२४ कपिलावतारः

विस्तारः (द्रष्टुं नोद्यम्)

कपिलावतारः, नवकन्यानां विवाहः, कर्दमकपिलसंवादः, कर्दमस्य भगवत्पदप्राप्तिश्च ।

॥ ३.२४.१ ॥

मैत्रेय उवाच—

निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः ।

दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मालिनी शालिनी माल्या चार्या भार्येति चोच्यते इति च ॥१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्-विंशे ततो जन्म कपिलस्याह तत्-पितुः ।

प्रव्रज्यां तम् अनुज्ञाप्य ऋण-त्रय-विमोक्षतः ॥

शालिनीं श्लाघ्याम् । शुक्लेनाभिव्याहृतं, सहाहं स्वांश-कलया [३.२१.३२] इत्य्-आदि ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शालिनीम् इति शाडृ श्लाघायां शाडनं शालः, सोऽस्यास्तीति शालिनी । तां शुक्लाभिव्याहृतं स्मरन्न् इति तद्-एक-ध्यानत्वात् ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

चतुर्-विंशे जनुः प्रोक्तः कपिलस्य विधेर् वचः ।

कन्योद्वाहः कर्दमस्य प्रव्रज्या स्तुत्य्-अनन्तरा ॥

शालिनीं श्लाघ्याम् । शुक्लेनाभिव्याहृतं, सहाहं स्वांश-कलया [३.२१.३२] इत्य्-आदि ॥१॥

———————————————————————————————————————

॥ ३.२४.२ ॥

ऋषिर् उवाच—

मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते ।

भगवांस् तेऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्थं मा खिदः खेदं मा कार्षीः आत्मानं प्रति अहं भाग्य-हीनेति । अदूराच् छीघ्रम् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अनिन्दिते ! इत्थं मा खिदः खेदं मा कार्षीः ॥२॥

———————————————————————————————————————

॥ ३.२४.३ ॥

धृत-व्रतासि भद्रं ते दमेन नियमेन च ।

तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दमेन इन्द्रिय-संयमेन । नियमेन स्व-धर्मेण । तपांसि द्रविण-दानानि च तैः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चान्या प्राकृतीव त्वम् अकृत-पुण्येत्य् आह—धृत-व्रतासि पूर्व-जन्मनि कृत-व्रतादि नियमास्यत इहापि जन्मनि ते भद्रं भविष्यति ॥३॥

———————————————————————————————————————

॥ ३.२४.४ ॥

स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः ।

छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदय-ग्रन्थिं चिज्-जडात्मकम् अहङ्कार-लक्षणं बन्धं छेत्ता छेत्स्यति । औदर्यः पुत्रः सन् । ब्रह्म भावयत्य् उपदिशतीति तथा ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स त्वयेति । कदाचिद् अपि तद् विस्मर्तुं न शक्नोति यः स इत्य् अर्थः । ब्रह्म भगवत्-तत्त्वम् ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदय-ग्रन्थिम् अहङ्कार-लक्षणं बन्धम् औदर्यः उदर-जातिः सन् ब्रह्म-भावनः ब्रह्मोपदेष्टा ॥४॥

———————————————————————————————————————

॥ ३.२४.५ ॥

मैत्रेय उवाच—

देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः ।

सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रद्धाय विश्वस्य ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सन्देशम् उपदेशं गुरुं गुरुतया चिन्त्यमानम् ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्देशम् उपदेशं, गुरुं यः पुत्रो भूत्वा गुरुर् भविष्यति, तम् ॥५॥

———————————————————————————————————————

॥ ३.२४.६ ॥

तस्यां बहु-तिथे काले भगवान् मधुसूदनः ।

कार्दमं वीर्यम् आपन्नो जज्ञेऽग्निर् इव दारुणि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नावतारेष्व् अपि हरेर् देहः शुक्लादि-सम्भवः ।

तथापि शुक्ल-संस्थः सन् मातृ-देहं प्रविश्य च ॥

विलाप्य शुक्लं तत्रैव केवल-ज्ञान-रूपकः ।

उदेति भगवान् विष्णुः काले लोकं विमोहयन् ॥ इति महा-वाराहे ।

अग्निर् इव दारुणीति व्यक्ति-स्थान-मातृत्वे दृष्टान्तः ॥६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहु-तिथे बहुतरे कालेऽतिक्रान्ते सति । कार्दमं कर्दम-संबन्धि ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः ३५): कार्दमं वीर्यम् आपन्नः [भा।पु। ३.२४.६] इत्य् अत्र श्री-कपिल-देवावतार-प्रसङ्गे कर्दमस्य भक्ति-सामर्थ्य-वशीभूत इत्य् एव व्याख्येयम् । वीर्य-शब्द-न्यासस् तु प्रसिद्धं पुत्रत्वम् अपि श्लिष्टं भवतीत्य् एवम् अर्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बहु-तिथः बहूनां पुराणे काले, बहु-पूग-गण-सङ्घस्य तिथुक् [पा। ५.२.५२] इति पूरण-प्रकरणे पाणिनि-सूत्रम् । वीर्यं भक्ति-प्रभावः, तद्-आपन्नस् तेन वशीभूत इत्य् अर्थः ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहुतिथेति बहूनां पूरणे बहुतरे काले अतिक्रान्ते सतीत्य् अर्थः । बहु-पूग-गण-सङ्घस्य तिथुग् [पा। ५.२.५२] इति सूत्रम् । कार्दमं वीर्यं कर्दमस्य भक्ति-प्रभावम् आपन्नः, तेन वशीकृत इत्य् अर्थः । अग्निर् इव दारुणीति तस्याम् अन्तर्यामि-रूपेण स्थित एव स पुत्र-रूपेण प्रकटिबभूवेत्य् अर्थः ॥६॥

———————————————————————————————————————

॥ ३.२४.७ ॥

अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः ।

गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : घनाघना इत्य् एकं पदम् । वर्षन्तो मेघाः । गायन्ति स्म नृत्यन्ति स्म ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : घनघना गर्जन्तो मेघा इति देवा इत्य् अर्थः । वर्षुकाब्दा घनाघनाः इत्य् अमरः ॥७॥

———————————————————————————————————————

॥ ३.२४.८ ॥

पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः ।

प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपवर्जिता मुक्ताः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपवर्जिता विसृष्टाः ॥८॥

———————————————————————————————————————

॥ ३.२४.९ ॥

तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् ।

स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिश्रितं परिवेष्टितम् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिश्रितं वेष्टितम् ॥९॥

———————————————————————————————————————

॥ ३.२४.१०-११ ॥

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् ।

तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः स्वराट् ॥

सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् ।

प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आगत्य किं कृतवांस् तद् आह—भगवन्तम् इति द्वाभ्याम् । तत्त्वानां सङ्ख्यानं यस्मिंस् तस्य साङ्ख्यस्य विज्ञप्त्यै विशेषेण ज्ञापनाय भगवन्तं जातं विद्वान् अजो ब्रह्मा स्वराट् स्वतः सिद्ध-ज्ञानस् तस्य चिकीर्षितं सभाजयन् पूजयन् प्रहृष्यमाणैर् असुभिर् इन्द्रियैर् उपलक्षितः कर्दमं चेदम् अभ्यधाद् इति द्वयोर् अन्वयः । च-काराद् देवहूतिं च ॥१०-११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवन्तम् इति युग्मकम् ॥१०-११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वेन शुद्ध-सत्त्व-स्वरूपेण अंशेन न तु पूर्ण-स्वरूपेणेत्य् अर्थः । तत्त्वस्य सङ्ख्यानं यस्मिन् तस्य साङ्ख्यस्य विज्ञप्त्यै विशेषेण ज्ञापनाय जातम् आविर्भूतं जानन् सभाजयन् पूजयन् प्रहृष्यमाणैर् असुभिर् इन्द्रियैर् उपलक्षितः कर्दमं च-काराद् देवहूतिं च ॥१०-११॥

———————————————————————————————————————

॥ ३.२४.१२ ॥

ब्रह्मोवाच

त्वया मेऽपचितिस् तात कल्पिता निर्व्यलीकतः ।

यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र, त्वयेति पञ्चभिः कर्दमं प्रत्य् आह—अपचितिः पूजा कृता । यत् यस्मात् । निर्व्यलीकतो निष्कपटं सम्यग् गृहीतवान् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपचितिः परिचर्या कृता ॥१२॥

———————————————————————————————————————

॥ ३.२४.१३ ॥

एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः ।

बाढम् इत्य् अनुमन्येत गौरवेण गुरोर् वचः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुमन्येत इति यद् एतावत्य् एव ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रकैः सत्-पुत्रैः । बाढम् इति यथाज्ञापयसि तथा करवाणीति ॥१३॥

———————————————————————————————————————

॥ ३.२४.१४ ॥

इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः ।

सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेकधा प्रभावैर् वंशैर् बृंहयिष्यन्ति वर्धयिष्यन्ति ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव पुत्रा यद्य् अजनिष्यन्त तदाप्य् एवं सर्गो नावर्धिष्यत, यथा ताभिर् दुहितृभिः सर्गो विस्तारयिष्यते इत्य् आह—इमा इति । प्रभावैः प्रभाववद्भिर् अंशैः ॥१४॥

———————————————————————————————————————

॥ ३.२४.१५ ॥

अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि ।

आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋषि-मुख्येभ्यो मरीच्य्-आदिभ्यः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२४.१६ ॥

वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया ।

भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रस् तु साक्षाद् ईश्वर इत्य् आह—वेदाहम् इति । शेवधिं निधिं सर्वाभीष्टदम् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वेषु माया कृपा तया ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-माययैव भूतानां सेवधिं निधिं सर्वाभीष्ट-प्रदं सात्त्विक-ज्ञानादि-प्रदातारं बिभ्राणं, वस्तुतस् तु नित्य-देहम् एवम् अवतीर्णम् इत्य् अर्थः ॥१६॥

———————————————————————————————————————

॥ ३.२४.१७-१८ ॥

ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः ।

हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः ॥

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।

अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सम्यग् ज्ञानं तु साङ्ख्यं स्यात्, तद् अथो योग उच्यते इति कापिलेये ॥१७-१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवहूतिं प्रत्य् आह त्रिभिः । ज्ञानं शास्त्रोक्तं विज्ञानम् अपरोक्षं च ते एव योग उपायः, तेन कर्मणां जटा मूलानि वासना उद्धरन्न् उत्पाटयिष्यन् । पद्म-मुद्रा-युक्तं पदाम्बुजं यस्य ॥१७॥ हे मानवि, अविद्या स्वरूपाज्ञानं संशया मिथ्या-ज्ञानानि तन् मयं तव हृदय-ग्रन्थिम् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अविद्यादिकम् अन्येषां छित्त्वेति ज्ञेयम् । भगवत्-प्रादुर्भाव-स्थानस्य शुद्ध-सत्त्वात्मकत्वात् तत्र न सम्भवति । उपदेशादिकं तु लोक-हितार्थं यथोद्धवादाव् इति विवेचनीयम् ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवहूतिं प्रत्य् आह—ज्ञानं परोक्षं विज्ञानम् अपरोक्षं, त एव योग उपायः, तेन कर्मणां जटा मूलानि वासना उद्धरन् उत्पाटयितुम् इत्य् अर्थः । अविद्या स्वरूपाज्ञानं संशया मिथ्या-ज्ञानानि तन्-मयं हृदय-ग्रन्थिम् ॥१७-१८॥

———————————————————————————————————————

॥ ३.२४.१९ ॥

अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।

लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुसंमतः सुपूजितः सन् । गन्त प्राप्स्यति ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अयम् इति । अन्यस् तु विशेषः कपिलो दर्शन-कर्ता न सुसम्मतः वेद-विरुद्धान् ईश्वर-वादात् । तथैव हि पाद्म-वचनं भाष्यकृद्भिर् उद्धृतम्1

कपिलो वासुदेवाख्यस् तत्त्वं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश् च देवेभ्यो भृग्व्-आदिभ्यस् तथैव च ।

तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ।

सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह ।

साङ्ख्यम् आसुरयेऽन्यस्मै कुतर्क-परिबृंहितम् ॥ इति ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयं सुसम्मत इत्य् अन्यस् तु सिद्ध-विशेषः कपिलो दर्शन-कर्ता न सुष्ठु सम्मतः वेद-विरुद्धानीश्वर-वादात् तथैव हि पाद्म-वचनं भाष्य-कृद्भिर् उद्धृतं,

कपिलो वासुदेवाख्यस् तत्त्वं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश् च देवेभ्यो भृग्व्-आदिभ्यस् तथैव च ।

तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ।

सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह ।

साङ्ख्यम् आसुरयेऽन्यस्मै कुतर्क-परिबृंहितम् ॥ इति ॥१९॥

———————————————————————————————————————

॥ ३.२४.२० ॥

मैत्रेय उवाच—

ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः ।

हंसो हंसेन यानेन त्रि-धाम-परमं ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमारैः सहेति शेषः । सह-नारदो नारद-सहितश् च । मरीच्य्-आदीन् विवाहार्थम् अवस्थाप्य नैष्ठिकैर् एतैः पञ्चभिः सहितो हंसो ब्रह्मा ययौ । त्रि-धाम तृतीयं धाम स्वर्गः, तस्य परां काष्ठां सत्य-लोकम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुमारैः सहेति शेषः । मरीच्य्-आदीन् विवाहार्थम् अवस्थाप्य नैष्ठिकैर् एतैः पञ्चभिः सहितो हंसो ब्रह्मा त्रिधाम तृतीयं धाम स्वर्गस् तस्माद् अपि परमं सत्य-लोकम् ॥२०॥

———————————————————————————————————————

॥ ३.२४.२१ ॥

गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः ।

यथोदितं स्व-दुहितॄः प्रादाद् विश्व-सृजां ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शत-धृतौ ब्रह्मणि ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शत-धृतौ ब्रह्मणि यथोदितं शास्त्रोदितम् अनतिक्रम्य विश्व-सृजां विश्व-सृग्भ्यः ॥२१॥

———————————————————————————————————————

॥ ३.२४.२२ ॥

मरीचये कलां प्रादाद् अनसूयाम् अथात्रये ।

श्रद्धाम् अङ्गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कलाद्याः सर्वा एव भगवच्-छक्तित्वेन योज्याः ॥२२॥

———————————————————————————————————————

॥ ३.२४.२३ ॥

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।

ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्तां योग्याम् । अयच्छत् अदात् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अरुन्धती च पातिव्रत्य-शक्तिर् ज्ञेया तन्-नामा हि पतीच्छाराधना-करणात् युक्ताम् इति सतीम् इति च सर्वत्र योज्यम् ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युक्तां योग्याम् ॥२३॥

———————————————————————————————————————

॥ ३.२४.२४ ॥

अथर्वणेऽददाच् छान्तिं यया यज्ञो वितन्यते ।

विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वितन्यते समृद्धः क्रियते । शान्त्य्-अधिष्ठात्रीं देवताम् इत्य् अर्थः । समलालयत् सन्तोषितवान् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं ययेति च ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययेति। शान्त्यैव तपो-यज्ञ-ज्ञान-यज्ञाद्या विस्तृताः सफला भवन्तीत्य् अर्थः ॥२४॥

———————————————————————————————————————

॥ ३.२४.२५ ॥

ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् ।

प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निमन्त्र्य पृष्ट्वा । नन्दिं हर्षं प्राप्ताः सन्तः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निमन्त्र्य पृष्ट्वा नन्दिं हर्षम् ॥२५॥

———————————————————————————————————————

॥ ३.२४.२६ ॥

स चावतीर्णं त्रि-युगम् आज्ञाय विबुध-र्षभम् ।

विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : युग-त्रयेऽवतारेण त्रियुगश् चेति कथः इति पाद्मे ॥२६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स च मुनिः । त्रि-युगं विष्णुम् । विविक्ते रहसि ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च मुनिः ॥२६॥

———————————————————————————————————————

॥ ३.२४.२७ ॥

अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः ।

कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पापच्यमानानां भृशं दह्यमानानाम् । निरये संसारे । स्वीयैर् अमङ्गलैः पापैः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-गृहे त्वद्-आविर्भावे निरुपाधिस् त्वत्-कृपैव कारणं, न मयि किञ्चिल् लक्षणम् अस्तीत्य् आह—अहो इति त्रिभिः । अत्र लोके त्रिविधा जना दृश्यन्ते—देवतान्तरोपासकाः, ब्रह्मोपासकाः, भगवद्-उपासकाश् च । तत्राद्यानाम् उपासना-फल-दशां दर्शयति । पापच्यमानानां निरये संसारे दन्दह्यमानानां भूयसा इति एकस्मिन्न् अपि जन्मनि चेत् प्रसीदन्ति, तद् अपि भूयसैव कालेन, न तु शीघ्रम् एव । ततश् च तत्-तत्-कामितानि फलान्य् अपि ददति ॥२७॥

———————————————————————————————————————

॥ ३.२४.२८-२९ ॥

बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना ।

द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥

स एव भगवान् अद्य हेलनं न गणय्य नः ।

गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? सर्वा देवताः प्रसन्ना इति ज्ञातम् अलभ्य-लाभाद् इत्य् आह द्वाभ्याम् । बहुषु जन्मसु विपक्वेन सुसिद्धेन । सम्यग् योगो भक्ति-योगः, तस्मिन् समाधिर् ऐकाग्र्यं, तेन । शून्यागारेषु विविक्त-स्थानेषु । यस्य तव पदम् ॥२८॥

हेलनम् अवज्ञां लाघवं न गणय्य अगणयित्वा । उचितम् एव तवैतद् इत्य् आह—यस् त्वं स्वानां भक्तानां पक्षं पुष्णासीति तथा सः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : साधारण्योऽपि देवता भूयसा कालेन प्रसीदन्ति, त्वं न तथेत्य् आह—बह्व् इति युग्मकेन । तत्रासाधारणत्वम् आह प्रथमेन योगोऽष्टाङ्गः स्व-भक्त-सम्बन्ध-मात्र-वशत्वम् आह, द्वितीयेन स्वानां शुद्ध-भक्तानां पक्षानुगतः ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वितीयानां तु बहुभिर् एव जन्मभिः सिद्धिः सम्भाव्यत इत्य् आह—बह्व् इति । सम्यग् एव योगैर् यः समाधिः, तेन यस्य तव पदं निर्विशेष-स्वरूपं द्रष्टुः साक्षात् कर्तुं यतस् ते, तृतीयेषु मध्ये वयम् अतिमन्दाः, तद् अपि तत्-कृपा-महिमा अपार एवेत्य् आह—स एवेति । हेलनं लोक-कृतावज्ञां स्व-लाघवं न गणय्य अगणयित्वा, स्वभाव एवायं ते मद्-भक्ताभ्यासान् अप्य् उत्कर्षयसीत्य् आह—यस् त्वं स्वानां भक्तानां पक्षं पुष्णासीति तान् एवात्मीयान् जानासीति भावः ॥२८-२९॥

———————————————————————————————————————

॥ ३.२४.३० ॥

स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णोऽसि मे गृहे ।

चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् प्रपञ्चयति द्वाभ्याम् । स्वयम् एवावतीर्णोऽसि स्व-वाक्यं तव पुत्रो भविष्यामीति यत् तत् सत्यं कर्तुम् । ज्ञानं ज्ञान-साधनं साङ्ख्यं च चिकीर्षुः सन् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृश-वाक्यत्वे हेतुः । भक्तानाम् अस्मद्-आद्य्-आश्रय-रूपाणां ब्रह्मादीनाम् अपि ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव प्रपञ्चयति द्वाभ्याम् । ज्ञानं ज्ञान-साधनं साङ्ख्यं चिकीर्षुस् तद् अपि ज्ञानिभ्यः सकाशाद् अपि भक्तानां मानम् आदरं वर्धयतीति सः । भक्तिं विना-भूत-ज्ञानस्याकिञ्चित्करत्वेन व्यवस्थापनाद् इति भावः ॥३०॥

———————————————————————————————————————

॥ ३.२४.३१ ॥

तान्य् एव तेऽभिरूपाणि रूपाणि भगवंस् तव ।

यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यानि यानि ब्रह्मादि-रूपाणि रोचन्ते स्वजनानां, तान्य् एव ते व्यक्त्य्-अर्थम् अभिरूपाणि, व्यक्तो भवेत् हरिस् तत्र यत् स्थानं रचितं सत्यम् इति कौर्मे ॥३१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यानि तव अलौकिकानि चतुर्-भुजादि-रूपाणि, तान्य् एव तेऽभिरूपाणि योग्यानि । यानि च स्व-जनानां रोचन्ते मनुष्य-स-रूपाणि, तान्य् अपि ते रोचन्त इत्य् अर्थः । अरूपिणः प्राकृत-रूप-रहितस्य ॥३१॥

———————————————————————————————————————

कैवल्य-दीपिका: किं च, तान्य् एव इति । ते त्वयैव हेतुना । अभिरूपाणि सुन्दराणि, न तु भूषणाद्य्-उपाधिना स्वभाव-सुभगानीत्य् अर्थः । येभ्यो भक्ताः स्पृहयन्ति, तान्य् एव ते रूपाणि न तु स्वतः-सिद्धानीत्य् एव शब्दार्थः । अत उक्तम् इच्छा-रूपत्वाद् इति । अरूपिणः वस्तुतः अरूपोऽपि भक्तेच्छया रूपवान् इत्य् अर्थः ॥३१॥ [मु।फ। २.७]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यानि यानि त्वदीय-स्वजनेभ्यो रोचन्ते, तानि तान्य् एव रूपाणि तव अभिरूपाणि योग्यानि, नान्यानीत्य् अर्थः । अन्यानि च यादृशं रन्तिदेवाय कुत्सितं रूपं प्रपञ्चितं, तादृशानि ज्ञेयानि तादृशस्य च मायिकत्वम् एव हि तत्रोक्तं—

तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम् ।

आत्मानं दर्शयाञ्चक्रुर् माया विष्णु-विनिर्मिता ॥ [भा।पु। ९.२१.१५] इति ।

टीका च—त्रिभुवनाधीशाः ब्रह्मादयः मायास् तदीय-धैर्य-परीक्षार्थं प्रथमं मायया वृषलादि-रूपेण प्रहिताः सन्त इत्य् एषा । अनभिरूपत्वे हेतुः—अरूपिण इति, प्राकृत-रूप-रहितस्य इति टीका च । अप्राकृतत्वेन कुत्सितत्वासम्भवात् स्वजनेभ्यो रोचमानत्वाद् एवं रूपं योग्यं न भवतीत्य् अपि नेति भावः ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते तव नित्य-सच्-चिद्-आनन्दस्य तान्य् एव रूपाणि अभिरूपाणि समुचितानि सच्-चिद्-आनन्द-घनानीत्य् अर्थः । यानि तव स्वजनानां स्वजनेभ्यः रोचन्त इति अन्यान्य् अरोचकानि वस्तुतस् त्वदीयानि रूपाणि न भवन्ति, किन्तु मायिकान्य् एव । यतोऽरूपिणः प्राकृत-रूप-रहितस्य इति स्वामि-चरणानां व्याख्या । वैराज-रूपस्य कैश्चिद् भक्तैः प्रथम-दशायां ध्येयत्वेन रोचकत्वेऽप्य् आयत्याम् अरोचकत्वात्, तद् अपि रूपं प्राकृतत्वात्, न भगवतः स्वीयं रूपम् इत्य् आशयात् ॥३१॥

———————————————————————————————————————

॥ ३.२४.३२ ॥

त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा

सदाभिवादार्हण-पाद-पीठम् ।

ऐश्वर्य-वैराग्य-यशोऽवबोध-

वीर्य-श्रिया पूर्तम् अहं प्रपद्ये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिवादार्हं पाद-पीठं यस्य । ऐश्वर्यादिभिः पूर्तं पूर्णम् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्त-जन-रोचकस्याभिरूपस्य लक्षणं वदन्न् एव श्री-कपिल-देवं विशिनष्टि—त्वाम् इति । ऐश्वर्यादीनां षण्णां भग-शब्द-वाच्यानां चिन्मय-गुणानां पूर्तं महा-तडागं तेन भक्तानाम् अभिवादनार्चन-परिचर्यादि-विषयीभूतं षड्-ऐश्वर्य-पूर्णं स्वरूपम् एवाप्राकृतं तव रूपम् इति द्योतितम् ॥३२॥

———————————————————————————————————————

॥ ३.२४.३३ ॥

परं प्रधानं पुरुषं महान्तं

कालं कविं त्रि-वृतं लोक-पालम् ।

आत्मानुभूत्यानुगत-प्रपञ्चं

स्वच्छन्द-शक्तिं कपिलं प्रपद्ये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वेदैर् वृतत्वाद् भगवांस् त्रिवृद् इत्य् उच्यते बुधैर् इति च ॥३३ ॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऐश्वर्यादिकं विवृण्वन्न् आह—परं परमेश्वरम् । तत्र हेतुः—स्वच्छन्दाः स्वाधीनाः शक्तयो यस्य । ता एवाह—प्रधानं प्रकृति-रूपं, पुरुषं तद्-अधिष्ठातारं, महान्तं महत्-तत्त्व-रूपं, कालं तेषां क्षोभकं, त्रि-वृतम् अहङ्कार-रूपं, लोकात्मकं तत्-पालात्मकं च । तद् एवं मायया प्रधानादि-रूपताम् उक्त्वा चिच्-छक्त्या निष्प्रपञ्चताम् आह—आत्मानुभूत्या चिच्-छक्त्याऽनुगतः स्वस्मिन् लीनः प्रपञ्चो यस्य तम् । कविं सर्व-ज्ञम् । प्रधानाद्य्-आविर्भाव-लय-साक्षिणम् इत्य् अर्थः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कविं जीवम् ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐश्वर्यं विवृण्वन्न् एवानभिरूपम् अप्य् आह—परं त्वत्तोऽन्यं बहिरङ्ग-रूपं प्रधानादिकम् अपि त्वां कपिलम् एव प्रपद्ये । तत् तु प्रधानं प्रकृति-रूपं पुरुषं जीवं महान्तं महत्-तत्त्व-रूपं कालं तेषां क्षोभकं कविं सूत्र-तत्त्व-रूपं त्रिवृतम् अहङ्कार-रूपं लोक-पालम् इन्द्राद्य्-आत्मकम् । किं च, प्रपञ्चान्तर्यामित्वात् प्रपञ्च-रूपत्वम् आह—आत्मानुभूत्या चिच्-छक्त्या प्रपञ्चाद् बहिः-स्थितेनापि अनुगतोऽनुप्रविष्टः प्रपञ्चो येन तम् । प्रपञ्च-हेतुत्वाद् अपि प्रपञ्च-रूपतवम् आह—स्वच्छन्दाः स्वाधीनाः शक्तयो मायाद्या यस्य तम् । त्वद्-इच्छया मायादिभिः शक्तिभिर् एव सर्व-प्रपञ्चस्य निमित्तत्वात् मायादीनां तच्-छक्तित्वेनाभिन्नत्वात् तत्-कार्याणां च तद्-अभिन्नत्वात् तवैवेदं सर्वं मायिकं रूपम् अनभिरूपम् इत्य् अर्थः ॥३३ ॥

———————————————————————————————————————

॥ ३.२४.३४ ॥

आ स्माभिपृच्छेऽद्य पतिं प्रजानां

त्वयावतीर्ण-र्ण उताप्त-कामः ।

परिव्रजत्-पदवीम् आस्थितोऽहं

चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्न्यासानुज्ञां प्रार्थयते । आ स्माभिपृच्छे यत् किञ्चिद् अभिपृच्छामीत्य् अर्थः । त्वया पुत्र-रूपेणावतीर्णानि निवृत्तानि ऋणानि दैवादि-रूपाणि यस्य स आप्त-कामश् चाहं परिव्रजतां सन्न्यासिनां पदवीं मार्गम् आश्रितः संस् त्वां युञ्जन् स्मरन् विचरिष्यामि ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ऋणम् अत्र पितुर् आज्ञा-पालन-रूपम् ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्माभीति पाद-पूरणार्थम् । आपृच्छे अद्य सम्प्रति सन्न्यासार्थम् आज्ञां प्रार्थये । त्वया हेतुना अवतीर्णं निवृत्तं प्रजाः सृजेति पितुर् आज्ञा-रूपम् ऋणं यस्य सः । आप्त-कामः पूर्ण-मनोरथश् चाहं परिव्रजतां सन्न्यासिनां पदवीम् आस्थितस् त्वां हृदि युञ्जन् स्मरन् चरिष्ये, यतस् ततः पर्यटिष्यामि । अत्र श्री-कर्दमेन मनस्य् एवं परामृष्टं, शुक्लाभिधाने श्री-नारायणे मत्-प्रभौ ममाजन्मत एव दास्य-निष्ठा वरीवर्ति । सम्प्रति पुत्रीभूते चास्मिन् दुर्वारं वात्सल्यम् अप्य् उदेष्यत्य् एवेति दास्य-वात्सल्ययोर् यौगपद्यं न रसावहम् । किं चाप्य् अयम् ईश्वरः स्वतन्त्र एव मां शोक-समुद्रे निमज्याचिराद् एव प्रव्रजिष्यत्य् अतः प्रथमम् अहम् एव किं न प्रव्रजामि, न च गृहेऽवतीर्णं प्रभुं विहाय गच्छतो ममात्रापराधो, यतोऽस्माकं वैष्णवानां मते भजनीयः प्रभुः खलु भजनाधीनः इति भजनीयाद् अपि भजने भूयान् आग्रहः कर्तुम् उचित इत्य् अस्य भजनम् एवाष्टयामिकं विविक्तारण्ये निष्प्रत्यूहं चिकीर्षामीति ॥३४॥

———————————————————————————————————————

॥ ३.२४.३५ ॥

श्री-भगवान् उवाच—

मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके ।

अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सत्य-लौकिके यथार्थ-ज्ञान-विषये । आभासो ज्ञानम् आलोको लोकाभासश् च कथ्यते इत्य् अभिधानम् ॥३५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहं तावज् ज्ञानोपदेशायैव त्वद्-गृहेऽवतीर्णः अतस् तव गृहे वसतोऽपि मुक्तिः सुलभैव । यद्य् अवश्यं गन्तव्यम् एवेत्य् आग्रहस् तथापि माम् एवानुस्मरन् गच्छेत्य् आशयेनाह—मयेति षड्भिः । सत्य-लौकिके वैदिके लौकिके च कृत्ये । स्वोक्तस्य प्रामाण्यम् अभिदर्शयति । यद् यस्मात् तुभ्यं तव पुत्रो भविष्यामीत्य् अवोचम् अथ अत एव तद् ऋतं सत्यं यथा भवति तथा मयाजनि जन्म स्वी-कृतम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यन् मया प्रोक्तं सर्वत्रैव प्रमाणम् अथ अतो हेतोर् एव मया अजनि त्वद्-गृहे जातं तस्य हेतुम् एव दर्शयति । यत् तुभ्यम् अवोचं तद् अपि कृतम् इति । अन्यथा मत्-प्रोक्तस्य प्रामाण्यं व्यभिचरेद् इति भावः । सति च प्रामाण्ये ममोपदेशम् एव गृहाणेति तात्पर्यम् ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो महा-मुने ! त्व्ग् मद्-अभिप्रेतम् एव चिकीर्षसि, सर्वं त्यक्त्वा मद्-भजनस्य मयैव कर्तव्यत्वेन प्रोक्तत्वाद् इत्य् आह—हि निश्चितं मया यत् प्रोक्तं, सर्व-धर्मान् परित्यज्य इत्य्-आदि-गीतोपनिषद्-आदिभिस् तद् एव लोकस्य प्रमाणम् । क्व सत्य-लौकिके सति सर्वोत्तमेऽलौकिके । अयम् अर्थः—लोके भवो लौकिकस् त्रिवर्ग-प्राप्ति-लक्षणो धर्मस् तत्र मन्व्-आदिभिर् अपि प्रोक्तं लोकस्य प्रमाणम् । अलौकिकस् तद्-भिन्नो मत्-प्राप्ति-लक्षणो यो धर्मस् तत्र सति सर्वोत्तम-भागवत-धर्मे मया प्रोक्तम् एव लोकस्य प्रमाणम् । यद् उक्तं—ये वै भगवता प्रोक्ता उपाया आत्म-लब्धये [भा।पु। ११.२.३३] इति । अतस् त्वया साधु विचारितं यत् सर्वं त्यक्त्वा यामीति भावः । स्वोक्तस्य प्रामाण्यम् अभिदर्शयति । अथ अत एव मया अजनि यत् तुभ्यं तव पुत्रो भविष्यामीत्य् अवोचम् । तद् ऋतं सत्यम् एव ॥३५॥

———————————————————————————————————————

॥ ३.२४.३६ ॥

एतन् मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् ।

प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने ॥

एष आत्म-पथोऽव्यक्तो नष्टः कालेन भूयसा ।

तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुराशयाल् लिङ्गान् मुमुक्षूणां मुनीनाम् आत्म-दर्शने संमताय तत्त्वानां प्रसङ्ख्यानाय विद्धीत्य् उत्तरस्यानुषङ्गः ॥३६॥ नन्व् अयम् आत्म-ज्ञान-मार्गः पूर्व-सिद्ध एव नेदानीम् अपूर्ववत् प्रवर्तनीयस् तत्राह—एष इति । अव्यक्तः सूक्ष्मः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भृतं प्रकटीकृतम् ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वावतार-प्रयोजनं ज्ञापयति । दुराशयाद् दुष्ट-लिङ्ग-शरीरान् मुमुक्षूणाम् आत्म-दर्शने सम्मताय तत्त्वानां प्रसङ्ख्यानाय विद्धीत्य् उत्तरस्यानुषङ्गः । अव्यक्तः सूक्ष्म ईश्वरे देहि-देह-विभागाभावेऽपि बुद्धिर् हि भगवती अभेदेऽपि भेदं जनयतीति न्यायेन देहं मया भृतम् इति लोक-रीत्यैवोक्तिः ।

सत्त्वं रजस् तम इति निर्गुणस्य गुणास् त्रयः ।

स्थिति-सर्ग-निरोधेषु गृहीता मायया विभोः ॥ इतिवज् ज्ञेयः ॥३७॥

———————————————————————————————————————

॥ ३.२४.३८ ॥

गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा ।

जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कामं यथेच्छम् । आपृष्टोऽनुज्ञातः । यद् वा, यथा त्वं गन्तुं मां पृष्टवांस् तथात्रावस्थातुं मयापि त्वम् आपृष्ट इत्य् अर्थः । मयि सन्न्यस् तेन समर्पितेन कर्मणा अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते इति श्रुतेः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयापृष्ट इति त्वं गन्तुं यथा माम् आपृष्टवान् तथात्रावस्थातुं मयापि त्वम् आपृष्ट इत्य् अर्थः । कथं मया गच्छेति निष्ठुरं वक्तव्यम् अत्रावस्थितस्यापि तव वाञ्छितं सेत्स्यत्य् एवेति भावः । तद् अपि गन्तुम् एव ते मनश् चेत् कामं गच्छ । अमृतत्वाय भज—अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते इति श्रुतेः । यद् वा, अमृतत्वाय मरण-राहित्याय भगवते । राम-कृष्णादित्वेन जन्मवन् मत्-पार्षदतां प्राप्तस्यापि तव मत्-सङ्गितया जन्म तु भविष्यत्य् एवेति भावः ॥३८॥

———————————————————————————————————————

॥ ३.२४.३९ ॥

माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् ।

आत्मन्य् एवात्मनान्वीक्ष्य विशोकोऽभयम् ऋच्छसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च मां परमं परम्आत्मानम् आत्मनि स्वस्मिन्न् आत्मना अन्वीक्षमाणोऽभयं मोक्षं प्राप्स्यसि ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं केचित् स्व-देहान्तर्-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तं चतुर्भुजं [भा।पु। २.२.८] इत्य्-आद्य्-उक्त-प्रकारम् अन्तर्यामिनं त्वद्-इष्ट-देवं शुक्लम् आत्मनि स्वस्मिन् आत्मना बुद्ध्या ॥३९॥

———————————————————————————————————————

॥ ३.२४.४० ॥

मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् ।

वितरिष्ये यया चासौ भयं चातितरिष्यति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विश्व-मते तु एतादृशम् असारं यतः । अत ईश्वरं विज्ञाय । नश्यत्य् उपप्लवः दुःखाज्ञानाद्य्-उपद्रवो न ॥४०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : मात्रे देवहूत्यै । शमनीम् उन्मूलनीम् । भयम् अतिशयेन तरिष्यति । परमानन्दं प्राप्स्यतीति चकारार्थः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रस्य ममेश्वरत्वात् कलत्रस्य देवहूतेश् च कृते चिन्ता न कार्येत्य् आह—मात्रे इति ॥४०॥

———————————————————————————————————————

॥ ३.२४.४१ ॥

मैत्रेय उवाच—

एवं समुदितस् तेन कपिलेन प्रजापतिः ।

दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समुदितः सम्यग् उक्तः सन् । तं प्रदक्षिणी-कृत्य ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्यग् उक्तस् तं प्रदक्षिणीकृत्य ॥४१॥

———————————————————————————————————————

॥ ३.२४.४२ ॥

व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः ।

निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुनीनाम् इदं मौनं व्रतम् अहिंसा-लक्षणम् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२४.४३ ॥

मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् ।

गुणावभासे विगुण एक-भक्त्यानुभाविते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सद्-असतः परं यत्, तस्मिन् ब्रह्मणिगुणावभासके निर्गुणे । एक-भक्त्या अव्यभिचारिण्या भक्त्या अनुभावितेऽपरोक्षी-कृते ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मन इति पञ्चकम् । आरोह-भूमिका-क्रमेणापि तस्यैवाधिक्यम् आह—मनो ब्रह्मणि इति । एक-भक्त्या अव्यभिचारिण्या साधन-लक्षणया भक्त्या अनुभाविते निरन्तरम् अपरोक्षी-कृते, तां विना कस्यचिद् अप्य् अर्थस्यासिद्धेः ॥४३॥ [भगवत्-सन्दर्भ ८३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् सद्-असतो भद्राभद्रात् व्यवहारिक-वस्तुनः परं, तस्माद् अतीतं तन् मनो ब्रह्मणि युञ्जानः । कीदृशे ? गुणानां सौन्दर्यादि-माधुर्यैश्वर्य-रूपाणां चिन्मयानाम् अवभासः प्रकाशो यत्र, तस्मिन् विगुणे विगत-प्राकृत-गुणे । एक-भक्त्या अव्यभिचारिण्या भक्त्यैव अनुभाविते नेत्रादि-सर्वेन्द्रियानुभव-गोचरतां प्रापिते ॥४३॥

———————————————————————————————————————

॥ ३.२४.४४ ॥

निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् ।

प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनन्याधीन-शक्तित्वात् हरिः स्व इति चोच्यते इति मात्स्ये । प्रत्यग्रः प्रत्यग् रतिः ।

भूत-गर्भश् च भूतस्थः पूर्ण एवं द्वि-रूपवान् ।

अत आत्मेति तं प्राहुः सदैवाप्त-गुणो यतः ॥४४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो देहादिष्व् अहङ्कारादि-रहितः । अत एव निर्द्वन्द्वः शीतोष्णाद्य्-अनाकुलः । सम-दृग् भेदाग्राहकः, किन्तु स्व-दृक् स्वम् एव पश्यन् । प्रत्यक् प्रवणा शान्ता विक्षेप-रहिता धीर् यस्य ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निरहङ्कृतित्वाद् एव निर्ममः । तद्-द्वयाभावाद् एव मन-आदीनाम् अप्य् अभावः सिध्यति । सम-दृक् भेदाग्राहकः । स्व-दृक् स्व-स्वरूपाभेदेन ब्रह्मैव पश्यन् । प्रत्यक् अन्तर्-मुखी । प्रशान्ता विक्षेप-रहिता धीर् ज्ञानं यस्य सः ॥।४४॥ [भगवत्-सन्दर्भ ८३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च व्यवहारिके सर्व-वस्तुनि निरहङ्कृतिर् इत्य्-आदि । स्वस्मिन्न् एव भक्तिः कियत्य् अभूद् भवति भविष्यतीति दृग् दृष्टिर् यस्य सः । प्रत्यक् बहिर्-वृत्ति-रहिता, अत एव प्रशान्ता धीर् यस्य सः ॥४४॥

———————————————————————————————————————

॥ ३.२४.४५ ॥

वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि ।

परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं-विध-कल्पितोपाधि-निवृत्तिम् उक्त्वा परमेश्वर-पद-प्राप्तिम् आह—वासुदेव इति त्रिभिः । प्रतीचो जीवस्य आत्मनि लब्ध आत्म चित्तं येन, यतो मुक्तं बन्धनम् अज्ञानं यस्य ॥४५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निरहङ्कृतिर् [भा।पु। ३.२४.४४] इत्य्–आदिभिर् विशेषणैर् विशिष्टः किम् अध्यासितवान् ? किं ब्रह्मानुसन्धानम् उत श्री-कृष्णानुसन्धानम् ? इत्य् आह—वासुदेव इत्य्-आदि। भक्त्या यो भावो रतिः, तेन लब्ध आप्त आत्मा चित्तं यस्य ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं ब्रह्म-ज्ञान-मिश्र-भक्ति-साधन-वशेन ब्रह्मानुभवे जातेऽपि भक्ति-संस्कार-बलेन लब्ध-प्रेमादेस् तद्-ऊर्ध्वम् अपि श्री-भगवद्-अनुभवम् आह—वासुदेव इति । प्रत्यग्-आत्मनि सर्वेषाम् आश्रय-भूते परेण प्रेम-लक्षणेन भक्ति-भावेन तत्-सत्तयैव लब्धा आत्मानस् तदीयात्मका अहङ्कारादयो येनेति । ब्रह्म-ज्ञानेन प्राकृताहङ्कारादि-लयानन्तरम् आविर्भूतान् प्रेमानन्दात्मक-शुद्ध-सत्त्व-मयान् लब्धवान् इत्य् अर्थः ।

ननु त एव प्रत्यावर्तन्तां, किं वा पूर्ववद् अमी अपि बन्ध-हेतवो भवन्तु? नेत्य् आह—मुक्त-बन्धनः, अनावृत्तिः शब्दात् [वे।सू। ४.४.२२] इति न्यायात् ॥४५॥ [भगवत्-सन्दर्भ ८३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतावद् अद्भुत-स्वभावत्वं तस्य सहसैव कथम् अभूत् ? तत्राह—वासुदेव इति । प्रतीचो जीवस्य आत्मनि भक्ति-भावेन भजनोत्थेन भावेन परेण श्रेष्ठेन प्रेम्णा हेतुना लिङ्ग-देह-नाशान् नष्टा अपि पुनर् लब्धा आत्मानश् चित्त-मनो-बुद्ध्य्-आदयोऽप्राकृता येन सः । ननु पूर्ववद् अमी अपि बन्ध-हेतवो भवन्ति ? तत्राह—मुक्त-बन्धनः, अनावृत्तिः शब्दात् [वे।सू। ४.४.२३] इति न्यायात् ॥४५॥

———————————————————————————————————————

॥ ३.२४.४६ ॥

आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् ।

अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लब्धात्मताम् एवाह—आत्मानम् इति ॥४६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वासुदेवे भक्ति-भावे सति सर्व-भूतेष्व् अपि साम्यं भवतीत्य् आह—आत्मानम् इत्य्-आदि ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्त्य्-अतिशयेन लब्धात्मकत्वम् एव प्रतिपादयति—आत्मानम् इति । आत्मात्र परमात्मा, सर्वथा तस्य भगवान् एवास्फुरद् इति वाक्यार्थः ।*।*४६॥ [भगवत्-सन्दर्भ ८३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तस्य भगवत्-साक्षात्कारोऽभूद् इत्य् आह—आत्मानं सर्वान्तर्यामिनं तृतीय-पुरुषं क्षीरोद-शायिनम् इत्य् अर्थः । भगवन्तं तम् एव स्वेष्ट-देवं शुक्लं चतुर्भुजम् अपश्यत् । तथा आत्मनि प्रकृत्य्-अन्तर्यामिनि प्रथम-पुरुषे कारणार्णव-शायिनि सर्व-भूतानि तदीय-रोम-कूप-गत-शत-कोटि-ब्रह्माण्ड-स्थानि योगज-नेत्रेणान्त्रैव स्थित्वा अपश्यत् । तेन द्वितीय-स्कन्धोक्तात् क्रम-मुक्ताद् योगिनः सकाशात् अस्य उत्कर्ष उक्तः । स हि ब्रह्माण्डस्थ-सर्व-वस्तु-दिदृक्षुस् तत्र तत्र स्थूल-देहं त्यक्त्वा गच्छति । अयं त्व् अत्रैव स्थित्वा सर्व-ब्रह्माण्ड-बहिः-कारणार्णव-शायिनं तद्-रोम-कूपेषु सर्व-भूतान्य् अपि निष्काम एवापश्यत् । भगवत्य् अपि च इति तम् एवात्मानं स्वेष्ट-देवं शुक्लं भगवन्तम् अपश्यत् । तस्मिन्न् अपि सर्व-भूतानि श्री-कृष्णे यशोदेवापश्यद् इत्य् ऐश्वर्योपासके श्री-कर्दमे तादृग्-ऐश्वर्य-दर्शनम् उचितम् एवेति ज्ञेयम् ॥४६॥

———————————————————————————————————————

॥ ३.२४.४७ ॥

इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा ।

भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं तेन भागवती गतिः प्राप्ता । पाठान्तरे, “स एव तां गतिं प्राप्तः” इति ॥४७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इच्छेत्य्-आदि । भगवद्-भक्ति-योगेन भागवती गतिर् भगवल्-लोकं प्राप्ता, नित्य-पार्षदाकारेण स्थित इत्य् अर्थः ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः साक्षाद् एव तत्-प्राप्तिम् आह—इच्छा-द्वेष- इति । तद् एवं तेन भागवती गतिः प्राप्ता । हेयत्वाद् अन्यत्र इच्छा-द्वेष-विहीनेन, तस्माद् एव हेतोः सर्वत्र सम-चेतसा । तद् उक्तम्—नारायण-पराः सर्वे [भा।पु। ६.१७.२८] इत्य्-आदि ।

यद् वा, मया लक्ष्म्या सह वर्तते इति सम इति सहस्र-नाम-भाष्यात् भगवच्-चेतसेति प्राप्तो भागवतीं गतिम् इति पाठे स कर्दम एव तां गतिं प्राप्तः । अत्र भगवद्-भक्ति-योगेनेत्य् एव विशेष्यम् इति । एवम् एवोक्तं श्री-भगवद्-उपनिषत्सु—

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।

शब्दादीन् विषयांस् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥

विविक्त-सेवी लघ्व्-आशी यत-वाक्-काय-मानसः ।

ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः ॥

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।

विमुच्य निर्ममः शान्तो ब्रह्म-भूयाय कल्पते ॥

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।

समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५२-५६]

इति अत्र विशतिर् मिलनार्थः, यथा दुर्योधनं परित्यज्य युधिष्ठिरं प्रविष्टवान् अयं राजेति श्री-दशमे श्री-गोपैर् ब्रह्म-संपत्त्य्-अनन्तरम् एव वैकुण्ठो दृष्ट इति श्री-स्वामिभिर् एव च व्याख्यातम् ॥४७॥ [भगवत्-सन्दर्भ ८३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वत्र जगति हेयत्वाद् इच्छा-द्वेष-विहीनेन तस्माद् एव हेतोः सम-चेतसा कर्दमेन भागवती भगवत्-पार्षदत्व-लक्षणा गतिः प्राप्ता । भागवतीं गतिं प्राप्तः इति पाठे सम-चेतसा युक्तः कर्दमः ॥४७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्विंशस् तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कर्दम-प्रव्रज्या नाम

चतुर्विंशोऽध्यायः ।

॥ ३.२४ ॥

(३.२५)

अथ पञ्चविंशोऽध्यायः

देवहूतिकपिलसंवादः, कपिलद्वारा भक्तियोगनिरूपणं च ।

॥ ३.२५.१ ॥

शौनक उवाच—

कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया ।

जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

पञ्चविंशे जनन्या तु पृष्टो बन्ध-विमोचनम् ।

आदाव् आह परं भक्ति-लक्षणं कपिलः सुतः ॥

कपिलेनार्पिता मात्रे गूढ-भाव-नियन्त्रिता ।

योग-माणिक्य-मञ्जूषा स्फुटम् उद्घाट्यते ऽधुना ॥

उक्तानुवाद-पूर्वकं कापिलं योगं पृच्छति—कपिल इति त्रिभिः । तत्त्वानां सङ्ख्याता गणकः, साङ्ख्य-प्रवर्तक इत्य् अर्थः । अत एव स्वयं जातःआत्म-प्रज्ञप्तये आत्म-तत्त्व-ज्ञापनाय॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वयम् अजोऽपि भक्त-विषया या माया कृपा, तया साक्षज् जातः प्रकटो बभूव ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

मात्रा पृष्टः पञ्चविंशे कपिलो भक्तिम् आह ताम् ।

तल्-लक्षणं तत्-प्रभावं तद्-उत्कर्षं च सर्वतः ॥

तत्त्व-सङ्ख्याता तत्त्व-सङ्ख्यान-कर्ता साङ्ख्य-प्रवर्तकः । स्वयम् अजस् तद् अपि आत्म-मायया जातः अतर्क्य-योगमाया-शक्त्या प्रादुर्भाविताप्राकृत-जन्म-लील इत्य् अर्थः । जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [गीता ४.९] इति भगवद्-उक्तेर् भगवज्-जन्मनो मायिकत्वस्य व्याख्यातुम् अशक्यत्वात् ॥१॥

———————————————————————————————————————

॥ ३.२५.२ ॥

न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् ।

विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मेऽसवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुंसां मध्ये वर्ष्मणो वृद्धस्योत्तमस्येत्य् अर्थः । सर्व-योगिनां मध्ये वरिम्णः, वरस्य भावो वरिमा, भवितृ-प्रधानोऽयं निर्देशः, वरिष्ठस्येत्य् अर्थः । यद् वा, वरीयस्त्वाद् इत्य् अर्थः । विश्रुतौ कीर्तौ । असव इन्द्रियाणि भूर्य् अलं न तृप्यन्ति । [श्रुत-देवस्य] श्रुतेन श्रवणेन दीव्यति द्योतत इति तथा तस्य । यद् वा, भूरि बहुशः श्रुतो देवो येन, तस्यापि मेसव इति संबन्धः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उरोर्2 भावः वरिमा धर्मि-तात्पर्यकः, श्रोत्र-मात्रावेशे वक्तव्ये असवो न तृप्यन्तीति बहुत्वं चक्षुर्-आदीनाम् अपि तद्-वक्तर्य् आवेशत्वात् । यद् वा, श्रोत्र-द्वारा तादृश-भगवद्-रूपादीनाम् अपि स्फूर्तेः श्रोत्रस्यैव चक्षुर्-आदि-मयत्वं निर्दिष्टम् ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुंसां क्षीरोद-शायि-प्रभृति-पुरुषाणां तथा सर्व-योगिनां दत्तात्रेयादीनां च मध्ये अस्य वर्ष्मणः कपिलाकारस्य देहस्य यो वरिमा श्रेष्ठत्वं, तस्य विश्रुतौ ख्यातौ मे असवः प्राणाः श्रवणादीन्द्रियाणि वा भूरि अलं न तृप्यन्ति । मम कीदृशस्य ? श्रुतेन श्रवणेन दीव्यति द्योतत इति तथा तस्य । भूरि बहुशः श्रुतो देवो येन, तस्यापीति वा ॥२॥

———————————————————————————————————————

॥ ३.२५.३ ॥

यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया ।

तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वानां पुंसां छन्देन इच्छया आत्मा देहो यस्य सः । यद् यत् कर्म विधत्ते, तानि कर्माणि कीर्तनार्हाण्य् अनुकीर्तय ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् यद् यद् इति यद् एतद् यच् चान्यद् इत्य् अर्थः । आत्म-मायया स्वरूप-शक्त्या भगवान् श्री-कृष्णः ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वच्छन्दः स्वाधीनो न तु जीववत् कर्माधीन आत्मा देहो यस्य सः । स्वानां छन्देन इच्छया आत्मा देहो देहाविर्भावो यस्येति वा । आत्म-मायया योग-मायया यद् यत् कर्म विधत्ते, न तु बहिरङ्ग-मायया, जन्म कर्म च मे दिव्यं [गीता ४.९] इत्य् उक्तेः । यद् यद् इत्य् एकत्वेऽपि वीप्सया बाहुल्यात् तानि इत्य् अनेन बहु-वचनान्तेन सह सम्बन्धः । कीर्तन्यानि कीर्तनार्हाणि ॥३॥

———————————————————————————————————————

॥ ३.२५.४ ॥

सूत उवाच—

द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा ।

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा त्वं मां प्रचोदयसि, एवं प्रचोदितः सन् । तथा तत्-प्रश्नानुसारेण । आन्वीक्षिक्याम् आत्म-विद्यायाम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : द्वैपायनेति । एवं श्री-कृष्ण-तात्पर्य-रीत्या ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् इति यथा त्वं मां पृच्छसीत्य् अर्थः । आन्वीक्षिक्याम् आत्म-विद्यायाम् ॥४ ॥

———————————————————————————————————————

॥ ३.२५.५ ॥

मैत्रेय उवाच—

पितरि प्रस्थितेऽरण्यं मातुः प्रिय-चिकीर्षया ।

तस्मिन् बिन्दुसरेऽवात्सीद् भगवान् कपिलः किल ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बिन्दुसरे बिन्दु-सरसि ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बिन्दुसरे मातुः प्रिय-चिकीर्षया इत्य् अनेन कौमारोचित-स्तन-पानादि-लीलापि ज्ञेया ॥५॥

———————————————————————————————————————

॥ ३.२५.६ ॥

तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् ।

स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्व-मार्गस्याग्रं पारं दर्शयतीति तथा तम् । एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः [भा।पु। ३.२४.१८] इत्य्-आदि धातुर् वचः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-सुतम् इति । ऐश्वर्य-दर्शनेऽपि स्नेहातिशयो व्यञ्जितः ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्त्व-मार्गस्याग्रं पारं दर्शयतीति तथा । एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः [भा।पु। ३.२४.१८] इत्य्-आदि धातुर् वचः ॥६॥

———————————————————————————————————————

॥ ३.२५.७ ॥

देवहूतिर् उवाच—3

निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् ।

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असताम् इन्द्रियाणां तर्षणाद् विषयाभिलाषान् निर्विण्णा श्रान्तास्मि । येन सम्भाव्यमानेन पूर्यमाणेन ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्विण्णेत्य् अस्य प्राक् देवहूतिर् उवाचेति क्वचित् ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्षणात् विषयाभिलाषात् निर्विण्णा प्राप्त-धिक्-कारा । येन तर्षणेन सम्यक् भाव्यमानेन एतावत्-काल-पर्यन्तं क्रियमाणेन अन्धं तमः संसारम् ॥७॥

———————————————————————————————————————

॥ ३.२५.८ ॥

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।

सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पारं गमयतीति पार-गं त्वम् एव श्रेष्ठं चक्षुर् मे मया लब्धम्त्वद्-अनुग्रहाज् जन्मनाम् अन्ते भाव्ये सति ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सच्-चक्षुर् न साधारणं, किन्त्व् अनन्यापेक्षं सर्व-प्रकाशकत्वात् सूर्य इव ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारगं पारं गमयतीति । तत सच्-चक्षुः तमः परिभविष्णु नेत्रम् ॥८॥

———————————————————————————————————————

॥ ३.२५.९ ॥

य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल ।

लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रपञ्चयति—स भगवान् भवांश् चक्षू-रूप उदितः सूर्यो यथा ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं ममैव चक्षुर् अपि तु सर्वस्यैवेत्य् आह—य इति । सूर्य इव सर्व-तमो-हन्ता ॥९॥

———————————————————————————————————————

॥ ३.२५.१० ॥

अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि ।

योऽवग्रहोऽहं-ममेतीत्य् एतस्मिन् योजितस् त्वया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपाक्रष्टुम् अपनेतुम् । कोऽसौ संमोहः ? तम् आह । एतस्मिन् देहादौ त्वयैव योजितो योऽहं-मम इत्य् अवग्रह आग्रहः । द्वितीय इति-शब्दस् तत्-कार्य-रागादि-ग्रहणार्थः॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ अत एव प्रथमं मम सम्मोहान्धकारम् अपाक्रष्टुं दूरीकर्तुं यः खलु सम्मोहोऽवग्रहः भक्त्य्-अमृत-वृष्टेः प्रतिबन्धकः । कीदृशः ? एतस्मिन् देह-गेहादाव् अहं-ममेति इति, प्रथमम् इति-शब्दः समाप्तौ, द्वितीय इति-शब्दः प्रकारे । अहं सुखी मम गेहं समृद्धिमद् इत्य् एतावत्-प्रकार इत्य् अर्थः । त्वन्-माया-कल्पितत्वात् त्वयैव योजितः ॥१०॥

———————————————————————————————————————

॥ ३.२५.११ ॥

तं त्वा गताहं शरणं शरण्यं

स्व-भृत्य-संसार-तरोः कुठारम् ।

जिज्ञासयाहं प्रकृतेः पूरुषस्य

नमामि सद्-धर्म-विदां वरिष्ठम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नारायणो ब्रह्म वायुर् इन्द्र-श्रेषौ हरस् तथा ।

कामः शक्रो गुरुर् दक्षो मन्व्-आद्या भास्करादयः ॥

सर्व-जीवाश् च क्रमशः पुरुषाख्याभिशब्दिताः ।

एतत्-पत्न्योर् बन्ध-शक्तिः स्त्रियः सर्वास् तथाजाण्डम् ।

क्रमात् प्रकृति-शब्दोक्तास् तज्-ज्ञानाद् विप्रमुच्यते ॥ इति दत्तात्रेय-योगे ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकृतेः पुरुषस्यजिज्ञासया त्वाम् अहं शरणं गता सती नमामि इत्य् अन्वयः । कुठारं छेत्तारम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वेषां भक्तानां ये भृत्या वेतनेनापि भरणीयास् तेषाम् अपि संसार-तरोः कुठारं भक्ति-कर्तृक-च्छेदनानन्य-साधनम् । संसार-शब्देन चात्र लोभनीय-दुष्कुल4-कण्टक-जाल-मयतया बन्धकत्वं ज्ञायते प्रकृतेर् मायायाः पुरुषस्य परमेश्वरस्य जिज्ञासयेति प्रकृतौ ज्ञातायां तत्-त्यागेन पुरुषानुगतेः सम्भवात् ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वा त्वां प्रकृतेः पुरुषस्य च जिज्ञासया "पुरुषः खलु को यः संसारी ? प्रकृतिश् च का यतोऽस्य संसारः ?" इति ज्ञातुम् इच्छया । न चात्र कश्चिद् अन्यः प्रष्टव्यः इत्य् आह—सतां यो धर्मस् तादृश-संसार-निवर्तक-भक्ति-रूपस् तद्-विदां मध्ये श्रेष्ठम् ॥११॥

———————————————————————————————————————

॥ ३.२५.१२ ॥

मैत्रेय उवाच—

इति स्व-मातुर् निरवद्यम् ईप्सितं

निशम्य पुंसाम् अपवर्ग-वर्धनम् ।

धियाभिनन्द्यात्मवतां सतां गतिर्

बभाष ईषत्-स्मित-शोभिताननः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपवर्ग-वर्धनं मोक्षे रति-जनकम् । ईषत्-स्मितेन शोभितम् आननं यस्य ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इतीति । पुंसां साधारणानाम् एव अपवर्ग-वर्धनम् अस्यै तु मद्-भक्त्य्-आख्यं परमं सुखम् अपि दास्यामीति स्मित-तात्पर्यम् । यद् वा, तेषाम् अपि अपवर्ग्आख्य-भक्ति-योग-वर्धनं, यतः सतां गतिः तत्-सम्बन्धेनेति भावः । किम् उतास्याः स्व-मातुर् इति ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपवर्गस्य मोक्षस्य वर्धनं वृद्धिः, श्लेषेण अपकृष्ट-वर्गस्य त्रिवर्गस्य छेदनं यतस् तत् । आत्मा स कपिल एव सेव्यत्वेन वर्तते येषां, तेषां सतां भक्तानां गतिः । ईषत्-स्मित- इति "मम परमेश्वरस्य त्वं माता भवसि । तवापि कः संसारो भवतु ? तद् अपि त्वां लक्ष्यीकृत्य लोकान् उद्धर्तुं किम् अप्य् उपदिशामि" इति भावः ॥१२॥

———————————————————————————————————————

॥ ३.२५.१३ ॥

श्री-भगवान् उवाच—

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।

अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

परमात्मदिकं देहे यद् अध्यात्मं तद् ईरितम् ।

सुखं शृङ्गार-भोग्यं तु दुःखंसर्वं तथैव ॥

मुक्तौ विलयम् आयाति नित्यानन्दस् तु भुज्यते ॥ इति च ॥१३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : आध्यात्मिक आत्म-निष्ठः । यत्र यस्मिन् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र प्रथमं तावन् मुक्ति-मात्रोपायम् आह—योग इति । आध्यात्मिकः परमात्म-निष्ठः ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आध्यात्मिकः जीवात्म-निष्ठः । योगः निःश्रेयसार्थम् उपायः, स च भक्तिर् ज्ञानं योगश् चेति त्रिविधो वक्तव्यः । तत्र भक्ति-पक्षे निःश्रेयसम् अननुसंहितं फलं ज्ञेयम् । यत्र योगे सति सांसारिकस्य दुःखस्य सुखस्य च उन्मूलनम् ॥१३॥

———————————————————————————————————————

॥ ३.२५.१४ ॥

तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे ।

ऋषीणां श्रोतु-कामानां योगं उर्व्-अङ्ग5-नैपुणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : "योगम् उर्व्-अङ्ग-नैपुण्यम्" इति पाठः सम्बन्धोक्ति-सम्मतः। "सर्वाङ्ग-" इति तु स्वामि-लिखितम्6 ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋषीणाम् ऋषीन् नारदादीन् उरूण्य् अङ्गानि नैपुण्यानि तद्-अनुष्ठान-चातुर्याणि च यत्र तत् ॥१४॥

———————————————————————————————————————

॥ ३.२५.१५ ॥

चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् ।

गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र सर्वाङ्ग-नैपुण्यं चित्त-संयमाधीनम् इति दर्शयन्न् आह—चेत इति । अस्य आत्मनो जीवस्य । गुणेषु विषयेषु । पुंसि परमेश्वरे । वा-शब्दस् तु-शब्दार्थे ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुंसि परमात्मनि रतं रति-मात्रं प्राप्तम् ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवात्मानं खलु मन एव दुःसङ्ग-सुसङ्गाभ्यां बध्नाति मोचयति चेत्य् आह—चेत इति । गुणेषु स्व-बन्धन-साधकतमेषु सक्तम्, आसक्तम् इति बन्धने न्याय उक्तः । पुंसि पुरुषोत्तमे निर्गुणे गुण-बन्ध-ध्वंसके रतं रतिमद् इति मोचने च न्यायः । वा-शब्दस् तु-शब्दार्थः । अत्र श्री-पुरुषोत्तम-विषयिण्या रतेः कारणं भक्तिर् एव भवेत्, न ज्ञानं, नापि योगो मोचकत्वेन केवला भक्तिर् एव समुचिता ज्ञेया ॥१५॥

अत्रानुरूपार्थकं ४.२९.८०-तमं मन एव इत्य्-आदि पद्यं द्रष्टव्यम्।

———————————————————————————————————————

॥ ३.२५.१६ ॥

अहं-ममाभिमानोत्थैः काम-लोभादिभिर् मलैः ।

वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

बाह्ये सुखे त्व् अनासक्तेर् असुखं दुःख-वर्जनात् ।

अदुःखं हरि-भक्त्यैव नित्यानन्दं यदा मनः ।

तद्ल तल्न् परमात्मनं पश्यत्य् आत्म-प्रसादतः ॥ इति कापिलेये ।

अभेदात् स्वावतारेषु निरन्तर उदाहृतः ।

गुण-देहेन्द्रियाभेदात् केवलौ सदृशस् ततः ॥

अखण्ड-पूर्ण-शक्तित्वाद् अहम् एकः सदा मतः ।

बन्ध-शक्तिः प्रकृत्य्-आख्या विष्णु-शक्त्या वियुज्यते ॥ इति च ॥१६-१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा च चित्त-संयमे पुरुषार्थ-सिद्धिस् तद् दर्शयति—अहम् इति त्रिभिः । मलैर् वीतं विरहितं यदा शुद्धं मनो भवति । मनः-शुद्धेर् ज्ञापकम् आह—अदुःखम् इति ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहम् इति त्रिकम् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-योगयोर् अपि मोचकत्वं भक्ति-साहाय्येनैवाह—अहम् इति त्रिभिः । वीतं रहितम् । कामादि-मल-राहित्यं च मनसः शम-दमादिभिः यम-नियमादिभिश् च भवतीति ज्ञान-योगयोर् अङ्गानि सूचितानि । शुद्धेर् ज्ञापकत्वम् आह—अदुःखम् इत्य्-आदि स्याद् इति शेषः ॥१६॥

———————————————————————————————————————

॥ ३.२५.१७ ॥

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।

निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरन्तरं निर्भेदम् । अणिमानं सूक्ष्मम् । अखण्डितम् अपरिच्छिन्नम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निरन्तरं नित्यं यतोऽखण्डितं छेदादि-रहितम् । यतोऽणिमानं दुर्ज्ञेयम् इत्य् अर्थः ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा पुरुषो जीव आत्मानं स्वं प्रकृतेर् अविद्यातः परं निरन्तरं देह-द्वय-व्यवधान-शून्यं, अत एव स्वयं-ज्योतिर् अनावृत-प्रकाशम् । अणिमानं सूक्ष्मं, सूक्ष्माणाम् अप्य् अहं जीवः [११.१६.११] इति भगवद्-उक्तेः स्वरूपत एव परमाणु-प्रमाणम् इत्य् अर्थः । विषय-वासनाभिर् अखण्डितम् ॥१७॥

———————————————————————————————————————

॥ ३.२५.१८ ॥

ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना ।

परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हतौजसं क्षीण-बलाम् ॥१८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ज्ञान-वैराग्य-युक्तेनेत्य्-आदि । केवल-ज्ञान-वैराग्य-युक्तेनैव चेतसा पश्यतीति न, भक्ति-युक्तेन च-कार एवार्थः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानं विवेकः । तच् च वैराग्यं चाहं-ममेत्य्-आदि-राहित्येन प्रतिपादितम् । भक्तिर् भागवती, तां विना सर्वार्थासिद्धेः । हतौजसं स्वस्मिन् किञ्चिद् अपि कर्तुम् अशक्ताम् ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-।विशेष-युक्तेनात्मना मनसा भक्ति-युक्तेन चेति च-काराद् भक्तेस् तत्र साहाय्यम् एव तद् विना ज्ञानस्य स्वीय-फल-साधकत्वाशक्तेः । उदासीनम् अनासक्तं प्रकृतिं स्वाविद्यां हतौजसं स्वस्मिन् किञ्चिद् अपि कर्तुम् अशक्ताम् ॥१८॥

———————————————————————————————————————

॥ ३.२५.१९ ॥

न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि ।

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनः-शुद्धौ च भक्तिर् एवान्तरङ्ग-साधनम् इत्य् आह—नेति ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मोक्षेऽपि भक्ति-सनाथेन ज्ञानेन भवतीति भक्तेः प्राधान्यं दर्शयति—न युज्यमानयेत्य्-आदि । भगवति श्री-वासुदेवे प्रयुज्यमानया भक्त्या सदृशः शिवः कल्याणदः पन्था नास्ति । उक्तं च, न ह्य् अतोऽन्यः शिवः पन्थाः [भा।पु। २.२.३३] इत्य्-आदि। ब्रह्म-सिद्धये ब्रह्मत्व-सिद्धये ॥१९॥

———————————————————————————————————————

सनातन गोस्वामी- (ह।भ।वि। ११.५६४) योगिनाम् अपि ब्रह्म-सिद्धये आत्म-तत्त्व-परिस्फूर्तये मुक्तये इत्य् अर्थः । भक्त्या सदृशः शिवो निर्विघ्नो मङ्गल-रूपो वा पन्था नास्ति ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रयाणां मध्ये केवला भक्तिर् एव श्रेष्ठा सुखमयी परम-मङ्गला चेत्य् आह—नेति । युज्यमानयेति भगवति भक्तिर् एव युज्यते समुचिता भवतीत्य् अर्थः । काचित् त्वय्य् उचिता भक्तिः [भा।पु। ३.२५.२८] इत्य् उत्तरोक्तेः । योगिनाम् उपायवतां ब्रह्मणि परमेश्वरे विषयी-भूते सिद्धिर् दास्य-सख्यादि-निष्पत्तिः, तस्यै ॥१९॥

———————————————————————————————————————

॥ ३.२५.२० ॥

प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः ।

स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य सर्वस्यापि सत्-सङ्गो मूलम् इत्य् आह—प्रसङ्गम् इति । अपावृतं निरावरणम् ॥२०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्तिर् हि काम-धेनुः । सर्वस्य सर्वम् अभिलाषं प्रसूते । तथा चोक्तं—अकामः सर्व-कामो वा, मोक्ष-काम उदार-धीः [भा।पु। २.३.१०] इत्य्-आदि । अकामस्य तु प्रेमाकारया वृत्त्या विशुद्ध-भगवत्-पार्षद-तनु-लाभ एव । स च भक्ति-रूपः पन्थाः सत्-सङ्ग-लभ्यो भवतीत्य् असाधु-सङ्ग-निन्दा-पूर्वकं साधु-सङ्गम् अभिनन्दति—प्रसङ्गम् इत्य्-आदि । प्रसङ्गः प्रकर्षेण सङ्गः साधुषु कृत इति ॥२०॥

———————————————————————————————————————

सनातन गोस्वामी- (ह।भ।वि। १०.२६१) : प्रसङ्गम् अत्यन्तासक्तिम् । अपावृतं निरावरणम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्या भक्तेः साधु-सङ्ग एव मूलम् इति स-युक्तिकम् आह—प्रसङ्गम् इति । मोक्षस्य सालोक्यादेर् द्वारम् अपावृतं निरावरणम् ऐकान्तिक-भक्तानाम् अपि मोक्षो भक्तेर् अननुसंहितं फलं भवतीति तथोक्तम् ॥२०॥

———————————————————————————————————————

॥ ३.२५.२१-२४ ॥

तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् ।

अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥

मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥

मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।

तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥

त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः ।

सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यादृशी मयि भक्तिः स्यात् तादृश्य् अन्यत्र नैव चेत् ।

अनन्य-भक्तिर् उद्रेकात् अनयैव तरेत् सृतिम् ॥ इति च ।

एकः पूर्णो हरिर् नान्यस् तद् अन्ये तद्-वशा मताः ।

इति ज्ञानं स्थिरं यत् तदैकात्म्य-ज्ञानम् उच्यते ॥ इति ब्रह्माण्डे ॥२३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : साधूनां लक्षणम् आह—तितिक्षव इति चतुर्भिः । साधवः शास्त्रानुवर्तिनः । साधु सुशीलं, तद् एव भूषणं येषाम् । एतान् उक्त-लक्षणान् भक्तान् तापा आध्यात्मिकादयो न तपन्ति न व्यथयन्ति । कुतः ? मद्-गतं चेतो येषां तान् । ये तापैर् नाभिभूयन्ते, ते साधव इत्य् अर्थः ॥२१-२४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : साधव एव केऽमी ? इत्य् आह—तितिक्षव इत्य्-आदि-बहुभिः । सर्वस्य तद्-भिन्नस्य विवर्जितं विशेषेण वर्जनं येभ्यः, भावे क्तः, अतः सङ्ग-दोष-हराःहि निश्चितम् एवार्थो वा, त एव सङ्ग-दोष-हरा इति ॥२१-२४॥

———————————————————————————————————————

सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.१६] ये तितिक्षवः क्षमा-शीलाः, सुहृदः निरुपाध्य्-उपकारिणः । शान्ताः क्रोधादि-रहिता विनयादिमन्तो वा । साधु सुशीलम् एव भूषणं येषां ते, तुलसी-मालादि-सद्-द्रव्यं वा । ते साधवः भगवद्-भक्ता इत्य् अर्थः । अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य् उपक्रम्य, साधवो हृदयं मह्यं [भा।पु। ९.४.६८] इत्य्-आद्य्-उपसंहारे वदता श्री-भगवता साधव एव भक्ता इत्य् अभिव्यञ्जनात् । एवं महच्-छब्देनापि मुख्यतया भगवद्-भक्त एवाभिधीयते, श्री-प्रह्लादोक्तौ हराव् अभक्तस्य कुतो महद्-गुणाः [भा।पु। ५.१८.१२] इत्य्-आदि-वचनार्थ-विचारात् । तथा सच्-छब्देनापि भगवद्-भक्त एव—

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या

कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः [भा।पु। ४.२२.३९]

इत्य्-आदि-वचनार्थानुसाराद् इत्य् एषा दिक् ॥२१॥

———————————————————————————————————————

सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.७३] [अनन्येन] न विद्यते किञ्चित् फलानु-सन्धानादिकं यस्मिन्, तेन विशुद्धेन भावेन इत्य् अर्थः । भावेन प्रेम्णा । अत एव दृढां परम-निष्ठां प्राप्तां भक्तिं श्रवणादि-रूपां विविधां केवल-नाम-सङ्कीर्तनात्मिकां वा ये कुर्वन्ति, ते साधव इत्य् उत्तर-श्लोकेनान्वयः । अत एव मत्-कृते मम कर्मणि निमित्ते । यद् वा, मत्-प्राप्त्य्-अर्थम् । यद् वा, मत्-प्रीत्येत्य् अर्थः । त्यक्तानि कर्माणि नित्य-नैमित्तिकादीनि सर्वाण्य् एव यैः । तथा त्यक्ताः स्वजना ज्ञातयो बान्धवाश् च सम्बन्धिनो यैस् ते ।

