाशता-शक्त्यैव प्रकाशमानोऽसौ नमस्कारादिना केवलम् अनुविधीयते सेव्यते, न तु केनापि प्रकाश्यत इत्य् अर्थः । तद् एवम् अदृश्यत्वेनैव स्फुरन्न् असौ अदृश्येनैव नमस्कारादिनास्माभिः सेव्यत इति भावस् तत्-तत्-प्रकरण-सङ्गतिश् च गम्यते ।
तथा यतो भगवद्-विग्रह-प्रकाशक-विशुद्ध-सत्त्वस्य मूर्तित्वं वसुदेवत्वं च तत एव तत्-प्रादुर्भाव-विशेषे धर्म-पत्न्या मूर्तित्वं प्रसिद्धम् । श्रीमद्-आनकदुन्दुभौ च वसुदेवत्वम् इति विवेचनीयम् ।
सत्त्वं विशुद्धम् इत्य्-आदिकं द्वितीय-सन्दर्भे पञ्चदशाधिक-शततम-वाक्य-व्याख्याने, विशुद्ध-विज्ञान [भा।पु। १०.३७.२२] इत्य्-आदिना व्याख्यातम् अस्ति ॥
[केषुचित् संस्करणेषु विवेचनीयम् इति पश्चात्भगवत्-सन्दर्भस्य अधिकः पाठः एवं दृश्यते, यथा—]
अत्र श्रद्धा-पुष्ट्य्-आदि-लक्षण-प्रादुर्भूतं भगवच्-छक्त्यंश-रूपस्य भगिनीतया पाठ-साहचर्येण मूर्तेस् तस्यास् तच्-छक्त्य्-अंश-प्रादुर्भावत्वम् उपलभ्यते । तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी [भा।पु। १.३.९] इत्य् अत्र कला-शब्देन च शक्तिर् एवाभिधीयते । ततः शक्ति-लक्षणायां तस्यां च नर-नारायणाख्य-भगवत्-प्रकाश-फल-दर्शनात् वसुदेवाख्य-शुद्ध-सत्त्व-रूपत्वम् एवावसीयते ।
तद् एवम् एव तस्या मूर्तिर् इत्य् आख्याऽप्य् उक्ता । तथा च श्रद्धाद्या विशदार्थतया विमुच्य सैव निरुक्ता चतुर्थे—मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् ऋषी [भा।पु। ४.१.५२] इति । सर्व-गुणस्य भगवत उत्पत्तिः प्रकाशो यस्याः, सा ताव् असूतेति पूर्वेणान्वयः । भगवद्-आख्यायाः सच्-चिद्-आनन्द-मूर्तेः प्रकाश-हेतुत्वात् मूर्तिर् इत्य् अर्थः । तथैव तत्-प्रकाश-फलत्व-दर्शनेन च नामैक्येन च श्रीमद्-आनकदुन्दुभेर् अपि शुद्ध-सत्त्वाविर्भावत्वं ज्ञेयम् । तच् चोक्तं नवमे—
वसुदेवं हरेः स्थानं
वदन्त्य् आनकदुन्दुभिम् । [भा।पु। ९.२४.३०] इति ।
अन्यथा हरेः स्थानम् इति विशेषणस्याकिञ्चित्करत्वं स्याद् इति । तद् एवं ह्लादिन्य्-आद्य्-एकतमांश-विशेष-प्रधानेन विशुद्ध-सत्त्वेन यथायथं श्री-प्रभृतीनाम् अपि प्रादुर्भावो विवेक्तव्यः । तत्र च तासां भगवति सम्पद्-रूपत्वं तद्-अनुग्राह्ये सम्पत्-सम्पादक-रूपत्वं सम्पद्-अंश-रूपत्वं चेत्य्-आदि-त्रिरूपत्वं ज्ञेयम् । तत्र तासां केवल-शक्ति-मात्रत्वेनामूर्तानां भगवद्-विग्रहाद्यैकात्म्येन स्थितिस् तद्-अधिष्ठात्री-रूपत्वेन मूर्तीनां तु तत्-तद्-आवरणतयेति द्विरूपत्वम् अपि ज्ञेयम् इति दिक् ॥२३॥ [भगवत्-सन्दर्भ ११७]
विश्वनाथः- त्वया तदानीं कथं समाधिः कृत इति तु नोपालम्भनीयम् एव यतो भगवत्-समाधिर् न मद्-अधीनः । किन्तु तद्-अधीन एवाहम् अतो भगवत्-स्फूर्तेर् मम नैव समय-नियम इत्य् आह—सत्त्वम् इति । विशुद्धं सत्त्वम् अप्राकृतम् अन्तः-करणं वसुदेव-शब्दितं वसुदेव-शब्देनोक्तं भवति । यद् वा, विशुद्धं चिच्-छक्ति-वृत्ति-मयम् अप्राकृतं सत्त्वम् एव वसुदेवो भगवज्-जनक उच्यते । कुतः ? यद् यस्माद् तत्र अपावृतो विगतावरणः पुमान् ईयते प्रकाशते, स च वासुदेव एव । वसुदेवे भवति आविर्भवतीति तच्-छब्दस्यार्थः । विशुद्धेऽन्तः-करणे च तस्याव्रिभावो दृश्यते । अतो विशुद्धस्यान्तःकरणस्य मदीयस्य वसुदेवेति नामेत्य् अवगतम् । ततश् च वसत्य् अस्मिन् परमेश्वर इति वसुश् चाप्राकृतत्वाद् देवश् चेति वसुदेव इति तद्-व्युत्पत्तिश् च गम्यते । अतस् तस्मिन् सत्त्वेऽन्तःकरणे भगवान् अधोक्षजः प्राकृतेन्द्रियागोचरः स्फुरन् नमसा नमस्कारोपलक्षितया बहुविध-सपर्यया अनुविधीयते परिचर्यते, विशेषेण धीयते धार्यते इति वा । "मनसा" इति पाठे मनसैव सेव्यते । अतस् तदानीं मया सेव्यमाना भगवान् आसीद् इति । अतस् तत्-परिचर्यायाम् अवकाशाभावाद् एव न मे बहिर्-अनुसन्धानम् अभूद् अतः कथय को मे दोषः ? इति भावः ॥२३॥
