(४.२)
द्वितीयोऽध्यायः
विषयः
विश्व-सृजा सत्रे दक्ष-शिवयोर् वैर-कारणम् उभय-पक्षतो\ऽन्योन्यं शाप-प्रयोगश् च ।
॥ ४.२.१ ॥
विदुर उवाच—
भवे शीलवतां श्रेष्ठे दक्षो दुहितृ-वत्सलः ।
विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्वितीये प्रथमाध्यायो- पक्षिप्ते भवदक्षयोः ।
विद्वेषे वर्ण्यते हेतुर् विश्व-सृड्-यज्ञ-संभवः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रथमाध्याये पितर्यप्रतिरूपे स्व इत्य्-आदिनोपक्षिप्तः सूचितो यो भवदक्षद्वेषस् तत्र विश्वसृजां मरीच्यादीनां यागस्य सम्भवो भवनम् एव हेतुरस्तीति द्वितीये वर्ण्यते (१) कस्माद्धेतोः । सतीम्—अन्वर्थनामत्वात्तत्पतिना द्वेषो न सङ्गच्छते । भवस्य सौशील्याद्दक्षस्य तदभावे\ऽपि दुहितृवात्सल्याद् अपि द्वेषो न घटत इति भावः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्मिन् अध्याये न कापि व्याख्या।
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्वितीये बहु निन्दित्वा शिवं दक्षे गते रुषा ।
युयुधाते शाप-शस्त्रैर् नन्दीश्वर-भृगू मुहुः ॥ओ॥
शीलेति । भवस्य सौशील्यात् दक्षस्य तद्-भक्त्य्-अभावेऽपि दुहितृ-वात्सल्यात् भव-द्वेषो न घटते इति भावः ॥१॥
॥ ४.२.२ ॥
कस् तं चराचर-गुरुं निर्वैरं शान्त-विग्रहम् ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सतीं सती-नाम्नीम् । न चासौ कस्यचिद् द्वेषार्ह इत्य् आह—क इति । चराचर-गुरुं जगतो दैवतं च तं को द्वेष्टि, कथं च निर्वैरं द्वेष्टि । निर्वैरत्वे हेतुः, शान्तं, भावे क्तः । शान्तिर् एव विग्रहो यस्य । कुतः आत्मन्य् एवारामो रतिर् यस्य तम् । यद् वा, कः प्रजा-पतिर् दक्षः कथं द्वेष्टि । एवं भूते तस्मिन् द्वेषोऽयुक्तोऽशक्यश् चेत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असौ भवः । सामान्यार्थककिंशब्दोपादाने कः सर्वमाराधयितुं समर्थः इति न्यायेन तस्यापि प्रपञ्चवैचित्र्यात्कश्चिद् द्वेष्टा सम्भवत्येवेत्यस्वारस्याद् आह—यद्वेति । इत्य् अर्थ इति । वैरवानप्यशान्तदेहो\ऽपि । बहिर्दर्श्यपि जगदनादृतो\ऽपि गुरुर्न द्वेषार्हः । किं च, अन्यगुणविचारस्तिष्ठतु भवस्य जगद्गुरुत्वे जगदिष्टदेवत्वे च दक्षस्य जगदन्तःपातित्वे द्वेषसम्भावनापि नोचितेति भावः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवस्य सर्वैर् एवाद्वेष्यत्वे हेतुम् आह—क इति । यद् वा कः प्रजापतिः चराचर-गुरुं निर्वैरम् इत्य् आदिभिर् गुरुर् हि वैरवान् अप्य् अशान्त-देहोऽपि बहिर्-दर्श्य् अपि न द्वेषार्ह इति ध्वनिः । अन्ये गुणा मा विचार्यन्तां नाम भवस्य जगद्-गुरुत्वे जगद्-इष्ट-देवत्वे च दक्षस्य तु जगन्-मध्य-वर्तित्वे द्वेष-सम्भावनापि कथं स्याद् इत्य् अनुध्वनिः ॥२॥
॥ ४.२.३ ॥
एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।
विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो हेतोर् विद्वेषः, यतो विद्वेषात् प्राणांस् तत्यज, एतद् आख्याहि ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत इत्युभयत्रान्वेति । विशिष्टो द्वेषो विद्वेषः । ब्रह्मन्न् इति प्रश्नोत्तरसामर्थ्यम् आह ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः कारणाद् विद्वेषः । एतद् आख्याहि । यतो विद्वेषाच् च प्राणांस् तत्याज ॥३॥
॥ ४.२.४ ॥
मैत्रेय उवाच—
पुरा विश्व-सृजां सत्रे समेताः परमर्षयः ।
तथामर-गणाः सर्वे सानुगा मुनयोऽग्नयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाख्यातुम् इतिहासं प्रस्तौति, पुरेति । समेता आसन् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत इत्युभयत्रान्वेति । विशिष्टो द्वेषो विद्वेषः । ब्रह्मन्न् इति प्रश्नोत्तरसामर्थ्यम् आह ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समेता आसन् ॥४॥
॥ ४.२.५-६ ॥
तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा ।
भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः ॥
उदतिष्ठन् सदस्यास् ते स्व-धिष्ण्येभ्यः सहाग्नयः ।
ऋते विरिञ्चां शर्वं च तद्-भासाक्षिप्त-चेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रविष्टं दक्षम् इति शेषः । महत् सदो महतीं सभाम् । स्व-धिष्ण्येभ्यः स्वीयासनेभ्यः ॥५-६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सत्रशालायाम् ॥ ब्रह्मपुत्रत्वाद्रुद्रश्वशुरत्वाच् च नायं प्राकृतः पुरुष इति विमृश्य सभ्यादयस्तदादरं चक्रुरित्य् आह—उदतिष्ठन्न् इति । तस्य दक्षस्य भासा तेजसा क्षिप्तं सङ्क्षिप्तं तेजो येषां ते तथा क्वचित् क्षिप्तचेतस इति पाठस् तत्र कौतूहलचित्ता इत्य् अर्थः ॥५-६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रेति युग्मकम् । ऋते विरिञ्चात् सर्वाच्चेति क्वचित् ॥५-६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रविष्टं दक्षम् इति शेषः ॥५-६॥