एतच् च प्रेम-निष्ठताया बाह्य-लक्षणं ज्ञेयम् । पूर्वम् आसक्ति-त्याग एव । ततश् च प्रीत्य्-अभाव एवोक्तः । अत्र सर्वथा स-मूल-त्याग एव दर्शितः । एवं पूर्व-पूर्वतो\ऽस्य श्रैष्ठ्यम् आयातम् । इत्थं व्रत-परताम् आरभ्य प्रेम-परता-पर्यन्तम् उत्तरोत्तरम्, तथा तत्-तद्-अवान्तरे च श्रैष्ठ्यम् ऊह्यम् । अत एव सर्वतः श्रेष्ठतमत्वाद् अस्याः सर्वान्ते लिखनम् । एवं श्री-हवि-योगेश्वरेणापि—विसृजति7 [भा।पु। ११.२.५५] इत्य् एतद् उक्तम् इति दिक् ॥२२॥

———————————————————————————————————————

सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.४२] एतान् मत्-कथायाः श्रोतॄन् वक्तॄंश् च । तापा आध्यात्मिकादयो न तपन्ति, न व्यथयन्ति । कुतः ? कथयैव मद्-गतं चेतो येषां, तान् । यद् वा, ये तापैर् नाभिभूयन्ते, ते साधव इत्य् अत्रार्थो द्रष्टव्यः, साधु-लक्षणान्तर्-उक्तत्वात् । ततश् च श्रवणादि-त्रयं तापान् अभिभूतत्वं चैकम् इत्य् एवं लक्षण-चतुष्टयम् उक्तम् । यद् वा, मद्-गत-चेतस इति । मत्-स्मरण-परांश् च न तपन्तीत्य् अर्थः । एवं क्रमेण श्रवण-कीर्तन-स्मरण-पराणां माहात्म्यं ज्ञेयम् । ते साधव इति साधु-लक्षणान्तः-पातितत्वात् स्वत एवायाति ॥२३॥

———————————————————————————————————————

सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.६६] सर्वेण बाह्येन आन्तरेण च सङ्गेन अन्यासक्त्या च विशेषतो वर्जिता रहिताः । एतच् च एकान्ति-लक्षणं दर्शितम् । अथ अतः तेष्व् एव सङ्गस् त्वया प्रार्थ्यः । स्वतः परम-पुरुषार्थत्वेन परम-दुर्लभत्वान् मनसापि वाञ्छनीयः, किम् उत वक्तव्यं साक्षात्-कार्य इत्य् अर्थः ।

यद् वा, ननु तर्हि तैः सह मम सङ्गो भवता क्रियताम्, तत्राह—तैः सङ्गः तेष्व् एव त्वया प्रार्थ्यः । एवार्थे अथ शब्दः, तेषां कृपयैव स्व-भक्त्या तत्-सङ्गः प्राप्येत, न त्व् अन्यथेथ्य् अर्थः ।

ननु सङ्गतः कथञ्चिद् राग-द्वेषा अपि सम्भवेयुः ? तत्राह—सङ्गे ये दोषास् तान् हरन्तीति तथा ते । यद् वा, सर्व-दर्शन-मात्रेणैव ते हरिष्यन्तीत्य् अर्थः । यद् वा, सङ्ग एव दोष-रूपो येषां ते निःसङ्गा यतय इत्य् अर्थः । तान् अपि हरन्ति स्व-गुणैर् आकर्षन्तीति तथा ते । अतस् तेषां माहात्म्येनैवाकृष्टा सती स्वयम् एव सर्वं त्यक्त्वा यास्यतीत्य् अर्थः । अलम् अतिविस्तरेण ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शान्ताः शम-दमादि-साधन-चतुष्टय-सम्पन्ना ज्ञानिनः साधव उच्यन्ते । वक्ष्यते च महान्तस् ते सम-चित्ताः प्रशान्ताः [भा।पु। ५.५.२] इत्य्-आदिना तेषाम् आनुषङ्गिकान् गुणान् आह—तितिक्षव इत्य्-आदिना । स्वयं साधवोऽपि ये [साधु-भूषणाः] साधून् अन्यान् भूषयन्ति मानयन्ति, साधव एव वा भूषणानि परिच्छदा येषां ते । तथा प्रसङ्गतः साधु-विशेषान् अप्य् आह—मयीति सार्धेन ॥२१-२२॥

तस्मान् न तपन्तीति उपसंहरति—त इति । सर्व-सङ्ग-विवर्जिताः पुरुषार्थ-चतुष्टयासक्ति-शून्याः । सङ्ग इत्य् अर्धकम् । हि-शब्द उत्तर-वाक्येऽपि हेतुः ॥२३-२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधूनां लक्षणम् आह चतुर्भिः । अत्र तटस्थ-लक्षणम् आह—तितिक्षव इति । शान्ता अनुग्राः । साधवः सरलाः । साधून् भूषयन्ति मानयन्तीति ते । यद् वा, साधव एव भूषणानीव प्रिया येषां ते ।

स्वरूप-लक्षणम् आह—मयीति । अन्यादि-पदानां सदृशार्थ-ग्राहकत्वात् न विद्यतेऽन्योऽहम् इवाराध्यो ब्रह्म-रुद्रादि-विषयो यस्य तेन भावेन दास्य-सख्यादिना अत

एवैक-मात्र-विषयत्वात् दृढाम् । मत्-कृते मत्-प्राप्त्य्-अर्थं सर्व-धर्मान् परित्यज्य [गीता १८.६६] इत्य्-आदि मद्-उक्तेः, त्यक्त-कर्माणः, ये दारागार [भा।पु। ९.४.६५] इत्य् आदौ, कथं तांस् त्यक्तुम् उत्सहे [भा।पु। ९.४.६५] इति मद्-उक्तेस् त्यक्त-स्वजनाद्याःमृष्टाः शुद्धा अमायिकीः एतान् भक्तान् तापा आध्यात्मिकादयो न तपन्ति न व्यथयन्ति । एते तापैर् नाभिभूयन्ते चेन् मद्-गत-चेतसः स्मरण-दार्ढ्यवन्तो ज्ञेयाः । सर्व-सङ्ग-विवर्जिताः पुरुषार्थ-चतुष्टयासक्ति-शून्याः ॥२१-२४॥

———————————————————————————————————————

॥ ३.२५.२५ ॥

सतां प्रसङ्गान् मम वीर्य-संविदो

भवन्ति हृत्-कर्ण-रसायनाः कथाः ।

तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि

श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-सङ्गस्य भक्त्य्-अङ्गताम् उपपादयति—सताम् इति । वीर्यस्य सम्यग् विद् वेदनं यासु, ता वीर्य-संविदःहृत्-कर्णयोः रसायनाः सुखदाः । तासां जोषणात् सेवनाद् अपवर्गोऽविद्या-निवृत्तिर् वर्त्म यस्मिन्, तस्मिन् हरौ । प्रथमं श्रद्धा, ततो रतिस्, ततो भक्तिर् अनुक्रमिष्यति, क्रमेण भविष्यतीत्य् अर्थः ॥२५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सत्-सङ्गस्य फलम् आह—सताम् इत्य्-आदि । सतां प्रसङ्गान् मम मद्-ईश्वरस्य श्री-कृष्णस्य । स्व-स्वामि-भावाद् उपचारः, यथा राज्ञः पुरुषो राजा । कथाः कीदृश्यः ? वीर्यस्य गोवर्धनोद्धरणादि-रूपस्य संविज्ञानं याभ्यः । एतेन श्री-कृष्णावतार-कथाः सूचिताः । अतो हृत्-कर्णयो रसायनाः । यद् वा, मम वीर्यं च संविच् च यस्मात् स मम वीर्य-संवित्, तस्य कथाः । मम इत्य् अव्ययं ममेश्वरस्येत्य् अर्थः । ममेति छेद-पक्षे कथानां फलम् आह—तज्-जोषणाद् इत्य्-आदि । अपवर्गः संसार-निवृत्तिस् तस्य वर्त्म-रूपे हरौ श्रद्धादयोऽनुक्रमेण भविष्यन्ति, श्रद्धानन्तरं रतिः, रत्य्-अनन्तरं भक्तिः ॥२५॥

———————————————————————————————————————

सनातन गोस्वामी : (ह।भ।वि। १०.२७३) वीर्यस्य सम्यग्-वेदनं यासु ता वीर्य-संविदः । अत एव हृत्**-कर्ण-रसायनाः** सुखदाः । तासां जोषणात् सेवनाद् अपवर्गोऽविद्या-निवृत्तिर् मोक्षो वा वर्त्म यस्मिंस् तस्मिन् हरौ प्रथमं श्रद्धा, ततो रतिस्, ततो भक्तिर् अनुक्रमिष्यति, क्रमेण भविष्यतीत्य् अर्थः । रतिश् च रत्य्-आख्यो भावः । भक्तिश् च प्रेम-लक्षणा । एतद्-विवरणं च श्री-महानुभावैर् एव रसार्णवे कृतम् अस्त्य् एव8 ॥२५॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): (बृ।भा। २.७.१४): अस्यार्थः—वीर्यस्य मन्-माहात्म्यस्य संवित् सम्यग् वेदनं याभ्यस् ताः हृत्-कर्णानां रसायनाः सुख-प्रदाः, तासां जोषणात् सेवनात् अपवर्गो\ऽविद्या-निवृत्तिर् मोक्षो वा वर्त्म-प्रापको यस्य, तस्मिन् हरौ प्रथमं श्रद्धा विश्वासः, ततो रतिः प्रेमा, ततो भक्तिः सेवा-निष्ठता अनुक्रमिष्यति अनुक्रमेण भविष्यतीत्य् अर्थः ।

यद् वा, अनु पश्चाद् आयास्यति स्वत एव सिध्यतीत्य् अर्थः । ततश् चोक्त-क्रमो\ऽत्राविवक्षितः, किन्तु आदौ श्रद्धा, ततो भक्तिः कीर्तनाद्या, ततो रतिः प्रेम इति बोद्धव्यम् । भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१] इत्य्-आदिना सर्वत्रैव भक्तेर् अपि प्रेम-फलत्वोक्तेर् इति ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सताम् इति । रसायनत्वेन प्रथमं रुचिः, तत्रापि पतितोद्धरणादि-चरित-श्रवणेन श्रद्धा विश्वासः, ततो रति-भक्ती भक्तेः पूर्वापरावस्थे ॥२५॥

मुकुन्दः (भक्ति-रसामृत-सिन्धु १.३.१२): सताम् इति प्रसङ्गाद् इति भक्तौ श्रद्धावद्भिर् यः सतां सङ्गः प्रसङ्गःवीर्य-संविद इति अभिविनिवेशः, पुनः पुनः श्रवणेनैव वीर्य-संवेदनस्य सम्भवात् । श्रद्धा आसक्तिः । भक्तिः प्रेम-लक्षणा ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधु-सङ्गत एव भगवति मनो रतिं वहतीत्य् अत्र क्रमम् आह सताम् इति । सङ्गः प्रार्थ्य इति पूर्वोक्तेः प्रथमं श्रद्धा ततः सतां प्रकृष्टात् सङ्गान् मम कथा भवन्तीत्य् आदाव् अप्रकृष्टात् सङ्गाद् भजन-क्रिया-मात्रम्, न तु कथाः । ततः प्रकृष्टात् सङ्गाद् अनर्थ-निवृत्तिकाः कथा भवन्ति । ततस् ता एव कथा निष्ठाम् उत्पादयन्त्यो मम वीर्यस्य मन्-माहात्म्यस्य संवित् सम्यग् वेदनं यतस् तथाभूता भवन्ति । ततो रुचिम् उत्पादयन्त्यो हृत्-कर्ण-रसायना भवन्ति । ततस् तासां कथानां जोषणात् प्रीत्या आस्वादनात् अपवर्गो वर्त्मन्य् एव यस्य तस्मिन् भगवति श्रद्धा आसक्तिः, रतिर् भावः, भक्तिः प्रेमा अनुक्रमिष्यति अनुक्रमेण भविष्यति । सम्प्रति मया प्रवर्त्यमाना भक्तिर् एवम् अनुक्रमेण लोके प्रचरयिष्यतीत्य् अर्थः ॥२५॥

———————————————————————————————————————

विश्वनाथः (भक्ति-रसामृत-सिन्धु १.३.१२): सतां प्रसङ्गान् मम वीर्य-संविदो जनस्य मम कथा हृत्-कर्ण-रसायणा भवन्ति । अपवर्ग-वर्त्मनि श्री-कृष्णे ॥१२॥

———————————————————————————————————————

॥ ३.२५.२६ ॥

भक्त्या पुमान् जात-विराग ऐन्द्रियाद्

दृष्ट-श्रुतान् मद्-रचनानुचिन्तया ।

चित्तस्य यत्तो ग्रहणे योग-युक्तो

यतिष्यते ऋजुभिर् योग-मार्गैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् ? अत आह—भक्त्येति । मम रचना या सृष्ट्य्-आदि-लीला, तस्या अनुचिन्तया या भक्तिः, तया ऐन्द्रियात् सुखाज् जात-विरागः सन् । दृष्ट-श्रुताद् ऐहिकामुष्मिकात् । ततो यत्त उद्युक्तः सन् चित्तस्य ग्रहणे यतिष्यतेऋजुभिर् भक्ति-प्रधानत्वाद् अनायासैः ॥२६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्त्य्-अनन्तरं किम् ? इत्य् आह—भक्त्येत्य्-आदि । चित्तस्य ग्रहणे निग्रहे यत्तो भवति । एवं चेत् स एव योग-युक्तः कैर् उपायैः ? इत्य् आह—ऋजुभिः सुख-साध्यैर् अकुटिलैर् वा योग-मार्गैःयोगो भक्ति-योगस् तस्य मार्गैर् मार्ग-रूपैः श्रवणादिभिः, न तु श्रम-बहुलैः कुटिलैर् अष्टाङ्ग-योगैः, तेषाम् अनृजुत्वात् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तत्र सङ्गिनो द्विविधाः सत्सु ज्ञानादि-साधारण-दृष्टयस् तेभ्योऽप्य् उत्कृष्ट-दृष्टयश् च । तत्रान्त्यानां मुख्यां भक्तिम् अग्रे वैशिष्ट्येन मातुर् उत्कण्ठानन्तरं निर्देष्टुं साधारण-दृष्टीनां गौणीं निर्दिशति—भक्त्येति द्वाभ्याम् । भक्त्यैव विरक्तत्वम् उद्युक्तत्वं योगे योग्यत्वं चेत्य् अधिकारि-विशेषणानि ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुद्धां भक्तिम् उक्त्वा योगम् आह—भक्त्येति । दृष्ट-श्रुताद् ऐहिकामुष्मिकात् मद्-रचनानां मल्-लीलानाम् अनुचिन्तया योग-युक्तः सन् चित्तस्य ग्रहणे स्व-वशीकारे यत्तो यत्नवान् अपि ऋजुभिर् भक्ति-संवलितत्वेन सुगमैर् योग-मार्गैः सम्प्रति मत्-प्रवर्तयिष्यमाणैर् यतिष्यते अग्रे जनिष्यमाणः पुमान् इत्य् अर्थः ॥२६॥

———————————————————————————————————————

॥ ३.२५.२७ ॥

असेवयायं प्रकृतेर् गुणानां

ज्ञानेन वैराग्य-विजृम्भितेन ।

योगेन मय्य् अर्पितया च भक्त्या

मां प्रत्यग्-आत्मानम् इहावरुन्धे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं प्रकृतेर् गुणानाम् असेवया ज्ञानादिभिश् च अयं जीव इहैव देहे माम् एव अवरुन्धे प्राप्नोति ॥२७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ततः किं भवति ? इत्य् आह—असेवयेत्य्-आदि । प्रकृतेर् गुणानाम् असेवया अशीलनेन च ज्ञानेनवैराग्य-विजृम्भितेन, अर्पितया प्रापितया मयि भक्त्या माम् इह देह एव अवरुन्धे प्राप्नोति ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : असेवया हेयत्व-विचारेण ज्ञानेन तत्-त्वं-पदार्थम् अवरुन्धे । त्वं-पदार्थ-निर्णयेन विषय-वैतृष्ण्य-प्रकाशितेन योगेन अष्टाङ्गेन मय्य् अर्पितया मद्-अनन्य-विषयया च भक्त्या मां प्रत्यग्-आत्मानं तत्-पदार्थम् अवरुन्धे त्वं-पदार्थ-तादात्म्येन प्राप्नोति ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगम् उक्त्वा ज्ञानम् आह—असेवयेति । प्रकृतेर् गुणानां विषयाणां या असेवा निष्काम-कर्म-लभ्या, तया यज् ज्ञानं, तेन मां प्रत्यग्-आत्मानं तत्-पदार्थम् अवरुन्धे प्राप्नोति । योगेन इति यमादीनाम् अपि ज्ञानाङ्गत्वात् । भक्त्या इति भक्तिं विना-भूतस्य ज्ञानस्य वैफल्यात् ॥२७॥

———————————————————————————————————————

॥ ३.२५.२८ ॥

देवहूतिर् उवाच—

काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा ।

यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : काचिद् इति का स्विद् इत्य् अर्थः । उचिता योग्या । तत्रापि मम स्त्रियाः कीदृशी ? गोचरा योग्या । निर्वाणं मोक्षात्मकं तव पदं स्वरूपम् अन्वाश्नवै अनन्तरम् एव सर्वात्मना प्राप्स्यामि । अञ्जसा त्व् इति पाठे अहं त्व् इति संबन्धः ॥२८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भक्त्या त्वत्-पदाब्जं निर्वाणं च यथा-स्पृहं जना लभन्ते। सा भक्तिः कीदृशी ? किं-प्रकारका मया कर्तव्या ? किं चरणारविन्द-प्राप्त्यै, किं निर्वाणार्थम् ? इति स्त्रियं मां स्पष्टतया कथयेति देवहूतिर् आह—काचिद् इत्य्-आदि । मम अमलायाः त्वयि भक्तिः काचिद् उचिता योग्या, किं चरणारविन्द-प्रापिका ? किइं निर्वाण-प्रापिका ? कीदृशी ? गोचरा गोचरी-कर्तव्या, यया ते तव पदं चरणारविन्दं निर्वाणंअञ्जसा नातिदुःखेन अन्वाश्नवै ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ पूर्व-पूर्व-निर्दिष्ट-भक्तेर् एव सर्व-जीवत्वम् अधिगम्य ताम् एव पृच्छन्ति, तत्रापि दैन्येन सर्वत्र निजानधिकारितां मन्वाना तद्-विशेषं पृच्छति—काचिद् इत्य्-आदिना । भक्तिर् नाम कीदृशी ? किं-लक्षणेत्य् अर्थः । तस्यां च भक्ति-जातौ काचिद् भक्तिस् त्वयि ममोचिता सती गोचरी-कर्तुं शक्या स्याद् इति ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काचिद् इति का स्विद् इत्य् अर्थः । त्वय्य् उचिता त्वयि युज्यत इत्य् अर्थः । न युज्यमानयेत्य् अनेन युज्यमानाया भक्तेर् उत्कर्ष-श्रवणात् मम स्त्रियाः कीदृशी गोचरा ज्ञातुं कर्तुं च शक्येत्य् अर्थः । पदं त्वच्-चरणारविन्दं निर्वाणं निर्वृति-स्वरूपम् । निर्वाणम् अस्तं गमने निर्वृतौ, गज-मज्जने सङ्गमेऽप्य् अपवर्गे च इति मेदिनी । यद् वा, निर्वाणं निष्कण्टकं यथा स्यात् तथा अन्वाश्नवै प्राप्स्यामि अञ्जसा स्वाश्नवा इति पाठे अहं त्व् इति सम्बन्धः ॥२८॥

———————————————————————————————————————

॥ ३.२५.२९ ॥

यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः ।

कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-बाणो यो भगवन्तं लक्षी-करोतीत्य् अर्थः । यतो यस्माद् योगात् ॥२९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : चरणारविन्द-प्राप्ति-निर्वाणयोर् उपक्रान्तयोर् मध्ये पुनर् भक्तिर् एव कर्तव्येत्य् आशयेनाह—यो योग इत्य्-आदि । भगवद्-बाणो भगवतोऽङ्गद-भेदकत्वेन भगवद्-बाणत्वं भक्ति-योगस्यैव भक्त-वशत्वात् । स वा कीदृशः ? कति वा तस्याङ्गानि ? यतो योगात् तत्त्व-ज्ञानं भगवत्-तत्त्व-ज्ञानं योगो भक्ति-योगो निर्वाणार्थो निर्वाण-निवर्तकः—मशकार्थो धूमः इत्य्-आदिवत् । उदितो वक्ष्यमाणत्वे भविष्यति अतीतः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि त्वत्-सम्मतायां भक्ताव् एव मम जिज्ञासा चिकीर्षा च तद् अपि जिज्ञासुना निज-मतं ज्ञेयं पर-मतं बुधैर् इति नित्य-योगश् च ज्ञानं च मम जिज्ञास्यम् इत्य् आह—यो योग इति । भगवति बाणस् तत्र क्षिप्तः शर इव यो भगवन्तं लक्ष्यीकरोतीत्य् अर्थः। निर्वाणार्थः मोक्ष-प्रयोजनकः । तथा यतस् तत्त्वानाम् अवबोधनं तज्-ज्ञानं च कीदृशम् ॥२९॥

———————————————————————————————————————

॥ ३.२५.३० ॥

तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे ।

सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विजानीहि विशेषेण ज्ञापय । सुखम् अनायासेन ॥३०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् एतद् इत्य्-आदि । मन्द-धीर् यतोऽहं योषा ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मात् एतन् मे मां विजानीहि विज्ञापय ॥३०॥

———————————————————————————————————————

॥ ३.२५.३१ ॥

मैत्रेय उवाच—

विदित्वार्थं कपिलो मातुर् इत्थं

जात-स्नेहो यत्र तन्वाभिजातः ।

तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं

प्रोवाच वै भक्ति-वितान-योगम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शुक्लेन जनिर् अन्येषां हरेः स्वतन्वा वैवतु ।

नित्योदित-ज्ञान-तनोः कुतः स्यात् शुक्लतो जनिः ॥इति गारुडे ॥३१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्थं मातुर् अर्थं प्रयोजनं विदित्वा । जात-स्नेहत्वे हेतुः—यत्र यस्यां तन्वा देहेन आविर्भूतः । तत्त्वान्य् आम्नायन्तेऽनुक्रम्यन्ते यस्मिन् । किं तत् ? यत् साङ्ख्यं प्रवदन्ति तत् प्रोवाच भक्ति-वितानं, वितानं च योगं च ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थं प्रयोजनम् । स्नेहे हेतुर् यत्र तन्वा देहेन आविर्भूतः । तत्त्वान्य् आम्नायन्ते अनुक्रम्यन्ते यस्मिन् । किं तत् ? यत् साङ्ख्यं प्रवदन्ति, तत् प्रोवाच भक्ति-वितानं योगं च ॥३१॥

———————————————————————————————————————

॥ ३.२५.३२-३३ ॥

श्री-भगवान् उवाच—

देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् ।

सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ॥

अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।

जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आनुश्राविक-कर्मासौ श्रुत्य्-उक्तं यो न लङ्घयेद् इति भविष्य-पर्वणि । सदा सर्व-गुणाढ्यत्वात् सत्त्वो विष्णुर् उदीर्यते इति कापिलेये ।

अपूर्ण-भक्तेर् मुक्तौ तु न सुखं पूर्तिम् एष्यति ।

अतस् तादृश-मुक्तेश् च भक्तिः पूर्णा गरीयसी ॥ इति च ॥३२-३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : काचित् त्वय्य् उचिता भक्तिः [भा।पु। ३.२५.२८] इति पृष्टाम् उत्तमां भक्तिं लक्षयति—गुणा विषया लिङ्ग्यन्ते ज्ञायन्ते यैः, तेषां देवानां द्योतनात्मकानाम् इन्द्रियाणां तद्-अधिष्ठातॄणां वा सत्त्वे सत्त्व-मूर्तौ हराव् एव या वृत्तिः, सा भक्तिः सिद्धेर् मुक्तेर् अपि गरीयसीत्य् उत्तरेणान्वयः । कथं-भूता ? अनिमित्ता निष्कामा । स्वाभाविक्य् अयत्न-सिद्धा । तेषाम् एवं-विध-वृत्तौ हेतुम् आह—गुरोर् उच्चारणम् अनुश्रूयत इत्य् अनुश्रवो वेदः, तद् विहितम् आनुश्रविकं, तद् एव कर्म येषाम् । अत एव एकम् एक-रूपम् अविकृतं मनो यस्य पुंसः शुद्ध-सत्त्वस्येत्य् अर्थः ॥३२॥

मुक्तिश् च प्रासङ्गिकी भवत्य् एवेत्य् आह—या भक्तिः कोशं लिङ्ग-शरीरं जरयति क्षपयति । स्व-प्रयत्नं विनैव सिद्धौ दृष्टान्तः—निगीर्णं भुक्तम् अन्नम् अनलो जाठरो यथा जरयतीति ॥३३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : योगो भक्ति-निर्वाण इति भक्ति-जिज्ञासायां भक्तेर् लक्षणम् आह—देवानाम् इत्य्-आदि सार्धेन । गुण-लिङ्गानाम् इन्द्रियाणां तद्-अधिष्ठातृ-देवतानां वा वृत्तिः । सा यद्य् अनिमित्ता अहैतुकी सती एकं निश्चलं मनो यस्य तस्य पुरुषस्य सत्त्वे श्री-कृष्णे, सतां भक्तानां भावः सत्त्वं, तत् तु श्री-कृष्ण एव, तेनैव ते सन्त इत्य् अर्थः । स्वाभाविकी गङ्गा-प्रवाहवन् निरन्तरं प्रवहद्-रूपा भवति, तदा असौ भक्ति-शब्द-वाच्या भवति । सा भक्तिः सिद्धेः कैवल्याद् अपि गरीयसी

ननु तेषां देवानां वृत्तिर् एव का ? इत्य् आह—आनुश्रविकं वैदिकं कर्म येषाम् इत्य् अनेन निषिद्धेतर-कर्माचरण-वृत्तिस् तेषाम् । ननु कासौ भक्तिः ? इत्य् आह—जरयतीत्य्-आदि । या कोशं लिङ्ग-शरीरम् आशु शीघ्रं जरयति ॥३२-३३॥

———————————————————————————————————————

सनातन गोस्वामी- (ह।भ।वि। ११.५७६) अनिमित्ता निष्कामाः । सिद्धेर् मुक्तेर् अपि गरीयसी । मुक्तिश् चानुषाङ्गिकी भवत्य् एवेत्य् आह—या भक्तिः कोषं लिङ्ग-शरीरं जरयति क्षपयति । प्रयत्नं विनैव सिद्धौ दृष्टान्तः—निगीर्णं भुक्तम् अन्नं जाठरोऽग्निर् यथा जरयतीति। देवानां गुण-लिङ्गानां [भा।पु। ३.२५.३२] इत्य्-आदि-श्लोकोऽत्र न सङ्गृहीतः । तत्र भक्ति-लक्षणोक्तेर् गरीयस्त्वं च । भक्तेस् तत्रैवोक्तं नैकात्मतां ये स्पृहयन्ति केचित् [भा।पु। ३.२५.३४] इत्य्-आदि-श्लोक-पञ्चकेन । तद् अत्रानुपयोगान् न सङ्गृहीतम् । एवम् अन्यद् अप्य् ऊह्यम् ॥३३॥

———————————————————————————————————————

सनातन गोस्वामी- (ह।भ।वि। ११.६१४) देवानां द्योतनात्मकानाम् इन्द्रियाणां तद्-अधिष्ठातॄणां वा सत्त्वे सत्त्व-मूर्तौ श्री-भगवत्य् एव या वृत्तिः, सा भक्तिः । एवं श्रवणादि-लक्षणान्य् एवोद्दिष्टानीति सामान्यतो लक्षणम् । गुणा विषया लिङ्ग्यन्ते जायन्ते यैस् तेषाम् इति सदा विषय-निष्ठता दर्शिताः । तेषाम् एवं-विध-वृत्तौ हेतुम् आह—गुरोर् उच्चारणम् अनुश्रूयते इत्य् अन्श्रवो वेदः तद्-विहितम् आनुश्रविकम्, तद् एव कर्म येषाम् । अत एव एकम् एक-रूपम् अविकृतं मनो यस्य पुंसः शुद्ध-सत्त्वस्य सत इत्य् अर्थः । यद् वा, एकस्मिन् भगवत्य् एव मनो यस्य । अस्य पदस्य परेण वा सम्बन्धः । सा च भगवती भगवत्-सम्बन्धिनी भक्तिर् एक-मनसः पुंसः सती । अत एव अनिमित्ता निष्कामा सती । अत एव स्वाभाविकी अयत्न-सिद्धा च सती सिद्धेर् मोक्षाद् अपि गरीयसी भवतीत्य् अन्वयः । एवम् आदौ सामान्य-लक्षणम् उक्त्वा पश्चाद् उत्तमत्वम् उक्तम् । काचित् त्वय्य् उचिता भक्तिः [भा।पु। ३.२५.२८] इति श्री-देवहूत्योत्तम-भक्तेः पृष्टत्वात् ॥३२-३३॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीटि-सन्दर्भः ६१) : अथैनं भगवत्-प्रीतिं साक्षाद् एव लक्षयति सार्धेन—देवानाम् इति । [अतः परं क्रम-सन्दर्भवत्।]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देवानाम् इति युग्मकम् । तत् [तस्यां] करुणया तद् उचितं भक्ति-विशेषम् अपि प्रतिपादयिष्यन् मुख्याम् एव भक्तिं लक्षयति—देवानाम् इति सार्धेन ।

पूर्वं श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [भा।पु। ३.२५.२५] इत्य् उक्तम् । अत्र यद्यपि रति-भक्त्योर् द्वयोर् अपि तारतम्य-मात्र-भेदयोः प्रीतित्वम् एव, तथापि प्रीत्य्-अतिशय-लक्षणायां प्रेमाख्यायां भक्तौ तद् अतिस्फुटं स्याद् इति कृत्वा भक्ति-पदेन ताम् उपादाय लक्षयति ।

अर्थश् चायम्—गुण-लिङ्गानां गुण-त्रयोपाधीनाम् । आनुश्रविकं श्रुति-पुराणादि-गम्यं कर्म आचरितं येषां ते तथोक्ताः । तेषां देवानां श्री-विष्णु-ब्रह्म-शिवानां मध्ये सत्त्वे सान्निध्य-मात्रेण सत्त्व-गुणोपकारके स्वरूप-शक्ति-वृत्ति-भूत-शुद्ध-सत्त्वात्मके वा श्री-विष्णौ । एतच् चोपलक्षणम् । श्री-भगवद्-आद्य्-अनन्ताविर्भावेष्व् एकस्मिन्न् अपीत्य् अर्थः। एव-कारेण नेतरत्र, न च तत्रापि च, इतरत्रापि च । एक-मनसः पुरुषस्य या वृत्तिः, तद्-आनुकूल्यात्मको ज्ञान-विशेषः । अनिमित्ता फलाभिसन्धि-शून्या । स्वाभाविकी स्वरसत एव विषय-सौन्दर्याद् अयत्नेनैव जायमाना, न च बलाद् आपाद्यमाना । सा भागवती भक्तिः प्रीतिर् इत्य् अर्थः ।

प्रीति-सम्बन्धाद् एवानन्यस्या भक्तेः स्वाभाविकत्वं स्यात् । तस्माद् वृत्ति-शब्देन प्रीतिर् एवात्र मुख्यत्वेन ग्राह्येति । सा च सिद्धेर् मोक्षाद् गरीयसी, सालोक्य-सार्ष्टि- [भा।पु। ३.२९.१३] इत्य्-आदि-श्रवणात् । अत एव ज्ञान-साध्यस्यापि तिरस्कार-प्रसिद्धेर् ज्ञान-मात्र-तिरस्कारार्थ-सिद्धेर् ज्ञानाद् इति व्याख्यानम् असदृशम् । अत्र मोक्षाद् गरीयस्त्वत्वेन तस्या वृत्तेर् गुणातीतत्वं, ततोऽपि घन-परमानन्दत्वं [श्री-भगवत्-प्रसाद-विशेषेणैव मनस्य् उदित्वरत्वम्, तत्-तादात्म्येनैव तद्-वृत्ति-व्यपदेश्यत्वं] च दर्शितम् ॥ [प्रीति-सन्दर्भ ६१]

तस्या आनुषङ्गिकं गुणम् आह—जरयतीत्य् अर्धेन ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र भक्ति-वितानं वक्तुं काचित् त्वय्य् उचिता भक्तिर् [भा।पु। ३.२५.२८] इति पृष्टां भगवति युक्ताम् उत्तमां निर्गुणां भक्तिं लक्षयति—देवानाम् इति । सत्त्व एव शुद्ध-सत्त्व-मूर्तौ हराव् एव, न तु देवतान्तरे । एकम् एक-स्वरूपम् एव सेव्य-बुद्धि-मयत्वेन त्वद्-रूप-नामाद्य्-उपादित्सु, न तु योगि-जनादेर् इवायत्यां तज्-जिहासु मनो यस्य, तस्य पुरुषस्य । तथा एकस्मिन् भजन एव, न तु ज्ञान-कर्मादिषु मनो यस्य तस्य पुंसः । गुणाः शब्दादयो विषयाः लिङ्ग्यन्ते ज्ञाप्यन्ते यैस् तेषां देवानाम् इन्द्रियाधिष्ठातॄणां सद्-विषयत्वाद् दीव्यतां क्रीडताम् इन्द्रियाणां वा सत्त्वे हराव् एव या वा वृत्तिस् तदीय-शब्दादि-ग्रहण-रूपा व्यापृतिर् अनियन्ता निष्क्रामा सा भागवती भक्तिर् इत्य् अन्वयः ।

तत्र सत्त्व एव एक-मनस इति सत्त्व एव इन्द्रियाणां वृत्तिर् इति काकाक्षि-गोलक-न्यायेनोभयत्रान्वितम् । अत्र सत्त्व इत्य् अनेन सत्त्व-गुणवति ब्रह्म-रुद्रादाव् इति नाशङ्क्यं भागवतीत्य् अनेन तद्-व्यावृत्तेः । यद् वा, सत्यं भावः सत्त्वं वैष्णवत्वम् । तत्र एक-मनसः वैष्णवो भव्यम् इत्य् एकान्त-मनसो वैष्णवत्वे एव या इन्द्रियाणां वृत्तिः सा भक्तिः । न च स्वच्छन्देनैव प्रवर्तमानां तेषां वृत्तिर् भक्तिः । किन्तु श्री-गुरोर् उपदिष्ट-मन्त्रोचिताचरणवताम् इत्य् आह—गुरोर् उच्चारणम् अनुश्रूयत इत्य् अनुश्रवो मन्त्रस् त्वद्-विहितम् आनुश्रविकं, तद् एव कर्म नित्य-कृत्यं येषां तेषाम् । किं च—

उत्सर्गान् मल-मूत्रादेश् चित्त-स्वास्थ्यं यथा भवेत् ।

अतः पायुर् उपस्थश् च तद्-आराधन-साधनम् ॥

इति विष्णु-रहस्योक्तेः पायूपस्थयोर् अपि वृत्तिर् भक्ति-सम्बन्धेन भक्तिर् इति वैधी साधन-भक्तिर् लक्षिता ।

अथ तु-कारेण पृथक्-कृत्य तत्-साध्यां भाव-भक्तिं रागानुगाख्यां च तथा-भूतानाम् एव स्वाभाविकी वृत्तिः सा सिद्धेर् मुक्तेर् अपि गरीयसी श्रेष्ठतरेति स्वाभाविक्य् अपि वृत्तिर् मुक्तेर् गुरुः श्रेष्ठेत्य् अर्थो लभ्यते ।

स्वाभाविकी वृत्तिश् च द्विविधा—कस्यचित् शास्त्र-शासनेनैव श्री-गुरूपदिष्ट-शुद्ध-भक्तौ प्रवृत्तिमतो भजनाभ्यास-पौनःपुण्येन निष्ठा-रुच्य्-आसक्ति-भूमिका अधिरूढस्येन्द्रियाणां वृत्तिर् हरौ स्वाभाविकी भवति, यथा प्राकृत-लोकानां पति-पुत्रादिषु कस्यचिच् च प्राचीनार्वाचीन-तादृश-महत्-सङ्ग-कृपा-जनित-विलक्षण-संस्कार-वशेन गुरूपदेशात् पूर्वम् एवानन्तरम् एव वा शास्त्र-शासनं विनैव स्वभावत एवेन्द्रियाणां भक्ति-शास्त्रोक्ताचरणवती एव या हरौ वृत्तिः, सापि स्वाभाविकी ज्ञेया, पूर्वस्या वैध-भक्तेः प्रमाणेनैवोत्कर्षः । उदाहरणं च—नैकात्मतां [भा।पु। ३.२५.३४] इत्य्-आदि पद्य-चतुष्टयं ज्ञेयम् । परस्या रागानुगायास् ते जात्यैवोत्कर्ष उदाहरणं च न कर्हिचिद् [३.२५.३८] इति पद्यम् । अस्वाभाविक्यां तु स्वाभाविकीभ्यां सकाशात् प्रमाणेन जात्या च निकर्षः । उदाहरणं चेमं लोकं तथैवामुं [भा।पु। ३.२५.३९] इत्य्-आदि-पद्य-द्वयम् ।

अस्या द्विविधाया अपि भक्तेर् निष्कामत्वाद् अनुसंहितं फलं सैव भक्तिर् अननुसंहितं फलं तु मोक्षस् तम् आह—जरयतीति । या भक्तिः कोशं लिङ्ग-शरीरं जरयति क्षपयति । किं च—ज्ञान-हेतुकान् मोक्षाद् अस्य मोक्षस्य दृष्टान्तेन वैलक्षण्यम् आह निगीर्णं भुक्तम् अन्नादिकम् अनलो जाठरो यथा जरयतीति स हि जाठरानलो देह-पुष्ट्य्-अन्यार्थानुपपत्तेर् भुक्तस्यान्नादेर् असारांशम् एव जरयति सारांशेन तु प्राणेन्द्रियादीनि सप्त-धातूंश् च पूष्यति ।येनैवोजः सहो बलवान् देहो भवति तथैव भक्तिर् मायिकान् एव शब्दादींस् तत् करण-कर्त्रादींश् चासारांशान् एव जरयति न तु सारांशान् भगवत्-सम्बन्धिनः शब्दादीन् अप्राकृतांस् तद्-इन्द्रियादींश् च जरयति । चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् [तै।उ। २.७] इत्य्-आदि-श्रुतेः ।

यैर् एव भक्तानां देहः सिद्धो भवति, अत एव मायिकोऽसारांश एव लिङ्ग-कोशो देहेन्द्रियादि-शब्दैः शास्त्रेषूच्यते । यथा देहेन्द्रियासु-हीनानां विकुण्ठ-पुर-वासिनाम् [७.१.३४] इत्य्-आदि । यथा च पुरुष-प्रयत्नं विनैव जाठरोऽग्निर् भुक्तान्नादिकं जरयति, येन प्रकारेण जरयति तं प्रकारं च पुरुषो न जानात्य् एवं मोक्षार्थं किम् अप्य् अयतमानं श्रवण-कीर्तनादिकम् एव नित्यं कुर्वाणं तन्-माधुर्यास्वाद-मत्तं भक्त-जनं भक्तिः संसारान् मोचयति । भक्तस् तु केन प्रकारेण कदा मे मुक्तिर् अभूद् इति नानुसन्धत्ते । यद् वक्ष्यते—त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिं [भा।पु। १०.२.३०] इति पथि गच्छतः पुंसो गोष्पद-लङ्घनानुसन्धानं यथा न भवति, तथेति ।

भक्तानां त्रिभूमिक-ब्रह्म-ज्ञानाभावेऽपि,

नायम् आत्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन ।

यम् एवैष वृणुते तेन लभ्यस्

तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क।उ। १.२.२३]

इति श्रुतेर् भगवत्-कारुण्याद् भक्त्या तद्-रूप-गुण-लीलैश्वर्य-माधुर्यानुभव-रूपाज् ज्ञानाद् एव मोक्षः । तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८] इति श्रुताव् अप्य् एव-कारेण मुक्तौ तस्यैव ज्ञानस्य कारणत्वेनोक्तेस् तज् ज्ञानं चोक्त-प्रकारकम् एव, सर्वथा तत्-स्वरूप-ज्ञानं तु—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। १.२.१] इति । यस्यामतं तस्य मतं मतं यस्य न वेद सः [के।उ। २.३] इति । द्युपतय एव ते न ययुर् अन्तरम् अनन्ततया [भा।पु। १०.८७.४१] इत्य्-आदि-श्रुति-स्मृतिभ्यो न कस्यापि सम्भवत्य् एव

जीव-ब्रह्मैक्य-रूपा मुक्तिस् तु भक्तैस् त्याज्यैवेत्य् अग्रे वक्ष्यते । किं च, भुक्तम् अन्नादिकं जाठरानलो भोजन-क्षणत एव जरयितुं प्रवृत्तोऽपि त्रिचतुर्याम् आनन्तरम् एव सम्यक्तया जरयति यथा तथा भजन-दशायां शोक-मोहाद्य्-आत्मकं संसारं नाशयितुं प्रवृत्तापि भक्तिः किंचित् काल-विलम्बेनैव सम्यक्तया नाशयतीत्य् अतो भजन-दशायां शोक-मोहाद्य्-अनपगमेऽपि भक्तेषु संसारोऽयम् इति न प्रत्येतव्यम् इति ज्ञेयम् ।

तद् एवं गुरूपदिष्ट-मन्त्रवती भक्ति-शास्त्रोक्त-विध्य्-अनुसारिणी अन्याभिलाषिता-शून्या ज्ञान-कर्मादि-रहिता भगवति श्रोत्रादीन्द्रियाणां वृत्तिर् भक्तिः । सा चाल्प-प्रमाणा साधन-भक्तिर् अस्वाभाविकी भवति । सैव पूर्ण-प्रमाणा साध्य-भक्तिः स्वाभाविकी भाव-भक्तिर् भवतीति । सैव काचिद् अल्प-प्रमाणापि जात्यैवाधिक्यात् स्वाभाविकी चेद् रागानुगा नाम्नी साधन-भक्तिः । सा च जाति-प्रमाणाभ्यां पूर्णा रागानुगीय-भाव-भक्तिर् भवतीति विवेको भक्ति-रसामृत-सिन्धौ ज्ञेयः ॥३२-३३॥

———————————————————————————————————————

॥ ३.२५.३४ ॥

नैकात्मतां मे स्पृहयन्ति केचिन्

मत्-पाद-सेवाभिरता मद्-ईहाः ।

येऽन्योन्यतो भागवताः प्रसज्य

सभाजयन्ते मम पौरुषाणि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नेच्छन्ति सायुज्यम् अपि फलत्वेन हरिर् यदि ।

ददाति भक्ति-सन्तुष्ट आज्ञात्वेनैव गृह्णते ।

तादृशानां सुखाधिक्यं पुनर् मुक्तौ भविष्यति ॥ इति ॥३४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तेर् गरिष्ठत्वम् एवोपपादयति—नैकात्मताम् इति पञ्चभिः । एकात्मतां सायुज्य-मोक्षम् । मद्-अर्थम् ईहा क्रिया येषाम् । प्रसज्य आसक्तिं कृत्वा । पौरुषाणि वीर्याणि॥३४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भक्तानां कथं तथा न भवति ? इत्य् आह—नैकात्मताम् इत्य्-आदि । केचिद् विरला मे मया सह एकात्मतां न स्पृहयन्ति, अत एव तथा न भवति । अत उक्तं निर्वाणात्मन् [भा।पु। ३.२५.२९], अपि च सिद्धिर् मोक्षः, सा तु देह-द्वय-ध्वंस-मात्रं करोति । भवतिस् तु देह-द्वयानन्तरं शुद्धां भागवतीं तनुं भजतां कारयतीति ततो\ऽपि गरीयस्त्वं भक्तेः । भक्त-विग्रहस् तु लिङ्ग-शरीरातिरिक्तो भगवद्-इच्छात्म-कृतो भगवल्-लीलानुकूल इत्य् अर्थः । तथा च नारायणीये, अनिन्द्रिया अनाकारा [म।भा। १२.१६२.९] इत्य्-आद्य् उपक्रम्य, वज्रास्थिकाया [म।भा। १२.१६२.१०] इत्य्-आद्य्-अन्तं,

ये च मुक्ता भवन्तीति न वा भवन्ति सत्तम ।

तेषां लक्षणम् एतद् धि श्वेतद्वीप-निवासिनाम् ।[म।भा। १२.१६२.१४] इत्य् अन्तं च ।

भक्तेच्छा-सम्पादनं हि व्रतं, तेन मयापि तथैव सम्पाद्यते, तर्हि त एव के ? इत्य् आह—मत्-पादेति । मत्-पाद-सेवायाम् अभि अभितो रताः, मद्-अर्थम् एव ईहा येषां ते । अवसरे किं कुर्वन्ति ? इत्य् आह—येऽन्योन्यत इत्य्-आदि । प्रसज्य प्रसक्ता भूत्वा मम पौरुषाणि गोवर्धनोद्धरणादीनि सभाजयन्ते ॥३४॥

———————————————————————————————————————

सनातन गोस्वामी- (ह।भ।वि। १०.४४०) मोक्षाद् अपि भक्तेर् गरिष्ठत्वम् एवोपपादयति—नैकात्मताम् इति । एकात्मतां सायुज्य-मोक्षम् । पाद-सेवाभिस् तत्त्वम् एवाह—मद्-ईहा मद्-अर्थम् एव ईहाः श्रवण-वाग्-इन्द्रियादि-व्यापारा येषाम् । ताम् एवाभिव्यञ्जयति—ये इति । प्रसज्य आसक्तिं कृत्वा पौरुषाणि वीर्याणि सभाजयन्ते श्रवण-कीर्तनादिना सम्मानयन्ति । प्रसज्येत्य् अनेन अन्योन्य-प्रीति-हेतुः पौरुष-भाजनस्य स्वाभाविको रस-विशेषो दर्शितः, अत एव गरिष्ठत्वं सिद्धम् इति दिक् ॥३४॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.४३] एकात्मतां सायुज्य-मोक्षम् मद्-अर्थम् ईहा क्रिया येषां ते प्रसज्य प्रेम्णा आसक्तिं कृत्वा सभाजयन्ते श्रवणादिना संमानयन्ति पौरुषाणि वीर्याणीति ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु पूर्वं मुक्तिः फलत्वेनोक्ता कथं तस्या गरीयस्त्वम् ? तत्राह—नैकात्मताम् इत्य्-आदि । केचिद् असाधारण-भक्ति-रसिकाः । ईहा अभिलाषः । तस्माद् भक्त्य्-आभास एव पूर्वेषां जायते इति भावः ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लक्षणम् उक्त्वा उदाहरणम् आह सप्तभिः । तत्र प्रथमं स्वाभाविक्या भाव-भक्तेर् उदाहरणं चतुर्भिर् वदन्न् एवानिमित्तेत्य् एतत् स-हेतुकं स्पष्टयति—नेति । एकात्मतां ब्रह्मैक्य-रूपायै मुक्त्यै न स्पृहयन्ति इति सिद्धेः सकाशाद् गरीयस्त्वम्

ननु केन सुखेन पूर्णास् ते ब्रह्म-सुखं न रोचयन्ति ? तत्राह—मम पादयोः सर्वेन्द्रियैर् या सेवा तस्याम् एव, न तु ज्ञानादिषु । अभि शास्त्राभिमुख्येन रता अत्यासक्तिमन्तः । अनेन भक्तेर् भगवद्-विषयत्वं सर्वेन्द्रिय-वृत्ति-रूपत्वं कर्म-ज्ञानादि-राहित्यं शास्त्रानुसारित्वं स्वाभाविकत्वं चोक्तम् । मय्य् एव मत्-सौन्दर्य-माधुर्याद्य्-आस्वादन एव ईहा वाञ्छा येषां ते इत्य् अन्याभिलाष-शून्यत्वम् । प्रसज्य आसज्य पौरुषाणि गोवर्धनोद्धरणादि-लीलामृतानि सभाजयन्ते स-स्तुतिकम् आस्वादयन्ति । तेन चरण-सेवानन्दाभावात् सौन्दर्य-सौरभ्याद्य्-अनुभवाभावाल् लीलामृतास्वादनाभावाच् च ब्रह्म-सुखं न रोचयतीति मुक्ताव् अस्पृहायां हेतु-त्रयम् उक्तम् ॥३४॥

———————————————————————————————————————

॥ ३.२५.३५ ॥

पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः

प्रसन्न-वक्त्रारुण-लोचनानि ।

रूपाणि दिव्यानि वर-प्रदानि

साकं वाचं स्पृहणीयां वदन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसन्नानि लोचनानि च येषु, तैर् मद्-रूपैः साकं सह । नित्यं परमेश्वरानुभव-सुखं भक्ताव् अधिकम् इति भावः ॥३५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेषाम् एतादृशि सुखे सति कैवल्य-सुखेन किम् ? इति ते परिणामे कैवल्यम् एव लभन्ते ? नैवेत्य् आह—पश्यन्तीत्य्-आदि । हे अम्ब मातः ! ते मद्-एक-भक्ताः सन्तो मम रुचिराणि रूपाणि पश्यन्ति । रुचिर-शब्दः कपिल-परत्व-व्यावर्तन-परः, श्री-कृष्ण-रूपाणीत्य् अर्थः । पश्यन्ति, नित्य-प्रवृत्तौ वर्तमाना स्पृहणीयां वाचं च वदन्ति, साकं मया सह, मम दर्शनं मया सह कथनं च कुर्वन्तीति भावः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : रूपाणीति । वासना-प्रसङ्गयोर् नाना-भेदेन साकम् इति । मिथो मिलित्वेत्य् अर्थः ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः सायुज्य-पर्यन्तेषु फलेषु स्पृहा-रहिताः, अतस् ते मत्त एतत् प्राप्नुवन्तीत्य् आह द्वाभ्याम् । पश्यन्तीत्य् उपलक्षणम्, शृण्वन्ति जिघ्रन्ति स्वादयन्तीत्य्-आद्य् अपि । रूपाणीत्य् उपलक्षणम्, शब्द-गन्ध-रस-स्पर्शादीनां च । दिव्यान्य् अप्राकृतानि वर-प्रदानि अभीष्ट-सेवा-प्रदानि । यद् वा, हे भक्ताः ! वरं वृणुतेत्य्-आद्य् उक्तमन्ति साकं मया सार्धं वदन्ति****। न कामयेऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो [भा।पु। १०.५१.५५] इति, न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं [भा।पु। ११.१४.१४] इत्य्-आद्य् उच्चारयन्ति । स्पृहणीयाम् इति तद्-वचः-शुश्रूषयैव मया वरं वृणुतेत्य्-आद्य् उच्यते, न त्व् अन्य-वर-दित्सा ममापि तेभ्य इति भावः । नित्यं परमेश्वरानुभव-सुखं भक्ताव् अधिकम् इति श्री-स्वामि-चरणाः ॥३५॥

———————————————————————————————————————

॥ ३.२५.३६ ॥

तैर् दर्शनीयावयवैर् उदार-

विलास-हासेक्षित-वाम-सूक्तैः ।

हृतात्मनो हृत-प्राणांश् च भक्तिर्

अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानन्दस् त्व् अवश्यं भावीत्य् आह—तैर् इति । दर्शनीया मनो-हरा अवयवा मुख-नेत्रादयो येषु तैः । हृत आत्मा चित्तं येषाम् । हृता आकृष्टाः प्राणाश् चेन्द्रियाणि येषां तान् भजतोऽनिच्छत इच्छा-हीनान् अप्य् अण्वीं गतिं मुक्तिं प्रयुङ्क्ते प्रापयति । कैः साधनैः ? हृतात्मनः । उदारैर् विलासादिभिः । तत्र विलासो लीला । वामं मनो-हरं सूक्तं मधुर-भाषणम् ॥३६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथ ते यत् तव रूपाणि पश्यन्ति, कथां च कुर्वन्ति, तत्र किं भवद्-इच्छा प्रयोजका ? आथवा सैव भक्तिर् इत्य् आह—तैर् इत्य्-आदि । भक्तिः कर्त्री तान् भक्तान् अण्वीं मोक्षाख्यां गतिम् अनिच्छतः प्रयुङ्क्ते । अण्व्या गतेर् अनिच्छायाः प्रयोजिका भवतीत्य् अर्थः । अन्यथा स्व-हानिः स्यात्, स्व-हानिर् अपुरुषार्थः, घटम् इत्य्-आदिवत् वाक्य-रूपेणैव स्थितिः । कीदृशान् तान् ? दर्शनीयावयवादिभिः, अर्थात् ममैव हृतात्मनो हृत-प्राणान् अपि ।

अयं भावः—आत्म-प्राण-हरणेन तावन् नः किम् ? दृग्-वाम-सूक्ताभ्याम् एव वयं कृतार्थाः, याभ्यां दर्शन-कीर्तन-योग्या भवेम । वस्तुतस् त्व् एवम् एव पार्षद-विग्रहाः । आथवा ममापि दर्शनीयानि यान् अवयवादीनि, अर्थात् तेषाम् एव तैः प्रसिद्धैर् विशिष्टान् हृतात्मनो हृत-प्राणान् इति स्वरूप-निर्देशः । अनिन्द्रियाश् चानशनाः इति नारायणीयोक्तेः । हृतात्मनो हृतेन्द्रियान् । आथवा अण्वीं गतिम् अनिच्छतो हृतात्मनो हृत-प्राणान् प्रयुङ्क्ते, कैस् तैर् इत्य्-आदि ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-कर्म-फल-निर्दिष्टाम् इत्य्-आदि-रीत्या दैन्येन शुद्ध-भक्ति-मात्रेच्छुत्वाद् अनिच्छतोऽपि अण्वीं सूक्ष्मां प्रकृत्य्-अतीतत्वेन दुर्ज्ञेयां पार्षदत्व-लक्षणाम् ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-दर्शनादि-माधुर्येणैव स-चमत्कारम् अनुभूयमानेन ब्रह्म-सायुज्यस्यारोचकत्वम् उत्पाद्यत इत्य् आह—तैर् इति । दर्शनीया अतिमनोहरा ये अवयवाः श्री-कृष्ण-रामाद्य्-अङ्गानि तैः । उदारा भक्ताभीष्ट-प्रदातारो विलासादयो येषु तैर् हृतं मनः प्राणत्वाद् अनिच्छतोऽपि भक्तान् भक्तिः अण्वीं गतिं प्रयुङ्क्ते । भो भक्ताः ! ब्रह्मैक-रूपां मुक्तिं गृहीतेति प्रयोग-मात्रं करोति, न तु दातुम् अवकाशं लभते । भगवतो लीला-विलास-हासावलोक-मधुर-भाषणैस् तेषाम् आत्मानं चोरितत्वेन सम्प्रदानाभावाद् इति भावः।

नन्व् एवं चेत्, तर्हि परम-विज्ञा भक्तिर् अनिच्छतः तान् कथम् एवं प्रयुङ्क्ते ? उच्यते—कश्चिच् चिन्तामणि-स्पर्श-हीरक-पद्म-रागादि-महा-रत्नानां दाता खल्व् अर्थिभ्यः कनकम् अपि दातुं दर्शयति, अन्यथा कनकम् अस्य दातुर् नास्तीति । कनक-मात्रार्थिभिर् मन्द-धीभिर् अप्रतिष्ठा क्रियेतेतिवद् भक्तिर् अपि मुक्ति-मात्रार्थि-ज्ञानि-मानि-लोक-वल्गन-निरासार्थं स्वीयांस् तान् अपि तथा प्रयुङ्क्ते, न पुनर् मुक्तिम् एव तेभ्यो दित्सतीत्य् अवधेयम् ।

यद् वा, भक्तिर् एव तान् हृतात्मनो जनान् अण्वीं गतिम् अनिच्छतः प्रयुङ्क्ते अण्वीं गतिं न एषयति नाभिलाषयति अनिच्छायाः प्रयोजिका भवतीत्य् अर्थः । यथा कुर्वन्तं प्रयुङ्क्ते इति कारयतीत्य् अनयोर् णिच्-प्रत्यय-वाक्य-णिज्-अन्तयोस् तुल्य एवार्थः । तथा हि—न पाचयत्य् अयम् इति वक्तव्ये स पचन्तं प्रयुङ्क्ते इति पचन-प्रयोजकोऽयम् इति च यथोच्यते तथैव भक्तिर् भक्त-जनान् अण्वीं गतिं नैषयति नाभिलाषयतीति वक्तव्ये अण्वीं गतिम् अनिच्छतः प्रयुङ्क्ते इत्य् उक्तम् ।

यद् वा, स्वकर्म-फल-निर्दिष्टां—यां यां योनिं व्रजाम्य् अहम् [?9] इत्य्-आदि-रीत्या दैन्येन भक्ति-मात्रेच्छुत्वाद् अनिच्छतोऽपि अण्वीं प्रकृत्य्-अतीतत्वेन दुर्ज्ञेयां पार्षदत्वाख्यां गतिं प्रयुङ्क्ते प्रापयतीति सन्दर्भः । अण्वीं गतिम् अनिच्छतो जनान् विलासादिभिर् हृत-मनः-प्राणान् कुरुत इति श्री-रूप-गोस्वामि-चरणाः । अनिच्छतः इच्छा-हीनान् अपि अण्वीं गतिं प्रयुङ्क्ते प्रापयतीति श्री-स्वामि-चरणाः । एतद् व्याख्यानम् अपि नात्यसङ्गतम् । यथेन्द्रियैः पृथग्-द्वारैः [भा।पु। ३.३२.३३] इत्य् अत्र भक्तानां सर्व-सुखानुभवस्याग्रे व्याख्यास्यमानत्वात् । ततश् च भक्तिर् इच्छा-हीनान् अपि तान् बलाद् ब्रह्म-सुखम् अप्य् अनुभावयितुं मुक्तिं प्रापय्य—ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः [भा।पु। १०.२८.१६] इति रीत्या ततो निष्क्रमय्य, भगवद्-धाम्नि तांस् तत्-पार्षदान् विधाय, भजनानन्दैः सदा निमज्जयतीति । तात्पर्यम् उत्तर-श्लोकार्थावगाहनाज् ज्ञेयम् इति च केचिद् आहुः ॥३६॥

———————————————————————————————————————

॥ ३.२५.३७ ॥

अथो विभूतिं मम मायाविनस् ताम्10

ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् ।

श्रियं भागवतीं वास्पृहयन्ति11 भद्रां

परस्य मे तेऽश्नुवते तु12 लोके ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विभूत्य्-आदिकं च तत्राधिकम् इत्य् आह । अथो अविद्या-निवृत्त्य्-अनन्तरं, विभूतिं सत्य-लोकादि-गतां भोग-सम्पत्तिम्, अणिमाद्य् अष्टाङ्गम् ऐश्वर्यम् अनुप्रवृत्तं भक्तिम् अनु स्वत एव प्राप्तम् अपि, भागवतीं च श्रियं वैकुण्ठ-स्थां सम्पत्तिम् अस्पृहयन्ति । ते यद्यपि न स्पृहयन्तीत्य् अर्थः, तथापि लोके वैकुण्ठे अश्नुवते तु प्राप्नुवन्त्य् एव ॥३७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भोगार्थम् एव नाण्वीं गतिम् इच्छन्ति ? नेत्य् आह—अथो इत्य्-आदि। अथोऽनन्तरं, विभूतिम् अणिमाद्य् अष्टैश्वर्यं, भागवतीं श्रियं कर्तुम् अकर्तुम् अन्यथा-कर्तुं सामर्थ्य-विशेषं वा स्पृहयन्ति इत्य् अर्थः । अथवा स्पृहयन्ति, केवलाकारस्य च निषेधार्थत्वात् । अभावे नह्य् अ नो नापि इति शाब्दिकाः । अनुप्रवृत्तम् इति लिङ्ग-व्यत्ययेन सर्वत्र योज्यम् । यद्यपि न स्पृहयन्ति, नु निश्चितं, तथापि लोके वैकुण्ठे अश्नुवते व्याप्नुवन्ति । आशु व्याप्तौ अन्येभ्यो\ऽपि दातुं शक्नुवन्तीत्य् अर्थः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम् एव दर्शयति—अथो इति द्वाभ्याम् । अथो अविद्या-निवृत्त्य्-अनन्तरं मम मायया भक्त-विषयक-कृपया आचिताम्, तद्-अर्थं प्रकटितां विभूतिं भोग-सम्पत्तिम्, तथाणिमाद्य्-अष्टैश्वर्यम्अनुप्रवृत्तं स्वभाव-सिद्धम् । तथा भागवतीं श्रियं साक्षाद्-भगवत्-सम्बन्धिनीं सार्ष्टि-संज्ञां सम्पत्तिम् अप्य् अस्पृहयन्ति, भक्ति-सुख-मात्राभिलाषेण । यद्यपि तेभ्यो न स्पृहयन्तीत्य् अर्थः, तथापि ते मे मम लोके वैकुण्ठाख्ये अश्नुवते प्राप्नुवन्त्य् एवेति स्व-वात्सल्य-विशेषो दर्शितः । यथा सुदाम-मालाकार-वरे—

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि ।

तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ।

इति तस्मै वरान् दत्त्वा श्रियश् चान्वय-वर्धिनीम् ॥ [भा।पु। १०.४१.५२] इति ।

अतस् तेषां तत्रानासक्तिश् च द्योतिता । अविद्या-निवृत्त्य्-अनन्तरम् इति मम कृपयाचिताम् इति च तेषाम् अनर्थ-रूपत्वं खण्डितम् । किं वा, माययाचितां ब्रह्म-लोकादि-गतां सम्पत्तिम् अपीति तेषां सर्व-वशीकारित्वम् एव दर्शितम्, न तु तद्-भोगः । तस्यातितुच्छत्वेन तेष्व् अनर्हत्वात् । श्रुतिश् चात्र—तद् यथेह कर्म-जितो लोकः क्षीयते, एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छा।उ। ८.१.६] इत्य् अनन्तरम्, अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्य-कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति इति ॥३७॥ [भगवत्-सन्दर्भ ५१ (६२)]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कर्म-ज्ञान-योगादीनां भक्त्य्-अविनाभाव-सिद्धत्वात् तत्-तद्-विना-भूतया अपि भक्तेस् तत्-तत्-फल-दायित्वेन, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य् आदौ श्रुतत्वात् । स्वर्गादीन्य् अपि वस्तुतो भक्तेर् एव फलानीति शुद्ध-भक्तिमन्तो मल्-लोक-वासिन एव मद्-भजनानन्तर्-भूतान्य् एव सर्व-सुखान्य् अनुभवन्तीत्य् आह—अथो अविद्या-निवृत्त्य्-अनन्तरम् एव, मायया चितां विभूतिं सर्व-ब्रह्माण्ड-गत-सुखानि । मायिनस् ताम् इति च पाठः । अणिमाद्य्-अष्ट-योग्ऐश्वर्य-सुखं चानुप्रवृत्तं भक्तिम् अनु स्वत एव प्राप्तं, तथा भागवतीं श्रियं वैकुण्ठ-स्थां सार्ष्टि-संज्ञां सम्पत्तिं नु निश्चितं च-काराद् ब्रह्मानन्दं च अस्पृहयन्ति, मदीय-हासावलोकादि-हृतात्म-मनः-प्राणत्वात् । यद्यपि तेभ्यो न स्पृहयन्तीत्य् अर्थः, तथापि परमेश्वरस्य मे मम लोके वैकुण्ठे अश्नुवते प्राप्नुवन्त्य् एवेति स्व-वात्सल्य-विशेषो दर्शितः ॥३७॥

———————————————————————————————————————

॥ ३.२५.३८ ॥

न कर्हिचिन् मत्-पराः शान्त-रूपे

नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।

येषाम् अहं प्रिय आत्मा सुतश् च

सखा गुरुः सुहृदो दैवम् इष्टम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आदारनादि-कर्तृत्वाद् आत्मा ॥३८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं तर्हि लोकत्वाविशेषात् स्वर्गादिवत् भोक्तृ-भोग्यानां कदाचिद् विनाशः स्यात्? तत्राह—हे शान्त-रूपे ! यद् वा, शान्तं शुद्ध-सत्त्वं, तद्-रूपे वैकुण्ठे मत्-पराः कदाचिद् अपि न नङ्क्ष्यन्ति, भोग्य-हीना न भवन्ति । अनिमिषो मे हेतिर् मदीयं काल-चक्रं च नो लेढि तान् न ग्रसति । तत्र हेतुः—येषाम् इति । सुत इव स्नेह-विषयः, सखेव विश्वासास्पदम्, गुरुर् इवोपदेष्टा, सुहृद् इव हित-कारी, इष्टं दैवम् इव पूज्यः । एवं सर्व-भावेन मां ये भजन्ति, तान् मदीयं काल-चक्रं न ग्रसतीत्य् अर्थः ॥३८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु परिणामे कालः कथम् एतान् न नाशयति ? इत्य् आह—न कर्हिचिद् इत्य्-आदि । हे शान्त-रूपे ! कदाचिद् अपि मत्-परा न नङ्क्ष्यन्ति । कालस्य सत्तायां कथं तेषां न नाशः, येन द्विपरार्धावसाने ब्रह्मणो\ऽपि नाशः क्रियते ? तत्राह—अनिमिषः कालो हेतिर् मद्-अस्त्र-रूपं तान् नो लेढि । तत्र मल्-लोके तस्य अभावात्, न यत्र कालः किम् उत [भा।पु। २.९.१०] इत्य्-आद्य्-उक्तेः । त एव के ? इत्य् आह—येषाम् अहम् इत्य्-आदि ॥३८॥

———————————————————————————————————————

सनातन गोस्वामी (ह।भ।वि। १०.१८३) : हे शान्त-रूपे ! कदाचिद् अपि न नङ्क्षन्ति, भोग-हीना न भवन्ति । तत्र हेतुः—अनिमिषो मे हेतिः मदीयं काल-चक्रं न लेढि, न तान् ग्रसति । यद् वा, जिह्वाग्रेणापि न स्पृशति । तत्रैव हेतुः—येषाम् इति । सुत इव स्नेह-विषयः । सखेव विश्वासास्पदम्, गुरुर् इवोपदेष्टा, सुहृद् इव हित-कारी । इष्टं दैवतम् इव पूज्यम् । एवं सर्व-भावेन ये मां भजन्ति, तान् मदीयं काल-चक्रं न ग्रसतीत्य् अर्थः ।

यद् वा, न नङ्क्ष्यन्ति विचित्र-विषयादि-भोगेऽपि निज-मार्गान् न भ्रश्यन्तीत्य् अर्थः । यद् वा, ममादृश्या न भवन्ति । अतः काल-चक्रं जिह्वया लेढुं कथञ्चित् स्प्रष्टुं न शक्नोतीत्य् अर्थः । च-कारोऽत्र विकल्पे, तेषाम् एकतरत्वेनैव सर्व-सिद्धेः ।

यद् वा, येषां साक्षात् प्रियादि-रूपोऽप्य् अहं भवामि । तत्र प्रियः उपकारादिना प्रीति-विषयः । आत्मा स्वभावत एव प्रियः । सुहृदः सर्व-ज्ञातयः सम्बन्धिनश् च । इष्टं दैवतम् । आत्म-प्रदो नाथः । एषां दुर्घटत्वं यथोत्तरम् ऊह्यम् । यथा प्रियो भर्ता दण्डकारण्य-वासि-मुनीनां गोपी-जनानां च आत्मा स्वयम् एवाहम् । एवम् अत्र भक्त-माहात्म्य-वर्णन-रसेन क्रमो नापेक्षितः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवं तर्हि लोकत्वाविशेषात् स्वर्गादिवत् भोक्तृ-भोग्यानां कदाचिद् विनाशः स्यात् ? तत्राह—शान्त-रूपे शान्तम् अविकृतं रूपं यस्य तस्मिन् वैकुण्ठे मत्-परास् तद्-वासिनो लोकाः कदाचिद् अपि न नङ्क्ष्यन्ति भोग्य-हीना न भवन्ति । अनिमिषो मे हेतिः मदीयं काल-चक्रं नो लेढि, तान् न ग्रसते । न स पुनर् आवर्तते [छा।उ। ८.१५.१] इति श्रुतेः।

आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन ।

माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते ॥ [गीता ८.१६]

इति श्री-गीतोपनिषद्भ्यः । सहस्र-नाम-भाष्येऽप्य् उक्तम्—परम् उत्कृष्टम् अयनं स्थानं पुनर् आवृत्ति-शङ्का-रहितम् इति परायणः । पुं-लिङ्ग-पक्षे बहुव्रीहिः इति । न केवलम् एतावत् तेषां माहात्म्यम् इत्य् आह—येषाम् इति । प्रियो लक्ष्म्य्-आदीनां तत् तया [प्रियतया] भावनीयः । एवम् आत्मा परमात्मा सनकादीनाम्, सुतो भवद्-आदीनाम् । सखा श्री-श्रीदामादीनाम् । गुरुः श्री-प्रद्युम्नादीनाम् । सुहृदः एक एव नाना-प्रकारः [कस्यापि भ्राता कस्यापि मातुलेयः कस्यापि वैवाहिक इत्य्-आदि-रूपः] पाण्डवादीनाम् इव, दैवम् इष्टम् उद्धवादीनाम् इव ।

यद् वा—गोलोकादिकम् अपेक्ष्यैवम् उक्तम् । तत्र हि तथाभावा एव श्री-गोपा नित्या विद्यन्ते । येषां न मां विना न कश्चिद् अपर-प्रेम-भाजनम् अस्तीत्य् अर्थः । अथवा, तं लोकं कीदृग्-भावा अविद्या-निवृत्त्य्-अनन्तरं प्राप्नुवन्ति ? तत्राह—येषाम् इति । ये केचित् पाद्मोत्तर-खण्डे दर्शित-दण्डकारण्य-वासि-मुनि-गण-सवासनाः “प्रियः पतिः” इति मां भावयन्ति,

ये केचिच् च सनकादि-सवासना आत्मा ब्रह्मैवायं साक्षाद् इति मां भावयन्ति, एवम् अन्ये च ये ये, त एव प्राप्नुवन्तीत्य् अर्थः । सुहृद इति बहुत्वं सौहृदस्य नाना-भेदापेक्षया । एवं चतुर्थे श्री-नारद-वाक्ये—

शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः ।

यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ [भा।पु। ४.१२.३७] इति ।

अतस् त्वन् नाभिजाते मयि सुत-स्नेह-रूपैव भक्तिस् तवोचितेति च दर्शितम् । अन्तिम-निष्ठा च तस्यास् तथा—ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला [भा।पु। ३.३.२१] इति ॥३८॥ [भगवत्-सन्दर्भ ६५]

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं तर्हि लोकत्वाविशेषात् स्वर्गादिवद् भोक्तृ-भोग्यानां कदाचिद् विनाशः स्यात् तत्राह—शान्तम् अविकृतं रूपं यस्य तस्मिन् मल्-लोके मत्-परास् तद्-वासिनो लोकाः कदाचिद् अपि न नङ्क्ष्यन्ति भोग्य-हीना न भवन्ति । अनिमिषा मे हेतिर् मदीयं काल-चक्रं नो लेढि तान् न ग्रसति, न स पुनर् आवर्तते [छा।उ। ८.१५.१] इति श्रुतेः ।

आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन ।

माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥ इति गीतोपनिषद्भ्यः [८.१६]

सहस्र-नाम-भाष्येऽपि—परम् उत्कृष्टम् अयनं स्थानं पुनर् आवृत्ति-शङ्का-रहितम् इति परायण-पदं व्याख्यातम् । येषाम् अहं प्रिय इति प्रेयसी-भाववताम् । आत्मेति शान्त-भक्तानाम् । सुत इति वात्सल्य-भाववताम् । सखेति सख्यवताम् । गुरुर् इति दास्य-विशेषवताम् । सुहृद इति बहुत्वम् आर्षं सख्य-भेदवताम् । इष्टं दैवम् इति दास्य-भाववताम् । तथा चोक्तं नारायण-व्यूह-स्तवे—

पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मित्रवद् धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्योऽपीह नमो नमः ॥ इति ।

यम् एवैष वृणुते तेन लभ्यः [क।उ। १.२.२३] इत्य् अस्याः श्रुतेर् अपि । यं प्रियत्वेन वा पितृत्वेन भ्रातृत्वेन वा सखित्वेन वा पुत्र-भृत्यादित्वेन वा वृणुते, तेन लभ्य इत्य् अर्थो वेदितव्य इति रागानुगायाः स्वाभाविक्या भक्तेर् उदाहरणं ज्ञेयम् ॥३८॥

