प्रथमोऽध्यायः
विषयः
मनु-कन्यानां वंश-वर्णनम्, यज्ञ-दत्तयोर् अवतारश् च ।
॥ ४.१.१ ॥
मैत्रेय उवाच—
मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे ।
आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः ॥**
मध्वः- श्री-वेद-व्यासाय नमः ।
पुनः पुनः कथां प्राहुर् अभ्यासाद् उत्तमं फलम् ।
विज्ञपयितु-कामास् तु विद्वांसस् तत्र तत्र तु ॥ इत्य् आग्नेये ॥१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-गणेशाय नमः । नमः श्री-परमहंसास्वादित-चरण-कमल-चिन्-मकरन्दाय भक्त-जन-मानस-निवासाय श्री-रामचन्द्राय ।
अथैक-त्रिंशताऽध्यायैर् विसर्गस् तुर्य ईर्यते ।
विसर्गस् त्व् ईश्वराधीनैर् ब्रह्म-मन्व्-आदिभिः कृतः ॥
तत्र तु प्रथमेऽध्याये मनु-कन्यान्वयाः पृथक् ।
वर्ण्यन्ते यत्र यज्ञादि- मूर्तिभिः प्रभवो हरेः ॥
मनु-कन्यान्वयं विस्तरेण वक्तुम् आह—मनोस् त्व् इति । च-काराद् द्वौ पुत्रौ च ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
ॐ स्वस्ति श्रीगणेशाय नमः
श्री-कृष्णं बल्लवी-नाथं यशोदानन्द-दायिनम् ।
प्रणम्य कुर्वे तुर् यस्य स्कन्धस्य व्याकृतिं मुदा ॥
अथ सर्ग-कथनोत्तरम् । तुर्ये चतुर्थ-स्कन्धे । ईश्वराधीनैर् ईश्वर-प्रेरितैः कृतः सर्गो विसर्गः एक-वचनान्तस्याप्य् एकत्रिंशच्-छब्दस्य बह्व्-अर्थ-बोधकत्वाद् अध्यायैर् इत्य् अनेनान्वयो न विरुद्धः । विंशत्य्-आद्याः सदैकत्वे इत्य् अमरात् ॥ (१) ॥
एकेन मनु-कन्यानाम् अन्वयाः कथिता इह । > ततो रसैर् दक्ष-यज्ञ-ध्वंसो भूयः प्रवर्तना ॥ > ततो ध्रुवस्य चरितं पञ्चभिः श्री-पृथोस् ततः । > एकादशभिर् अध्यायैर् अष्टभिश् च प्रचेतसाम् । > इत्य् एवं क्रमशो ज्ञेयो विज्ञैः प्रकरण-क्रमः ॥ [विश्वनाथः]
यत्र मनु-कन्यान्वयेषु । आदिना कपिलादि-ग्रहः ॥ (२) ॥ पूर्वोक्तम् अनुवदति प्रस्तुत-लाभाय मनोर् इति विश्रुताः प्रसिद्धाः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
चतुर्थ-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
गोप-रामाजन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
चतुर्थे कथ्यते सैक-त्रिंशाध्यायवति स्फुटम् ।
विसर्गो यः कृतो ब्रह्म-मन्व्-आद्यैर् ईश्वराज्ञया ॥
एकेन मनु-कन्यानाम् अन्वयाः कथिता इह ।
ततः षड्भिर् दक्ष-यज्ञ-ध्वंसो भूयः प्रवर्तने ॥
ततो ध्रुवस्य चरितं पञ्चभिः श्री-पृथोस् ततः ।
एकादशभिर् अध्यायैर् अष्टभिस् तु प्रचेतसाम् ॥
तत्र तु प्रथमेऽध्याये आकूत्य्-आदि-त्रिकान्वये ।
वर्ण्यन्ते यज्ञ-दत्त-श्री-नारायण-ज-सत्-कथाः ॥ओ॥
पूर्व-स्कन्धे कर्दम-कथा-प्रसङेन मनोर् द्वितीयायाः कन्याया देवहूतेर् वंशान् उक्त्वा पुनस् तस्यान्वयं क्रमेण वक्तुं प्रथमायाः कन्याया आकूतेर् वंशम् आह—मनोस् त्व् इति । ब्रह्मणः पुत्राणां मध्ये मनोस् त्व् इति तु-शब्देन मरिच्य्-आदिभ्यस् तस्य भक्त्य्-उत्कर्षः सूचितः । च-काराद् द्वौ पुत्रौ च ॥१॥
॥ ४.१.२ ॥
आकूतिं रुचये प्रादाद् अपि भ्रातृ-मतीं नृपः ।
पुत्रिका-धर्मम् आश्रित्य शतरूपानुमोदितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तु-शब्दाद् अन्यतोऽपि पुत्र-लाभः सूचितस् तद् दर्शयितुम् आह—पुत्रिका-धर्मम् आश्रित्य इति ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलङ्कृताम् । > अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥
इति भाषा-बन्धेन कन्या-दानं पुत्रिका-धर्मः । स चाभ्रातृकायां कन्यायां पुत्रार्थिन एव प्रसिद्धः, तथापि पुत्र-बाहुल्य-कामस् तथा कृतवान् इत्य् आह—भ्रातृ-मतीम् अपीति ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मनोस् त्व् इह तु पद-प्रयोग-फलं दर्शयति--अभ्रातृकां भ्रातॄअहिताम् । अस्यां मत्-कन्यायाम् । यद् वा, अकृतेः पुत्रो भगवान् यज्ञो भविष्यतीति सर्वज्ञत्वेन दौहित्रः सन्न् अपि मे पुत्र एव यथा स्यात् तथा भावेन वा पुत्रिका-धर्मम् आश्रितवान् इति । नृपः स्वायंभुवः । अनुमोदितः सुष्ठु विमृष्टम् इत्य् उक्तः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापि तत्र भगवज्-जन्म ज्ञात्वा तथा कृतवान् इत्य् आह—अपि भ्रातृ-मतीम् इति । अस्मात् सदाचारात् भ्रातृ-मत्या अपि तथा दाने विधिर् ज्ञेयः । तेन विधि-बलेन । [कन्या-सम्प्रदान-] मन्त्राक्षर-परिवर्तश् च कर्तव्यः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रातृ-मतीम् अपि कन्यां पुत्र्का-धर्मम् आश्रित्य प्रादात् । न केवलं पुत्र-बाहुल्य-काम एव, किन्तु आकूति-पुत्रस्य भग्वद्-अवतारत्वं सर्वज्ञतया ज्ञात्वा भगवान् मम दौहित्रोऽपि पुत्रोऽपि भूयाद् इति काम इति भावः ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलङ्कृताम् । > अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ।
भाषा-बन्धेन कन्या-दानं पुत्रिका-धर्मः । अत्राभ्रातृकाम् इत्य् अल्पार्थे नञ् ॥२ ॥
॥ ४.१.३ ॥
प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् ।
मिथुनं ब्रह्म-वर्चस्वी परमेण समाधिना ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथुनं पुरुषं स्त्रियं च । समाधिना ईश्वर-ध्यानेन ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स स-रुचिः । भगवान् अनल्प-ज्ञानः । तस्याम् आकूत्याम् । ब्रह्म-वर्चस्वी वेदाध्यानादिनातीव तेजस्वी । परमेण श्री-हरि-ध्यानाविष्टेन समाधिना चित्तैकाग्र्येण । अनेन रुचेर् ब्राह्मणत्वं लक्ष्यते ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.४ ॥
यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञ-स्वरूप-धृक् ।
या स्त्री सा दक्षिणा भूतेर् अंश-भूतानपायिनी ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतेर् लक्ष्म्या अंश-भूता, अतस् तयोर् विवाहो न विरुद्ध इति भावः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः कन्या-कुमारयोर् मध्ये धृज-धारणे ज-कारान्तो\ऽपि धातुः, धातूनाम् अप्य् अनन्तत्वान् नानार्थत्वाच् च सर्वथा इत्य् अनुभूति-स्वरूपोक्तेः । भूतिः श्री-भस्म-जन्मसु इति यादवः । अतो लक्ष्म्य्-अंशत्वात् । तयोर् यज्ञ-दक्षिणयोः । शत भाव इति । लक्ष्मीर् न्यस्य भार्या स्याद् विना विष्णुं स्वयं प्रभुम् इत्य्-आदि-पुराणाद् अयम् आशयः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतैर् लक्ष्म्या अंश-भूता अतस् तयोर् विवाहो न विरुद्ध इति भावः ॥४॥
॥ ४.१.५ ॥
आनिन्ये स्व-गृहं पुत्र्याः पुत्रं वितत-रोचिषम् ।
स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्र्या आकूतेः पुत्रं यज्ञम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वायंभुवेनोद्वाहकाले यदुक्तं तन्न विस्मृतम् इत्य् आह—आनिन्ये इति । विततं रोचिस्तेजो यस्य तम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.६ ॥
तां कामयानां भगवान् उवाह यजुषां पतिः ।