॥ ४.२.७ ॥
सदसस्-पतिभिर् दक्षो भगवान् साधु सत्-कृतः ।
अजं लोक-गुरुं नत्वा निषसाद तद्-आज्ञया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राक् स्वोपवेशनात् पूर्वम् एव निषण्णम् उपविष्टं मृडं शिवम् । तद्-अनादृतस् तेनाभ्युत्थानादिभिर् अकृतादरः । नामृष्यत् नासहत । वामं वक्रं यथा भवति तथाऽभिवीक्ष्य ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान् ज्ञानवान् । तदाज्ञया ब्रह्माज्ञया ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२.८ ॥
प्राङ्-निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्-अनादृतः ।
उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन मृडेन । आदिनासनादिग्रहः ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राक् श्वोपवेशात् पूर्वम् एव निषण्णम् उपविष्टं तद्-अनादृतः । तेन मृडेनाभ्युत्थानादिभिर् अकृतादरः । वामं वक्रं यथा स्यात् तथा ॥८॥
॥ ४.२.९ ॥
श्रूयतां ब्रह्मर्षयो मे सह-देवाः सहाग्नयः ।
साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मे वचनं श्रूयताम् । अज्ञानान् मत्सराच् च न ब्रुवतः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मे वचनम् इति शेषः । वृत्तं चरितं वक्तुं प्रवृत् तस्य ममासाधूनां निन्दा स्याद् एव तत्र भवद्भिरपरामर्शन दुःखं न प्राप्यताम् इति ध्वनिः । शालिक्षेत्राणां यवसाद्यपसारणाभाव इव साधूनामप्यसाधुद्वेषाभावे दुःखं स्याद् अद्वेष्टृजनस्य तेषु साधुष्वपराधो\ऽपि स्याद् इत्यनुध्वनिः । ननु शिवस्यासाधुत्वमज्ञानाद् एव त्वयोच्यते इति चेत्तत्र ममाज्ञानमण्वपि नास्ति, मत्सरस्तु मया जन्मारभ्य न परिचीयत इत्य् आह—नाज्ञानाद् इति ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : साधूनां वृत्तं ब्रुवतः, किन्त्व् अज्ञानान् मत्सराच् च न ब्रुवत इत्य् अर्थः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मे वचनम् इति शेषः । साधूनां वृत्तं चरित्रं ब्रुवतो वक्तुं प्रवृत् तस्य ममासाधूनां निन्दा स्याद् एव तत्र भवद्भिर् अपरामर्शेन दुःखं न प्राप्यताम् इति ध्वनिः । शालि-क्षेत्राणां यवसाद्य्-अपसारणाभाव इव साधूनाम् अप्य् असाधु-द्वेषाभावेऽपि स्याद् इत्य् अनुध्वनिः । ननु, शिवस्यासाधुत्वम् अज्ञानाद् एव त्वयोच्यते इति चेत् तत्र ममाज्ञानम् अन्व् अपि नास्ति । मत्सरस् तु मया जन्मारभ्य न परिचीयत इत्य् आह—नाज्ञानाद् इति ॥९॥
॥ ४.२.१० ॥
अयं तु लोक-पालानां यशो-घ्नो निरपत्रपः ।
सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्तब्धेनोचित-क्रियाशून्येन । ध्वस्तेनेति पाठे भ्रष्टेन ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्यासाधुत्वमेकाग्रमनसा शृणुतेत्याह—लोकपालानां यशोघ्न इति । तुल्यजातीनां सतामेकस्याप्रतिष्ठायां सर्वेषाम् एव दुर्यशो लोकैरुद्घुष्यत इति भावः । इन्द्रद्वेषिविद्युन्माल्यादिराज्ये प्रवर्षणाभावे स्वभक्ततयानेन वृष्ट्या तद्यशो हृतं, तथा स्वतृतीयाक्ष्युत्थकोपाग्निना कामादिदाहकतयाग्नेर् अपि यशो हृतं, तत्कार्यकरणान्मृत्युञ्जयत्वेन तदनधीनत्वाद्यमस्य, तथा रक्षोधार्यासृगार्द्रगजचर्मधारित्वेन निरृतेस् तथा वरुणपाल्ययादोगणाधिष्ठितगङ्गाधृतेर्वरुणस्य, प्रलये निजनिःश्वासशोषिताब्धित्वेन शोषण-रूपवायुकार्यकर्तृतया वायोः, सर्वनिधीशकुबेरसखित्वे\ऽपि कपालित्वेन कुबेरस्य, तथा ब्रह्मसृष्टसृष्टिभक्षकसृष्टिसर्जकत्वेन ब्रह्मणः, धराधर्तृशेषधारित्वेन शेषस्य च यशोनाशिनः यशोनाशश् च तत्तत्कर्मोलङ्घनतद्वत्करणतदनधीनत्वादिभिर्भवत्येवेति । वस्तुतस् तु तदीयसरस्वती शिवं स्तौति यथा यशोघ्नस् तेषां स्वयशसा यशसस्तिरस्कर्ता निर्गता अपत्रा त्राणं येषां तानशरणान्पातीति सः । केन प्रकारेणेत्यत आह—येनासुरादिना सद्भिराचरितः पन्था दृषितस् तस्य । ध्वस्तेन ध्वंसनेन स्तब्धेनेति पाठे स्तब्धानां गर्ववतामिनाः स्वामिनस्तैर्दूषितः पन्था येन हेतुना सद्भिराचरितः दुष्टनाशनेन पुनः सद्धर्मप्रवर्तकः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रोधान्धतया साधूनां वृत्तानुवदम् अपि त्यक्त्वा साक्षान् निन्दाम् आह—अयन्त्व् इति ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्यासाधुत्वम् एकाग्र-मनसः शृणुतेत्य् आह—लोक-पालानां यशोघ्न इति । तुल्य-ज्ञातीनां सताम् एकस्याप्रतिष्ठायां सर्वेषाम् एव दुर्यशो लोकैर् उद्घुष्यते इति भावः । वस्तुतस् तु तदीय-सरस्वती शिवं स्तौति । यथा, यशोघ्नः स्व-यशसा तेषां यशस् तिरस्कर्ता निर्गता अपत्रा त्राणं येषां तान् अशरणान् पातीति सः । केन प्रकारेणेत्य् अत आह—येन असुरादिना सद्भिर् आचरितः पन्थाः दूषितस् तस्य ध्वस्तेन ध्वंसनेन स्तब्धेनेति पाठे स्तब्धानां गर्ववताम् इनाः श्रेष्ठास् तैर् दूषितः पन्था येन हेतुनैव सद्भिर् आचरितः ॥१०॥