———————————————————————————————————————

॥ ३.२५.३९-४० ॥

इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् ।

आत्मानम् अनु ये चेह ये रायः पशवो गृहाः ॥

विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् ।

भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवंभूतां तु मुक्तिम् एकान्त-भक्तेभ्यो ददामीत्य् आह—इमम् इति द्वाभ्याम् । उभयायिनं लोक-द्वय-गामिनम् आत्मानं सोपाधिकम् आत्मानम् अनु ये पुत्र-कलत्रादयो ये च पश्व्-आदयः । रायः धनानि ॥३९॥ अन्यांश् च परिग्रहान् । मृत्योः संसाराद् अतिपारये ऽतितारयामि ॥४०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथं कालस् तान् न लेढि ? इत्य् आह—इमम् इत्य्-आदि द्वाभ्याम् । इमं लोकम् अमुं च अन्यान् अपि सर्वानुक्तान् अपि सन्त्यज्य मां भजन्ति ये, विश्वतो-मुखं सर्वतः सम्मुखं, तान् मृत्योः सकाशाद् अहम् एव अतिपारये । मृत्योः कालात् ॥३९-४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवोपसंहरति—इमम् इति युग्मकेन । एवं प्रियत्वादि-प्रकारेण ॥३९॥ विश्वतो-मुखं तत्-तद्-भावानुसारेणानन्ताविर्भावम् अनन्यया भावानन्तरामिश्रितया ॥४०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्वाभाविक्याः साधन-भक्तेर् उदाहरणम् आह द्वाभ्याम् । इमं दृष्ट-भोगासक्तिम् अमुम् अदृष्ट-भोगासक्तिम् उभयायिनं तद्-उभय-गामिनम् आत्मानम् इत्य् अहन्तास्पदे भोक्तरि चासक्तिं विसृज्य इति यथैव भोगाद्य्-आसक्तिर् भोगादि-प्रशंसा गम्या, तथैव तत्-तद्-आसक्ति-त्यागस् तत्-तन्-निन्दा-गम्य इति । यथोक्तं—जुषमाणाश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् [भा।पु। ११.२०.२८] इति । तथा आत्मानम् अनु लक्ष्यीकृत्य ये पुत्र-कलत्रादयः, ये च व्य्वहारिका रै-प्रभृतयः । रायो धनानि, विश्वतो मुखं ते यस्यां दिशि यान्ति, तत्रैवाहं तेषाम् अभिमुख एव वर्ते इत्य् अर्थः । अनन्यया देवतान्तर-भक्ति-ज्ञान-कर्मादि-शून्यया । मृत्योः संसार-सिन्धोः अतिपारये भक्ति-मात्राभिलाषित्वेन संसार-पारम् अनिच्छतोऽपि तान् अतिक्रम्य पारये पारं प्रापयामीति तान् एवम् अज्ञापयित्वेवेत्य् अर्थः । यद् उक्तं—जरयत्य् आशु या कोशम् [३.२५.३३]इत्य्-आदि ॥३९-४०॥

———————————————————————————————————————

॥ ३.२५.४१ ॥

नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् ।

आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभक्तानां तु कथञ्चिद् अपि न मोक्ष इत्य् आह—नेति । मद् भगवतोऽन्यत्र भगवतो मत्तो विना । सर्व-भूतानाम् आत्मनः । भगवद्-आदि-विशेषण-त्रयेण सामर्थ्यं निरपेक्षत्वं हित-कारित्वं चोक्तम् ॥४१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मत्त एव भवति, नश्यति चेत्य् आह—नान्यत्रेत्य्-आदि । प्रधान-पुरुषेश्वराद् इति श्री-कृष्णम् उद्दिश्य वदति—मद्-भगवतो मम भगवान् मद्-ईश्वरस् तस्मात् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यच् च भवत्या जिज्ञासया प्रकृतेः पुरुषस्येत्य् उक्तम्, तत् तु केवलं न किञ्चिद् इत्य् आह—नान्यत्रेति ॥४१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-भक्तिं विना तु नैव निस्तार इत्य् आह—मत्तोऽन्यत्र मां विनेति मद्-भक्तिं विनेत्य् अर्थः । भक्ति-विषयी-भूतस्य स्वस्यानन्त-स्वरूपत्वेऽपि विशेषण-त्रयेण पूर्व-पूर्व-मुख्यानि सेव्य-स्वरूपाणि कानिचित् सूचयति । भगवान् प्रथमतः पूर्णः श्री-कृष्ण एव । ततः श्री-रामः प्रधान-पुरुषेश्वरः पर-व्योम-नाथः । तत आत्मा प्रकृत्य्-अन्तर्यामी समष्ट्य्-अन्तर्यामी चेति पुरुष-त्रयम् । पुरुषावतारा मत्स्य-कूर्मादयोऽपि ज्ञेयः ॥४१॥

———————————————————————————————————————

॥ ३.२५.४२ ॥

मद्-भयाद् वाति वातोऽयं सूर्यस् तपति मद्-भयात् ।

वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऐश्वर्यं स्फुटयति—मद्-भयाद् इति । श्रुतिश् च—

भीषास्माद् वातः पवते भीषोदेति सूर्यः ।

भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति ॥४२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भयं दर्शयति—मद्-भयाद् इत्य्-आदि । सर्वेषां भय-हेतूनां कालादीनाम् अपि मत्त एव भयम् इति भावः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अनन्यया भक्त्येति त्वयोक्तं, अतः अन्ये खल्व् असेविता देवाः कुप्यन्तस् त्वद्-भक्तं कदाचिद् दुःखयन्ति न वेति तत्र साटोपम् आह—मद् इति । श्रुतिश् च—

भीषास्माद् वातः पवते भीषोदेति सूर्यः ।

भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति ।

तेन यदि कम् अपि ते मद्-भक्तं कदाचिद् अपि दुन्वन्ति, तदा तांस् तत्-तद्-अधिकाराद् अप्य् अधः पातयितुं नैवाहं विलम्बे इति भावः ॥४२॥

———————————————————————————————————————

॥ ३.२५.४३ ॥

ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः ।

क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-भजनाद् एव मोक्ष इत्य् अत्र सद्-आचारं प्रमाणयति—ज्ञानेति ॥४३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदानीं भक्तेः प्राधान्यं दर्शयति द्वाभ्यां—ज्ञान-वैराग्येति । ज्ञान-वैराग्ये युक्ते उपयुक्ते यत्र तेन । अतो ज्ञानादि-सापेक्ष्यं भक्तेर् नास्तीति । पाद-मूलं चरणारविन्द-निकटम् । अथवा तेन केवलेन भक्ति-योगेन पाद-मूलं प्रविशन्तीत्य् अन्वयः । ज्ञान-वैराग्यापेक्षा तु न कार्या, मत्-पाद-मूल-प्राप्तौ तयोः सुलभत्वम् इत्य् आह—ज्ञान-वैराग्य-युग् इति पाद-मूल-विशेषणम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुद्धां भक्तिम् उक्त्वा ज्ञानादि-मिश्रां भक्तिम् आह—ज्ञानेति ॥४३॥

———————————————————————————————————————

॥ ३.२५.४४ ॥

एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।

तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—एतावान् इति । मय्य् अर्पितं सन् मनः स्थिरं भवतीति यद् एतावान् एव ॥४४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतो भक्तिर् एव कार्येति दर्शयति—एतावान् इत्य्-आदि ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देवानाम् [३.२५.३२] इत्य्-आदिवत् स्वस्य तु मतम् आह—एतावान् इति । तीव्रेण दृढेन योग-कर्मादिभिर् अभङ्गुरेण शुद्धेनेत्य् अर्थः । तेनैव अर्पितं सत् स्थिरं भवतीति यत् एतावान् एव निःश्रेयसस्य परम-पुरुषार्थस्याविर्भावः ॥४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि मम शुद्धैव भक्तिः सर्वतः श्रेष्ठेत्य् आह—एतावान् इति । इतोऽधिको निःश्रेयसोदयो नैव कोऽप्य् अस्ति, किं त्व् इतो न्यून एव सर्व इति भावः । तीव्रेण दृढेन ज्ञान-कर्मादिभिर् अभङ्गुरेण शुद्धेनेत्य् अर्थः । निःश्रेयसस्य परम-पुरुषार्थस्योदयः ॥४४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये पञ्चविंशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे

कापिलेये भक्ति-योगो नाम

पञ्चविंशोऽध्यायः ।

॥३.२५॥

———————————————————————————————————————

(३.२६)

अथ षड्विंशोऽध्यायः

महद्-आदि-तत्त्वानाम् उत्पत्ति-निरूपणं सद्-धर्म-वर्णनं च ।

॥ ३.२६.१ ॥

श्री-भगवान् उवाच—

अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।

यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

षड्विंशे पुं-प्रकृत्योस् तु विवेकायोपवर्ण्यते ।

साङ्ख्येन सर्व-भावानां जन्म-लक्षण-भेदतः ॥

धात्रा पुत्राय यत् प्रोक्तं क्षत्त्रे मित्रा-सुतेन यत् ।

मात्रे साङ्ख्यं तद् अध्यात्मं प्राधान्येनाह तत्त्ववित् ॥

तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यम् इत्य् अत्र साङ्ख्यं भक्तिर् योगश् चेति त्रयम् उपक्षिप्तम् । तत्र भक्तिम् उक्त्वेदानीं साङ्ख्यम् आह—अथेति ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं कृतार्थयित्वा विवेक-मात्राय साङ्ख्य-ज्ञान-योगादि-मार्गान् अप्य् आह यावत्-समाप्ति—यथेति ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

षड्विंशे महद्-आदीनाम् उत्पत्ति-लक्षणं तथा ।

तैर् विराट् तस्य चैतन्यम् उक्तम् आत्म-प्रवेशतः ॥

मात्रा पृष्टेषु भक्ति-ज्ञान-योगेषु भक्तिम् उक्त्वा मातरं तयैव कृतार्थीकृत्यापि कर्म-ज्ञान-योगादिभिः स्वर्ग-मोक्षादि-फलानां भक्त्या विना दातुम् अशक्यत्वात् तेष्व् अपि भक्ति-महा-देव्या अधिकारात् सर्वत्र साम्राज्यवत्यास् तस्या उपासक-जनैर् अपि कौत्क-वशात् कर्म-ज्ञानादयोऽपि जिज्ञासनीया एवेति साम्प्रतं ज्ञानं वक्तुम् आह—अथेति ॥१॥

———————————————————————————————————————

॥ ३.२६.२ ॥

ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् ।

यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञानम् इति । आत्म-दर्शन-रूपं ज्ञानम् अत एव हृदय-ग्रन्थि-भेदनम् अहङ्कार-निवर्तकं निःश्रेयस-प्रयोजनाय यद् आहुस् तत् ते वर्णयामि । तत्त्व-लक्षण-ज्ञानाद् एव विविक्तात्म-ज्ञानं भवतीति भावः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तत्त्व-लक्षण-ज्ञानेन किं भविष्यतीत्य् अत आह—ज्ञानम् इति । तत्त्व-लक्षण-ज्ञानाद् एव विव्क्तात्म-ज्ञानं भवतीति भावः ॥२॥

———————————————————————————————————————

॥ ३.२६.३ ॥

अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः ।

प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स परमो न जायते न मिर्यते इति प्रसिद्धं हि । देहाद्य्-उपाधिभिर् आत्त-धर्मो जीवोऽपि स्व-प्रवद भ्रान्त्या जायते म्रियते च । भ्रान्तित्वाद् देहात्मत्वस्य किम् उ । सर्वज्ञ-स्वतन्त्रत्वादि-वैलक्षण्य-युक्त ईश्वरः ।

परस्य जन्म-मृत्य्व्-आद्याः स्युः स्वतन्त्रस्य किं पुनः ।

जीवस्यापि यतो भ्रान्त्या जन्म-मृत्य्व्-आदि-सङ्गतिः ॥ इति महा-कौर्मे ॥३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र पुरुषं लक्षयति—अनादिर् इति । आत्मैव पुरुषः । कोऽसाव् आत्मा ? प्रत्यक् प्रतिलोमं धाम स्फूर्तिर् यस्य । क्षणिक-पक्षं13 व्यावर्तयति—अनादिर् इति । संसारित्व-पक्षं व्यावर्तय्तै—प्रकृतेः परः । अन्योऽसङ्गः । ज्ञानादि-गुणत्वं14 वारयति—निर्गुणः । मीमांसकाद्य्-अभिमत-ज्ञान-विषयत्वं वारयति—स्वयं-ज्योतिः । अनेनैव प्राभाकराभिमतंज्ञानाधारत्वेन स्फुरणम् अपि निरस्तम् । स्वयं-ज्योतिष्ट्वे हेतुः—विश्वं येन समन्वितम्, प्रकाशते इति शेषः । एतैर् एव हेतुभिः पुरुषास्य प्रकृतेः परत्वम् अपि सिद्धम् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनादिर् इति । आत्मा परमात्मैव पुरुषो निर्गुणः प्राकृत-गुण-रहितः । विश्वं येन समन्वितम् इति सर्व-कारणत्वम् । तेन विचित्र-प्रकाशकतयानन्त-शक्तित्वं दर्शितम् ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र पुरुषं लक्षयति—अनादिर् नित्यः आत्मा परमात्मैव पुरुषः निर्गुणः प्राकृत-गुण-रहितः । यतः प्रकृतेः परः । प्रत्यक् सर्वेन्द्रियागम्यं धाम कारणार्णवो यस्य सः । अत एव स्वयं-ज्योतिः स्व-प्रकाशः । स्वयं-ज्योतिष्ट्वे हेतुः—विश्वं येन समन्वितं सत् प्रकाशत इति शेषः ॥३॥

———————————————————————————————————————

॥ ३.२६.४ ॥

स एष प्रकृतिं सूक्ष्मां दैवीं गुण-मयीं विभुः ।

यदृच्छयैवोपगताम् अभ्यपद्यत लीलया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : उपागतां समीपस्थाम् ॥४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रावरण-विक्षेप-शक्ति-भेदेन प्रकृतिर् द्वि-विधा । तत्रावरण-शक्त्या सैव जीवोपाधिर् अविद्या । विक्षेप-शक्त्या सैव माया पारमेश्वरी । पुरुषश् च जीवेश्वर-रूपेण द्वि-विधः । तत्र यः प्रकृत्य्-अविवेकेन संसरति स जीवः । यस् तु प्रकृतिं वशीकृत्य विश्व-सृष्ट्य्-आदि करोति स ईश्वरः । तत्र प्रकृत्य्-अविवेकेन जीवस्य संसार-प्रकारम् आह—स एष इति पञ्चभिः । सूक्ष्माम् अव्यक्तां दैवीं देवस्य विष्णोः शक्तिं लीलयोपगतां यदृच्छयैवाभ्यपद्यतेत्य् अन्वयः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स एष परमात्मा यदृच्छया स्वैरितया या लीला, तयाभ्यपद्यत ऐक्षत । लोकवत् तु लीला-कैवल्यं [वे।सू। २.१.३३] इति न्यायात् । स ऐक्षत [बृ।आ।उ। १.२.५] इति श्रुतेः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष परमात्मा यदृच्छयैव स्वैरितयैव स्व-शक्तित्वाद् उपगतां कर्म-बन्ध-जगत्-सिसृक्षा-समय एव लीलया अभ्यपद्यत जीव-शक्ति-रूपं वीर्यं तस्याम् आदधान ऐक्षतेत्य् अर्थः ॥४॥

———————————————————————————————————————

॥ ३.२६.५ ॥

गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः ।

विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मुमुहे मोहयामास । तद् एतन् मे विजानीहि—कृत्वा विवाहम् इत्य्-आदिवत् ॥५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्या लीलाम् आह—गुणैर् इति । ज्ञानं गूहयत्य् आवृणोतीति ज्ञान-गूहा तया । तथा च श्रुतिः—

अजाम् एकां लोहित-शुक्ल-कृष्णां

बह्वीं प्रजां जनय्न्तीं सरूपाम् ।

अजो ह्य् एओ जुषमाणोऽनुशेते

जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५] इति ।

मुमुहे आत्मानं विस्मृतवान् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च पुरुषान्तरस्यावस्थाम् आह—गुणैर् इति । तां चैकांशेन सृजन्तीम् । इह शरीरे स प्रसिद्धो जीवाख्यः पुरुषस् तु मुमुहे । ज्ञान-गूहया तस्याः प्रकृतेर् एवाविद्याख्यया वृत्त्या । अत्र विलोक्येत्य् अनेन । मुमुहे इत्य् अनेन ज्ञान-गूहयेत्य् अनेन च पराग्-भूतायाः प्रकृतेस् तत्-कृताद् अज्ञानाच् च प्रत्यग्-भूतं यज् ज्ञानं, तत् तस्य स्वरूप-शक्तिर् एव स्याद् इति गम्यते । श्री-गीतोपनिषदि च तथा—अज्ञानेनावृतं ज्ञानं तेन मुह्यति जन्तवः [गीता ५.१५] इति ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र जीवस्य मोहम् आह—प्रकृतिं विलोक्य स जीवात्मा इह प्रकृतौ स्थितः सद्यः प्रकृइत्-संसर्ग-समय एव ज्ञान-गूहया प्रकृतेर् एवाविद्याख्य-वृत्त्या युक्तो मुमुहे स्वरूपं विसस्मार, सदैवानाद्य-विद्यया युक्तोऽपि जीवः सुषुप्तौ यथा स्वरूपं किञ्चिद् उपलभते, तथैव सृष्टेः पूर्वं प्रलयेऽपि स्वरूपम् उपलभमान एवासीत् । सृष्टारम्भे तु तद् विसस्मारेत्य् अर्थः । कीदृशीम् ? गुणैः सत्त्वादिभिर् विचित्राः प्रजाः सृजन्तीम् । तथा च श्रुतिः—

अजाम् एकां लोहित-शुक्ल-कृष्णां

बह्वीं प्रजां जनय्न्तीं सरूपाम् ।

अजो ह्य् एओ जुषमाणोऽनुशेते

जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५] इति ।

———————————————————————————————————————

॥ ३.२६.६ ॥

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।

कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यत्र कारयितातीव स्वतन्त्रस् तत्र कर्तृता ।

प्रोच्यते तु यथा ब्रह्मत्व-ज्ञः संसार-भाग् यतः ॥ इति च ।

लये वाप्य् अथवा सृष्टौ त्व् अन्तरालेपिनः क्वचित् ।

प्रकृत्या रहितं ब्रह्म कदाचिद् अपि तिष्ठति ॥ इति कापिलेये ।

एवं पराभिध्यानेन परात्मेच्छया । प्रकृतेः कर्तृत्वं जीव आत्मनि मन्यते ॥६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : पराभिध्यानं प्रकृत्य्-अध्यासस् तेन । प्रकृतेर् गुणैः कर्मसु क्रियमाणेषु कर्तृत्वम् आत्मनि मन्यते ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पराभिध्यानेन प्रकृत्यावेशेन प्रकृतिर् एवाहम् इति मननेन प्रकृतेर् गुणैः क्रियमाणेषु कर्मसु कर्तृत्वम् आत्मनि मन्यते । अत्र निरहम्भावस्य पराभिध्यानासम्भवात्15 परावेशजाताहङ्कारस्य चावरकत्वाद् अस्त्य् एव तस्मिन्न् अन्योऽहम्भाव-विशेषः । स च शुद्ध-स्वरूप-मात्र-निष्ठत्वान् न संसार-हेतुर् इति स्पष्टम् ।

एतद् एवाहङ्कार-द्वयं सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद्-अनुस्मृतिर् नः [भा।पु। ११.३.३९] इत्य् अत्र दर्शितम्16 उपाध्य्-अभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात् । तद्-अनुस्मृतिर् न इत्य् अनेन सुखम् अहम् अस्वाप्स्वम् इत्य् आत्मनोऽहतयैव परामर्शाच् च । अत एव माम् अहं नाज्ञासिषम् इत्य् अत्र परामर्शेऽपि उपाध्य्-अभिमानिनो ऽनुसन्धानाभावः अन्यस्य त्व् अज्ञान-साक्षित्वेनानुसन्धानम् इति दिक् ॥६॥ [परमात्म-सन्दर्भ ३०]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् [भा।पु। ११.२२.५३] इति रीत्या पराभिध्यानेन प्रकृत्य्-अध्यासेन सा च प्रकृतिर् देह एवेति देह एवाहम् इति मननेन प्रकृतेर् गुणैः क्रियमाणेषु कर्मसु रूपादि-ग्रहणेषु कर्तृत्वम् आत्मनि मन्यते । तत्र निरहं-भावस्य पराभिध्यानासम्भवात् परावेश-जाताहङ्कारस्य चावरकत्वाद् अस्त्य् एव तस्मिन्न् अन्योऽहंभाव-विशेषः । स च शुद्ध-स्वरूप-मात्र-निष्ठत्वान् न संसार-हेतुर् इति स्पष्टम् । विप्र-कुमारस्य साहङ्कारस्यैव भूतावेशत्वे सति भूतोऽहम् इति वदिति विवेचनीयम् ॥६॥

[अत्र ब्रह्म-सूत्रे ३.२.५ पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बद्ध-विपर्ययु इत्य् एतत् सूत्रं द्रष्टव्यम् ।]

———————————————————————————————————————

॥ ३.२६.७ ॥

तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् ।

भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

विष्णोः सुराणां गुरूणां नित्या जीव-स्वतन्त्रता ।

यत् तु तस्यान्य-तन्त्रत्वं तज्-ज्ञानाद् विनिवर्तते ॥ इति च ।

अकर्तुर् अनीशस्य सकाशात् । अक्लिष्टत्वाद् अकर्ता सा अकार्यत्वाद् अथापि वा इति च ॥७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् इति कर्तृत्व-मननम् एव । अस्य पुरुषस्य । साक्षि-मात्रत्वाद् अकर्तुर् एव सतः कर्मभिर् बन्धः । ईशस्यापरतन्त्रस्यैव कर्म-बन्ध-कृतं भोगे पारतन्त्र्यं निर्वृतात्मनः सुखात्मकस्यैव संसृतिर् जन्म-मृत्यु-प्रवाहः प्रकृत्य्-अविवेक-कृतम् एतत् सर्वं भवतीत्य् अर्थः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् इति कर्तृत्व-मननम् एवास्य जीवस्य, वस्तुतः साक्षि-मात्रत्वाद् अकर्तुर् एव सतः कर्मभिर् बन्धः । यथा राजकीयः पुरुषो राजोच्यते, तथैव ईशस्य ईश-शब्द-वाच्यस्येश्वर-शक्ति-रूपस्यापि कर्म-बन्ध-कृतं भोग-पारतन्त्र्यम् । निर्वृतात्मनः सुख-स्वरूपस्यापि संसृतिर् जन्म-मृत्यु-प्रवाहः ॥७॥

———————————————————————————————————————

॥ ३.२६.८ ॥

कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः ।

भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एष कर्ता न क्रियते कारणं च जगत्-प्रभुर् इति भारते ।

ब्रह्मादिभिः सर्ग-करी श्री-विष्णु-बल-संश्रयात् ।

सुख-दुःख-प्रदो विष्णुः स्वयम् एव सनातनः ॥

कर्तृत्वं सुख-दुःखानां करोत्य् एको हरिः स्वयम् ।

भोक्तृत्व-मात्र-हेतुत्वं जीवे नान्यत्र कुत्रचित् ॥ इति भविष्यत्-पर्वणि ॥८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु चैतन्य-सामानाधिकरण्येनैव कर्तृत्वादि-प्रतीतेः स्वस्यैव तद्-अङ्गीक्रियतां, नेत्य् आह । कार्यं शरीरम् । कारणम् इन्द्रियम् । कर्ता देवता-वर्गः । तद्-भावापत्तौ पुरुषस्य प्रकृतिं कारणं विदुः । कूटस्थस्य स्वतो विकाराभावात् प्रकृति-परिणाम-भूत-देहाद्य्-अहङ्कार-कृतम् एव कर्तृत्वादिकम् इत्य् अर्थः । भोक्तृत्वे तु पुरुषं कारणं विदुः इत्य् अस्यायं भावः—यद्यप्य् अहङ्कार-गतम् एव कर्तृत्वादिकं भोक्तृत्वं च, तथापि विकारस्य जडावसानत्वाद् उपाधि-प्राधान्यं भोगस्य चिद्-अवसानत्वाद् उपहित-प्राधान्यम् इति ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-उपाधि-प्राधान्येन प्रवर्तमानम् उपाधि-धर्मत्वेन व्यपदिश्यत इत्य् आह—कार्येति । अत्र कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः इत्य् आदौ परमात्म-प्राधान्येन प्रवर्तमानं तु निरुपाधिकम् एव । यथा—

सात्त्विकं कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।

तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ [भा।पु। ११.२५.२६] इति ।

अथ भोक्तृत्वं संवेदन-रूपत्वेन यथा तथा तत्रैव चिद्-रूपे पर्यवस्यतीत्य् आह—भोक्तृत्व इति । कारणं विदुः इति पूर्वेणैवान्वयः । अत्र टीका-मते प्रतिबिम्ब दृष्टान्तो ज्ञेयः । अत्र हि कम्पादिक उपाधेर् धर्मः । प्रकाशस् तूपहितस्य । स्व-मते तु तद् अपि नेष्यते, क्रियापि चैतन्यं विना न सम्भवतीति दृष्टान्त-वैषम्यात् ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवस्य कर्मभिर् एव बन्धस् तेषां कर्मणां च साधने फल-भोगे च क्रमेण प्रकृति-पुरुषाव् एव कारणे इत्य् आह—कार्येति । भूतेन्द्रिय-देवतादिभिर् एव कर्म-सिद्धेस् तेषां भूतेन्द्रिय-देवतानां च कार्य-कारण-कर्तृत्वे प्रकृतिम् एव कारणं विदुः । प्रकृत्यैव तेषां तद्-भावस्य सृष्टत्वाज् जीवस्य कर्म-कारणं मायाधीनम् इत्य् अर्थः । कर्म-फल-दाता च परमेश्वर एवेति जीवस्य कर्म-फल-भोक्तृत्वम् ईश्वराधीनम् एवेत्य् आह—भोक्तृत्वं जीवस्य कर्म-फलानां भोगे पुरुषं कारणं विदुर् इत्य् अन्वयः ॥८॥

———————————————————————————————————————

॥ ३.२६.९ ॥

देवहूतिर् उवाच—

प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ।

ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रकृतिः पुरुषं चैव विध्य् अनादी इति च ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं संसारिणं पुरुषं तद्-धेतुं प्रकृतिं च ज्ञात्वेदानीं जगत्-कारणम् ईश्वरं तत्-प्रकृतिं च पृच्छति—प्रकृतेर् इति । अस्य विश्वस्य । सद् असच् च स्थूलं सूक्ष्मं च कार्यं यद् आत्मकं तयोः प्रकृति-पुरुषयोः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ताव् एव पर्कृति-पुरुषौ विशेषतो जिज्ञासमानाह—प्रकृतेर् इति । अस्य विश्वस्य सद सच् च स्थूलं सूक्ष्मं च कार्यं यद् आत्मकम् ॥९॥

———————————————————————————————————————

॥ ३.२६.१० ॥

श्री-भगवान् उवाच—

यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् ।

प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

व्यक्ताव्यक्तात्मकं यत् तद् विन्द्यात् सद्-असद्-आत्मकम् ।

असर्गा केवला व्यक्ता सिसृक्षुर् उभयात्मिका ॥

व्यक्तैव कार्य-रूपा तु प्रकृतिस् त्रिविधा मता ।

कार्यतः सा प्रधानत्वात् सा प्रधानम् इति कीर्त्यते ।

अविशेषाद् अकार्यत्वात् सा च श्री-विष्णु-संश्रया ॥ इति हरिवंशेषु ।

विशेषः कार्यम् उद्दिष्टं विशेषाद् दृश्यते यतः इति पाद्मे ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रकृतिं लक्षयति । यत् प्रधानं तद् एव प्रकृतिं प्राहुः । किं तत् प्रधानम् ? स्वतोऽविशेषं विशेषवद् विशेषाणाम् आश्रयः । तर्हि किं ब्रह्म ? न, त्रिगुणम् । किं महत्तत्त्वादि ? न, अव्यक्तम् अकार्यम् । किं कालादि ? न, सद्-असद्-आत्मकं कार्य-कारण-रूपम् । किं जीवः प्रकृतिः ? न, नित्यम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथोपादानांशस्य प्रधानस्य लक्षणम् आह—यत् तद् इति । यत् खलु त्रि-गुणं सत्त्वादि-गुण-त्रय-समाहारस् तद् एवाव्यक्तं प्रधानं प्रकृतिं च प्राहुः । तत्राव्यक्त-संज्ञत्वे हेतुः—अविशेषं गुण-त्रय-साम्य-रूपत्वाद् अनभिव्यक्त-विशेषम् अत एवाव्याकृत-संज्ञं चेति गमितम् । प्रधान-संज्ञत्वे हेतुः विशेषवत् । स्वांश-कार्य-रूपाणां महद्-आदि-विशेषाणाम् आश्रय-रूपतया तेभ्यः श्रेष्ठम् । प्रकृति-संज्ञत्वे हेतुः । सद्-असद्-आत्मकं सद्-असत्सु कार्य-कारण-रूपेषु महद्-आदिषु कारणत्वाद् अनुगत आत्मा स्वरूपं यस्य तत् । तथापि नित्यं प्रलये कारण-मात्रात्मनावस्थित-सर्वांशत्वेन सृष्टि-स्थित्योश् चापञ्चीकृतांशत्वेनाविकृतं स्वरूपं यस्य तादृशम् इति ब्रह्मत्वं महद्-आदि-रूपत्वं च व्यावृत्तम् । ब्रह्मणो निर्गुणत्वात् महद्-आदीनां चाव्यक्तापेक्षया कार्य-रूपत्वात् ।

यद् वा, सर्वतोऽप्य् आश्चर्य-रूपत्वेन निर्वक्तुम् अशक्यत्वात् यत्-तच्-छब्देनोक्तम् । अत एव सर्व-श्रेष्ठत्वात् प्रधान-शब्देन ख्यातं वस्तु प्रकृतिं प्राहुः श्रौताह् स्मार्ताश् च । आश्चर्य-रूप्त्वम् एव दर्शयति—त्रिगुणम् अप्य् अव्यक्तम् । सगुणः खौल् व्यक्तीभवत्य् एव । तथा सत् कार्यं, असत् कारणं, तत्-तद्-आत्मकम् अपि नित्यम् । नैव मृद्-आदि । तथा सत्त्वादिभिर् विशेषवद् अपि गुण-साम्य-रूपत्वेनाविशेषम्, नैवम् अन्यद् इति । तद् एवं सिद्धे पूर्ण-वाक्यार्थेऽतिव्याप्तयस् तु यथा-योगम् एकत्वादि-धर्मैः परिहर्तव्याः ॥ [परमात्म-सन्दर्भ ५५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रकृतिं लक्षयति—यत् खलु त्रिगुणं सत्त्वादि-गुण-त्रय-समाहारस् तद् एवाव्यक्तं प्रधानं प्रकृतिं च प्राहुः । तत्राव्यक्त-संज्ञत्वे हेतुः—अविशेषं गुण-त्रय-साम्य-रूपत्वाद् अनभिव्यक्त-विशेषम् । प्रधान-संज्ञत्वे हेतुः—विशेषवत् । स्वांश-कार्य-रूपाणां महद्-आदि-विशेषाणाम् आश्रय-रूपत्वेन तेभ्यः श्रेष्ठम् । प्रकृति-संज्ञत्वे हेतुः—सद्-असद्-आत्मकम् । सद्-असत्सु कार्य-कारण-रूपेषु महद्-आदिषु कारणत्वात् अनुगत आत्मा स्वरूपं यस्य तत् । प्रलयेऽपि कारण-मात्रात्मनावस्थितत्वान् नित्यम् । यद् वा, यत् तद् अनिर्वचनीयं श्रेष्ठत्वात् प्रधानं तत् प्रकृतिं प्राहुः । अनिर्वचनीयत्वम् एवाह—त्रिगुणम् अप्य् अव्यक्तं सगुणं खलु व्यक्तीभवत्य् एव । यथा सत्-कार्यम् असत्-कारणं तत्-तद्-आत्मकम् अपि नित्यम् । तथाभूतं मृद्-आदि खल्व् अनित्यम् एव दृष्टं, तथैव महद्-आदि-विशेषवत् द्रव्यं खलु तद् अन्यद् रूपम् अविशेषं न दृष्टम् इति ॥१०॥

———————————————————————————————————————

॥ ३.२६.११ ॥

पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा ।

एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्येषां तत्त्वानां लक्षणं वक्तुं तानि गणयति—पञ्चभिर् इत्य्-आदि । सङ्ख्याभेदेनैतच् चतुर्-विंशतिकम् एतानि चतुर्-विंशतिर् यस्मिन् गणे तं गणं प्राधानिकं प्रधान-कार्यात्मकं ब्रहम विदुः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्येषां तत्त्वानां लक्षणं वक्तुं तानि गणयति—पञ्चभिर् इत्य्-आदि । पञ्चभिस् तथा पञ्चभिश् चतुर्भिर् दशभिश् च यो गणस् तं प्राधानिकं प्रधानाद् अद्भुतं गणं ब्रह्म ब्रह्मत्वेनोपास्यं विदुर् ज्ञानिनः । गणं कीदृशम् एतानि महा-भूतादीनि चतुर्विंशतिर् यत्र तम् ॥११॥

———————————————————————————————————————

॥ ३.२६.१२ ॥

महा-भूतानि पञ्चैव भूर् आपोऽग्निर् मरुन् नभः ।

तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् विवृणोति—महा-भूतानीति त्रिभिः । तावन्ति पञ्चैव ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तानि विवृणोति त्रिभिः । तावन्ति पञ्चैव ॥१२॥

———————————————————————————————————————

॥ ३.२६.१३ ॥

इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः ।

वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.२६.१४ ॥

मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् ।

चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

बुद्धिर् अध्यवसानाय संशयं कुरुते मनः ।

अभिमानो ह्य् अहङ्कारश् चित्तं स्मरण-कारणम् ॥ इति स्कान्दे ॥१४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तर्-आत्मकम् अन्तः-करणम् । लक्षण-रूपया व्यवच्छेदिकया ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तर्-आत्मकम् अन्तः-करणम् । लक्षण-रूपया व्यवच्छेदिकया वृत्त्या ॥१४॥

———————————————————————————————————————

॥ ३.२६.१५ ॥

एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह ।

सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

हरिस् तु निर्गुणं ब्रह्म श्रीर् ब्रह्म स-गुणं स्मृता ।

तद्-अङ्गजानि तत्त्वानि तस्मात् तद्-रूपम् उच्यते ॥ इति हरि-वंशेषु ।

पुरुषो हृदिस्थः परमः कालः सर्व-गतो हरिः ।

अथवा रुद्र-देहस्थो हरिः काल इतीरितः ॥ इति ब्राह्मे ॥१५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यावान् मया प्रोक्त एतावान् एव सङ्ख्यातो गणितस् तत्त्व-ज्ञैः । काले तु मत-द्वयम् आह—यः कालः स पञ्च-विंशकः । अल्पार्थे क-प्रत्ययः । प्रकृतेर् एवावस्था-विशेष इत्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्व-गुणस्य महद्-आदि-प्रपञ्चस्य । काले तु मत-द्वयम् आह—यः कालः स पञ्च-विंशकः, प्रकृतेर् एवावस्था-विशेष इत्य् अर्थः ॥१५॥

———————————————————————————————————————

॥ ३.२६.१६ ॥

प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् ।

अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : पौरुषं प्रभावं पुरुषस्य प्रकर्षेण भावं व्याप्तं रूपम् । एके सम्यग् ज्ञानिनः, अप्राकृताः ॥१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एके तु पौरुषं पुरुषस्य ईश्वरस्य प्रभास्येश्वरस्य प्रभावं विक्रमं कालम् आहुः । तम् एव कालं द्वेधा लक्षयति, यतो भयं भवति । कस्य ? प्रकृतिम् ईयुषः प्राप्तस्य । अत एव देहेऽहङ्कारेण विमूढस्य कर्तुर् जीवस्य । अनेन संहारकत्वेन लक्षितः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एके तु पौरुषं पुरुषस्य ईश्वरस्य प्रभावं विक्रमं कालम् आहुः—कर्तुर् जीवस्य यतो भयम् इति जीव-क्षोभकत्वेन कालो लक्षितः ॥१६॥

———————————————————————————————————————

॥ ३.२६.१७ ॥

प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि ।

चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सृष्टि-हेतुत्वेन लक्षयति—प्रकृतेर् इति ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृति-क्षोभकत्वेनापि तं लक्षयति—प्रकृतेर् इति ॥१७॥

———————————————————————————————————————

॥ ३.२६.१८ ॥

अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः ।

समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्रकृतेः क्षोभकं रूपं दैवं नारायणात्मकम् ।

प्रकृतौ महतः स्रष्टा परमः पुरुषो मतः ॥

तद् एव वासुदेवाख्यं महत्तत्त्व-नियामकम् ।

सङ्कर्षणाख्यस् तु हरिः सूक्ष्माहङ्कार-यामकः ॥

स्थूलाहङ्कार-नियमो विष्णुः प्रद्युम्न-नामकः ।

अनिरुद्धो मनस्-तत्त्व-नियन्ता भगवान् हरिः ॥

महत्-तत्त्वादि जीवास् तु ब्रह्म-शेषाङ्गजास् तथा ।

सूक्ष्म-स्थूल-विभेदेन कामजाश् चानिरुद्धकः ॥ इति कापिलेये ॥१८-१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कोऽसौ भगवान् ? तम् आह—अन्तर् इति । अन्तः सर्व-प्राणिनां यः पुरुष-रूपेण वियन्तृत्वेन समत्वेति सम्यक् तद् विकार-रहित एवानुस्यूतो वर्तते बहिश् च काल-रूपेण एष भगवान् । यद्वा, यः पुरुष इति प्रसिद्धः कालः स पञ्च-विंशः । एके तु पुरुषस्य प्रभावं कालम् आहुः । प्रभावस्यैव लक्षणं यत इति । पुरुषस्यैव कालत्वे हेतुः, प्रकृतेर् इति । उभयथा विवक्षायां हेतुः—अन्तर् इति । शेषं समानम् । तद् एवं प्रकृतेश् चतुर्-विंशति-भेदाः । जीवेश्वरयोश् चैक्य-विवक्षातः पञ्च-विंशति-तत्त्वानि भवन्ति । तयोर् भेद-विवक्षया च षड्-विंशतिर् भवन्ति ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एवअन्तः पुरुष-रूपेणान्तर्यामि-रूपेण नियन्ता समन्वेति सम्यक् तद्-विकार-रहित एवानुस्यूतो वर्तते बहिश् च काल-रूपेण नियन्ता सत्त्वानां सर्व-प्राणिनाम् । तद् एवं प्राधानिको गणश् चतुर्विंशति-सङ्ख्यः । कालो जीवश् चेति द्वौ प्रकृति-पुरुषौ च द्वौ मिलित्वा अष्टाविंशतिस् तत्त्वानि भवन्ति ॥१८॥

———————————————————————————————————————

॥ ३.२६.१९ ॥

दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् ।

आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं तत्त्वानाम् उत्पत्ति-पूर्वकं लक्षणान्य् आह—दैवाद् इत्य्-आदिना एतान्य् असंहत्येत्य् अतः प्राक्तनेन ग्रन्थेन । तत्र चित्तस्योत्पत्ति-पूर्वकं लक्षणम् आह चतुर्भिः । दैवाज् जीवादृष्टात् क्षुभिता धर्मा गुणा यस्याः । योनाव् अभिव्यक्ति-स्थाने प्रकृतौ। वीर्यं चिच्-छक्तिम् । सा प्रकृतिर् महत्-तत्त्वम् असूत । महतः स्वरूपम् आह—हिरण्मयं प्रकाश-बहुलम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं तत्त्वेषु लक्षयितव्येषु प्रथमं चित्तस्योत्पत्ति-पूर्वकं लक्षणम् आह—दैवात् कालात् क्षुभिता धर्मा गुणा यस्यास् तस्यां योनाव् अभिव्यक्ति-स्थाने वीर्यं चिच्-छक्त्य्-आख्यं चैतन्यम् । सा प्रकृतिर् महत्-तत्त्वम् असूत । हिरण्मयं प्रकाश-बहुलम् ॥१९॥

———————————————————————————————————————

॥ ३.२६.२० ॥

विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः ।

स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अङ्के रमयते यस्मात् केशवो जगद्-अङ्कुरः ।

महान्तं योऽसृजज् जीवं मोहकं च तमोऽग्रसत् ॥ इति च ॥२०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्वम् अहङ्कारादि-प्रपञ्चम् । आत्म-गतं स्वस्मिन् सूक्ष्म-रूपेण स्थितं व्यञ्जन् प्रकटयन् महांस् तीव्रं प्रलय-कालीनं तमोऽपिबत् । कूट-स्थो लय-विक्षेप-शून्यः । कथं-भूतं तमः ? आत्मानं प्रस्वापयति प्रच्छादयतीति तथा । यत् पूर्वं प्रलय-समये महान्तं प्रकृतौ विलापयाम् आसेत्य् अर्थः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वम् अहङ्कारादि-प्रपञ्चम् आत्म-गतं स्वस्मिन् सूक्ष्म-रूपेण स्थितं व्यञ्जयन् प्रकटयन्,सर्वत्र पुंस्त्वं तत्त्व-पद-त्यागेन महान् इत्य् एतस्यैव विशेष्यीकृतत्वात् । कूट-स्थः मनोवल् लय-विक्षेप-शून्यआत्मानं प्रस्वापयति तथा यत् तमः पूर्व-प्रलय-समये महान्तं प्रकृतौ विलापयाम् आसेत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ ३.२६.२१ ॥

यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् ।

यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यद् वासुदेवाख्यं भगवद्-रूपं ततो महद्-आत्मकं चित्तं जायते । सत्त्व-शब्देन चोच्यन्ते पूर्णानन्दादयो गुणा इति च ॥२१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गाच् चतुर्-व्यूहोपासनाम् आह—यत् तद् इति । सर्वागम-प्रसिद्धत्वम् आह—स्वच्छं विशदम् । शान्तं रागादि-रहितम् । भगवतः पदम् उपलब्धि-स्थानम् । अत एव वासुदेवाख्यं यद् आहुः । अयम् अर्थः—अधिभूत-रूपेण तस्यैव महान् इति संज्ञा, अध्यात्म-रूपेण चित्तम् इति, उपास्य-रूपेण वासुदेव इति, अधिष्ठाता तु तस्य क्षेत्र-ज्ञः, एवम् अहङ्कारे सङ्कर्षण उपास्यः, रुद्रोऽधिष्ठाता, मनस्य् अनिरुद्ध उपास्यः, चन्द्रोऽधिष्ठाता, बुद्धौ प्रद्युम्न उपास्यः, ब्रह्माधिष्ठातेति ज्ञातव्यम् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् तत् प्रसिद्धं चित्तं तन् महद्-आत्मकं महत्-तत्त्वम् एव देहे चित्त-रूपेण तिष्ठतीत्य् अर्थः । स्वच्छं निर्मलं शान्तं रागादि-शून्यं भगवतः पदम् उपासना-पीठं यद् यं भगवन्तं वासुदेवाख्यम् आहुर् इति चित्ताहङ्कार-बुद्धि-मनःसु क्रमेण वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धा उपास्य-देवताः चित्तादि-शुद्ध्य्-अर्थं ज्ञेयाः । विष्णु-रुद्र-ब्रह्म-चन्द्रास् त्व् अधिष्ठातारः ॥२१॥

———————————————————————————————————————

॥ ३.२६.२२ ॥

स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः ।

वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

महत्-तत्त्व-गतो योऽसौ वासुदेवाभिधो हरिः ।

स चित्त-जनकः प्रोक्तः प्राणिनां च पृथक् पृथक् ॥ इति च ।

चित्तस्य स्वच्छत्वादयः पृथग्-गुणा उच्यन्ते । स्वच्छत्वम् इत्य्-आदि । स्तिमितोदक-चित्तादेर् अवकारोऽल्प-विक्रिया इति तत्त्व-विवेके । वृत्तिः स्वभावो वृत्तं च स्थितिर् इत्य् अभिधीयते इति शब्द-निर्णये । वृत्तिभिर् लक्षणं प्रोक्तम् इति स्वाभाविकं लक्षणम् इत्य् अर्थः ॥२२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वच्छत्वं भगवद्-बिम्ब-ग्राहित्वम् । अविकारित्वं लय-विक्षेप-राहित्यम् । अपां प्रकृतिः फेन-तरङ्गादि-रहितावस्था । परा भू-संसर्गात् प्राक्तनी सा यथा मधुरा स्वच्छा शान्ता च तद्वद् इत्य् अर्थः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु देह-स्थस्य चित्तस्य सर्वत्र स्वच्छत्वादि-गुणो नोपलभ्यते ? तत्राह—स्वच्छत्वं भगद्-बिम्ब-ग्राहित्वम् अविकारित्वं लय-विक्षेप-राहित्यं शान्तस्यं रागादि-राहित्यम् इति लक्षणं चेतसश् चित्तस्य वृत्तिभिः स्वाभाविकीभिर् एव प्रोक्तम् । यथा अपां परा प्रकृतिर् उत्कृष्टः स्वभावः । तेन खल्व् आपः स्वच्छाः फेन-तरङ्गादि-रहिता मधुराः शान्ता भवन्ति । यथा च भूम्य्-आदि-संसर्गाद् अस्वच्छत्वादिमत्यो भवन्ति, तथैव चित्तम् अपि दुर्विषये आसक्तं चेतना-संसर्गाद् अस्वच्छम् अपि भवतीत्य् अर्थः ॥२२॥

———————————————————————————————————————

॥ ३.२६.२३ ॥

महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् ।

क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत ॥

वैकारिकस् तैजसश् च तामसश् च यतो भवः ।

मनसश् चेन्द्रियाणां च भूतानां महताम् अपि ॥

सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते ।

सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ज्ञान-प्रधानस् तु महान् अहङ्कारः क्रियाधिकः ।

इत्यरापेक्षया सोऽपि ज्ञानाधिक इतीरितः ॥ इति च ।

देवताधिकृतं यत् तद् अधिदैवम् इति स्मृतम् इति च । वैकारिकोऽधिदैवम् इत्य्-आदि पञ्चम्य्-अर्थे । सप्तसु प्रथमो यत्र स्वातन्त्र्यं यद् विवक्षितम् इति शब्द-निर्णये ।

मनो-रूपेण कर्तृत्वं देह-रूपेण कार्यता ।

इन्द्रियात्मतया चैव करणत्वम् अहङ्कृतेः ॥

यतो मनसाहं-भावस् तस्मात् कर्तृ-मनः स्मृतम् ।

स्वभाव-कर्तृ-जीवस्य त्वासन्नोपाधि तद् यतः ॥

कर्म-ज्ञाने करणता यतः करणम् इन्द्रियम् ।

कार्यं देहः समुद्दिष्टम् उत्पाद्यत्वात् पुनः पुनः ॥

शान्त-रूपो देव-पिता घोरः करणासृङ्-मुखः ।

तावज् ज्ञानस्याप्रकाशान् मूढो भूत-पिता स्मृतः ।

तिर्-रूपोऽयम् अहङ्कारः शेष इत्य् एवं तं विदुः ॥ इति तत्त्व-विवेके ॥२५-२८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अनुवृत्तिः कृपयैवेति सूचयन्न् अपकारिष्व् अपि तस्य कृपालुतां दर्शयन्न् आह—अहो आश्चर्यं कृपालुतायाः । हन्तुम् इच्छयापि स्तनयोः संभृतं काल-कूटं विषं यम् अपाययत् । बकी पूतना असाध्वी दुष्टापि धात्र्या यशोदाया उचितां गतिं लेभे । भक्त-वेष-मात्रेण यः सद्-गतिं दत्तवान् इत्य् अर्थः । ततोऽन्यं कं वा भजेम ॥२३॥

ननु भागवतान् एव भगवान् अनुगृह्णातीति प्रसिद्धम्, सत्यम्, असुरान् अप्य् अकं भागवतान् एव मन्ये, यतो भागवता इव तेऽपि भगवद् ध्यानाभिनिवेशेन भगवन्तम् अपरोक्षं पश्यन्तीत्य् आह—संरम्भः क्रोधावेशस् तेन मार्गेणाभिनिविष्टं चित्तं येषां तान् । अत एव ये सङ्ग्रामे तार्क्ष्यः कश्यपस् तस्य पुत्रं गरुडमंसे स्कन्धे सुनाभायुधश् चक्रायुधोऽरिर् यस्य तम् अचक्षतापश्यन् । तस्मात् तेष्व् अप्य् अनुग्रहो युक्त एवेत्य् अर्थः । वक्ष्यति च—तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत्[भा।पु। ७.१.२८] इति ॥२४॥

इदानीं तस्यान्तर् धान-प्रकारं वक्तुम् आदित आरभ्य तच् चरितं सङ्क्षेपतः कथयति । वसुदेवस्य भार्यायां जातः । भोजेन्द्रः कंसस् तस्य बन्धनागारे । अस्याः पृथिव्याः शं सुखं स्वयं चिकीऋषुः अजेन ब्रह्मणा च याचितः सन् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रियासु मन-आद्य्-उत्पादनेषु शक्तिर् यस्य सः ॥२३॥

मनस इत्य् उपलक्षणं देवानाम् अपि भूतानां महताम् अपीत्य् अत्र भूत-सूक्ष्मादि-क्रमस् त्व् अवान्तरो ज्ञेयः ॥२४॥

यम् अहङ्कारं साक्षाद् अनन्तं प्रचक्षते उपास्य-तद्-अधिष्ठानयोस् तादात्म्यापत्तिं दृष्ट्वा तत् तुल्यं वदन्तीत्य् अर्थः साक्षात् प्रत्यक्ष-तुल्ययोः इत्य् अमरः । अहङ्कारं विशिनष्टि—भूतेति । अनन्तं विशिनष्टि—सहस्रशिरसम् इत्य्-आदि-पद-त्रयेण । तत्र सङ्कर्षणाख्यं पुरुषं प्रथमं पुरुषम् इत्य् अर्थः ।*।*२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहङ्कारस्योत्पत्ति-पूर्वकं लक्षणम् आह—महत्-तत्त्वाद् इति । क्रिया-शक्तिर् इत्य् उपलक्षणं ज्ञान-क्रिया-द्रव्येष्व् अपि तस्य शक्तिमत्त्वात् । यतो येभ्यो वैकारिक-तैजस-तामसेभ्यो मन इन्द्रिय-भूतानां क्रमेण भव उत्पत्तिः । तत्रोपास्य-देवताम् आह—सहस्रेति । यम् इति मञ्चाः क्रोशन्तीति न्यायेन यत्-स्थम् इत्य् अर्थः ॥२३-२५॥

———————————————————————————————————————

॥ ३.२६.२६ ॥

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।

शान्त-घोर-विमूढत्वम् इति वा स्याद् अहङ्कृतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लक्षणम् आह—कर्तृत्वम् इति । कर्तृत्वं देवतादि-रूपेण । करणत्वम् इन्द्रिय-रूपेण । कार्यत्वं भूत-रूपेण । शान्तत्वादिकं तु तत् तत् कारण-गुण-त्रय-रूपेण ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्तृत्वम् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्तृत्वं देवता-रूपेण करणत्वम् इन्द्रिय-रूपेण कार्यत्वं भूत-रूपेण शान्तत्वादिकं त्रि-गुण-मयत्वेन ॥२६॥

———————————————————————————————————————

॥ ३.२६.२७ ॥

वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत ।

यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनस उत्पत्ति-पूर्वकं लक्षणम् आह—वैकारिकाद् इति द्वाभ्याम् । सङ्कल्पश् चिन्तनम्, विकल्पो विशेष-चिन्तनम् । यस्य मनसः सङ्कल्प-विकल्पाभ्यां काम-संभवो वर्तत इति काम-रूपा वृत्तिर् लक्षणत्वेनोक्ता, न तु प्रद्युम्न-व्यूहोत्पत्तिः, तस्य सङ्कल्पादि-कार्यत्वाभवात्, उपास्य-व्यूहस्य चानिरुद्धस्योक्तेः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यतो मनसः सङ्कल्पः सामान्यतो विषय-जिघृक्षा सामान्य-विषयस्यैव विविध-सङ्कल्पनेन विशेषतो जिघृक्षा विकल्पश् च ताभ्यां कामस्य मनोरथस्य सम्भवो भवति ॥२७॥

———————————————————————————————————————

॥ ३.२६.२८ ॥

यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् ।

शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शारदं शरत्-कालीनम् इन्दीवरं नीलोत्पलं तद् इव श्यामम् । यच् छनैः संराध्यं वशी-कर्तुं योग्यम्, दुर्ग्रहत्वात् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् विदुर् इति पूर्ववत् ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् यत्-स्थम् ॥२८॥

———————————————————————————————————————

॥ ३.२६.२९ ॥

तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति ।

द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : द्रव्य-स्फुरणे यद् विशेष-ज्ञानम् ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : बुद्धेर् उत्पत्ति-पूर्वकं लक्षणाम् आह—तैजसाद् इति द्वाभ्याम् । हे सति !द्रव्य-स्फुरण-रूपं विज्ञानम् इति चित्त-व्यावृत्त्य्-अर्थम् उक्तम् । इन्द्रियाणाम् अनुग्रह इति स-विकल्प-ज्ञाने । हृषीकाणाम् अधीश्वरम् इति यद् उक्तं तत् तु निर्विकल्पक-ज्ञाने ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तैजसाद् इत्य्-आदि युग्मकम् । चित्तस्य ग्रहण-मात्रं बुद्धेस् तु द्रव्य-स्फुरण-रूपं विज्ञानं विज्ञान-मात्र-विचारः मनसस् तु चिन्तन-मात्रं तद् इदं च स-विकल्प-ज्ञानानन्तरं तद् इदम् इति स्मृतिः ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रव्य-स्फुरण-रूपं विज्ञानम् इति चित्त-व्यावृत्त्य्-अर्थं चेतना-रूपं विज्ञानं तु चित्त-धर्मो ज्ञेयः । इन्द्रियानाम् अनुग्रह इति बुद्ध्या विना पञ्चेन्द्रियाणि न प्रवर्तितुं शक्नुवन्तीत्य् अर्थः । यद्यपि चित्ताहङ्कार-मनांस्य् अपीन्द्रियानुग्राहकाणि, तद् अपि बुद्ध्या तद्-अनुग्रह-विशेषो ज्ञेयः । तथा हि-शब्दं शृणोमीत्य् अत्र प्रथमं चित्तेन चेतना-मात्रं निधीयते । बुद्ध्या शब्दोऽयम् इति स्फूर्तिः मनसा शब्दे जिघृक्षा अहङ्कारेण तत्र स्वाभिमानार्पणम् इति भेदः ॥२९॥

———————————————————————————————————————

॥ ३.२६.३० ॥

संशयोऽथ विपर्यासो निश्चयः स्मृतिर् एव च ।

स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सामान्यं मनसा जातं विशेषाद् बुद्धिजं भवेत् ।

अचलः संशयो बुद्धेश् चलो मानस उच्यते ।

चञ्चला तु स्मृतिर् बुद्धिश् चित्तजैव स्थिरा स्मृतिः ॥ इति च ।

येन यज् ज्ञायते वस्तु तत्-तल्-लक्षणम् उच्यते ।

तत्-स्वरूपं पृथक् चेति द्विविधं कवयो विदुः ॥ इति कापिलेये ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्य-स्फुरणस्यैव प्रपञ्चः संशयादिः । विपर्यासो मिथ्या-ज्ञानम् । निश्चयः प्रमाण-ज्ञानम् । स्वापो निद्रा । प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः[यो।सू। १.६]इति पातञ्जलोक्तेः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बुद्धेस् तु संशयादि-ज्ञानानन्तरं तत्-तद्-विशेष-चिन्तन-रूपतेति भेदः । अत्र तु बुद्धाव् अधिष्ठाता ब्रह्मा उपास्यः प्रद्युम्नो ज्ञेयः पूर्ववद् उपासनार्थम् अभेद उक्तः ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रव्य-स्फुरणस्यैव प्रपञ्चः विपर्यासो मिथ्या-ज्ञानं निश्चयः प्रमाण-ज्ञानं स्वापो निद्रा । प्रमाण-विपर्यय-विकल्प-निद्रास्मृतयःइति पातञ्जलोक्तेः ॥३०॥

———————————————————————————————————————

॥ ३.२६.३१ ॥

तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः ।

प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियाणाम् उत्पत्तिम् आह—तैजसानि तैजसाहङ्काराज् जातानि । ज्ञानेन्द्रियाणां वैकारिकत्व-शङ्कानिवृत्त्य्-अर्थम् एवकारः । द्वि-विधान्य् अपीन्द्रियाणि तैजसान्य् एवेत्य् अन्वयः । तत्र हेतुः, प्राणस्येति । हि यस्मात् प्राणस्य क्रिया-शक्तिर् बुद्धेश् च विज्ञान-शक्तिता । अतः प्राणस्य तैजसट्वात् तत् क्रिया-शक्तिमताम् इन्द्रियाणां तैजसट्वम् । तथा बुद्धेस् तैजसत्वात् तदीय-ज्ञान-शक्तिमताम् अपीन्द्रियाणां तैजसत्वम् इत्य् अर्थः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानेन्द्रियाणाम् अपि तैजसत्वं स-विकल्पक-ज्ञानत्वेन रजः-प्रचुरत्वात् ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियाणि तैजसान्य् एव तैजसाहङ्काराज् जातानि । ज्ञानेन्द्रियाणां वैकारिकत्व-शङ्का-निवृत्त्य्-अर्थम् एव-कारः । द्विविधानाम् अपीन्द्रियाणां तैजसत्वे हेतुः—प्राणस्येति । हि यस्मात् । प्राणस्य क्रिया-शक्तिर् अतः प्राणस्य तैजसत्वात् तत्-क्रिया-शक्तिमताम् अपीन्द्रियाणां तैजसत्वम् । तथा बुद्धेर् विज्ञान-शक्तिता, अतो बुद्धेः स-विकल्पक-ज्ञान-वृत्तित्वेन रजः-प्रचुरत्वात् तैजसत्वेन तदीय-ज्ञान-शक्तिमताम् इन्द्रियाणाम् अपि तैजसत्वम् ॥३१॥

———————————————————————————————————————

॥ ३.२६.३२ ॥

तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् ।

शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्रधान-वायुः सूत्रात्मा महता सह जायते ।

तेजसश् च ऋजः स्पर्श इत्य् आद्यास् त-सुताः स्मृताः ॥ इति च ॥३२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तन् मात्रोत्पत्ति-पूर्वकम् आकाशादि-महा-भूतोत्पत्तिं तल्-लक्षणं चाह—तामसाद् इति पञ्चदशभिः । श्रोत्रं तु शब्द-गम् इत्य्-आदिभिर् विषयोत्पत्त्य्-अनन्तरं तत् संबन्ध-मात्रं कथ्यते न तूत्पत्तिः । प्राग् एवोत्पन्नत्वात् । शब्दं गच्छति प्राप्नोतीति शब्द-गम् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवद्-वीर्यं काल-रूपस् तत्-प्रभावः श्रोत्रं तु शब्दगम् इत्य् अनेन तटस्थ-लक्षणं लक्ष्यते । श्रोत्र-ग्राह्यत्वं शब्दत्वम् इति । अन्यद् अन्यत् तु विवरण-मात्रम्, एवम् उत्तरत्रापि ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-वीर्यं काल-रूपस् तत्-प्रभावस् तेन प्रेरितात् स शब्दः केन गृह्यते इत्य् अपेक्षायाम् आह—श्रोत्रं तैजसाहङ्कार-कार्यं श्रोत्रेन्द्रियं कर्तृ-शब्दं गच्छति प्राप्नोतीति तत् ॥३२॥

———————————————————————————————————————

॥ ३.२६.३३ ॥

अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च ।

तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अर्थाश्रयत्वम् अर्थ-विषयत्वम् ॥३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : शब्दस्य लक्षणम् आह—अर्थाश्रयत्वम् अर्थ-वाचकत्वम् । द्रष्टुर् लिङ्गत्वं कुड्यान्तरितस्य वक्तुर् ज्ञापकत्वम् । तद् उक्तम्, लिङ्गं यद् द्रष्टृ-दृश्ययोर् इति । नभसस् तन् मात्रत्वं सूक्ष्मत्वं शब्दस्य लक्षणम् इत्य् अन्वयः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शब्दस्य लक्षणं कवय आहुः । किं तत् ? अर्थाश्रयत्वम् अर्थ-वाचकत्वं द्रष्टु-लिङ्गत्वं राम-कृष्णादि-लीला-द्रष्टृ-व्यास-शुकादि-ज्ञापकत्वम् । यद् वा, कुड्यान्तरितस्यापि वक्तुर् ज्ञापकत्वं, तथा नभसस् तन्-मात्रत्वम् आकाश-सूक्ष्म-रूपत्वम् ॥३३॥

———————————————————————————————————————

॥ ३.२६.३४ ॥

भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च ।

प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नभसो लक्षणम् आह—भूतानाम् इति । छिद्र-दातृत्वम् अवकाश-दातृत्वम् । बहिर् अन्तर् व्यवहारास्पदत्वम् । आत्मा मनः । प्राणादीनां धिष्ण्यत्वम् आश्रयत्वं नाड्यादि-च्छिद्र-रूपेण । वृत्तिः कार्यम् एव लक्षणं वृत्ति-लक्षणम् । एवम् उत्तरत्राप्य् एकेन श्लोकेन तन् मात्रम्हाभूतयोर् उत्पत्तिः । द्वितीयेन तन् मात्र-लक्षणम् । तृतीयेन महा-भूत-लक्षणम् इत्य् अनुसन्धेयम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्थाश्रयत्वं शब्द-विशेषस्य द्रष्टुर् लिङ्गत्वं च । स्वरूप-लक्षणं तु तन्-मात्रत्वं नभस इति लक्षणं चेदम् अभेद-विवक्षयैव । वस्तुतस् तु शब्दादयो द्विविधाः । आकाशादि-द्रव्याणां सूक्ष्मावस्था गुणावस्थाश् च । तत्राद्यास् तन्-मात्र-रूपाः अर्थाश्रयादि-रूपास् त्व् अन्ये इति ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आकाशस्य लक्षणम् आह—छिद्र-दातृत्वम् अवकाश-दातृत्वं बहिर् अन्तरं बहिर्-अन्तर-व्यवहारास्पदत्वम् । प्राणेन्द्रिय-मनसां धिष्ण्यत्वं नाड्यादि-छिद्र-रूपेणाश्रयत्वं नभसो वृत्तिभिर् धर्मैर् लक्षणम् ॥३४॥

———————————————————————————————————————

॥ ३.२६.३५ ॥

नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः ।

स्पर्शोऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शब्देनैव यतो ज्ञेयो हरि-लिङ्गं तु तस्य तत् ।

स्पर्शाद्य्-अभावात् तन्-मात्रा नभसश् चेति कीर्त्यते ॥

स्पर्शादयश् च तन्-मात्रा इतरे पूर्व-संस्थितेः ।

तिष्ठत्य् एको गुणो भूते प्रत्येकं पञ्चसु स्थितः ॥

शब्दो वर्णात्मको नित्यो ध्वनिर् आकाश-सम्भवः ।

आकाश एव सूक्ष्मस् तु ध्वनिर् इत्य् एव शब्द्यते ॥

स एव व्यज्यमानस् तु भवेत् कर्णैक-गोचरः ।

नभसः शब्द-तन्-मात्राच् छब्द-मात्रा गुणाभवन् ॥

स्पर्शादयोऽपि वाय्व्-आदेः सूक्ष्मावस्था प्रकीर्तिता ।

सूक्ष्मेन्द्रियाणि सन्त्य् एव स्युः स्थूलान्य् अहङ्कृतेः ।

भूतेभ्यश् चोपचीयन्ते पुनर् ब्रह्म-शरीरतः ॥ इति च ॥३५-३७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : का सा त्वक् । स्पर्शस्य सङ्ग्रहः सम्यग् ग्रहणं यया । पुंस्त्वं नियत-लिङ्गत्वात् । यद् वा, स्पर्शस्य सङ्ग्रहस् ततो भवतीति शेषः । शब्द-तन्-मात्राद् इत्य्-आदि-तन्-मात्राणाम् उत्तरोत्तरान्वयार्थम् उक्तम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शब्द एव तन्-मात्रं यस्य तथा-भूतान् नभसः सकाशात्, सङ्ग्रहः सम्यक् गृह्यतेऽनयेति करणे अप् । त्वक् त्वग्-इन्द्रियं स्पर्श-ग्रहणे करणम् इत्य् अर्थः ॥३५॥

———————————————————————————————————————

॥ ३.२६.३६ ॥

मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च ।

एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्पर्श-लक्षणम् आह—मृदुत्वम् इति । स्पर्शत्वं स्वरूप-लक्षणम् इत्य् अर्थः । नभस्वतो वायोस् तन्-मात्रत्वं च ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्पर्शस्य लक्षणम् आह—स्पर्शत्वं स्वरूप-लक्षणम् इत्य् अर्थः । नभस्वतो वायोस् तन्-मात्रत्वम् ॥३६॥

———————————————————————————————————————

॥ ३.२६.३७ ॥

चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः ।

सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चालनं वृक्ष-शाखादेः । व्यूहनं मेलनं तृणादेः । प्राप्तिः संयोगो द्रव्यस्य गन्धवतो घ्राणं प्रति । तथा शैत्यादिमतः स्पर्शनं प्रति । शब्दस्य श्रोत्रं प्रति नेतृत्वम् । सर्वेन्द्रियाणाम् आत्मत्वम् उपोद्बलकत्वम् । कर्मणा कार्येणाभिलक्षणम् । भावे ल्युट् । कर्मैवाभिलक्षणम् इति विग्रहे तु करणे ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वायोर् लक्षणम् आह—चालनं वृक्ष-शाखादेः । व्यूहनं मेलनं तृणादेः । प्राप्तिः वस्तु-मात्रेण संयोगः । द्रव्य-शब्दयोः द्रव्यस्य गन्धवतो घ्राणं प्रति । शैत्यादिमतस् त्वचं प्रति, शब्दस्य श्रोत्रं प्रति नेतृत्वम् ।अत्र प्राप्तिः संयोग एव चालन-व्यूहन-नेतृत्वानि संयोग-विशेष इति ज्ञेयम् ।सर्वेन्द्रियाणाम् आत्मत्वं संजीवकत्वं वायोः कर्मैव अभि सर्वतो-भावेन लक्षणं, लक्ष्यतेऽनेनेति लक्षणं करणे ल्युट् ॥३७॥

———————————————————————————————————————

॥ ३.२६.३८ ॥

वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् ।

समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्राप्नोति वायुः सर्वं तु स्वत एव हरेस् तथा ।

अतः प्राप्तिर् इति प्राहुर् वायुं भूत-पतिं प्रभुम् ।

प्रधान-वायुर् अन्येषु नित्याविष्टो यतस् ततः ।

तद्-गुणास् तेषु चोच्यन्ते नीचता नास्य तत्-कृतेः ॥ इति ब्रह्म-वैवर्ते ॥

स्वरूपम् अपि कर्मेति विषयत्वाद् दीर्यते इति शब्द-निर्णये ॥३८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तेजसस् तेजस्त्वम् असाधारणत्वम् इति तद्-बोधकम् इत्य् अर्थः । रूपेणैव हि तेजसोऽसाधारणत्वं गम्यते असाधारण-रूपवद् द्रव्यं तेज इति ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२६.३९ ॥

द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च ।

तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : व्यक्ति संस्थातं व्यक्ततेन स्थितिः । गुणता प्रकाशत्वम् ।आलोको गुण इत्य् एव प्रकाशश् चेति कथ्यते इत्य् अभिधानम् ।तेजस्त्वम् अथ चोग्रत्वं क्रौर्यम् इत्य् अपि चोच्यते इत्य् अभिधानम् ॥३९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्याकृतित्वं द्रव्यस्याकार-समर्पकत्वम् । गुणता द्रव्योपसर्जनतया प्रतीतिः । शब्दस्य तु स्वातन्त्र्येणैव प्रतीतिः । अप्रत्यक्ष-द्रव्यस्य स्पर्शादेर् अपि स्वातन्त्र्येणैव प्रतीतिः रूपस्य तु नैवम् इति तस्यायं विशेष उक्तः । व्यक्ति-संस्थात्वं व्यक्तेर् द्रव्यस्य या संस्था सन्निवेशः सैव संस्था यस्य तत् परिणामतया प्रतीतिर् इत्य् अर्थः । तेजसस् तेजस्त्वम् असाधारणत्वम् ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूपस्य लक्षणम् आह—द्रव्यस्याकृतित्वम् आकार-समर्पकत्वम् । गुणता द्रव्योपसर्जनतया प्रतीतिः शब्दस्य तु स्वातन्त्र्येणैव प्रतीतिः । अप्रत्यक्ष-द्रव्यस्य स्पर्शाद् एव स्वातन्त्र्येणैव प्रतीतिः । रूपस्य तु नैवम् । व्यक्ति-संस्थात्वं व्यक्तेर् द्रव्यस्य या संस्था सन्निवेश सैव संस्था यस्य तस्य भावस् तत्त्वं द्रव्य-परिमाणेनैव यत्-परिमाण-प्रतीतीत्य् अर्थः । तेजसस् तेजस्त्वं तन्-मात्रत्वं, वृत्तयो दृश्हाः ॥३९॥

———————————————————————————————————————

॥ ३.२६.४० ॥

द्योतनं पचनं पानम् अदनं हिम-मर्दनम् ।

तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्योतनं प्रकाशनं, पचनं तण्डुलादेः । क्षुत् तृड् अशना पिपासा च तद् द्वारेण पानम् अदनं च ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेजसो लक्षणम् आह—द्योतनं प्रकाशनं, पचनं तण्डुलादेः । क्षुत् क्षुधा । तृट् टृष्णा । तद्-द्वारेण अदनं पचनं च ॥४०॥

———————————————————————————————————————

॥ ३.२६.४१ ॥

रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् ।

रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जिह्वा रसनेन्द्रियम् । रसो गृह्यतेऽनयेति रस-ग्रहः । यद् वा, रस-ग्रहस् ततो भवतीति शेषः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२६.४२ ॥

कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा ।

भौतिकानां विकारेण रस एको विभिद्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कषायादिषु लवणोऽपि द्रष्टव्यः । भौतिकानां संसर्गि-द्रव्याणाम् । य एको मधुर एव सन्न् एवम् अनेकधा भिद्यते स रस इत्य् अर्थः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रसस्य लक्षणम् आह—कषाय इति । कषायादिषु लवणोऽपि द्रष्टव्यः । भौतिकानां संसर्गि-द्रव्याणां य एको मधुर एव सन् एकम् अनेकधा भिद्यते स रस इत्य् अर्थः ॥४२॥

———————————————————————————————————————

॥ ३.२६.४३ ॥

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोदनम् ।

तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : उदनं बिन्दु-भावः स्यात् स्यन्दनं स्रवणं स्मृतम् इत्य् अभिधानम् । पृथिव्य्-अग्न्य्-अपेक्षया भूयस्त्वं देहे ॥४३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्लेदनम् आर्द्री-करणम् । पिण्डनं मृद्-आदेः पिण्डी-करणम् । तृप्तिस् तृप्ति-दातृत्वम् । प्राणनं जीवनम् ।आपो-मयः प्राणः इति स्मृतेः, आप्यायनं तृड्-वैक्लव्य-निवर्तनम् ।उन्दनं मृदू-करणम् । ओन्दनम् इति पाठेऽपि स एवार्थः । भूयस्त्वं कूपादाव् उद्भृतस्यापि पुनः पुनर् उद्भवः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भूयस्त्वं चन्द्रादि-दर्शनेन समुद्रादाव् इव ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्भसो लक्षणम् आह—क्लेदनम् आर्द्री-करणम् । पिण्डनं मृद्-आदेः पिण्डी-करणम् । तृप्तिस् तृप्ति-दातृत्वम् । प्राणनं जीवनम् ।आपो-मयः प्राणः इति श्रुतेः, आप्यायनं तृड्-वैक्लव्य-निवर्तनम् । उदनं मृदू-करणम् ।उन्दनम् इति पाठेऽपि स एवार्थः । भूयस्त्वं कूपादाव् उद्धृतस्यापि पुनः पुनर् उद्गमः ॥४३॥

———————————————————————————————————————

॥ ३.२६.४४ ॥

रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् ।

गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गन्ध-गो गन्धं प्राप्नोति ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२६.४५ ॥

करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् ।

द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : करम्भो मिश्र-गन्धः, यथा व्यञ्जनादीनां हिङ्ग्व्-आदि-संस्कारेण । पूतिर् दुर्गन्धः । सौरभ्यं कर्पूरादेः । शान्तः शत-पत्रादेः । उग्रो लशुनादेः । अम्लस् तिन्तिण्य्-आदेः । संसर्गिणां द्रव्यावयवानां वैषम्याद्य एवं विभिद्यते, स गन्ध इत्य् अर्थः ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गन्धस्य लक्षणम् आह—करम्भो मिश्र-गन्धः, यथा व्यञ्जनादीनां हिङ्ग्व्-आदि-संस्कारे । पूतिर् दुर्गन्धः॥४५॥

———————————————————————————————————————

॥ ३.२६.४६ ॥

भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् ।

सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भावनम् उत्पादकत्वम् ।ब्रह्म-स्थानं तु पृथिवी शरीरे ब्रह्म-दर्शनात् इति कापिलेये । सद्-विशेषेण व्यक्तत्वम् ।असद्-अव्यक्त-नाम स्याद् व्यक्तं सद् इति चोच्यते इति ब्राह्मे । सर्व-सत्त्व-गुणोद्भेदः शरीरे हि सर्व-प्राणिनां गुणा व्यज्यन्ते संसारावस्थायाम् ।