॥ ४.३.२४ ॥
तत् ते निरीक्ष्यो न पितापि देह-कृद्
दक्षो मम द्विट् तद्-अनुव्रताश् च ये ।
यो विश्वसृग्-यज्ञ-गतं वरोरु माम्
अनागसं दुर्वचसाकरोत् तिरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मात् त्वया न निर्क्ष्यः । देह-कृद् अपीति पोषकत्वादिभिर् औपचारिक-पितृत्व-व्यावृत्त्य्-अर्थम् । द्विट् शत्रुः । तद् एवाह—हे वरोरु, यो दक्षो विश्व-सृजां यज्ञ-गतं मां निरपराधं तिरोऽकरोत् तिरस्कृतवान् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो मम द्विट् स तस्माद् इत्य् अर्थः । आदिनाध्यापकादि-ग्रहः । औपचारिक-पितृत्वं गौण-पितृत्वम् ।
अन्न-दाता भय-त्राता यश् च विद्यां प्रयच्छति ।
जनको ह्य् उपनेता च पञ्चैते पितरः स्मृताः ॥ इति स्मृतेः ।
उपकर्ता पितृ-समः इति न्यायेन जनकेतराणाम् अपि पितृत्वम् अस्ति मुख्यं तज्-जनकस्यैवेति तत्त्वम् । वरोरु इति । गुप्ताङ्ग-निरीक्षको हि पितृतो\ऽपि प्रियो\ऽस्ति स्त्रीणाम् अतो मां विहाय मा गच्छ मद्-आज्ञा-पालनम् एव त्वद्-धर्म इति सम्बुद्ध्य्-अभिप्रायः । श्लेषेण देहं कृन्ततीति देह-कृत् कृती छेदने । देह-पातो भावी सूचितः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् त इत्य् अत्र त्वयेति चित्सुखः ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्माद् इति यदि त्वं पतिव्रता भवसीति भावः । देह-कृद् अपि पितेति पोषकादि-रूपस् तु पिता किम् उतेति भावह् । श्लेषेण देहं कृन्ततीति भावी देह-पातश् च सूचितः । मां तिरोऽकरोत् तिरश्चकार ॥२४॥
॥ ४.३.२५ ॥
यदि व्रजिष्यस्य् अतिहाय मद्-वचो
भद्रं भवत्या न ततो भविष्यति ।
सम्भावितस्य स्व-जनात् पराभवो
यदा स सद्यो मरणाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विपक्षे दोषम् आह— यदि इति । मद्-वचोऽतिहाय अतिक्रम्य । यतः संभावितस्य सु-प्रतिष्ठितस्य यदा पराभवो भवति, तदा स पराभवस् तस्य मरणाय कल्पते ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपक्षे मद्-आज्ञा-त्याग-रूपे । ततस् तत्र गमनात् । भवत्यास् तव कल्पते समर्थो भवति स्वजन-पराभूतो मरणम् एव श्रेष्ठं मनुते स्वस्य पराभवितुश् च । श्री-गीतोपनिषद्-आचार्येण स्वान्ते वासिने\ऽर्जुनाय तु मरणतो\ऽप्य् अधिकः संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते [गीता २.३२] इति प्रतिपादितः । अकीर्तेः पराभव-जन्यत्वेन कार्य-कारणयोर् अभेद एवेति ॥२५॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे तृतीयो\ऽध्यायः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विपक्षे दोषम् आह—यदि इति । अपहाय अतिक्रम्य । सम्भावितस्य सुप्रतिष्ठितस्य यदा पराभवो भवति, तदा स पराभवः तस्य मरणाय कल्पते ॥२५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थस्य तृतीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे श्री-विदुर-मैत्रेय-संवादे
उमा-रुद्र-संवादो नाम
तृतीयोऽध्यायः ।
॥ ४.३ ॥