॥ ४.२.११ ॥
एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् ।
पाणिं विप्राग्नि-मुखतः सावित्र्या इव साधुवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—एष इति । यद् यस्माद् विप्राग्नि-समक्षं सावित्री-तुल्याया मे दुहितुः पाणिम् अग्रहीत् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्वियातां महावेगैरश्वै राजन्गुरुद्रुहम् इति स्यमन्तकोपाख्याने श्वशुरे\ऽपि गुरुपदप्रयोगात् । तद् उक्तं पाद्मे—
उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरश्चैव मातामहपितामहौ ।
वर्णज्येष्ठः पितृव्यश् च पुंसो\ऽत्र गुरवः स्मृताः ॥
इति वर्णेषु ज्येष्ठो ब्राह्मणः प्राणिमात्रस्य गुरुः—
वर्णानामाश्रमाणाञ्च गुरुर्विप्रो न चेतरः ।
मन्त्रोपादानपठने सर्वसंस्कारकर्मसु ॥ इति संहितोक्तेः ।
स्तुतिपक्षे तु—ममाशिष्यतामशिष्टतामेतावद्दिनपर्यन्तं गूढामप्येष प्राप्तः सर्वज्ञत्वात्प्रथमम् एवावगतवानत एवोत्थानादिकं न कृतवानिति भावः । तदपि यद् दुहितुः पाणिमग्रहीत्तत्सावित्र्या इव मद्दुहितर्येव गुणमपेक्ष्येति भावः । मे कीदृशस्य साधुवत्साधोरिव मथुराया इवेति मथुरावत् पाटलिपुत्रे प्राकार इतिवत्प्रयोगः । वस्तुतस् त्वसाधोरित्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शिष्यतां शासनीयत्वम् ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष इति निन्दा स्पष्टा । स्तुतिस् तु मम अशिष्यताम् अशिष्टताम् एतावद्-दिन-पर्यन्तं गुप्ताम् अपि एष प्राप्तः सर्वज्ञत्वात् प्रथमम् एवावगतवान् । अत एवाभ्युत्थानादिकं न कृतवान् इति भावः । तद् अपि यद् दुहितुः पाणिम् अग्रहीत् तत् सावित्र्या इव मद्-दुहितर्य् एव गुणम् आलक्ष्येति भावः । मम कीदृशस्य साधुवत् साधोर् इव वस्तुतस् त्व् असाधोः ॥११॥
॥ ४.२.१२ ॥
गृहीत्वा मृग-शावाक्ष्याः पाणिं मर्कट-लोचनः ।
प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मृग-शावस्य हरिण-बालस्याक्षिणीवाक्षिणी यस्याः । प्रत्युत्थानाभिवादार्हे मय्य् उचितं सन्मानं वाचापि नाकरोत् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मर्कटान्मर्कटतुल्यान्कामिनो\ऽपि कृपयालोचते तत्कामान्सम्पादयतीति तथा । तस्मिन्प्रत्युत्थानाभिवादार्हे मल्लक्षणो जनो वाचाप्युचितं नाकृतेति धिङ्माम् इति भावः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा शूद्रायोशतीं गिरं कश्चिद् अनिच्छन् पर-वश्यः सन्न् एव ददाति तथाहम् अप्य् अनिच्छन्न् एवास्मै परम-महते बालाम् अदाम् । काक्वा किन्तु इच्छन्न् एवादाम् इत्य् अर्थः ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्युत्थानाभिवादार्हे श्वशुरे मयि वाचापि उचितं संमानं न अकृत नाकरोत् । स्तुति-पक्षे—मर्कटान् मर्कट-तुल्यान् कामिनोऽपि कृपया लोचते तत्-कामान् सम्पादयति । तस्मिन् प्रत्युत्थानाभिवादार्हे मल्-लक्षणो जनः वाचाप्य् उचितं न अकृतेति धिङ् माम् इति भावः ॥१२॥
॥ ४.२.१३ ॥
लुप्त-क्रियायाशुचये मानिने भिन्न-सेतवे ।
अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनर्हाय कन्या दत्तेत्य् अनुतप्यमान आह—लुप्त-क्रियायेति सार्धैश् चतुर्भिः । उशतीं वेद-लक्षणां गिरम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मर्कटान्मर्कटतुल्यान्कामिनो\ऽपि कृपयालोचते तत्कामान्सम्पादयतीति तथा । तस्मिन्प्रत्युत्थानाभिवादार्हे मल्लक्षणो जनो वाचाप्युचितं नाकृतेति धिङ्माम् इति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उशतीं वेद-लक्षणां गिरम् । स्तुति-पक्षे तु—लुप्ताः क्रिया यस्मिन् पर-ब्रह्म-रूपत्वात् नास्ति शुचिर् यस्मात् अमानिने अभिन्न-सेतवे इति छेदः । स्वायोग्यता-दृष्ट्या दातुम् अनिच्छन्न् अपि अदाम् । यथा शूद्रा एव उशतीं वेद-लक्षणां गिरं ददति अध्यापयन्ति । ष-लोपस्याभावो वैकल्पिकत्वात् ॥१३॥
॥ ४.२.१४ ॥
प्रेतावासेषु घोरेषु प्रेतैर् भूत-गणैर् वृतः ।