शरीरं पार्थिवं ज्ञेयम् इन्द्रिय्य् औदकानि तु ।

तैजसः कोष्ठगो वह्निश् छिद्रम् आकाश-सम्भवम् ।

प्राणा वायुमयाः सर्वे प्रत्येकं पञ्चधा पुनः ॥ इति कापिलेये ॥४६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मणो भावनं प्रतिमादि-रूपेण साकारतापादनम् । स्थानं जलादि-विलक्षणतयाश्रयान्तर-नैरपेक्ष्येण स्थितिः । धारणं जलाद्य्-आधारत्वम् । सताम् आकाशादीनां विशेषणम् अवच्छेदकत्वम् । सर्वेषां सत्त्वानां प्राणिनां तद्-गुणानां च पुंस्त्वादीनाम् उद्भेदः परिणाम् अविशेषैः प्रकटी-करणम् ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भावनम् इति । ब्रह्मणः परमेश्वरस्य तस्य भावनम् इन्द्रनीलादि-रूपायास् तस्या रूपादि-दृष्टान्तत्वेन स्मरण-हेतुत्वं जलादौ गन्धाद्य्-अभावात् असम्यक्त्वम् इति । यद् वा, विराड्-रूपेण तस्य भावनं भावनोपाधित्वम् ॥४६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथिव्या लक्षणम् आह—ब्रह्मणः परमेश्वरस्य भावनं प्रतिमा-निर्माण-कारणत्वम् । स्थानं जलादि-विलक्षणतया नैरपेक्ष्येण स्थितिः । धारणं जलाद्योधारत्वम् । सत्यम् आकाशादीनां विशेषणम् । विशेषण-हेतुः मलिनम् आकाशं धूसरोऽनिलः इत्य्-आदि-प्रतीतिर् यत इत्य् अर्थः । सर्वेषां सत्त्वानां प्राणिनां तद्-गुणानां च पुंस्त्वादीनाम् उद्भेदः परिणाम-विशेषैः प्रकटी-करणम् ॥४६॥

———————————————————————————————————————

॥ ३.२६.४७ ॥

नभो-गुण-विशेषोऽर्थो यस्य तच् छ्रोत्रम् उच्यते ।

वायोर् गुण-विशेषोऽर्थो यस्य तत् स्पर्शनं विदुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रोत्रादीनां शब्दादि-ग्राहकत्वम् उक्तं तेषां च लक्षणं तद् एवेत्य् आह पञ्चभिः श्लोकार्धैः । नभसो गुण-विशेषः शब्दो यस्यार्थो विषयः ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रोत्रादीनां शब्दादि-ग्राहकत्वम् उक्तम् । तेषां च लक्षणं तद् एवेत्य् आह—नभसो गुण-विशेषः । शब्दो यस्यार्थो विषयस् तत् श्रोत्रम् ॥४७॥

———————————————————————————————————————

॥ ३.२६.४८ ॥

तेजो-गुण-विशेषोऽर्थो यस्य तच् चक्षुर् उच्यते ।

अम्भो-गुण-विशेषोऽर्थो यस्य तद् रसनं विदुः ।

भूमेर् गुण-विशेषोऽर्थो यस्य स घ्राण उच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तेजस इति सार्धकम् ॥४८॥

———————————————————————————————————————

॥ ३.२६.४९ ॥

परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् ।

अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुण-विशेष-शब्द-व्यावर्त्यं दर्शयति—परस्येति । परस्य कारणस्य धर्मः शब्दादिर् अपरस्मिन् कार्ये वाय्व्-आदौ कारणान्वयात् दृश्यते । अतो भावानाम् अकाशादीनां विशेषो गुणः सर्वोऽपि शब्दादिर् भूमाव् एवोपलभ्यते । चतुर्णां तत्रान्वयात् । जलादिषु यथान्वयम् एव न सर्वः । आकाशे त्व् अन्यान्वयाभावाद् एक एव ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च—पञ्चसु भूतेषु मध्ये यथोत्तरं गुणाधिक्यम् आह—परस्य कारणस्य धर्मः शब्दादिः । अपरस्मिन् कार्ये वाय्व्-आदौ कारणान्वयाद् दृश्यते । तत्राकाशेऽन्यान्वयाभावाद् एक एव शब्दः । वायौ द्वौ शब्द-स्पर्शौ । तेजसि त्रीणि शब्द-स्पर्श-रूपाणि । जले चत्वारः शब्द-स्पर्श-रूप-रसाः ॥४९॥

———————————————————————————————————————

॥ ३.२६.५० ॥

एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै ।

काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं कारणोत्पत्तिम् उक्त्वा कार्योत्पत्तिम् आह सार्धैस् त्रिभिः । एतान्य् असंहत्य अमिलित्वा यदा स्थितानि तदा जगद्-आदिर् ईश्वरः प्राविशत् । सप्तेति च प्राधान्याभिप्रायेणोक्तम् । प्रवेशस् तु सर्वेष्व् अपि विवक्षित एव ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एतानीति । अधुना कालादि-विशेषैर् उपेत इति ज्ञेयम् ॥५०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कारणोत्पत्तिम् उक्त्वा कार्योत्पत्तिम् आह—एतानि तत्त्वानि असंहत्य अमिलित्वा यदा स्थितानि तदा जगद्-आदिर् ईश्वरः प्राविशत् । प्रथमं संहनन-कारिण्या शक्त्या सर्व-तत्त्व-सम्मेलनार्थम् आविशत् । ततो वर्ष-सहस्रान्ते तद्-अन्तर्यामित्वेन प्राविशद् इति ज्ञेयम् । कालः क्षोभकः कर्म जीवादृष्टं गुणः प्रकृतिस् तैः सहितः । सप्तेति च प्राधान्याभिप्रायेणोक्तम् । प्रवेशस् तु सर्वेष्व् अपि विवक्षितः ॥५०॥

———————————————————————————————————————

॥ ३.२६.५१ ॥

ततस् तेनानुविद्धेभ्यो युक्तेभ्योऽण्डम् अचेतनम् ।

उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विराट् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुविद्धेभ्यः क्षुभितेभ्यः । अस्माद् अण्डाद् असौ विराट् पुरुष उदतिष्ठत् ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्थितम् उत्पन्नं विराट् पुरुषो हिरण्यगर्भात्मकः समष्टि-जीवः उदतिष्ठत् सुषुप्तम् इवातिक्रमय स-चेतनो बभुव ॥५१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेनतत्-प्रवेशेन अनुविद्धेभ्य आदौ क्षुभितेभ्यस् तत्-क्षणाद् एव युक्तेभ्यो मिलितेभ्यस् तत्त्वेभ्योऽण्डम् उत्थितम् उत्पन्नम् ।यस्माद् विराट् पुरुषो हिरण्यगर्भात्मकः समष्टि-जीव उदतिष्ठत् निद्राम् इवातिक्रम्य स-चेतनो बभूव ॥५१॥

———————————————————————————————————————

॥ ३.२६.५२ ॥

एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः ।

तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः ।

यत्र लोक-वितानोऽयं रूपं भगवतो हरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतो रूपम् इति पुरुषाभेदाभिप्रायेण ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अभ्युत्थिताः स्व-स्वाधिष्ठान-संयोगं प्राप्ता अपि अस्य विराजः । उत्थापने बहिश् चेष्टा-सम्पादने आविविशुः प्रयत्नं चक्रुः ॥५२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अण्डम् इति । विशेष इत्य् आख्या नाम यस्य तत् । दश-गुणाधिकैर् उत्तरोत्तरैः बहिः-स्थित-प्रकृत्यावरणेनावृतैः । रूपं मायिकम् ॥५२॥

———————————————————————————————————————

॥ ३.२६.५३ ॥

हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् ।

तम् आविश्य महा-देवो बहुधा निर्बिभेद खम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अचेतनाद् यतस् त्व् अण्डाद् ब्रह्मा समजनि स्फुटम् ।

अतो ब्रह्माण्डम् इत्य् आहुर् विराड् ब्रह्मा प्रकाशनात् ॥ इति च ॥५३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन्न् अध्यात्मादि-विभागम् आह—हिरण्मयाद् इति नवभिः । उत्थायौदासीन्यं विहाय तम् आविश्याधिष्ठाय । महांश् चासौ देवश् च । खं छिद्रम् ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : खम् आकाशं बहुधा निर्बिभेद पृथक् पृथक् कृतवान् ॥५३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन्न् अध्यात्मादि-विभागम् आह—हिरण्मयाद् इति । आविश्य आधिष्ठाय महांश् चासौ देवश् च बहु-विधं खं छिद्रं निर्विभेद पृथक् पृथक् चकार ॥५३॥

———————————————————————————————————————

॥ ३.२६.५४ ॥

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।

वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वाण्या सह वह्निर् अभवत् प्राविशत् । नासे निरभिद्येताम् । प्राणोतः प्राणेन ऊतः स्यूतः सन् घ्राण एतयोर् नासिकयोर् अभवद् इत्य् अनुषङ्गः ॥५४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मुखं व्यष्टि-मुखानां कारणांशम् एव वाण्यपि ॥५४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाण्या सह वह्निर् अभवत् प्राविशत् । नासे निरभिद्योतां प्राणोतः प्राणेन् अ स्यूतः सन् प्राणः । एतयोर् नासयोर् अभवद् इत्य् अनुषङ्गः प्राणोत इति विशेषणं सर्वेन्द्रियेषु लिङ्ग-विपरिणामेन द्रष्टव्यम् ॥५४॥

———————————————————————————————————————

॥ ३.२६.५५ ॥

घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः ।

तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : घ्राणाद् अनन्तरं वायुश् च । प्राणोत इति विशेषणं सर्वेन्द्रियेष्व् अपि द्रष्टव्यम् । न्यभिद्येताम् अन्वभिद्येताम् इति पाठ-द्वयेऽप्य् एक एवार्थः । ततो दिशः प्राविशन् ॥५५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : घ्राणाद् अनन्तरं वायुर् आविशत् । एवम् एवाग्रेऽपि पञ्चम्य्-अन्तानां तद्-अनन्तरम् इति व्याख्या ज्ञेया । सूर्योऽनुभिद्येतां न्यभिद्येताम् इति पाठ-द्वयम् ॥५५॥

———————————————————————————————————————

॥ ३.२६.५६ ॥

निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः ।

तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदि-शब्देन केशाः ॥५६।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ओषध्य आपश् च तत्-तद्-अभिमानिन्यः ॥५६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२६.५७ ॥

रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् ।

गुदाद् अपानोऽपानाच् च मृत्युर् लोक-भयङ्करः ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.२६.५८ ॥

हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।

पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यज्ञ-नामा तु देवोऽपि विज्ञेयः पाद-देवता ।

तद्-आविष्टो हरिर् नित्यं तम् आहुः पाद-दैवतम् ।

तस्येन्द्रियाभिमानित्वं कुतः पूर्ण-मलात्मनः ॥ इति च ॥५८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वराड् इन्द्रः । हरिर् विष्णुः ॥५८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : हरिस् तद्-आवेशावतारो देवता-विशेषः ॥५८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वराट् इन्द्रः । हरिः हरिणा आविष्टो देव-विशेष इति सन्दर्भः ॥५८॥

———————————————————————————————————————

॥ ३.२६.५९ ॥

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् ।

नद्यस् ततः समभवन्न् उदरं निरभिद्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आभृतं जातम् ॥५९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नाड्य इत्य् अर्धकम् । लोहितं रक्तादि-सञ्चारिका शक्तिः ॥५९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोहितं रक्तादि-सञ्चारिकम् इन्द्रियम् आभृतं जातम् ॥५९॥

———————————————————————————————————————

॥ ३.२६.६० ॥

क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् ।

अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम् ॥

न कतमेन व्याख्यातम्।:

———————————————————————————————————————

॥ ३.२६.६१ ॥

मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः ।

अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततोऽभवत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

चैत्त्यो\ऽपि भगवान् विष्णुर् अन्तर्यामी चतुर्मुखात् ।

स्वेच्छया व्यक्तिम् अगमत् ततो\ऽसौ ब्रह्मजः स्मृतः ॥६१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : बुद्ध्य्-आदिषु हृदयम् एवाधिष्ठानम् । गिरां पतिर् ब्रह्मा । चैत्त्यः क्षेत्रज्ञः॥६१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहम् इति । अत्र चैत्त्यः क्षेत्रज्ञो हिरण्यगर्भान्तर्याम्य्-अवस्थ ईश्वरः प्रद्युम्न-रूपोऽयं ज्ञेयः । जीवस्य कर्तुः करणत्वाभावाद् देवतात्वाभावाच् च ईश्वर-पुरुष-गतत्वेनैव प्रश्नोत्तराभ्यां च । अतोऽस्यैव सर्वाधिक-सामर्थ्यं दर्शयिष्यते चित्तेनेत्य् आदिना ॥६१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदय एव मन आद्य्-अन्तः-करण-चतुष्टयस्याधिष्ठानम् । गिरां पतिर् ब्रह्मा । चैत्त्यः चित्ताधिष्ठाता वासुदेवः स एव चित्ते उपास्य-देवता च । स एव समष्टि-जीवस्य हिरण्यगर्भस्य प्रद्युम्नत्वेनान्तर्यामी । स एव व्यष्टि-जीवानाम् अनिरुद्धत्वेनान्तर्यामीति भागवतामृताज् ज्ञेयम् । न तु चित्ताधिष्ठाता क्षेत्रज्ञो जीव इति वाच्यः । तस्य कर्तृत्व-करणत्वाद्य्-अभावस्य सर्वत्र प्रतिपादितत्वात् । आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति [भा।पु। ११.२९.६]इत्य् आदाव् अपि चैत्त्य-शब्देनान्तर्यामिणं तु चित्तोपाधित्वाद् एव, न तु चित्ताधिष्ठातृत्वाद् इति ज्ञेयम् ॥६१॥

———————————————————————————————————————

॥ ३.२६.६२ ॥

एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ।

पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात् ॥

वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् ।

घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा विराट् ॥

अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् ।

श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् ॥

त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा विराट् ।

रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा विराट् ॥

गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा विराट् ।

हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् ॥

विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा विराट् ।

नाडीर् नद्यो लोहितेन नोदतिष्ठत् तदा विराट् ॥

क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा विराट् ।

हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् ॥

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् ।

रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यज्ञान्त-स्थः स्वयं-पादौ विशन् नोत्थापयत् हरिः ।

शक्तोऽपि ब्रह्म-वाय्वोस् तु बलज्ञेप्त्यै जनार्दनः ।

तत्-स्थ उत्थापयामास ब्रह्म-देहं विशन् प्रभुः ॥६७॥

ब्रह्मा बृहस्पतिः । यस्मिन् ब्रह्मा राजनि पूर्व एतीति श्रुतिः । बृहस्पतिः पुरोधाश् च ब्रह्मा च ब्रह्मणः पतिः इत्य् अभिधानम् ॥६९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वय-व्यतिरेकाभ्यां क्षेत्र-ज्ञं विवेक्तुं सर्वेषां पुनः प्रवेशम् आह—एत इति नवभिः ॥६२-७०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अभ्युत्थिताः स्व-स्वाधिष्ठान-संयोगं प्राप्ता अपि अस्य विराजः । उत्थापने बहिश्-चेष्टा-सम्पादने आविविशुः प्रयत्नं चक्रुः ॥६२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्वय-व्यतिरेकाभ्याम् अन्तर्यामिन एव सर्व-शक्तिमत्त्वं दर्शयितुम् उक्तम् एव प्रवेशं सर्वेषाम् एव पुनर् आह—एत इत्य्-आदिना ॥६२-६९॥

———————————————————————————————————————

॥ ३.२६.७० ॥

चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा ।

विराट् तदैव पुरुषः सलिलाद् उदतिष्ठत ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अंशेन सुप्तो ब्रह्मापि अंशेन निरगात् तथा ।

स्व-देहाद् वायु-सहितो विष्णुना च जगत्-प्रभुः ॥

तम् उत्थापयितुं देवास् तान् ऋते त्रीन् महाबलान् ।

नाशक्नुवस् त्व् एक-संस्थास् ततस् तेष्व् अविशंस् त्रयः ॥

उदतिष्ठद् ब्रह्म-देहस् तदा तेषां प्रभावतः ।

विशेषेण हरेर् एव प्रभावेन श्रियः पतेः ॥

चित्ताभिमानी ब्रह्मैव क्षेत्रज्ञस् तद्-गतो हरिः ।

प्राण-वायुर् इति प्रोक्तस् तयोर् ईशो हरिः स्वयम् ॥७०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : चित्तेनेति । प्राविशत् बहिश्-चेष्टा-सम्पादनार्थं स्वयम् एव सर्वोत्थापने पुनर् उद्यमं कृतवान् । उदतिष्ठत् बहिर् अपि चेष्टां प्राप्तवान् ॥७०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चैत्त्यो वासुदेवः स एव क्षेत्रज्ञोऽन्तर्यामी । क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेष्व् अवस्थितः [गीता १३.२] इति गीतोक्तेः ॥७०॥

॥ ३.२६.७१ ॥

यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः ।

प्रभवन्ति विना येन नोत्थापयितुम् ओजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विराडदेहस्य व्यष्टि-देहं दृष्टान्तत्वेन दर्शयन् साङ्ख्यानुकथनस्य प्रयोजनम् आह—यथेति द्वाभ्याम् ॥७१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेति युग्मकेन तथा येन विना विराट् नोदतिष्ठत्, तम् इति द्वाभ्याम् अन्वयः । प्रत्यग्-आत्मानम् अन्तर्यामिणम् ॥७१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समष्टि-विराड्-देहस्य व्यष्टि-देहं दृष्टान्तयति यथेति । येन चित्ताधिष्ठात्रा परमेश्वरेण विना प्रसुप्तं व्यष्टिं यथा उत्थापयितुं न शक्नुवन्ति, तथैव येन विना समष्टि-विराड् अपि नोदतिष्ठद् इति पूर्वेणान्वयः ॥७१॥

———————————————————————————————————————

॥ ३.२६.७२ ॥

तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया ।

भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं परमेश्वरे भक्तिस् ततोऽन्यत्र विरक्तिस् ततो योग-प्रवृत्ता धीः एकाग्रं चित्तं ततो यज् ज्ञानं तेन प्रत्यग् आत्मानं क्षेत्र-ज्ञम् अस्मिन्न् आत्मनि कार्य-कारण-सङ्घाते विविच्य चिन्तयेत् ॥७२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्ख्यानुकथनस्य प्रयोजनम् आह—तं प्रत्यग्-आत्मानं प्रत्यग्-ज्ञान-गम्यम् अस्मिन् कार्य-कारण-सङ्घाते आत्मनि देहे जीवात्मन्य् एव वा चिन्तयेत् ॥७२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षड्विंशोऽयं तृतीयेऽस्मिन् सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

विदुर-मैत्रेय-संवादे कापिलेये

तत्त्व-समाम्नायो नाम षड्विंशोऽध्यायः ।

॥ ३.२६ ॥

(३.२७)

अथ सप्तविंशोऽध्यायः

प्रकृतिपुरुषयोर्विवेकद्वारा मोक्षप्राप्तिवर्णनं भक्तियोगेन प्रकृतेस्तिरोधान-कथनं च ।

॥ ३.२७.१ ॥

श्री-भगवान् उवाच—

प्रकृति-स्थोऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः ।

अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्त-विंशे ततः सम्यग् बहु-साधन-योगतः ।

पुं-प्रकृत्योर् विवेकेन मोक्ष-रीतिर् निरूप्यते ॥

विवेक-ज्ञानेन मोक्षम् उपपादयितुं शुद्धस्यैव पुरुषस्य प्रकृत्य्-अविवेकतः पूर्वोक्तं संसारम् अनुस्मारयति—प्रकृति-स्थोऽपीति त्रिभिः । देह-स्थोऽपि नाज्यते न लिप्यते। गुणैस् तत् कृतैः सुख-दुःखादिभिः । निर्गुणत्वाद् अकर्तृत्वं ततोऽविकारित्वं तस्मात् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ जीवाख्यं पुरुषम् अपि प्रकृतेर् विविनक्ति । प्रकृति-स्थोऽपीत्य् आदिना यथा जले दृष्टोऽप्य् अर्कस् तेन न लिप्यते तथेत्य् अर्थः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्तविंशे भक्ति-मिश्र-ज्ञान-साधन-विस्तृते ।

पुं-प्रकृत्योर् विवेकाच् च मोक्ष-रीतिर् उदीर्यते ॥

विवेक-ज्ञानेन मोक्षम् उपपादयितुं जीवात्मानं प्रकृतेर् विविक्तेन दर्शयति—प्रकृति-स्थोऽपि पुरुषो जीवः सुषुप्ति-प्रलययोर् निर्गुणत्वाद् अकर्तृत्वम्, ततोऽविकारित्वं तस्माद् धेतोर् नाज्यते । जलार्कवत् जलस्थः सूर्य-मण्डल-किरण इव, न वस्तुतो जल-धर्माक्रान्तः। यदा हि पवन-निबन्धनो जलस्य कम्पः स्यात्, तदा तद्-अनुगतस्य जलार्कस्यापि कम्पः स्यात् । यद् उक्तं—ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः समीर-वेगानुगतं विभाव्यते [भा।पु। १०.१.४३] इति । अत एव मनसः सम्यक् शुद्धौ सत्यां त्वं-पदार्थोऽपि शुद्ध्यतीति । मन एव मनुष्याणां कारणं बद्ध-मोक्षयोर् [ब्रह्म-बिन्दु २]17 इति शास्त्रम् ॥१॥

———————————————————————————————————————

॥ ३.२७.२ ॥

स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते ।

अहङ्क्रिया-विमूढात्मा कर्तास्मीत्य् अभिमन्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : किन्त्व् अत्र जलार्क-दृष्टान्तत्वेन दर्षण-मुख-दृष्टान्तो लक्षस् तस्मात् स्व-मुखस्य दर्पण-दोष-लिप्तत्ववत् तल्-लिप्तत्वेन मिथ्यैवाभिमानं कुरुते इत्य् आह—स इति । भक्ति-योगेनेति ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याभिमान-निबन्धन एव संसार इत्य् आह—स एवेति द्वाभ्याम् । यर्हि जागर-स्वप्नयोः ॥२॥

———————————————————————————————————————

॥ ३.२७.३ ॥

तेन संसार-पदवीम् अवशोऽभ्येत्य् अनिर्वृतः ।

प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिर्वृतः सन् । प्रासङ्गिकैः प्रकृति-सङ्ग-कृतैः । सद्-असन्-मिश्र-योनिषु देव-तिर्यङ् नरादिषु संसार-पदवीं प्राप्नोति ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रासङ्गिकैः प्रकृति-प्रसङ्ग-भवैः ॥३॥

———————————————————————————————————————

॥ ३.२७.४ ॥

अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते ।

ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अज्ञानं सुप्ति-शब्दोक्तं स्वप्नश् चैव विपर्ययः इति भारते ॥४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्ह्य् अवास्तवत्वात् संसृतेः, किं तन् निवृत्ति-प्रयासेन ? तत्राह—अर्थे हीति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तस्य जीवस्य कर्तृत्व-कारणत्वाद्य्-अभावाद् वस्तुतः कर्माभावेऽपि देह-कृतैः कर्मभिः कथं बन्धः ? तत्राह—अर्थे कर्म-रूपे वस्तुनि वस्तुतोऽविद्यमानेऽपि कर्तृत्वाभिमानेन विषयान् ध्यायतः । तत्र दृष्टान्तः—स्वप्ने खल्व् अनर्थस्याप्य् अधिगमः साभिमान-विषय-ध्यान-परिपाकाद् एवेत्य् अर्थः ॥४॥

———————————————————————————————————————

॥ ३.२७.५ ॥

अत एव शनैश् चित्तं प्रसक्तम् असतां पथि ।

भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो विषय-ध्यानम् अर्थ-हेतुः, अतो मनो नियन्तव्यम् इत्य् आह—अत एवेति । असताम् इन्द्रियाणां पथि विषय-मार्गे । तीव्रेन दृढेन । विरक्त्या च तीव्रया ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य साधनत्वम् उक्त्वा फलान्तर-तात्पर्यत्वात् स-कैतवत्वं दर्शितम् ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो विषय-ध्यानम् अनर्थ-हेतुः, अतो मनो नियन्तव्यम् इत्य् आह—अत एवेति । भक्तिश् च योगश् च तयोर् द्वन्द्वैक्यं तेन, तीव्रेन बलिष्ठेन ॥५॥

———————————————————————————————————————

॥ ३.२७.६ ॥

यमादिभिर् योग-पथैर् अभ्यस्यन् श्रद्धयान्वितः ।

मयि भावेन सत्येन मत्-कथा-श्रवणेन च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-विरक्त्योस् तीव्रत्वे कारणानि वर्णयन् ज्ञानेन मोक्ष-प्रकारम् आह षड्भिः । यमादिभिर् योग-मार्गैश् चित्तम् अभ्यसन् पुनः पुनर् एकाग्री-कुर्वन्न् आत्मानम् उपलभ्य सर्वानुस्यूतम् अद्वयं परमात्मानं प्रतिपद्यत इति षष्ठेनान्वयः । सत्येन निष्कपटेन । भावेन प्रेम्णा ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव ज्ञान-कर्म-मिश्रत्वम् आह—यमादीति षट्केन । भावेन भक्त्या । सत्येन यथार्थ-व्यवहारेण । तद् एवं सिद्धं जीवस्य शुद्धत्व-ज्ञानम् ईश्वरोपलब्धार्थत्वेन योजयति ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थं प्रपञ्चयन् ज्ञानेन मोक्ष-प्रकारम् आह—यमादिभिर् योग-पथैः अभ्यस्यन् अभ्यासेन चित्तम् एकाग्रीकुर्वन् जीवात्मा परमात्मानम् उपलभ्य सर्वानुस्यूतम् अद्वयं तं प्रतिपद्यत इति षष्ठेनान्वयः । मयि सत्येन भावेन मद्-रूप-नाम-लीलादीनां सत्यत्व-दृष्ट्या मयि यः सत्यो भावः सत्यत्व-भावना तेन, न तु माया-शवलित-ब्रह्मत्व-दृष्ट्या मय्य् आयत्याम् असत्यत्व-भावनयेत्य् अर्थः । तथात्वे—

त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः

आरुह्य कृच्छ्रेण परं पदं ततः

पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥ [भा।पु। १०.२.३२] इति,

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १२.१२.५०] इति, अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितं [गीता ९.११] इति, न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः [भा।पु। ११.५.३३] इत्य्-आदिभ्यो भगवद्-विग्रहादौ चिद्-आनन्द-भिन्नत्व-भावना-लक्षणावज्ञया ज्ञानिनाम् अपी मोक्षाभावावगतेः ॥६॥

———————————————————————————————————————

॥ ३.२७.७ ॥

सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः ।

ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रसङ्गतः सङ्ग-त्यागेन । बलीयसा ईश्वरेऽर्पितेन ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलीयसा ईश्वरार्पितेन ॥७॥

———————————————————————————————————————

॥ ३.२७.८ ॥

यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः ।

विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विविक्त-शरण एकान्त-वासी ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विविक्त-शरणः एकान्त-वासी, आत्मवान् धृति-युक्तः ॥९॥

———————————————————————————————————————

॥ ३.२७.९ ॥

सानुबन्धे च देहेऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् ।

ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असद्-आग्रहम् अहं-ममताम् । प्रकृतेः पुरुषस्य च दृष्टं तत्त्वं येन, तेन ज्ञानेन ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२७.१० ॥

निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः ।

उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : बुद्धेर् अवस्थानं हि निद्रादि ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : निवृत्तानि बुद्ध्य्-अवस्थानानि जाग्रद्-आदीनि यस्य सः । अत एव दूरी-भूतम् अन्य-दर्शनं यस्य । आत्मनाहङ्कारावच्छिन्नेनात्मानं शुद्धम् उपलभ्य । एकस्यैवावच्छेदानवच्छेदाभ्यां करण-कर्मत्वे दृष्टान्तम् आह—चक्षुषा चक्षुर्-अवच्छिन्नेनार्केण गगन-स्थम् अर्कम् इव । एवम् आत्म-दृक् शुद्धम् आत्मानं पश्यन् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उपलभ्येति सार्धकेन । असति औपाधिकेऽहङ्कारे आत्मना तदुपाधिकेनैव द्वारभूतेन ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निवृत्तानि बुद्ध्य्-अवस्थानानि जाग्रद्-आदीनि यस्य सः । ततश् च ज्ञानी शुद्धेन जीवात्मनैव परमात्मानं भक्त्यैवानुभूय तम् एव प्राप्नोतीत्य् आह—उपलभ्येति । आत्मना शुद्ध-जीवेन चित्-कणेन आत्मानं परमात्मानं पूर्ण-चैतन्य-निधिम् उपलभ्य भक्त्यानुभूय चक्षुषा पाटलादि-दोष-रहितेन ज्योतिः-कणेन अर्कं ज्योतिर्-निधिम् इव । आत्म-दृक् ज्ञानी प्रतिपद्यते प्राप्नोति । अत्र पाटलादि-दोष-रहितेनापि चक्षुषा यथोलूकादिर् अर्कं न पश्यति, किन्तु तद्-भिन्नो मनुष्यादिर् एवार्कं पश्य्ति, तथैव शुद्धेनापि जीवात्मना भक्ति-रहितो ज्ञानी परमात्मानं नानुभवति, किन्तु भक्तिमान् एवानुभवति । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति,

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता ११.५५] इति भगवद्-उक्तेः॥१०॥

———————————————————————————————————————

॥ ३.२७.११ ॥

मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते ।

सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुक्त-लिङ्गं निरुपाधिकम् असति मिथ्या-भूतेऽहङ्कारे सद्-आभासं सद्-रूपेणाभासमानं ब्रह्म प्राप्नोति । शुद्ध-जीव-स्वरूपाद् विशेषम् आह—सतः कारणस्य प्रधानस्य बन्धुम् अधिष्ठानम् । असतः कार्यस्य चक्षुर् इव प्रकाशकम् । सर्वेषु कार्य-कारणेष्व् अनुस्यूतम् । अद्वयं परिपूर्णम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मुक्त-लिङ्गम् उपाधि-स्पर्श-शून्यम् । अत एव सद्-रूपेण आ सम्यक् भासमानम् आत्मानम् उपलभ्य ततस् तस्यापि भासनाद्य्-उपकारकतया तत्रैव स्थितं परमात्मानम् अपि प्रतिपद्यते जानाति । तम् एव विशिनष्टि—असतां तद् अन्येषाम् अपि चक्षुर् भासकं सर्वत्र सति असति च अनुस्यूतम् । अत एवाद्वयं ततो मुख्यत्वात् तद् उपलब्धार्थम् एव शुद्धात्म-दर्शनम् इति भावः । अन्यार्थश् च परामर्शः इति न्यायेन ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं कीदृशम् ? मुक्तैर् लिङ्ग्यते ज्ञायते इति तम् इत्य् अनेनानुभव-ज्ञान-विषयी-भूतत्वं तस्योक्तम् । असति नश्वरे जगति सद् एव भासतेऽन्तर्यामित्वेनेति तम् । सतः कारणस्य बन्धुं पतिम् असतः कार्यस्य महद्-आदेश् चक्षुर् इव प्रकाशकं सर्वेषु कार्य-कारणेष्व् अनुस्यूतं परिपूर्णम् अद्वयम् एकम् इति विशेषण-पञ्चकेनानुभव-ज्ञान-पूर्व-दशायां तस्य शास्त्रोत्थ-ज्ञान-विषयी-भूतत्वं ज्ञापितम् ॥११॥

———————————————————————————————————————

॥ ३.२७.१२-१३ ॥

यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते ।

स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः ॥

एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः ।

स्वाभासैर् लक्षितोऽनेन सद्-आभासेन सत्य-दृक् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शेषस्य प्रतिबिम्बास् तु देवाः शेषस् तु ब्रह्मणः ।

स पर-ब्रह्मणश् चैव ते स्व-बिम्ब-प्रदर्शकाः ।

ततः स्व-बिम्ब-द्वारेण परमात्म-प्रदर्शनम् ॥ इति ब्रह्म-तर्के ॥१३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहङ्कारोपहितेन शुद्ध-ब्रह्म-प्रतिपत्तिं सदृष्टान्तम् आह—यथेति । जले स्थित आभासः सूर्य-प्रतिबिम्बो यदा गृहान्तर्वर्ति-भित्तौ स्फुरति तदा गृह-कोण-स्थितैः पुरुषैर् भित्त्य्-आदौ स्थले स्थितेन स्वाभासेन सूर्य-प्रतिबिम्बेन यथा प्रथमं जल-स्थ आभासोऽवदृश्यते लक्ष्यते, गगन-स्थस्य गृह-मध्ये प्रतिबिम्बायोगात् । चार्थे तथा-शब्दः । यथा चेत्य् अर्थः । यथा च जल-स्थेन दिवि स्थितः सूर्यो लक्ष्यते ॥१२॥

एवं भूतेन्द्रिय-मनो-मयैः देहेन्द्रिय-मनोभिर् अवच्छिन्नैः स्वाभासैर् आत्म-प्रतिबिम्बैस् त्रि-वृत् त्रि-गुणोऽहङ्कारः सतो ब्रह्मण आभासो यस्मिंस् तेन रूपेण लक्षितः । अहङ्कार-स्थाभासं विना विषयाभासानुत्पत्तेः । अनेन चाहङ्कारेण सद्-आभास-वता सत्य-दृक् परमार्थ-ज्ञप्ति-रूप आत्मा लक्षित इत्य् अर्थः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं स्वाप्न-परम्परया मूल-दर्शनं दृष्टान्तयति—यथेति युग्मकेन ॥१२॥

निगमयति—एवम् इति। भूतादि-मयैः सङ्घटोपाधिकैः स्वाभासैः स्वस्याहङ्कारोपाधिकस्याभासो येषु तैः गृह-कोण-स्थित-पुरुष-स्थानीयैः पुरुषैस् त्रिवृद्-अहङ्कार उपाधिकत्वेन वर्तते यस्य स लक्षितः । ततश् च क्रमाद् अनेनाहङ्कारोपाधिकेन पारंपरिक-द्वार-भूतेन तथा सद्-आभासेन शुद्धेन च साक्षाद्-द्वार-भूतेन सत्य-दृक् परमात्मापि लक्षित इत्य् अर्थः ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं जीवात्मैव केन प्रकारेण ज्ञातव्यस् ततस् तेन परमात्म चेत्य् अत्र स-दृष्टान्तम् आह—यथेति । जले स्थित आभासः प्रतिबिम्बाकारो निष्कम्पः सूर्य-प्रकाशो यदा गृहान्तर्वर्ति-स्वच्छ-भित्त्य्-आदौ स्थले स्फुरति, तदा गृह-कोण-स्थितैः पुरुषैः प्रथमं स्थलस्थ आभासो दृश्यते, ततश् च कुतोऽयं प्रकाश इति परामृषद्भिस् तेन स्थल-स्थेन स्वाभासेन शोभन-सूर्य-प्रकाशेन जल-स्थो निष्कम्प आभासोऽवदृश्यते लक्ष्यते । पुनश् चायम् आभासः कुत इति तथा तेनैव प्रकारेण तेन जलस्थेन स्वाभासेन शोभन-प्रकाशेन दिवि स्थितः सूर्योऽवदृश्यते । एवम् एव विवेकिभिः प्रथमं भूतेन्द्रिय-मनांसि चैतन्यवत्त्वात् परमात्म-प्रकाशवन्ति दृश्यन्ते । ततश् च जडेष्व् एषु परमात्म-प्रकाशोऽयं कुतोऽस्तीति भूतेन्द्रिय-मनो-मयैः भूतेन्द्रिय-मनो-वर्तिभिः स्वाभासैस् त्रिवृद्-अहङ्कार उपाधित्वेन वर्तते यस्य स जीवात्मा परमात्मनः प्रकाश-सम्भूतः किरण-रूपो लक्षितः । ततश् चानेन जीवात्मना सद्-आभासेन सता भक्तिमता प्रकाशेन सत्य-दृक् सत्य-ज्ञानानन्दः परमात्म लक्षित उपलब्धः ॥१२-१३॥

———————————————————————————————————————

॥ ३.२७.१४ ॥

भूत-सूक्ष्मेन्द्रिय-मनो-बुद्ध्य्-आदिष्व् इह निद्रया ।

लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः ॥

मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा ।

नष्टेऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः ॥

एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते ।

साहङ्कारस्य द्रव्यस्य योऽवस्थानम् अनुग्रहः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : असति प्रलये । यो विनिद्रः स सत्य-दृक् । योऽनष्टोऽनष्टवन् नाज्ञासिष्यम् इति मन्यमानः । स आतुरो द्रष्टृ-जीवः । साहङ्कारं द्रव्यं जीवः तस्यावस्थानम् अनुग्राहकश् च परमात्म ॥१४-१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं सुषुप्ति-साक्षित्वेन शुद्धात्म-प्रतिपत्तिम् अनुभवतो दर्शयति त्रिभिः । भूतादिष्व् असत्य् असत्-तुल्येऽव्याकृते निद्रया लीनेषु सत्सु यस् तत्र तदा विनिद्रो निरहङ्क्रियस् तम् आत्मानं प्रतिपद्यत इति तृतीयेनान्वयः ॥१४॥

ननु यदि तदा विनिद्रोऽसाव् अस्ति तर्हि जाग्रत्-स्वप्नयोर् इव स्फुटः किं नावभासते तत्राह—पूर्वं स द्रष्टातो द्रष्टृत्वेन स-विकल्पतया स्फुटं प्रतीतः । सुषुप्तौ तु भूतादेर् अहङ्कार-विषयस्य लीनत्वात् तद् विषयेऽहङ्कारे नष्टे सति स्वयम् अनष्टोऽपि मृषैवात्मानं नष्टवन् मन्यमानो यः । अन्यस्य नाशेऽन्यस्य नष्ट-तुल्यत्वे दृष्टान्तः, नष्ट-वित्तो यथा आतुरो विवशः, नष्टवद् भवतीत्य् अर्थः ॥१५॥

ननु सुषुप्तौ न किञ्चिद् अनुभूयते, मैवम्, “सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम्” इति विशेष-ज्ञानं विना केवलस्यात्मनः प्रतिसन्धानाद् इत्य् आह—एवम् इति । ननु प्रतिसन्धाने साहङ्कारस्य प्रतीतेः कथं निरहङ्क्रियत्वं तत्राह—साहङ्कारस्य द्रव्यस्य कार्य-कारण-सङ्घातस्यानुग्रहः प्रकाशकः अवस्थानं च । द्रव्य-विशेषणतयाहङ्कारस्यापि दृश्यत्वाच् च तद् द्रष्टात्मा तद् व्यतिरिक्तः । तम् आत्मानम् इत्य् अन्वयः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भूत-सूक्ष्मेति त्रिकम् । असति सतः शुद्ध-जीवाद् इतरस्मिन् अव्याकृते ॥१४॥

साहङ्कारे सति माम् अहं नाज्ञासिषम् इति सुषुप्त्य्-अनन्तरम् एव प्रतिसन्धानान्तरे मम-पदोक्त-भूत-सूक्ष्मादि-सङ्घात-लक्षण-द्रव्य-विशेषणतया तद् अहङ्कारस्याप्य् अन्यदा दृश्यत्वापत्तेर् अहं-पदोक्तस् तद् द्रष्टात्म तद्-व्यतिरिक्तो यः प्रकाशकः आश्रयश् चेत्य् अर्थः ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु अर्केण चक्षुषैवार्क इवात्मनैव भक्तिमता ज्ञानिना परमात्मनुभूयते इति सत्यं जानीमः, किन्तु चक्षुः-श्रोत्रादिकम् इव तं जीवात्मानं त्रिवृद्-अहङ्कारात् पृथग्-भूतं साक्षाद् दर्शयेत्य् अपेक्षायाम् आह—भूतेति त्रिभिः । भूतादिषु असति अनभिव्यक्तत्वाद् असत्-तुल्ये प्रधाने निद्रया लीनेषु सत्सु यस् तत्र तदा विनिद्रो निरहङ्क्रियः तम् आत्मानं जीवं प्रतिपद्यते लोकोऽनुभवतीति तृतीयेनान्वयः ॥१४॥

नन्व् अलं तर्हि योगाभ्यासेन मनो-बुद्धीन्द्रियादि-लये सति यः केवलात्मानुभवो योगाभ्यास-फल-रूपस् तं खलु निद्रैव कारयतीति, तत्राह—मन्यमान इति । तदा भूतादीनाम् अहङ्कार्याणाम् अहङ्कारस्य च लयाद् अहंकरणे नष्टे सति द्रष्टा जीवो दृश्यानाम् अभावाद् दर्शने नष्टे सति स्वयम् अनष्टोऽपि आत्मानं नष्टवन् मृषा मन्यमानो य इत्य् अविद्यावन्तं जीवं सुषुप्ताव् उत्प्रेक्षते नष्ट-वित्त इव, न तु नष्ट-वित्तासक्तिर् इत्य् अर्थः । अयम् अर्थः—योगाभ्यासेन जीवोपाधि-भूतानां तत्त्वानाम् आत्यन्तिके लये सत्य् एव जीवः स्वीय-रूपानन्द-मयो भवति, न तु नैमित्तिकयोः सुषुप्ति-प्रलययोः । यथा वित्ते नष्टे सत्याकिञ्चनांसुखं न भवति, किन्तु वित्तासक्ताव् एव नष्टायां सत्यां, तथैव जीवस्य नैष्कर्म्यं विना सुषुप्ति-प्रलययोर् उपाधि-नाशेऽपि न स्वरूप-प्राप्तिर् नैष्कर्म्यं च भक्ति-ज्ञानाभ्यां विना न भवेद् इति सुषुप्तौ अविद्या-तत्-संस्काराणां च विद्यमानत्वात् केवलात्मानुभवोऽप्य् अकिञ्चित्-कर इति ॥१५॥

ननु सुषुप्तौ न किञ्चिद् अन्भूयते । मैवम् अहं सुखम् अस्वाप्सं, न किञ्चिद् अवेदयिषम् इति विशेष-ज्ञानं विना केवलस्यात्मनः प्रतिसन्धानाद् इत्य् आह—एवम् इति । किं च, साहङ्कारस्य द्रव्यस्य भूतेन्द्रियादि-सङ्घातस्य देहस्य योऽवस्थानम् आश्रयः यम् एव जीवात्मानम् आश्रित्य अहङ्कारादयो भोग्येषु विषयेषु प्रवर्तन्त इत्य् अर्थः । तथा य एव जीवात्मा अनुग्रहः स्वीय-भोक्तृत्व-लक्षण-धर्म-प्रदानाद् अनुग्राह्य इत्य् अर्थः ॥१६॥

———————————————————————————————————————

॥ ३.२७.१७ ॥

देवहूतिर् उवाच—

पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् ।

अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-विरक्तिभ्यां सत्य् अपि विवेके प्रकृति-पुरुषयोः परस्पर-त्यागाभावात् कतहं मुक्तिर् इति पृच्छति, पुरुषम् इति चतुर्भिः । पुरुष-व्यतिरेकेण प्रकृतेः स्वरूप-लाभाभावात् प्रकृति-व्यतिरेकेण पुरुषस्याभिव्यक्त्य्-अभावाद् इत्य् अन्योन्यापाश्रयत्वान् नित्यत्वाच् च पुरुषं प्रकृतिः कदाचिन् न मुञ्चतीत्य् अर्थः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्योऽन्यापाश्रयत्वेऽप्य् एकस्य नश्वरत्वे विमुञ्चतु नाम तच् च नेत्य् आह—नित्यत्वाद् इति ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भक्तैर् अपि ज्ञान-व्याख्यादिभिर् मोक्षो दुर्लभ एवेत्य् अत्र युक्तिम् आह—पुरुषम् इति । अन्योन्येति पुरुषः शक्तिमत्त्वात् विश्व-सृष्ट्य्-आदि-लीलार्थं स्व-शक्तिंप्रकृतिम् अप्य् आश्रयते । प्रकृतिर् अपि शक्तित्वात् स्वीयं पुरुषम् आश्रयत एवेत्य् अर्थः । द्वयोर् एकतरस्य नश्वरत्वे विमञ्चतु नाम, तच् च नेत्य् आह—नित्यत्वाद् इति ॥१७॥

———————————————————————————————————————

॥ ३.२७.१८ ॥

यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यतिरेकाभाव-मात्रे दृष्टान्तः—यथा व्यतिरेकतो भावः सत्ता नास्ति । गन्धस्य कदाचिद् अपक्षय-दर्शनाद् दृष्टान्तान्तरम्—अपाम् इति । बुद्धेः प्रकृतेः । परस्य पुरुषस्य च ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यतिरेकतो भावः सत्ता नास्ति गन्धस्य कदाचिद् अपक्षय-दर्शनाद् दृष्टान्तान्तरम् अपाम् इति, बुद्धेः प्रकृतेः परस्य पुरुषस्य ॥१८॥

———————————————————————————————————————

॥ ३.२७.१९ ॥

अकर्तुः कर्म-बन्धोऽयं पुरुषस्य यद्-आश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नित्य-दृक् परमात्मसौ मृतवद् यो न किञ्चन ।

जानाति जीवः स ज्ञेयः परमात्म तद्-अयित्वाश्रयः ॥ इति हरि-वंशेषु ॥१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् अत आह—अकर्तुर् इति । ये गुणा आश्रयो यस्य सः । तेषु प्रकृतेर् गुणेषु सत्सु पुरुषस्य कैवल्यं कथम् ? ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अकर्तुर् इति । अतः पूर्वोक्ताद् धेतोः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः किम् अत आह—अकर्तुर् इति । ये गुणा आश्रयो यस्य सः । तेषु प्रकृतेर् गुणेषु सत्सु पुरुषस्य जीवस्य, अत एव हेतोः कथं कैवल्यम् ? ॥१९॥

———————————————————————————————————————

॥ ३.२७.२० ॥

क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् ।

अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव क्वचिन् निवृत्त-प्रायस्यापि संसार-भयस्य पुनर् उद्भवो दृश्यत इत्य् आह—क्वचिद् इति ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्याश्रयत्वेऽपि नभोवद् अन्यास्पृष्टत्वं पुरुषस्येति तत्त्व-विवेकः कर्तव्य इत्य् अप्य् अकिञ्चित्करम् इत्य् आह—क्वचिद् इति । क्वचित् पाठः एष एव सर्व-सम्मतः ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव क्वचिन् निवृत्त-प्रायस्यापि संसार-भयस्योद्भवो दृश्यते इत्य् आह—क्वचिद् इति ॥२०॥

———————————————————————————————————————

॥ ३.२७.२१-२३ ॥

श्री-भगवान् उवाच—

अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना ।

तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥

ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा ।

तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥

प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् ।

तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न हि प्रकृति-संबन्ध-मात्रं बन्ध-हेतुः, किन्तु गुण-बुद्ध्या तद्-आसक्तिस् तन्-निवृत्तौ सत्यां मोक्षो घटते । क्वचिद् उद्भवस् तु साधन-वैकल्याद् इत्य् अभिप्रेत्य साधनातिशयं कथयन् परिहरति त्रिभिः । निमित्तं फलम् । तन् न निमित्तं प्रवर्तकं यस्मिन्, तेन निष्कामेन धर्मेण । अमलात्मना निर्मलेन मनसा । श्रुतेन कथा-श्रवणेन संभृतया पुष्टया ॥२१॥ दह्यमाना अभिभूयमाना तिरो-हिता भवति ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्रोच्यते—यदि तद्-अविवेक एव पूर्वोक्त-हेतुस्, तदा तत्त्वावमर्श-मात्रं तत्रोपयुक्तं स्यात्, पूर्वं त्व् ईश्वर-वैमुख्यम् एव । भयं द्वितीयाभिनिवेशतः स्यात्[भा।पु। ११.२.३७] इत्य्-आदेः । ततः सर्वत्रेश्वराराधन-पूर्वकत्वम् एवोपयुक्तम् इत्य् उपदिष्टम् अपि निर्धारयति षड्भिः । अत्र अनिमित्तेति त्रिकम् । ज्ञानं विचारः । दर्शनं निर्धारणम् । तपः शम-दमादि । योगो जीवात्म-परमात्मनोर् ध्यानम्, योगः संहननोपाय-ध्यान-सङ्गति-युक्तिषु इति नानार्थवर्गात् । ध्यानम् एव ध्यातृ-ध्येय-विवेक-रहितं समाधिः । अग्नेः प्राबल्ये सति तन्-निर्वापणार्थं तद्-आविर्भाव-कारणम् अरणिर् यथा जनैस् ततोऽप्य् अन्तर्हित्आ क्रियते । तथा सापि माया स्वांशेन [ततस् ततो]{।मर्क्} भवतीति । अत्र सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् [भा।पु। १०.८१.१९] इत्य्-उक्त्या भक्तेर् अङ्गित्वे अङ्गवन् निर्देशः तेषां तत्र साधनान्तर-सामान्य-दृष्टिर् इत्य् अभिप्रायेण । अत एव तेषां मोक्ष-मात्र-फलम् इति ॥२१॥

ईश्वरस्य भगवच्-छक्त्य्-अंशे शक्तिमतः स्वे महिम्नि महिम-हेताव् ईश्वरत्वे स्थितस्य प्राप्त-स्फूर्तेर् इति जीवस्य स्वरूप-शक्तित्वं दर्शितम्, स यद् अजया त्व् अजाम् [भा।पु। १०.८७.३४] इत्य्-आदेः ॥२३॥ [भक्ति-सन्दर्भ २२६*]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे मातः ! न प्रकृतिर् जीवस्य बन्ध-हेतुः, किन्तु तदीय-गुणाध्यास एव । स चाविद्या-कृत एव, अत एवाविद्या-निवृत्तौ मोक्षो घटते । क्वचिद् भयोद्भवस् तु साधन-वैकल्याद् इत्य् अभिप्रेत्य साधनातिशयं कथयन् परिहरति । निमित्तं फलं, तद्-अभावोऽनिमित्तम् एव । निमित्तं प्रवर्तको यत्र, तेन अमलः शुद्ध आत्मा अन्तः-करणं यतः स्यात्, तेन । तीव्रया स्वभावाद् एव सर्वतस् तेजस्विन्या श्रुत-सम्भृतया मत्-कथा श्रवण-परिपुष्टया । प्रकृति-लिङ्ग-देहः पुरुषस्य एभिः साधनैर् दह्यमाना तिरोभवति । अग्नेर् इति । अरणिः काष्ठम् । अग्निर् यथा काष्ठाद् एवोत्पद्य काष्ठं दहति, तथैव ज्ञानं लिङ्ग-देहाद् उत्पद्य तम् एव दहति ॥२१-२३॥

———————————————————————————————————————

॥ ३.२७.२४ ॥

भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं च सति पुनर् उद्भवो नास्तीत्य् आह—भुक्तो भोगो यस्याः । नित्यशः सदा दृष्टो दोषो यस्याः । अत एव परित्यक्ता सतीश्वरस्यापरतन्त्रस्य स्वे महिम्नि स्थितस्य स्वानन्दं प्राप्तस्य ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चावशिष्टापि दह्यमानारणिवल् लिङ्ग-देह-रूपा प्रकृतिः खल्व् एवं-भूता चेन् नापकुरुअ इत्य् आह—भुत्को भोगो बहुधा स्वर्ग-नरकादिर् यस्या, अत एव विवेकिना चर्वितवत् त्यक्ता तद् अपि दैवाद् आपतन्ती चेद् दृष्टो दोषो यस्या सा । ईश्वरस्य नित्यम् एवं सद्-असद्-विवेचने भुक्त्वा परित्यजने दोष-दर्शने च समर्थस्य स्वे महिम्नि स्वीये महत्त्वे गुरूपदिष्ट-साधु-वर्त्मनि ॥२४॥

———————————————————————————————————————

॥ ३.२७.२५ ॥

यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविवेकावस्थायाम् अनर्थ-हेतुर् अपि विवेकानन्तरं न भवतीति स-दृष्टान्तम् आह—यथेति द्वाभ्याम् । प्रस्वापः स्वप्नः बह्व्-अनर्थान् बिभर्ति पुष्णाति । प्रतिबुद्धस्य संस्कार-वशेन स्फुरन्न् अपि ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविवेकावस्थायाम् अनर्थ-हेतुर् यः, स खलु विवेके सति न तथैवेत्य् आह—यथेति द्वाभ्याम् । प्रस्वापः स्वप्नः बह्व्-अनर्थान् व्याघ्र-सर्पादि-दंशान् बिभर्ति, प्रतिबुद्धस्य संस्कार-वशेन स्फुरन्न् अपि ॥२५॥

———————————————————————————————————————

॥ ३.२७.२६ ॥

एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् ।

युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ३.२७.२७ ॥

यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना ।

सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—यदैवम् इति त्रिभिः । बहूनि जन्मानि यस्मिन् काले ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यदैवेति त्रिकम् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२७.२८ ॥

मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा ।

निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिबुद्धार्थो विदितात्म-तत्त्वः । कैवल्याख्यं स्व-संस्थानं देहादि-व्यतिरिक्तं स्वरूपं मद्-आश्रयं निःश्रेयसं निरतिशयानन्दम् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-भक्तस् तु मत्-प्रसादेऽञ्जसैव निःश्रेयसं प्राप्नोतीत्य् आह—मद्-भक्त इति । यदि मद्-भक्त-सङ्गेन मद्-भक्तो भवति तदैवेत्य् अर्थः । भूयस्या सर्वत्र बलवत्तरयेत्य् अर्थः । अहम् एवाश्रयो यस्य तत् तद्-उक्तं गीतासु । यो माम् अव्यभिचारेणेत्य् आरभ्य, ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति ।।२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-संस्थानं देहादि-व्यतिरिक्तं स्वरूपं कैवल्याख्यं ब्रह्म । अहम् एवाश्रयो यस्य तत् । यद् उक्तं—ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति ॥२८॥

———————————————————————————————————————

॥ ३.२७.२९ ॥

प्राप्नोतीहाञ्जसा धीरः स्व-दृशा च्छिन्न-संशयः ।

यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-दृशा आत्म-ज्ञानेन छिन्नाः संशया मिथ्या-ज्ञानानि यस्य लिङ्गाद् विनिर्गमे लिङ्ग-शरीर-नाशे सतीत्य् अर्थः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-दृशा शुद्धात्म-ज्ञानेन लिङ्गाद् विनिर्गमे लिङ्ग-शरीरे नष्टे सतीत्य् अर्थः ॥२९॥

———————————————————————————————————————

॥ ३.२७.३० ॥

यदा न योगोपचितासु चेतो

मायासु सिद्धस्य विषज्जतेऽङ्ग ।

अनन्य-हेतुष्व् अथ मे गतिः स्याद्

आत्यन्तिकी यत्र न मृत्यु-हासः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा त्व् अणिमादि-सिद्धयोऽन्तराय-रूपा भवन्ति । तासु योगेनोपचितासु समृद्धासु न योगाद् अन्यो हेतुर् यासां, तासु यदा सिद्धस्य चेतो न विषज्जतेअङ्ग ! हे मातः ! अथ तदा अन्तम् अतिक्रान्तोऽत्यन्तो योऽहं, तत्-सम्बन्धिनी । यत्र यस्यां गतौ मृत्योर् हासो न भवति । विषक्टौ तु सिद्धोऽपि मया वशी-कृत इति मृत्योर् हासो गर्वो भवतीत्य् अर्थः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यदा मत्-प्रसादे सति ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चाणिमादि-सिद्धि-पर्यन्ता विविधा भोगा अन्तराय-रूपा भवन्ति, तासु योगी न विषज्जेद् इत्य् आह—यदा योगी उपचितासु समृद्धासु मायासु विविध-भोग्य-वस्तुषु सिद्धस्य चेतो न विसज्जते, तदा आत्यन्तिकी गतिर् मुक्तिः स्यात् । मायासु कीदृशीषु ? न योगाद् अन्यो हेतुर् यासां, तासु । यत्र यस्यां गतौ सत्यां मृत्योर् हासो भवति । विषयासक्तौ तु सिद्धोऽपि मया वशीकृत इति मृत्योर् हासो गर्वो भवतीत्य् अर्थः ॥३०॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये सप्तविंशोऽपि सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कापिलेये प्रकृति-विवेको नाम

सप्तविंशोऽध्यायः ।

॥ ३.२७ ॥

———————————————————————————————————————

(३.२८)

अष्टाविंशोऽध्यायः ।

**सबीजयोगलक्षणं सगुणस्य भगवतः पृथगवयवध्यानवर्णनं च

॥ ३.२८.१ ॥

श्री-भगवान् उवाच—

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।

मनो येनैव विधिना प्रसन्नं याति सत्-पथम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स-बीजो वैष्णवो योगो निर्बीजस् तृण्य-दैवतः ।

बीजं विष्णुर् हि जगतः शाखाद्याश् चान्य-देवताः ॥ इति कौर्मे ॥१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्टाविंशे ततोऽष्टाङ्ग-योगेन ध्यान-शोभिना ।

सर्वोपाधि-विनिर्मुक्तं स्वरूप-ज्ञानम् ईर्यते ॥

भक्तिं सङ्क्षेपतः प्रोच्य साङ्ख्याम् आख्याय विस्तृतम् ।

अथाह वैष्णवं योगम् अष्टाङ्गं कपिलो हरिः ॥

सबीजस्य सालम्बनस्य । प्रसन्नं सत् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : येनैव विधिना प्रकारेण तत्-प्रकारकं लक्षणम् इत्य् अन्वयः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टस्व् अङ्गेषु योगस्य ध्यानं विस्तार्य वर्ण्यते ।

अष्टाविंशे यतो योगी मुक्तिं विन्देद् अयत्नतः ॥

स्व-भक्तिम् उपदिश्यैवं साङ्ख्याम् उक्त्वा तद्-अन्वितम् ।

अष्टाङ्ग-योगं तन्-मिश्रम् आरेभे वक्तुम् इशरीरः ॥

सबीजस्य सालम्बनस्य ॥१॥

———————————————————————————————————————

॥ ३.२८.२-७ ॥

स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् ।

दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम् ॥

ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा ।

मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम् ॥

अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः ।

ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥

मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः ।

प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि ॥

स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् ।

वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः ॥

एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् ।

बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : समाधिर् अप्रयत्नेन मनसः संस्थितिर् भवेत् इति च ॥७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र यम-नियमान् आह त्रिभिर् अक्षर-द्वयाधिकैः । शक्त्या स्व-धर्माचरणम् । ग्राम्यस् त्रैवर्गिको धर्मः, तस्मान् निवृत्तिः । मितं च तन् मेध्यं शुद्धं च तस्यादनम् । तत्र मितं नाम—

द्वौ भागौ पूरयेद् अन्नैस् तोयेनैकं प्रपूरयेत् ।

मारुतस्य प्रचारार्थं चतुर्थम् अवशेषयेत् ॥ इति स्मृति-प्रसिद्धम् ।

विविक्तं विजनं क्षेमं निर्बाधं तस्य स्थानस्य सेवनम् । यावतार्थः प्रयोजनं तावन् मात्रस्य परिग्रहः । आसनादीन्य् अङ्गान्य् आह त्रिभिः । सत आसनस्य जयेन स्थैर्यम् । स्व-धिष्ण्यानां प्राण-स्थानानां मूलाधारादीनां मध्ये एकस्मिन् देशे मनसा सह प्राणस्य धारणं धारणा । आत्मनो मनसः समाधानम् आत्माकारता । अन्यैश् च व्रत-दानादिभिः । पथिभिर् उपायैः ॥२-७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र यम-नियमान् आह त्रिभिर् अक्षर-द्वयाधिकैः । तत्राहिंसा सत्यास्तेयापरिग्रह-ब्रह्मचर्य-मौनानि यमाः । तद्-अन्यानि स्व-धर्माचरणादीनि नियमाः । ग्राम्यस् त्रैवर्गिको धर्मः । मित-मेध्यादनम् इति तत्र मितं नाम—

द्वौ भागौ पूरयेद् अन्नैस् तोयेनैकं प्रपूरयेत् ।

मारुतस्य प्रचारार्थं चतुर्थम् अवशेषयेत् ॥ इति स्मृति-प्रसिद्धम् ।

विविक्तं निर्जनं क्षेमं निर्भयं च यत् स्थानं तत्र स्थितिः । यावता अर्थः प्रयोजनं तावन्-मात्रस्य न त्व् अधिकस्य वस्तुनः परिग्रहः । आसनादीन्य् अङ्गान्य् आह त्रिभिः । सत आसनस्य जयेन स्थैर्यम् । स्व-धिष्ण्यानां प्राण-स्थानानां मूलाधारादीनां मध्ये एकस्मिन् देशे मनसा सह प्राणस्य धारणं धारणा । आत्मनो मनसः समाधानं समाधिर् आत्माकारता । अन्यैश् च व्रत-दानादिभिः । पथिभिर् उपायैः युञ्जीत ध्याने योजयेत् ॥२-७॥

———————————————————————————————————————

॥ ३.२८.८ ॥

शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।

तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आसनादीनि प्रपञ्चयति—शुचाव् इति यावत् समाप्ति । आसनं कुशाजिन-चैलोत्तरं प्रतिष्ठाप्य । स्वस्तिकासनेन यथा-सुखम् इति वा । समभ्यसेत् प्राणम् इति शेषः ।

ऊरू जङ्घान्तर् आधाय पादाग्रे जानु-मध्यगे ।

योगिनो यद् अवस्थानं स्वस्तिकं तद् विदुर् बुधाः ॥ इति ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वस्तिकम् आसीन इत्य् अत्र तु यथा-सुखम् इति न सङ्गच्छते स्वस्ति-समासीन इति सम्बन्धोक्ति-सम्मतः । अत्र तु स्वस्तिकासनेनेत्य् अपि सङ्गच्छते समानार्थत्वात् । स्वस्तिक-शब्दस्य तत्रैव निरुक्तिर् इति भावः । सु शोभनम् अस्ति स्थितिर् यत्रेति व्याख्याने तु यथा-सुखम् इति व्याख्यानेऽपि स्वस्तिकम् इति घटते ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसनादीनि विवृणोति । आसनं कुशाजिन-चैलोत्तरं, तस्मिन् स्वस्तिकं स्वस्त्य् एव यथा स्यात् एवम् आसीनः । यद् वा स्वस्तिकासनोपविष्ट इत्य् अर्थः । यथा च—

ऊरू जङ्घान्तर् आधाय पादाग्रे जानु-मध्यगे ।

योगिनो यद् अवस्थानं स्वस्तिकं तद् विदुर् बुधाः ॥ इति ॥८॥

समभ्यसेत् प्राणम् इति शेषः ॥८॥

———————————————————————————————————————

॥ ३.२८.९ ॥

प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः ।

प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बाह्य-वायोर् अन्तः प्रवेशनं पूरकः, प्रवेशितस्य धारणं कुम्भकः, धृतस्य बहिर् निःसारणं रेचकः । प्रतिकूलेन वा रेचक-कुम्भक-पूरकैः । यद् वा, इडया पूर्य पिङ्गलया रेचनम्, पिङ्गलया पूर्य इडया रेचनम् इत्य् एवं प्रतिकूलेन । वा-शब्दश् चार्थे । स्थिरं सत् पुनर् अपि चञ्चलं यथा न भवति तथा शोधयेत् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाह्य-वायोर् अन्तर् वामया नासया प्रवेशनं पूरकः । प्रवेशितस्य धारणं कुम्भकः । दक्षिणया नासया रेचनं रेचकः । प्रतिकूलेन रेचक-कुम्भक-पूरकैः अस्थिरम् अपि चित्तं यथाचञ्चलं स्यात् ॥९॥

———————————————————————————————————————

॥ ३.२८.१० ॥

मनोऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः ।

वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्मातं सन्तप्तम् इत्य् अर्थः । लोहं सुवर्णं यथा मलं त्यजति तथा मनो विरजं स्यात् । ततश् चञ्चलं न स्याद् इति भावः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लौहं स्वर्णम् । ध्मातं सन्तप्तम् ॥१०॥

———————————————————————————————————————

॥ ३.२८.११ ॥

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् ।

प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणायाम् आदीनां समाधौ द्वारकार्याण्य् आह—प्राणायामैर् इति । दोषान् वात-श्लेष्मादीन् । संसर्गान् विषय-संसर्गान् । अनीश्वरान् रागादीन् । वायुना सह मनसः स्थिरी-करणं धारणा, स्थिरस्य वृत्ति-सन्ततिः ध्यानम्, वृत्ति-निरोधः समाधिर् इति भेदः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतेषां कार्याण्य् आह—प्राणायामैर् इति । दोषान् वात-श्लेष्मादीन् किल्बिषाणि पापानि संसर्गान् विषय-सङ्गान् अनीश्वरान् राग-द्वेषादीन् ॥११॥

———————————————————————————————————————

॥ ३.२८.१२ ॥

यदा मनः स्वं विरजं योगेन सुसमाहितम् ।

काष्ठां भगवतो ध्यायेत् स्व-नासाग्रावलोकनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुसमाहितं स्थिरं जातम् । काष्ठां कलाम् । मूर्तिम् इत्य् अर्थः । स्व-नासाग्रेऽवलोकनं यस्य । एतच् च लय-विक्षेपयोः परिहाराय ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : काष्ठा दिक् अवधिः परम-स्वरूपम् इति यावत् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगेन यमादिना समाहितं स्थिरं काष्ठाम् उत्कृष्ट-स्वरूपम् । लय-विक्षेप-परिहाराय स्व-नासाग्र-दर्शी ॥१२॥

———————————————————————————————————————

॥ ३.२८.१३ ॥

प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् ।

नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सर्वं स्मर्तुम् अशक्ताव् एकाङ्गे, यावन् न च्यवते मन इत्य् उक्तत्वात् । सर्वं स्मर्तुम् अशक्तः सन्न् एकाङ्गं चिन्तयेद् बुधः इति च ॥१३-१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्येयं हरिम् आह सप्तभिः । प्रसन्नं वदनाम्भोजं यस्य तं ध्ययेद् इति षष्ठेनान्वयः । पद्म-गर्भ-वद् अरुणे ईक्षणे नेत्रे यस्य । नीलोत्पल-दल-वच् छ्यामम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रसन्नेति षट्कम् । भृत्यानुग्रह-कातरं सदैवाधिकाधिक-स्व-भक्ति-सुख-दानेऽप्य् अपरितोषात् ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

नवाङ्ग-भक्ताव् अपि यं तृतीयम्

आहुर् महान्तः पुरुषार्थ-सारम् ।

ध्यानं हरेः सप्तमताम् अगात् तद्

अष्टाङ्ग-योगोऽत्र च मोक्ष-सिद्ध्यै ॥

प्रसङ्गतो भक्तानां योगिनां च ध्येयं स्वरूपम् आह—प्रसन्नेति । शङ्खेत्य् अत्र चतुर्थं पद्मम् अपि द्रष्टव्यम् । भ्राजत्-कौस्तुभेन तदीय-स्वर्ण-सूत्रेण आमुक्ता प्रतिबद्धा रुद्धा कन्धरा ग्रीवा यस्य तम् । मत्तानां द्विरेफाणां कलो मधुरो ध्वनिर् यस्यां तया । परार्ध्यं परार्ध-मूल्य-क्रीतम् । काञ्ची-सूत्रेणोल्लसन्ती श्रोणिः कटिर् यस्य तम् । भक्तानां हृदयाम्भोजम् एव विष्टरम् आसनं यस्य तम् । शास्त्रम् अनुग्रम् । अपीव्यम् अतिसुन्दरम् । कैशोरे पञ्चदश-वर्षे वयसि नित्य-स्थितम् । कीर्तनार्हं तीर्थ-रूपं च यशो यस्य तम् ॥१३-१८॥

———————————————————————————————————————

॥ ३.२८.१४ ॥

लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् ।

श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लसत्-पङ्कजस्य किञ्जल्कवत्पीते कौशेये वाससी यस्य । श्रीवत्सो लाञ्छनं वक्षसि यस्य । भ्राजत् कौस्तुभेनामुक्ता संश्लिष्टा कन्धरा यस्य ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १३-श्लोक-टीका द्रष्टव्या।

———————————————————————————————————————

॥ ३.२८.१५ ॥

मत्त-द्विरेफ-कलया परीतं वन-मालया ।

परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्त-द्विरेफाणां कलो मधुरो ध्वनिर् यस्यां तया । परीतं व्याप्तम् । परार्ध्यान्य् अमूल्यानि हारादीनि यस्य ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १३-श्लोक-टीका द्रष्टव्या।

———————————————————————————————————————

॥ ३.२८.१६ ॥

काञ्ची-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् ।

दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : काञ्ची-गुणेनोल्लसन्ती श्रोणी यस्य । भक्तानां हृदयाम्भोजम् एव विष्टरम् आसनं यस्य । भक्तानां मनो-नयनानि वर्धयति हर्षयतीति तथा ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १३-श्लोक-टीका द्रष्टव्या।

———————————————————————————————————————

॥ ३.२८.१७ ॥

अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् ।

सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपीच्यम् अति-सुन्दरं भक्त-विषयं दर्शनं यस्य । कैशोरे तारुण्ये वयसि सन्तं स्थितम् । भृत्यानाम् अनुग्रहे कातरं व्यग्रम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १३-श्लोक-टीका द्रष्टव्या।

———————————————————————————————————————

॥ ३.२८.१८ ॥

कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् ।

ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कीर्तन्यं कीर्तनार्हं तीर्थं यशो यस्य । पुण्य-श्लोका बलि-प्रमुखास् तेषां यशस्-करम् । समग्राण्य् अङ्गानि यस्मिन् । न च्यवते नापयाति व पर्येति वा ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं समग्राङ्गं च तावद् ध्यायेत् यावन् मनो न च्यवते । मनसि च्युते सति प्रकारान्तरेण ध्यायेद् इत्य् आह—स्थितम् इत्य्-आदिभिः ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १३-श्लोक-टीका द्रष्टव्या।

———————————————————————————————————————

॥ ३.२८.१९ ॥

स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् ।

प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेक्षणीयम् ईहितं लीला यस्य ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसङ्गतस् तन्त्रेण रागानुगीय-भक्तानाम् अपि ध्येयां लीलाम् आह—स्थितं वैकुण्ठे वृन्दावनीय-कल्प-तरु-मूले च । व्रजन्तं वैकुण्ठात् गोष्ठाच् च वनाय । आसीनं रत्न-सिंहासने गोवर्धन-शृङ्गे च । शयानं शेष-पर्यङ्के गोवर्धन-गुहायां च । शुद्ध-भावं चेतस् तदा तेन प्रेक्षणीयं जाल-रन्ध्राद् बहिः स्थित्वैव द्रष्टुम् अर्हम् ईहितं क्रीडा चेष्टितं यस्य तत् ॥१९॥

———————————————————————————————————————

॥ ३.२८.२० ॥

तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् ।

विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं समग्र-ध्यानम् उक्त्वैकैकावयव-ध्यानम् आह—तस्मिन् लब्धं पदं स्थितिर् येन तच् चित्तं विलक्ष्य, विशेषेण लक्षी-कृत्य । एकत्र एकैकस्मिन्न् अङ्ग इत्य् अर्थः ॥२०॥

———————————————————————————————————————

कैवल्य-दीपिका: विष्णु-रूपं (अवयव-श्री-रूपं) क्रमेण पादादि-हसितान्तम् उपास्यतमम् । अधिमात्रोपायस् त्रिधेत्य् उक्तम् [यो।सू। १.२२] । तत्र मृद्व्-अधिमात्रम् आह—विष्णु-रूप- इति । हसितस्यावधित्वं प्रकाश-मात्रत्वेन निराकार-सन्निकृष्टत्वात् । स्थूलम् आह—तस्मिन्न् इति । तस्मिन् विष्णु-रूपे पदं स्थैर्यं विलक्ष्य एकैकम् अङ्गं विवेकेन लक्षीकृत्य सञ्चिन्तयेद् इति । चक्रवालं मण्डलं, महतो ध्यातुर् हृदयम् ॥२०-२१॥ [मु।फ। २.१३-१४]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विलक्ष्य निश्चित्य ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समग्र-ध्यानम् उक्त्वा एकैकावयव-ध्यानम् आह—तस्मिन् भगवद्-विग्रहे ॥२०॥

———————————————————————————————————————

॥ ३.२८.२१ ॥

सञ्चिन्तयेद् भगवतश् चरणारविन्दं

वज्राङ्कुश-ध्वज-सरोरुह-लाञ्छनाढ्यम् ।

उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल-

ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव पादादि-क्रमेणाह त्रयोदशभिः । सम्यक् चिन्तयेत् । पाद-तले रेखात्मकानि वज्रादीनि लाञ्छनानि, तैः आढ्यं युक्तम् । उत्तुङ्गाश् च रक्ताश् च विलसन्तो नखास् तेषां चक्रवालं मण्डलं तस्य ज्योत्स्नाभिर् आहतो महतां ध्यातॄणां हृदयान्ध-कारो येन । एतच् च सर्वम् उपादेय-विशेषणं ध्येयत्वेनैवोच्यते ॥२१॥

———————————————————————————————————————

कैवल्य-दीपिका: पूर्व-श्लोकः द्रष्टव्यः।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : महतां ध्यातॄणां हृदयस्य अन्ध-कारम् असामर्थ्यम् ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पादादि-क्रमेणैकैकावयव-ध्यानम् आह—वज्र- इति । दक्षिण-चरण-तल-ध्यानं तस्यैव कल्प-तरु-मूले तिष्ठतस् त्रिभङ्ग-ललितस्य कृष्णस्य भक्तैर् दृश्यत्वात् तस्य दक्षिण-चरणस्य कनिष्ठा-तलेऽङ्कुशं ध्यायेत् । अङ्कुश-तले वज्रम्, अनामिका-तले सरोरुहं, सरोरुह-तले ध्वजम् । एवम् अङ्गुष्ठ-तले यव-चक्रादिकं ज्ञेयम् । एतैर् लाञ्छनैश् चिह्नैर् आढ्यम्अन्धकारं पापम् ॥२१॥