तुष्टायां तोषम् आपन्नोऽजनयद् द्वादशात्मजान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यजुषां यज्ञानां मन्त्राणां वा पतिर् विष्णुः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां दक्षिणां कामयानाम् उद्वहनेच्छावतीं तुष्यत्य् अनयेति तुष्टा दक्षिणा । कारिते\ऽपि सुभोजने दक्षिणादानाभावे भोक्तुस् तोषो न भवतीत्य् अवश्यं सा देया । ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयं सुधातु-दक्षिणम् । अस्मद्-राता देवत्रा गच्छत दातारम् आप्रीणयत इति श्रुतेः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यजुषां पतिर् यज्ञ-रूपी विष्णुः ॥६ ॥
॥ ४.१.७ ॥
तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः ।
इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्वि-षट् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्विषट् द्वादश ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्विरावृत्ताः षट् द्विषट् आर्षत्वाद्विशब्दस्य द्व्यादेशो मध्यमपदलोपश् च ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.१.८-९ ॥
तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।
मरीचि-मिश्रा ऋषयो यज्ञः सुर-गणेश्वरः ॥**
प्रियव्रतोत्तानपादौ मनु-पुत्रौ महौजसौ ।
तत्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तं तद्-अन्तरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गात् स्वायंभुव-मन्व्-अन्तर-गतं षट् कम् आह—तुषिता इति द्वाभ्याम् ।
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः > ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥ [भा।पु। १२.७.१५] > इति वक्ष्यति ।
तत्र स्वायम्भुवो मनुः । तुषिता देवाः । मरीचि-प्रमुखाः सप्त-र्षयः । यज्ञो हरेर् अवतारः । स एव सुर-गणेश्वर इन्द्रः ।
प्रियव्रतोत्तानपादौ मनु-पुत्रौ पृथ्वी-पालकौ । तद् एवं यज्ञस्य द्वै रूप्येण षड्-विधत्वम् । तयोः पुत्र-पौत्र-नप्तॄणां वंशैर् अनुवृत्तं व्याप्तं पालितं तन् मन्व्-अन्तरम् ॥८-९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्वन्तर लक्षणमष्टम-स्कन्धे वक्ष्यति । स एव यज्ञ एव यज्ञस्य द्वैरुप्यात्षट्कमूर्तिः ॥८-९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नप्तारोऽत्र प्रपौत्रादयो ज्ञेयाः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसङ्गान् मन्वन्तर-गतं षट्कम् आह—तुषिता इति द्वाभ्याम् ।
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः > ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥ [भा।पु। १२.७.१५] > इति वक्ष्यति ।
तत्र स्वायम्भुवस्य मनुत्वात् यज्ञस्यास्यावतारत्वेनेन्द्रत्वेन च द्वैरूप्यात् षट्कम् उक्तं ज्ञेयम् । अनुवृत्तम् अनुचरितं, तन्-मयम् एव, तद्-अनन्तरं स्वायम्भुव-मन्वन्तरम् इत्य् अर्थः ॥८-९ ॥
॥ ४.१.१० ॥
देवहूतिम् अदात् तात कर्दमायात्मजां मनुः ।
तत्-सम्बन्धि श्रुत-प्रायं भवता गदतो मम ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रुत-प्रायं बाहुल्येन श्रुतम् । तत्-कन्या-वंशानाम् अश्रुतत्वात् प्राय-ग्रहणम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्संबन्धि तस्या देवहूत्याः पुत्रकन्यादिकम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-सम्बन्धि तस्याः पुत्र-कन्यादिकं तत्-कन्या-वंशानाम् अश्रुतत्वात् प्राय-ग्रहणम् ॥१०
॥ ४.१.११ ॥
दक्षाय ब्रह्म-पुत्राय प्रसूतिं भगवान् मनुः ।
प्रायच्छद् यत्-कृतः सर्गस् त्रि-लोक्यां विततो महान् ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान्समर्थः यत्कृतः प्रसूतिदक्षकृतः सर्गः सृष्टिः ॥११॥
न कतमेनापि व्याख्यातम् ।
॥ ४.१.१२ ॥
याः कर्दम-सुताः प्रोक्ता नव ब्रह्मर्षि-पत्नयः ।
तासां प्रसूति-प्रसवं प्रोच्यमानं निबोध मे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसूति-प्रसवं पुत्र-पौत्रादिभिर् विस्तारम् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मर्षीणां मरीच्यादीनाम् । पत्नय इत्यार्षत्वान्डीपो ह्रस्वत्वे बुद्धय इतिवत् । तासां कर्दमात्मजानाम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नव-ब्रह्मर्षि क्षत्तर् ब्रह्मर्षीति पाठ-द्वयम् । प्रसूति-प्रसवं पुत्र-पौत्रादि-विस्तारम् ॥१२ ॥
॥ ४.१.१३ ॥
पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा ।
कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ययोर् वंशेनापूरितम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वंशेनेति शेषः । ययोः कश्यपपूर्णिमयोः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययोर् वंशेन ॥१३॥
॥ ४.१.१४ ॥
पूर्णिमासूत विरजं विश्वगं च परन्तप ।
देवकुल्यां हरेः पाद- शौचाद् याभूत् सरिद् दिवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कश्यपस्य वंशं षष्ठे वक्ष्यति । द्वितीयस्य वंशम् आह—पूऋणिमेति । देवकुल्यां नाम कन्यां च । हरेः पाद-क्षालनाज् जन्मान्तरे या दिवः सरिद् गङ्गाऽभूत् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परन्तपेति विदुरस्येन्द्रियजये सामर्थ्यम् आह ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कश्यपस्य वंशं षष्ठे वक्ष्यति । देवकुल्यां नाम कन्यां च । हरेः पाद-क्षालनात् सुकृताद् या दिवः सरिद् गङ्गा जन्मान्तरेऽभूत् ॥१४ ॥
॥ ४.१.१५ ॥
अत्रेः पत्न्य् अनसूया त्रीऽ जज्ञे सुयशसः सुतान् ।
दत्तं दुर्वाससं सोमम् आत्मेश-ब्रह्म-सम्भवान् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ब्रह्मस्थैश् चैव रुद्रस्थः स्वयं चापि हरिः प्रभुः ।
प्रजां त्रिपुरुष-समां यच्छत्व् इत्य् अत्रिर् ऐच्छत ॥
तस्मात् स ब्रह्म-रुद्राभ्यां सह विष्णुर् जगत्-पतिः ।
आगत्य तु त्रिमूर्त्य्-अंशान् पुत्रान् प्रादाज् जनार्दनः । > भावित्वाच् चैव कार् यस्य लोकानां मोहनाय च ॥ इति ब्रह्म-वैवर्ते > ॥१५ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मेश-ब्रह्म-संभवान् विष्णु-रुद्र-ब्रह्मणाम् अंशैः संभूतान् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जज्ञे उत्पादयामास । जनी प्रादुर्भावे इह प्रादुर्भावयतीति प्रादुर्भाव इत्यन्तर्भावितणिजर्थत्वेन सकर्मको\ऽप्य् अयम् । प्रादुर्भवनं प्रादुभाव इति निरुक्त्याश्रयणे त्वकर्मकोयम् इति । आत्मशब्देन विष्णोः स्वातन्त्र्यमुक्तमन्ययोस्तत्पारतन्त्र्यं च सृजामि तन्नियुक्तोहं हरो हरति तद्वशः । परिपाति स्वयं विष्णुः इत्य् उक्तेः । सोमे हि ब्रह्मण आवेशमात्रम् एव न तु पृथग्जननम् इति तीर्थः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्रेर् इति । आत्म-शब्देनात्र विष्णोः स्वातन्त्र्यम् अन्ययोस् तत्-पारतन्त्र्यं च दर्शितम् । तद् उक्तं—सृजामि तन्-नियुक्तोऽहं [भा।पु। २.६.३२] इत्य् आदि । अत एव च तत्र तत्रात्म-शब्देन हरिर् एव व्याख्यातः । तद् एवम् अत्रेस् तथा सङ्कल्पो नातिज्ञानाद् एव भावीति बोधितम् । तथैव शरणं [भा।पु। ४.१.२०] इत्य् आदिकस् तद्-दृष्टो मन्त्रः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा विष्णुस् तद्-आद्य्-अंश-भूतान् ॥१५॥