अटत्य् उन्मत्तवन् नग्नो व्युप्त-केशो हसन् रुदन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेतावासेषु श्मशानेषु । व्युप्ता विकीर्णाः केशा यस्य ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मर्कटान्मर्कटतुल्यान्कामिनो\ऽपि कृपयालोचते तत्कामान्सम्पादयतीति तथा । तस्मिन्प्रत्युत्थानाभिवादार्हे मल्लक्षणो जनो वाचाप्युचितं नाकृतेति धिङ्माम् इति भावः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वास्तवार्थे प्रेता-वासेष्व् इत्य् आदिकं भगवत्-प्रेमोन्माद-मयं ज्ञेयम् ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेत्यावासेष्व् इत्य् आदिकं सर्वं भगवत्-प्रेमोन्माद-मयं लीला-मात्रम् इति स्वयम् एवाह—उन्मत्तवद् इति । अन्यथा उन्मत्त इत्य् एवावक्ष्यत् ॥१४॥
॥ ४.२.१५ ॥
चिता-भस्म-कृत-स्नानः प्रेत-स्रङ्-न्रस्थि-भूषणः ।
शिवापदेशो ह्य् अशिवो मत्तो मत्त-जन-प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चिता-भस्मना कृतं स्नानं येन । प्रेतानां स्रजो माल्यानि यस्य प्रेत-स्रक् । नृणाम् अस्थीनि भूषणानि यस्य । शिव इत्य् अपदेशो नाम-मात्रं यस्य । तमो-मात्रात्मकः केवल-तमो-रूप आत्मा स्वभावो येषाम् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिवो मङ्गल-रूपो\ऽपदेशो\ऽपकृष्टदेशो यस्मात्स तथा ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चितेति सार्धकम् । चितेत्य् आदिकं च प्राप्त-सिद्धि-वैष्णवानाम् एवेति पुराणान्तर-प्रसिद्धम् ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्तुति-पक्षे—चितेत्य् आदिकं प्राप्त-सिद्धि-वैष्णवानाम् एवेति पुरानान्तर-प्रसिद्धम् । अपदेशा अपकृष्टा देशा अपि शिवा मङ्गला यतः सः । न विद्यते शिवं मङ्गलं यतहा सः । तमो-मात्रात्मकाः तमो-मात्र-स्वरूपा आत्मनो येषाम् । स्तुति-पक्षे—स्वेच्छया लीलैवेयं शम्भोर् यत् तामसान् अपि कृपया श्वीकरोतीति ॥१५॥
॥ ४.२.१६ ॥
पतिः प्रमथ-नाथानां तमो-मात्रात्मकात्मनाम् ।
तस्मा उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उन्मादा भूत-विशेषास् तेषां नाथाय । दुर्हृदे दुष्ट-चित्ताय । बतेति खेदे । वास्तवस् त्व् अयम् अर्थः, लुप्ताः क्रिया यस्मिन्, पर-ब्रह्म-रूपत्वात् । अत एव नास्ति शुचिर् यस्मात् । अमानिने अभिन्न-सेतवे इति च छेदः । तस्य परमेश्वरस्य मदीया मानुषी कन्या कथं योग्या स्याद् इति लज्जादिना दातुम् अनिच्छन्न् अपि तत् संबन्ध-लोभेन दत्तवान् । शूद्रायेत्य् अनर्हत्व-मात्रे दृष्टान्तो न हीनत्वे । पूर्वापर-स्व-वचन-विरोधापत्तेः । एतद् उक्तं भवति, यथा कश्चिच् छूद्राय देवम् अर्थ-लोभेन ददाति तद्वद् इति । प्रेतावासेष्व् इत्य्-आदि सर्वं विडम्बन-मात्रम् इति स्वयम् एवाह—उन्मत्त-वद् इति । अन्यथोन्मत्त इत्य् एवावक्ष्यत् । अशिवो नास्ति शिवो यस्मात् । अमत्तोऽमत्त-जन-प्रिय इति छेदः । पतिः प्रमथ-भूतानाम् इति भक्त-वात्सल्यम् आह । तामसान् अपि दोषम् अपनीय पातीति नष्टानाम् अपि शौचं शुद्धिर् यस्मात् । दुष्टेष्व् अप्य् एते मयानुकम्प्या इति हृन्-मनो यस्य स दुर्हृत् तस्मै । बतेति हर्षे । ब्रह्मणो वाक्याल् लज्जाभयादिकं परित्यज्य दत्तेत्य् अर्थः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव परब्रह्म-रूपत्वाद् एव निन्दापक्षे परमेष्ठिना चोदिते सति मदिच्छा तु नासीद् ब्रह्माज्ञापालनम् एव मद्दुःखदमभूद् इति ब्रह्माप्यनभिज्ञ इति ध्वनिः । मत्पित्रेत्यनुक्तेः । परमेष्ठिनेति नामोच्चारणेन च सो\ऽपि मत्पितृत्वायोग्य एवेत्यनुध्वनिः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमेष्ठिना ब्रह्मणा चोदिते प्रेरिते सतीति ममेच्छा नासीत् ब्रह्माज्ञा-पालनम् एव मद्-दुःख-दम् अभूद् इति ब्रह्माप्य् अनभिज्ञ इति ध्वनिः । मत्-पित्रेत्य् अनुक्तेः परमेष्ठिनेति नामोच्चारणेन च सोऽपि मत्-पितृत्वायोग्य एवेत्य् अनुध्वनिः । स्तुति-पक्षे—उन्मादानां गणानाम् अपि नाथाय । नष्टानाम् अपि शौचं यतः । कृपया दुष्टेष्व् अपि हृत् कृपामयं मनो यस्य तस्मै ब्रह्मणो वाक्याद् अयोग्येनापि मया दत्तेत्य् अर्थः ॥१६॥
॥ ४.२.१७ ॥
मैत्रेय उवाच—
विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् ।
दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रतीपम् अप्रतिकूलं यथा भवत्य् एवम् अवस्थितम् अपि विनिन्द्य ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव परब्रह्म-रूपत्वाद् एव निन्दापक्षे परमेष्ठिना चोदिते सति मदिच्छा तु नासीद् ब्रह्माज्ञापालनम् एव मद्दुःखदमभूद् इति ब्रह्माप्यनभिज्ञ इति ध्वनिः । मत्पित्रेत्यनुक्तेः । परमेष्ठिनेति नामोच्चारणेन च सो\ऽपि मत्पितृत्वायोग्य एवेत्यनुध्वनिः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्रतीपम् अजात-शत्रुम् ॥१७॥
॥ ४.२.१८ ॥
अयं तु देव-यजन इन्द्रोपेन्द्रादिभिर् भवः ।