———————————————————————————————————————

॥ ३.२८.२२ ॥

यच्-छौच-निःसृत-सरित्-प्रवरोदकेन

तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् ।

ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं

ध्यायेच् चिरं भगवतश् चरणारविन्दम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यस्य शौचेन क्षालनेन निःसृतायाः सरित्-प्रवराया गङ्गाया उदकेन तीर्थेन संसार-तारकेण मूर्ध्न्य् अधिकृतेन धृतेन शिवोऽपि शिवोऽभूत्, अत्यधिकं सुखं प्रापेत्य् अर्थः । ध्यातुर् मनसि यः शमल-शैलः पाप-पर्वतस् तस्मिन् निसृष्टं क्सिप्तं वज्रम् इव यत् । यद् वा, शमल-शैले निसृष्टं स्व-लाञ्छन-रूपं वज्रं येन तत् ॥२२॥

———————————————————————————————————————

कैवल्य-दीपिका: दक्षिणम् अङ्घ्रिं ध्यात्वा गङ्गायाः प्रभवं वामं ध्यायेत् इत्य् आह—यच् छौच- इति । सरित्-प्रवरा गङ्गा । तीर्थं तारकम् । अधिकृतेन स्वाभाविकिके शिवत्वे निमित्तोत्प्रेक्षा शिव इति । तस्याश् चेवादिम् अन्तरेणाप्य् उपलम्भात् तद्-अप्रयोगः । शमलं पापम् । निसृष्टं प्रहितम् ॥२२॥ [मु।फ। २.१५]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चरणारविन्दस्य माधुर्यम् उक्त्वा ऐश्वर्यम् आह—यस्य शौचेन क्षालनेन निःसृता या सरित्-प्रवरा गङ्गा, तस्या उदकेन मूर्ध्नि आधिक्येन कृतेन । यद् वा, मूर्ध्नि धर्तुम् अधिकृतेन अधिकारेण प्राप्तेन शिवोऽपि शिवोऽभूत्, "अद्यैवाहं शिवोऽभूवम्" इत्य् अभिमन्यते स्मेत्य् अर्थः । ध्यातुर् जनस्य मनः-शमलानि राग-द्वेषादीनि, तेष्व् एव शैलेषु निसृष्टं स्व-लाञ्छन-रूपं वज्रं येन तत् । एवम् एव मच्-चरणारविन्दं ध्यातुर् भक्तस्य मनो-हस्तिनं स्व-वर्त्मन्य् आनेतुम् अङ्कुशं धत्ते, मनः-सरसीम् अलङ्कर्तुं कमलं, मनसे सर्वोत्कर्ष-साम्राज्यं दातुं ध्वजं, सर्वोत्कृष्ट-यशो दातुं यवम् ।त्रिविध-तापोपशमनाय छत्रं, सर्वतो रक्षणार्थं चक्रादिकम् अपि धत्ते इत्य् अपि ज्ञेयम् ॥२२॥

———————————————————————————————————————

॥ ३.२८.२३ ॥

जानु-द्वयं जलज-लोचनया जनन्या

लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः ।

ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत्

संलालितं हृदि विभोर् अभवस्य कुर्यात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विभोर् जानु-द्वयं तत्-पर्यन्तं जङ्घा-द्वयम् अखिलस्य विधातुर् ब्रह्मणो जनन्या लक्ष्म्या संलालितं स्पर्श-चातुर्येण संसेवितम् । संसारित्वम् इव प्रतीतं वारयति—अभवस्य इति । हृदि कुर्याद् ध्यायेत् ॥२३॥

———————————————————————————————————————

कैवल्य-दीपिका: जानु-द्वयम् इति । अखिलस्य विधातुर् ब्रह्मणः जनन्या एवम्भूतया परिसंवाहितम् इत्य् अतिशयार्थं विशेषण-त्रयम् ऊर्वोर् इत्य् आदरार्थम्18रोचिषा इति स्पर्शन-चातुर्येण एतत् परम-सौकुमार्यार्थम् ॥२३॥ [मु।फ। २.१६]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : जानु-द्वयम् इति त्रिकम् ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शयानं ध्यायेद् इत्य् उक्तम् । अतः शेष-पर्यङ्के शयानस्य विभोर् जानु-द्वयं तत्-पर्यान्तं जङ्घा-द्वयं हृदि कुर्यात्यत् खलु अखिलस्य विधातुर् ब्रह्मणः जनन्या लक्ष्म्या संवाहन-चातुर्यवतोः कर-पल्लवयो रोचिषा अरुणिम्ना पीतिम्ना च संलालितं शोभितीकृतम् । जलज-लोचनया इति तल्-लोचनाभ्यां निर्बाधम् एवास्वादित-लावण्यम् इत्य् अर्थः । इदम् एव जङ्घयोर् जानुनोश् च माधुर्यम् ऐश्वर्यं चैवम् अग्रेऽपि ज्ञेयम्। अभवस्य न विद्यते भवो यस्मात् तस्य ॥२३॥

———————————————————————————————————————

॥ ३.२८.२४ ॥

ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव्

ओजो-निधी अतसिका-कुसुमावभासौ ।

व्यालम्बि-पीत-वर-वाससि वर्तमान-

काञ्ची-कलाप-परिरम्भि नितम्ब-बिम्बम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपर्णस्य भुजयोः स्कन्धयोर् अधि उपरि । ओजसो बलस्य निधी आधारौ । अतसिकायाः कुसुमवत् कान्त्या अवभासमानौव्यालम्बि आगुल्फं लम्बमानं यत् पीताम्बरं वासस् तस्मिन् वर्तमानो यः काञ्ची-कलापस् तेन परिरम्भः संश्लेषो विद्यते यस्य तद् विभोर् नितम्ब-बिम्बं च हृदि कुर्याद् इति पूर्वेणैवान्वयः ॥२४॥

———————————————————————————————————————

कैवल्य-दीपिका: ऊरू इति । अधि ऊर्ध्व-भागे ओजो बलं तेजश् च । व्यालम्बि विततत्वात् विन्यास-विशेषाच् च यत् पीताम्बरंवासस् तस्मिन् वर्तमानस् तद्-उपरि बद्धो यः काञ्ची-कलापः, तस्य परिरम्भः सर्वतः संश्लेषो यस्यास्ति तत् स्त्री-कटीवत् सौन्दर्यं वक्तुं नितम्ब-शब्दः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजन्तं ध्यायेद् इत्य् उक्तम् । अतः पृथु-ध्रुवादिभ्यो वरं दातुं गच्छतो गरुडारूढस्य हरेर् **ऊरु-**द्वयं हृदि कुर्यात् । भुजयोर् अधि उपरि स्कन्धयोर् इत्य् अर्थः । नितम्ब-बिम्बं नितम्ब-मण्डलम् ॥२४॥

———————————————————————————————————————

॥ ३.२८.२५ ॥

नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं

यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् ।

व्यूढं हरिन्-मणि-वृष-स्तनयोर् अमुष्य

ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुष्य हरेर् नाभि-ह्रदं ध्यायेत् । कथं-भूतम् ? भुवनानां कोशस्य समूहस्य गुहा अधिष्ठानं यद् उदरं तत्र स्थितम्यत्र नाभि-ह्रदे आत्म-योनेर् ब्रह्मणो धिषणं धिष्ण्यम् अखिल-लोकात्मकं पद्मं व्यूढम् उत्थितम् । तथा हरिन्-मणि-वृषौ मरकत-मणि-श्रेष्ठाव् इव यौ स्तनौ, तयोर् द्वयं ध्यायेत्विशद-हाराणां मयूखैर् गौरं श्वेतम् ॥२५॥

———————————————————————————————————————

कैवल्य-दीपिका: वक्ष इति । ऋषभस्य विष्णोर् महा-विभूतेः लक्ष्म्याः अधिवासं स्थानं पुंसाम्, किं पुनः स्त्रीणाम् ? कौस्तुभस्य आधिक्येन भूषणम् अर्थः प्रयोजनं यस्य स तथा । कण्ठेन कौस्तुभः शोभते इत्य् अतिशयः ॥२५॥ [मु।फ। २.१८]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : गुहा प्रवेश-स्थानं स्तनयोर् द्वयं तद्-उपलक्षित-वक्षोऽधः ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गर्भोद-शायिनो नाभी-ह्रदं ध्यायेत्भुवनानां कोशस्य समूहस्य गुहा अधिष्ठानं यद् उदरं, तत्र स्थितम्यत्र आत्म-योनि-धिषणं धिष्ण्यम् अखिल-लोकात्मकं पद्मं व्यूढम् उत्थितम् । तथा हरिन्-मणि-वृषौ मरकत-मणि-श्रेष्ठाव् इव यौ चक्रिकाकृति-स्तनौ तयोर् द्वयम् । हरिण्मणि-वर्णो वृषो धर्मो यत्र, तथा-भूतयोः स्तनयोर् इति वा, तद्-दक्षिण-स्तनस्य धर्मत्वात् । विशदानां हाराणां मयूखैर् गौरं श्वेतम् इति दक्षिण-स्तनोपरि दक्षिणावर्त-श्वेत-श्रीवत्स-सरेखाम् अपि हार-कान्तिम् इव ध्यायेद् इत्य् अपि सूचितं ज्ञेयम् ॥२५॥

———————————————————————————————————————

॥ ३.२८.२६ ॥

वक्षोऽधिवासम् ऋषभस्य महा-विभूतेः

पुंसां मनो-नयन-निर्वृतिम् आदधानम् ।

कण्ठं च कौस्तुभ-मणेर् अधि भूषणार्थं

कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋषभस्य श्रेष्ठस्य महा-विभूतेर् महा-लक्ष्म्या अधिवासं स्थानं वक्षः कण्ठं च मनसि कुर्यात् । कथं-भूतं कण्ठम् ? कौस्तुभ-मणिर् यो भूषणार्थं धृतः, तस्य अधिकं भूषणम् अर्थः प्रयोजनं यस्य । कौस्तुभ-मणिम् एव स्वयम् अलङ्कुर्वन्तम् इत्य् अर्थः । पुंसां स्मर्तॄणां च मनो-नयनानां निर्वृतिम् आदधानम् इत्य् उभयोर् विशेषणम् ॥२६॥

———————————————————————————————————————

कैवल्य-दीपिका: कौमोदकीम् इति । दिग्धां लिप्तां भटा योद्धारः । वरूथः समूहः । उपघुष्टां वाचालीकृताम् । चैत्यस्य क्षेत्रस्य तत्त्वं कारणं परं ज्योतिः, तद्-रूपं मणिं कौस्तुभम् ॥२७॥ [मु।फ। २.२०]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अधिवासम् इति । तस्या अपि परम-लोभनीयत्वं दर्शितम् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-विभूतेर् महा-लक्ष्म्या अधि अधिको वाम-भागे वासो यत्र एतादृशं वक्षो मनसि कुर्यात्कौस्तुभ-मणेर् अपि अधिकं भूषणं प्रयोजनं यस्य, कौस्तुभ-मणिर् अपि येन भूषितः स्यात्, तं कण्ठं चेत्य् अर्थः ॥२६॥

———————————————————————————————————————

॥ ३.२८.२७ ॥

बाहूंश् च मन्दर-गिरेः परिवर्तनेन

निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् ।

सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः

शङ्खं च तत्-कर-सरोरुह-राज-हंसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्णिक्तान्य् उज्ज्वली-कृतानि बाहु-वलयान्य् अङ्गदानि येषु । अधि श्रिता लोक-पाला येषु । दश-शतारं चक्रम् । न सह्यं तेजो यस्य । कर-सरोरुहे राज-हंसम् इव ॥२७॥

———————————————————————————————————————

कैवल्य-दीपिका: बहून् इति । परिवर्तनं सव्यापसव्य-भ्रमणम् । निर्णिक्तं शोधितम् । अधिलोक-पालान् लोक-पालाधिष्ठातॄन् । दशशतारं चक्रं शङ्खस्य सर्वतः शौक्ल्येन मुख-मूलयोर् लौहित्येन च राजहंसोपमा ॥२६॥ [मु।फ। २.१९]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्दर-गिरेर् इति । शौटीर्य-मात्रे तात्पर्यम्, न तु निर्णेजने, निर्णिक्तत्वस्य नित्य-सिद्धत्वात् । तस्माद् अत्यन्त-तिरस्कृत-वाच्य एवायं ध्वनिर् उत्प्रेक्षया गम्यते । परिवर्तनं चात्र सुष्ठु स्थापनार्थं ज्ञेयम् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुद्रं मथ्नतो हरेर् बाहून् चिन्तयेत्, निर्णिक्तानि उज्ज्वलीकृतानि बाहु-वलयान्य् अङ्गदादीनि च येषु तान् । अधि अधिकृता भक्ता लोक-पाला भवन्ति येभ्यस् तान् । वैकुण्ठ-नाथस्य भगवतश् चतुर्षु हस्तेषु चक्राद्य्-अस्त्र-चतुष्कं मालां कौस्तुभं च स्मरेद् इत्य् आह—सञ्चिन्तयेद् इति सार्धेन । दश-शतारं चक्रम् ॥२७॥

———————————————————————————————————————

॥ ३.२८.२८ ॥

कौमोदकीं भगवतो दयितां स्मरेत

दिग्धाम् अराति-भट-शोणित-कर्दमेन ।

मालां मधुव्रत-वरूथ-गिरोपघुष्टां

चैत्त्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ब्रह्मा चित्ताभिमानेन चैत्त्यस् तन्-नियमाद् हरिः ।

स च ब्रह्मा हरेः कण्ठे कौस्तुभत्वेन भासते ॥ इति भागवत-तन्त्रे ॥२८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अरातयो ये भटा योद्धारः, तेषां शोणितम् एव कर्दमः, तेन दिग्धां लिप्ताम् । अस्य कण्ठे मालां मणिंस्मरेत्मधुव्रताणां वरूथस्य गिरा उपघुष्टां नादिताम् । चैत्त्यस्य जीवस्य तत्त्वम् । तद् उक्तं वैष्णवे—

आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।

बिभर्ति कौस्तुभ-मणि-स्वरूपं भगवान् हरिः ॥ [वि।पु। १.२२.६८] इति ॥२८ ॥

———————————————————————————————————————

कैवल्य-दीपिका: भृत्य- इति । वल्गितं चलनं यद् वदनाब्जं श्री-निकेतं पद्मम् अधिक्षिपेत् । विशेषण-प्रधानो निर्देशः । श्री-निकेतत्वादि-धर्म-त्रयं विशिष्टं क्षिपतीत्य् अर्थः, तत्र स्व-भूत्या श्री-निकेतत्वस्याक्षेपः । कुन्तलैर् अलि-युक्तत्वस्य नेत्र-द्वयेन मीन-द्वय-युक्तत्वस्य । मनो-मयं मनसः परिणामम् ॥२८-२९॥ [मु।फ। २.२२-२३]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दिग्धाम् इति । पूर्ववत् लिप्तत्वस्यैव पौनःपुन्यात् जीवस्य तत्त्वं महा-समष्टि-रूपस्य तस्याविर्भावास्पदं महा-पुरुषस्यैवाविर्भाव-विशेष इत्य् अर्थः । अमलं गुणातीतम् । तद् उक्तं वैष्णवे—

आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।

बिभर्ति कौस्तुभ-मणि-स्वरूपं भगवान् हरिः ॥ [वि।पु। १.२२.६८] इति ।

एवं तस्य भूषणानाम् अपि पर-ब्रह्मत्वे तद्-आश्रयस्य तस्य कैमुत्यम् आनीतम् ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिग्धां लिप्ताम् । उपघुष्टां नादिताम् । चित्ते भवत्य् आविर्भवतीति चैत्त्य-शब्देन सर्वत्र यद्यपि परमात्मैवोच्यते, तद् अप्य् अत्र तच्-छक्तित्वाज् जीवात्मैवोच्यते । चैत्त्यस्य जीवस्य जीव-शक्तेस् तत्त्वम् । तद् उक्तं वैष्णवे—

आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।

बिभर्ति कौस्तुभ-मणि-स्वरूपं भगवान् हरिः ॥ [वि।पु। १.२२.६८] इति ।

कौस्तुभस्यैवानन्ताः किरणाः जीवा इति भावः ॥२८॥

———————————————————————————————————————

॥ ३.२८.२९ ॥

भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः

सञ्चिन्तयेद् भगवतो वदनारविन्दम् ।

यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन

विद्योतितामल-कपोलम् उदार-नासम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भृत्येष्व् अनुकम्पिता कृतानुकम्पा या धीस् तया गृहीता मूर्तिर् येन तस्य । विस्फुरती ये मकर-कुण्डले तयोर् वल्गितेन प्रचलनेन विद्योतिताव् अमलौ कपोलौ यस्मिंस् तत् । उदारा उन्नता नासा यस्मिंस् तत् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भृताः स्व-स्वाभीष्ट-मूर्तेर् भावुकाः तेषु अनुकम्पा-युक्ता या धीस् तया इह जगति गृहीता आकृष्टा वैकुण्ठाद् आनीता मूर्तयो येन तस्य ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुकम्पा सञ्जातास्या इत्य् अनुकम्पिता, तारकादित्वाद् इत्वच् । यद् वा, अनुकम्पितम् अनुकम्पा कृपा तद्-आत्मिका तन्-मयी वा या धीस् तया स्व-वासार्थं गृहीता मूर्तिर् यस्य, हे मत्-स्वरूप-शक्ति-सार-भूते अनुकम्पे, इह मर्त्य-लोके मन्-मूर्तिषु मध्ये याम् इच्छसि, तां स्व-निर्भर-निवासार्थं गृहाणेत्य् उक्त्वे तया विविच्य, मकर-कुण्डलयोर् वल्लनं खलु पार्श्व-द्वय-स्थ-पार्षद-सञ्चालित-चामर-हेतुकेन शिरः-कम्पेन वा सहचरी-गण-नृत्य-गीत-वाद्य-ताल-तानाद्य्-आस्वादन-साधुत्व-ख्यापन-हेतुकया ग्रीवा-भङ्ग्या वा ज्ञेयम् । अमलेति कपोलयोः सार-मणि-दर्पणायमानत्वं तयोश् चलन्-मकर-कुण्डल-द्वय-प्रतिबिम्बेन नटन्तौ नयन-खञ्जनौ नृत्योपाध्यायौ भूत्वा स्व-तल-स्थलम् आयातं मकर-चतुष्टयं नर्तयत इव इत्य् उत्प्रेक्षा गम्या । उदार-नासम् उन्नत-नासिकं, उदारो दातृ-महतोर् इत्य् अभिधानान् नासिकायास् तद् आस्वादन-सभ्यत्वेन स्व-सर्वस्व-दातृत्वम् ॥२९॥

———————————————————————————————————————

॥ ३.२८.३० ॥

यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं

भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् ।

मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं

ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : साक्षाच् छ्रीस् तु हरे रूपम् इन्दिरा तु तद्-आश्रया ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् च स्वय भूत्या शोभयालिभिः परिसेव्यमानं मीन-द्वयाश्रयं च श्री-निकेतनं पद्मम् अधिक्षिपद् वर्तते तद् ध्यायेत् । तत्र कुन्तलैर् अलीनाम् अधिक्सेपः । नेत्र-द्वयेन मीन-द्वयस्येति द्रष्टव्यम् । अब्जे इव नेत्रे यस्मिन्न् इत्य् उपमानान्तरम् । उल्लसन्त्यौ भ्रुवौ यस्मिन् । मनो-मयं मनस्य् अविर्भवत् ॥३०॥

———————————————————————————————————————

कैवल्य-दीपिका: तस्य इति । अनुगुणितं युक्तम् । विपुलो बहुः । गुहायां हृदि ॥३०॥ [मु।फ। २.२३]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यः खलु श्री-निकेतं सर्वोत्कृष्टाब्जान्तरम् अधिक्षिपद् वर्तते, तद् अब्जाकारं नेत्रं ध्यायेत् । यद् वा, अब्जेत्य् अब्जं “सुपां सुलुग्” इत्य्-आदिना छान्दसः सुलुक् । तस्य विशेषणं श्रीनिकेतम् इति मीन-द्वयं चात्र भ्रू-द्वयेनाधिक्षिप्तं ज्ञेयम् । येन मुखेनाब्जम् अधिक्षिप्तम् । अत्र नेत्रस्याब्जत्वे शोभा-विशेषापोषाद् एवं व्याख्यायते । मनो-मयं श्री-भगवद्-अन्तर्-नाना-कृपा-विलास-सूचकं श्री-भक्तान्तर्-नाना-भक्ति-विलासाविष्टं वा ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् च श्री-निकेतनं वदनारविन्दम् अलिभिः परिषेव्यमाणम् अपि मीन-द्वयाश्रयम् अपि अधिक्षिपत् । अर्थात्, अरविन्दान्तरं स्वया विभूत्या तिरस्कुर्वद् भवति । तत् ध्यायेद् इत्य् अन्वयः । तत्र कुटिल-कुन्तल-वृन्देनालीनाम् आक्षेपः । अब्ज-दल-तुल्य-नेत्राभ्यां मीन-द्वयस्याक्षेपः । मनो-मयं स्व-मनसा तादात्म्यम् इव स्वादाधिक्यात् प्राप्तम् इत्य् अर्थः । स्व-भक्त-विषय-कृपा-द्योतनाद् उल्लसन्तौ भ्रुवौ यत्र तत् ॥३०॥

———————————————————————————————————————

॥ ३.२८.३१ ॥

तस्यावलोकम् अधिकं कृपयातिघोर-

ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः ।

स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं

ध्यायेच् चिरं विपुल-भावनया गुहायाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृपयाधिकम् अत्यर्थम् । अक्षिभ्यां निसृष्टं प्रयुक्तम् । स्निग्ध-स्मितेनानुगुणितं संयुक्तम् । विपुलः प्रसादो यस्मिन् । गुहायां हृदि ॥३१॥

———————————————————————————————————————

कैवल्य-दीपिका: हासम् इति । निज-मायया अस्य जगतः सम्मोहनाय रचितं हासं ध्यायेत् । मुनीनाम् अपि सम्मोहनं माभूद् इति तत् संमोहनाय प्रवृत्तस्य कामस्य सन्तर्जनेन सम्मोहनाय रचितं भ्रू-मण्डलं ध्यायेत् ॥३१॥ [मु।फ। २.२४]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्निग्धं स्नेहातिशयाभिव्यञ्जकं यत् स्मितं तेनानु निरन्तरं गुणितं पुनः पुनः स्फीतीकृतम् । अत एव यत एव वा विपुलः प्रसादो यस्य तत्र वा तथा-भूतम् । गुहायां परम-रहस्य-गृह-रूपे चित्ते ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य हरेर् अवलोकं ध्यायेत् । अक्ष्णोर् अक्षिभ्यां निसृष्टं निर्मितं ध्यातुर् अतिघोरं यत् ताप-त्रयं तस्योपशमाय स्निग्धं यत् स्मितं, तद् एव । स्मितोपलक्षितं माधुर्यम् अन्वनुगुणितं प्रथमं ततस् त्रिगुणितादि-क्रमेण कोटि-कोटि-गुणितं यत्र तत् ॥३१॥

———————————————————————————————————————

॥ ३.२८.३२ ॥

हासं हरेर् अवनताखिल-लोक-तीव्र-

शोकाश्रु-सागर-विशोषणम् अत्युदारम् ।

सम्मोहनाय रचितं निज-माययास्य

भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवनता येऽखिल-लोकास् तेषां तीव्र-शोकेन यान्य् अश्रूणि तेषां सागरं विशोषयतीति तथा तं हरेर् हासम् । अस्यात्य्-उदारं भ्रू-मण्डलं च ध्यायेत् । कथं भूतम् । निज-मायया मकर-ध्वजस्यापि संमोहनाय रचितम् । मुनि-कृते मुनीनाम् उपकाराय । मुनीनां संमोहने प्रवृत्तं कामम् एव संमोहयितुम् इत्य् अर्थः ॥३२॥

———————————————————————————————————————

कैवल्य-दीपिका: अ हासम् इति । निज-मायया अस्य जगतः सम्मोहनाय रचितं हासं ध्यायेत् । मुनीनाम् अपि सम्मोहनं माभूद् इति तत् संमोहनाय प्रवृत्तस्य कामस्य सन्तर्जनेन सम्मोहनाय रचितं भ्रू-मण्डलं ध्यायेत् ॥३२॥ [मु।फ। २.२५]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तीव्र-शोकाश्रु-सागर-विशेषणत्वेन हासस्य परमानन्दाश्रु-सागर-वर्धनत्वं ध्वन्यते । तेन चन्द्रत्वेऽप्य् अपूर्वत्वं प्रसिद्ध-चन्द्रे क्षार-क्षिरोदधि-वर्धनत्वाविशेषात् । क्रम-मङ्गलं वर्णयति—सम्मोहनायेति । एषा चोत्प्रेक्षा ज्ञेया । काक्वा हिंसा व्यज्यते ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेर् हासं ध्यायेत् । अवनता भक्ता ये अखिला लोकास् तेषां दास्य-सख्यादि-भाववतां तद्-विरहोत्थत्वात् तीव्रो यः शोकाश्रु-सागरस् तं विशेषेण शोषयतीति तं, अत्युदारम् इति शोक-सागराद् उद्धृत्यानन्द-सागरे निमज्जनं ददानम् इत्य् अर्थः । यद् वा, सांसारिक-तीव्र-दुःख-शोकाश्रु-सागर-शोषणत्वेन हासस्य संसारातीत-प्रेमानन्दाश्रु-सागर-वर्धनत्वं ध्वन्यते । तेन चन्द्रत्वेऽप्य् अद्भुतत्वं, प्रसिद्धश् चन्द्रो हि क्षीरोदं क्षारोकं च वर्धयतीति ।

अस्य भ्रू-मण्डलं च ध्यायेत् । निज-मायया स-कपट-निक्षेपेणैव सर्व-मोहनस्यापि मकर-ध्वजस्य सम्मोहनाय रचितं प्रस्तुतीकृतम् ।

ननु मकरध्वजं किम् इति मोहयेत् ? तत्राह—मुनि-कृते, पत्राम्बु-भोजिनस् तपस्यतोऽपि मुनीन् अयम् उद्वेजयेद् इति कोपेनैवेत्य् उत्प्रेक्षा ॥३२॥

———————————————————————————————————————

॥ ३.२८.३३ ॥

ध्यानायनं प्रहसितं बहुलाधरोष्ठ-

भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति ।

ध्यायेत् स्व-देह-कुहरेऽवसितस्य विष्णोर्

भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : न पृथग् दिदृक्षेत् तम् एव दिदृक्षेद् इत्य् अर्थः ॥३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्द-हास-ध्यानम् उक्त्वा स्फुट-हास-ध्यानम् आह—विष्णोः प्रहसितम् उच्चैर् हसितं ध्यायेत् । कीदृशम् ? ध्यानायनम् अतिसुन्दरतया प्रयत्नं विनैव ध्यानस्य विषय-भूतम् । सौन्दर्यम् एवाह—बहुलया अधिकया अधरोष्ठस्य भासा कान्त्या आरुणी-भूतास् तनवः सूक्ष्मा द्विजा एव कुन्द-मुकुलानि, तेषां पङ्क्तिः स्फुरति यस्मिंस् तत् । देह-कुहरे हृदयाकाशेऽवसितस्य ज्ञातस्य । प्रेम-रसेन आर्द्रया भक्त्या तस्मिन्न् एव अर्पित-मनाः सन् पृथक् तद्-व्यतिरिक्तं द्रष्टुं नेच्छेत् । न चित्तं विचालयेद् इत्य् अर्थः ॥३३॥

———————————————————————————————————————

कैवल्य-दीपिका: अव्यक्तं हसितम् उक्त्वा प्रव्यक्तं हसितम् आह—ध्यानायनम् इति । प्रहसितं प्रकाश-ध्यानातिमात्रत्वाद् निराकारेण स्पर्धते । अत एव ध्यानायनं व्यवधानाल्पत्वाद् बहुलया अधरोष्ठस्य भासा अरुणायिता लौहित्यं नीता । तनूनां द्विजानाम् एवं कुन्द-कलिकानां पङ्क्तिर् यत्र तत् देह-कुहरं हृदयाकाशम्19अवसितस्य निर्ज्ञातस्य आर्द्रया भक्त्या आनन्द-रसेन पृथक् तद्-व्यतिरिक्तं न द्रष्टुम् इच्छेत् ॥२६॥ [मु।फ। २.३७]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्त्या आदरेण ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेक्षणीयेहितं ध्यायेत् इत्य् उक्तम् अतः क्वापि रहसि कुसुम-तल्पम् अध्यासीनस्य स्व-प्रेयसीम् अतिसौरभ-लोभेन श्रवण-नयन-नासा-मुखादि-समीपम् अजहतः कस्यचिद् भ्रमरस्य झङ्कारेण त्रस्ताम् । शश्वद्-भोजोत्क्षेप-वसनोन्नमन-ग्रीवानयनादि-चापल्यवतीं, “रसिक-शेखर ! पदयोस् ते पतामि द्रष्टुम् इमं विद्रावय” इति स-काकु व्याहरन्तीं पश्यतः, "शृणु भो भृङ्गाधिप, इमाम् अद्य मा जहीहि भुङ्क्ष्व" इति निगदतो भगवतः प्रहसितम् उच्चैर् हसितं ध्यायेत्ध्यानायनं प्रयत्नं विनैव स्वयम् एव ध्यानस्य विषयीभविष्णुः, तत्रापि माधुर्यम् आह—बहुलया अधरौष्ठस्य भासा अरुणीभूतास् तनवः सूक्ष्मा द्विजा एव कुन्द-मुकुलानि, तेषां पङ्क्तिः स्फुरति यस्मिन् तत् । स्व-देह20-कुहरे हृदयाकाशेऽवसितस्य प्रतीतस्य अस्मात् पृथग् दिदृक्षेत् द्रष्टुं नेच्छेत् । ज्ञातुं च नेच्छेद् इत्य् अतः पुरुषार्थ-साराद् अन्यस्याधिक-वस्तुनोऽसम्भवाद् भक्तानाम् एतद्-आस्वादानन्द-मोह एव परमः समाधिर् इति भावः ।

एवं नवाङ्ग-भक्तेस् तृतीयम् अङ्गम् एतद्-भगवद्-अवतार-गुण-लीला-माधुरी-धुरीणम् अपि ध्यानम् अष्टाङ्ग-योग-प्रसङ्गे यद् उक्तं, तत् खलु योग-महा-गह्वरा योगिनोऽप्य् आकृष्य भक्ति-रस-सुधार्णवे निमज्जयितुम् एव । दृश्यन्ते च—

परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।

गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ [भा।पु। २.१.९] इति ।

अद्वैत-वीथी-पथिकैर् उपास्याः

स्वानन्द-सिंहासन-लब्ध-दीक्षाः ।

हठेन केनापि वयं शठेन

दासीकृताः गोप-वधू-विटेन ॥

इति तत्-तद्-उक्तिभिर् महा-योगिनोऽपि वैयासिकि-बिल्वमङ्गलादयो महद्-अनुग्रह-वशाद् भक्ति-रस एव निमज्जन्त एवेति ॥३३॥

———————————————————————————————————————

॥ ३.२८.३४ ॥

एवं हरौ भगवति प्रतिलब्ध-भावो

भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् ।

औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस्

तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समाधिम् आह—एवम् इति द्वाभ्याम् । निर्बीजः सबीजश् चेति द्वि-विधो योगः । तत्र निर्बीज-योगे—

यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् ।

ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥ [गीता ६.२६]

इति गीताद्य्-उक्त-मार्गेण क्रियमाणोऽपि दुष्करः समाधिः । स-बीजे तु सुकरः । तत्र हि परमानन्द-मूर्तौ हरौ ध्यायमानेऽयत्नत एव चित्तोपरमो भवति । तद् उक्तम्—हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते [भा।पु। ३.२५.३६] इति। अतः स एवोपक्षिप्तो योगस्य लक्षणं वक्ष्ये स-बीजस्येति । तद् एवायत्न-सिद्धत्वं दर्शयति—एवं ध्यान-मार्गेण हरौ प्रतिलब्धो भावः प्रेमा येन, तथा भक्त्या द्रवद्-धृदयं यस्य, प्रमोदाद् उद्गतानि पुलकानि यस्य । औत्कण्ठ्य-प्रवृत्त्आश्रु-कलयामुहुर् अर्द्यमान आनन्द-संप्लवे निमज्जमानो दुर्ग्रहस्य भगवतो ग्रहणे बडिशं मत्स्य-वेधनम् इवोपाय-भूतं चित्तम् अपि ध्येयाद् वियुङ्क्ते । तद्-धारणे शिथिल-प्रयत्नो भवतीत्य् अर्थः ॥३४॥

———————————————————————————————————————

कैवल्य-दीपिका: ध्यानम् उक्त्वा समाधिम् आह—एवम् इति । एवं दृश्य-विशिष्टं द्रष्टृ-ध्यानेन हरौ द्रष्टरि प्रतिलब्ध-भावः पुनर् लब्ध-रतिः । तद् दृश्यं शनकैर् वियुङ्क्ते त्यजति । यतः तच्-चित्त-बडिशं चपलस्य चित्त-मत्स्यस्य बन्धनार्थम् उपात्तम् । यद्यपि तस्मिन् भक्त्या गृहीते प्रमोदाद् द्रवद्-धृदय इत्य् उत्पुलकश् च भवति । अतस् तद् अपि त्याज्यम् । क्रिया-जन्यं हि तत् सुखम् । क्रिया च द्वितीये क्षणे नश्यति । स च क्षणः औत्कण्ठितेन दुःखेन दुःसहः । इदम् अत्र तत्त्वम्—ध्येयालम्बनस्य प्रत्ययस्य सदृश-प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्21 । ध्यानम् एव ध्येयाकार-निर्भास-प्रत्ययात्मकं न स्वरूपेण शून्यम् इव ध्येय-स्वभावावेशाद् यदा भवति, तदा समाधिर् इत्य् उच्यते22 इति ॥३४॥ [मु।फ। २.२६]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् केवल-तन्-माधुर्य-तात्पर्यत्वेनैव प्रीतित्वे सिद्धे तात्पर्यान्तरादौ सति प्रीतेर् असम्यग्-आविर्भाव इति सिद्धम् । स च द्विविधः—(१) तद्-आभासस्यैवोदयः (२) ईषद्-उद्गमश् च । अन्त्यश् च द्विविधः—(१) कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वं, (२) तस्या एवोदयावस्था च । तत्र यत्रान्य-तात्पर्यं, तत्र तद्-आभासत्वम् । यत्र प्रीति-तात्पर्याभावस् तत्र कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वम् । यत्र तत्-तात्पर्यम् अन्यासङ्गस् तु दैवात्, तत्र तस्या उदयावस्था च ।

अन्यासङ्गस्य गौणत्वम् । तच् च द्विविधम्—(१) नष्ट-प्रायत्वम् (२) आभास-मात्रत्वं च । तयोः पूर्वत्र तस्याः प्रथमोदयावस्था । उत्तरत्र प्रकटोदयावस्था । तस्मात् प्रथमोदय-पर्यन्त एवासम्यग्-आविर्भावः । प्रकटोदयस्य तु सम्यक्त्वम् एव । यत्र त्व् अन्यासङ्ग एव न विद्यते, तत्र दर्शित-प्रभाव-नामान आविर्भावा ज्ञेयाः । तत्र प्रकटोदयम् आरभ्यैव भक्त्य्-आरब्धेऽपवर्गे जीवन्-मुक्ताः । प्राप्तायां भगवत्-पार्षदतायां परमम् उक्ताः । नित्य-पार्षदास् तु नित्य-मुक्ता ज्ञेयाः । तत्राभासम् आह23एवं हरौ इति ।

एवं पूर्वोक्त-योग-मिश्र-भक्त्य्-अनुष्ठानेन हरौ प्रतिलब्ध-भावो भवति । तत्र लिङ्गं— भक्त्या इत्य्-आदि । भक्त्या स्मरणादिना अपि एवम् अपि लब्ध-ध्येय-मधुरत्वस्य भावेन तादृशतापन्नं तस्य चित्तं शनकैर् वियुङ्क्ते विमुक्तम् अपि भवति । येन योगाङ्गतया भक्तिर् अनुष्ठिता, तस्मात् कैवल्येच्छा-कैतव-दोषाद् एवेति भावः । यथोक्तं—धर्मः प्रोज्झितः कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् अत्र प्र-शब्देन मोक्षाभिसन्धिर् अपि कैतवम् इति । अत एव बडिश-शब्देन काठिन्यम् अरसवित्त्वं दाम्भिकत्वं स्वार्थ-मात्र-साधनत्वं च व्यञ्जितम् । शुद्ध-भक्तास् तु न कदाचित् तथा तं ध्येयं त्यजन्ति । यथोक्तं राज्ञा—

धौतात्मा पुरुषः कृष्ण-पाद-मूलं न मुञ्चति ।

मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥ [भा।पु। २.८.६] इति ।

श्री-नारदेन च—

न वै जनो जातु कथञ्चनाव्रजेन्

मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।

स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्

विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [भा।पु। १.५.१९] इति ।

यो रस-ग्रहः, स तु न त्यजतीत्य् अनेनान्येषां लौह-पाषाणादि-तुल्यत्वं सूचितम् । न तु भगवान् अपि ततोऽन्यथा कुर्यात् । यद् उक्तं श्री-ब्रह्मणा—

भक्त्या गृहीत-चरणः परया च तेषां

नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [भा।पु। ३.९.५] इति ।

आविर्होत्रेण च विसृजति हृदयं न यस्य साक्षाद्24 [भा।पु। ११.२.५५] इति । अत एव पूर्वत्र स्व-पुंसाम् इत्य् अत्र स्व- इति विशेषणम् ।

यद् वा, भगवति प्रतिलब्ध-भावादि-रूपोऽपि तच् चित्त-बडिशम्अपि-शब्दात् भगवन्तम् अपि कैवल्य-वासनया भावादेर् आभासितत्वाद् वियुङ्क्ते त्यजतीत्य् अर्थः । बडिश-शब्देन चेदं ध्वन्यते—गङ्गादि-महा-तीर्थ-स्थानीये भगवति बडिश-स्थानीयेन चित्तेन ग्राह्यत्वान् मत्स्य-स्थानीयस्य स्व-प्रकाशानन्द-रूपे हासे तद्-अंशे सजातीयतया व्यक्तस्य निर्विशेष-ब्रह्मण उपलम्भात् सिद्धार्थतया कृत-तत्-त्यागस्य तस्य धीवरत्वम् एव लब्धम् । न तु तद्-अवगाह-मात्र-सुखज25-साधु-लोकत्वम् । ततश् च बडिश-जीविक-सादृश्येन तस्य निकर्ष एव ज्ञापितः । न तु स्व-सुख-निभृत [भा।पु। १२.१२.६२] इत्य्-आदौ रुचिर-पदेन श्री-व्यास-सूनोर् लोभनीयां लीलां प्रशंसति, वाक्ये तद्-विधस्येव तस्योत्कर्षः प्रतिपादितः । स यथा—

आराधनं भगवत ईहमाना निराशिषः ।

ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशला नराः ॥ [भा।पु। ६.१८.७४]

द्वयोर् अनयोर् अधिकारिणोर् उत्तरत्र विलक्षणायां निष्ठायां परम-निदानं तु महत्-सङ्ग-वैलक्षण्यम् एव ज्ञेयम् । यद् एव सर्वत्र मूलम् इति । तैर् दर्शनीयावयवैर् [भा।पु। ३.२५.३६] इत्य् आदौ । हृतात्मन [तत्र] इत्य्-आदिकं तु नात्रोदाह्रियते । तस्य नैकात्मतां [भा।पु। ३.२५.३४] इत्य्-आदि-शुद्ध-भक्त-प्रकरण-पाठाद् यथा दर्शितम् एव व्याख्यानं युक्तम् इति। तद् एतत् सोदाहरणं श्री-कपिल-देव-वाक्यं भक्त्या पुमान् जात-विरागः [भा।पु। ३.२५.२६] इत्य्-आदिकम् अपि ज्ञेयम् । तथा हि, अस्य पूर्वत्र श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [भा।पु। ३.२५.२५] इति भक्ति-मात्रं दर्शितम् । उत्तरत्र तस्या लक्षणे पृष्टे तल्-लक्षणं वदतानेन भक्तिर् सिद्धेर् गरीयसी [भा।पु। ३.२५.३२] इति । नैकात्मतां मे स्पृहयन्ति केचिद् [भा।पु। ३.२५.३४] इति च मोक्ष-निरपेक्षतयैव तस्य मुख्याभिधेयत्वम् उक्तम् । जरयत्य् आशु या कोषं [भा।पु। ३.२५.३३] इति च माया-कोष-ध्वंसनस्य तु तद्-आनुषङ्गिक-गुणत्वम् उक्तम् ।26 अत्र भक्त्या पुमान् [३.२५.२६] इत्य्-आदौ तु तादृश्या अपि तस्या भक्तेर् ज्ञानादि-साहाय्येनैव मोक्ष-मात्र-साधकत्वम् उक्त्वा गौणाभिधेयत्वम् उक्तम् । तस्माद् अत्रापि तस्या भक्तेर् आभास एव प्रथमतो दर्शितः । एवं—

दृष्ट्वा तम् अवनौ सर्व ईक्षणाह्लाद-विक्लवाः ।

दण्डवत् पतिता राजञ् छनैर् उत्थाय तुष्टुवुः ॥ [भा।पु। ६.९.३]

इत्य् अत्रापि वृत्राख्य-शत्रु-नाश-स्वाराज्य-प्राप्ति-तात्पर्यवतां देवानां भक्त्य्-आभासत्वम् उदाहार्यम् ॥३४॥ [प्रीति-सन्दर्भः ७३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् त्व् अतिमन्दो महद्-अननुगृहीत एताम् अपि ध्यान-माधुरीम् उपभुज्याप्य् अलब्धास्वाद-निष्ठो जिहासति । स तु योगी योग एव प्राप्त-निष्ठोऽपि योगिष्व् अतिनिकृष्ट एव, भक्ति-रस-वञ्चित एव । भक्त्यैव दीयमानम् एकविंशति-प्रकार-दुःख-नाश-पूर्वक-प्रत्यग्-आत्मानुभवात्मकं मोक्षं प्राप्नोति, न तु ब्रह्मानुभवात्मकं मोक्षम् इत्य् आह—एवम् इत्य्-आदि यावद्-अध्याय-समाप्ति ।

हरौ भगवतीति मनोहरत्वात् भग-षट्कवत्त्वाच् च माधुर्यैश्वर्यामृत-परिपूर्णोऽपि प्रतिलब्ध-भावः, श्लेषेण प्रतिरूपतयैव न त्व् अनुरूपतया लब्धो भावो येन सः । अत्र खल्व् अपि-शब्दः सर्वत्रान्वेति । प्रतिलब्ध-भावोऽपि द्रवद्-धृदयोऽपि उत्पुलकोऽपि औत्कण्ठ्य-हेतुकया बाष्प-कलया अश्रु-भागेन मुहुर् अर्द्यमानोऽपि, तच् चापि तस्माद् अपि स्वरूपात् चित्त-बडिशं वियुङ्क्ते वियोजयति, ज्ञानं च मयि संन्यसेत् [११.१९.१३] इति विविधवद् भक्ति-संन्यासे विध्य्-अभावात् प्रत्युत भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् [३.२८.३३] इति निषेध-विधेः सद्-भावाद् अयं मन्द-धीः स्वेच्छयैव वियोजयतीत्य् अर्थः, वियुञ्ज्याद् इति विध्य्-अप्रयोगात् ।

यतोऽस्य चित्तं बडिशम्, अतस् तादृशोऽपि सन् तस्माद् अपि माधुर्य-मय-स्वरूपाद् वियोजयतीति । विषय-रसौत्कण्ठ्य-दूरीकरणार्थं भगवन्-माधुर्ये निक्षिप्तं यच् चित्तं, तस्य तन्-माधुर्यौत्कण्ठ्यस्यापि निवृत्तये तच् चित्तं ततोऽपि निवर्तयतीत्य् अर्थः । शनकैर् इति चित्तस्य सम्यग्-युक्तत्वे वियोजनं खलु दुर्घटम् एवातोऽसम्यग्-योग एव सत्य् अभ्यासेन शनैः शनैर् द्वि-त्र-वारेण चतुः-पञ्च-वारेण वा सप्ताष्ट-वारेण वा अवश्यम् एव वियोजयतीति ।

बडिशं ह्य् अश्म-सार-मयं भवति । अतः स्वर्ण-रूप्यादिवन् न नवनीतादिवत् द्रुतीभवति । किन्तु वह्नि-तापाधिक्य-वशात् किञ्चिद् द्रवद् एव तत्-क्षण एव पुनः कठोरं च भवति, अतो द्रवद्-धृदय इति, न तु द्रुत-हृदय इत्य् उक्तम् । यथा बडिशं खलु गङ्गादि-तीर्थ-जल-नित्य-स्नान-परम् अपि कुटिलम् अरसज्ञं, यथा च मीन-लोभनम् इष्ट-पिष्टकान्न-खण्डेनावृत-मुखत्वाद् दाम्भिकं च । तथैव विगीत-योगिनश् चेतोऽपि तीर्थ-पूतम् अपि कठोरं कुटिलं भगवद्-आकर्षक-ध्यान-भक्त्यावृत-मुखत्वाद् दाम्भिकं च ।

धर्मः प्रोज्झित-कैतवः [भा।पु। १.१.२] इत्य् अत्र श्री-स्वामि-चरणैः प्र-शब्देन मोक्षाभिसन्धिर् अपि कैतवत्व-व्याख्यानात्, कैवल्येच्छा-कैतव-दोषाद् एव येन सर्व-श्रेष्ठापि ध्यान-रूपा श्री-भक्ति-देवी योगाङ्गत्वेनोपासितापि पश्चात् त्यक्ता, तस्य योगि-चित्त-बडिशस्य स्पर्शो भगवतोऽपि कष्ट-कर एव । अतस् तद्-वियोगे भगवान् एव तस्मै हारित-तादृश-चित्त-बडिशाय योगि-धीवराय मोक्षम् एकविंशति-प्रकार-दुःख-निवृत्ति-पूर्वक-प्रत्यग्-आत्मानुभव-रूपं ददाति, न तु परमात्मानुभव-रूपं मोक्षम् । यस् तु भगवद्-गीतोक्तोऽष्टाङ्ग-योगी भगवद्-ध्यानम् अजहद् एव दृष्टः, तस्मै तु परमात्मानुभव-रूपम् अपि मोक्षं ददातीत्य् आहुर् भागवत-रसिकाः, यतः स कदाचिद् अपि न ध्येयाद् भगवन्-मधुर-रूपाद् वियोक्तुम् ईष्टे । यथोक्तं राज्ञा—

धौतात्मा पुरुषः कृष्ण- पाद-मूलं न मुञ्चति ।

मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥ [भा।पु। २.८.६] इति ।

उद्धवेन च—

तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां

सर्वार्थदं स्व-कृत-विद् विसृजेत को नु ॥ [भा।पु। ११.२९.५]

श्री-नारदेन च—

स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्

विहातुम् इच्छेन् न रस-ग्रहो जनः [भा।पु। १.५.१९] इति ।

रस-ग्रह इत्य् अनेन योगिष्व् अपि मध्ये श्री-शुक-प्रभृतय एवाभिनन्दिताः । अत्रैव पूर्व-श्लोके भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् [३.२८.३३] इति । अर्पित-मना इति भगवते मनः समर्प्य, तस्मिन् मनसि स्वत्वाभावात् कथं तस्मात् तद् वियोजयेत् ? कथं वा दत्तापहारी भवेत् ? इति तथात्वे निन्दा दुर्निवारा । भगवान् अपि भक्तानाम् एव हृदि तिष्ठेत्, न योगिनः । यद् उक्तं ब्रह्मणा—

भक्त्या गृहीत-चरणः परया च तेषां

नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [भा।पु। ३.९.५४] इति ।

आविर्होत्रेण च—विसृजति हृदयं न यस्य [भा।पु। ११.२.५५] इत्य्-आदि ॥३४॥

———————————————————————————————————————

॥ ३.२८.३५ ॥

मुक्ताश्रयं यर्हि निर्विषयं विरक्तं

निर्वाणम् ऋच्छति मनः सहसा यथार्चिः ।

आत्मानम् अत्र पुरुषोऽव्यवधानम् एकम्

अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मुक्ताश्रयं विष्णु-विषयं, स्व-चित्तं जीव-चैतन्यं तं निर्वाणम् ऋच्छति । शरीराभिमानं जहाति स्व-चिद्-अभिमानेन ॥३५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यर्हि यदैवं निर्विषयं भगवति, अत एव मुक्ताश्रयं च । ध्येय-सम्बन्धं विना ध्यातर्य् अवस्थानासम्भवात् । न च पूर्ववच् छब्दादिर् विषयः स्यात् । यतस् तत्र विरक्तं परमानन्दानुभवेन । अतो निर्वाणं लयम् ऋच्छति । वृत्ति-रूपतां परित्यज्य ब्रह्माकारेण परिणमत इत्य् अर्थः, यथा अर्चिर् ज्वालाश्रय-विषयापगमे महा-भूत-ज्योती-रूपेण परिणमते । अत्र अस्यां दशायाम् अव्यवधानं ध्यातृ-ध्येय-विभाग-शून्यम् एकम् अखण्डम् आत्मानम् अनुगतम् ईक्षते । अत्र हेतुः—प्रतिनिवृत्तोऽपगतो गुण-प्रवाहो देहाद्य्-उपाधिर् यस्य ॥३५॥

———————————————————————————————————————

कैवल्य-दीपिका: अथास्य योगस्य फलम् आह—मुक्त- इति । मुक्ते तु बडिशे मनः सहसा निर्वाणम् ऋच्छति नाशं प्राप्नोति यथा इन्दनाभावाद् अर्चिः । कदा ? यर्हि यदा मुक्ताश्रयं निर्ग्रन्थित्वात् । निर्विषयं प्रक्षीण-कर्मत्वात् । विरक्तं च्छिन्नम् अंशयत्वात् । अत्र अस्यां दशायां पुरुषः आत्मानम् अन्वीक्षते । अनुवृत्तम् अखण्डं पश्यति । अव्यवधान-व्यवधायकस्य मनसो भावात् । अत एव एकं जीव-परयोर् भेदाभावात् । यतः प्रतिनिवृत्तो यत्रोदितस् तत्त्रैव लीनो गुण-प्रवाहः कार्य-कारण-भावो यस्य स तथा ॥३५॥ [मु।फ। २.२८]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : त्याग-प्रकारं योजयितुम् आह—मुक्ताश्रयम् इत्य्-आदिकं तु षष्ठ-सन्दर्भस्य चतुर्थ-वाक्यस्यावतारिकायां दृश्यम् । तथा हि—जीवत एवाविद्या-कल्पित-माया-कार्य-संबन्ध-मिथ्यात्व-ज्ञपक-जीव-स्वरूप-साक्षात्करण-तादात्म्यापन्न-ब्रह्म-साक्षात्कारो जीवन्-मुक्ति-विशेष इत्य् अर्थः । ईदृशम् एव तन्-मुक्ति-लक्षणं श्री-कापिलेये मुक्ताश्रयम् इत्य्-आदि-चतुष्टये दर्शितम् । तत्र हि प्रतिनिवृत्त-गुण-प्रवाहः सन् आत्मानं परमात्मानम् ईक्षते ॥३५॥ [प्रीति-सन्दर्भ ४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिनिकृष्ट-योगि-पद्धत्य्-उक्ते भगवत्-स्वरूप-त्यागे सति मनसः का दशा स्यात् ? इत्य् अपेक्षायाम् आह—मुक्त- इति । एवं यर्हि मनो निर्विषयं भगवति, तदा मुक्ताश्रयं च स्यात्, ध्येय-सम्बन्धं विना तस्य ध्यातर्य् अवस्थानासम्भवात् । न च पूर्ववद् व्यावहारिकः शब्दादि-विषयः स्यात्, यतस् तत्र विरक्तं परमानन्दानुभवेन । न च परमानन्द-रूपम् एव पुनर् अपि विषयीकुर्यात् । शनकैर् वियुङ्क्ते [३.२८.३४] इत्य् अत्र शनैः-पदेन पुनर् अपि ततो वियोजनीयत्वात्, अतो निर्वाणं लयम् ऋच्छति प्राप्नोति । यथार्चिर् दीप-कलिका तैल-वर्तिभ्यां वियुक्ता निर्वातीत्य् अर्थः । अत्र अस्यां दशायां पुरुषः जीवः मनो-लये सति लिङ्ग-रूपावरण-भङ्गाद् अव्यवधानं शुद्धम् आत्मानं प्रत्यग्-आत्मानम् एकम् अन्वीक्षते, ततश् च न संसरतीत्य् आह—प्रतिनिवृत्तो गुण-प्रवाहो देहाद्य्-उपाधिर् यस्य सः ॥३५॥

———————————————————————————————————————

॥ ३.२८.३६ ॥

सोऽप्य् एतया चरमया मनसो निवृत्त्या

तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये ।

हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत्

स्वात्मन् विधत्त उपलब्ध-परात्म-काष्ठः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : असत्-कर्ता तु जीवः स्यात् स कर्ता परमेश्वरः इति शब्द-निर्णये ।

दुर्दुःखम् इति विज्ञेयं स्वं सुखं च तयोर् यतः ।

प्रदाता परमो विष्णुस् तस्माद् दुःखादि-नामवान् ॥ इति हरिवांशेषु ॥३६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च सुप्तोत्थित इव पुनः संसरतीत्य् आह—सोऽपि स एव पुरुषस् तस्मिन् महिम्नि ब्रह्म-रूपेऽवसितोऽवसानं निष्ठां प्राप्तः । कया ? मनसो निवृत्त्या चरमयाऽविद्या-रहितयेति सुषुप्ताद् विशेषः । तत्र ह्य् अविद्यास्ति, न त्व् इदानीम् । अत्र हेतुः, एतया योगाभ्यास-कृतयेत्य् अर्थः ।

नन्व् एवम् अपि सुख-दुःखयोर् आत्म-धर्मत्वे कुतो ब्रह्मैक्यं ? तत्राह—दुःखयोः सुख-दुःखयोर् हेतुत्वं भोक्तृत्वं च यत् पूर्वम् आसीत्, तद् अप्य् असत्य् अविद्या-कृते कर्तर्य् अहङ्कारे विधत्ते । तन्-निष्ठम् एव पश्यतीत्य् अर्थः । यत उपलब्ध-परात्म-काष्ठोऽपरोक्षी-कृतात्म-तत्त्वः ॥३६॥

———————————————————————————————————————

कैवल्य-दीपिका: सोऽपि इति । सोऽपि आत्मा स्वस्मिन् महिम्नि नित्य-निरतिशयानन्द-घने27 पदे अवसितः अवबद्धः संश्लिष्टो भवति । घटाकाशम् इव महाकाशे । कया मनसो निवृत्त्या एतया योगाभ्यास-लब्धया । अत एव चरमया पुनर् आवृत्ति-शङ्का-रहितया । सुख-दुःख-बाह्ये पुण्य-पाप-फल-भोगाभावात् । हेतुत्वम् असति कर्तर्य् अवसितं कर्ता सात्त्विकोऽहङ्कारः । स चासन् मायामयत्वात् । दुःखयोः सुख-दुःखयोः । युगपद् अधिकरण-वचनतायां द्वन्द्व-स्मरणात् । द्वायोस् तथेति चेद् इतिवत् । यत्हेतुत्वं स्वात्मन् विधत्ते । अहङ्कार-कृतम् आत्म-कृतं मन्यते । तद् इदानीं येन कृतं तत्रैवावसितम् इत्य् अर्थः । यत उपलब्ध-परमात्म-काष्ठः । साक्षात्कृत-परमात्म-स्वरूपः ॥३६॥ [मु।फ। २.२९]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चासाव् उपाधि-लयः सुषुप्ति-दशायाम् इवेत्य् आह—सोऽपि स च पुरुषो जीवः मनसो निवृत्त्या हेतुना तस्मिन् महिम्नि यः स्वीयो महिमा पूर्वं मनसा बलाद् अपहृत आसीत्, तस्मिन् महिम्नि मनो-नाशात् प्राप्ते ज्ञानानन्द-स्वरूपे अवसितः अवसानं निष्ठां प्राप्तः ।मनसो निवृत्त्या कीदृश्या ? चरमया अविद्यया रहितयेति सुषुप्ताद् विशेषः । तत्र ह्य् अविद्यास्ति, न त्व् इदानीम् । तत्र हेतुः—एतया योगाभ्यास-कृतयेत्य् अर्थः । तस्मिन् महिम्नि कीदृशे ? सुख-दुःखयोर् आत्म-धर्मत्वम् एव दृष्टम् । अतस् ततो बहिर्-भूतत्वं कथम् आत्मनः ? इत्य् अत आह—असति अविद्या-कृते कर्तरि अहङ्कारे दुःखयोः सुख-दुःखयोर् हेतुत्वं सुख-दुःख-हेतु-कर्म-कर्तृत्वम् । तद्-अभिमानात् पूर्व-दशायां स्वात्मनि कर्तृत्वं भोक्तृत्वं च यद् आसीत्, तत् सर्वम् उपलब्ध-परात्म-काष्ठोऽयम् अपरोक्षीकृतात्म-तत्त्वः । शुद्धः पुरुषः तस्मिन्न् एवासति विधत्ते तन्-निष्ठम् एव पश्यति स्वस्मिन्न् अहङ्काराभावाद् इत्य् अर्थः ॥३६॥

———————————————————————————————————————

॥ ३.२८.३७ ॥

देहं च तं न चरमः स्थितम् उत्थितं वा

सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम् ।

दैवाद् उपेतम् अथ दैव-वशाद् अपेतं

वासो यथा परिकृतं मदिरा-मदान्धः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वरूपं जीव-ब्रह्मणोर् याथार्थ्यम् अध्यगमत् । तस्य जीवन्-मुक्तिम् आह—देहं चेति द्वाभ्याम्—चरम उक्त-लक्षणः सिद्धो देहम् अपि न विपश्यति, कुतः सुख-दुःखे ? आसनाद् उत्थितम् उत्थाय तत्रैव स्थितं तत्-स्थानाद् अपेतं ततो दैव-वशात् पुनर् अप्य् उपेतं वा न विपश्यति । यतः स्वरूपं प्राप्तः । यतो देहात् स्वरूपम् अध्यगमत् तं देहम् इति वा । सतोऽप्य् अननुसन्धाने दृष्टान्तः, वासः परिकृतं कटि-तटे परिवेष्टितं स्थितं गतं वा मदिरा-मदेनान्धो यथा न पश्यति ॥३७॥

———————————————————————————————————————

कैवल्य-दीपिका: ईदृशस्य च देहाभिमानो नास्तीत्य् आह—देहम् इति । तं देहं सिद्धो विपश्यति, आभास-मात्रेण पश्यति । किन्तु स्थितम् उत्थितं वा इति विवेकेन न पश्यतीति वेर् अर्थः । यतः स्वरूपम् अध्यगमत् साक्षात्कृतवान् । परिकृतं प्रावृतम् । तथा च श्रुतिः—यथाऽअहि-निर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवम् एवेदं शरीरं शेते [बृ।आ।उ। ४.४.७] इति ॥३७॥ [मु।फ। २.३०]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-स्वरूप-भूते महिम्न्य् अवसितो निष्ठां प्राप्तः सन्न् उपलब्ध-परात्म-काष्ठ इति सोऽप्य् एतयेत्य् आदौ ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य जीवन्-मुक्तिम् आह—देहं चेति द्वाभ्याम् । चरमः चरम-दशापन्नः सिद्धो देहं न पश्यति कुतः सुख-दुःखे इत्य् अर्थः । अध्यगमत् प्राप्तः । परिहृतं परिहितम् आसनाद् उत्थितम् उत्थाय तत्रैव स्थितं गतं वा मदिरा-मदान्धो यथा न पश्यतीति ॥३७॥

———————————————————————————————————————

॥ ३.२८.३८ ॥

देहोऽपि दैव-वशगः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः

स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्रतिबुद्ध-वस्तुर् इति । देहोऽपि इत्य् आदौ चेति । तस्माद् अस्य प्रारब्ध-कर्म-मात्राणाम् अनभिनिवेशेनैव भोगः । एवम् एवोक्तं—तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः[ईशोपनिषद् ७] इति । ननु तर्हि देहस्य कथं प्रवृत्ति-निवृत्ती जीवनं वा ? तत्राह—देहोऽपीति । दैवं पूर्व-संस्कारः, तद्-वशेन गच्छन् यावत् स्वारम्भकं कर्मास्ति तावत् प्रतिसमीक्षते जीवत्य् एव । सासुः सेन्द्रियः । ननु तर्हि तस्मिन् पुनः सङ्गः स्यात् ? तत्राह—तं देहं स्वाप्न-देहादि-तुल्यं स-प्रपञ्चं पुत्रादि-सहितं पुनर् न भजतेऽहं ममेति नाभिमन्यते । अधिरूढः प्राप्तः समाधि-पर्यन्तो योगो येन । अत एव प्रतिबुद्धं वस्त्व् आत्म-तत्त्वं येन सः ॥३८॥

———————————————————————————————————————

कैवल्य-दीपिका: ननु त्यक्ताभिमानश् चेद् देहस् तदैव पतेद् इति ? नेत्य् आह—देहोऽपि इति । यावत् स्वारम्भकं कर्म अस्ति, तावत् प्रतिसमीक्षत एव । कुतः ? दैव-वशगो यतः । दैवं प्राक् कर्मखलु-शब्दो हेतौ ।

ननु आत्मना त्यक्ताभिमानस्यास्य कुतः प्रवृत्ति-निवृत्ती ? तत्राह—सासुः स-लिङ्ग-शरीरः ।

ननु ज्ञानोदयेऽपि चेत् कर्माणि न निवर्तन्ते, तर्हि सञ्चितैः कर्मभिर् देहान्तराणि स्युः ? तत्राह—तम् इति । तं देहं स-प्रपञ्चं स-कारणं पुनर् न भजते । तत्र हेतुः—अधि- इति । स्वाप्नम् इव प्रतिबुद्ध-वस्तुः । अयम् अर्थः—तस्य तावद् एव चिरं यावन् न विमोक्ष्येऽथ सम्पत्स्ये [छा।उ। ६.१४.२] इति श्रुतिः । न विमोक्षते अथ ब्रह्म सम्पत्स्यते प्राप्स्यति । उभयत्र त-कार-लोपः छान्दसः । अस्माद् अवधि-श्रवणात् प्राप्रब्ध-फलं कर्म भोगाद् एव नश्यति । अनारब्ध-फलं तु ज्ञानाद् इति । एषा च फलोक्तिस् तृतीय-योगे तीव्राधिमात्रस्य ज्ञेया, अन्यथानेनैव कृतार्थत्वात् उत्तर-योग-द्वयोक्ति-वैयर्थ्यं स्यात्, अत एव तत्र फलं नोक्तम् । अत्र तु फल-सङ्कीर्तनम् अस्यैव तृतीये फल-भूमिकाम् अधिरूढस्यैतत् फलं भवतीति दर्शयितुम् ॥ [मु।फ। २.३१]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि तस्य देहः कथं जीवेत् ? तत्राह—देहोऽपीति । दैवं पूर्व-संस्कारः तद्-वशेन गच्छन् यावत् प्रतिसमीक्षते एव जीवत्य् एव । सासुः सेन्द्रियः । ननु तस्मिन् पुनर् आसक्तिः स्यात् ? तत्राह—तं देहं स-प्रपञ्चं पुत्रादि-सहितं पुनर् न भजते, यतः स्वाप्नं स्वप्न-देहादि-तुल्यम् अहं ममेति नाभिमन्यते । तत्र हेतुः—अधिरूढः समाधि-पर्यन्तो योगो येन सः, अतः प्रतिबुद्धं वस्तु आत्म-तत्त्वं येन सः ॥३८॥

———————————————————————————————————————

॥ ३.२८.३९ ॥

यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते ।

अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिबोध-प्रकारम् आह षड्भिः, यथेति । अति-स्नेह-वशाद् आत्मत्वेनाभिमताद् अपि पुत्रादेः । मर्त्यः पित्रादिः । पुरुषो देहादेर् द्रष्टा ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सा च जीवन्-मुक्तानां प्रतिपत्तिर् युक्तैव । यतस् त्वं-पदार्थस् तादृश एवेत्याह—यथा पुत्राच् चेति ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिबोधार्थं मुमुक्षुभिर् नित्यम् एवं विभाव्यम् इत्य् आह—यथेति त्रिभिः । अतिस्नेह-वशाद् आत्मत्वेनाभिमताद् अपि पुत्रादेः पृथग् एव मर्त्यः पित्रादिर् यथा तथैव पुरुषो जीवः ॥३९॥

———————————————————————————————————————

॥ ३.२८.४०-४१ ॥

यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् ।

अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् ॥

भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् ।

आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथग् अवस्थानाभावेऽपि भेदं सदृष्टान्तम् आह—यथोल्मुकाद् इदानीं ज्वलतः काष्ठात् । स्व-सम्भवात् अग्नेः सम्भूतात् । आत्मत्वेनाग्नेः स्वरूपत्वेनाभिमताद् अपि। अत्यन्ताविवेकिनो हि धूमेऽप्य् अग्न्य्-अभिमानोऽस्ति । उल्मुकात् पूर्व-सिद्धाद् अपि तद्-दाहकः प्रकाशकश् चाग्निः पृथग् एव ॥४०॥

भूतादेर् द्रष्टा तेभ्यः पृथक् तस्माद् अपि जीव-संज्ञिताद् ब्रह्म-संज्ञितः पृथक् । तथा प्रधानाद् अपि तत्-प्रवर्तको भगवान् पृथग् इत्य् अर्थः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-पदार्थस् तु सुतराम् इत्य् आह—यथेति । अथ तस्य माया-शक्ति-कार्यं माया-जीवेभ्योऽन्यत्वं च स्पष्टयति—यथोल्मुकाद् इति द्वयेन । अयम् अर्थः—स्व-सम्भवात् स्वोपादान-कारणाद् उल्मुकात् काष्ठ-मुष्ट्य्-उपाधिकात् । अग्नेर् हेतोर् यो विस्फुलिङ्गो यश् च धूमस् तस्मात् तस्माद् यथा तत्-तद्-उपादानम् अग्निः पृथक् । यथा च तस्माद् अप्य् उल्मुकात् तद्-उपादानम्, असाव् अग्निः पृथक् । कीदृशाद् अपि तत्-त्रयात् ? अप्य् आत्मत्वेनाभिमतात् तापकतया धूमेऽप्य् अग्न्य्-अंश-सद्-भावेनाग्नि-स्वरूपतया प्रतीताद् अपि ॥४०॥

तथा विस्फुलिङ्ग-स्थानीयाज् जीव-संज्ञिताज् जीवात्, उल्मुक-स्थानीयात् प्रधानात् प्रधानोपाधिक-भगवत्-तेजसः, धूम-स्थानीयाद् भूतादेः सर्वोपादान-रूपो भगवान् पृथक् । य एवात्मा स्वांशेन तत्-तद्-अन्तर्यामितया परमात्मा क्वचिद् अधिकारिणि निर्विशेष-चिन्मात्रतया स्फुरन् ब्रह्म-संज्ञितश् च । यत एव द्रष्टा तेषाम् आदि-मध्यान्तावस्था-साक्षीति । तत्रोल्मुकादित्वम् अग्न्य्-अंशाविष्टेन्धनांचत्वं, तत्र प्रकाशकत्वं स्वांशस्य दाहकत्वम् इन्धनांशस्येति विवेचनीयम् ॥४१॥ [परमात्म-सन्दर्भ ६८]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यथा पुत्र-वित्तादिभ्यो मर्त्यः पृथग्-अवस्थितो दृश्यते, न तथा देहेन्द्रियादिभ्यो जीवात्मा । जीवात्मतो सकाशात् परमात्मा पृथक् कथम् अवगन्तव्य इत्य् अत आह—यथोल्मुकाद् इति । पृथग् अवस्थानाभावेऽपि माया-तत्-कार्याभ्यां पृथग्-भूतो जीवात्मनश् च सकाशात् परमात्मा पृथक् एवेत्य् अत्रायं दृष्टान्तः । अत्र यथा-शब्दस्योल्मुक-शब्दस्य च पौनरुक्त्याद् एवं व्याख्येयम् । उल्मुकाद् दह्यमानात् काष्ठाद् यथा अग्निः पृथग् भवति, यथा च उल्मुकात् पृथक्, तथा विस्फुलिङ्गाद् अपि पृथग्, यथा च विस्फुलिङ्गात् पृथक्, तथा धूमाद् अपि स्वकार्यात् पृथक्, कीदृशत् आत्मत्वेनाग्नि-स्वरूपत्वेनाभिमताद् अपि अविवेकिना हि उल्मुको विस्फुलिङ्गो धूमोऽप्य् अग्निर् अयम् इत्य् अभिमन्यते । यद् वा, द्वितीय-यथा-शब्दस्य यथावद् इत्य् अर्थः । द्वितीयोल्मुकाद् इति उल्मुकम् अत्ति ज्वालयतीत्य् अग्नि-विशेषणम् । दार्ष्टान्तिकं योजयति—प्रधानाद् उल्मुक-स्थानीयात् जीव-संज्ञितात् जीव-रूपो यः संज्ञितः संज्ञां चेतनां प्राप्तस् तस्मात् विस्फुलिङ्ग-स्थानीयात् भूतेन्द्रियान्तः-करणात् धूम-स्थानीयात् आत्मा परमात्मा अग्नि-स्थानीयः पृथक्, यतो द्रष्टा, स हि दृश्यात् पृथग् एव सह-स्थितोऽप्य् असङ्गो यतो भगवान् अचिन्त्यैश्वर्यः । भगवान् एव ब्रह्म-संज्ञां प्राप्तः कस्मिंश्चिद् अधिकारिणि निर्विशेष-चिन्-मात्रत्वेन भातश् च भवतीत्य् अर्थः ॥४०-४१॥

———————————————————————————————————————

॥ ३.२८.४२ ॥

सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि ।

ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनन्य-भावेन तद्-रूपाणाम् अभेदेन । तद्-आत्मतां तस्या दानादि-कर्तृत्वं च । भूत-विषये ॥४२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र ज्ञानी तु त्वंपदार्थाभेदेन तत्पदार्थमेवं पश्येदित्याह—सर्वेति त्रिभिः ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सर्व्५ परमात्मानं पृथग्-भूतं विभाव्य तस्य सर्व-वस्तूनां कारणत्वं लय-स्थानत्वं च पश्येद् इत्य् आह—सर्व-भूतेष्व् इति । कारणस्यैव कार्यात्मत्वम् इत्य् अर्थः । कार्याणाम् अपि लय-स्थानत्वात् कारण-रूपत्वम् इत्य् आह—सर्वेति । तद्-आत्मतां महा-भूतात्मताम् ॥४२॥

———————————————————————————————————————

॥ ३.२८.४३ ॥

स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते ।

योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमात्मनः प्रतिदेह-वर्तित्वेन नानात्व-प्रतीतिर् भद्राभद्रादि-प्रतीतिश् च न वास्तवीत्य् आह—स्व-योनिषु काष्ठेषु ज्योतिर् अग्निः गुण-वैषम्यात् दैर्घ्य-ह्रस्वत्व-वक्रिमार्जव-गन्ध-रूपादि-भेदात् । प्रकृतौ देहे आत्मा परमात्म तथैव ॥४३॥

———————————————————————————————————————

॥ ३.२८.४४ ॥

तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् ।

दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वां स्वांशस्य जीवस्य बन्ध-हेतुं दैवीं देवस्य विष्णोः शक्तिं पराभाव्य तत्-प्रसादेनैव जित्वा स्वरूपेण ब्रह्मत्वेनावतिष्ठते ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अवतिष्ठते ब्रह्मणि लीयत इत्य् अर्थः ।।४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् प्रकृतिर् एव नानात्व-दर्शयितृत्वाद् अनर्थ-कारिणीति तां जयेद् इत्य् आह—स्वां स्वीयां स्वोपाधिम् इत्य् अर्थः । दैवीं कर्म-मयीम् । यद् वा, देवस्य विष्णोः शक्तिं दुर्विभाव्यां दुरत्ययां पराभाव्य ।

दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।

माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४]

इति भगवद्-उक्त्यैव जित्वा, स्वरूपेण अनावृत-चैतन्य-रूपेणावतिष्ठते ॥४४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये सप्तविंशोऽपि सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कापिलेये

साधनानुष्ठानं नाम

अष्टाविंशोऽध्यायः ।

॥ ३.२८ ॥

(३.२९)

ऊनत्रिंशोऽध्यायः

भक्तियोगरहस्यं कालप्रभाववर्णनं च ।

॥ ३.२९.१-२ ॥

देवहूतिर् उवाच—

लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च ।

स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥

यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते ।

भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यथा साङ्ख्येषु युक्तं तथा कथितम् । यत् साङ्ख्य-मूलं तल्-लक्षणं प्रचक्षते ॥२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एकोनत्रिंशके भक्ति-योगस् तु बहुधोच्यते ।

कालस्य च बलं घोरा संसृतिश् च विरक्तये ॥

उक्तानुवाद-पूर्वकं भक्ति-मार्ग-भेदान् पृच्छति द्वाभ्याम् । लक्षणं महद्-आदीनां यथा साङ्ख्येषु तथा कथितम् । येन लक्षणेन तत् पारमार्थिकं परस्पर-विभक्तम् इत्य् अर्थः । यो भक्ति-योगो मूलं प्रयोजनं यस्य तद् यन्-मूलम्, तत् कथितम् । तस्य भक्ति-योगस्य मार्गं प्रकारं विस्तरशो मे ब्रूहि ॥१-२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : लक्षणम् इति युग्मकम् । तन् महद्-आदीनां कथनम् । यो भक्ति-योग एव मूलम् उद्देश्यं यस्य, तादृशं प्रचक्षते ॥१-२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकोनत्रिंशके भक्तिः स-गुणा निर्गुणापि च ।