॥ ४.१.१६ ॥
विदुर उवाच—
अत्रेर् गृहे सुर-श्रेष्ठाः स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ।
किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किञ्चित् किं स्वित् । किं कर्तुम् इच्छव इत्य् अर्थः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरूणां शिष्यसन्देहापनोदनमुचितमित्य् अभिप्रेत्यामन्त्रयति गुरो इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चित् किं स्वित् ॥१६॥
॥ ४.१.१७ ॥
मैत्रेय उवाच—
ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्म-विदां वरः ।
सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋक्षं नाम कुलाद्रिम् । तपसि स्थितः सन् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुलाद्रिं सप्तकुलाचलान्तर्गतम् । तपसि स्थितोभूद् इति शेषः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋक्षम् ऋक्ष-नामानम् ॥१७॥
॥ ४.१.१८-२० ॥
तस्मिन् प्रसून-स्तवक- पलाशाशोक-कानने ।
वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥**
प्राणायामेन संयम्य मनो वर्ष-शतं मुनिः ।
अतिष्ठद् एक-पादेन निर्द्वन्द्वोऽनिल-भोजनः ॥**
शरणं तं प्रपद्येऽहं य एव जगद्-ईश्वरः ।
प्रजाम् आत्म-समां मह्यं प्रयच्छत्व् इति चिन्तयन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन् कुलाद्रौ । प्रसूनानां स्तबका येषु पलाशाशोकेषु तेषां कानने । निर्विन्ध्या नाम नदी तस्याः स्रवद्भिर् वार्भिर् उद्घुष्टे नादिते ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तबका गुच्छाः । तेषां काननं यस्मिन्स तथा तस्मिन् । स्वामिचरणैस्तु तदङ्घ्र्यधिकरणके कानन इति पृथक् व्याख्यातम् ॥ निर्द्वन्द्वस्त्यक्तकामादिद्वन्द्वः । वर्षशतम् इति कालाध्वनोरत्यन्तसंयोगे इति द्वितीयया क्षणम् अपि पादद्वयेन नातिष्ठद् इत्य् उक्तम् ॥ आत्मनः स्वस्य विष्णुमूर्तेः समां तुल्याम् । सन्ततिं ददातु । अत्र सङ्गतिश्चेत्थं पूर्वमुपविश्य प्राणायामः पश्चादुपासनाविशेषार्थमेकपादेनोर्द्ध्वस्थितिः क्त्वाप्रत्ययस्य पूर्वकालाश्रयत्वादूर्ध्वस्थितावेव शरणं तमित्य्-आदिमन्त्रचिन्तनं शतृप्रत्ययस्य समानकालाश्रयत्वात् । तथापि तस्याप्राकट्ये पुनर् दुःखेन स्वदेहत्यागाय साग्निधारणप्राणायामस्तदर्थं पुनर् उपवेश एव ज्ञेयः, औचित्यात् । ततस् तस्य विश्वस्य च दाहारंभे तेषां तत्र सहसा प्राकट्यं ततश् च ते बहिः प्रकटा इति मनत्येव स्फुरिते पुनर् उत्थानादिकम् इति ज्ञेया ॥१८-२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मिन्न् इति त्रिकम् । प्राणायामेनेत्य् आदाव् इयं सङ्गतिः –पूर्वम् उपविश्य प्राणायामः, पश्चाद् उपासना-विशेषार्थम् एक-पादेनोर्ध्व-स्थितिः । क्त्वा-प्रत्ययस्य समान-कालाश्रयत्वात् । तथापि तस्याप्राकट्ये पुनर् दुःखेन स्व-देह-त्यागाय साग्नि-धारण-प्राणायामस् तद्-अर्थं पुनर् उपवेश एव ज्ञेयः, औचित्यात् । ततस् तस्य विश्वस्य च दाहारम्भे तेषां तत्र सहसा प्राकट्यं, ततश् च ते बहिः प्रकटा इति मनस्य् एव स्फुरिते पुनर् उत्थानादिकम् इति ॥१८-२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसूनानां स्तवका येषु तेषां प्रलाशाशोकानां कानने उद्घृष्टे नादिते ॥१८-२० ॥
॥ ४.१.२१-२२ ॥
तप्यमानं त्रि-भुवनं प्राणायामैधसाग्निना ।
निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥**
अप्सरो-मुनि-गन्धर्व- सिद्ध-विद्याधरोरगैः ।
वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणायाम एव एधः सन्दीपको यस्य तेन, मुनेर् मूर्ध्नो निर्गतेनाग्निना तप्यमानं समीक्ष्य तद्-आश्रम-पदं ययुर् इत्य् उत्तरेणान्वयः । अप्सरः-प्रमुखैर् वितायमानं विस्तार्यमाणं यशो येषां ते ॥२१-२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काष्ठं दार्विन्धनं त्वेधः इत्य् अमरः । त्रयो ब्रह्मविष्णुरुद्राः । प्रभवः समर्थाः ॥ तस्यात्रेराश्रम एव पदं स्थानम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तप्यमानम् इति युग्मकम् । मुनेर् अत्रेः प्राणायामेनेति चित्सुखः ॥२१-२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनेर् मूर्ध्नः सकाशान् निर्गतेनाग्निना तपो-मयेन तप्यमानं वीक्ष्य प्राणायाम एधः काष्ठां यस्य तेन । अत्र तिष्ठन्न् एव प्राणायामांश् चकारेति ज्ञेयम् । प्राणायामेन संयम्य मनोऽतिष्ठद् इति क्त्वा-प्रत्ययो झनत्कृत्य पतति संनिमील्य हसतीत्य्-आदिवत् तुल्य-काल एव ज्ञेयः ॥२१-२२॥
॥ ४.१.२३ ॥
तत्-प्रादुर्भाव-संयोग- विद्योतित-मना मुनिः ।
उत्तिष्ठन्न् एक-पादेन ददर्श विबुध-र्षभान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां प्रादुर्भावः प्राकट्यं तस्य संयोगः सन्निधिस् तेन विद्योतितं मनो यस्य उत्तिष्ठन्न् उत्कर्षेण तिष्ठन् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विबुधर्षभान्सर्वदेवश्रेष्ठान् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां प्रादुर्भावेन हेतुना यः संयोगो मिलनं तेन विद्योतित-मनास् तान् प्रत्य् अभ्युत्थानार्थं तिष्ठन्न् एव उत्कर्षेण तिष्ठन् ॥२३॥
॥ ४.१.२४ ॥
प्रणम्य दण्डवद् भूमाव् उपतस्थेऽर्हणाञ्जलिः ।
वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान् ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्हणं पुष्पादिकम् अञ्जलौ यस्य । उपतस्थे पूजयाम् आस । वृषाद्य्-आरूढान् । स्वैः स्वैश् चिह्नैस् त्रि-शूल-कमण्डलु-चक्रादिभिः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना त्रिनेत्रत्व-चतुर्-मुखत्व-चतुर्-भुजत्वादि-ग्रहः ॥२४॥
कैवल्य-दीपिका : श्लोकेऽत्र यद्यपि त्रयाणां प्रतीतिस् तथापि द्वयोर् एवात्राभिनिवेष्टव्यम् । इह हि द्वैगुण्य-धारणाया विवक्षितत्वाद् विष्णु-रूपस्य वक्ष्यमाणत्वाच् च । न च द्वयोर् युगपद् ध्यानानुपपत्तिः । हरि-हरार्ध-नारीश्वरादिवद् उपपत्तेः । वृष-हंस-सुपर्ण-स्थान् रुद्रादीन् अस्तावीद् इत्य् अन्वयः । तत्र वृषभारूढः खट्टाङ्ग-श्मशान-काष्ठ-टाङ्ग-डमरु-परशु-कपालालङ्कृत-चतुर्भुजा चर्म-वसना भस्माङ्ग-रागा फणि-कपाल-विभूषणा रुद्र-मूर्तिश् चिन्त्या । ब्रह्म-मूर्तिस् तु हंसारूढा चतुर्मुखी चतुर्भुजा तप्त-काञ्चन-वर्णा शुक्ल-वस्त्रा लम्ब-कूर्चा तुन्दिला सौम्या पिङ्गाक्षी सोत्तरीयोपवीता योग-पट्टासना जटा-मुकुटालङ्कृताक्ष-सूत्र-पुस्तक-कमण्डलु-स्रुवान् दधानेति । कृपयावलोकः तेन हसद्-वदनेन च उपलम्भितान् प्रसन्नत्वेन ज्ञापितान् ॥२४॥ [मु।फ। १.३६]
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रणम्य इति सार्धकम् । विजृम्भितान् इति चित्सुखः ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्हणं पुष्पादिकम् अञ्जलौ यस्य सः । स्वैः स्वैश् चिह्नैस् त्रिशूल-कमण्डलु-चक्रादिभिस् तद् अपि कृपावलोकेनैव उपलम्भितान् । एते ईश्वरा एवैतादृश-कृपावलोकान्यथानुपपत्तेर् इति ज्ञापितान् । कीदृशेन ? हसत्-प्रसीदद्-वदनं यतस् तेन ॥२४॥