सह भागं न लभतां देवैर् देव-गणाधमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवानां यजन-समये देवैः सह भागं न लभतां, किं तु तेभ्यः पूर्वम् एव लभताम् । अग्र-भोजित्वात् । यद् वा, तेषु भुक्तवत्सु लभताम्, सर्व-पोषकत्वात् । तत्र हेतुः, देव-गणोऽधमो यस्मात् सः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र देवैः सह भागालाभे । इत्य् अर्थ इति, अधमैः सह भोजनं नोचितम् इति भावः । पूर्वव्याख्याने\ऽग्रभोजित्वाद् इति स्वामिचरणैर्हेतुरुक्तस्तदर्थस्तु ब्राह्मणत्वादित्येतच्च तृतीय-स्कन्धे दित्युपाख्याने निरूपितम् । अग्रजन्माग्रभुग्विप्रो ब्राह्मणश् च द्विजोत्तमः इति धरणिः । वस्तुतस् तु महादेवपदवाच्यत्वात्स्वस्य स्वेतरान्बालान्मत्वा पूर्वम् एव भोजयतीत्यत उक्तं यद्वेति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयं त्व् इति । स्तुति-पक्षे—देव-यजने यज्ञे देवैः सह भागं न लभताम् । तत्र हेतुः—देव-गणा अधमा यस्मात् सः । न ह्य् अधमैः सह भोजनम् उचितम् । अतः सर्व-पोषकत्वात् तान् भोजयित्वा भागं लभताम् इति भावः ॥१८॥
॥ ४.२.१९ ॥
निषिध्यमानः स सदस्य-मुख्यैर्
दक्षो गिरित्राय विसृज्य शापम् ।
तस्माद् विनिष्क्रम्य विवृद्ध-मन्युर्
जगाम कौरव्य निजं निकेतनम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ये ज्ञान-विषयाः शापा मुक्तिगास् तेऽधिकारिणाम् ।
कादाचित्कास् ते भवन्ति नैव ते सार्वकालिकाः ।
तेषां ज्ञानस्य मुक्तेश् च तारतम्यस्य चैव हि ।
भगवन्-नियतत्वात् तु शापादि नात्र कारणम् ॥ इति वाराहे ॥१९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स दक्षस् तस्मात् स्थानाद् विनिष्क्रम्य जगाम । हे कौरव्य ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र मदन्यः को\ऽपि न युक्तवादी ततोस्यामधार्मिकसङ्कुलायां न स्थेयम् इति कोपेन ततो निर्ययावित्य् आह—विषिध्यमानः मा गच्छेत्याद्युच्यमानः । हे कौरव्येति । यथा कौरवाणां दुर्योधनादीनां सभातस्त्वं निर्गतस्तानयोग्यान्मत्वेति कुरुभ्यो निर्गतः कौरव्यस्तदभिप्रायेयम् इति । स निर्गतः कौरवपुण्यलब्धः इत्य् उक्तेः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र मद्-अन्ये युक्त-वादिनः केऽपि न दृश्यन्ते । तद् अस्याम् अधार्मिक-सङ्कुलायां सभायां न स्थातुम् उचितम् इति कोपेन ततो निर्ययाव् इत्य् आह—निषिध्यमानः मा क्रुध्य मा गच्छेत्य् आद्य् उच्यमानः ॥१९॥
॥ ४.२.२० ॥
विज्ञाय शापं गिरिशानुगाग्रणीर्
नन्दीश्वरो रोष-कषाय-दूषितः ।
दक्षाय शापं विससर्ज दारुणं
ये चान्वमोदंस् तदवाच्यतां द्विजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गिरिशस्यानुगानाम् अग्रणीर् मुख्यः । रोष एव कषायस् तेन दूषितः, आरक्त-नेत्र इत्य् अर्थः । तस्य गिरिशस्यावाच्यतां वचनान् अर्हताम् । निन्द्यताम् इत्य् अर्थः । तेभ्योऽपि शापं विससर्ज ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कषायो रागहेतुर्द्रव्यविशेषो गैरिकादिः । इत्य् अर्थ इति । अतीव कुपित इति भावः । इत्य् अर्थ इति । स्तुतेर्वाच्यत्वान्निन्दैवावाच्येति भावः । दारुणं दुःसहम् । तेभ्यो द्विजेभ्यः अन्वमोदन् । अभ्युपागमन्सुष्ठु कृतमित्यवोचन्न् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् अवद्यताम् इति चित्सुखः ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रोष एव कषायस् तेन दूषितः । अतिरक्त-नेत्र इत्य् अर्थः । ये च तस्य गिरिशस्य अवाच्यतां निन्दाम् अन्वमोदंस् तेभ्योऽपि ॥२०॥
॥ ४.२.२१ ॥
य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि ।
द्रुह्यत्य् अज्ञः पृथग्-दृष्टिस् तत्त्वतो विमुखो भवेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दक्षं शपति सार्धैस् त्रिभिः । एतन् मर्त्यं दक्ष-शरीरम् उद्दिश्य श्रेष्ठं मत्वा । अप्रति-द्रुहि प्रतिद्रोहम् अकुर्वति पृथग् दृष्टिर् भेद-दर्शी तत्त्वतः परमार्थात् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पृथग्दृष्टिः स्वस्माद्भिन्नेषु देहापत्यकलत्रादिष्वेव दृष्टिर् यस्य सः परमार्थाद्भगवत्-स्वरूपात् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पृथग्-दृष्टिः भगवान् अयं न भवतीति नीच-दृष्टिः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दक्षं शपति सार्धैस् त्रिभिः—य इति । एतद् दक्ष-शरीरं मरण-धर्मकम् उद्दिश्य एतद् एवाहम् इत्य् अभिमानास्पदीकृत्य द्रुह्यति । अतोऽज्ञो भवेत् । अज्ञत्वम् एव प्रपञ्चयति—पृथग्-दृष्टिः स्वतः पृथग्-भूतेषु देहापत्य-कलत्रादिष्व् एव दृष्टिर् यस्य सः । तस्मात् तत्त्वतो भगवतः सकाशात् विमुखो भवेत् इति प्रथमः शापः ॥२१॥