लक्ष्यते प्राणि-सम्मान-क्रमः काल-बलं च तत् ॥

साङ्ख्यं योगं च श्रुत्वा, पुनर्-उक्तानुवाद-पूर्वकं स्वानुष्ठेयत्वात् श्रुतम् अपि भक्ति-योगं स-प्रभेदं शुश्रूषमाणा पृच्छति । महद्-आदीनां लक्षणं साङ्ख्येषु साङ्ख्य-शास्त्रेषु यथा तथा कथितं येन लक्षणेन अमीषां महद्-आदीनां स्वरूपं तत् प्रसिद्धं लक्ष्यते ज्ञायते । कीदृशम् ? पारमार्थिकं परम्पर-विभक्तम् इत्य् अर्थः । तत्-स्वरूप-ज्ञानं यन् मूलं यत्-कारणकं प्रचक्षते यं विना तेषां स्वरूपं ज्ञातम् अप्य् अज्ञातम् एव भवतीत्य् अर्थः । तस्य भवति-योगस्य मार्गं प्रकारं ब्रूहि ॥१-२॥

———————————————————————————————————————

॥ ३.२९.३ ॥

विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।

आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येन संसृतीनाम् आख्यानेन विगत-रागो भवेत् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विराग इति युग्मकम् ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तौ प्रवेशाय किञ्चिद् वैराग्यम् अपेक्ष्यत इति तद्-अर्थं पृच्छति—विराग इति । ताः संसृतीर् आचक्ष्व, येन संसृत्य्-आख्यानेन ॥३॥

———————————————————————————————————————

॥ ३.२९.४ ॥

कालस्येश्वर-रूपस्य परेषां च परस्य ते ।

स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वर-रूपस्य महा-प्रभावस्य ते त्वद्-आत्मकस्य । यद् धेतोर् यद् भयात् कुशलं पूण्यं कुर्वन्ति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कालस्य स्वरूपम् आचक्ष्व ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालस्य च स्वरूपम् आचक्ष्व ते त्वद्-रूपस्य । यद्-धेतोः काल-भयाद् धेतोः ॥५॥

———————————————————————————————————————

॥ ३.२९.५ ॥

लोकस्य मिथ्याभिमतेर् अचक्षुषश्

चिरं प्रसुप्तस्य तमस्य् अनाश्रये ।

श्रान्तस्य कर्मस्व् अनुविद्धया धिया

त्वम् आविरासीः किल योग-भास्करः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अचक्षुषोऽज्ञस्य । अतो मिथ्या-भूते देहादाव् अभिमतिर् अहङ्कारो यस्य । अतः कर्मसु अनुविद्धया आसक्तया धिया श्रान्तस्य । अत एवानाश्रयेऽपारे तमसि संसारे चिरं प्रसुप्तस्य लोकस्य प्रबोधाय त्वं योग-प्रकाशको भास्करः किलाविर्भूतोऽसि ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : योगस्य भास्करः परम-प्रकाशक इत्य् अर्थः ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकस्य मिथ्याभिमतेर् अभिमान-जाड्य-निवर्तनाय अचक्षुषश् चक्षुः प्रकाश-दानाय तमसि संसार-प्रसुप्तस्य स्वाप-तमो-नाशाय । कर्मस्व् आसक्तया बुद्ध्या श्रान्तस्य श्रम-पल्वल-संशोषणाय । योग-भास्करः भक्ति-ज्ञान-योग-कमल-प्रकाशको भास्करः ॥५॥

———————————————————————————————————————

॥ ३.२९.६ ॥

मैत्रेय उवाच

इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः ।

आबभाषे कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्लक्ष्णं सुन्दरम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इति भक्ति-महिम-ज्ञानजत्वात् प्रतिनन्द्य प्रीतः प्रश्न-सौष्ठवेन, करुणा तु दैन्येन ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२९.७ ॥

श्री-भगवान् उवाच

भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते ।

स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मार्गैः प्रकार-विशेषैः । तान् एवाह—स्वभाव-भूता ये गुणास् तेषां मार्गेण वृत्ति-भेदेन । भावोऽभिप्रायः । फल-सङ्कल्प-भेदाद् भक्ति-भेद इत्य् अर्थः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनन्य-निमित्ता निर्गुणा भक्तिर् अपि वृत्ति-भेदेन बहु-विधेत्य् आह—मार्गैः प्रकार-विशेषैः, यतः स्वस्य भक्ति-योगस्यैव मार्गेण वृत्ति-भेदेन श्रवणादिना भावस्य अभिमानस्य । तद्-भेदेन दास्यादिना गुणानां तम-आदीनां च तद्-भेदेन हिंसादिना पुंसां भावोऽभिप्रायो भिद्यते । अत्र विशेषो भक्ति-सन्दर्भे दृश्यः ।

[अत्र मुक्ताफल-टीका च—अयम् आत्यन्तिकः ततः परं प्रकारान्तराभावात् । अस्यैव भक्ति-योग इत्य् आख्या । अन्वर्थेन भक्ति-शब्दस्यात्रैव मुख्यत्वात् इतरेषु फलेषु एवम् अनुरागः न तु विष्णौ फलाभावे भक्ति-त्यागाद् [मु।फ। ५.१४] इत्य् एषा । श्री-गोपाल-तापनी-श्रुतौ च—भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एव । तद् एव च नैष्कर्म्यम्[गो।ता।उ। १.१४] ति ।]28

अत्र स्व-मार्गेण भाव-मार्गेण च भेदः सतां प्रसङ्गाद् [भा।पु। ३.२५.२५] इत्य्-आदिना, येषाम् अहं प्रिय आत्मा [भा।पु। ३.२५.३८] इत्य्-आद्य्-अन्तेन दर्शितः । अत्र भाविनीति भाव-युक्ते पुरुष इत्य् अर्थः ॥७॥ [भक्ति-सन्दर्भ २३४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवानां गुण-लिङ्गानां [भा।पु। ३.२५.३२] इत्य् अनेन निर्गुणाया भक्तेर् उक्तत्वाद् इह प्रथमं सगुणां भक्तिं लक्षयितुम् आह—भक्ति-योग एक एव भामिनि भावोऽभिप्रायस् तद्वति पुरुषे मार्गैः प्रकार-विशेषैर् बहु-विधो भाव्यते चिन्त्यते ज्ञायते इत्य् अर्थः । स च भावः स्वभाव-भूता ये गुणास् तम-आदयस् तेषां मार्गेण वृत्ति-भेदेन विभिद्यते नाना विभेदवान् भवति । भक्तिः स्वरूपतो निर्गुणोऽपि पुंसां स्वाभाविक-तम-आदि-गुणोपरक्ता सती तामस्यादि-नामभिः स-गुणा भवतीति भावः ॥७॥

———————————————————————————————————————

॥ ३.२९.८ ॥

अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा ।

संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिसन्धाय सङ्कल्प्य । संरम्भी क्रोधी । भिन्न-दृक् भेद-दर्शी । यो भावं भक्तिं कुर्यात्, स त्रि-विधोऽपि तामसः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ केवल-स्वरूप-सिद्धा उदाह्रियते । तत्र सकामा कैवल्य-कामा च उपासक-सङ्कल्प-गुणैस् तत्-तद्-गुणत्वेनोपचर्यते । तत्र सकमा द्विविधाः—तामसी राजसी च। तत्र पूर्वस्य गुण-मार्गेण भेदम् आह—अभीति त्रिभिः । अभिसन्धाय सङ्कल्प्य संरंभी स-क्रोधः भिन्न-दृक् स्वस्मिन्न् इव सर्वत्र यत् सुख-दुःखं तद्-अवेत्ता निरनुकम्प इत्य् अर्थाह् । अत्र संरम्भीति लोभादीनाम् उपलक्षणं ज्ञेयम् ॥८॥ [भक्ति-सन्दर्भ २३१]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रथमं तामसीं भक्तिं लक्षयन् भक्तिस् तामसी स्याद् इति वक्तुम् अनौचित्यं परामृशन् तद्वान् पुरुष एव तामसादि-शब्दैर् उच्यते । इत्य् आह—अभिसन्धाय सङ्कल्प्य । संरंभी सक्रोधः । भिन्न-दृक् भेद-दर्शी, स्वस्मिन्न् इव परस्मिन्न् अपि सुख-दुःखं समानं न पश्यतीति निरनुकम्प इत्य् अर्थाह् । यो मयि भावं भक्तिं कुर्यात् स त्रिविधोऽपि तामसः । अस्यास् तामस्या भक्तेस् त्रैविध्यं स्पष्टम् उक्तम् । बृहन्-नारदीये, यथा—

यश् चान्यस्य विनाशार्थं भजते श्रद्धया हरिम् ।

फलवत् पृथिवी-पाल सा भवति तामसाधमा ॥

यो\ऽर्चयेत् कैतव-धिया स्वैरिणी स्व-पतिं यथा ।

नारायणं जगन्नाथं सा तु तामसी मध्यमा ॥

देव-पूजा-परान् दृष्ट्वा स्पर्धया यो\ऽर्चयेद् धरिम् ।

शृणुष्व पृथिवी-पाल सा भक्तिस् तामसोत्तमा ॥ [ना।पु। १.१५.१४०-२]

एवं राजस्या सात्त्विक्याश् च भक्तेस् त्रैविध्यम् उक्तं द्रष्टव्यम् ॥८॥

———————————————————————————————————————

॥ ३.२९.९ ॥

विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा ।

अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तद्-रूपाणां पृथग्-भावः ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथग्-भावो भेद-दर्शी ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्तरा, यथा—विषयानिति । पृथक् मत्तोऽन्यत्र विषयादिष्व् एव भावः स्पृहा यस्य, न तु मयीति राजसत्व-हेतुता दर्शिता ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथक् मत्तोऽन्यत्र विषयादिष्व् एव भावः स्पृहा यस्य सः ॥९॥

———————————————————————————————————————

॥ ३.२९.१० ॥

कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् ।

यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अपृथग्-भावः स सात्त्विकः ।

अज्ञोऽर्चयेद् दैवार्चायाम् अन्यथा दोषवान् भवेत् ।

ज्ञस् त्व् अर्चयन् स गुणवान् अन्यथा दोषवान् न तु ॥ इति कापिलेये ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म-निर्हारं पाप-क्षयम् । परस्मिन् परमेश्वरे । तद्-अर्पणं कर्मार्पणम्, भगवत्-प्रीतिम् उद्दिश्येत्य् अर्थः । यष्टव्यम् इति विधि-सिद्धिम् उद्दिश्येत्य् अर्थः । भेद-दर्शित्वम् अर्चादाव् अर्चनं च त्रिष्व् अपि समानम् । तद् एव तामसादि-भक्तिषु त्रयस् त्रयो भेदाः । तासु यथोत्तरं श्रैष्ठ्यम् । एवं च श्रवण-कीर्तनादयो नवापि प्रत्येकं नव-नव-भेदाः । तद् एव स-गुणा भक्तिर् एकाशीति भेदा भवति ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ कैवल्य-कामा सात्त्विक्य् एव । सा यथा—कर्म-निर्हारम् इति । कर्म-निर्हारं मोक्षम् उद्दिश्य परस्मिन् परमेश्वरे यो वा कर्मार्पणं कुरुते यो वा यष्टव्यं सर्वेषां नित्य-विधि-प्राप्तत्वेनावश्यम् एव तत्-पूजनं कर्तव्यम् इति बुद्ध्या न तु भक्ति-तत्त्व-ज्ञानेन यो भजेत् परमेश्वरं पूजयति, अत एव पूर्ववत् पृथग्-भावो भक्तेः पृथग् मोक्षम् एव पुरुषार्थत्वेन भावयन्, स सात्त्विक उच्यते । उत्तरस्यापि तात्पर्यं कर्म-निर्हार एव भवेद् इति । उक्तं च—सात्त्विकः कारकोऽसङ्गी [भा।पु। ११.२५.२५] इति, कैवल्यं सात्त्विकं ज्ञानं [भा।पु। ११.२५.२३] इति, सात्त्विकं सुखम् आत्मोत्थं [भा।पु। ११.२५.२८] इति च तत्-साधन-साध्ययोः सगुणत्वम् । अत्रत्योदाहरणं यजेद् इत्य् उत्तरार्धम् एव ॥१०॥ [भक्ति-सन्दर्भ २३३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-निर्हारं कर्म-क्षयम् उद्दिश्य यो यजेत् यस्य भक्तेः कर्म-क्षय एव प्रयोजनम् इत्य् अर्थः । परस्मिन् परमेश्वरे तद्-अर्पणं तस्य कर्मणोऽर्पणम्, यत्र तद् यथा स्यात् तथा यो यजेत् स्व-धर्मार्पण-प्रचुरां श्रवणादि-भक्तिं यः कुर्याद् इत्य् अर्थः । यष्टव्यं सर्वेषां नित्य-विधि-प्राप्तत्वेनावश्यम् एव कर्तव्यं स्वाश्रम-कर्मवत् तद्-यजनम् इति बुद्ध्यैव स्वाश्रम-धर्माचरण-पूर्वकं यो यजेत् पृथग्-भावः भक्तेः पृथग्-भूते मोक्षे भावोऽभिप्रायो यस्य सः ।\

एवम् एषां नव-विधैव सकामा यथोत्तराधिक्या ज्ञेया । तत्र सात्त्विकी भक्तिः कस्यचिज् ज्ञानं जनयति, तत्रापि ज्ञानस्य गुण-भावे स्व-प्राधान्ये ज्ञान-मिश्राभिधाना शान्ति-रतिं निर्गुणाम् एवोत्पादयति। ज्ञानस्य प्राधान्ये स्वयं तद्-अङ्ग-भूता तु सायुज्य-मुक्तिम् एव कस्यचिद् अश्वमेधादि-सफल-कर्मार्पणवती भक्तिर् न तु कर्मार्पण-मयी सुखैश्वर्य-मयं सालोक्य-मोक्षं निष्फल-कर्मार्पणवती तु शान्ति-रतिं राजस्यास् तामस्याश् च भक्तेः फल-प्राप्तौ सत्यां भक्त्य्-अभावे प्रायस् तत्-तत्-फलम् एव फलं भक्ति-महिम्ना किञ्चिद् अधिकम् अपि फल-प्राप्तौ सत्याम् अपि कस्यचिद् भक्ति-सत्त्वे तु, सत्यं दिशत्य् अर्थितम् अर्थितो नृणां [भा।पु। ५.१९.२८] इत्य्-आदि दृष्ट्या सापि काले निर्गुणैव स्याद् इति ज्ञेयम् ॥१०॥

———————————————————————————————————————

॥ ३.२९.११-१२ ॥

मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।

मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसो\ऽम्बुधौ ॥

लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।

अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्गुणा तु भक्तिर् एक-विधैव, ताम् आह—मद्-गुण-श्रुति-मात्रेणेति द्वाभ्याम् । मद्-गुण-श्रुति-मात्रेण मयि पुरुषोत्तमे मनो-गतिर् इति या भक्तिः सा निर्गुणस्य भक्ति-योगस्य लक्षणम् इत्य् अन्वयः । अविच्छिन्ना सन्तता । लक्षणं स्वरूपम् । अहैतुकी फलानुसन्धान-शून्या । अव्यवहिता भेद-दर्शन-रहिता च ॥११-१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ यस्या एवोत्कर्ष-ज्ञानार्थम् एते भक्ति-भेदा निरूपिताः सा भक्ति-मात्र-कामत्वान् निष्कामा निर्गुणा केवला स्वरूप-सिद्धा निरूप्यते । इयम् एवाकिञ्चनाख्यत्वेन सर्वोर्ध्वं पूर्वम् अप्य् अभिहिता । ताम् आह—मद्-गुणेति-युग्मकेन । मद्-गुण-श्रुति-मात्रेण न तु तत्रोद्देशान्तर-सिद्ध्य्-अभिप्रायेण । प्राकृत-गुण-मय-करणानां सर्वेषां गुहा करणागोचर-पदवी तस्यां शेते गुह्यतया निश्चलतया च तिष्ठति यस् तस्मिन् मयि अविच्छिन्ना विषयान्तरेण व्च्चेत्तुम् अशक्या या मनोगतिः सा । अविच्छिन्नत्वे दृष्टान्तो यथेति । गतिर् इति पूर्वस्माद् आकृष्यते नित्यापेक्षात्वात् । लक्षणं स्वरूपम् ।

ननु तस्या गुण-श्रुतेः का वार्ता उद्देश्यान्तराभावेन मनो-गतित्वाभावेन च द्विधापि निर्देष्टुम् अशक्त्यत्वात् । तत्राह— अहैतुकी फलानुसन्धान-रहिता । अव्यवहिता स्वरूप-सिद्धत्वेन साक्षाद्-रूपा न त्व् आरोप-सिद्धत्वेन व्यवधानात्मिका । तादृशी या भक्तिः श्रोत्रादिना सेवन-मात्रं सा च तस्य स्वरूपम् इत्य् अर्थः । मात्र-पदेनाविच्छिन्नेत्य् अनेन च मनो-गतेर् अहैतुकीत्वादि-सिद्धेः पृथग्-योजनानर्हत्त्वात् । सात्त्विकः कारकोऽसङ्गी [भा।पु। ११.२५.२५] इत्य्-आदिषु निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२५] इत्य्-आदिभिस् तद्-आश्रय-क्रियादीनां निर्गुणत्व-स्थापनात्—

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥ [भा।पु। ११.१३.४०]

इत्य् अत्र तद्-गुणानाम् अप्य् अप्राकृतत्व-श्रवणाच् च ॥११-१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवानां गुण-लिङ्गानां [भा।पु। ३.२५.३२] इत्य् अत्र लक्षिताम् एव निर्गुणां भक्तिं सुख-बोधार्थं पुनर् लक्षयति । मद्-गुण-श्रवण-मात्रेणैव मय्य् एव सर्व-गुहाशये सर्वान्तः-करण-वर्तित्वेन सुख-ध्येय-मूर्तौ श्री-पुरुषोत्तमे मनसो गतिर् अविच्छिन्नो भवति । यथा अम्बुधौ गङ्गाम्भसो गतिर् इति हेतोर् एतद्-अर्थम् एव भक्ति-योगस्य लक्षणम् उदाहृतम् इति फलितोऽर्थः । अम्बुधिना स्व-लहरीभिः परावर्तितस्याप्य् अम्भसो यथा अम्बुधाव् एव गतिस् तथा मय्य् अपि पारमेष्ठ्य-सार्ष्टि-सालोक्यादि-फलैः प्रलोभितस्यापि तस्य मय्य् एव गतिर् इति । एवं च भक्त-मनसो गङ्गा-जल-दृष्टान्तेन द्रौत्य-शैत्य-पावित्र्य-जगत्-पूज्यत्वादीन्य् उक्तानि । तद् एव लक्षणं किम् इत्य् अपेक्षायाम् आह अहैतुकी हेतुः कारणं – फलान्तराभिसन्धिश् च तद्-रहिता स्व-प्रकाशत्वात् स्वतः-फल-रूपत्वाच् च नेयं ज्ञान-योगादिवद् इति भावः । साधु-सङ्ग-प्रेम्नोस् तु प्रथम-द्वादश-भूमिकत्वान् न तयोर् हेतुत्व-फलत्वे वस्तुत इति प्रथम-स्कन्ध एव व्याख्यातम् । अव्यवहिता ज्ञान-कर्मादि-व्यवधान-शून्या या भक्तिः सैव निर्गुणेत्य् अर्थः । भक्तेर् आस्पद-श्रद्धा-निवास-सुखादीनाम् अपि निर्गुणत्वं निर्गुणो मद्-अपाश्रयः[भा।पु। ११.२५.२५] इति, मत्-सेवायां तु निर्गुणं [भा।पु। ११.२५.२७] इति, निर्गुणं मद्-अपाश्रयं [भा।पु। ११.२५.२९] इत्य् एकादश-स्कन्धाज् ज्ञेयम् ॥११-१२॥

———————————————————————————————————————

॥ ३.२९.१३ ॥

सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।

दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तानां निष्कामतां कैमुत्य-न्यायेनाह—सालोक्यं मया सहैकस्मिन् लोके वासम्, सार्ष्टिं समानैश्वर्यम्, सामीप्यं निकट-वर्तित्वम्, सारूप्यं समान-रूपताम्, एकत्वं सायुज्यम् । उत अपि दीयमानम् अपि न गृह्णन्ति, कुतस् तत् कामनेत्य् अर्थः ।।१३॥

———————————————————————————————————————

सनातन गोस्वामी : (ह।भ।वि। ११.६०३) सालोक्यं मया सहैकस्मिन् लोके वासम् । सार्ष्टिं समानैश्वर्यम् । सामीप्यं निकट-वर्तित्वम् । सारूप्यं समान-रूपताम् । एकत्वं सायुज्यम् । उत अपि दीयमानम् अपि मया । मत्-सेवनं मद्-भक्तिम् ॥१३॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.४३] सालोक्यं मया सह एक-लोके वासं, सार्ष्टिः समानैश्वर्यम्, सामीप्यं निकट-वर्तित्वम्, एकत्वं सायुज्यम् उत अपि दीयमानम् अपि न गृह्णन्ति जना मद्-भक्ताः । कुतः ? तत्-कामनेति ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहैतुकीत्वम् एव विशेषतो दर्शयति—सालोक्येति । जना मदीयाः सालोक्यादिकम् अपि उत अपि दीयमानम् अपि न गृह्णन्ति मत्-सेवनं विनेति । गृह्णन्ति चेत् तर्हि मत्-सेवार्थम् एव गृह्णन्ति न तु तद्-अर्थम् एवेत्य् अर्थः । सार्ष्टिं समानैश्वर्यम् । एकत्वं भगवत्-सायुज्यं ब्रह्म-सायुज्यं च । अनयोस् तल्-लीनात्मकत्वेन तत्-सेवनार्थत्वाभावाद् अग्रहणावश्यकत्वम् एवेति भावः ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्बुधौ गङ्गाम्भसो गतिर् इति दृष्टान्त-व्यञ्जितम् अर्थं स्पष्टयन्न् उक्त-लक्षण-भक्ति-मतां जनानां निष्कामत्वं कैमुत्य-न्यायेनाह सालोक्यं मया सहैकस्मिन् लोके वासम् । सार्ष्टिं समानैश्वर्यम् । सामीप्यं निकट-वर्तित्वम् । सारूप्यं समान-रूपत्वम् । एकत्वं सायुज्यम् । उत अपि दीयमानम् अपि न गृह्णन्ति कुतस् तत्-कामनेति भावः । मत्-सेवनं विनेति केचिद् गृह्णन्ति चेन् मत्-सेवार्थम् एव गृह्णन्तीत्य् अर्थः ॥१३॥

———————————————————————————————————————

॥ ३.२९.१४ ॥

स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किम् इति तर्हि भजन्ते भक्तेर् एव परम-फलत्वाद् इत्य् आह—स एवेति । ननु त्रै-गुण्यं हित्वा ब्रह्म-प्राप्तिः परम-फलं प्रसिद्धम् । सत्यम् । तत् तु भक्ताव् आनुषङ्गिकम् इत्य् आह—येन भक्ति-योगेन । मद्-भावाय ब्रह्मत्वाय ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् स एव चात्यन्तिक-फलतया भवतीत्य् अपवर्ग इत्य् अर्थः । नात्यन्तिकं विगणयन्ति [भा।पु। ३.१५.४८] इत्य् आदेर् आत्यन्तिक-प्रलयतया तत्-प्रसिद्धेश् च।

अत्र मुक्ता-फल-टीका च—अयम् आत्यन्तिकस् ततः परं प्रकारान्तराभावात् । अस्यैव भक्ति-योग इत्य् आख्या । अन्वर्थेन भक्ति-शब्दस्यात्रैव मुख्यत्वात् । इतरेषु फल एवानुरागो न तु विष्णौ फल-लाभेन भक्ति-त्यागात् इत्य् एषा ।

श्री-गोपाल-तापनी-श्रुतौ च— भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यं [गो।ता।उ। १.१४] इति । शतपथ-श्रुतौ— स होवाच याज्ञवल्क्यस् तत् पुमान् आत्म-हिताय प्रेम्णा हरिं भजेत् इति । प्रेम्णा प्रीति-मात्र-कामनया यद्-आत्म-हितं तस्मईत्य् अर्थः ।

ननु गुण-त्रयात्यय-पूर्वक-भगवत्-साक्षात्कार एवापवर्ग इति चेत् तस्यापि तादृश-धर्मत्वं स्वतः सिद्धम् एवेत्य् आह येनेति । येन कदाचिद् अप्य् अपरित्याज्येन मम भावाय विद्यमानतायै साक्षात्कारायेत्य् अर्थः । उपपद्यते समर्थो भवति । यथोक्तं पञ्चमे यथा वर्ण-विधानम् अपवर्गश् च भवति [भा।पु। ५.१९.१९], योऽसौ भगवति [भा।पु। ५.१९.२०] इत्य्-आदिकम् अनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थिर् अन्धन-द्वारेण [भा।पु। ५.१९.२०] इत्य् अन्तम् ।

अतो निर्गुणापि बहुधैवावगन्तव्या । एवम् उक्तम् एतत्-प्रकरणारम्भे—

भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते ।

स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते ॥ [भा।पु। ३.२९.७] इति ।

मार्गः प्रकार-विशेषैः । अतः स्वस्य भक्ति-योगस्यैव मार्गेण वृत्ति-भेदेन श्रवणादिना भावयाभिमानस्य तद्-भेदेन दास्यादिना गुणानां तम-आदीनां च तद्-भेदेन हिंसादिना पुंसां भावोऽभिप्रायो विभिद्यत इत्य् अर्थः ॥१४॥ [भक्ति-सन्दर्भ २३४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किम् इति तर्हि भजन्ते ? भक्तेर् एव परम-फलत्वाद् इत्य् आह स एवेति । अत्यन्ते सर्वान्ते भव आत्यन्तिकः । नन्व् आत्यन्तिक-शब्देन सायुज्यम् उच्यत इथ् आह भक्ति-योगाख्यः भक्ति-योग-नामायं ततोऽप्य् अधिकं फलम् इत्य् अर्थः । अत एवापवर्ग-शब्देन क्वचिद् ब्रह्मणि निर्वाण-शब्देन चायम् उच्यते । यद् उक्तं पञ्चमे अपवर्गश् चापि भवति।

योऽसौ भगवति ॥। अनन्य-निमित्त-भक्ति-योग-लक्षणः [भा।पु। ५.१९.२१] इति । सप्तमे च, अधोक्षजालम्भम् इह इत्य् आदौ, तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधाः [भा।पु। ७.७.३७], हराव् ऐकान्तिकीं भक्तिं मोक्षम् आहुर् मनीषिणः इति पुराणान्तरे च । भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यं [गो।ता।उ। १.१४] इति गोपाल-तापनी-श्रुतिश् च ।

ननु त्रिगुण-मयाद् बन्धात् मोक्ष एव परम-फलं प्रसिद्धम् । सत्यम् । तत् तु भक्ताव् आनुषङ्गिकम् इत्य् आह येन भक्ति-योगेन अतिव्रज्य अतिक्रम्य उल्लङ्घ्येति यावत् । मच्-चरणाश्रयण-मात्रेणैव त्रिगुणात्मक-संसार-सिन्धोर् गोष्पदायमानत्वे जाते तद्-उल्लङ्घनम् अनुसन्धानं विनैव भवतीति भावः । मद्-भावाय मद्-विषयक-प्रेम्ने ॥१४॥

———————————————————————————————————————

॥ ३.२९.१५ ॥

निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा ।

क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं भूताया भक्तेः साधनान्य् आह पञ्चभिः । निषेवितेन सम्यग् अनुष्ठितेन। अनिमित्तेन स्व-धर्मेण नित्य-नैमित्तिकेन । महीयसा श्रद्धादि-युक्तेन । क्रिया-योगेन पञ्चरात्राद्य्-उक्त-पूजा-प्रकारेण । शस्तेन निष्कामेन ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्म-ज्ञान-मिश्रा यथा—निषेवितेनेति पञ्चकम् । निषेवितेन सम्यग् अनुष्ठितेन अनिमित्तेन च निष्कामेन स्व-धर्मेण, महीयसा श्रद्धादि-युक्तेन । क्रिया-योगेन पञ्चरात्राद्य्-उक्त-वैष्णवानुष्ठानेन । शस्तेन उत्तम-देश-कालादिमता निष्कामेन च । नातिहिंस्रेण अतिहिंसा-रहितेन । अति-शब्दः प्राणादि-पीडा-परित्याग-फल-पत्रादि-जीवावयव-स्वीकारार्थः ॥१५॥ [भक्ति-सन्दर्भ २२९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्या भक्तेर् अङ्गान्य् आह—निषेवितश् चासौ अनिमित्त-रूपश् चेति तेन पूर्व-पूर्वैः शुद्ध-भक्तैर् निषेवितोऽङ्गीकृतो यः स्व-धर्मस् तेनेत्य् अर्थः । स च स्मृति-शास्त्रोक्त-प्रमाणैर् मृज्-जलादिभिर् देह-वस्त्र-पात्रादि-द्रव्य-शुद्धि-विधि-रूपो निर्मन्त्रक एव ज्ञेयस् तेन महीयसा अर्चनादि-भक्त्य्-उपयोगित्वात् प्रशस्तेन । व्याख्यान्तरे—मत्-कृते त्यक्त-कर्माण [भा।पु। ३.२५.२२] इति, मयादिष्टान् अपि स्वकान् सन्त्यज्य [भा।पु। ११.११.३२] इत्य्-आदि भगवद्-उक्ति-विरोधस् तथात्र निषेवित-पदस्य वैयर्थ्यं च स्यात् । क्रिया-योगेन पञ्चरात्राद्य्-उक्त-पूजा-प्रकारेण । शस्तेन उत्तम-देशादि-मता, नातिहिंस्रेण अतिहिंसा-रहितेनेत्य् अतिशब्देन भगवन्-मन्दिर-मार्जन-लेपन-तद्-अर्थान् नादि-विविध-नैवेद्य-साधनादिष्व् अतिदुर्वार-दुर्लक्ष्य-सूक्ष्म-जीव-हिंसनं शाक-पत्र-मूल-फलादि-त्रोटनादाव् अपि न क्षतिर् इति ज्ञापितः । सत्त्वेन धैर्येण असङ्गेन दुःसङ्ग-त्यागेन । आध्यात्मिकस्य अन्तःकरण-भावस्य दोषस्य गुणस्य च अनुश्रवणात्, अन्तः-करणस्य भक्तौ प्रवर्तनार्थं तद्-दोष-गुणावश्य-श्रोतव्यौ दन्ताद्य्-अन्तः-करण-दोषस्य स्वस्मिन् वर्तमानत्व-ज्ञाने सति, दन्तं महद्-उपासया जयेद् इत्य्-आदि-विधौ भक्ताः प्रवर्तेरन्न् इत्य् एतद्-अर्थं च । मद्-विषयक-श्रवण-कीर्तनादिर् एव धर्मोऽनुष्ठेयो यस्य तस्य पुरुषस्य आश्रयो मनः । श्रुत-मात्र-गुणं माम् एतीति—मद्-गुण-श्रुति-मात्रेण इत्य् उक्त-लक्षणं साध्यं भक्ति-योगं प्राप्नोतीति भावः ॥१५-१९॥

———————————————————————————————————————

॥ ३.२९.१६ ॥

मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः ।

भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-धिष्ण्यं मत्-प्रतिमादि तस्य दर्शनादिभिः । सत्त्वेन धैर्येण । असङ्गमेन वैराग्येण ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-धिष्ण्यं मद्-अर्चादि ॥१६॥ [भक्ति-सन्दर्भ २२९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १५-साङ्ख्यक-श्लोकस्य टीका द्रष्टव्या ॥

———————————————————————————————————————

॥ ३.२९.१७ ॥

महतां बहु-मानेन दीनानाम् अनुकम्पया ।

मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहिंसास्तेय-ब्रह्मचर्यापरिग्रहा यमाः । शौच-सन्तोष-तपः-स्वाध्याएश्वर-प्रणिधानानि नियमाः ॥१७॥ [भक्ति-सन्दर्भ २२९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १५-साङ्ख्यक-श्लोकस्य टीका द्रष्टव्या ॥

———————————————————————————————————————

॥ ३.२९.१८ ॥

आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे ।

आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आर्जवेन अकौटिल्येन ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आध्यात्मिकम् आत्मानम् आत्म-विवेक-शास्त्रम् । निरहङ्क्रियया गर्व-राहित्येन ॥१८॥ [भक्ति-सन्दर्भ २२९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १५-साङ्ख्यक-श्लोकस्य टीका द्रष्टव्या ॥

———————————————————————————————————————

॥ ३.२९.१९ ॥

मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः ।

पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-धर्मणो भगवद्-धर्मानुष्ठातुः पुरुषस्याशयश् चित्तम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-धर्मणः मद्-धर्मानुष्ठातुः पुरुषस्याशयः । श्रुत-मात्र-गुणं माम् अञ्जसाभ्येति मद्-गुण-श्रुति-मात्रेण मयि [भा।पु। ३.२९.११] इत्य्-आद्य्-उक्त-लक्षणां ध्रुवानुस्मृतिं प्राप्नोतीत्य् अर्थः । अत्राध्यात्मिक-श्रवणादिना ज्ञान-मिश्रत्वम् अपि। अत्र शुद्ध-भक्तेः साध्यत्वेऽपि ज्ञान-कर्म-मिश्र-भक्ति-साधनतया निर्देशो यन्-मूलं तत् प्रचक्षते इति श्री-देवहूति-प्रश्नानुरोधात्29 । [स्व-भक्तेः साध्यत्वेऽपि ज्ञान-कर्म-मिश्र-भक्ति-साधन-मयत्वम् एव दर्शितम् । अनया तु यत् तथा पृष्ट तद् अपि भक्ति-मूलं निर्दिष्टम् ।]30 स्व-मतं तु सतां प्रसङ्गाद् [भा।पु। ३.२५.२५] इति प्रकरणे शुद्ध-भक्ति-साधनम् इदम् एव दर्शितम् । अनया तु यत् तथा पृष्ट मुमुक्षु-मार्ग-श्रवणाय रुच्य्-अतिशयेनैवेति ज्ञेयम् ॥१९॥ [भक्ति-सन्दर्भ २२९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १५-साङ्ख्यक-श्लोकस्य टीका द्रष्टव्या ॥

———————————————————————————————————————

॥ ३.२९.२० ॥

यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् ।

एवं योग-रतं चेत आत्मानम् अविकारि यत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रयत्नं विनैव प्राप्तौ दृष्टान्तः, वातो रथः प्रापको यस्य गन्धस्य । आशयात् स्थानात् । आवृङ्क्ते आत्म-सात्-करोति । अविकारि समं यच् चेतः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेति । आत्मानं परमात्मानं माम् अनुकरोतीति सम्बन्धोक्तिः ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रयत्नं विनैव प्राप्तौ दृष्टान्तः । वातो रथः प्रापको यस्य स गन्ध आशयात् स्व-स्थानात् सकाशात् घ्राणं नासिकाम् आवृङ्क्ते भजते प्राप्नोति । एवं भक्ति-योग-युक्तं चेतः आत्मानं परमात्मानम् । यथा वातः पद्माकर-स्थं गन्धं नासिकां प्रापयति, तथैवायं भक्त्य्-अङ्ग-समुदायो योग-रतं भक्ति-योग-निष्ठं चित्तं परमेश्वरं प्रापयतीत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ ३.२९.२१ ॥

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।

तम् अवज्ञाय मां मर्त्यः कुरुतेऽर्चा-विडम्बनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्त-शुद्धिश् च सर्व-भूतात्म-दृष्ट्यैव भवतीति वक्तुं केवल-प्रतिमादि-निष्ठां निन्दन्न् आह—अहम् इति सप्तभिः । अर्चा एव विडम्बनम् अनुकरणम् । अर्चायां पूजा-विडम्बनम् इति वा । अवज्ञोपेक्षा-द्वेष-निन्दाः क्रमेण चतुर्भिर् निषिध्यन्ते ॥२१॥

———————————————————————————————————————

कैवल्य-दीपिका: प्रतिमैक-पूजकं निन्दन्ति31अहम् इति । अर्चा प्रतिमा ॥२१॥ [मु।फ। ४.१४]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-कपिल-देवेन साधारणानाम् अपि प्राणिनाम् अवज्ञादिकं निन्दितम्, किम् उत भगवत्-पराणाम् । तथा हि32—अहम् इति । भूतेषु वक्ष्यमाण-रीत्या [३.२९.२८-३३] प्राण-भृज्-जीवम् आरभ्य भगवद्-अर्पितात्म-जीव-पर्यन्तेषु भूतात्मा तद्-अन्तर्यामी । तं माम् अवज्ञाय तेषाम् अवज्ञया तद्-अधिष्ठानकस्य ममैवावज्ञां कृत्वेत्य् अर्थः । ततस् तां कृत्वा योऽर्चां मत्-प्रतिमां कुरुते स तद्-विडम्बनं तस्या अवज्ञाम् एव कुरुत इत्य् अर्थः ॥२१॥ [भक्ति-सन्दर्भ १०६]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चैतादृशीम् अपि भक्तिम् अपराध एव सङ्कोचयति स चापराधः प्रायो महद्-अवज्ञान-मूलक एव ते च महान्तो लोके दुर्लक्ष्या अपि बहवस् तिष्ठन्त्य् अतस् तद्-अपराधाभावार्थं सर्व-भूतान्य् एव स्वेष्ट-देवाधिष्ठान-बुद्ध्या सम्मानानीयानि । तद्-अभावे श्री-भगवद्-विग्रह-सेवापि न सम्यक् फलदेति वदन्न् ईश्वरत्वात् प्राणि-सम्माननम् अकुर्वते स्व-भक्ताय हित-कारित्वेन वात्सल्यात् कुप्यन्न् इव श्री-कपिल-देव आह—अहम् इत्य्-आदि षड्भिः । तत्रावज्ञोपेक्षा-द्वेष-निन्दाः क्रमेण चतुर्भिर् निषिध्यन्ते । अर्चा मत्-प्रतिमा, तस्यां मत्-पूजनं मद्-विडम्बनम् एव कुरुते ॥२१॥

———————————————————————————————————————

॥ ३.२९.२२ ॥

यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् ।

हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हित्वा उपेक्ष्य ॥२२॥

———————————————————————————————————————

कैवल्य-दीपिका: यो माम् इति । सत्त्वं नित्यत्वम् । आत्मत्वान् निर्निमित्त-प्रेमास्पदत्वम् । ईश्वरत्वात् फल-दातृत्वम् । हित्वा त्यक्त्वा योऽर्चां प्रतिमां भजते सोऽग्निं हित्वा भस्मन्य् एव जुहोति ॥२२॥ [मु।फ। ४.१५]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम् एवाह—यो माम् इति । मौढ्यात् शैली दारुमयी वा काचित् प्रतिमेयम् इति मूढ-बुद्धित्वात् यः सर्वेषु भूतेषु वर्तमानं परमात्मानम् ईश्वरं मां हित्वा तस्या मयैक्यम् अविभाव्य अर्चां मदीयां प्रतिमां भजते, केवल-लोक-रीति-दृष्ट्या तस्यै जलादिकम् अर्पयति । यथाग्नि-पुराणे श्री-दशरथ-मारित-पुत्रस्य तपस्विनो विलापे—

शिला-बुद्धिः कृता किं वा प्रतिमायां हरेर् मया ।

किं मया पथि दृष्टस्य विष्णु-भक्तस्य कर्हिचित् ॥

तन्-मुद्राङ्कित-देहस्य चेतसा नादरः कृतः ।

येन कर्म-विपाकेन पुत्र-शोको ममेदृशः ॥ इति ।

यथोक्तम्—

अर्च्ये विष्णौ शिलाधीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर् विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थेऽम्बु-बुद्धिः । शुद्धे तन्-नाम्नि मन्त्रे सकल-कलुषहे शब्द-सामान्य-बुद्धिर् विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः ॥

इति तस्य मूढस्य मद्-दृष्ट्य्-अभावात् सर्व-भूतावज्ञापि भवति, ततस् तद्-दोषेण भस्मनि यथा जुहोति कश्चित्, तथा तस्याश्रद्दधानस्य फलाभाव इत्य् अर्थः । ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः [गीता १७.१] इत्य्-आद्य्-उक्त-रीत्या लोक-परम्परा-मात्र-जाते33 यत् किञ्चित् श्रद्धा-सद्-भावे तु कनिष्ठ-भागवतत्वम् एव,

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।

न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भा।पु। ११.२.४७]

इत्य्-आद्य्-उक्तेः । यद्यपि यथा-कथञ्चित् भजनस्यैवावश्य-फलावसानतास्त्य् एव, तथापि झाटिति न भवतीत्य् एव । तथोक्तं वक्ष्यते च साफल्यम्—अर्चादाव् अर्चयेत् तावद् [भा।पु। ३.२९.२५] इत्य्-आदिना ॥२२॥ [[भक्ति-सन्दर्भ १०६]{।मर्क्}]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भस्मन्य् एव जुहोतीति । प्रभुत्वात् स्व-भक्तान् शिक्षयितुं तान् प्रति सतर्जनोक्तिर् इयम् । तथैव स्वयं भगवतो\ऽपि यस्यात्म-बुद्धिः कुणपे इत्य् अत्र भौमैज्य-धीर् इत्य् उक्त्वा स एव गो-खरः [भा।पु। १०.८४.१३] इत्य् आक्षेपः । यथैवाधुनिका अपि सद्-गुरवः प्रियम् अपि स्व-शिष्यं स्व-सेवा-रतम् अपि क्वाप्य् अन्यत्र हरि-भक्तेष्व् अपराध-लेश-मात्रं दृष्ट्वैव मत्-सेवां करोषि भस्म करोषि मां दुःखयस्येव केवलम् इत्य् आक्षिपन्ति । वस्तुतस् तु ऋषयः क्वापि नैवम् आहुः । यथा—

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।

न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भा।पु। ११.२.४७]

व्याख्या च श्री-स्वामि-चरणानां—न तद्-भक्तेष्व् अपि अन्येषु च सुतरां न करोति । प्राकृतः प्रकृतिः प्रारम्भः । अधुनैव प्रारब्ध-भक्तिः शनैर् उत्तमो भविष्यतीत्य् अर्थः इत्य् एषा। अत्रापि वक्ष्यते अर्चादाव् अर्चयेत् तावद् [भा।पु। ३.२९.२५] इत्य् आदीति ॥२२॥

———————————————————————————————————————

॥ ३.२९.२३ ॥

द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः ।

भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

कैवल्य-दीपिका: भस्मवत् प्रतिमा-पूजनस्य निष्फल-हेतुत्वम् आह—द्विषत इति । मनः-शान्तिर् हि फलम् । सा च द्वेष-हानेः, सा च सर्वात्मा विष्णुर् इति दर्शनात् । तच् च प्रतिमैव विष्णुर् इति पश्यतो नास्ति ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अवज्ञा-मात्रस्य तादृशत्वे सुतरां तु—द्विषत इति । भिन्न-दर्शिनः सर्वत्रान्तर्याम्य्-एक-दृष्टि-रहितस्य, अत एव मानिनः, अत एव बद्ध-वैरस्य । तथा च महाभारते—

पितेव पुत्रं करुणो नोद्वेजयति यो जनम् ।

विशुद्धस्य हृषीकेशस् तूर्णं तस्य प्रसीदति ॥ इति ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भिन्न-दर्शिनः स्वस्य दुःखम् इवान्यस्यापि दुःखं समानम् इति न जानतः ॥२३॥

———————————————————————————————————————

॥ ३.२९.२४ ॥

अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चायां भूत-ग्रामावमानिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्यैर् उत्पन्नया क्रियया । भूत-ग्रामावमानिनस् तन्-निन्दकस्य ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, अहम् इति । अवमानिनो निन्दा-कर्तुः निन्दापि द्वेष-समा । किं वा,

न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्मगैः ।

यथा तुदन्ति मर्मस्था ह्य् असतां परुषेषवः ॥ [भा।पु। ११.२३.३]

इत्य्-उक्त-रीत्याततोऽधिकेति नायं व्युत्क्रम इत्य् अभिप्रेत्य न द्वेषात् पूर्वम् असौ पठिता ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवमानिनो निन्दकस्य ।

न तथा तप्यते विद्धः पुमान् बाणैर् हि मर्मगैः ।

यथा तुदन्ति मर्मस्था ह्य् असतां परुषेष्वः ॥ [भा।पु। ११.२३.३]

इत्य् उक्त-रीत्या निन्दा द्वेषाद् अप्य् अधिकेत्य् आहुः ॥२४॥

———————————————————————————————————————

॥ ३.२९.२५ ॥

अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् ।

यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् अर्चादाव् अर्चनम् अनर्थकम् एव ? नेत्य् आह—अर्चादाव् इति । सर्व-भूतेष्व् अवस्थितं मां स्व-हृदि यावन् न वेद । स्व-कर्म-कृत् कर्माविरोधेन यथावकाशम् । अनेन कर्म-निष्ठाया अपि स एवावधिर् इत्य् उक्तं भवति ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् ईश्वर-ज्ञानाभावाद् भक्ताव् अश्रद्दधानस्य दोष उक्तः । अथ तच्-छ्रद्धा-हेतु-तज्-ज्ञानस्य स्व-धर्म-संयुक्तं तद्-अर्चनम् एव कारणम् उपदिशन् तादृशार्चनस्याप्य् अव्यर्थताम् अङ्गीकरोति—अर्चादाव् इति

तावद् एव स्व-कर्म-कृत् सन् अर्चादाव् अर्चयेत्यावत् सर्व-भूतेष्व् अवस्थितम् ईश्वरं मां न वेद न जानाति । अत्र स्व-कर्म-सहायत्वम् अजात-श्रद्धस्य शुद्ध-भक्ताव् अनधिकारात्, तत् प्रतिपादयिष्यते । जात-श्रद्धो मत्-कथासु [भा।पु। ११.२०.२७] इत्य्-आदिना । अतो भगवज्-ज्ञानाद् ऊर्ध्वं जात-श्रद्धस् तु स्व-कर्म-कृत् सन् नार्चयेत्, किन्तु शुद्धम् अर्चादिकम् एव कुर्वीतेत्य् अप्य् आयातम् । तच् च प्रतिपादयिष्यते—तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदिना, न त्व् अर्चां परित्यजेद् इत्य् अर्थः,

प्रतिष्ठितार्चा न त्याज्या यावज्-जीवं समर्चयेत् ।

वरं प्राण-परित्यागः शिरसो वापि कर्तनम् ॥

इति श्री-हयशीर्ष-पञ्चरात्र-विरोधात् ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुद्ध-भक्तिमतां स्वत एव शुद्धान्तः-करणत्वात् प्राणि-मात्रावज्ञा प्रायो न सम्भवेत् । कर्म-मिश्र-भक्तिमतां तु सा सम्भवेद् एव । यावद् अन्तः-करणस्याशुद्धिः, तस्य शुद्धौ सत्यां तु सा न तिष्ठेत् तेन कर्मापि न कर्तव्यम् इत्य् आह—अर्चादाव् इति । स्व-कर्म-कृत् कर्म-मिश्रां सात्त्विकीं भक्तिं कुर्वाणः । यावद् इति सर्व-भूतात्म-दर्शित्व-दशायाम् उद्भूतायां सत्यां कर्माधिकारात् न स्व-कर्म-कृत् । किन्तु ज्ञान-मिश्रां भक्तिं कुर्वाणः सन्न् अर्चायां माम् अर्चयेद् इत्य् अर्थः ॥२५॥

———————————————————————————————————————

॥ ३.२९.२६ ॥

आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् ।

तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अन्तरोदरं भिन्नं ब्रह्म । आत्मस्थम् अन्यस्थं च ब्रह्म यो भेदे न पश्यति—उदरं ब्रह्म इति श्रुतेः ॥२६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तरा अन्तरं भेदम् । उत् अपि । अरम् अल्पम् । अल्पम् अपि भेदं यः पश्यतीत्य् अर्थः । यद् वा, अन्तरा मध्ये । उदरं शरीरम् । मृत्युर् अहं तस्य भयं विदधे कारोमि ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ स्व-कर्म-पूर्वकम् अर्चनं कुर्वंश् च भूत-दयां विना न सिद्धतीत्य् आह—आत्मन इति । अन्तरोदरम् उदर-भेदेन भेदं करोति, न तु मद्-अधिष्ठानत्वेनात्म-समं पश्यति । ततश् च क्षुधितादिकम् अपि दृष्ट्वा स्वोदरादिकम् एव केवलं सम्बिभर्तीत्य् अर्थः । तस्य भिन्न-दृशो मृत्यु-रूपोऽहम् उल्बणं भयं संसारम् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मन उदरं परस्यापि उदरं यो\ऽन्तरा भिन्नं करोति, तस्य मृत्यु-स्वरूपो\ऽहम् एव । उदरं खलु जाठरानल-ज्वाला-युक्तं यथा आत्मनस् तथा परस्यापीति ज्ञात्वा क्षुधार्तं जीवम् आत्मानम् इव भोजयेद् एवान्यथा मृत्यु-भयं न तरतीत्य् अर्थः ॥२६॥

———————————————————————————————————————

॥ ३.२९.२७ ॥

अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् ।

अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ अतः सर्व-भूतेषु कृतालयं कृतावासम् । तत्र हेतुः—भूतानाम् आत्मानम् अन्तर्यामिणम् । अभिन्नेन चक्षुषा सम-दर्शनेन ॥२७॥

———————————————————————————————————————

कैवल्य-दीपिका: [विष्णोर् अधिष्ठान-रूपाणि द्वाविंशतिः ।] एवं योगान्तराय-प्रतिघातार्थं भगवज्-जन्म-कर्मानुसन्धानम् उक्त्वेदानीम् अभेद-भावनया विक्षिप्तादि-चित्त-भूमिका-जयार्थम् एकाग्रता-सम्पादनार्थं च भगवतोऽधिष्ठानान्य् आह—विष्णोर् इति । विष्णोर् अधिष्ठितानि रूपाणि द्वाविंशतिः । तेषां पूज्यत्वम् आह—अथ इति । भूतानां देहे कृतालयं क्षेत्रज्ञम् । दानं दीनेषु । मानम् उक्तम् एषु34 मैत्री समेषु । अभिन्नेन चक्षुषा सर्वात्मा विष्णुर् इति तेषां बुद्ध्या ॥२७॥ [मु।फ। ४.१]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निगमयति—अथ इति । अथ अतो हेतोः यथा-युक्तं यथा-शक्ति-दानेन तद्-अभावे मानेन च अभिन्नेन चक्षुषेति पूर्ववत् यथोक्तं सनकादीन् प्रति वैकुण्ठ-देवेन—ये मे तनूर् द्विज-वरान् दुहतीर् मदीया भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या [भा।पु। ३.१६.१०] इत्य्-आदि । एष च प्रस्तावः पूर्वम् अभिसन्धाय यो हिंसाम् [३.२९.८]इत्य्-आदिकं यद् उक्तम् । तत्-तत्-पोषकत्वेन निर्दिष्टम् ॥२७॥ [भक्ति-सन्दर्भ १०६]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु पृथिव्याम् अनन्ता एव क्षुधार्ता जीवास् ते च भोजयितारं श्रुत्वा तत्-समीपम् आयान्त्य् एव तान् भोजयितुं कः खलु रन्तिदेवो नृप इव धैर्यं धत्ते? इत्य् अत आह—अथ अथवा तेभ्यो यथेष्ट-दानासामर्थ्येऽपि दानादिभिर् अर्हयेत् ।

अथातो संशये स्याताम् अधिकारे च मङ्गले ।

विकल्पानन्तर-प्रश्न-कार्त्स्न्यारम्भ-समुच्चये ॥ इति मेदिनी ।

किं च, तेषु बुभुक्षुषु गालि-प्रदानादिभिस् तिरस्कुर्वत्स्व् अपि प्रतितिरस्कारं न कुर्यात्, किन्तु तेष्व् आत्मनोऽप्य् अधिकान् मानेन स्तुत्यादिभिर् आदरेणार्हयेत् । यद् उक्तंभगवता—ते ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्तस् तुष्यद् धृदः स्मित-सुधोक्षित-पद्मा-वक्त्रा [३.१६.११] इत्य्-आदि । आत्मनस् तुल्यान् मैत्र्याभिन्नेनाविदीर्णेनाकुटिलेनेति यावत् । एवं निष्कैतवस्य व्यवहृत्यापि तेषु कुप्यत्स्व् अपि तद्-अन्तः-स्थितः प्रभुस् तु न कुप्याद् एवेति भावः ॥२७॥

———————————————————————————————————————

॥ ३.२९.२८ ॥

जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे ।

ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्राण-भृतश् चलन-युक्ताः ॥२८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रापि यथोत्तरं मानाद्य्-अतिशयः कर्तव्य इति वक्तुं तारतम्यम् आह—जीवा इति सार्धैः षड्भिः । अजीवानाम् अचेतनेभ्यः । ततस् तेष्व् अपि प्राण-भृतः प्राण-वृत्तिम् अन्तः । स-चित्ता ज्ञान-वन्तः । इन्द्रियाणां वृत्तयो येषु । इन्द्रिय-वृत्तयो वृक्षाणाम् अपि सूक्ष्माः सन्त्य् एव । तथा हि महाभारते मोक्ष-धर्मेषु स्मर्यते, तस्मात् पश्यन्ति पादपास् तस्माज् जिघ्रन्ति पादपाः [म।भा। १२.१७७.१४-१५] इत्य्-आदि । प्रसिद्धा तु स्पर्शनेन्द्रिय-वृत्तिर् एव ॥२८॥

———————————————————————————————————————

कैवल्य-दीपिका: जीवा इति । हे शुभे ! देवहूते ! स-जीव-निर्जीवयोः सजीवः श्रेष्ठः । प्राण्य्-अप्राणिनोः सजीवयोः प्राणी । स-चित्ताचित्तयोः प्राणिनोः स-चित्तः । स्पर्शज्ञास्पर्शज्ञयोः स-चित्तयोः स्पर्शज्ञः । रसज्ञारसज्ञयोः स्पर्शज्ञयोः रसज्ञः । गन्धज्ञागन्धज्ञयो रसज्ञयोर् गन्धज्ञः । शब्दज्ञाशब्दज्ञयोर् गन्धज्ञयोः शब्दज्ञः । रूपज्ञारूपज्ञयोः शब्दज्ञयो रूपज्ञः । उभयता दन्तैकदन्तयोः रूपज्ञयोर् उभयतोदतः । सपादापादयोः उभययतोदन्तयोः सपादः । चतुष्पद-बहुपद्योः सपादयोश् चतुष्पादः । हस्तीभूत-पाद-द्वयाहस्तीभूत-पाद-द्वययोः चतुष्पादयोः हस्तीभूत-पाद-द्वयः । वर्णावर्णयोर् हस्तीभूत-पादयोर् वर्णः । ब्राह्मणाब्राह्मणयोर् वर्णयोर् ब्राह्मणः । वेदज्ञावेदज्ञयोर् ब्राह्मणयोर् वेदज्ञः । वेदार्थज्ञावेदार्थज्ञयोर् वेदज्ञयोर् वेदार्थज्ञः ॥२८-३१॥ [मु।फ। ४.२-५**]**

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र सर्वेषां साधारण्येनैव प्राप्तेर् विशेषयति सार्धैः षड्भिः । अजीवा जीर्ण-सस्यादयः, जीवा जीवत्-सस्यादयः । ततः तेष्व् अपि प्राण-भृतः भूमिष्ठ-जलाकर्षण-वमनादि-लिङ्गेन प्राण-वृत्ति-भृतो जीवत्-पाषाणादयः स-चित्ताः पूर्वम् उड्डयनादि-चेष्टाः पश्चाद् इन्द्रवज्रेण स्तब्धाः इति श्रवणात् । अन्तः-सज्ञानाः पर्वता इन्द्रिय-वृत्तयः दृष्ट्य्-आदि-तुल्यया दूरतोऽपि स्पर्श-वृत्त्या स्वोद्गमावकाश-ज्ञानिनो वृक्षादयः पूर्व-पूर्वस्माद् उत्तरोत्तरस्मिन्न् एकैक-गुणाधिक्येनाधिक्यम् ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च केवल-ज्ञानीव मद्-भक्तः सर्वत्र तुल्य-दृष्टिः साधारण्येनैवार्हयेद् अपि तु तारतम्येनैवेति तत् तारतम्यं दर्शयति सार्धैः षड्भिः । अजीवानाम् अजीवेभ्यो जीर्ण-शष्पादिभ्यः सकाशात् जीवा अजीर्ण-शष्पादयः श्रेष्ठास् ततः प्राण-भृतः भूमिष्ठ-जलाकर्षण-वमनादि-लिङ्गेन प्राण-वृत्ति-भृतो जीवत् पाषाणादयः । ततः स-चित्ताः पूर्वम् उड्डयनादि-चेष्टा पश्चाद् इन्द्र-वज्रेण स्तब्धा इति शास्त्राद् अन्तः सज्ञानाः पर्वताः । तेभ्योऽपि +++

———————————————————————————————————————

॥ ३.२९.२९ ॥

तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः ।

तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

पशु-वृक्षादि-भेदेन जीवा एव स्वतः स्थिताः ।

संसृतौ व्यत्ययस् तेषां मुक्तौ तत्-तत्-स्वरूपता ॥

तत्र स्थावरम् उक्तेभ्यो वरा जङ्गम-मुक्तकाः ।

तेभ्यो मानुष-मुक्ताश् च विप्र-मुक्तास् ततोऽधिकाः ॥

ततोऽपदेश-मात्रेण मुक्तेभ्यो वेद-वेदिनः ।

अर्थज्ञा ऋषयस् तेभ्योऽतो देवाः संशय-च्छिदः ॥

पूर्ण-धर्मा ततस् त्व् इन्द्रो निःसङ्गो गरुडस् ततः ।

मुक्तौ वा संसृतौ वापि सम्यग् एषु हिते गुणाः ॥ इति कापिलेये ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तेभ्यः स्पर्श-वेदिभ्यो रस-वेदिनो मत्स्यादयः श्रेष्ठाः । गन्ध-विदो भ्रम-रादयः । शब्द-विदः सर्पादयः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अतस् तेभ्यः स्पर्श-वेदिभ्यो रस-वेदिनः रसाखादेन मृत्तिकादि-स्व-स्व-भोज्याभोज्य-ज्ञानिनो गण्डुपद्यादयो मत्स्यादयश् च श्रेष्ठास् तेभ्यो गन्ध-विदो भ्रमरादयस् तेभ्यः शब्द-विदः सर्पादयः । तत्र केचित् सङ्गमन-पलायनादि-हेतु-शब्द-विदोऽपि भवन्ति ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि तेभ्योऽपि स्पर्श-वेदिभ्यो वृक्षादिभ्यो रस-वेदिनो मृत्तिकादि-स्व-स्व-भोज्याभोज्य-ज्ञानिनो गण्डूपदादयः । गन्ध-विदो बकुलादि-पुष्प-सूक्ष्म-कीटाः, शब्द-विदो शब्द-श्रवणेन पलायनवन्तः केचिज् जल-कीटाः ॥२९॥

———————————————————————————————————————

॥ ३.२९.३० ॥

रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः ।

तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रूप-भेद-विदः काकादयः । उभयतो दन्ताः येषाम् । अपादेभ्यो बहु-पादास् तेभ्यश् चतुष्-पादा इत्य् अर्थः । ततो द्विपान् मनुष्यः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वोक्तेभ्यो रूप-भेद-विदः काकादयः । उभयतो दन्ता बहु-पदाश् चर्म-चट्य्-आदयो फलादि-कर्तन-सामर्थ्याद् उभयतो दन्तत्वं चैषाम् । चतुष्पादः—पशवः गमन-साधन-पक्षाभ्यां पक्षिणश् च, द्विपात् मनुष्य इत्य् अर्थः । अन्येषां चतुष्पात्त्व-द्विपात्त्वादौ सत्य् अपि तादृश-तत्-तद्-गुणाभावान् न्यूनत्वम् । एषां तु पाद-हीनत्वं स-चित्तत्वाद्य्-अतिशये बुद्ध्य्-अतिशये हस्तादि-शालित्वेऽपि लिङ्गम् इति पूर्वतो गुणोत्कर्ष-मयम् । पूर्व-पूर्वस्माद् उत्तरोत्तरस्मिन्न् एकैक-गुणाधिक्येनाधिक्यम् । तद् एवम् अन्यत्राप्य् उत्तम-गुणाधिक्य-हानिभ्यां तारतम्यं ज्ञेयम् । यथा देवताधिष्ठानादिना हिमालयादिषु तुलस्य्-आदिषु गवादिषु च परमाधिक्यम् ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूप-भेद-विदः काकादयः । उभयतो दन्ताः सर्पादयः । बहु-पदा तेषां पुष्प-काष्ठादि-कर्तन-लिङ्गेन उभयतो दन्तत्वं ज्ञेयम् । चतुष्पादः पशवः द्विपान् मनुष्याः । एतेषां पूर्व-पूर्वत उत्तरोत्तरेषां सामान्यत एव गुणाधिक्याद् आधिक्यम् । देवाधिष्ठानादि-विशेष-गुणाधिक्य-विचारेण श्री-गोवर्धन-वेङ्कटाचलादिषु तुलस्यादिषु च सर्वत एव परमाधिक्याद् अर्हणीयत्वाधिक्यं शास्त्रज्ञ-सिद्धम् एव ज्ञेयम् ॥३०॥

———————————————————————————————————————

॥ ३.२९.३१ ॥

ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञोऽभ्यधिकस् ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततस् तेषु वर्णाः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततस् तेषु ॥३१॥

———————————————————————————————————————

॥ ३.२९.३२ ॥

अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् ।

मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : संशय-च्छेत्ता मीमांसकः । ततोऽपि केवलात् स्व-कर्म-कृत्मुक्त-सङ्गस्य लक्षणम् आत्मनो धर्मम् अदोग्धा निष्काम इत्य् अर्थः ॥३२॥

———————————————————————————————————————

कैवल्य-दीपिका: संशय-च्छेद्य-संशय-च्छेदिनोर् वेदार्थज्ञयोः संशय-च्छेदी । स्व-धर्म-निष्ठाधर्म-निष्ठयोः संशय-च्छेदिनोः स्वधर्म-निष्ठः श्रेयान् । यथा-लाभ-सन्तुष्टायथा-लाभ-सन्तुष्टयोः स्वधर्मनिष्ठयोर् यथा-लाभ-सन्तुष्टः श्रेयान् । धर्मानुजीवि-धर्मोपजीविनोर् यथा-लाभ-सन्तुष्टयोः धर्मानुजीवी ॥३२॥ [मु।फ। ४।]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : धर्मम् अदोग्धा निष्काम-कर्मा ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततस् तादृशाद् अपि स्व-कर्म सम्यग् अकर्तुः सकाशात् स्व-कर्म-कृत् । ततोत्तमं मुक्त-सङ्गो ज्ञानी, यतः स स्व-धर्मम् अदोग्धा पूर्व-दशा-कृत-स्व-धर्म-फलस्याग्रहीता ॥३२॥

———————————————————————————————————————

॥ ३.२९.३३ ॥

तस्मान् मय्य् अर्पिताशेष-क्रियार्थात्मा निरन्तरः ।

मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः ।

न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्पिता अशेषाः क्रिया अर्थास् तत्-फलान्य् आत्मा देहश् च येन, अत एव निरन्तरोऽव्यवहितः । अकर्तुः कर्तृत्वाभिमान-शुन्यात् ॥३३॥

———————————————————————————————————————

कैवल्य-दीपिका: विष्णु-भक्ताविष्णु-भक्तयोर् धर्मानुजीविनोर् विष्णु-भक्तः । इन्द्रिय-वृत्तित्वं स्पर्शज्ञानादि सामान्यं न स्वतन्त्रम् । क्रिया उद्यमः अर्थस् तत्-फलम् । आत्मा कर्ता भोक्ता च । विष्णु-प्रीत्य्-अर्थम् एवोद्यमः । फलं त्व् आनुषङ्गिकं विष्णु-प्रीत्य्-अर्थम् एव फल-भोगः । आत्म-तुष्टिस् त्व् आनुषङ्गिकी विष्णु-प्रीत्य्-अर्थम् एवात्म-धारणम् । मुक्तिस् त्व् आनुषङ्गिकी अर्पण-शब्दार्थः । निरन्तरम् अस्याश् चित्त-वृत्तेर् अखण्डता मय्य् अर्पितेति श्लोक-षट्केन विष्णु-भक्त-प्रशंसा । परं श्रेष्ठम् ॥३३॥ [मु।फ। ४.७]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् इत्य् अर्धकम् । निरन्तरः ज्ञानाद्य्-अव्यवहित-भक्तिः । अकर्तुः अर्पितात्मत्वेन स्व-भरणादि-कर्मानपेक्षमाणात् यद् भगवति भक्तिः क्रियते, तत्रापि स्वस्य भगवद्-अधीनत्वं ज्ञात्वा तद्-अभिमान-शून्याच् च । सम-दर्शनात् भगवद्-अधिष्ठानता-साम्येनात्मवत् परेष्व् अपि हितम् आशंसमानात्—जीवाः श्रेष्ठा ह्य् अजीवणाम् [३.२९.२८] इत्य्-आदिनात्र भेदो हि विवक्षितः, ततो मद्-भक्तेषु एवादर-बाहुल्यादिकं कर्तव्यम् । अन्यत्र तु यथा-प्राप्तं यथा-शक्ति वेति भावः ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् अपि सकाशात् मयि यन्-नाम-रूपादिषु अर्पिता अशेषाः क्रियाः श्रवण-नयनादि-व्यापाराः, अर्था आश्रायश् च, आत्मनोऽहन्तास्पद-ममतास्पद-मनो-बुद्ध्य्-आदयो येन सः । निरन्तरः कर्म-ज्ञानादि-व्यवधान-शून्यः । मयि मत्-प्राप्त्य्-अर्थः सन्न्यस्त-कर्मणः त्यक्त-वर्णाश्रम-धर्मात्, मत्-कृते त्यक्त-कर्माण [३.२५.२२] इति पूर्वोक्तेः । अकर्तुः मद्-भक्ताव् अपि भगवान् एव मे भक्तिं कारयतीति बुद्ध्या स्वातन्त्र्येण कर्तृत्वाभिमान-शून्यात् । सम-दर्शनात् स्वस्य समम् एव सुख-दुःखादिकं सर्वत्र पश्यतः । यद् उक्तं भगवता—

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ [गीता ६.३२] इति ।

न च

विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥ [गीता ५.१८]

इत्य् उक्तं सम-दर्शित्वं वाच्यं, जीवाः श्रेष्ठाः ह्य् अजीवणाम् [३.२९.२८] इत्य्-आदि-प्रक्रान्त-वाक्य-विरोधात् ॥३३॥

———————————————————————————————————————

॥ ३.२९.३४ ॥

मनसैतानि भूतानि प्रणमेद् बहु-मानयन् ।

ईश्वरो जीव-कलया प्रविष्टो भगवान् इति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : जीव-कलया सह भूतानि बहु-मानयंस् तद्-आलयत्वेन ईश्वरं प्रणमेत् ॥३४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : जीवानां कलया परिकलनेन अन्तर्यामितया प्रविष्ट इति दृष्ट्येत्य् अर्थः ॥३४॥

———————————————————————————————————————

कैवल्य-दीपिका: तत्त्वतस् तु सर्वं विष्णोर् अधिष्ठानम् इत्य् आह—मनसा इति । भगवान् प्रविष्ट इतिमनसा बहु मानयन् ॥३४॥ [मु।फ। ४.१३]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मनसैतानीति । जीव-कलया तत्-कलया तद्-अन्तर्यामितयेत्य् अर्थः । अत्र समोऽहं [गीता ९.२९] इत्य्-आदि-श्री-गीता-पद्यम् अपि स्मर्तव्यम् ।35 तद् एवं प्रथमोपासकानां सर्व-भूतादरो विहितः, स-श्रद्ध-साधकानां तु भगवद्-वैभव-सार्वत्रिकता स्फूर्त्या भगवत्य् एवासौ । यथोक्तं स्कान्दे—

एते न ह्य् अद्भुता व्याध! तवाहिंसादयो गुणाः ।

हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥

इति वक्ष्यमाण-रीत्या शुद्ध-बन्धुत्वादि-भावः साधकानाम् अपि बन्धु-भाव-सिद्ध-श्री-गोकुल-वास्य्-आदि-शीलानुसारेण तादृश-भगवद्-गुणानुसारेण चासौ जायते । जात-भावानां त्व् अहिंसा चोपरमश् च स्वीय एव स्वभावः । यथा—

यत्रानुरक्ताः सहसैव धीरा

व्यपोह्य देहादिषु सङ्गम् ऊढम् ।

व्रजन्ति तत् पारमहंस्यम् अन्त्यं

यस्मिन्न् अहिंसा परमः स्व-धर्मः ॥ [भा।पु। १.१८.२२] इति ।

ततः परम-सिद्धानां सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः [भा।पु। ११.२.४५] इत्य्-आद्य्-अनुसारेण सिद्ध एव सः । तत्र साधकानां यत् तु, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१४] इत्य्-आदौ तद्-अन्योपासनानां पुनर्-उक्तत्वम् उपलभ्यते, तत् पुनः केवलं स्वतन्त्र-तद्-दृष्ट्योपासनानाम् एव । अत्र तु तत्-तद्-अधिष्ठानक-भगवद्-उपासनम् एव विधीयते । तद्-आदरावश्यकत्वं च तत्-सम्बन्धेनैव सम्पाद्यते—तच् चान्यत्र झटिति राग-द्वेष-विश्लेषार्थम् इति ज्ञेयम् ।

अत एव केवल-भूतानुकम्पया श्री-भगवद्-अर्चनं त्यक्तवतो भरतस्यान्तरायः परमात्म-दृष्ट्या रन्ति-देवादीनां तु कृतार्थत्वम् । तस्माद् भूत-दयैव भगवद्-भक्तिर् मुख्या नार्चनम् इति निरस्तम् । तथैवाव्यवहित-पूर्वं निर्गुण-भक्त्य्-उपायत्वेन क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः इत्य् अत्रापि-शब्देन पाञ्चरात्रिकार्चन-लक्षण-क्रिया-योगार्था पत्र-पुष्पावचयादि-लक्षणा किञ्चिद् धिंसापि विहिता । तस्माद् अन्येषाम् अनादरो न कर्तव्यः, भगवत्-सम्बन्धेनादरादिकं च कर्तव्यम् । स्वातन्त्र्येणोपासनं तु धिक्-कृतम् । साध्व् एवोक्तम् अविस्मितं तं परिपूर्ण-कामं [भा।पु। ६.९.२१] इत्य्-आदि ।

एष एव प्रस्तावः पूर्वम् अभिसन्धाय यद् धिंसाम् [भा।पु। ३.२९.८] इत्य्-आदिकं, यद् उक्तं तत्-पोषणत्वेन निर्दिष्टः । जीव-कलया तत्-कलया तद्-अन्तर्यामितयेत्य् अर्थः36 ॥३४॥ [भक्ति-सन्दर्भः १०६]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीव-रूपा या कला तया सह ॥३४॥

———————————————————————————————————————

॥ ३.२९.३५ ॥

भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः ।

ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एकतर-भावेनतरस्य नियतत्वाद् एकतरेणैव ॥३५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तं भक्ति-योगं पूर्वोक्तेनाष्टाङ्ग-योगेन सहोपसंहरति, भक्ति-योगश् चेति । हे मानवि ! पुरुषं परमेश्वरम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्तीति । योगस्यापि स-बीजत्वेन भक्ति-मिश्रत्वात् साधकतमत्वम् । किन्तु साधकतम-द्वयेऽस्मिन् अनायास-सायास-कृतत्व-भेदेन यथा-क्रमं बलित्व-दुर्बलित्वावगमात् साध्ये पुरुषेऽपि आविर्भाव-भेदेन तारतम्यं ज्ञेयम् ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तं भक्ति-योगं पूर्वोक्तेनाष्टाङ्ग-योगेन सहोपसंहरति भक्तीति । पुरुषं व्रजेत् परमेश्वरं मां प्राप्नुयात्, भक्ति-योगेन चिद्-घन-मदीय-श्री-मूर्ति-साक्षात्कारः । अष्टाङ्ग-योगेन च मन्-निर्विशेष-स्वरूप-साक्षात्कार इत्य् उभयोर् एव मत्-प्राप्ति-शब्देन शास्त्रेषूक्तेः ॥३५॥

———————————————————————————————————————

॥ ३.२९.३६-३७ ॥

एतद् भगवतो रूपं ब्रह्मणः परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम् ॥

रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते ।

भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् अन्यत् पृष्टं जीवस्य संसृतीः कालस्य स्वरूपं चाचक्ष्वेति, तद् आह—एतद् इति सार्धेन । एतत् सर्व-नियन्तृ यद् भगवतो रूपम् । कीदृशम् ? प्रधान-पुरुषात्मकं परं तद्-व्यतिरिक्तं च । एतद् एव दैवम् इत्य् अभिधीयते । कीदृशम् ? कर्मणो विचेष्टितं नाना-संसृति-लक्षणं यस्मात् तत् । दैव-प्रेरित-कर्म-कृताः संसृतयो विचित्रा इत्य् अर्थः ॥३६॥