॥ ४.१.२५-२६ ॥
कृपावलोकेन हसद्- वदनेनोपलम्भितान् ।
तद्-रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी ॥**
चेतस् तत्-प्रवणं युञ्जन्न् अस्तावीत् संहताञ्जलिः ।
श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृपयाऽवलोको यस्मिन् । हसच् च तद् वदनं च तेन उपलम्भितान् प्रसन्नत्वेन ज्ञापितान् । तेषां रोचिषा दीप्त्या ॥२५॥ श्लक्ष्णया मधुरया । सूक्तया गम्भीरार्थया ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिहते प्रतिबद्ध-दर्शन-शक्तिनी ॥२५॥ तेषु प्रवणं मग्नं युञ्जन् कुर्वन् । संहताञ्जलिर् बद्धाञ्जलिः । यद् वा, सूक्तया
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परिता बभूव । > आस्य जानतो नाम चिद्-विवक्तनम हस्ते विष्णो सुमतिं भजामहे । > इमा रुद्राय स्थिर-धन्वने गिरः क्षिप्रेषवे देवाय स्वधास । > इत्य्-आदि-वेद-रूपया ॥२६॥
कैवल्य-दीपिका : तेषां रोचिषा प्रभया । प्रतिहते प्रतिघातं नीते ॥२५॥ [मु।फ। १.३७]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच्-छोचिषेति सार्धकम् ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्लक्ष्णया मधुरया ॥२५॥
॥ ४.१.२७ ॥
अत्रिर् उवाच—
विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर्
माया-गुणैर् अनुयुगं विगृहीत-देहाः ।
ते ब्रह्म-विष्णु-गिरिशाः प्रणतोऽस्म्य् अहं वस्
तेभ्यः क एव भवतां म इहोपहूतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनु-युगं कल्पे कल्पे विभज्य गृहीतो देहो यैस् ते प्रसिद्धा ब्रह्म-विष्णु-गिरिशा यूयम् । वो युष्मान् प्रणतोऽस्मि । तेभ्यः सकाशाद् क एव मे मया उपहूतः । “शरणं तं प्रपद्ये” इत्य् एकस्यैव निर्दिष्टत्वात् । स च युष्मासु क इति युष्माभिर् एव कथ्यताम् इत्य् अर्थः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । भवताम् अन्तर्यामित्वेन सर्वज्ञत्वाद् यूयम् एव मद्-अभीष्टम् एवं कथयत न मत्तो निजानादर-गर्भां वाचं भाषयथेति तात्पर्यम् ॥२७॥
कैवल्य-दीपिका : अनुयुगं कल्पे कल्पे । वि-शब्दो वैसादृश्ये । ते प्रसिद्धाः । तेभ्यः सकाशाद् एक एवोपहूतः । स च कः ? इति युष्माभिर् एव कथनीयः इत्य् आह—प्रधानं प्रकृष्टा धारणा। अचित्तं चित्तं कृतश् चित्तीकृतः । चित्तेनैक्यं नीत इत्य् अर्थः । प्रजननाय पुत्रोत्पत्त्यै । एकस्मिन् ध्यातेषु त्रयः कथम् अत्रागताः इति ब्रूत । दूरा अगोचराः । प्रसीदत प्रसादं कुरुत । इह त्रयाणाम् आगमने । एतेनात्रि-तुल्योऽत्राकारीति ज्ञेयम् । अत्रिर् हि रजस्-तमः-प्रकृतिः प्रजा-कामत्वात् । यथोक्तं—
रजस्-तमः-प्रकृतयः समशीलान् यजन्ति हि ।
पितृ-भूत-प्रजेशादीन् श्रियैश्वर्य-प्रजेप्सवः ॥ [भा।पु। १.२.२७] इति ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्व- इति । अत्र च श्री-विष्णोर् अपि माया-गुण-गृहीत-देहत्वं नातिज्ञानाद् एव कल्पितम् । तथैवाह—यो मे मयोपहूतः । स तेभ्यः पृथक् पृथक् तच्-छक्ति-विग्रहादि-विभागेभ्यो हेतुभ्यो भवतां मध्ये क एव स्यात् ? इतर-द्वय-निरासेन को भवेत् ? तस्याविभक्तत्वान् न कोऽपीति सम्भावयामीत्य् अर्थः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुयुगं प्रतिकल्पं विभज्यमानैर् माया-गुणैर् ये विश्वस्य उद्भवादयस् तेषु प्रवृत्तास् ते प्रसिद्धा एव ब्रह्मादयो यूयं विगृहीत-देहा भवथेति जानामीति भावः । यद् वा, माया-गुणैर् एव विगृहीत-देहा इति विष्णोर् अपि प्राकृत-सत्त्व-मय-देहत्वम् ईश्वरत्वस्यैव निर्धारासामर्थ्येन भगवत्-तत्त्व-ज्ञानाभावाद् एव तेनोक्तम् इति ज्ञेयम् । तेभ्यो वो युष्मभ्यं प्रणतोऽस्मि प्रणतिं ददद् अस्मीति कृपया मत्-सन्देह उच्छिद्यताम् इति भावः । भवतां मध्ये मया इह मद्-अभीष्ट-साधने क उपहूतः ? "शरणं तं प्रपद्ये" इत्य् एकस्यैव निर्दिष्टत्वात् । स च जगदीश्वरो भवतां मध्ये क इति भवद्भिर् एव कृपया कथ्यताम् इति भावः ॥२७॥
॥ ४.१.२८ ॥
एको मयेह भगवान् विविध-प्रधानैश्
चित्ती-कृतः प्रजननाय कथं नु यूयम् ।
अत्रागतास् तनु-भृतां मनसोऽपि दूराद्
ब्रूत प्रसीदत महान् इह विस्मयो मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य प्रपञ्चः--एक इति । विविधैः प्रधानैर् उपचारैः । "विबुध-प्रधान" इति वा पाठः । प्रजननाय पुत्रोत्पत्त्यै । चित्तीकृतश् चित्तेनैक्यं नीतः । मनसोऽपि दूरा अगोचराः सन्तः कथं नु त्रयोऽप्य् अत्रागताः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तांस् तूष्णीं स्थितान् वीक्ष्य स्वाभिमतं स्पष्टयति अहो मद्-भाग्यम् अलौकिकं यतो\ऽलभ्य-लाभो जात इत्य् आह—महान् इह इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न च त्रयोऽपि यूयम् उपासिता यतः--एक इति । मया तु तत्-तच्-छक्तित्वेनैक एव चित्तीकृतः । ततः स एव चित्तस्थः सन् मद्-इष्टं सम्पादयेत् । कथं नु यूयम् एतावता प्रयासेन अत्रागताः ? अतो महान् एव सङ्कोचो वा मम जात इति भावः । अथैवाह—मनसोऽपि इति । प्रधानैर् इति सम्बन्धोक्ति-पाठान्तरम् । तद्-अज्ञानं दृष्ट्वैव प्रहस्य ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुष्णीं स्थितांस् तान् पुनः स्पष्टीकृत्याह—एक एव मया विविधैः प्रधानैर् उपचारैः । "विबुध-प्रधान" इति वा पाठः । प्रजनाय पुत्रोत्पत्त्यै चिन्तीकृतः चित्तस्थी-कृतः । यूयं त्रयः कथम् अत्रागताः ? ॥२८॥
॥ ४.१.२९ ॥
मैत्रेय उवाच—
इति तस्य वचः श्रुत्वा त्रयस् ते विबुध-र्षभाः ।
प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रभो इति । भगवत्-कथा-श्रवण-समर्थत्वाद् उक्तं मैत्रेयेण ॥२९॥
नान्येन केनापि व्याख्यातम्।
॥ ४.१.३० ॥
देवा ऊचुः—
यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा ।
सत्-सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्-स्थ-विष्ण्व्-अपेक्षया ते वयम् इति ॥३०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते त्वया यथा कृतः सङ्कल्पः, तेन तथा एव भाव्यं नान्यथा । यतः सत्-सङ्कल्पस्य ते सङ्कल्पः । तर्हि कथम् एकस्मिन् ध्यायमाने त्रयः प्रतीताः स्थ ? तत्राहुः--यद् एकं जगद्-ईश्वराख्यं तत्त्वं भवान् ध्यायति, ते एते वयम् । त्रयोऽपि तद् एवैकं तत्त्वं नास्माकं भेदोऽस्तीत्य् अर्थः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । भेदाभाव-ज्ञापनायैवैकाह्वाने त्र्य्-आगमनम् इति भावः ।