॥ ४.२.२२ ॥
गृहेषु कूट-धर्मेषु सक्तो ग्राम्य-सुखेच्छया ।
कर्म-तन्त्रं वितनुते वेद-वाद-विपन्न-धीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञत्वम् एवाह—गृहेष्व् इति । कर्म-तन्त्रं कर्म-परिकरम् । देवे ये वादा अर्थ-वादाः, अक्षय्यं ह वै चातुर्-मास्य-याजिनः सुकृतं भवतीत्य्-आदयस् तैर् विपन्ना विनष्टा धीर् यस्य ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कूटधर्मेषु तुच्छफलप्रदधर्मवत्सु । कूटस्तुच्छे\ऽनृते राशौ इति कोशात् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वितनुतां वेदेत्य् अत्र वितनुताद् वेदेति क्वचित् ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेदेषु ये वादाः—अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवतीत्य् आदयस् तैर् विपन्ना धीर् यस्य सः ॥२२॥
॥ ४.२.२३ ॥
बुद्ध्या पराभिध्यायिन्या विस्मृतात्म-गतिः पशुः ।
स्त्री-कामः सोऽस्त्व् अतितरां दक्षो बस्त-मुखो ञ्चिरात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परो देहादिस् तम् एवात्मत्वेनाभितो ध्यातुं शीलं यस्यास् तया बुद्ध्या विस्मृतात्मनो गतिस् तत्त्वं येन । अतः पशु-तुल्यः । अतितरां स्त्री-कामोऽस्त्व् इति द्वितीयः शापः । बस् तस्य मुखम् एव मुखं यस्येति तृतीयः शापः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो\ऽनात्मज्ञत्वाद् एव । वस्ती निवासे छागे च वस्त्रे पक्वे च सर्पिषि इति निरुक्तिः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बुद्ध्येति सार्धकम् ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परो देहादिस् तम् एवात्मत्वेनाभितो ध्यातुं शीलं यस्यास् तया बुद्ध्या पशुः पशु-तुल्यः स्त्री-कामोऽस्त्व् इति द्वितीयः शापः । वस् तस्य छागस्य मुखम् इव मुखं यस्येति तृतीयः ॥२३॥
॥ ४.२.२४ ॥
विद्या-बुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः ।
संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयं च शापोऽस्यानुरूप एवेत्य् आह । विद्या-बुद्धिः इयम् एव तत्त्व-विद्येति बुद्धिर् यस्य । अतोऽसौ जड एव । द्विजान् शपति, संसरन्त्व् इति सार्ध-द्वाभ्याम् । शर्वम् अवमन्यत इति तथा तम् अमुं दक्षं ये चानुवर्तन्ते संसरन्तु जन्म-मरणाद्य् अनुभवन्त्व् इत्य् एकः शापः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः क्षयिष्णुफलकर्मसु तत्त्वबुद्धित्वादसौ दक्षः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : असावज इति क्वचित् संसरन्त्व् इत्य् अर्धकम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शाप-त्रयम् इदम् अस्मै समुचितम् एव, यतोविद्या-बुद्धिर् इत्य् आदि । अतो जडः । अज इति पाठे छाग-तुल्यः । द्विजान् अपि शपति सार्ध-द्वाभ्याम् । अमुं दक्षं ये चानुवर्तन्ते ते संसरन्तु इत्य् एकः शापः ॥२४॥
॥ ४.२.२५ ॥
गिरः श्रुतायाः पुष्पिण्या मधु-गन्धेन भूरिणा ।
मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हर-द्विषः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
गिरि-प्राणः समुद्ध्ष्टस् तत्-सुता वेद-वाक् स्मृतः ।
पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतम् ॥ इति वामने ।
अनङ्गो मन्मथो मन्थाः कामोऽङ्गज उदाहृतः ॥ इति शब्द-निर्णये ॥२५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रुताया वेद-रूपायाः पुष्पिण्याः पुष्पाणीवार्थ-वादा मनः-क्षोभकत्वात् । अर्थ-वाद-बहुलाया इत्य् अर्थः । मधु-गन्ध-तुल्येन प्ररोचनेन मथ्ना मनः-क्षोभ-केणोन्मथित आत्मा मनो येषां ते संमुह्यन्तु कर्मस्व् आसक्ता भवन्त्व् इति द्वितीयः शापः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थवादाः स्तुतिनिन्दान्यतरप्रतिपादकवाक्यानि । इत्य् अर्थ इति । प्ररोचकवाक्याधिक्ययुक्ताया इति भावः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रुताया वेद-रूपायाः पुष्पिण्याः पुष्प-तुल्यार्थ-वाद-बहुलाया मधु-गन्ध-तुल्येन प्ररोचनेन मथ्ना मनः-क्षोभकेण च उन्मथितः आत्मा मनो येषां ते संमुह्यन्तु कर्म-स्वासक्ता भवन्त्व् इति द्वितीयः ॥२५॥
॥ ४.२.२६ ॥
सर्व-भक्षा द्विजा वृत्त्यै धृत-विद्या-तपो-व्रताः ।