एतद् एव भगवतो रूपं काल इति चाभिधीयते । कीदृशम् ? रूप-भेदस्य वस्तूनाम् अन्यथात्वस्यास्पदम् आश्रयः कारणम् । उक्तं हि—कालाद् गुण-व्यतिकरः इति । वक्ष्यते च गुण-व्यतिकरः कालः इति । दिव्यम् अद्भुत-प्रभावम् । तद् एवाह—भूतानाम् इति यावत् समाप्ति । महद्-आदीनां तत्-तद्-अभिमानिनां जीवानाम् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं दर्शयति—एतद् इति सार्धकेन । एतद् भक्त्य्-आदि-योग-द्वय-गम्यं पुरुषाख्य-तत्त्वम् एव भगवतो ब्रह्मणः परमात्मनश् च रूपं स्वरूपं भगवद्-आदि-संज्ञं रूप-त्रयं, न ततो भिन्नम् इत्य् अर्थः । पुरुषो ह्य् अत्र वदन्ति तत् तत्त्व-विद [भा।पु। १.२.११] इत्य् अत्रोक्तम् अद्वय-ज्ञानम् एव । पूर्वम् एवाहम् इहासम् इति तत् पुरुषस्य पुरुषत्वम् इति श्रूतेः । अत्र रूप-रूपिणोर् अभेदेऽपि भेद-विवक्षा शिला-पुत्रस्य शरीरम् इतिवत् तत् तत्त्व-रूपं परं निरुपाधिकम् एव । एकस्यैव तस्य तत्त्वस्य स्वरूप-धर्म-विशेषाविर्भावानाविर्भावाभ्यां तत्-तद्-आविर्भाव-भेद इति भावः ।

तद् एवं प्राधान्येन शुद्ध-रूप-त्रयं निरूप्यान्यत् त्रयं निरूपयति । एतद् एव प्रधान-पुरुषं प्रधानोपाधिकं पुरुष-रूपम् इत्य् अर्थः । पुरि शेते पुरुष इति निरुक्तेः । प्रधानम् इति बहुत्र पाठः किन्तु स्वाम्य्-असम्मतः । अत्र परमात्मनः साक्षित्वम्, अस्य तु कर्तृत्वम् इति भेदः स्वीकृतः । भगवद्-ब्रह्मणोर् भेदश् च व्याख्यात एव । एतद् एव च पूर्वोक्तं तत्त्वं प्रकृत्य्-उपाधि-पुरुष-रूपं भगवद्-वृत्ति-भेदेन दैवं कालश् चेत्य् अभिधीयते । तत्र दैवस्य लक्षणं कर्मणो विचेष्टितं यस्मात् तद् इति । कालस्य लक्षणं रूपेति । यद् वा, तद् इदम् एतद् इत्य् अस्यैव विशेषणम् । तत्-तद्-रूपाश्रय इत्य् अर्थः । तत्र हेतुः—दिव्यम् अचिन्त्य-शक्तीत्य् अर्थः ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तयोर् एकतरेणैव पुरुषः पुरुषं व्रजेद् इति प्रब्रवीषि । न तु पुरुषो मां व्रजेद् इति ब्रूषे इत्य् अतः स पुरुष एव कः ? तत्र स्व-तर्जन्या स्व-वक्षः स्पृशन्न् आह—एतद् इति । अयम् अर्थः—यः खलु भक्तेषु भागवत् भवति ज्ञानिषु ब्रह्म-योगिषु परमात्मा तस्यैव परं यद् अप्राकृतं रूपं तद् एतद् एव, त्वत्-पुत्रोऽहम् एव परमेश्वर इत्य् अर्थः । न केवलम् एतावद् एव, किन्तु प्राकृति-पुरुष-जीवादृष्ट-कालाद्य् अपि मदीयम् एतद्-रूपम् एवेत्य् आह—प्रधानं च तत्-प्रवर्तकः पुरुषश् चेति द्वन्द्वैक्यम् । दैवं जीवादृष्टं कीदृशं कर्मभिः पुण्य-पापैर् विविधं चेष्टितं यतस् तत् ।

तथा काल इत्य् अभिधीयते, यत् तद् अपि दिव्यम् अद्भुत-प्रभावं मत्-स्वरूपम् एव रूप-भेदस्य वस्तूनाम् अन्यथा-भावस्य आस्पदम् आश्रयः कारणम् ।उक्तं हि—कालाद् गुण-व्यतिकरः इति । तया पृष्टं कालस्य लक्षणम् उक्तम् ऊ१ चेत्य् आह यतः सकाशान् महद्-आदीनां तत्-तद्-अभिमानिनां जीवानां सृष्ट्य्-आदि-मध्यान्त-भावानां भिन्न-दृशाम् अज्ञानिनां सर्वेषां भयम् ॥३७॥

———————————————————————————————————————

॥ ३.२९.३८ ॥

योऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः ।

स विष्ण्व्-आख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भय-हेतुत्वम् आह—य इति । भूतैर् एव भूतान्य् अत्ति संहरति । अधियज्ञो यज्ञ-फल-दाता । कलयतां वशी-कुर्वताम् ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भय-प्रकारम् आह—य इति । भूतैर् एव भूतान्य् अत्ति संहरति । अधियज्ञः यज्ञाधिकारित्वेन तत्-फल-दाता । कलयतां वशीकुर्वताम् अपि ॥३८॥

———————————————————————————————————————

॥ ३.२९.३९ ॥

न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।

आविशत्य् अप्रमत्तोऽसौ प्रमत्तं जनम् अन्त-कृत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यथा-योग्यातिरेकेण न द्वेष्यश् च प्रियो हरेः इति कापिलेये ॥३९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२९.४० ॥

यद्-भयाद् वाति वातोऽयं सूर्यस् तपति यद्-भयात् ।

यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भीषास्माद् वातः पवते इत्य्-आदि-श्रुति-प्रसिद्धम् एतस्य भीषणत्वम् अपि काल-रूपेणैवेत्य् आह—यद् इति षट्केन । यद्-भयात् यस्य प्रेरणात् वाति स्वल्पत्वेन बहुत्वेन दिग्-भेदेन च चलति तपति कुत्रचित् कदाचित् तापत-पूर्वकं प्रकाशयति उदयास्तमयत्वात् एवं भाति च ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्माद् विष्ण्व्-आख्यात् ॥४०॥

———————————————————————————————————————

॥ ३.२९.४१ ॥

यद् वनस्पतयो भीता लताश् चौषधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् यस्माद् भीताः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२९.४२ ॥

स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः ।

अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो भीताः सरितः स्रवन्ति । इन्धे दीप्यते सह-गिरिभिर् भूः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्रवन्ति क्वचिच् छना कलौ गङ्गा भविष्यतीति न्यायात् कदाचिन् न स्रवन्त्य् अपीतीन्धे कदाचित् कुत्रचित् अव्यक्तम् अपि तिष्ठतीति ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्धे दीप्यते सोऽग्निः । गिरिभिः सह भूर् बहु-पापात्मक-पुरुष-भारेणापि न मज्जति, किन्तु कष्टेनापि धैर्यम् एव धत्ते, अतिकष्टे तु द्वापरान्ते तया गो-रूपिण्या ब्रह्मणे स्वभाव-ज्ञापनम् इभाव् ॥४२॥

———————————————————————————————————————

॥ ३.२९.४३ ॥

नभो ददाति श्वसतां पदं यन्-नियमाद् अदः ।

लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अदो नभो यन्-नियमाद् यस्याज्ञया । महान् महत्-तत्त्वम् अङ्कुरात्मकं स्व-देहं लोकत्वेन तनुते विस्तारयति ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अदः शारीरं नभः श्वसतां देहानां पदं श्वास-क्रियाणाम् अवकाशं ददाति, मृतानां तेषां तु न ददाति, तद्-आस्पदं न भवतीत्य् अर्थः ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदो नभो यन्-नियमाद् यन्-निर्देशात् । श्वसतां जीवतां प्राणिनां श्वास-क्रियावतां पदम् अवकाशं, न तु मृतानां ददाति, महान् महत्-तत्त्वं ब्रह्मा स्व-देहं वैराजं लोकं भूर्-आदि-लोकत्वेन विस्तारयति ॥४३॥

———————————————————————————————————————

॥ ३.२९.४४ ॥

गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् ।

वर्तन्तेऽनुयुगं येषां वश एतच् चराचरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणाभिमानिनो गुण-नियन्तारो देवा ब्रह्मादयोऽस्य विश्वस्य सर्गादिषु प्रवर्तन्ते । अनु-युगं वारं वारम् इत्य् अर्थः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणाभिमानिनो ब्रह्म-धर्म-रुद्रादयः । अनुयुगं प्रतिकल्पम् ॥४४॥

———————————————————————————————————————

॥ ३.२९.४५ ॥

सोऽनन्तोऽन्त-करः कालोऽनादिर् आदि-कृद् अव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जनेन पित्रादिना जनं पुत्रादिं जनयन्न् आदिकृत् । मृत्युनान्तकम् अपि मारयन्न् अन्त-करः स्वयं त्व् अनादिर् अनन्तोऽव्ययश् च ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनेन पित्रादिना जनयन् सन्न् आदिकृत् ॥४५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

ऊनत्रिंशस् त्रितीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदूर-मैत्रेय-संवादे कापिलेये भक्ति-योगो नाम

एकोनत्रिंशोऽध्यायः ।

॥२९॥

(३.३०)

त्रिंशोऽध्यायः

देहगेहासक्तपुरुषाणां पापादघोगति-कथनम् ।

॥ ३.३०.१ ॥

कपिल उवाच—

तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् ।

काल्यमानोऽपि बलिनो वायोर् इव घनावलिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रिंशे तु कायकान्तादि- लालनाकुल-चेतसाम् ।

कामिनां तामसी पापाद् अधोगतिर् उदीर्यते ॥

काल-प्रभाव-वर्णन-पूर्वकं वैराग्याय विचित्र-कर्म-कृतां संसृतिम् अध्याय-त्रयेण प्रपञ्चयति । तस्यैतस्य बलिनः कालस्य । बलिनेति वा पाठः । काल्यमानो विचाल्यमानोऽपि । वायोर् विक्रमं यथा मेघ-पङ्क्तिर् न वेद ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बलिनेति पाठे तेन कालेनैवेति शेषः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

निर्गुणां सगुणां भक्तिं ज्ञान-योगौ च सात्त्विकौ ।

हरिः पञ्चभिर् अध्यायैर् दर्शयामास मातरम् ॥

अध्याय-त्रितयेनाथ क्रमेण किल कर्मणाम् ।

तामसीं राजसीं चापि सात्त्विकीं गतिम् ऐक्षयत् ॥

त्रिंशे तारुण्य-वृद्धत्वम् ऋति-नारक-यन्त्रणाः ।

प्राह सांसारिकाणां स्त्री-पुत्राद्य्-आकुल-चेतसाम् ॥

अथ हरि-भक्तिं विना विचित्र-कर्म-कृतां सांसारिकं दुःखम् अध्याय-त्रयेण प्रपञ्चयति । तस्य कालस्य बलिनो बलिनेति च पाठः ॥१॥

———————————————————————————————————————

॥ ३.३०.२ ॥

यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे ।

तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विक्रमम् एवाह—यं यम् अर्थं दुःखेन प्रयासेनोपादत्ते आपादयति, तं तम् अर्थं भगवान् कालो धुनोति विनाशयति । यत्-कृते यन्-निमित्तम् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् कालः ॥२॥

———————————————————————————————————————

॥ ३.३०.३ ॥

यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।

ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शोके हेतुः, यत् यस्मात् सानुबन्धस्य कलत्रादि-सहितस्य देहस्य सम्बन्धीनि गृहादीनि । वसु द्रव्यम् । अनुक्त-समुच्चयार्थश् च-कारः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोके को हेतुः । यद् यस्मात् सानुबन्धस्य कलत्रादि-सहितस्य ॥३॥

———————————————————————————————————————

॥ ३.३०.४ ॥

जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् ।

तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्मतित्वं दर्शयन् दुःखं प्रपञ्चयति—जन्तुर् इति चतुर्दशभिः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्मतित्वं दर्शयति—जन्तुर् इति ॥४॥

———————————————————————————————————————

॥ ३.३०.५ ॥

नरक-स्थोऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति ।

नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नारक्यां नरकाहारादिभिर् जातायाम् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारक्यां नरकाहार-स्त्री-सङ्गादिभिर् जातायाम् ॥५॥

———————————————————————————————————————

॥ ३.३०.६ ॥

आत्म-जाया-सुतागार-पशु-द्रविण-बन्धुषु ।

निरूढ-मूल-हृदय आत्मानं बहु मन्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरूढ-मूलं प्रसृत-मनोरथं हृदयं यस्य । बहु मन्यते कृतार्थोऽहम् इति श्लाघते ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरूढं मूलं यस्य तादृशं हृदयं यस्य सः ॥६॥

———————————————————————————————————————

॥ ३.३०.७ ॥

सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना ।

करोत्य् अविरतं मूढो दुरितानि दुराशयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्वहनाधिना पोषण-चिन्तया ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सन्दह्येति क्वचित् पाठः । नैष पुण्यारण्य-सम्मतः ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्वहनाधिना रक्षण-पोषणानुरञ्जन-विवाह-प्रदानादि-चिन्तया ॥७॥

———————————————————————————————————————

॥ ३.३०.८-९ ॥

आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया ।

रहो रचितयालापैः शिशूनां कल-भाषिणाम् ॥

गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः ।

कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुराशयत्वम् आह—आक्षिप्त आत्मा इन्द्रियाणि च यस्य । कया ? असतीनां पुंश्चलीनाम् अपि रहसि रचितया सम्भोगादि-रूपया । मधुर-भाषिणां शिशूनाम् आलापैश् च । सुखवन् मन्यत इत्य् उत्तरेणान्वयः ॥८॥ कूटाः वित्त-शाठ्यादि-बहुला धर्मा येषु दुःख-प्रधानेषु ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आक्षिप्तात्मेति युग्मकम् ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कूटाः वित्त-शाठ्यादि-बहुला धर्मा येषु दुःख-तन्त्रेषु दुःख-प्रधानेषु ॥९॥

———————————————————————————————————————

॥ ३.३०.१० ॥

अर्थैर् आपादितैर् गुर्व्या हिंसयेतस् ततश् च तान् ।

पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येषां पोषणेनाधो याति तान् पुष्णाति । शेष-भुग् इति भोगोऽपि तस्य दुर्लभ इत्य् अर्थः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शेष-भुक् तद्-भुक्तावशिष्ट-भुग् इति भोगोऽपि तस्य दुर्लभ इत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ ३.३०.११ ॥

वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः ।

लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वार्तायां जीविकायाम् । निःसत्त्वोऽशक्तः । परार्थे पर-स्वे ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वार्तायां जीविकायाम् ॥११॥

———————————————————————————————————————

॥ ३.३०.१२ ॥

कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः ।

श्रिया विहीनः कृपणो ध्यायन् छ्वसिति मूढ-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अकल्पोऽसमर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रादि-जीवनोपायं ध्यायन् ॥१२॥

———————————————————————————————————————

॥ ३.३०.१३ ॥

एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा ।

नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कीनाशः कर्षको मतः ॥१३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वं यथाद्रियन्ते तथादरं न कुर्वन्ति । कीनाशाः कृपणाः कृषीवलाः । गो-जरं वृद्धं बलीवर्दम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कीनाशः कृषीवलाः । गो-जरं वृद्ध-बलीवर्दम् ॥१३॥

———————————————————————————————————————

॥ ३.३०.१४-१५ ॥

तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयं भृतैः ।

जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे ॥

आस्तेऽवमत्योपन्यस्तं गृह-पाल इवाहरन् ।

आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारोऽल्प-चेष्टितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रियमाणः पुष्यमाणः ॥१४॥ अवमत्यावज्ञयोपन्यस्तं समीपे प्रक्षिप्तम् । गृह-पालः श्वा । आहरन् भुञ्जानः । आमयावी रोगी ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रापीति सार्धकम् ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वं भृतैः पुत्रादिभिर् भ्रियमाणं पुष्यमाणः, पोषण-प्रकारम् आह—अवमत्या अवज्ञया उपन्ञस्तं प्रक्षिप्तं गृह-पालः श्वेव आहरन् भुञ्जानः आमयावी रोगी ॥१४-१५॥

———————————————————————————————————————

॥ ३.३०.१६ ॥

वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-नाडिकः ।

कास-श्वास-कृतायासः कण्ठे घुर-घुरायते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : उत्तारम् उद्गतिं विद्यात् ॥१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तारो बहिर् निर्गत-नेत्रः । कफेन संरुद्धाः नाड्यो मार्ग-भूता यस्य । कास-श्वासाभ्यां कृत आयासो यस्य । घुर-घुर इति शब्दं करोति ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्क्रमता काशाद्य्-आधिक्येन ऊर्ध्वम् उत्तिष्ठता कफ-रुद्ध-नाडी-मार्गेण वायुना हेतुना उद्वर्तिता तारा अक्ष्णः कनीनिका यस्य सः । घुर-घुर इति शब्दं करोति ॥१६॥

———————————————————————————————————————

॥ ३.३०.१७ ॥

शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः ।

वाच्यमानोऽपि न ब्रूते काल-पाश-वशं गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिवीतः परिवेष्टितः । वाच्यमणो बन्धो तातेत्य् आहूयमानः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.३०.१८ ॥

एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः ।

म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्त-धीर् नष्ट-मतिः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.३०.१९ ॥

यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।

स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृतस्य पुण्य-पापाभ्यां द्वे गती । तत्र पाप-गतिम् आह—यम-दूताव् इत्य्-आदि यावत् समाप्ति । स-रभसं स-क्रोधम् ईक्षणं ययोस् तौ दृष्ट्वा ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृतस्य पापात्मनो गतिम् आह—यमदूताव् इति । स म्रियमाणः ॥१९॥

———————————————————————————————————————

॥ ३.३०.२० ॥

यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् ।

नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आवृत्य निरुध्य ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यातना-देहे तम् आवृत्य प्रवेशन-पूर्वकं निरुद्ध्येत्य् अर्थः । नयतः ताव् इति शेषः ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थूल-देहान् निष्काश्य यातना-मय-देहे तं प्रवेश्य आवृत्य निरुध्य तौ नयतः प्रापयतः ॥२०॥

———————————————————————————————————————

॥ ३.३०.२१-२२ ॥

तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः ।

पथि श्वभिर् भक्ष्यमाण आर्तोऽघं स्वम् अनुस्मरन् ॥

क्षुत्-तृट्-परीतोऽर्क-दवानलानिलैः

सन्तप्यमानः पथि तप्त-वालुके ।

कृच्छ्रेण पृष्ठे कशया च ताडितश्

चलत्य् अशक्तोऽपि निराश्रमोदके ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोस् तर्जनैर् निर्भिन्नं हृदयं यस्य । आर्तः संश् चलतीति द्वितीयेनान्वयः ॥२१॥ क्षुत्-तृड्भ्यां परीतो व्याप्तः । तप्ता वालुका यस्मिन् । निर्गत आश्रमो विश्राम-स्थानम् उदकं च यस्मिन् ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तयोर् इति युग्मकम् ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोस् तर्जनैः स्वम् अघं तस्यैव पापस्य फलम् इदम् अनुभवामीति स्मरन् निराश्रमोदके विश्राम-स्थल-जल-रहिते पथि ॥२१॥

———————————————————————————————————————

॥ ३.३०.२३ ॥

तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः ।

पथा पापीयसा नीतस् तरसा यम-सादनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यम-सादनं नीतो भवति ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.३०.२४ ॥

योजनानां सहस्राणि नवतिं नव चाध्वनः ।

त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रैव विशेषम् आह—अध्वनः सम्बन्धिनां योजनानां नवतिं नवसहस्राणि पापाधिक्ये द्वाभ्यां वा नीतः सन् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : योजनानाम् इति चतुष्कम् ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्वनः सम्बन्धिनां योजनानां नवतिं सहस्राणि नवत्य्-अधिकानि । पापाधिक्ये द्वाभ्याम् एव मुहूर्ताभ्यां नीतः सन् ॥२४॥

———————————————————————————————————————

॥ ३.३०.२५ ॥

आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः ।

आत्म-मांसादनं क्वापि स्व-कृत्तं परतोऽपि वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यातनाः सङ्क्षेपतो दर्शयति चतुर्भिः । आदीपनं प्रज्वलनं प्राप्नोति । स्वेन कृत्तम् अन्येन वा कृत्तं छिन्नं यत् स्वस्य मांसं तस्य भक्षणम् इत्य् अर्थः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यातना एवाह—आदीपनं प्रज्वलनम् इत्य्-आदीनां प्राप्नोतीत्य् अनेनान्वयः । स्वेन कृत्तं छिन्नं पुरतः परेण वा ॥२५॥

———————————————————————————————————————

॥ ३.३०.२६ ॥

जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने ।

सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो वैशसं पीडाम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उद्धारम् इति सम्मतः पाठः । प्राप्नोतीति योजनया पीडाम् इत्य् अपि द्वितीयान्तेन व्याख्या सामान्यत्वात् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैशसं पीडाम् ॥२६॥

———————————————————————————————————————

॥ ३.३०.२७ ॥

कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।

पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भिदापनं भेद-प्रापणम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृन्तनं कर्तनम् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भिदाया विदारणस्य आपनं प्रापणम् ॥२७॥

———————————————————————————————————————

॥ ३.३०.२८ ॥

यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः ।

भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : या यातना ताश् च भुङ्क्ते । मिथः सङ्गेनेति । पापिष्ठ-गृहस्थ-प्रसङ्गान् नर-नार्योस् तयोः पापिष्ठत्वे प्राप्तेः परस्पर-सङ्गः पापातिशय-हेतुर् इति ॥२८॥

———————————————————————————————————————

॥ ३.३०.२९ ॥

अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।

या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अत्रैवेत्य् एव-शब्दः सामीप्यार्थे—सामीप्ये च प्रधाने च एव-शब्दोऽवधारणः इति शब्द-निर्णये अत्राप्य् अस्तीत्य् अर्थः ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न चैतद् असम्भावितम् अत्रापि दृश्यमानत्वाद् इत्य् आह—अतैवेति ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चैतद् असम्भावितम् अत्रापि राज-दण्डे कासांचित् प्रत्यवयव-कृन्तनादि-यातनानां तथा स्रक्-चन्दन-वर्नितादि-सुख-भोगानां च दृशमानत्वाद् इत्य् आह—अत्रैवेति ॥२९॥

———————————————————————————————————————

॥ ३.३०.३० ॥

एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।

विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उभयं कुटुम्बं स्वं देहं च ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभयं कुटुम्बम् उदरं च । प्रेत्य मृत्वा ॥३०॥

———————————————————————————————————————

॥ ३.३०.३१ ॥

एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् ।

कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पापार्जितं धनं भुञ्जते बहवः, कर्तैन नरकं यातीत्य् आह—एक इति । भूत-द्रोहेण यद् भृतं तत् स्थूलं स्व-कलेवरम् इहैव हित्वा । कुशलाद् इतरत् पापं तद् एव पाथेयं भोग्यं यस्य ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुशलेतरत् पापम् एव पाथेयं मरण-पथ-भोग्यं यस्य सः । भूत-द्रोहेण यद् भूतं पुष्टीकृतं तत् स्थूलं कलेवरं हित्वा ॥३१॥

———————————————————————————————————————

॥ ३.३०.३२ ॥

दैवेनासादितं तस्य शमलं निरये पुमान् ।

भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पापम् अपि विहाय गच्छतु तत्राह—दैवेनेति । तस्य कुटुम्ब-पोषणस्य शमलं पापं दैवनेनेश्वरेण प्रापितं भुङ्क्ते ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैवेनेत्य् उक्तेऽपि नेश्वरस्य नैर्घृण्यम् ईश्वरस् तु पर्जन्यवद् द्रष्टव्य इति न्यायात् ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य पाप-कृतस्य कुटुम्ब-पोषस्य शमलं मालिन्यं दैव-प्रापितं कुटुम्ब-विरहित एव भुङ्क्ते हृत-वित्त इव ॥३२॥

———————————————————————————————————————

॥ ३.३०.३३ ॥

केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः ।

याति जीवोऽन्ध-तामिस्रं चरमं तमसः पदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कुटुम्ब-पोषणं विहितम् एव तत्राह—केवलेनेति । तमसो नरकस्य चरमं पदं स्थानम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमसो नरकस्य पदं स्थानम् ॥३३॥

———————————————————————————————————————

॥ ३.३०.३४ ॥

अधस्तान् नर-लोकस्य यावतीर् यातनादयः ।

क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर् मनुष्य-शरीर-प्राप्ति-प्रकारम् आह—नर-लोकस्य मनुष्य-देहस्य प्राप्तेर् अधस्ताद् अर्वाग् यावत्यो यातनाः । आदि-शब्देन श्व-सूकरादि-योनयश् च यास्ताः सर्वाः क्रमेण संप्राप्य भोगेन क्षीण-पापः शुचिः सन्न् अत्र पुनर् नरत्वं प्राप्नोतीत्य् अर्थः ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यावत्यो यातनाः । यावच्-छब्देन श्वशूकरादि-योनयो यास् ताः क्रमेण प्राप्य भोगेन क्षीण-पापः शुचिः सन् पुनर् नरत्वं प्राप्नुयात् ॥३४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रिंशोऽत्र तृतीये सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कापिलेये कर्म-विपाको नाम

त्रिंशोऽध्यायः ।

॥ ३.३० ॥

(३.३१)

एकत्रिंशोऽध्यायः

मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता भगवत्स्तुतिः, जीवस्य बाल्याद्यवस्थाक्लेशवर्णनं च ।

॥ ३.३१.१ ॥

श्री-भगवान् उवाच—

कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एकत्रिंशे विमिश्रैस् तु पुण्य-पापैर् इहान्तरा

मनुष्य-योनि-संप्राप्तिर् वर्ण्यते राजसी गतिः

पुनर् अत्राव्रजेत् [भा।पु। ३.३०.३४] इत्य् उक्तं तद् एव विशेषतो दर्शयति । कर्मणा पूर्व-कृतेन । दैवम् ईश्वरस् तद् एव नेत्रं नेतृ प्रवर्तकं यस्य । प्रविष्टो भवति ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकत्रिंशे गर्भ-जन्म-बाल्य-पौगण्ड-यातनाः ।

ब्रुवाणेनैव जीवस्य भक्तिर् गर्भेऽपि दर्श्यते ॥

पुनर् अत्राव्रजेत्[भा।पु। ३.३०.३४] इत्य् उक्तं तत्-प्रकारं दर्शयति—कर्मणा प्राचीनेन दैवम् ईश्वरस् तद् एव नेत्रं नेतृ-प्रवर्तकं यस्य तेन । प्रविष्टो भवति ॥१॥

———————————————————————————————————————

॥ ३.३१.२ ॥

कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् ।

दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नाना-विधा गर्भ-वृद्धिः कर्म-भेदाद् भविष्यति ।

अतो नाना-विधं ग्रन्थे गर्भ-संस्थानम् उच्यते ॥ इति षाड्गुण्ये ॥२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कललं शुक्र-शोणित-मिश्रितं भवति । बुद्बुदं वर्तुलाकारम् । कर्कन्धूर् बदरी-फलं तदाकारं कठिनम् । पेशी मांस-पिण्डाकारम् । अण्डं वा योन्य्-अन्तरे ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कललम् इति । अत्रं निरुक्तम् उदाहार्यम् ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कललं शुक्र-शोणित-मिश्रितं भवति । बुद्बुदं बुद्बुदाकारम् । कर्कन्धूर् बदरी-फलाकारम् । कठिनं पेशी मांस-पिण्डं जरायु-प्रकृतिः । अण्डं पक्ष्य्-आदि-योनिषु।२॥

———————————————————————————————————————

॥ ३.३१.३ ॥

मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः ।

नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बाह्व्-अङ्घ्र्य्-आदीनाम् अङ्गानां विग्रहो विभागः । लिङ्गं च छिद्राणि च तेषाम् उद्भवः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वाभ्यां मासाभ्यां विग्रहो विभागः ॥३॥

———————————————————————————————————————

॥ ३.३१.४ ॥

चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः ।

षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जरायुणा गर्भ-वेष्टनेन वीतः प्रावृतः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दक्षिणं कुक्षणं कुक्षाव् इति । पुरुषम् अधिकृत्योक्तत्वात् पुं-गर्भो दक्षिणे स्त्री-गर्भो वामे भवतीति प्रसिद्धिः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जरायुणा गर्भ-वेष्टनेन वीतः प्रावृतः । दक्षिणे कुक्षाव् इति । पुरुषम् अधिकृतोक्तत्वात् । पुं-गर्भो दक्षिणे स्त्री-गर्भो वाम इति प्रसिद्धः ॥४॥

———————————————————————————————————————

॥ ३.३१.५ ॥

मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते ।

शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मातुर् जग्धेन भक्षितेनान्नेन पानाद्यैश् चैधमाना धातवो यस्य । जन्तूनां संभवो यस्मिंस् तस्मिन्न् असंमते गर्ते शेते । तथा च मार्कण्डेय-पुराणे—

नाडी चाप्यायनी नाम नाभ्यां तस्य विबध्यते ।

स्त्रीणां तथान्त्र-सुषिरे सा निबद्धोपजायते ॥

क्रमन्ते भुक्त-पीतानि स्त्रीणां गर्भोदरे तथा ।

तैर् आप्यायित-देहोऽसौ जन्तुर् वृद्धिम् उपैति वै ॥ इति ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एधद्-धातुर् इति ।

नाडी चाप्यायनी नाम नाभ्यां तस्य निबध्यते ।

स्त्रीणां तथान्त्र-शुषिरे सा निबद्धोपजायते ॥

क्रमन्ते भुक्त-पीतानि स्त्रीणां गर्भोदरे तथा ।

तरि आप्यायित-देहोऽसौ जन्तुर् बुद्धिम् उपैति च ॥ इति मार्कण्डेय-पुराणात् ॥५॥

———————————————————————————————————————

॥ ३.३१.६ ॥

कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् ।

मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रत्यैः कृमिभिः खादद्भिः । सौकुमार्यात् कोमलत्वेन क्षतानि सर्वाङ्गाणि यस्य ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.३१.७-८ ॥

कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः ।

मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः ॥

उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः ।

अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उल्बणैर् दुःसहैः । सर्वेष्व् अङ्गेषूत्थिता वेदना यस्य । आस्ते इत्य् उत्तरेणान्वयः ।

उल्बेन जरायुणा । भुग्नं कुटिली-भूतं पृष्ठं शिरो-धरा ग्रीवा च यस्य ॥७-८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उल्बणैः दुःसहैः । उल्बेन जरायुणा । कुटिलीभूत-पृष्ठ-ग्रीव आस्ते । शकुन्तः पक्षी ॥७-८॥

———————————————————————————————————————

॥ ३.३१.९ ॥

तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् ।

स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दैवात् पूर्व-अर्म-वशात् । लब्धा स्मृतिर् येन सः । दीर्घं दुरन्तम् अनुच्छ्वासं यथा भवति तथा तत्र स्थितः सन् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दीर्घं चिर-कालं व्याप्य अनुच्छ्वासं यथा भवति तथा स्मरन् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवात् पूर्व-कर्म-वशात् दीर्घं चिर-कालं व्याप्य अनुच्छ्वासं यथा भवत्य् एवं स्मरन् ॥९॥

———————————————————————————————————————

॥ ३.३१.१० ॥

आरभ्य सप्तमान् मासाल् लब्ध-बोधोऽपि वेपितः ।

नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूति-हेतुभिर् वातैर् वेपितः । सोदरः समानोदर-जन्मा विष्ठा-भूः कृमिर् इवेति ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वेपितश् चालितः सन्न् एकत्र नास्ते स्थातुं न शक्नोति ॥१०॥

———————————————————————————————————————

॥ ३.३१.११ ॥

नाथमान ऋषिर् भीतः सप्त-वध्रिः कृताञ्जलिः ।

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वध्रयस् त्व् इन्द्रियाण्य् आहुर् हृषीकाणीति चोच्यते इति शब्द-निर्णये ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाथमानो याचमान उपतप्यमान इति वा ऋषिर् देहात्म-दर्शी । भीतः पुनर् गर्भ-वासात् । सप्त-वध्रयो बन्धन-भूता धातवो यस्य सः । विक्लवया व्याकुलया ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नाथमान इति । तात्पर्यं, यथा—सकृद्-भजनेनैव सर्वम् अप्य् आयुः सफलम् इत्य् उदाहृतम् एव श्री-शौनक-वाक्येन—आयुर् हरति वै पुंसां [भा।पु। २.३.१७]इत्य्-आदि-ग्रन्थेन । एव भक्त्याभासेनाप्य् अजामिलादौ पाप-घ्नत्वं दृश्यते । तथा सर्व-कर्मादि-ध्वंस-पूर्वक-परम-गति-प्राप्तौ स्वल्पायासेनैव भक्तेः कारणत्वं श्रूयते । लघु-भागवते—

वर्तमानं च यत् पापं यद् गतं यद् भविष्यति ।

तत् सर्वं निर्दहत्य् आशु गोविन्दानल37-कीर्तनात् ॥ इति ।

तथैव च तत्र यथा-कथञ्चित् तद्-भक्ति-सम्बन्धस्य कारणत्वं दृश्यते । ब्रह्म-वैवर्ते—

स समाराधितो देवो मुक्तिकृत् स्याद् यथा तथा ।

अनिच्छयापि हुत-भुक् संस्पृष्टो38 दहति द्विज ॥ इति ।

स्कान्दे उमा-महेश्वर-संवादे—

दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै ।

किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नराः ॥ इति ।

बृहन्-नारदीये—

अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते ।

न तेषां भव-बन्धस् तु कदाचिद् अपि जायते ॥ [ना।प। ३६.५८]

पाद्मे देव-द्युति-स्तुतौ—

सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः ।

शुद्धान्तः-करणो भूत्वा निर्वाणम् अधिगच्छति ॥ इति ।

इतिहास-समुच्चये श्री-नारद-पुण्डरीक-संवादे—

ये नृशंसा दुराचाराः पापाचार-रताः सदा ।

तेऽपि यान्ति परं धाम नारायण-पदाश्रयाः ॥

लिप्यन्ते न च पापेन वैष्णवा वीत-कल्मषाः ।

पुनन्ति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥ इति ।

अत एव गारुड-वचनम्—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।

अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥ इति ।

श्री-रामायणे श्री-रामचन्द्र-वचनम्—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।

अभयं सर्व-भूताय ददाम्य् एतद् व्रतं हरेः ॥ इति ।

अत एवोक्तं श्री-विष्णु-धर्मोत्तरे—

जीवितं विष्णु-भक्तस्य वरं पञ्च दिनानि वै ।

न तु कल्प-सहस्राणि भक्ति-हीनस्य केशवे ॥ इति ।

आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन्[भा।पु। १.१.१४] इत्य्-आदि-शौनक-वचनम् । न हि भगवन्न् अघटितम् इदं [भा।पु। ६.१६.४४] इत्य्-आदि-चित्रकेतु-वचनम् ।

अतो यद् अत्र गर्भ-स्थस्य जीवस्य भगवत्-स्तुतिः श्रूयते, तस्यैव संसारोऽपि वर्ण्यते । तत्रोच्यते जात्य्-एकत्वेनैकवद्-वर्णनम् इति । वस्तुतस् तु कश्चिद् एव जीवो भाग्यवान् स्तौति स च निस्तरत्य् अपि । न तु सर्वस्यापि भगवज्-ज्ञानं भवति । तथा चेति नैरुक्त-मते च त्रिविधा जना लभ्यन्ते—एके पूर्व-पूर्व-जन्म-मात्रं स्मरन्ति । एके साङ्ख्य-योगादिकम् अभ्यस्यन्ति । एके तु परम-पुरुषम् इति । यथोक्तं तत्रैव—नवमे सर्वाङ्ग-सम्पूर्णोभवति [नि। १३.१९] इति पठित्वा, मृतश् चाहं पुनर् जातो जातश् चाहं पुनर् मृतः इत्य्-आदि तद्-भावना-पाठान्तरं—

अवाङ्-मुखः पीड्यमानो जन्तुश् चैव39 समन्वितः ।

साङ्ख्य-योगं समभ्यसेत् पुरुषं वा पञ्चविंशकम् ॥

ततश् च दशमे मासि प्रजायते इत्य्-आदि ।

अत्र पुरुषं वेति वा-शब्दात् कस्यचिद् एव भगवज्-ज्ञानम् इति गम्यते । सर्वास्व् अप्य् अवस्थासु भक्तेः समर्थत्वं च वर्णितम् ।

भेदेऽप्य् एकवद्-वर्णनम् अन्यत्रापि दृश्यते । तृतीये यथा पाद-कल्प-सृष्टि-कथनेऽपि सनकादीनां ब्राह्म-कल्प-सृष्टानां सृष्टि-वर्णनम् । टीकायां च ब्रह्म-कृत-सृष्टि-मात्र-कथन-साम्येनैकीकृत्योक्तिर् इयम् इति योजितं, श्री-वराहावतारवच् च । तत्र प्रथम-मन्वन्तरस्यादौ पृथिवी-मज्जने ब्रह्म-नासिकातोऽवतीर्णः श्री-वराहस् ताम् उद्धरन् हिरण्याक्षेण संग्रामं कृतवान् इति वर्ण्यते । हिरण्याक्षश् च षष्ठ-मन्वन्तरावसान-जात-प्राचेतस-दक्ष-कन्याया दितेर् जातः । तस्मात् तथा-वर्णनं तद्-अवतार-मात्रत्व-पृथिवी-मज्जन-मात्रत्वैक्य-विवक्षयैव घटते तद्वद् अत्रापीति । कश्चिद् एवान्यो जीवः स्तौत्य् अन्यः संसरतीत्य् एव मन्तव्यम् ।

अत्र पूर्ववत् परम-गति-प्राप्तौ भक्तेः परम्पराकारणत्वं च दृश्यते । बृहन्-नारदीये ध्वजारोपण-माहात्म्ये—

यतीनां विष्णु-भक्तानां परिचर्या-परायणैः40

ईक्षिता अपि गच्छन्ति पापिनोऽपि परां गतिम् ॥ [ना।पु। १.२०.७३] इति ।

एवं श्री-विष्णु-धर्मे—

कुलानां शतम् आगामि समतीतं तथा शतम् ।

कारयन् भगवद्-धाम नयत्य् अच्युत-लोकताम् ॥

ये भविष्यन्ति येऽतीता आकल्पात् पुरुषाः कुले ।

तांस् तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥ इति ।

दूतान् प्रति यमाज्ञा चेयम्—

येनार्चा भगवद्-भक्त्या वासुदेवस्य कारिता ।

नवायुतं तत्-कुलजं भवतां शासनातिगम् ॥ इति ।

यथाह—

त्रिः-सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।

यत् साधोऽस्य कुले जातो भवान् वै कुल-पावनः ॥ [भा।पु। ७.१०.१८]

त्रिः-सप्तभिः प्राचीन-कल्पागत-तदीय-पूर्व-जन्म-सम्बन्धिभिः पितृभिः सह, अस्मिन् जन्मनि तु हिरण्यकशिपु-कश्यप-मरीचि-ब्रह्माण एव तत्-पितर इति । [अवतारिकारम्भे तद्वद् अत्रापीति कश्चिद् एवान्यो जीवः स्तौत्य् अन्यः संसरतीत्य् एवम् उन्नेयम् इति क्वचिद् अधिक-पाठः ।]स्तुवीतेति लिङ्-प्रत्ययः, स च सम्भावनाम् एव स्पष्टयति ॥ [भक्ति-सन्दर्भ १४९-१५१]

ततश् चायम् अर्थः—ऋषिस् तत्र कोऽपि । अकस्मात् प्राचीन-महत्-सङ्ग-जनित-भाग्य-वशात् श्री-भगवद्-दर्शी यदि स्यात्, तदा स्तौत्य् अपीति ।41 अत एव तादृश-भाग्य-युक्तम् अतीतम् एकं जीवं लक्ष्यीकृत्य जीव उवाचेत्य् एकत्व-लिट्-प्रत्ययाभ्यां निर्देशः । जीव-काल-सामान्य-विवक्षायां तु जीवो वदतीत्य् एव युज्यते ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाथमानः भगवत्-कृपा मयि भूयाद् इति स्वस्मिन्न् आशिषं कुर्वन् ऋषिर् आत्म-दर्शी भीतः संसारात् सप्त-वध्रयो बन्धन-भूता धातवो यस्य सः । विक्लवया व्याकुलया तं स्तुवीतेति गर्भे विध्य्-आदेः सम्भवाभावात्, हेतु-हेतुमतोर् लिङ् इति फले लिङ् । ततश् च यो भगवन्तं भजेत, स तं गर्भेऽपि स्तुवीतेत्य् अन्यो जीवस् तु न स्तुवीतेत्य् अर्थो लभ्यते । तस्यैवास्तवान् अस्य जीवस्याग्रे संसारो वर्णयिष्यते वर्णितश् च, न तु भगवन्तं स्तुवानस्यापि।

अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते ।

न तेषां भव-बन्धस् तु कदाचिद् अपि जायते ॥ [ना।प। ३६.५८] इति ।

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।

अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥ इत्य्-आदि ।

परः-सहस्र-वचन-विरोधात् । अत एव शेते विण्-मूत्रयोर् गर्त इति मूर्च्छानाप्नोत्य् उरु-क्लेश इत्य् आस्ते कृत्वा शिर इत्य्-आदिवद् दश-मास्यो जीवो हरिं स्तौतीति वर्तमान-प्रयोगो न कृतः, किन्तु जीव उवाचेति भूत-काल-प्रयोग एव । तेन च पूर्व-काल-भवः कश्चिद् भक्तो जीव एवं गर्भे हरिं स्तुवान आसीत्, न तु सर्व इत्य् अर्थो ज्ञापितः ।

अत एव नैरुक्ता अपि पठन्ति—नवमे सर्वाङ्ग-सम्पूर्णोभवति [नि। १३.१९] इति पठित्वा, मृतश् चाहं पुनर् जातो जातश् चाहं पुनर् मृतः इत्य्-आदि तद्-भावना-पाठान्तरं—

अवाङ्-मुखः पीड्यमानो जन्तुश् चैव42 समन्वितः ।

साङ्ख्य-योगं समभ्यसेत् पुरुषं वा पञ्चविंशकम् ॥

ततश् च दशमे मासि प्रजायते इत्य्-आदि ।

पुरुषं वा इति गर्भोपनिषद्-वाक्यं, अत्र वा-शब्द-बलात् कश्चिद् कर्मी जीवो मृतश् चाहं पुनर् जात इत्य्-आदि-पूर्व-पूर्व-जन्म-मात्रं स्मरति । कश्चिज् ज्ञानी साङ्ख्यं, कश्चिद् योगी योगं, कश्चिद् भक्तश् चतुर्विंश-प्रधानात् परं पञ्चविंशं पुरुषं परमेश्वरं, अभ्यसेद् भजेद् इति पूर्वाभ्यस्तम् एव गर्भे स्फुरेद् इति युक्तेः ॥११॥

———————————————————————————————————————

॥ ३.३१.१२ ॥

जन्तुर् उवाच—

तस्योपसन्नम् अवितुं जगद् इच्छयात्त-

नाना-तनोर् भुवि चलच्-चरणारविन्दम् ।

सोऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे

येनेदृशी गतिर् अदर्श्य् असतो\ऽनुरूपा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसन्नं जगद् रक्षितुं स्वेच्छया गृहीत-नाना-मूर्तेर् भगवतश् चरणारविन्दम् अकुतो-भयं सोऽहं शरणं व्रजामि । भुवि चलद् इति श्री-कृष्णावताराभिप्रायेण । असतो मेऽनुरूपा योग्या येन ईद्ऋशी गर्भ-वास-लक्षणा गतिर् दर्शिता**,** तस्य ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भुवि चलद् इति । नूनं तदानीं श्री-कृष्णावताराद् अत्र लिङ्गं गृहीत-नाना-तनोर् इति, तस्यैव सर्वावतारित्वात् । श्री-कपिलोक्तिश् चेयं पूर्व-कल्प-गत-तद्-अवतारापेक्षया असतः परमापद्भिर् नश्यतो मम येन अनुरूपा तद्-उद्धरण-क्षमा ईदृशी स्व-स्फूर्ति-लक्षणा गतिः चित्त-वृत्तिर् अदर्शि प्रकाशिता । यद् व, मम दुष्टस्य योग्या ईदृशी दुःखात्मिकावस्था येन कृपा-दृष्टि-विषयी-कृता । अन्यथेयं तत्-स्फूर्तिर् न स्याद् एवेति भावः ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भुवि चलद् इति श्री-कृष्णावताराभिप्रायेण इति स्वामि-चरणाः । अत्र लिङ्गं गृहीत-नाना-तनोर् इति तस्यैव सर्वावतारित्वात् । कपिलोक्तिश् चेयं पूर्व-कल्प-गत-तद्-अवतारापेक्षया इति सन्दर्भः । ईदृशी गर्भ-दुःखोदधि-निवास-लक्षणा गतिः असाधोर् मम समुचितैव अदर्शि दर्शिता । यद् वा, अदर्शि कृपा-दृष्टि-विषयी-कृता अन्यथा इयं तदीय-स्फूर्तिर् ममाति-पापिष्ठस्य न सम्भवेद् इति भावः ॥१२॥

———————————————————————————————————————

॥ ३.३१.१३ ॥

यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा

भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् ।

आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम्

आतप्यमान-हृदयेऽवसितं नमामि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कोऽसौ यं शरणं व्रजसि ? को वा तव तस्य च विशेषो येन सेव्य-सेवकत्वम्? इत्य् अपेक्षायाम् आह । अत्र मातुर् देहे भूतेन्द्रियाशय-मयीं देहाकार-परिणतां मायाम् अवलम्ब्यआश्रित्य कर्मभिर् आवृत-स्वरूप इव बद्ध इव च य आस्ते**,** सोऽहम् । यस् त्व् अत्रैवास्ते तं नमामि । कथम्भूतम् ? इत्य् अपेक्षायां तु-शब्दोक्तं विशेषं दर्शयति । आतप्यमाने हृदयेऽवसितं प्रतीतम् एवम् अप्य् अविकारम् । कुतः ? विशुद्धं निरुपाधिम् । तत् कुतः ? अखण्डो बोधो यस्य तम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आतप्यमाने स्व-हृदये स्थितस्याप्य् अस्फुरतस् तस्य ताम् एवाकस्मिकीं स्फूर्तिं दर्शयति—यस् त्व् इति । अत्र मद्-विध-जीव-शरीरे तत्-सह-स्थायित्वात् तत्-कर्मभिर् बद्ध इव । तस्मिन्न् अस्फूर्तेस् तैर् आवृतात्मेव च यस् त्व् आस्ते, न त्व् अहम् इव निबद्ध एवेति तु-शब्दार्थः । किं कृत्वा ? मायाम् अवलम्ब्य प्रवर्त्य । अतो माया-प्रवर्तके तस्मिन् न कर्म-बन्धादिकं, किन्त्व् अविवेकिनां प्रतीति-दोष एव स इति भावः । वस्तुतस् तु विशुद्धम् इत्य्-आदि । अवसितम् अनुभूतम् । यद् वा, अत्रेति भूरीत्य् अर्थः । अवतार-समये तथा तथानुकरणात् । तद् उक्तं—कृष्णम् एनम् अवेहि [भा।पु। १०.१४.५५] इत्य्-आदि ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य स्व-प्रभोर् अद्भुतां लीलां कृपालुतां च स्मरन् साश्चर्यम् आह । यः खल्व् अत्र अस्मद्-विध-दुर्जीवानां नाना-दुःख-मय-प्रतिशरीर एवास्ते किम् अस्मान् पालयितुम्, किं वा स्वैर-लीलत्वेनेति न विद्म इति भावः । तम् अहं नमामि इत्य् अन्वयः । अहं स्व-दुष्कृत-फलं भुञ्जानः कर्म-बन्धो यद् अत्रास्मि, तद् उचितम् एव । स कथम् अत्र दुर्गन्धे महा-नरके अन्तर्यामित्वेनापि तिष्ठति ? इत्य् आह—कर्मभिर् बद्ध इव, न तु बद्धः । वृन्दावन-भुवि चलच्-चरणारविन्दत्वात् आवृतात्मा अहं यथा तथैव देहेनावृत-स्वरूप इव, न त्व् आवृतः, उक्त-युक्तेर् एव । किं कृत्वा ? भूतादि-मयीं मायां स्व-शक्तिम् अवलम्ब्य प्रवर्त्य ।

नन्व् एवं तर्हि तस्मिन् मायावलम्बान् मालिन्यं विकारश् च प्रसज्जेतेति । अत आह—विशुद्धं निर्विकारं च । तत्र हेतुः—अखण्ड-बोधं मज्-ज्ञानम् इव यस्य ज्ञानं मायया खण्डयितुम् अशक्यम् इत्य् अर्थः ।

ननु कथम् इदम् अवगतं त्वया ? इत्य् अत आह—समन्तात् तप्यमानेऽत्र हृदये स्थित्वा येन मह्यम् अप्य् एवं ज्ञानं दत्तं तस्य ज्ञानं कथं खण्डितं भवेद् इति ॥१३॥

———————————————————————————————————————

॥ ३.३१.१४ ॥

यः पञ्च-भूत-रचिते रहितः शरीरे

च्छन्नो\ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मकोऽहम् ।

तेनाविकुण्ठ43-महिमानम् ऋषिं तम् एनं

वन्दे परं प्रकृति-पूरुषयोः पुमांसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्वम् अपि वस्तुतः शुद्ध एव असङ्गो ह्य् अयं पुरुषः इत्य्-आदि-श्रुतेः । तत् कथं युवयोर् अयं विशेषः ? तत्राह—यः पञ्चभिर् भूतै रचिते शरीरे अयथा मिथ्यैव छन्नः, न वस्तुतः । यतस् तेन शरीरेण रहितोऽसङ्गोऽतो\ऽयथैवेन्द्रिय-गुणार्थ-चिद्-आत्मकः इन्द्रियाणि च गुणाश् च अर्थाश् च चिद्-आभासश् च तद्-आत्मकः सोऽहं तं वन्दे । कथं-भूतम्? तेन शरीरेण अविकुण्ठो महिमा यस्य तम् । अवगुण्ठेति पाठेऽवसन्नं गुण्ठनम् आवरणं यस्य स महिमा यस्येत्य् अर्थः । तत्र हेतुः—प्रकृति-पुरुषयोः परं नियन्तारम् । कुतः ? ऋषिं सर्व-ज्ञं विद्या-शक्तिम् इत्य् अर्थः । विद्याविद्या-कृतो विशेष इति भावः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं बन्धाबन्धादिकं योजयति—य इति । शरीरे यथाहं छन्नस् तथान्तर्यामितया तत्-प्रवेशात् यस् तत्र छन्नोऽपि रहितस् तत्-स्पर्श-शून्यः । तत्र स्वस्य तत्-स्पर्शे हेतुः—इन्द्रियेति । तस्य तु तद्-अस्पर्शेन विशेषम् आह—तेनेति । शरीरेन्द्रियादि-स्पर्श-शून्यत्वेनाविकुण्ठेत्य्-आदि । यतः प्रकृति-पुरुषयोः परम् अविद्या-स्पर्शास्पर्श-योग्य-स्वरूप-वैलक्षण्याद् आवयोर् इति भावः ।

यद् वा, य इन्द्रिय-गुणार्थ-चिद्-आत्मको लिङ्ग-शरीराध्यस्त-चिद्-रूपो यथा येन निजेश्वराज्ञानादि-प्रकारेण पञ्च-भूत-रचिते शरीरे च्छन्नः, तेन चावृतः, तथा तेनैव प्रकारेण सोऽहं तेन पूर्वोक्तेन निजेश्वरेण रहितः, तस्माद् विमुखतां प्राप्तः, तम् एनम् अकस्मान् मनस्य् आविर्भवन्तं वन्दे, महा-करुणा-मयतया स्तौमि । तत्र तस्य महिम-कीर्तने स्वायोग्यतां दर्शयति—अविकुण्ठेत्य्-आदिना ।

ऋषिं ब्रह्मादीनाम् अपि गुरुं प्रकृतेस् तद्-द्रष्टुर् महा-पुरुषस्यपरं परम-तत्त्वं तं नराकारं शृई-कृष्णाख्यं स्वयम्-भगवन्तम् इत्य् अर्थः ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं चेत् स कथम् अत्र शरीरे तिष्ठेत् तत्राह—यः शरीरेऽत्र रहितः इन्द्रियाणि गुणाश् च अर्थाश् च तेष्व् एव चिच् चैतन्यं यस्य तथा-भूत आत्मा स्वरूपं यस्य सोऽहं यथात्र शरीरे च्छन्न एव, तथा योऽत्र रहितः स्थितोऽप्य् अस्थित एवेत्य् अर्थः । तेन हेतुना न विशेषेण कुण्ठो महिमा यस्य तम् । तेनावगुण्ठेति पाठे भागुरि-मतेऽकार-लोपेनात्र समासे अवगुण्ठ-महिमानम् अनावृतैश्वर्यम् । प्रकृतेस् तद्-द्रष्टुर् महा-पुरुषस्य च परं**,** ताभ्यां पर-तत्त्वं पुमांसं श्री-कृष्णम् ॥१४॥

———————————————————————————————————————

॥ ३.३१.१५ ॥

यन्-माययोरु-गुण-कर्म-निबन्धनेऽस्मिन्

सांसारिके पथि चरंस् तद्-अभिश्रमेण ।

नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं

युक्त्या कया महद्-अनुग्रहम् अन्तरेण ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ज्ञानेनायं बन्धो निवर्तिष्यते किं परमेश्वर-वन्दनेन ? तत्राह—यस्य मायया नष्ट-स्मृतिः सन्, संसार-संबन्धिनि पथि तद्-अभिश्रमेण तत्-कृतेन क्लेशेन चरन्न् अयं जीवो महतस् तस्यैवेश्वरस्य अनुग्रहं विना पुनः कया युक्त्या लोकं निज-स्वरूपं प्रवृणीत संभजेत ? अभिश्रम-हेतुत्वेन पन्थानं विशिनष्टि—उरूणि गुण-निमित्तानि कर्माणि नितरां बन्धनानि यस्मिन् । ईश्वरस्य प्रसादं विना ज्ञानाभावात् स एव सेव्य इत्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नान्वितो निःसृत्य भजनं कुरु इत्य् आशङ्क्य तस्य दुर्लभताम् आह—यद् इति । यस्य माययेत्य्-आदि तं लोकं स्वाश्रयं त्वां पुनस् तत्-प्राप्ति-कारणं महद्-अनुग्रह एव तावद् दुर्लभ इति भावः ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् ईदृशी भक्तिस् त्वया कथं प्राप्ता ? इति तत्र भक्तेः प्राप्ति-कारणं महद्-अनुग्रह एवेत्य् आह—यद् इति । तद्-अभिश्रमेण तत्-पथ-पर्यटन-श्रमेण हेतुना नष्ट-स्मृतिर् अयं मल्-लक्षणो जनः महद्-अनुग्रहं विना कया युक्त्या लोकं भगवतो धाम प्रवृणीत स्वाभीप्सित-वरत्वेन वृणुयात्, अपि तु न कयापीति । अतः पूर्व-जन्मनि कृष्ण-भक्तस्य कस्यचिन् मद्-गुरोः प्रसाद-विलसितम् एवैतन् मे कृष्ण-भजनम् इति भावः ॥१५॥

———————————————————————————————————————

॥ ३.३१.१६ ॥

ज्ञानं यद् एतद् अदधात् कतमः स देवस्

त्रैकालिकं स्थिर-चरेष्व् अनुवर्तितांशः ।

तं जीव-कर्म-पदवीम् अनुवर्तमानास्

ताप-त्रयोपशमनाय वयं भजेम ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कतमः सुखतमः ॥१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वर एव ज्ञानद इत्य् उपपादयन्न् आह—यद् एतत् त्रि-काल-विषयं ज्ञानं तत्त्वं विना कतमो मय्य् अदधात्? न कोऽपि । किन्तु स देव ईश्वर एव । नन्व् अन्यः प्रकृष्टो जीवो दधातु ? नेत्य् आह—जीव-रूपां कर्म-पदवीम् अनुवर्तमाना वयम् इति तद्-व्यतिरेकेण न कोऽपि समर्थ इत्य् अर्थः । अन्यस्यात्रासंभवम् उक्त्वा तस्य संभवम् आह—स्थिरेषु चरेषु चान्तर्यामि-रूपोऽनुवर्तितो**\ऽं**शो येन, तं भजेन ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् प्राचीन-महद्-अनुग्रहादरेण प्रकटितात्म-ज्ञानं तम् एवाविस्मृतये सम्प्रति प्रपन्ना इत्य् आह—ज्ञानम् इति । बहुत्वं स्व-साधारण-जीवान्तर-सद्-भावनया । त्रैकालिकं नित्य-रूपं तम् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तं परमेश्वरं केन प्रमाणेन ज्ञात्वा भजसि ? इति तत्रानुमानेनैवेत्य् आह—ज्ञानं यद् एतत् मय्य् अधमेऽपि अदधात् धारयामास अर्पयति स्मेत्य् अर्थः । स कतमो देवो भवेत् ? देवेषु मध्ये कश्चिन् मुख्यो भवेद् इति यज् ज्ञानान्यथानुपपत्त्या एवानुमीयमानं त्रैकालिकं भूत-भविष्यद्-वर्तमान-कालेषु विराजमानं स्थिर-चरेष्व् अनुवर्तितोऽन्तर्यामि-रूपोऽंशो येन तम् । जीव-सम्बन्धिनीं कर्म-पदवीम् ॥१६॥

———————————————————————————————————————

॥ ३.३१.१७ ॥

देह्य् अन्य-देह-विवरे जठराग्निनासृग्-

विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः ।

इच्छन्न् इतो विवसितुं गणयन् स्व-मासान्

निर्वास्यते कृपण-धीर् भगवन् कदा नु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-दुःखं विज्ञापयन्न् आह—देहीति । अन्य-देह-विवरे मातुर् उदर-कुहरे योऽसृग्-विण्-मूत्र-कूपस् तस्मिन् पतितस् तत्र जठराग्निना भृशं तप्तो देहो यस्य । अत एव कृपण-धीरितो विवराद् विवसितुं निर्गन्तुम् इच्छन् स्व-मासान् गणयन्न् असौ कदा नु अहो बहिर् निर्वास्यते ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे प्रभो ! मम दुःखं सुखं त्वच्-चरण-प्राप्तिश् चेत्य् एतत् सर्वं त्वद्-अधीनम् इत्य् अहम् अतिबाल्याद् अतितारुण्याच् च किम् अपि पृच्छामीत्य् उद्देशेनैव भगवन्तम् आह—अहं देही अन्य-देह-विवरे मातुर् उदर-कुहरे, अत इतो विवरात् विवसितुं वियुक्ती-भवितुम् इच्छन् स्व-मासान् अयम् अष्टमोऽयं दशम इत्य् एवं गणयन् कृपण-धीः स्वीय-दुःख-सुख-दत्त-दृष्टित्वात् कुबुद्धिर् मल्-लक्षणोऽयं जनः कदा निर्वास्यते, बहिर् निष्क्रामयिष्यते भवतेत्य् अत्र तस्य कष्टस्य सोढुम् अशक्यत्वाद् बहिर् एव तत्र त्वां भजेयेति भावः ॥१७॥

———————————————————————————————————————

॥ ३.३१.१८ ॥

येनेदृशीं गतिम् असौ दश-मास्य ईश

सङ्ग्राहितः पुरु-दयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीन-नाथः

को नाम तत्-प्रति विनाञ्जलिम् अस्य कुर्यात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् कृतम् उपकारं स्मरन्न् आह—येनेदृशीं गतिं ज्ञानम् । भवादृश्एन इति निरुपमेनेत्य् अर्थः । स्व-कृतेनैव स्वयं तुष्यतु । अञ्जलि-मात्रं विना तत्-कृतोपकारे प्रत्युपकारं कः कुर्यात् ? इत्य् अर्थः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इदृशीं त्वद्-भक्ति-लक्षणां गतिम् अवस्थाम् । भवतेत्य् अध्याहारात् भवत्-तुल्येन भवतेति निरुपमत्वं व्यञ्जितम् । स्व-कृतेनैव स्वयं तुष्यत्व् इति दुर्गततमोऽयं यदि सकृन्मयानुगृहीतः, तर्हि कथं त्यजेत ? इति विचार्येत्य् अर्थः ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु "तर्हि कदा निर्वास्यते ?"इति माम् उक्त्वा मयि सम्प्रत्य् अपि त्वाम् इतो बहिर् निष्क्रमयेति निर्दयत्वम् एव किं प्रसञ्जयसीति तत्र स-लज्जं स-शङ्कं स-रसनाद् अंशं सात्म-धिक्कारम् आह—येनेदृशीं देवैर् अपि दुर्लभां गतिं त्वद्-भक्तत्व-लक्षणाम् अवस्थां दशमास्यो गर्भस्थोऽप्य् अहं ग्राहितः पुरु-दयेन भवादृश्एन इति भवतेत्य् आक्षेप-लब्धस्य विशेषणात् भवत्-सदृशो दयालुर् भवान् एव नान्य इत्य् अनन्वयालङ्कारो बोधितः । एतत्-प्रतिकृतिस् तु मया ब्रह्मायुषाप्य् अशक्येत्य् आह—स्व-कृतेनैव स्वयं तुष्यतु । अञ्जलिम् अञ्जलि-मात्रं विना तत्-प्रतिविधिं को नाम कुर्यात् कर्तुं शक्नुयात्? तस्य तव ॥१८॥

———————————————————————————————————————

॥ ३.३१.१९ ॥

पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः

शारीरके दम-शरीर्य् अपरः स्व-देहे ।

यत्-सृष्टयासं तम् अहं पुरुषं पुराणं

पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अशरीरवत् परमात्मवत् परमात्मन एव देहोऽपि तद्-वशत्वात् ।

तत्त्व-ज्ञानं तु देवानां गर्भस्थानां भविष्यति ।

उत्तमानाम् ऋषीणां वाप्य् अन्येषां बहु-जन्मगम् ॥ इति स्कान्दे ॥१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईदृशीं गतिम् [भा।पु। ३.३१.१९] इत्य् अनेन जात्य्-अन्तर-विलक्षणं ज्ञानं प्रापितवान् इत्य् उक्तं तद् एव वैलक्षण्यम् आह—पश्यतीति । अयम् अपरः पश्व्-आदिः सप्त-वध्रिर् जीवः स्व-देहे शारीरके शरीर-भवे सुख-दुःखे केवलं ननु पश्यति । अहं पुनर् यत्-सृष्टया धिषणया यद्-दत्तेन विवेक-ज्ञानेन दम-शरीरी । दम ईत्य् उपलक्षणम् । शम-दमादि-युक्त-शरीर-वान् आसम् अभवम् । तम् एव च पुराणम् अनादिं पुरुषं पूर्णं बहिश् च हृदि च पश्ये पश्यामीत्य् अन्वयः । कथम् ? अपरोऽक्षतया प्रतीतं चैत्यम् इव । अहङ्कारास्पदं भोक्तारम् इवेत्य् अर्थः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ईदृशीं गतिं [भा।पु। ३.३१.१९] इत्य् अनेन मनुस्य-जाताव् अपि अन्य-विलक्षणं ज्ञानं प्रापितवान् इत्य् उक्तम् । तद् एव वैलक्षण्यं स्पष्टयति—पश्यतीति । अयं मनुष्य-जातिम् आपन्नः सप्त-वध्रिर् गर्भ-गतो जिवह् सर्व एव तत्रोत्पन्नया धिषणया अनेक-जन्म-गत-शरीर-भवे सुख-दुःखे केवले पश्यति । तेष्व् अपरस् तु कश्चिद् भाग्यवान् दम-शरीरी तद्-उपलक्षित-योग-युक्त-शरीरवान् अपि भवति । अहं पुनः स तत्-तज्-जीव-निर्विशेषोऽपि यद्-दत्तया धिषणया तम् अपि पश्यामि । तत्र निरुक्तं च दर्शितम्—मृतश् चाहं पुनर् जातो, जातश् चाहं पुनर् मृतः[नि। १३.१९] इत्य्-आदि-तद्-भावना-वाक्यानन्तरम् । साङ्ख्यं योगं समभ्यस्येत् पुरुषं वा पञ्चविंशकम् [साङ्ख्य-परिभाषा] इति । अत्र टीका-कृद्भिर् अपि अहं पुनः इत्य् अनेन मनुष्य-जातिष्व् अप्य् एवायं विलक्षणतया सम्मतः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्मिन् भगवत्-कृपातिशयम् अन्यतो वैलक्षण्येनाह—पश्यतीति अयं मनुष्य-जातिम् आपन्नः सप्तवध्रिर् गर्भ-गतो जीवः शारीरके शरीर-भवे सुख-दुःखे एव धिषणया बुद्ध्या पश्यति, ततोऽप्य् अपरः कश्चिद् भाग्यवान् स्व-देहे स्थितो दम-शरीरी ज्ञानी भवति । अहं तु स प्रसिद्धः पापात्मापि यत्-सृष्टया यद्-दत्तया धिषणया तं पुराणं पुरुषं पुरुषोत्तमं चैत्त्यं चित्ताधिष्ठातारं चित्तेनापि सेव्यं प्रभुं बहिश् च हृदि च प्रतीतम् अपरोक्षतया प्राप्तम् इव पश्ये पश्यामि । अत्र निरुक्ते च वा-शब्देन दर्शितं जीवानां त्रैविध्यं—मृतश् चाहं पुनर् जातो जातश् चाहं पुनर् मृतः[नि। १३.१९] इति तद्-भावना-वाक्यानन्तरम् । साङ्ख्यं योगं समभ्यस्येत् पुरुषं वा पञ्चविंशकम् [साङ्ख्य-परिभाषा] इति ॥१९॥

———————————————————————————————————————

॥ ३.३१.२० ॥

सोऽहं वसन्न् अपि विभो बहु-दुःख-वासं

गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे ।

यत्रोपयातम् उपसर्पति देव-माया

मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विवेकाज्ञान-कृतं संसारोद्वेगम् अनुवदन् मोक्ष-मार्गम् एवाध्यवस्यति—सोऽहम् इति द्वाभ्याम् । हे विभो ! बहु-दुःख-वासं यथा भवति, तथा गर्भे वसन्न् अपि सोऽहं गर्भाद् बहिर् न निर्गन्तुम् इच्छामि । तत्र हेतुः—अन्ध-कूप-प्राये यत्र बहिर् उपयातं गतं प्राणिनं देवस्य तव मायोपसर्पति व्याप्नोति । यद् अनु यां मायाम् अनु मिथ्या मतिर् देहेऽहं-बुद्धिः संसृति-चक्रं च कलत्र-पुत्रादि-संबन्धाद् उपसर्पति ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वं भक्त्यैव माम् एवं ब्रूषे किं चात्र दुःखेनोद्विजसे च यतः कदा निर्वास्यत इति निवेदयिष्यतस् त्वाम् अधुनैवातो गर्भान् निष्क्रमयामीति तत्र न न नेत्य् आह—सोऽहम् इति। यत्र बहिर् उपयातं प्राणिनं देवस्य तव माया उपसर्पति व्याप्नोति, यद् अनु याम् अनु मिथ्या-मतिर् देहे अहं-बुद्धिस् ततश् च संसृति-चक्रम् ॥२०॥

———————————————————————————————————————

॥ ३.३१.२१ ॥

तस्माद् अहं विगत-विक्लव उद्धरिष्य

आत्मानम् आशु तमसः सुहृदात्मनैव ।

भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं

मा मे भविष्यद् उपसादित-विष्णु-पादः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् अत्रैव स्थितोऽपि विगत-विक्लवोऽव्याकुलः सन् सुहृदा आत्मना सारथि-रूपया बुद्ध्यैव आत्मानं तमसः संसाराद् उद्धरिष्यामि । अनेक-रन्ध्रं नाना-गर्भ-वास-रूपम् एतद् व्यसनं दुःखं यथा मे मा भविष्यत् न भविष्यति तथा । कात्र तव साधन-सामग्री ? तत्राह—उपसादितौ हृदयं प्रापितौ विष्णोः पादौ येन मया सः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्माद् ईदृक्-कृपा-भाजनं कृतोऽस्मि । तस्माद् आत्मना परमात्मनैव सुहृदा उपसादितौ सन्निधापितौ,तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः[भा।पु। १०.१.२] इति प्रसिद्धेः श्री-कृष्णाख्यस्य विष्णु-रूपस्य स्वस्य पादौ यत्र सोऽयं तथात्मानम् उद्धरिष्ये यथा भूय इत्य्-आदि ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किं निश्चिनोषीति ? तत्राह—तस्माद् इति । तत्रैव स्थितो दुःखेनापि विगत-विक्लवोऽव्याकुलः सन् सुहृदा आत्मना सारथि-रूपया बुद्ध्यैव अनया त्वद्-दत्तया आत्मानं तमसः संसाराद् उद्धरिष्यामि यथा एतत् अनेक-रन्ध्रं नव-द्वार-स्थूल-देह-लक्षणं व्यसनं विपत्तिर् मे मम मा भविष्यन् न भविष्यति । कात्र तव साधन-सामग्री ? तत्राह—उपसादितौ स्मरण-कीर्तनादिभिर् आश्रितौ विष्णोस् तव पादौ येन तस्य ॥२१॥

———————————————————————————————————————

॥ ३.३१.२२ ॥

कपिल उवाच—

एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः ।

सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दशम् आसाः परिच्छेदका यस्येति प्रसूति-पूर्व-क्षणोपलक्षणम् । ऋषिर् जीवः । सद्यस् तत् क्षणम् एव । अवाचीनम् अवाङ् मुखम् । सूति-हेतुर् मारुतः । क्षिपति नुदति ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र श्री-भगवान् उवाचेति क्वचित् । य ऋषिर् भगवद्-द्रष्टा पूर्वोक्त-रीत्या ब्रह्म-वैवर्त-वर्णित-श्री-शुकदेव इव कश्चित् स दशमास्य एव स्तुवन् कृत-मतिः पूर्ण-भगवज्-ज्ञानो भवति । अतः प्रसङ्गेनैवोक्त-महिम्नस् तस्य जन्मादि-सांषारिकावस्थाभासो न वर्णनीय इति भावः । यस् तु प्रस्तुतो दुर्जीवस् तस्य तु पुनर् दुरवस्था श्रूयताम् इत्य् आह—सद्य इति । अवाचीनम् अधो-गच्छन्तं संसार-पदवीम् अनुवर्तमानम् इत्य् अर्थः । तं दशमास्यत्वे सति सूति-हेतुर् मारुतः सद्यः क्षिपति । यस् तु शुकदेववद् भगवज्-ज्ञान-पूर्णः, स तु तद्वत् स्वातन्त्र्येणैवाविर्भवतीत्य् अर्थः । मध्य-स्थितानां तु जीवानां तारतम्यं ज्ञेयम् इति भावः । अत्रैक-वाक्यत्वे सति पूर्वार्धेऽपि द्वितीयान्तान्य् एव पदानि प्रयुज्येरन्न् इति ज्ञेयम् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कृत्वा गर्भ एवोषित्वा कृष्णं भजामीति निश्चिता मतिर् येन सः । स्तुवन् सन् ऋषिर् एव भवेद् इत्य् अन्वयः । न तस्य गर्भान् निःसृतस्य पुनः संसार इति भावः । यस् तु प्रस्तुतः पूर्वाध्यत एव प्रक्रान्तो जीवस् तस्य दुरवस्था श्रूयताम् इत्य् आह—सद्य इति । अवाचीनम् अधो-गच्छन्तं सांसारिकं सूति-हेतुर् मारुतः प्रसूयै सद्यो दशमासीय-क्षण एव क्षिपति । तेन यः स्तुवन् ऋषिर् भवेत्, स तु सूति-मारुत-क्षेपं विनैव गर्भान् निर्गच्छतीत्य् अर्थो लभ्यते । अत्रैक एव जीवो यदि विवक्षितः स्यात् तदा पूर्वार्धेऽपि कृत-मतिम् इत्य् एवं द्वितीयानान्य् एव पदानि प्रयुज्येरन्न् इति सन्दर्भः ॥२२॥

———————————————————————————————————————

॥ ३.३१.२३ ॥

तेनावसृष्टः सहसा कृत्वावाक्-शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवसृष्टोऽधः क्षिप्तः सन् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : हता स्मृतिः पूर्व-पूर्व-जन्मानुसन्धान-लक्षणा यस्य सः ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हता स्मृतिः मृतश् चाहं पुनर् जातः इत्य्-आदि-पूर्व-पूर्व-जन्मानुसन्धान-लक्षणा यस्य सः ॥२३॥

अन्वयः: तेन सूति-वातेन सहसा अवसृष्टः अधः-क्षिप्तः सन् शिरः अवाक् अधः कृत्वा आतुरः अवशः निरुच्छ्वासः मूर्च्छितः हत-स्मृतिः हता विनष्टा पूर्वोक्ता स्मृतिः यस्य सः अतिकृच्छ्रेण बहु-क्लेशेन विनिष्क्रामति बहिः आगच्छति ॥२३॥

———————————————————————————————————————

॥ ३.३१.२४ ॥

पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते ।

रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रोरूयति रोरूयते ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पतित इति त्रिकम् । विण्-मूत्रे विष्ठा-भूः कृमिर् इव । ज्ञाने अनेक-जन्म-गत-सुख-दुःखादि-विषये पूर्व-पूर्व-महा-दुह्खे विस्मृते साम्प्रतिक-क्षुद्र-दुःखेनैव दुह्खी भवतीत्य् अर्थः ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विष्ठा-भूः कृमिर् इव रोरूयति रोरूयते ज्ञाने प्राचीने गते सति विपरीताम् अज्ञत्व-लक्षणां, भक्त-जीवस्यापि वस्तु-स्वाभाव्याद् आबाल्यं प्रायो ज्ञानम् आवृतं तिष्ठति । ततः किञ्चिन्-मात्रं सत्-सङ्गेनोद्बुद्ध-पूर्व-संस्कारस्य भक्त्या भगवत्-प्राप्तिर् इति ज्ञेयम् ॥२४॥