अयं भावः—भवता य एव जगदीश्वर इति पूर्ण-षड्-ऐश्वर्यो भगवान् न विवक्षितः । न च महत्-स्रष्टृत्वादि-विश्व-शक्तिकः पुरुषः विसर्गाद्य्-अंश-मात्र-सिद्धि-कामनया तावन्-मात्रोपाधितयोपासना-प्रवृत्तेः । यदि च तत्-तद्-उपासनाम् अकरिष्यः, तदा तत्-तद्-रूपः स स एवाविरभविष्यद् एव । विश्वेत्य्-आदि-पद्येष्व् उद्भवादि-शब्दा विसर्ग-गत-तन्मात्र-परा एवातो जगदीश्वर-शब्देनापि विसर्गादि-मात्र-शक्तिको विवक्षितः । स चैकत्वेनोपासितो\ऽपि सृजामि तन्-नियुक्तो\ऽहम् [भा।पु। २.६.३२] इत्य्-आदि-न्यायेन सर्व-तत्-तच्-छक्त्य्-आश्रयत्वात् श्री-विष्णुत्वेन प्राप्तो\ऽपि तद्-रूपतया न विवक्षितः, तद्-विग्रहादि-निष्ठत्वाभावात् । अथ त्रयाणाम् अभेदो\ऽपि न विवक्षितस् तेषां क एवेत्य्-आदि-विरोधात्, किं तु सामान्यतयैव विवक्षितः । सामान्यं च विशेषाद् विना नोपलभ्यत इत्य् अतस् त्रयाणाम् अप्य् आविर्भावो योग्य एवेति तथैवाहुर् यद् वै ध्यायतीति सन्दर्भः ।
विश्वनाथस् तु—यत् यं जगदीश्वरं भवान्ध्यायति ते जगदीश्वरा वयं सत्सङ्कल्पस्य तवाभीष्टदातारो भवामेत्य् अर्थः । अयं भावः—जगदीश्वरतुल्य एकः पुत्रो मे भूयाद् इति सङ्कल्पे कतमो जगदीश्वरः स्याद् इति सन्देहेन त्रय एव वयं ध्याताः पुनश् च ध्यातेषु त्रिषु मध्ये जगदीश्वर एक आयात्व् इति पुनर् एकस्य चित्तस्थीकृतत्वे\ऽपि त्रयाणाम् एवास्माकं जगत्य् अस्मिन् ऐश्वर्यात् त्रय एवागता अस्माकं त्रित्वे\ऽप्य् ऐक्याद्वयमेक एव नापि त्वया य एव परमेश्वर इति परमेश्वर-शब्दः प्रयुक्तो\ऽत इन्द्रशत्रो विवर्द्धस्व इत्य्-आदौ सङ्कल्पाद् अपि साधनस्य प्राबल्यदर्शनात्साधनानुरूपं सङ्कल्पानुरूपं च तव फलं भविष्यतीत्य् आह । तथा च विग्रहाणां भेदे\ऽपि विग्रहिण ऐक्यम् एव । एकस्यैवाश्विनीकुमारद्वित्ववत्त्रित्वं तद् उक्तं तस्याग्र्यास्तनवो ब्रह्मा रुद्रो विष्णुश् च इति मैत्रेयोपनिषदि । पूर्वमप्युक्तं सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तेर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः इति नाममात्रेणैव भेदो न वस्तुत इति तात्पर्यम् ॥३०॥
कैवल्य-दीपिका : एवं मूर्ति-द्वयं ध्यायमानो\ऽप्य् अभेदं भावयेद् इत्य् आह—यथा इति । ते तया । एव-शब्दो\ऽभिन्नोपक्रमः । अन्यथा न भाव्यम् एव इति । यतस् त्वं सत्य-सङ्कल्पः, अतस् तव सङ्कल्प-भङ्गा मा भूद् इति त्रयो वयम् आगता इत्य् अर्थः । एकस्यैव त्रिष्व् अधिष्ठातृत्वात् ॥३०॥ [मु।फ। १.४०]
जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्तरम् आहुर्—यथा इति । अयं भावः—भवता य एव जगदीश्वर इति पूर्ण-षड्-गुणैश्वर्यो भगवान् न तावद् विवक्षितः, न च महत्-स्रष्टृत्वादि-विश्व-शक्तिकः पुरुषः विसर्गाद्य्-अंश-मात्र-सिद्ध-कामनया तावन्-मात्रोपाधितयोपासना-प्रवृत्तेः । यदि च तत्-तद्-उपासनाम् अकरिष्यस् तदा तत्-तद्-रूपः स एवाविरभविष्यत्, एवं विश्वेत्य्-आदि-पद्येऽप्य् उद्भवादि-शब्दा विसर्ग-गत-तन्मात्र-परा एव । अतो जगदीश्वर-शब्देनापि विसर्गादि-मात्र-शक्तिको विवक्षितः । स चैकत्वेनोपासितोऽपि सृजामि तन्-नियुक्तोऽहं [भा।पु। २.६.३२] इत्य्-आदि-न्यञेन सर्वं तत्-तच्-छक्त्य्-आश्रयत्वात् श्री-विष्णुः प्राप्तोऽपि तद्-रूपतया न विवक्षितः, तद्-विग्रहादि-निष्ठत्वाभावात् । अथ त्रयाणाम् अभेदोऽपि न विवक्षितः, तेषां क एवेत्य् आदि-विरोधात् । किन्तु सामान्यतयैव विवक्षितः, सामान्यं च विशेषान् विना नोपलभ्यते इत्य् अतस् त्रयाणाम् अप्य् आविर्भावो योग्य एवेति तथैवाहुः—यद् वा इति ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् यं जगद्-ईश्वरं भवान् ध्यायति, ते जगद्-ईश्वरो वयं सत्-सङ्कल्पस्य तवाभीष्ट-प्रदातारो भवामेत्य् अर्थः । अयं भावः—जगद्-ईश्वर-तुल्य एक पुत्रो मे भूयाद् इति सन्देहेन त्रय एव वयं ध्याताः । पुनश् च ध्यातेषु त्रिषु मध्ये जगद्-ईश्वर एक आयात्व् इति । पुनर् एकस्य चित्तस्थी-कृतत्वेऽपि त्रयाणाम् एवास्माकं जगत्य् अस्मिन्न् नैश्वर्यात् त्रय एवागताः, अस्माकं त्रित्वेऽप्य् ऐक्यात् वयम् एक एव, नापि त्वया य एव परमेश्वर इति परमेश्वर-शब्दः प्रयुक्तोऽत इन्द्र-शत्रो विवर्धस्वेत्य् आदौ सङ्कल्पाद् अपि साधनस्य प्राबल्य-दर्शनात् साधनानुरूपं सङ्कल्पानुरूपं च तव फलं भविष्यतीति ॥३०॥
॥ ४.१.३१ ॥
अथास्मद्-अंश-भूतास् ते आत्मजा लोक-विश्रुताः ।
भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्रप्स्यन्ति विस्तारयिष्यन्ति । अन्तर् भूत-णिज्-अर्थस्य सृपॢ गताव् इत्य् अस्य रूपम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : फलं च तथैव भवेद् इत्य् आहुः—अथ इति । अतो हेतोः अस्माकम् अंशो न शक्ति-विशेषेण भूताः प्राप्ता आविष्टा इत्य् अर्थः ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथेति विष्णोः परमेश्वरत्व-ख्यापनार्थं विष्ण्व्-अंशो दत्त एवावतारोऽभून् नेतरौ । विस्रप्स्यन्ति विस्तारयन्ति, अन्तर्-भूत-णिज्-अर्थस्य सृपॢ गताव् इत्य् अस्य रूपम् ॥३०॥
॥ ४.१.३१ ॥
एवं काम-वरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।
सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताभ्यां सम्यक् सभाजिताः पूजिताः सन्तः ततः स्थानात् प्रतिजग्मुः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि प्रसन्नाश्चेत्प्रजा मे दत्तेत्यत्रेर्जिह्वाग्रसंचलनावकाशमददाना आहुरथेति । अथैते वयम् इत्य् उक्त्यनन्तरम् इति वरं ददुर् इति । अस्माकं त्रयाणामंशभूतास्त्रयः पुत्रास्ते भविष्यन्ति । अभेददर्शित्वाभावे\ऽपि सत्यवक्तृत्वेन तुष्टा आहुः हे अङ्गेति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सभाजिताः पूजिताः । मिषतोः पश्यतोः ॥३१॥
॥ ४.१.३२ ॥
सोमोऽभूद् ब्रह्मणोऽंशेन दत्तो विष्णोस् तु योगवित् ।
दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ब्रह्मणो नावतारोऽस्ति सन्निधानं तु केवलम् । > ऋते विष्णोर् आत्मनश् च तद्-अंशोक्तिः प्रवेशतः ॥ इति च । > सृष्टि-भेदाद् विरूपस् तु कथा पञ्चोत्तरं शतम् । > वैरूप्यम् अन्यद् विज्ञेयं तात्पर्यान् मोहनाय च ॥ इति स्कान्दे ॥ > ऋते तु पाण्डव-कथां कार्ष्णां रामायणं तथा । > विष्णोर् ब्रह्मादीनां चैव क्रमाद् व्यत्यस्त-शक्तिताम् ॥ > एतद् आपादकं चान्यद् ऋते कल्पादि-भेदतः । > कथा-भेदस् तु विज्ञेयो मोहायैतेषु भिन्नता ॥ इति वाराहे > ॥३२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्गिरसो ब्रह्मणस् तृतीय-पुत्रस्य । निबोध बुध्यस्व ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काम्यते इति कामः स चासौ वरश्चेति तमभिलषितवरम् इत्य् अर्थः । ताभ्यामत्र्यनुसूयाभ्याम् । ततः ऋक्षगिरेः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.३३ ॥
श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।
सिनीवाली कुहू राका चतुर्थ्य् अनुमतिस् तथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताः कन्या निर्दिशति—सिनीवालीति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योगवित् योगशास्त्रकर्त्ता ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.३४ ॥
तत्-पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषेऽन्तरे ।
उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णशुक्लचतुर्दशीपञ्चदश्योरभिमानिन्यस्ताः क्रमाद्बोध्याः ॥३४॥
न कतमेनापि व्याख्यातम्।
॥ ४.१.३५ ॥
पुलस्त्योऽजनयत् पत्न्याम् अगस्त्यं च हविर् भुवि ।
सोऽन्य-जन्मनि दह्राग्निर् विश्रवाश् च महा-तपाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुलस्त्यो हविर् भुवि पत्न्याम् इत्य् अन्वयः । सोऽगस्त्यः । दह्राग्निर् जाठराग्निः । विश्रवाश् च पुलस्त्यस्य सुत इति शेषः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्पुत्रावङ्गिरःपुत्रौ । साक्षाद्भगवान्प्रत्यक्षपूज्यः ब्रह्मिष्ठः वैदिकतमः बृहस्पतेर्न परः साम्नो विदुः इति श्रुतेः । बृहत्या वाचः पालकत्वात्स्वामित्वाद्वा बृहस्पतिः पारस्करप्रभृतीनि च संज्ञायाम् इत्य् अत्रोक्तं—तद्बृहतोः इत्य्-आदिना सुट्तलोपाभ्यां सिद्धेर्विशेषणद्वयं बृहस्पतेरेवेति ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दह्राग्निर् इति सम्बन्धोक्तिः । “देहाग्निर्” इति चित्सुखः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.३६ ॥
तस्य यक्ष-पतिर् देवः कुबेरस् त्व् इडविडा-सुतः ।
रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य विश्रवस इडविडायां जातः सुतः कुबेरः । अन्यस्यां भार्यायां केशिन्यां रावणादयस् त्रयः सुताः ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्यक्त्वागादित्यगस्त्य इति त्यागो विषयाणां विन्ध्यगिरेर्वा ज्ञेयो\ऽत्र ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.३७ ॥
पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् ।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महा-मते ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुम्बत्यन्येषामैश्वर्यमाच्छादयतीति कुबेरः । कुवि-आच्छादने धातोरौणादिकः प्रयोगः । यद् वा, कुत्सितं बेरं शरीरमस्येति कुबेरः, पार्वतीशापाद्रोगाक्रान्तदेह इति वाल्मीकीयादौ स्पष्टम् ॥३७॥
न कतमेनापि व्याख्यातम्।
॥ ४.१.३८ ॥
क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत ।
ऋषीन् षष्टि-सहस्राणि ज्वलतो ब्रह्म-तेजसा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्वलतः प्रकाशमानान् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुम्बत्यन्येषामैश्वर्यमाच्छादयतीति कुबेरः । कुवि-आच्छादने धातोरौणादिकः प्रयोगः । यद् वा, कुत्सितं बेरं शरीरमस्येति कुबेरः, पार्वतीशापाद्रोगाक्रान्तदेह इति वाल्मीकीयादौ स्पष्टम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.३९ ॥
ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप ।
चित्रकेतु-प्रधानास् ते सप्त ब्रह्मर्षयोऽमलाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्रकेतु-प्रमुखा जज्ञिरे । ते च सप्त-र्षयो जाताः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुम्बत्यन्येषामैश्वर्यमाच्छादयतीति कुबेरः । कुवि-आच्छादने धातोरौणादिकः प्रयोगः । यद् वा, कुत्सितं बेरं शरीरमस्येति कुबेरः, पार्वतीशापाद्रोगाक्रान्तदेह इति वाल्मीकीयादौ स्पष्टम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.४० ॥
चित्रकेतुः सुरोचिश् च विरजा मित्र एव च ।
उल्बणो वसुभृद्यानो द्युमान् शक्त्य्-आदयोऽपरे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् एवाह—चित्रकेतुर् इति । वसुभृद्यानो नामैकः । शक्त्य्-आदयोऽपरेऽन्यस्याः पुत्राः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऊर्जेत्यरुन्धत्या एव नामान्तरम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शक्त्य्-आदयोऽपरेऽन्यस्याः पुत्राः ॥४०॥
॥ ४.१.४१ ॥
चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृत-व्रतम् ।
दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शक्तिरादिर्येषां ते । अन्यस्या ऊर्जेतरायाः ॥४१॥
न कतमेनापि व्याख्यातम्।
॥ ४.१.४२ ॥
भृगुः ख्यात्यां महा-भागः पत्न्यां पुत्रान् अजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्-पराम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ख्यात्यां पत्न्याम् । पुत्रान् पुत्रौ पुत्रीं च । तान् एवाह—धातारम् इति ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वमथर्वा ब्रह्मपुत्रेष्वगणितो\ऽपि तत्पुत्र एव बोध्यः । किं च, चित्तिर् इति शान्ताया एव नामान्तरमस्ति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रौ च पुत्री च पुत्रास् तान् पुत्रान् ॥४२॥
॥ ४.१.४३ ॥
आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् ।
ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोर् धातृ-विधात्रोः ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्रौ च पुत्री च पुत्रास्तान् भ्रातृपुत्रौ स्वसृदुहितृभ्याम् इत्यनुशासनात्, श्रियं लक्ष्म्यंशभूतां कन्यामत एव भगवत्पराम् इति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोस् ताभ्यां धातृ-विधातृभ्याम् ॥४३॥
॥ ४.१.४४ ॥
मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः ।
कविश् च भार्गवो यस्य भगवान् उशना सुतः ॥**
त एते1 मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : कविश् च भार्गवो भृगोः पुत्रः । यस्य कविः सुत उशना ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोस्ताभ्यां धातृविधातृभ्यां पुनस्ताभ्यां सकाशात्तयोरायतिनियत्योः क्रमेण मृकण्डप्राणावभूताम् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कविश् च भार्गवो भृगोः पुत्रः । लोकान् नाना-विध-जनान् उदपादयन्तः ॥४४॥
॥ ४.१.४५-४६ ॥
एष कर्दम-दौहित्र- सन्तानः कथितस् तव ।
शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः ॥**
प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः ।
तस्यां ससर्ज दुहितॄः षोडशामल-लोचनाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजात्मजो ब्रह्म-पुत्रः, न तु प्राचेतसः ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोस्ताभ्यां धातृविधातृभ्यां पुनस्ताभ्यां सकाशात्तयोरायतिनियत्योः क्रमेण मृकण्डप्राणावभूताम् ॥ एते संप्रत्युक्तास्ते । सर्वे ते मुनयः इति पाठस्तीर्थसंमतः । कचित्तु नवैते इत्यपि पाठः। सर्गैः स्वरचनाभिर्लोकान्नानाजनानवर्द्धयन् । यद् वा, लोकान्भूरादीन् । दुहितृणामयं दौहित्रः स चासौ सन्तानः पुनः कर्दमशब्देन तत्पुरुषः । तव तुभ्यम् ॥४५-४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.४७ ॥
त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः ।
पितृभ्य एकां युक्तेभ्यो भवायैकां भव-च्छिदे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्तेभ्यः संयतेभ्यो मिलितेभ्यो वा ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सद्यः श्रवणकाल एवापर उत्कृष्टो\ऽवश्यम् इत्य् अर्थः । उपयेमे उपाद्यमः स्वकरणे इत्यात्मनेपदम् । अजात्मजो दक्षः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युक्तेभ्यः मिलितेभ्यः ॥४७॥