वित्त-देहेन्द्रियारामा याचका विचरन्त्व् इह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-भक्षा भक्ष्याभक्ष्य-विचार-शून्याः । वृत्त्यै देहादि-पोषाणाय धृतानि विद्या-तपो-व्रतानि यैः । वित्तादिष्व् एवारामो रतिर् येषां ते । याचकाः सन्तो विचरन्त्व् इति च शाप-चतुष्ट्यम् ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वभक्षा इत्येकः । धृतविद्यादिर्द्वितीयः । वित्तारामादिस्तृतीयः । याचका इति चतुर्थः शापः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-भक्षाः भक्ष्याभक्ष्य-विचार-शून्या इति तृतीयः । वृत्त्यै जीविकार्थम् एव न तु धर्मार्थम् इति चतुर्थः । वित्तेति पञ्चमः । याचका इति षष्ठः ॥२६॥
॥ ४.२.२७-२९ ॥
तस्यैवं वदतः शापं श्रुत्वा द्विज-कुलाय वै ।
भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् ॥
भव-व्रत-धरा ये च ये च तान् समनुव्रताः ।
पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः ॥
नष्ट-शौचा मूढ-धियो जटा-भस्मास्थि-धारिणः ।
विशन्तु शिव-दीक्षायां यत्र दैवं सुरासवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरा गौडी पैष्टी माध्वी च । आसवस् तालादि-संभवं मद्यम् । द्वन्द्वैक्यात् षण्ढत्वम् । तद् यत्र दैवं पूज्यं देवतावद् आदरणीयम् इति वा ॥२७-२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्राह्मणानामिदम् एवायुधम् इति द्योतनाय ब्रह्मदण्डम् इत्य् उक्तं वाग्वज्रा मुनयः किल इति न्यायेन दुरत्ययमपाकर्तुमशक्यम् ॥ भवस्य व्रतं नियमो जटाभस्मास्थ्यादिधारणं तद्धारिणो ये पाशुपता ये च तदनुयायिनस्ते सर्वे सच्छास्त्रं वेदस्तत्परिपन्थिनस्तद्विमुखाः सन्तः पाखण्डिनस्तन्निन्दकाः सन्त्व् इति ॥
मद्यादिपूजा त्वप्रसिद्धेति चेदाह—देवतावद् इति । यद् वा, । देवेभ्यो देयं दैवम् इति । यद् वा, । असूनां तर्पकमासवं सुरासवं नैवेद्यस्थानापन्नमुपलक्षणं चैतन्मांसस्य । शिवदीक्षायां चाण्डालादिजन्मनामपि—
प्रवृत्ते शांभवे यागे नराः सर्वे द्विजोत्तमाः ।
स्युस् तत्र शङ्का नो कार्या स्पर्शने भोजनादिषु ॥ इति ।
सर्वं वस्तु पवित्रं स्यात्सर्वा भोग्याः स्त्रियस्तदा इत्य्-आदिना विप्रत्वकारणलक्षणायाम् ॥२७-२९**॥**
जीव-गोस्वामी (क्रम-सन्दर्भः) : शाप-रूपं ब्रह्म-दण्डम् । सच्-छास्त्रस्य परिपन्थिनः प्रतिकूलाः । भव-व्रतेति । वेद-विहितम् एवात्र भव-व्रतम् अनूद्यते अन्य-विहितत्वे पाषण्डित्व-विधानायोगः स्यात् । पूर्वत एव पाषण्डित्वं सिद्धम् एव विवृणोति सच्-छास्त्रेत्य्-आदिना पाषण्डम् आश्रिता इत्य् अन्तेन ॥।२७-२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुरा गौडी पैष्ठी माध्वी च । आसवस् तालादि-सम्भवं मद्यं तयोर् द्वन्द्वैक्यात् षण्डत्वम् । तद् एव यत्र दैवं देवतावद् आदरणीयम् ॥२९॥
॥ ४.२.३० ॥
ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ ।
सेतुं विधारणं पुंसाम् अतः पाषण्डम् आश्रिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म वेदम् । कथं-भूतम् ? सेतुं मर्यादा-रूपम् । तद् एवाह—पुंसां वर्णाश्रमाचारवतां विधारणं धारकम् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गिरः श्रुताया इत्य्-आदिना वेदं, सर्वभक्षा इत्य्-आदिशापमिषेण ब्राह्मणांश् च । तद् एव सेतुत्वम् एव । अतो ब्रह्मब्राह्मणनिन्दनात् ।
पालनात्सर्व-धर्माणां पाशब्देन त्रयी मता ।
तां खण्डयति यो मोहात्पाखण्डः स प्रकीर्तितः ॥
इत्य् उक्तलक्षणं पाखण्डम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म वेदं वेद-प्रवर्तकान् ब्राह्मणांश् च कीदृशं सन्-मार्गे चलतां पुंसां विधरणं धारकं सेतुम् ॥३०॥
॥ ४.२.३१ ॥
एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सेतुत्वं प्रपञ्चयति द्वाभ्याम् । एष वेद-लक्षण एव शिवः पन्थाः । यं पूर्वे ऋषयोऽनुसन्तस्थुर् आश्रितवन्तः । यद् यस्मिन् जनार्दनः प्रमाणं मूलम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मूलं स एवात्र साक्षी प्रष्टव्य इति भावः । तीर्थस्तु—यद्यस्य प्रमाणं सम्यग्वक्ता
प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ।
सम्यग्वक्तरि वाथ स्यात्प्रमाणं मरणे गतौ ॥ इति यादवः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् स्वतन्त्रत्वेनोपासनायाम् अयं दोषो यतश् च जनार्दनस्यैव वेद-मूलत्वम् आह—एष इति । स एव वेद-लक्षणः यत् प्रमाणं यत्र मूलम् इत्य् अर्थः । स्वतन्त्रोपासानायां तत्-प्राप्तिः श्री-गीतोपनिषत्स्व् एव निषिद्धा । यथा—येऽप्य् अन्य-देवता-भक्ताः इत्य्-आदिभिः । अन्य-देवावज्ञा च निषिद्धा । यथा गौतमीये—
गोपालं पूजयेद् यस् तु निन्दयेद् अन्य-देवताम् ।
अस्तु तावत् परो धर्मः पूर्व-धर्मो विनश्यति ॥
हयशीर्षा मां पथि देव-हेलनाद् इति श्री-नारायण-वर्मणि तदागः-प्रायश्चित्तं श्री-शिवावज्ञादौ तु नन्दीश्वर-शापश् च विशेषतः संसरन्त्व् इहेत्य्-आदि दर्शयिष्यते च चित्रकेतु-चरिते ॥३१॥ [भक्ति-सन्दर्भ ४१]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेद-निन्दका यूयं कुपथ-गामिन एवेत्य् आह—एष वेद-लक्षणः । यत् यत्र प्रमाणम् इति । स एवात्र साक्षी प्रष्टव्य इति भावः ॥३१॥
॥ ४.२.३२ ॥
तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।
विगर्ह्य यात पाषण्डं दैवं वो यत्र भूत-राट् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूत-राट् भूतानां तामसानां पतिः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र पाखण्डमार्गे वो युष्माकम् । विश्वनाथस्तु—दनिन्दायाः फलमिदं भाव्यम् एव मदभिशापश् च पिष्टपेष इवेति भावः । भूतानां राजा भूत एवेति निन्दा, भूतेषु सर्वप्राणिषु राजत इति स्तुतिः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विगर्ह्येति वेद-निन्दायाः फलम् इदं भवद्भिः प्राप्तव्यम् एव मद्-अभिशापस् तु पिष्ट-पेश इवेति भावः । भूत-राट् भूतानां राजा भूत एवेति निन्दा । भूतेषु सर्व-प्राणिषु राजत इति स्तुतिः ॥३२॥
॥ ४.२.३३ ॥
मैत्रेय उवाच—
तस्यैवं वदतः शापं भृगोः स भगवान् भवः ।
निश्चक्राम ततः किञ्चिद् विमना इव सानुगः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्योन्य-शापेनोभयोर् नाशाद् विमना इवेति । तथापि भगवद्-अनुगृहीतानां नाशो न स्याद् इति भावः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति । न मे भक्तः प्रणश्यति इति श्रीगीतोक्तेः । यत्प्रमाणं जनार्दनः इति श्रुत्वा कदाचिज्जनार्दनं तद्भक्ताश् च प्रति किम् अप्यवद्यं क्रोधाद् एव नन्दीश्वरो वदेद् इति शङ्कमानो भवस्ततो निष्क्रान्त इत्य् आह—तस्यैवम् इति विमना इवेति । वस्तुतस् त्वात्मारामत्वान्न विमनास्तेन द्वयोः शापाभ्यां कर्मशैवमार्गौ परिहृत्य वैष्णवमार्ग एव शुद्धत्वेन ग्राह्य इह प्रकरणव्यङ्ग्यं वस्त्वेतद् एवेति तात्पर्यम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च नन्दीश्वरस्य क्रोधावेशं दृष्ट्वा कदाचित् श्रीजनार्दनं तदुपासकांश् च प्रत्यवद्यं वदेद् इति शङ्कमानः श्रीशिवः सानुग एव् अनिष्कान्तु इत्य् आह तस्यैवम् इति । विमना इवेति नतु विमना इत्य् अर्थः, आत्मारामत्वात् । तद् एवं द्वयोः शापाभ्यां कर्मशैवमार्गौ परिहृत्य श्रीवैष्णवमार्ग एव शुद्धत्वेन स्थापितः । प्रकरणेऽस्मिन् विशेषजिज्ञासायां भक्तिसन्दर्भो दृश्यः ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्-प्रमाणं जनार्दन इति श्रुत्वा कदाचिज् जनार्दनं तद्-भक्तांश् च प्रति किम् अप्य् अवद्यं क्रोधाद् एव नन्दीश्वरो वदेद् इति शङ्कमानो भवस् ततो निष्क्रान्त इत्य् आह—तस्यैवम् इति । विमना इवेति वस्तुतस् त्व् आत्मारामत्वान् न विमनाः । तेन द्वयोः नन्दीश्वर-भृग्वोः शाप-ग्रस्तान् कर्म-मार्गान् शैवांश् च परिहृत्य वैष्णवा एव सुधीभिर् आश्रयणीया इति प्रकरण-व्यङ्गं वस्तु ज्ञेयम् ॥३३॥
॥ ४.२.३४-३५ ॥
तेऽपि विश्व-सृजः सत्रं सहस्र-परिवत्सरान् ।
संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता ।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋषभः सर्व-श्रेष्ठो हरिर् यत्र इज्यः पूज्यः, तत् सत्रं सम्यग् विधाय । हे महेष्वास विदुर ! यत्र प्रयागेऽन्विता, तत्र अवभृथ-स्नानं कृत्वा ततः स्थानाद् ययुः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं विवादे\ऽपि सत्रान्तरायो नाभूद् इत्य् आह—ते\ऽपि इति । सानुग-दक्ष-रुद्रौ विनापि सत्रं संविधाय ययुः, न च तद्-विरोध-जन्यः को\ऽपि विघ्नो\ऽभूत् । तत्र हेतुः—यत्र हरिर् एव इज्यानाम् ऋषभ इति । सन्ध्य्-अभावस् त्व् आर्षः । महेष्वास इति । यथा त्वां महेष्वासं विनैव भारत-युद्धम् अभूत्, तथा पिनाकपाणिं विनापि यागो\ऽभूद् इत्य् अभिप्राया संबुद्धिः ॥ अस्यैव कर्मणः स्वाभीष्ट-दत्त्वाद् इदं समाप्य न कर्मान्तरं तैर् आरब्धम् । किं तु स्व-गृह-गमनम् एवानुष्ठितम् इत्य् आह--स्वं स्वम् इति ॥३४-३५॥
इति श्रीमद्-भागवत-दीपिका-प्रकाशे चतुर्थ-स्कन्धे द्वितीयो\ऽध्यायः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेऽपि इति युग्मकम् ॥३४-३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेऽपि रुद्र-दक्षौ स-गणौ विनैव सत्रं संविधाय ययुः । न च तद्-विरोध-जन्यः कोऽपि विघ्नो बभूवेत्य् आह—यत्र हरिर् एव इज्यानाम् ऋषभ इति रुद्रादि-यजनं विनापि यज्ञ-पूर्त-भावो नाभूद् इति भावः ॥३४-३५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थेऽस्मिन् द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे श्री-विदुर-मैत्रेय-संवादे दक्ष-शापो नाम द्वितीयोऽध्यायः ।
॥ ४.२ ॥