॥ ४.१.४८ ॥
श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः ।
बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यां प्रसूत्याम् । विभुः प्रकृष्टकान्तिः ॥४८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रद्धाद्याः स्व-स्व-नाम-निरुक्त्या सात्त्विक-शक्तीनाम् अधिष्ठात्र्यः । तद्-वंशाश् च तद्-अनुरूपाः ॥४८॥
॥ ४.१.४९ ॥
श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया ।
शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवच्छिदे ज्ञानोपदेशेन संमृतिनिर्मूलकात् शिव-रूपाज्ज्ञानमहम् इत्यार्यास्तवोक्तेः । संयतेभ्यो जितेन्द्रियेभ्यः तादृशां कन्यास्वीकारासम्भवं मत्वाह—मिलितेभ्यो वेति ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मयं धर्मेषूत्साहः ॥४९॥
॥ ४.१.५० ॥
योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत ।
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्र् अयं सुतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रद्धाद्याः स्वस्वनामनिरुक्त्या सात्त्विकशक्तीनामधिष्ठात्र्यो देवतास्तद्वंशाश् च तदनुरूपा एव । पत्नय इहायादेश आर्षः ॥५०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दर्पं तपो-योगादिषु सामर्थ्य-प्रख्यापनम् । अन्यौ स्मय-दर्पाव् अधर्म-वंशौ ज्ञेयौ ॥५०॥
॥ ४.१.५१ ॥
मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् ऋषी ।
ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषां गुणानाम् उत्पत्तिर् यस्यां सा ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मयं धर्मेषूत्साहम् । दर्पं तपोयोगादिषु सामर्थ्यप्रख्यापनम् । अन्यौ स्मयदपौ त्वधर्मवंश्यौ ज्ञयौ ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ययोर् इति त्रिकम् ॥५२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-गुणस्य निखिल-कल्याण-गुणार्णवस्य भगवत उत्पत्तिर् यतः सेति शुद्ध-सत्त्व-स्वरूपा भगवत्-प्रकाशिका शक्तिर् इयं ज्ञेया ॥५२॥
॥ ४.१.५२ ॥
मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ।
दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणानां कल्याणगुणानामर्णवस्य हरेरुत्पत्तिर्यतः सा तथा शुद्धसत्त्व--स्वरूप-भगवत्प्रकाशिका शक्तिरियं ज्ञेयेति चक्रवर्ती ॥५२॥
न कतमेनापि व्याख्यातम्।
॥ ४.१.५३-५४ ॥
मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्व-किन्नराः ।
नृत्यन्ति स्म स्त्रियो देव्य आसीत् परम-मङ्गलम् ॥**
देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपतस्थुर् भेजुः ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुनिवृतं पूर्णानन्दयुतमभ्यनन्ददभवत् । यद् वा, । विश्वस्थमात्मानं श्लाघयामास धन्या वयं यतो भगवद्-दर्शनादिना सर्वसुखमाप्स्याम इति । ककुभो दिशस्तासां प्रसादश् च दूरस्थदर्शनहेतुप्रकाशः । विशेषः वातप्रसादश् च तत्स्पर्शस्य सुखजनकत्वं सरितां प्रसादो नैर्मल्यादिरद्रीणां प्रसादश् च स्वान्तस्थमण्यादीनां बहिराविष्करणम् । मनःप्रसादश् च कौटिल्यादित्याग इति विवेकः ॥ देवैरवाद्यन्त ॥५३-५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.५५ ॥
देवा ऊचुः—-
यो मायया विरचितं निजयात्मनीदं
खे रूप-भेदम् इव तत्-प्रतिचक्षणाय ।
एतेन धर्म-सदने ऋषि-मूर्तिनाद्य
प्रादुश्चकार पुरुषाय नमः परस्मै ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : खे रूप-भेदो वाय्व्-आदिकः । यथा आकाश-स्थितो नित्यम् इत्य्-आदि च ।
यथाकाशे विमानादि-रूप-भेदः प्रतीयते । > तथा हरौ जगद् इदं तत्-सामर्थ्यात् प्रतीयते ॥ इति ब्राह्मे > ॥५५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निजया मायया यस्मिन्न् आत्मनि । खे गगने रूप-भेदं गन्धर्व-नगरम् इवेदं विश्वं विरचितम् । तस्यात्मनः प्रतिचक्षणाय प्रकाशनायात्मानं योऽद्य प्रादुश्चकार प्रकटितवान् तस्मै पुरुषाय नमः । केन रूपेण प्रादुश्चकार । ऋषेर् भूर् तिराकारो यस्मिंस् तेन रूपेण ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिष्टवैः स्तोत्रैः ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्मिन्न् आत्मन्य् अधिष्ठाने निजया मायया कर्त्र्या इदं विराड् रूपं खे नभसि रूप-भेदं मेघ-वृन्दम् इव विरचितं तस्यात्मनः स्वस्य प्रतिचक्षणाय प्रकाशनाय एतेन ऋषि-मूर्तिना यः प्रादुः प्रादुर्भावं चकार ऋषि-मूर्तिनेति प्रकृत्य्-आदित्वात् तृतीया तस्मै पुरुषाय नमः । अत्र रूप-भेदम् इति एतेनेति ऋषि-मूर्तिनेति पद-त्रयस्य क्लिबत्वम् आर्षम् ॥५५॥
॥ ४.१.५६ ॥
सोऽयं स्थिति-व्यतिकरोपशमाय सृष्टान्
सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः ।
दृश्याद् अदभ्र-करुणेन विलोकनेन
यच् छ्री-निकेतम् अमलं क्षिपतारविन्दम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सोऽयं नोऽस्मान् सुर-गणान् अनल्प-करुणा-युक्तेन विलोकनेन विशिष्ट-नेत्रेण दृश्यतु । कथं-भूतेन ? यच् छ्री-निकेतम् अमलम् अरविन्दं तत् क्षिपता तिरस्कुर्वता । कथं-भूतः ? अनुमेयं शास्त्रतो विचार्यं, न त्व् अस्माकम् अपरोक्षं तत्त्वं यस्य । कथं-भूतान् अस्मान् ? स्थितेर् जगन्-मर्यादाया व्यतिकरोऽन्यथात्वं तस्योपशमाय सत्त्वेन गुणेन सृष्टान् ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रूपभेदं मेघवृन्दम् इति विश्वनाथः । रूपं सौरचान्द्रकिरणं धूल्यादिमयं भेदश् च तत्कृतः । द्वयोर्द्वन्द्वैक्यं तद्दर्शित्वात्तदाच्छादकत्वाच्चेति सन्दर्भः । रूपं नीलं नभ इत्य् एवमाकारकम् । भेदो घटाकाशादिमाययाधिष्ठानशक्त्या मिथ्यैव विरचितं तयेति सुष्ठु प्रतिभाति । षण्ढत्वं समाहारद्वन्द्वत्वात् ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थितेर् जगन्-मर्यादाया व्यतिकरोऽन्यथात्वं तस्योपशमाय विलोकनेन नेत्रेण । कीदृशेन ? यत् श्री-निकेतम् अमलम् अरविन्दं तत् क्षिपता तिरस्कुर्वता ॥५६॥
॥ ४.१.५७ ॥
एवं सुर-गणैस् तात भगवन्ताव् अभिष्टुतौ ।
लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : लब्धोऽवलोको यैः सुर-गणैस् तैर् अभिष्टुताव् अर्चितौ सन्तौ ययतुः ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रूपभेदं मेघवृन्दम् इति विश्वनाथः । रूपं सौरचान्द्रकिरणं धूल्यादिमयं भेदश् च तत्कृतः । द्वयोर्द्वन्द्वैक्यं तद्दर्शित्वात्तदाच्छादकत्वाच्चेति सन्दर्भः । रूपं नीलं नभ इत्य् एवमाकारकम् । भेदो घटाकाशादिमाययाधिष्ठानशक्त्या मिथ्यैव विरचितं तयेति सुष्ठु प्रतिभाति । षण्ढत्वं समाहारद्वन्द्वत्वात् ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लब्धोऽवलोकः कृपा माया यैस् तैर् अर्चितौ ॥५७॥
॥ ४.१.५८ ॥
ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ ।
भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
नरे विष्णुः समाविष्टः स्वयं नारायणो हरिः । > अर्जुने च नरावेशः कृष्णो नारायणः स्वयम् ॥ इति तत्त्व-विवेके > ॥५८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भुवो भारस्य व्ययाय नाशाय । चकार एक-वाक्यत्वार्थः । तौ च सांप्रतम् इहागताव् इत्य् अर्थः । तद् उक्तं तन्त्रे—अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम् इति । यदूद्वहः श्री-कृष्णः । कुरूद्वहोऽर्जुनः । उभाव् अपि कृष्ण-नामानौ ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रूपभेदं मेघवृन्दम् इति विश्वनाथः । रूपं सौरचान्द्रकिरणं धूल्यादिमयं भेदश् च तत्कृतः । द्वयोर्द्वन्द्वैक्यं तद्दर्शित्वात्तदाच्छादकत्वाच्चेति सन्दर्भः । रूपं नीलं नभ इत्य् एवमाकारकम् । भेदो घटाकाशादिमाययाधिष्ठानशक्त्या मिथ्यैव विरचितं तयेति सुष्ठु प्रतिभाति । षण्ढत्वं समाहारद्वन्द्वत्वात् ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ताम् इमौ वै भगवत इत्य् आदि । ताव् इमौ नर-नारायणौ हरेर् अंशौ कर्तृ-भूतौ भुवो भार-व्ययाय इह भ्वुय् अवतीर्णौ । यदु-कुरूद्वहौ श्री-कृष्णार्जुनौ कर्म-भूतौ आगतौ प्राप्तौ । अंश-रूपेण पूर्व-स्थितौ श्री-कृष्णार्जुनयोः प्रविष्टौ । ताभ्याम् एवांशाभ्यां मूर्तात् पृथक् स्थिताव् इत्य् अर्थः ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ताव् इमौ नर-नारायणौ हरेः कृष्णस्यांशौ कर्तारौ इह द्वापरान्ते यदूद्वह-कुरूद्वहौ कृष्णौ कृष्णार्जुनौ कर्म-भूतौ आगतौ प्राप्तौ कृष्णार्जुनयोः स्वांशिनोस् ताव् अंशौ प्रविष्टाव् इत्य् अर्थः । तथैव भागवतामृतोका कारिका, यथा—
कर्तारौ तौ हरेर् अंशौ नर-नारायणाव् ऋषी । > द्वापरान्ते कर्म-भूताव् आयातौ कृष्ण-फाल्गुनौ ॥ इति ॥५८॥
॥ ४.१.५९ ॥
स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् ।
पावकं पवमानं च शुचिं च हुत-भोजनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्न्य्-अभिमानिनो देवान् । स्वाहा नाम तस्य भार्या । हुत-भोजनम् इति त्रयाणां विशेषणम् ॥५९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताविमौ भगवतो हरेः श्री-कृष्णस्यांशौ कर्तारौ इह द्वापरान्ते यदूद्वहकुरूद्वहौ । कृष्णौ कृष्णार्जुनौ कर्मभूतावागतौ प्राप्तौ कृष्णार्जुनयोः स्वांशिनोस्तावंशौ नरनारायणौ प्रविष्टावित्य् अर्थः । तथैव भागवतामृते कारिका—
कर्तारौ तौ हरेरंशौ नरनारायणावृषी । > द्वापरान्ते कर्मभूतावायातौ कृष्णफाल्गुनौ ॥ इति ।
इत्य् अर्थ इति । याविमौ हरेरंशौ तावेवाधुनेह कृष्णार्जुनयोरागताव् इति भावः । अत्र प्रमाणम् आह—तद् उक्तम् इति । नरस्यर्षेरावेशः प्रवेशः । स्वयं नारायणः कृष्णः कृष्णोस्त्याश्रयत्वेनास्येति कृष्णः । मत्वर्थीयोच् । द्वन्द्वान्ते श्रूयमाणत्वादुद्वहपदमुभयत्रान्वेतीत्युक्तं यदूद्वहः कुरूद्वह इति ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्नेर् भार्या स्वाहा, अग्न्य्-अभिमानिन त्रीन् आत्मजान्, हुत-भोजनम् इति त्रयाणां विशेषणम् ॥५९॥
॥ ४.१.६० ॥
तेभ्योऽग्नयः समभवन् चत्वारिंशच् च पञ्च च ।
त एवैकोनपञ्चाशत् साकं पितृ-पितामहैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितरस् त्रयः पितामह एकस् तैः साकं सह ॥६०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रीन्पावकादीन् ॥६०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.१.६१ ॥
वैतानिके कर्मणि यन्-नामभिर् ब्रह्म-वादिभिः ।
आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस् तु ते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैतानिके वैदिके कर्मणि यज्ञे येषां नामभिर् अग्नि-देवताका इष्टयो निरूप्यन्ते त्रियन्ते त एतेऽग्नयो न लौकिकाः । अतो बहूनां न वैयर्थ्यम् इति भावः ॥६१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यस्त्रिभ्यः। पञ्चदश पञ्चदशपुत्रा अभवन्न् इत्य् अर्थः । सर्वसङ्ख्याम् आह—त इति ॥ यत एतेषामिष्टयः सन्ति अतो हेतोः । इति भाव इति । तदर्चनमृते यज्ञासिद्धिः स्याद् अतस्ते सार्थका एवेत्याशयः ॥६१-६२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैतानिके वैदिके कर्मणि यज्ञे येषां नामभिर् अग्निदेवताका इष्टयो निरूप्यन्ते क्रियन्ते त एवैतेऽग्नेय्य न लौकिका, अतो न बहूनां वैयर्थ्यम् इति भावः ॥६२॥
॥ ४.१.६३ ॥
अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।
साग्नयोऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सौम्याः सोम-पाः । येषाम् अग्नौ करणम् अस्ति ते साग्नयः । तद्-रहितास् त्व् अनग्नयः ॥६३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत एतेषामिष्टयः सन्ति अतो हेतोः । इति भाव इति । तदर्चनमृते यज्ञासिद्धिः स्याद् अतस्ते सार्थका एवेत्याशयः ॥६३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौम्याः सोमपा, येषाम् अग्नौ करणम् अस्ति ते साग्नयः । तद्-रहितास् त्व् अनग्नयः ॥६३॥
॥ ४.१.६४ ॥
तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।
उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोस् तु सन्त-तिर्नाभवज् जीवन् मुक्तत्वाद् इत्य् आह—उभे त इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यः समुदितेभ्यः पितृभ्यः ॥६४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेभ्यः पितृभ्यः सकाशात् स्वधा द्वे कन्ये दधार गर्भ इति शेषः ॥६३ ॥
॥ ४.१.६५ ॥
भवस्य पत्नी तु सती भवं देवम् अनुव्रता ।
आत्मनः सदृशं पुत्रं न लेभे गुण-शीलतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुण-शीलत आत्मनः सदृशं देवम् अनुव्रतापि सती पुत्रं न लेभे ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणशीलतः गुणैः शीलेन च तुल्यम् ॥६५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१.६६ ॥
पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा ।
अप्रौढैवात्मनात्मानम् अजहाद् योग-संयुता ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : अप्रौढेव अस्वीकृतेव ॥६५
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुः—स्वे पितरि दक्षेऽप्रतिरूपेऽसदृशो प्रतिकूले सतीत्य् अर्थः । आत्मना स्वयम् एवात्मानं देहम् अजहात् त्यक्तवती । योग-संयुता योगम् आश्रित्येति ॥६६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पुत्रा लाभे । इत्य् अर्थ इति । असदृशपदेन सर्वोत्कर्षग्रहणं माभूद् इति भावः ॥६६॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे प्रथमो\ऽध्यायः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रं न लेभे इत्य् अत्र हेतुः अनागसे भवाय रुषा कोपेन हेतुना स्वे पितरि अप्रतिरूपे असदृशे प्रतिकूले सतीत्य् अर्थः ॥६६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे श्री-विदुर-मैत्रेय-संवादे दाक्षायनं नाम प्रथमोऽध्यायः ।
॥ ४। १ ॥
-
सर्वे ते इति क्वचित्। ↩︎