———————————————————————————————————————

॥ ३.३१.२५ ॥

पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः ।

अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परस्य छन्दम् अभिप्रायम् अविदुषा । अनभिप्रेतं स्तन्यार्थं रोदने उदर-व्यथां प्रकल्प्य निम्ब-रस-पानम् उदर-व्यथया रोदने स्तन-पानम् इत्य्-आदि ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परस्य छन्दम् अभिप्रायम् अविदुषा स्तन्यार्थं रोदने उदर-व्यथां रोदने क्षुधां प्रकल्प्य स्तन्यं पाययता जनेन मात्रादिना ॥२५॥

———————————————————————————————————————

॥ ३.३१.२६ ॥

शायितोऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते ।

नेशः कण्डूयनेऽङ्गानाम् आसनोत्थान-चेष्टने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आसनोत्थान-चेष्टने चानीशः सन् रोरूयतीत्य् अनुषङ्गः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नेशः, न समर्थः । रोरूयत इत्य् अनुषङ्गः ॥२५॥

———————————————————————————————————————

॥ ३.३१.२७ ॥

तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आमा कोमला त्वग् यस्य तम् । विगतं गर्भे जातं ज्ञानं यस्य ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आमा कोमला त्वग् यस्य तम् । कृमिकं क्षुद्र-कृमिम् ॥२७॥

———————————————————————————————————————

॥ ३.३१.२८-२९ ॥

इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च ।

अलब्धाभीप्सितो ञ्ज्ञानाद् इद्ध-मन्युः शुचार्पितः ॥

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शैशवं पञ्च-वर्षाणि । ततः पौगण्डं यौवनाद् अर्वाक् । तत्र चाध्ययनादि दुःखम् । यौवने दुःखम् आह सार्धैस् त्रिभिः । अलब्धाभीप्सितत्वेन शुचार्पितो व्याप्तः । अज्ञानाद् इद्धो दीप्तो मन्युर् यस्य सः ॥२८॥ देहेन सहैव वर्धमानेनाभिमानेन मन्युना च विग्रहं विरोधं करोति । आत्मनोऽन्ताय नाशाय ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इतीति युग्मकम् ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इद्ध-मन्युर् उद्दीप्त-क्रोद्धः । शुचार्पितः शोक-व्याप्तः ॥२८-२९॥

———————————————————————————————————————

॥ ३.३१.३० ॥

भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधोऽसकृत् ।

अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञानं प्रपञ्चयति । भूतैर् आरब्धे देहेअसद्-आग्रहोऽहं ममेति मतिं करोति ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अज्ञानं दर्शयति । भूतैः पञ्चभिर् आरब्ध इति देहस्य स्वतोऽन्यत्वं स्पष्टम् एव । तद् अपि तत्रैव अहं ममेति मतिं करोति असद्-ग्राहः असद्-वस्त्व् एव गृह्णाति, न तु सत् ॥३०॥

———————————————————————————————————————

॥ ३.३१.३१ ॥

तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् ।

योऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अर्थं देहार्थम् । यद् येन कर्मणा बद्धःयो देहः अनुयाति पुनः पुनर् आयात्य् अनुवर्तत इति वा । कुतः ? अविद्या-कर्मभ्यां बध्यत इति तथा ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-अर्थं देहार्थम् । यद् येन कर्मणा बद्धःयो देहो जीवाय क्लेशं नरकादि-दुःखं ददत् दातुम् अनुयाति, अविद्यया कर्म-बन्धनं यतः सः । यो देहः क्लेशं ददाति, तम् एव पाप-कर्मणापि पुष्यतीति मौढ्यम् ॥३१॥

———————————————————————————————————————

॥ ३.३१.३२ ॥

यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः ।

आस्थितो रमते जन्तुस् तमो विशति पूर्ववत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् असद्भिर् आस्थितोऽधिष्ठितः संस् तेषां पथि रमते, पथि सन्-मार्गे आस्थितोऽपि यद्य् असद्भिः सह रमत इति वा, तर्हि यातना-देह आवृत्य [३.३०.२०] इत्य्-आदि-पूर्वोक्त-प्रकारेण तमो नरकं प्रविशति ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : साधारण-कामासक्ति-दोषम् उक्त्वा पापज-तद्-आसक्ति-दोषम् आह—यदीति । असद्भिः पापिष्ठैः ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्ववद् इति यातना-देह आवृत्य [३.३०.२०] इति पूर्वोक्त-प्रकारेण नरकं विशति यद्य् असद्भिर् इत्य् अनेन ।

यदि सद्भिः पथि पुनः कृष्ण-सेवा-कृतोद्यमैः ।

आस्थितो रमते जन्तुः कृष्णं प्राप्नोति पूर्ववद् ॥ इति च लभ्यते ।

अत्र पूर्ववद् इति पूर्वोक्त-भक्त-जीववद् इत्य् अर्थः ॥३२॥

———————————————————————————————————————

॥ ३.३१.३३-३४ ॥

सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा ।

शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् ॥

तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु ।

सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : असत्-सङ्गं निन्दति—सत्यम् इति त्रिभिः । बुद्धिः परम-पुरुषार्थ-विषया । श्रीर् धन-धान्य-लक्षणा । ह्रीर् लज्जा । यशः कीर्तिः । क्षमा सहिष्णुत्वम् । शमो बाह्येन्द्रिय-निग्रहः । दमो मनो-निग्रहः । भग उन्नतिः । यत्-सङ्गाद् येषाम् असतां सङ्गात् ॥३३॥

खण्डितात्मावसायिषु जीव-मात्र-ज्ञानिषु ॥३४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : दयेत्य् अत्र तप इति क्वचित् एष पुण्यारण्य-संमतः ॥३३॥ खण्डितात्मसु देहात्म-बुद्धिषु । योषितां क्रीडा-मृगवद् अधीनेषु ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दयेत्य् अत्र तप इति क्वचित्, एतत् पुण्यारण्य-मतम् । च-काराद् यथैवासाधुषु तेषु न कुर्यात् । तथा योषित्-क्रीडा-मृगेषु न कुर्याद् इत्य् अर्थः ॥३३-३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असन्त एव के इति तान् लक्षयन् तत्-सङ्गं निषिद्ध्यति सत्यम् इति त्रिभिः । खण्डितात्मसु आत्मनोऽधः-पातनाद् आत्म-घातिष्व् इत्य् अर्थः ॥३३-३४॥

———————————————————————————————————————

॥ ३.३१.३५ ॥

न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः ।

योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सत्-पुंसु च तथा स्त्रीषु न सङ्गो दोषम् आवदेत् ।

यथा-योग्यं गुणा नैव दोष-कृद् दृष्ट-जन्तुषु ॥ इति वाराहे ॥३५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा च योषित्-सङ्गिनां सङ्गतो बन्धस् तथान्य-प्रसङ्गतो न भवेत् । तत्-सङ्गि-सङ्गत इति । यथाग्निनाविष्ट-लोहो दहति, तथा अग्निर् अपि न दहतीति भावः। अन्येषां प्राकृतानां प्रसङ्गतः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-दोषम् एव दर्शयति—न तथेति । सङ्गोऽत्र तत्-तद्-वासनया तत्-तद्-वार्तादि-मयः ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा च तत्-सङ्गि-सङ्गत इति । च-कारोऽत्र अध्याहार्यः ॥३५॥

[अत्र यथा-श्लोकं ११.१४.३०-पद्यं द्रष्टव्यम् ।]

———————————————————————————————————————

॥ ३.३१.३६ ॥

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः ।

रोहिद्-भूतां सोऽन्वधावद् ऋक्ष-रूपी हत-त्रपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योषित्-सङ्गस्यानर्थ-हेतुतां प्रपञ्चयति—प्रजापतिर् इति सप्तभिः । रोहिद्-भूतां मृगी-रूपां सतीम् ऋक्ष-रूपी मृगाकारः सन् । हत-त्रपो निर्लज्जः ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च विवेक-ज्ञानादिमतां महा-पुरुषाणां धियं भ्रंशयितुं योषिन् न शक्नोतीति वाच्यम् इत्य् आह—प्रजापतिर् ब्रह्मा, रोहिद्-भूतां मृगी-रूपां सतीम् । ऋक्ष-रूपी मृगाकारः सन् ॥३६॥

———————————————————————————————————————

॥ ३.३१.३७ ॥

तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् ।

ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भयः प्रधान उद्दिष्टो माया तद्-वश उच्यते इति षाड्गुण्ये ॥३७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन ब्रह्मणा सृष्टा मरीच्य्-आदयः, तैः सृष्टा कश्यपादयः, तैर् अपि सृष्टा देव-मनुष्यादयः । तेषु को नु पुमान् अखण्डित-धीर् अनाकृष्ट-मनाः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-सृष्ट्य्-अन्तर्-अवतारित्वेऽपि श्री-नारायणस्य त्व् अखण्डित-धीरत्वम् एवेत्य् आह—ऋषिम् इति । अथवा नारायण-विना-भूतस् तद्-अनासक्तो यः स्यात्, एष को नु तादृशः ? इत्य् अर्थः ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन ब्रह्मणा सृष्टा मरीच्य्-आदयः, तैः सृष्टा कश्यपादयः,तैर् अपि सृष्टा देव-मनुष्यादयः । तेषु मध्येषु कथम्भूतेषु ? नारायणम् ऋते नारायणं विना वर्तमानेषु नारायणम् अनुपासीनेष्व् इत्य् अर्थः । तेषु मध्ये नारायणं विनेति न व्याख्येयम्, नारायणस्य विधि-सृज्यत्वापत्तेः ॥३७॥

[अत्रानुरूपार्थकं ११.२६.१५-पद्यं द्रष्टव्यम् ।]

———————————————————————————————————————

॥ ३.३१.३८ ॥

बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् ।

या करोति पदाक्रान्तान् भ्रू-विजृम्भेण केवलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दिशां जयिनः शूरान् अपि ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्णीते केवलम् इत्य् अमर-कोषात् । केवलम् इत्य् अव्ययम् । तच् च भ्रू-विजृम्भस्य विशेषणम् । ततो भ्रू-विजृम्भेणैवेत्य् अर्थः ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिशां जयिनः सर्वा दिशो विजित्य स्वान्तः-पुरम् आगतांश् चक्रवर्तिनोऽपि या "मां त्यक्त्वा अन्य-देशीयाः स्त्रीः सम्भोक्तुं दिग्-विजयं करोषि, धिक् त्वाम् !"इति व्यञ्जकेन कोप-कुटिलीकृतेन भ्रू-विजृम्भेण मानिनी स्त्री-जातिस् तान् प्रथमतः पदाक्रान्तान् पद-प्रहार-परिभूतान् करोतीति केवलं निर्णीतम् । नात्र युक्तिर् अन्वेष्टव्येति भावः । निर्णीते केवलम् इत्य् अमरः ॥३८॥

———————————————————————————————————————

॥ ३.३१.३९ ॥

सङ्गं न कुर्यात् प्रमदासु जातु

योगस्य पारं परम् आरुरुक्षुः ।

मत्-सेवया प्रतिलब्धात्म-लाभो

वदन्ति या निरय-द्वारम् अस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिलब्ध आत्म-रूपो लाभो येन । अस्य मुमुक्षोर् याः प्रमदा निरय-द्वारं वदन्ति योगिनः ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रमदासु स्वीयास्व् अपि । निरयः संसारः ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रमदासु स्वीयास्व् अपि सङ्गम् आसक्तिं परं पारम् आरुरुक्षुर् ज्ञानी च प्रतिलब्धात्म-भावो भक्तश् च न कुर्यात्, तेन नो शयानः पतत्य् अधः इति न्यायेन कर्मी स्त्री-सङ्ग-कृद् अपि न दुष्यतीति लभ्यते । अस्य पुं-मात्रस्य ॥३९॥

[अत्रानुरूपाभिप्रायकं ११.१४.२९तमं, ११.२६.२४-पद्यं च द्रष्टव्यम् ।]

———————————————————————————————————————

॥ ३.३१.४० ॥

योपयाति शनैर् माया योषिद् देव-विनिर्मिता ।

ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शनैः शुश्रूषादि-मिषेण उपय्आति या योषिद्-रूपा माया**,** तां मृत्युं प्रतिकूलाम् ईक्षेत॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम् इति । यथा स्व-पाल्यं पश्व्-अन्तरं पतन्तं प्रति तृणैर् आवृतं कूपं मृत्यु-रूपम् ईक्षते, तथा योषित्वेनावृतां ताम् आत्मनो मृत्यु-रूपाम् ईक्षतेत्य् अर्थः॥४०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या च पुरुषं विरक्तं ज्ञात्वा स्वीय-निष्कामतां व्यञ्जयन्ती शुश्रूषादि-मिषेणोपयाति, साप्य् अनर्थ-कारिणीत्य् आह—योपयातीति । ईक्षेत् ईक्षेत । अत्र तृणाच्छादित-कूपस्य मयि जनः पतत्व् इति भावनाभावात् कस्यचित् पार्श्वेऽप्य् अनागमनात् सर्वत्रोदासीना वा भक्ति-ज्ञान-वैराग्यादिमती वा उन्मादाद् अचेतना निद्राणा वा मृतापि वा स्त्री सर्वथैव दूरे परित्याज्येति व्यञ्जितम् ॥४०॥

———————————————————————————————————————

॥ ३.३१.४१-४२ ॥

यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् ।

स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम् ॥

ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् ।

दैवोपसादितं मृत्युं मृगयोर् गायनं यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुमुक्षुं स्त्रियं प्रत्य् एतद् एवाह—यां मन्यते इति द्वाभ्याम् । ऋषभायतीं पुरुषवद् आचरन्तीं यां मम मायां वित्तादि-प्रदं पतिं मन्यते, तदा तां पुरुष-रूपां मायां मृत्युं विद्याद् इत्य् उत्तरेणान्वयः । यतः पूर्व-जन्मनि स्वयं पुमान् स्त्री-सङ्गतोऽन्त-काले स्त्री-ध्यानेन स्त्रीत्वं प्राप्तो जीवः ॥४१॥

तां पत्य्-आदि-रूपं मृत्युं विजानीयात्मृगयोर् लुब्धकस्य गायनम् अनुकूलत्वेन प्रतीयमानम् अपि यथा मृगस्य मृत्युः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : याम् इति युग्मकम् ॥४१-४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा भक्ति-ज्ञानवतां पुंसां योषिद्-अनर्थ-हेतुः, तथैव भक्ति-ज्ञानवतीनां योषितां पुमांश् चेत्य् आह—याम् इति द्वाभ्याम् । ऋषभायतीं पुरुषवद् आचरन्तीं यां मम मायां पतिं वित्तादि-प्रदं मन्यतेस्त्री-सङ्गतः अन्त-काले स्त्री-ध्यानेन स्त्रीत्वं प्राप्तो जीवः ॥४१॥

तां मायां पत्य्-आदि-रूपं मृत्युं जानीयात् । यथा मृगयोर् लुब्धकस्य गानं सुखदम् अपि मृगो मृत्युं जानीयात् ॥४२॥

———————————————————————————————————————

॥ ३.३१.४३ ॥

देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् ।

भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : जीव-भूतेन जीव-कर्म-भूतेन ॥४३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं जीवस्य संसृतिः प्रपञ्चिता । तत्र च तस्य कर्म-वशेन लोकाल् लोकान्तर-गमनं जन्म-मरणं चोक्तम् । तत्रैवं शङ्क्यते—ननु व्यापकस्य लोकाल् लोकान्तर-गमनम्, नित्यस्य च कथं जन्म-मरणे ? भोगेन कर्म-क्षये च सति, जन्म-मरणं नेष्यते, तत् कुतः पुनर् अपि तस्य कर्म-सम्भवः ? इति । तत्र लोकान्तर-गमनं कर्म च सम्भवतीत्य् आह—देहेनेतिजीवस्य उपाधितया भूतेन जातेन लिङ्ग-देहेन लोकान्तरम् अनुव्रजन्अविरतं कर्माणि करोतीति कर्मणाम् असमाप्तिर् उक्ता ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ जीवस्य स्वतो निरीहत्वादिकेऽपि लोकान्तर-गमनादिकं योजयति—देहेनेति चतुर्भिः ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं जीवस्य संसारः प्रपञ्चितः । तत्रैवं शङ्कते—ननु जीवः शुभाशुभं कर्म येन देहेन कुरुते, तं देहं त्यक्त्वा देहान्तरे तत्-फलं स्वर्गादिकं भुङ्क्ते इति को न्यायः ? तत्र येनैव देहेन कर्म कुरुते, तेनैव देहेन भुङ्क्ते इत्य् आह—देहेन जीव-भूतेन लिङ्ग-शरीरेण लोकान् मर्त्य-लोकात् लोकं स्वर्गं नरकादिकम् अनुव्रजन्न् इति उपाधि-गमनेनैव कर्म कुरुते उपहितस्य जीवस्यापि गमनं सम्भावितम् । तत्र भुञ्जान एव भोगम् असमाप्नुवन्न् एव पुनर् मर्त्य-लोकम् आगत्य कर्माणि कुरुते, अतो लिङ्ग-देहेनैव कर्म कुरुते भुङ्क्ते चेत्य् उक्तम् ॥४३॥

———————————————————————————————————————

॥ ३.३१.४४ ॥

जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः ।

तन्-निरोधोऽस्य मरणम् आविर्भावस् तु सम्भवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्म-मरण-सम्भवम् आह— जीवो जीवोपाधि-लिङ्ग-देहोऽस्य आत्मनोऽनुगो ऽनुवर्ती । भूतेन्द्रिय-मनो-मयः स्थूल-भूतादि-विकारो देहो भोगायतनं, तयोर् निरोधः। कार्यायोग्यता तद् अस्य जीवस्य मरणम् उच्यते । आविर्भावस् तु सम्भवो जन्मोच्यते ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुगः कर्माधीनः ॥४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हीतो मर्त्य-लोकात् मृत्वा स्वर्गं भुङ्क्ते, स्वर्गाद् आगत्य जायते इति मृत्यु-जन्म-प्रतीतिः कुतोऽस्ति ? इत्य् अत आह—जीवो जीवोपाधिर् लिङ्ग-देहस् तथा अस्य आत्मनोऽनुवर्ती स्थूल-देहो भोगायतनं मिलित्वा, एक एव देहो भूतेन्द्रिय-मनो-मयो भवति । तस्य निरोधः कार्यायोग्यत्वम् अस्य जीवस्य मरणं, तच् च स्थूल-देह-विगमे स्थूलान्तर-प्राप्ति-प्राक्-काले भवेत् । सुषुप्तादौ तु स्व-कार्याकारित्वेऽपि कार्यं प्रति योग्यता अस्त्य् एव, सुषुप्ति-भङ्गे सति सद्य एव तत्-तद्-योग्यता-दर्शनात् । आविर्भावः प्रकटीभावस् तु सम्भवो जन्म, स च भोगायतन-देह-विगमे स्थूलान्तर-प्राप्तौ गर्भान् निष्क्रमण-समये भवेत् ॥४४॥

———————————————————————————————————————

॥ ३.३१.४५-४६ ॥

द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा ।

तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम् ॥

यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा ।

तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः ॥

तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।

बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : चक्षुः सकाशाद् द्रष्टुर् द्रष्टृत्वम् अक्ष्णोर् योग्यता ॥४६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव दृष्टान्तेन स्पष्टान्तेन स्पष्टयति । द्रव्योपलब्धि-स्थानस्य नेत्र-गोलकादेर् द्रव्येक्षायां रूपादि-दर्शने काचकामलादि-दोषेण यदा अयोग्यता भवति, तदैव चक्षुष इन्द्रियस्याप्य् अयोग्यता । अनयोः स्थान-चक्षुषोर् यदा अयोग्यता, तदैव द्रष्टुर् जीवस्य द्रष्टृत्वायोग्यता । एवं स्थूल-देह-वैकल्ये लिङ्गस्य वैकल्यं, तद् एव जीवस्य मरणं, न स्वत इत्य् अर्थः ।

क्वचिद् एकः श्लोकोऽधिकः पठ्यते । तत्रायम् अर्थः--द्रव्योपलब्धि-स्थानस्य स्थूल-शरीरस्य द्रव्येक्षायां यदायोग्यता तत् पञ्चत्वं मरणम् । अहं मानाद् इदम् एवाहम् इत्य् अभिमानेन द्रव्यस्य स्थूल-शरीरस्य दर्शनम् उत्पत्तिः । अक्ष्णोर् गोलकयोर् द्रव्यावयवस्य रूपादेर् दर्शनेऽयोग्यता । शेषं समानम् । यस्मान् न वस्तुतो जीवस्य जन्म-मरणादि तस्मान् मरणात् सन् त्रासो न कार्यो जीवने च न कार्पण्यं दैन्यं कार्यम् । संभ्रमश् च जीवन-प्रयत्ने ॥४५-४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : द्रव्योपलब्धीति युग्मकम् ॥४५॥ अनयोः स्थूल-सूक्ष्म-शरीरयोः ॥४६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृत्यु-जन्मनोर् लक्षणं पुनः स्पष्टम् आह—द्रव्येति । द्रव्याण्य् अत्र [दृष्टान्तं दृष्ट्वा] मर्त्य-लोक-स्थान्य् एव वस्तु-मात्राण्य् उच्यन्ते, तानि च यद्यपि लिङ्ग-देहेनैवोपलभ्यन्ते, तद् अपि द्रव्योपलब्धि-स्थानस्य स्थूल-शरीरस्य भङ्गुरत्वे सति द्रव्येक्षायां यदा यत् अयोग्यता, तद् एव पञ्चत्वम् । स्थूल-देहस्य भङ्गुरत्वे सूक्ष्म-देहस्यापि द्रव्योपलब्धाव् अयोग्यता, तद् एव जीवस्य मरणं न स्वत इत्य् अर्थः । अहं-मानात् इदम् एवाहम् इति स्थूलान्तरेऽभिमान-प्रवेशाद् उत्पत्तिर् जन्म । द्रव्यस्य मर्त्य-लोक-स्थ-वस्तु-मात्रस्य दर्शनं दर्शन-हेतुर् इत्य् अर्थः । अत्र दृष्टान्तो यथा अक्ष्णोर् नेत्र-गोलकयोर् द्रव्यावयवानां दर्शने अयोग्यता काचकामलादि-दोष-रूपेण भङ्गुरत्वेन भवेत्, तद् एव चक्षुष इन्द्रियस्यायोग्यता अनयोः स्थान-चक्षुषोर् यदा अयोग्यता, तदैव द्रष्टुः पुरुषस्यापि द्रष्टृत्वस्यायोग्यतेति । सा चायोग्यता मर्त्य-लोक एव सम्भवेत्, न तु स्वर्ग-नरकयोर् इति दार्ष्टान्तिकेऽपि तथा व्याख्यान-लाभात् स्वर्ग-नरक-गत-स्थूल-देहानाम् उत्पत्ति-विनाशयोर् न जन्म-मरण-व्यवहारः स्थूलस्य नाश एव सूक्ष्मस्य जीवस्य च नाश उपचर्यते, एवम् उत्पत्तिश् च । यस्माद् आत्मनो वस्तुतो नास्ति जन्म-मरणादि तस्माद् इति ॥४५-४७॥

———————————————————————————————————————

॥ ३.३१.४८ ॥

सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया ।

माया-विरचिते लोके चरेन् न्यस्य कलेवरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कैवल्य-ज्ञानं पुरुषार्थः । देहादिष्व् असङ्गिनो जीवस्य तन्-निमित्त-सुख-दुःखादयो न सन्ति, किम् उत देहस्याचेतनत्वात् ॥४७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सर्वथा मुक्त-सङ्गत्वे कथं जीवितम् ? अत आह—सम्यक् पश्यति विचारयतीति सम्यग् दर्शना, तया बुद्ध्या माया-विरचिते लोके कलेवरं न्यस्य निक्षिप्य, तस्मिन्न् आसक्तिं त्यक्त्वा विचरेद् इत्य् अर्थः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कलेवरं न्यस्य तत्रासक्तिं त्यक्त्वा ॥४८॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीय एकत्रिंशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कापिलेये जीव-गतिर् नाम

एकत्रिंशोऽध्यायः ।

॥ ३.३१ ॥

(३.३२)

द्वात्रिंशोऽध्यायः

धूमार्चिराख्यमार्गद्वयगतानां विभिन्नगतिः, कर्मासक्तचेतसां निन्दा, भक्तियोगस्योत्कर्षवर्णनं च ।

॥ ३.३२.१ ॥

कपिल उवाच—

अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे ।

अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ईषद्-भक्तो भगवति सुकर्मा स्वर्गम् एष्यति ।

अभक्तो निरयं याति सुकर्मापि स्वर्गम् एष्यति ॥ इति वामने ॥१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वा-त्रिंशे सात्त्विकैर् धर्मैर् ऊर्ध्वं गतिर् उदीर्यते ।

तत्त्व-ज्ञान-विहीनस्य ततश् च पुनर् आगतिः ॥

तद् एवं पाप-कर्मणो गतिर् उक्ता, इदानीं काम्य-कर्मणो गतिम् आह—अथेति चतुर्भिः । यो गृह एवावसन् स्वान् धर्मान् दोग्धि । दोह्यम् आह—कामम् अर्थं च तान् दुग्धान् धर्मान् भूयः पिपर्ति पूरयत्य् अनुतिष्ठति ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : धर्मान् गो-स्थानीयान् दुग्ध-स्थानीयं फलं दोग्धि । धर्मान् स्वान् इति क्वचित् पाठः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वात्रिंशे तु सकामानां निष्कामानां च कर्मिणाम् ।

पुनर् आवृत्त्य्-अनावृत्ती प्रोच्याभक्तान् निनिन्द च ॥

तद् एवम् अविहितस्य पापस्य कर्मणो गतिम् उक्त्वा विहितस्य काम्य-कर्मणो गतिम् आह—अथेति । गृह एव गृहम् एव आवसन् धर्मान् दोग्धि । दोह्यम् आह—कामम् अर्थं च धर्मांश् चेति । भूयः पुनर् अपि तान् धर्मान् पिपर्ति, पूरयत्य् अनुतिष्ठति । यथा गाश् चारयित्वा दुग्धानि दोग्धि, पुनर् अपि दुग्ध-प्राप्त्य्-आशया ताश् चारयतीति ॥१॥

———————————————————————————————————————

॥ ३.३२.२ ॥

स चापि भगवद्-धर्मात् काम-मूढः पराङ्-मुखः ॥

यजते क्रतुभिर् देवान् पितॄंश् च श्रद्धयान्वितः ॥ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सोऽपि भगवद्-आराधन-रूपाद् धर्मात् पराङ्-मुखः सन् प्राकृतान् अपि देवान् पितॄंश् च यजते ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स चापीति । च-शब्द उक्त-समुच्चयार्थः, यथा पूर्वोक्तः पाप-कर्मा भगवद्-धर्मात् पराङ्-मुखस् तथा स चेत्य् अर्थः । अपीति । यद्यपि वैदिक-कर्मा तथापीत्य् अर्थः । सर्व-कामदाद् अपि तस्माद् भगवद्-धर्मात् पराङ्-मुखत्वे तथा तद्-अन्य-सम्मुखत्वे च हेतुः । कामेन मूढः विवेक-रहितः ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विहित-कृद् अप्य् असौ निन्द्य एवाधिकारीत्य् आह—स चापीति ॥२॥

———————————————————————————————————————

॥ ३.३२.३ ॥

तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् ।

चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् ? तत्राह—तेषां श्रद्धयाक्रान्ता व्याप्ता मतिर् यस्य । पित्र्-अर्थं देवार्थं च व्रतं नियमो यस्य । सोम-पाः, तत्र सोमं पीत्वेत्य् अर्थः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोमपास् तत्र सोमं पीत्वा पुनर् एष्यति पुनर् अधः पतिष्यति ॥३॥

———————————————————————————————————————

॥ ३.३२.४ ॥

यदा चाहीन्द्र-शय्यायां शेतेऽनन्तासनो हरिः ।

लोका लयं यान्ति त एते गृह-मेधिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोके तिष्ठत्य् अपि पुण्य-क्षयात् पातम् उक्त्वा लोकानाम् अपि लयम् आह—यदा चाहरहः प्रलये ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शेते त्रिलोक्याम् अवधानं न करोतीत्य् अर्थः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषाम् अधः-पातस्य का वार्ता तेषां प्राप्या लोका अपि ब्रह्मणः प्रतिदिनम् अधः पतन्तीत्य् आह—यदा चाहरहः प्रलये ॥४॥

———————————————————————————————————————

॥ ३.३२.५-६ ॥

ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे ।

न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः ॥

निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः ।

स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-धर्म-निष्ठानां तत् प्राप्तिम् एव गतिम् आह त्रिभिः । ये तु कामार्थ-प्रयोजनाय स्व-धर्मान् न दुह्यन्ति न दुहन्ति । निःसङ्गा अनासक्ताः । न्यस्तान् ईश्वरे समर्पितानि कर्माणि यैः ॥५-६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ये स्वधर्मान् इति त्रिकम् । प्रशान्ता प्रकर्षेण शान्ता भगवन्-निष्ठ-बुद्धय इति साक्षात्-तद्-आराधन-निर्देशः ॥५-६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-काम-कर्मिणां पुनः पुनर् आवृत्तिम् उक्त्वा निष्काम-कर्मिणां पुनर् अनावृत्तिम् आह—ये इति । न दुह्यन्ति न दुनन्ति न धर्म-फलं स्वर्गादिकम् इच्छन्तीत्य् अर्थः । निःसङ्गाः अनासक्ताः । न्यस्त-कर्माणः ईश्वरार्पित-कर्म-फलाः ॥५-६॥

———————————————————————————————————————

॥ ३.३२.७ ॥

सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् ।

परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्वतो-मुखं परिपूर्णं पुरुषं यान्ति । तथा च श्रुतिः—सूर्य-द्वारेण ते विरजाः प्रयान्ति यत्रामृतः पुरुषो ह्य् अव्ययात्मा इति । प्रकृतिम् उपादान-कारणम् । उत्पत्त्य् अन्त-भावनं निमित्त-कारणम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सूर्येति । श्रुतौ तत्-स्थान-प्राप्ति-निर्देशेन तत्-प्राप्ति-निर्देशः । अत्र तु साक्षाद् इति तत्-तात्पर्येणैकार्थता । तथा च तयोर् ऐकात्म्यम् एवोपलब्धम् । एवम् अन्यत्रापि ज्ञेयम् । तत्र श्रुतौ विरजाः प्रकृति-सङ्ग-रहिता इति पदार्थः । अनेन तस्य लोकस्याप्राकृतत्वं यत्रामृतः पुरुष इत्य् अनेन तद्वन् नित्यत्वं च बोधितम् ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानं प्राप्य विश्वतो मुखं परिपूर्णं पुरुषं यान्ति प्राप्नुवन्ति मुक्ता भवन्तीत्य् अर्थः । तथा च श्रुतिः—सूर्य-द्वारेण ते विरजाः प्रयान्ति तत्रामृतः पुरुषो ह्य् अव्ययात्माइति । अस्य जगतः प्रकृतिम् उपादान-कारणम् उत्पत्त्य्-अन्त-भावनं निमित्त-कारणं च ॥७॥

———————————————————————————————————————

॥ ३.३२.८ ॥

द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते ।

तावद् अध्यासते लोकं परस्य पर-चिन्तकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परमेश्वर-दृष्ट्या हिरण्यगर्भोपासकानाम् अपि क्रमेण तत्-प्राप्तिम् आह—द्वि-परार्धावसान इति त्रिभिः । परस्य हिरण्यगर्भस्य । पर-चिन्तकाः परमेश्वर-दृष्ट्या हिरण्यगर्भोपासकाः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तावद् इति । तस्याद्यांशं प्राप्येत्य् अर्थः ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मा परमेश्वरस्य गुणावतार एवेति परमेश्वर-दृष्ट्या हिरण्यगर्भोपासकानाम् अपि क्रमेण भक्तिनां-मिश्र-ज्ञानेन ब्रह्मणा सह मुक्तिर् भवेद् एव ।

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।

परस्यान्ते परमात्मनः प्रविशन्ति परं पदम् ॥इति श्रुतेः ।

ये तु केवलं हिरण्यगर्भोपासकास् तेषां ब्रह्मणो मुक्ताव् अपि न मुक्तिर् इत्य् आह—द्विपरार्धावसान इति त्रिभिः । लोकं सत्य-लोकं परस्य ब्रह्मणः परिचिन्तकाः, वैराज-ध्यान-पराः ॥८॥

———————————————————————————————————————

॥ ३.३२.९ ॥

क्ष्माम्भो-ऽनलानिल-वियन्-मन-इन्द्रियार्थ-

भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ।

अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं

पराख्यम् अनुभूय परः स्वयम्भूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्ष्मादीनि पञ्च-महा-भूतानि मनश् चेन्द्रियाणि चार्थाश् च शब्दादयो भूतादिश् चाहङ्कारः एवम् आदिभिः परिवृतं युक्तं ब्रह्माण्डं प्रति संहर्तुम् इच्छुः सन् । अव्याकृतम् ईश्वरम् । पराख्यं द्वि-परार्ध-लक्षणं कालम् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रतिसञ्जिहीर्षुस् त्यक्तुम् इच्छुर् जिघृक्षुर् इति पुण्यारण्यः । गुण-त्रयात्मेति प्रकृत्या सह तादात्म्यं प्राप्त इत्य् अर्थः ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च महा-प्रलये सति ब्रह्मा मुच्यते इत्य् आह—क्ष्मेति । क्ष्मादिभिः परिवृतं स्व-देहं वैराजं प्रतिसंजिहीर्षुः त्यक्तुम् इच्छुः । अव्याकृतं परमेश्वरं प्रकृत्य्-अन्तर्यामिणं विशति गुण-त्रयात्मा रजो-गुणोपाधिकोऽपि त्रिगुणः पराख्यं द्विपरार्ध-लक्षणं कालं ज्ञात्वा ॥९॥

———————————————————————————————————————

॥ ३.३२.१० ॥

एवं परेत्य भगवन्तम् अनुप्रविष्टा

ये योगिनो जित-मरुन्-मनसो विरागाः ।

तेनैव साकम् अमृतं पुरुषं पुराणं

ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परेत्य दूरं गत्वा भगवन्तं हिरण्यगर्भम् अनुप्रविष्टा ये योगिनोऽमृतं परमानन्द-रूपं प्रधानम् उत्कृष्टं ब्रह्म तेनैव सहोपयान्ति, न तु पूर्वम् । यस् तद्-आगताभिमानाः । तथा च स्मृतिः,

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।

परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं ब्रह्मणो मुक्ताव् अपि तद्-उपासका भक्त्य्-अभावान् न मुच्यन्त इत्य् आह—एवम् इति । परेता ब्रह्म-लोक एव देहं त्यक्त्वा भगवन्तं ब्रह्माणम् अनुप्रविष्टाः ये योगिनस् ते तेनैव ब्रह्मणैव साकं पुराणं पुरुषं परमेश्वरं प्रधानम् उत्कृष्टं ब्रह्म उपयान्ति प्रविशन्ति । अगताभिमाना वयं हिरण्यगर्भोपासका इत्य् अभिमानवन्तः तेन परमेश्वरे तेषाम् आत्यन्तिको न लयः, किन्तु प्राकृतिक एवेति तेन पुनर् जगत्-सर्गे तेषाम् अपि सर्गो भावीति भावः ॥१०॥

———————————————————————————————————————

॥ ३.३२.११ ॥

अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् ।

श्रुतानुभावं शरणं व्रज भावेन भामिनि44

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-उपासकास् तु साक्षाद् एव तं प्राप्नुवन्ति न तु क्रमेण, अतस् त्वं साक्षात् तम् एव भजेत्य् आह—अथ तस्मात् । भावेन प्रेम्णा ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति । भावेन येषाम् अहं प्रिय आत्मा सुतश् च [हा।पु। ३.२५.३८] इत्य् उक्त-रीत्या प्रियत्वाद्य्-अभिमानैकतमेन । तत्रापि प्राप्ततया सुत-भावेनैवेत्य् आह—भाविनीति ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथेति । यस्माद् भक्तिं विना न कोऽपि निस्तरन्त्य् अतस् त्वं तम् एव भगवन्तं शरणं व्रज । हे भाविनि ! मयि परमेश्वरे पुत्र-भाववतीति त्वयि भक्त्य्-उपदेशः पिष्ट-पेष-रूप एवेति भावः ॥११॥

———————————————————————————————————————

॥ ३.३२.१२ ॥

आद्यः स्थिर-चराणां यो वेद-गर्भः सह र्षिभिः ।

योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावद् भगवद्-भक्तानां निरन्तरम् एव तत्-प्राप्तिर् भगवद्-अभेदेन हिरण्यगर्भोपासकानां तु क्रमेणेत्य् उक्तम् । भेदेनोपासने तु ब्रह्मादयोऽप्य् आवर्तन्ते किम् उतान्य इत्य् आह—आद्य इति चतुर्भिः । यो वेद-गर्भः सोऽपि गुण-व्यतिकरे जाते यथा-पूर्वं ब्रह्म-पदाधिकृतः सन् प्रजायते इति तृतीयेनान्वयः । न केवलं स एवैकः, किन्तु ऋषिभिर् मरीच्य्-आदिभिर् योगेश्वरादिभिश् च सह ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आद्य इति चतुष्कम् । भेद-दृष्ट्या परमेश्वराद् भिन्नत्वेन हिरण्यगर्भ-दृष्ट्या । तथा हिरण्यगर्भ एवाहम् अस्मीत्य् अभिमानेन च यत् कर्तृत्वम् उपासकत्वं तस्माद् इत्य् अर्थः । उपासना हि क्षय-रहिता । ननु बलवत् कर्मान्तरम् अन्यथा जन्मान्तरं प्रापयर्तुं तत्राह—निःसङ्गेनेति । तत्रापि कर्तृत्वाद् इति योज्यम्, किन्तु क्रिया-निष्पादकत्वाद् इत्य् अर्थः । तत्र महर्ष्य्-आदीनां सृष्टिं विशिष्य दर्शयति । ऐश्वर्यम् इति । पूर्ववत् कर्मणा धर्मेण योगेन च विनिर्मितम् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ब्रह्मा मुक्तो भवेद् अथच स्व-भक्तान् मोचयितुं नेष्ट इति कथं प्रतीमस् तत्र, माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [गीता ७.१५] इति भगवत्-प्रतिज्ञा-श्रुतेर् भक्तिं विना ब्रह्मापि संसरति, के पुनर् अन्ये वराका इत्य् आह—आद्यः स्थिर-चराणां सृष्टत्वात् कारण-रूपोऽपि वेद-गर्भः सर्व-वेद-विद् अपि ऋषिभिर् मरीच्य्-आदिभिर् अपि सह योगिभिः साधकैः सहेति किं वक्तव्यं योगेश्वरैः सिद्धैर् अपि सह ॥१२॥

———————————————————————————————————————

॥ ३.३२.१३ ॥

भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।

कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्मनि हेतु-द्वयम् । भेद-दृष्ट्य्-आभिमानेन कर्तृत्वाद् इति च । यथा पूर्वत्वे हेतुः, निःसङ्गेन निष्कामेन कर्मणेति ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भेद-दृष्ट्या यथा रुद्रः संहरति, विष्णुः पालयति, तथाहम् अपि ब्रह्मा सृजामीति भगवतः सकाशाद् भेद-दृष्ट्या योऽभिमानस् तेन यत् कर्तृत्वं तस्मात् स-गुणं कल्यान-गुण-मयं ब्रह्म महत्-स्रष्टारं काले महा-प्रलय-काले प्रविश्य पुनः कालेन गुण-व्यतिकरे महत्-तत्त्वादौ जाते सति यथा-पूर्वं प्रजायते, ब्रह्मा भवतीत्य् अर्थः । तेऽपि तत्-सङ्गिनो महर्ष्य्-आदयोऽपि कर्म-ज्ञान-योगादि-विनिर्मित-मणिम् आद्यैश्वर्यादिकं पूर्व-महा-कल्प एव निषेव्य पुनर् महा-कल्पारम्भे आयान्ति आवर्तन्ते ॥१३॥

———————————————————————————————————————

॥ ३.३२.१४ ॥

स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना ।

जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अभिमानेन पूर्ण-ज्ञानेन । सङ्गत्य्-आलये परमेश्वरं प्रविश्य । यथा-पूर्वं प्रजायते उच्च-नीच-भावेन जायते ।

अगुण-व्यतिकरे बहिश् चैतद् द्विधे निर्गच्छति ।

गुण-व्यतिकराभावेऽप्य् उच्च-नीचादि पूर्ववत् ॥

विष्णोश् चैव विमुक्तानां न कदाचन गच्छति ॥ इति गारुडे ॥१४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं कृत्वात्र प्रजायते ? प्रथमं पारमेष्ठ्यम् ऐश्वर्यं निषेव्य, पश्चात् प्रलये स-गुणं गुणाधिष्ठातारं प्रथमावतार-रूपं पुरुषं संसृत्य प्राप्य, तेऽपि ऋषि-प्रमुखाः स्व-कर्म-निर्मितम् ऐश्वर्यं निषेव्य पुरुषं च संसृत्य यथा पूर्वं स्व-स्वाधिकारेण पुनर् आयान्तीत्य् अन्वयः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु योगेश्वराणां सनत्-कुमारादीनां च सिद्धानाम् अन्येषां च योग-प्रवर्तकत्वेन सर्वज्ञादि-गुरूणां च कथं भेद-दृष्टिर् अभिमानो वा सम्भवेत्, ताभ्यां स्थिताभ्यां कथं योगेश्वरादित्वम् ? उच्यते—तेषां निरभिमानानां निर्भेद-ब्रह्मानुसन्धानम् अस्त्य् एव, किन्तु भेद-व्युदासे भगवत्य् अपि माया-शवलित-ब्रह्मत्व-बुद्ध्या मायिक-वस्त्व्-अन्तरवद् भेद-दृष्टिस् तथा वयं ब्रह्मानुभविनः साकारं रूपं निषिध्याम इत्य् अभिमानश् च ताभ्याम् एव दोषाभ्यां यत् कर्तृत्वं कर्माधिकारस् तस्माद् आवृत्तिर् इत्य् एतच् च क्वाचित्क-ब्रह्माण्डावर्ति-ब्रह्म-ब्राह्मण-योगि-ज्ञानि-कुमारादीनाम् अभक्तत्वाद् उक्तम् । तद्-अन्य-सर्व-ब्रह्माण्ड-वर्तिनां ब्रह्मादीनां तेषां तु भक्तिमत्वान् मुक्ति-प्रेम-भक्ति-भगवद्-दास्यादि-भाव-प्राप्तयो यथा-यथं भक्ति-तारतम्याज् ज्ञेयाः ॥१४॥

———————————————————————————————————————

॥ ३.३२.१५ ॥

ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्म-विनिर्मितम् ।

निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : गुण-व्यतिकरे असति प्रलये प्राप्ते पुनः परमेश्वरम् आयान्ति ।

ब्रह्मा दैवः परिवृतः प्रलये परमेश्वरम् ।

प्रविश्य स्वर्गे तु पुनश् चेतद् द्विधे प्रावर्तते ॥

ज्ञान-धर्म-फलांस् तत्र भोगान् भुक्त्वालये पुनः ।

नारायणं समाविश्य ज्ञानं व्यक्तं निजं सुखम् ॥

भुञ्जते त्व् एवम् एवैषां कल्पे संसर्ग-निसर्गौ ।

नित्यौ नित्य-सुखं चैव सृष्टौ भोगास् तथोत्तमाः ॥

यथा पूर्वं हरेः सर्व-गुणैर् नीचोच्चता तथा ।

ब्रह्मणश् च तथान्येषाम् अन्येषां च यम् आपदम् ॥ इति स्कान्दे ॥१५॥

अन्यैस् त्रिभिर्न व्याख्यातम्।

———————————————————————————————————————

॥ ३.३२.१६-१७ ॥

ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः ।

कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः ॥

रजसा कुण्ठ-मनसः कामात्मानोऽजितेन्द्रियाः ।

पितॄन् यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा ब्रह्मोपासकानाम् अपि भेद-दर्शनाभिमानाभ्याम् एवम् आवृत्तिः, तदा काम्य-कर्मिणां किं वक्तव्यम् इति तान् निन्दन्न् आह षड्भिः । ये त्व् इह कर्म-स्वासक्त-मनसः सन्तोऽप्रतिषिद्धानि काम्यानि नित्यानि च कर्माणि कृत्स्नानि कुर्वन्ति, तेऽर्यम्णो दक्षिणेन पथा धूम-मार्गेण पितृ-लोकं व्रजन्तीति पञ्चमेनान्वयः । मध्ये तन्-निन्दा ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ये त्व् इति पञ्चकम् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्र भक्त्य्-अभावे सति ब्रह्मादीनाम् अप्य् एवम् आवृत्तिस् तत्र काम्य-कर्मिणां कस्यां लेखायां स्थितिर् इति तान् निन्दन्न् आह षड्भिः—ये त्व् इहेति । अप्रतिषिद्धानि काम्यानि नित्यान्य् अपि सर्वाण्य् एव कर्मणि कुर्वन्ति । तेऽपि निन्द्यन्ते, किम् उत विकर्माणः कर्मिण इति भावः । हरति संसारं मेधा यस्य तस्य ॥१६-१८॥

———————————————————————————————————————

॥ ३.३२.१८-१९ ॥

त्रैवर्गिकास् ते पुरुषा विमुखा हरि-मेधसः ।

कथायां कथनीयोरु-विक्रमस्य मधुद्विषः ॥

नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् ।

हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरति संसारं मेधा यस्य । कथनीया उरवो विक्रमा यस्य तस्य मधु-द्विषः कथायां विमुखाः सन्तो ये त्रैवर्गिकाः । ये चाच्युतस्य कथ-सुधां हित्वासतां गाथाः शृण्वन्ति ते नूनं दैवेन विहिता इत्य् अन्वयः ।**।**१८-१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैवेनेति । तेषां नरकाद् उद्धार एव नास्तीति ते न वर्ण्या इत्य् अर्थः, अच्युत-कथेति । तद्-अन्याः सर्वा एवासत्-कथा इति ज्ञापितम् । खण्डादिकं हित्वा विड्-भुजो यथा पुरीषम् एवाभिगच्छन्तीत्य् अर्थः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युत-कथैव सुधा तां त्यक्त्वेति तद् अन्याः सर्वा एवासद्-गाथाः । ननु सुधां प्राप्य के नोपभुञ्जते ? तत्राह—पुरीषम् इवेति । क्षीर-खण्डादिकं त्यक्त्वा विड्-भुजो हि पुरीषम् एवान्विष्यन्तीत्य् अर्थः ॥१९॥

———————————————————————————————————————

॥ ३.३२.२० ॥

दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते ।

प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पितृ-लोकात् पुनः प्रजाम् अनु स्व-पुत्रादिषु प्रजायन्ते । गर्भाधानाद् आरभ्य श्मशानान्ताः क्रियाः कृतवन्तः । यथोक्त-कारिण इत्य् अर्थः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्मशानान्ताः क्रियाः कृतवन्तः ता लब्धवन्तः इत्य् अर्थः ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितृ-लोकात् पुनः प्रजाम् अनु स्व-पुत्रादिषु प्रजायन्ते । गर्भाधानाद् आरभ्य श्मशानान्ताः क्रियाः कृतवन्तः शास्त्रोक्त-कर्म-कारिण इत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ ३.३२.२१ ॥

ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति ।

पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं प्रजायन्ते ? तद् आह—ततस् ते पुनर् इमं लोकं प्रति पतन्ति । विभ्रंशित उदयो भोग-साधनं येषाम् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं प्रजायन्ते ? तत्राह—ततस् ते पुनर् इमं लोकं प्रति पतन्ति । उदयो भोग-साधनं येषाम् ॥२१॥

———————————————————————————————————————

॥ ३.३२.२२ ॥

तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् ।

तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परमेष्ठिनं परमेश्वरम् । सर्व-भावेनाति-प्रीत्या । तस्य गुणान् आश्रयते या भक्तिस् तया ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वभावेन सर्वात्मना । भक्त्या प्रेम्णा । ननु सा कथं स्यात् तत्राह—तद्-गुण एवाश्रयः प्रवृत्ति-हेतुर् यस्याः, अहो बकीयं [भा।पु। ३.२.२३] इत्य्-आदि-रीत्या तद्-अनुसन्धाने कृते सा प्रवर्तत एवेति भावः । भजनीय-पदाम्बुजम् इति तदा तस्य सौन्दर्यादिकम् अप्य् उल्लसितम् । तत् तु तद्-भजनं निरन्तरम् एव रोचयिष्यतीत्य् अर्थः । तद् एवं तत्र पुरुषार्थान्तरम् अपि निरस्तम् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निवृत्त-कर्म-पराणाम् अन्ते यथा, अथ तम् इत्य् अत्रश्रुतानुभावं शरणं व्रज भावेन भाविनि[भा।पु। ३.३२.११]इत्य् आह स्म । तथैव प्रवृत्त-कर्म-पराणाम् अन्तेऽप्य् आह—तस्मात् त्वम् इति । तेन त्वं निवृत्तं प्रवृत्तं च कर्म मा कुर्व् इति भावः । सर्व-भावेन सर्वात्मना हरिं भक्त्या भजस्व । ननु सैव कथं स्यात् ? तत्राह—तद्-गुणा एवाश्रयः प्रवृत्ति-हेतुर् यस्यास् तया भजनीयं भजनार्हम् इति । अम्बुजं खलु कस्मै मधुव्रताय न रोचते इति भावः ॥२२॥

———————————————————————————————————————

॥ ३.३२.२३ ॥

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।

जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भजने च ज्ञान-वैराग्ये स्वत एव भवत इत्य् आह—वासुदेव इति ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानादीच्छुर् अपि । ताम् एव कुर्याद् इत्य् आह—वासुदेव इति ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानादीच्छुर् अपि भक्तिम् एव कुर्याद् इत्य् आह—वासुदेव इति । ब्रह्म-दर्शनं ब्रह्मानुभवः ॥२३॥

———————————————————————————————————————

॥ ३.३२.२४ ॥

यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः ।

न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवोपपादयति । यदास्य भक्तस्य चित्तं भगवद्-गुणानुरागेण तस्मिन्न् एव निश्चलं सद्-इन्द्रिय-वृत्तिभिर् वैषम्यम् अर्थेषु न विगृह्णाति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते इति न्यायेन टीका सङ्गमनीया ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भक्ति-जन्ये ज्ञान-वैराग्ये केन लक्षणेन ज्ञातव्ये ? इत्य् अपेक्षायाम् आह—यदास्य भक्तिमतश् चित्तं भगवद्-गुणानुरागेण तस्मिन्न् एव निश्चलं सत् इन्द्रिय-वृत्तिभिः समेषु अर्थेषु प्राकृतेषु दृश्य-श्रव्य-स्पृश्यादि-वस्तुषु इन्द्रिय-ग्राह्यत्वांशेन वस्तुतस् तुल्येष्व् अपीदं मे प्रियं श्रव्यादि, इदम् अप्रियम् अश्रव्यादीति वैषम्यं न गृह्णाति, निन्दा-स्तुत्य्-आदिषु लोष्ट्र-काञ्चनादिषु च सम-भावनं स्याद् इत्य् अर्थः ॥२४॥

———————————————————————————————————————

॥ ३.३२.२५ ॥

स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् ।

हेयोपादेय-रहितम् आरूढं पदम् ईक्षते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

मत्स्य-कूर्मादि-रूपं च विष्णोर् ज्ञानैक-मात्रकम् ।

तन् मन्यन्ते भौतिकं तु ये गच्छन्त्य् अधरं तमः ॥ इति ब्राह्मे ॥२५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदैवात्मनात्मानं स्व-प्रकाशम् ईक्षते । कथं-भूतम् ? समं च तद्-दर्शनं च । तत् कुतः ? निःसङ्गम् । सङ्गाद् धि वैषम्यं भवति । निःसङ्गत्वे हेतुः—हेयोपादेय-रहितम् । तत् कुतः ? पदं व्यवसितम् आरूढम् । परमानन्दोऽहम् इति निश्चयं प्राप्तम् इत्य् अर्थः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एव आत्मना बुद्ध्या आत्मानं स्वीय-जीवं निःसङ्गत्वादिभिर् हेतुभिः पदं ब्रह्म-स्वरूपम् आरूढम् आरूढ-प्रायम् ईक्षते अनुभवति ॥२५॥

———————————————————————————————————————

॥ ३.३२.२६ ॥

ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।

दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समेष्व् अर्थेष्व् इत्य् उक्तं तद् एव साम्यं दर्शयति । ज्ञान-मात्रम् एव पर-ब्रह्मादि-शब्दैः प्रसिद्धम् । दृश्य्-आदिभिर् दृश्य-द्रष्टृ-करण-रूपेण पृथक् प्रतीयते । ज्ञान-मात्रत्वेन समेष्व् इत्य् अर्थः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भः १७६) : दृशिर् ज्ञानम् । पृथक् परस्परम् अन्यादृशो भावो भावना । येषु तथा-विधैर् ज्ञानादिभिर् एक एव परिपूर्ण-स्वरूप-गुणः परं-ब्रह्मेयतेपरमात्मेयतेभगवांश् चेयते । तत्र ज्ञानेन पर-ब्रह्मतया ज्ञायते, भक्ति-विशेषेण परमात्मतया, पूर्णया भक्त्या भगवत्तयेति ज्ञेयम् । पर-ब्रह्मणः स्वरूप-लक्षणं ज्ञान-मात्रम् इति, परमात्मन ईश्वरः पुमान् इति, भगवतो भगवान् इत्य् एव ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव योजयति—ज्ञान-मात्रम् इति । दृशिर् ज्ञानं । भावो भावना । पृथक्पृथग्-भावनैर् ज्ञान-योगादिभिर् एक एवभगवान् पर-ब्रह्मादि-रूप ईयते इति भगवत एवांशित्वम् आयातम् । व्याख्यान्तरे तु मात्र-पदेनैव विवक्षित-सिद्धेर् एक-पदस्योपादानं पुंस्त्वं च न युक्तं स्यात् । तत्र ज्ञान-योगेन पर-ब्रह्मेयते, अष्टाङ्ग-योगी विशेषेण परमात्मा । शुद्ध्या भक्त्या तु स्वयं भगवान् एवेति विवेचनीयम् । तत्र च ब्रह्मणो लक्षणं ज्ञान-मात्रम् इति । परमात्मनः [लक्षणं]ईश्वरः पुमान् इति प्रकृतेः परस् तद्-आद्य्-अन्तर्यामी पुरुष इत्य् अर्थः । भगवतस् तु भगवान् एवेति पूर्ण-षड्-ऐश्वर्य-युक्त-महा-वैकुण्ठ-नाथः । तद् एतद् अनन्त-तद्-आविर्भावस्याप्य् उपलक्षणं ज्ञेयम् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं च भक्ति-योगाध्यायोक्तं, पश्यन्ति ते मे रुचिराण्य् अम्ब [भा।पु। ३.२५.३५] भगवद्-धाम्नि प्रेमवत्-पार्षदत्वम् । तथा ज्ञान-योगाध्ययोक्तं, निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयं [भा।पु। ३.२७.२८] इत्य्-आदिना ज्ञान-फलं ब्रह्मैक्यं, तथाष्टाङ्ग-योगाध्यायोक्तं—मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणम् ऋच्छति [भा।पु। ३.२८.३५] इत्य्-आदिदिभिर् योग-फलम् अपि ज्ञान-।विशेषाभ्यां मोक्षम् एव । साम्प्रतं तु तस्मात् त्वं [भा।पु। ३.३२.२२] इत्य्-आदिना, वासुदेव [भा।पु। ३.३२.२३] इत्य्-आदिना च, तत् तत् सर्वं भक्ति-ज्ञान-योग-फलं केवलयैव भक्त्या सिद्ध्यतीत्य् उच्यते

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।

तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०] इत्य् उक्तं च ।

यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदौ,

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।

स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भा।पु। ११.२०.३३] इति वक्ष्यते च ।

तत्र का युक्तिर् इत्य् अपेक्षायाम् आह—ज्ञान-मात्रम् इति । एको भगवान् षड्-ऐश्वर्य-पूर्णः वैकुण्ठ-नाथ एव दृश्यादिभिर् दृशिर् ज्ञानं तद्-आदिभिः साधनैः पृथग्-भावैः पृथग्-भावनावद्भिर् उपासकैः परं ब्रह्मादि-रूप ईयते ईर्यत इति च पाठः । यद् वा, दृश्यैः स्वरूपैः अदृश्यैः स्वरूपैर् दृश्यादृश्यैश् च स्वरूपैः । तत्र पर-ब्रह्मणो लक्षणं ज्ञान-मात्रम् इति । परमात्मनो लक्षणम् ईश्वरः पुमान् इति, तेन भगवत एव ब्रह्मत्वात् परमात्मत्वाच् च भगवत्-साधन-भूतया भक्त्यैव स्व-साध्यं प्रेमवत्-पार्षदत्वं ज्ञान-योग-साध्यं सायुज्यं च सिद्ध्यति । न च तथा ब्रह्म-साधनेन ज्ञानेन परमात्म-साधनेन योगेन वा प्रेमवत्-पार्षदत्वं सिद्ध्यति प्रमाणाभावाद् एवेति । अत्र ब्रह्मणो निराकारत्वाद् अदृश्यं स्वरूपं, परमात्मनोऽपि निराकारत्वाद् अदृश्यम् ।

केचित् स्व-देहान्तर्-हृदयावकाशे

प्रादेश-मात्रं पुरुषं वसन्तम्

चतुर्-भुजं [भा।पु। २.२.८] इत्य्-आदिना,

सहस्र-शीर्षा पुरुषः इत्य्-आदि-श्रुत्या केषांचिन् मते साकारत्वाद् दृश्यं, भगवतस् तु ब्रह्मत्वात् परमात्मत्वाच् चादृश्यं, भगवद्-अवतार-काले दृश्यम् अन्यदा दृश्यादृश्यं च । यद् उक्तं विष्णु-पुराणे प्रथमेऽंशे—

प्राकृतं ब्रह्म-रूपस्य विष्णोः स्थानम् अनुत्तमम् ।

अत्राव्यक्त-स्वरूपोऽसौ व्यक्त-रूपो जगत्-पतिः ॥

विष्णुर् ब्रह्म-स्वरूपेण स्वयम् एव व्यवस्थितः ॥ [वि।पु। १.२.५५-५६] इति ।

अस्यार्थः—अनुत्तमं निकृष्टं तत्र प्राकृत अव्यक्त-स्वरूपस् तेनाप्राकृते उत्तमे स्थाने व्यक्त-रूप इति ॥२६॥

———————————————————————————————————————

॥ ३.३२.२७ ॥

एतावान् एव योगेन समग्रेणेह योगिनः ।

युज्यतेऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ज्ञान-मात्रम् आत्मनः स्वरूपत्वान् नित्य-प्राप्तम् एवेति किम् अनेक-साधन-साध्येन योगेन प्राप्यते तद् आह—एतावान् इति । युज्यते प्राप्यते । प्रपञ्च-सङ्ग-व्युद् आस एव योग-फलम् इत्य् अर्थः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र सर्वत्र मूलं भक्तिर् एव ज्ञानादि-योगेन तु प्रपञ्च-व्युदास-मात्रम् इत्य् आह—एतावान् इति ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रयाणाम् एवोपासकानां कम् अपि साधारणं धर्म-फल-साधकम् आह—एतावान् एवेति । योगेन भक्त्य्-आख्येन ज्ञानाख्येन योगाख्येन च । योगिनो भक्तस्य ज्ञानिनोऽष्टाङ्ग-योगिनश् च यत् कृत्स्नशोऽसङ्ग इन्द्रियार्थेष्व् अनासक्तिर् एतावान् एव अभिमतार्थ-साधकत्वात् अभिमतोऽर्थः प्रयुज्यते युक्त उचितो भवतीत्य् अर्थः । कृत्स्नशोऽनासक्त्यैव स्वाभिमतं वस्तु प्रेमा मोक्षो वा लभ्यत इत्य् अर्थः ॥२७॥

———————————————————————————————————————

॥ ३.३२.२८ ॥

ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् ।

अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथं प्रत्यक्षादि-प्रतीतः प्रपञ्चो व्युदसितुं शक्यते प्रतीतेर् भ्रान्तित्वात् ? इत्य् आह—ज्ञानम् इति । पराचीनैः पराङ्-मुखैः । शब्दादिर् धर्मो यस्य तेनार्थ-रूपेण ज्ञान-रूपं निर्गुणं ब्रह्मैवावभाति, न त्व् अर्थः पृथग् अस्तीत्य् अर्थः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु ब्रह्मणो ज्ञान-मात्रत्वेऽपि नित्यतदाश्रयकस्य प्रपञ्चस्य ज्ञान-मात्रेण कथं व्युदासः स्यात् ? सति च तस्मिन् भगवत्तायाः कथं न स्यात् ? उच्यते । उभयस्य तद्-आश्रयकत्वेऽपि भगवत्ताया नित्यम् एव स्वरूप-शक्ति-सिद्धत्वात् स्वरूपवद् एवात्मारामाणां पुरुषार्थत्वाच् च न व्युदासः कर्तुं शक्यते, कर्तुम् इष्यते वा । ब्रह्म च जीवानां शब्द-गोचर एव, न त्व् अनुभव-गोचरः, तं त्व् औपनिषदं पुरुषं पृच्छामीति श्रुतेः । शास्त्र-योनित्वात् इति न्यायाच् च तत्र तत्-कार्यस्य प्रपञ्चस्य सम्बन्धश् च शब्देनैव व्युदस्यते । एकम् एवाद्वितीयं ब्रह्म इत्य्-आदिना, धाम्ना स्वेन सदा इत्य्-आदिना च । अतस् तत्र जीवानां तर्क-प्रयासो न किञ्चित्करः । जीव-स्वरूपं चिद्-वस्त्व् एव तु जीवैर् जाग्रद्-आदिष्व् अनुभूयते । जाग्रत्-स्वप्नयोर् जडस्य प्रकाश्यस्य प्रकाशकत्वेन सुषुप्तौ तु स्वयम् एव स्फुरद्-रूपत्वेन यतः सुखम् अहम् अस्वाप्सम् इत्य्-आदि प्रतिसन्धीयते । तद् एवं सति शरीर-द्वयम् इदं चिज्-जडात्मकत्वेन यज् जीवानां भासते तत्र चिद्-अंशो जीव-स्वरूपं जडांशः प्रधानस्य कार्यम् । चिद्-अंशस् तु नाना-जड-सम्बन्धेनैव नाना भासते यद् एव संसार-हेतुर् भवति । तस्माच् चिद्-अंशोऽयं जडात् पृथग् विभातीत्य् अभिप्रेत्य तथैव विभावयति—ज्ञानम् इति द्वाभ्याम् । एकं शुद्धं यत एव निर्गुणं ज्ञानं चिद्-रूपं सूर्य-स्थानीयस्य ब्रह्मणो रश्मि-परमाणु-स्थानीयत्वेन ब्रह्माभिन्नं सत् । पराचीनैस् तत्-पराङ्-मुखैर् इन्द्रियैर् या भ्रान्तिस् तयैव शब्दादि-धर्मिणा शरीर-गत-व्योमाद्य्-अर्थ-रूपेणावभाति तत्-तादात्म्यापन्नत्वेन प्रतीयते । तस्मात् तद्-व्युदासार्थम् एव विवेकः कर्तव्य इत्य् अर्थः ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भक्तिर् अस्मच् चिकीर्षिता श्रुतावगता च ज्ञान-योगाव् अप्य् अस्मज्-जिज्ञास्यौ श्रुतावगतौ च । तत्र यद् अद्वैतं ज्ञानं तन् न सम्यग् अवगतमतः सङ्क्षेपेण ब्रूहीत्य् अतो विवर्त-वादिनां सम्मतं ज्ञानम् आह—ज्ञानम् एकम् अद्वैतं ब्रह्म यत् तद् एव पराचीनैः पराङ्-मुखैर् माया-शक्त्य्-उत्थैर् इन्द्रियैः श्रोत्रादिभिर् हेतुभिः शब्दादि-धर्मणा अर्थ-रूपेण, शब्दवान् अयं मृदङ्गः, रूपवतीयं स्त्री, रसवद् इदं क्षीरं, स्वादितम् इत्य्-आदि-रूपेण जीवस्य भ्रान्त्या अवभाति—इन्द्रियाणां सर्वेषाम् अभावे ज्ञान-भेदाभावाद् यद् एकं ज्ञानं तद् अद्वैतं ब्रह्मैवेत्य् अर्थः ।

ननु तर्हि भ्रम-प्रतीत-वस्तुनो मिथ्यात्वम् इव विश्वस्यास्य मिथ्यात्वं प्रसज्जेत । मैवं, रजतम् इदम् इति प्रतीतौ शुक्तित्वेन प्रतीति-भावात् शुक्तौ रजततस्य मिथ्यात्वम् एव, चक्षुषा रूपम् एव पश्यतीत्य् अत्र तु चक्षुः-करणकम् एतत् कर्तृकं रूप-विषयकं ज्ञानम् इति ज्ञान-मात्रस्य ब्रह्मणो विशेष्यत्वेनानुभवो भवत्य् एव केवलं कर्तृ-करण-कर्माणि विशेषणानि ज्ञान-पदार्थ-भेदकानि मायया बहिरङ्ग-शक्त्या सृजन्त इति न तेषां मिथ्यात्वं ज्ञेयम् । सृष्ट्वा चाविद्यया स्व-वृत्त्या जीवः साहजिकं ज्ञानं भ्रमयित्वा स्व-सृष्ट-कर्त्रादि-विशेषण-वैशिष्ट्याद् अनन्त-विधे ज्ञाने पात्यते । एषैव जीवस्यार्थ-रूपे नाना-विधे ज्ञाने भ्रान्त्या प्रवृत्तिर् यथा गो-गर्दभादीनां शुद्धे गङ्गोदके वर्तमानेऽपि प्रणालिकादि-विविध-खात-जलेष्व् एव पिपासया प्रवृत्तिर् भ्रान्त्यैव, न त्व् अभ्रान्त-धियां मनुष्याणाम् इति । अत्र पराङ्-मुखैर् इतीन्द्रियाणां विशेषणाद् अपराङ्मुखैर् अबहिर्मुखैर् भगवद्-उन्मुखैर् इन्द्रियैस् तु मधुर-शब्दवतीयं भगवन्-मुरली, श्यामसुन्दरो ऽयं भगवद्-देह इत्य्-आदि चिद्-वस्तु-निष्ठो ज्ञान-भेदो न व्यवच्छिद्यते तस्य ब्रह्मत्वाद् एवेत्य् आहुर् भागवताः ॥२८॥

———————————————————————————————————————

॥ ३.३२.२९ ॥

यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः स्वराट् ।

एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

एकादशेन्द्रियात्मा च पञ्च-भूतात्मकस् तथा ।

सर्वाभिमानी भगवान् स्वराड् इन्द्रः पुरन्दरः ॥

इदम् अण्डं जगत् सर्वं शक्र-देहं विदुर् बुधाः ।

तत्-पति-स्त्री-गुणो रुद्रस् तस्य ब्रह्मा ततो हरिः ॥ इति वामने ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थ-रूपत्वम् एवोदाहृत्य दर्शयति, यथेति । अहं-रूपोऽहङ्कारः । स च त्रि-वृत् त्रि-गुणात्मकः । पुनश् च भूत-रूपेण पञ्च-विधः, इन्द्रिय-रूपेणैकादश-विधश् च । स्वराड् जीव-रूपः । तस्य जीवस्य वपुर् अण्डं जगच् च । यतो येभो महद्-आदिभ्यः । तथावभाति ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं विवेके सति व्यष्टि-रूपोऽयं जीवस् तथावभाति, यथा समष्टि-रूपो ज्ञान-प्रधानतया स्वराट् स्व-प्रकाशः सन्न् अवभातीत्य् अर्थः । समष्टि-रूपोऽयं जीवः कीदृशोऽपि स्वराट्तयावभाति ? तत्राह—महान् इत्य्-आदिना । समष्टि-महद्-आदि-तादात्म्यापन्नोऽपीत्य् अर्थः । तस्य स्वराड् जीवस्य समष्टि-रूपत्वम् एव दर्शयति—तस्येति । यतो जगत् स्वावर-जङ्गम-वृन्दं भवतीति ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थ-रूपेणावभातीत्युक्त-मतोऽर्थ-मध्य-पतितम् एव सर्वं मायिकं वस्त्व् इति दर्शयति—यथेति । महांश् चित्तम् अहं-रूपोऽहङ्कारः त्रिवृत् त्रि-गुणात्मकः स च पञ्चविधः शब्दादि-रूपेणाकाशादि-रूपेण च पुनर् एकादश-विध इन्द्रिय-रूपेण । स्वराट् समष्टिर् व्यष्टिश् च विराड् शुद्ध-जीवस्य वपुर् अण्डं चेति यतो महद्-आदिभ्यो जगन्-मायिकम् इदं विश्वं भवति महद्-आदीनाम् एषां बुद्धि-विषयत्वाद् अर्थ-रूपत्वम् ॥२९॥

———————————————————————————————————————

॥ ३.३२.३० ॥

एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।

समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यथैतान् पश्यन्ति तद्वद् इव ज्ञानात्मकं मत्स्यादि-रूपं पश्यन्त्य् अज्ञाः ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि जनः किम् इत्य् एवं न प्रत्येति ? तत्राह—एतद् ब्रह्म ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एतच् चिद्-वस्तु च श्रद्धा-पूर्विका या भक्तिर् भगवद्-उपासना तत्-पूर्वको यो योगाभ्यासः पूर्वोक्तः स-बीजो नित्यशः क्रियमाणस् तेनैव समाहितात्मेत्य् आदि-रूपः सन् परिपश्यति । निरीश्वर-साङ्ख्यस् तु भक्त्य्-आदिकं विना विवेक-मात्रेण न पश्यतीत्य् एवेत्य् अर्थः ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य ज्ञानस्याधिकारिणम् आह—एतज् ज्ञान-रूपं ब्रह्म ॥३०॥

———————————————————————————————————————

॥ ३.३२.३१ ॥

इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् ।

येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तम् एवार्थं सुख-प्रतिपत्त्य्-अर्थं सङ्क्षेपेणानुवदति—इतीति । हे गुर्वि पूज्ये ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इत्य् एतत् पूर्व-प्रकारकं ज्ञानं कथितम् । कीदृशं तस्य शास्त्र-मात्र-ज्ञेयस्य ब्रह्मणो दर्शनं ज्ञान-द्वारम् । पूर्व-प्रकारत्वम् एवानुवदति—येनेति । प्रकृतेः प्रधानस्य पुरुषस्य जीवस्य ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एवार्थं सुख-बोधार्थं सङ्क्षेपेणानुवदति । गुर्वि, हे मातः ! ॥३१॥

———————————————————————————————————————

॥ ३.३२.३२ ॥

ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः ।

द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ज्ञान-भक्तिं विना नैव मुक्तिः कस्यापि विद्यते ।

तयोर् एकतरेणैव विष्णुगेनोभयं विना ॥

एवम् अप्य् एतयोर् एक-भावेऽप्य् अनियते ध्रुवम् ।

एकेनापि भवेन् मुक्तिस् तद्-अर्थं त्व् अन्य-साधनम् ॥ इति हरि-वंशेषु ॥३२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेन च ज्ञान-योगेन भगवान् एव प्राप्यो यथा भक्ति-योगेनेत्य् आह—नैर्गुण्यो ज्ञान-योगश् च मन्-निष्ठो भक्ति-लक्षणश् च यो योगस् तयोर् द्वयोर् अप्य् एक एवार्थः प्रयोजनम् । कोऽसौ । भगवच्-छब्दो लक्षणं ज्ञापको यस्य । तद् उक्तं गीतासु—ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः[गीता १२.४] इति ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञान-मात्रम् इत्य् अत्रोक्तं सुष्ठु बोधयन् भगवत्य् एव सर्व-तात्पर्यं दर्शयति—ज्ञानेति द्वयेन । मन्-निष्ठो नैर्गुण्यश् चेत्य् उभयम् अप्य् उभयोर् एव विशेषणम् । तत्र यद्यपि कैवल्यं सात्त्विकं ज्ञानं सन्निष्ठं निर्गुणं स्मृतं [भा।पु। ११.२५.२४] इति भगवद्-उक्त्या नैर्गुण्यत्वं न सम्भवति, तथापि तत्-फलस्य कैवल्यस्य निर्गुणत्वापेक्षया निर्गुणत्वम् इत्य् उक्तम् । एतद् एवाह—द्वयोर् अप्य् एक एवार्थ इति ॥३२॥ [भगवत्-सन्दर्भः ९३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगस्यायत्यां ज्ञानत्वाद् एतत्-प्रकरणोक्ते ज्ञानं भक्तिश् चेति द्वे एव साधने भवतः तत् साध्ययोर् ब्रह्म-प्राप्ति-भगवत्-प्राप्त्योद्वित्वेऽप्य् उक्त-न्यायेन भगवत एव भूत्त्वात् भगवत्-प्राप्तिर् इत्य् एकम् एव फलं स्याद् इत्य् आह—ज्ञानेति । मन्-निष्ठ इति ममैव ब्रह्मत्वाद् इति भावः । नैर्गुण्यो निर्गुणो भक्ति-लक्षणश् च यो योगस् तयोर् द्वयोर् एक एवार्थः प्रयोजनम् । कोऽसौ भगवच्-छब्दो लक्षणं ज्ञापको यस्य । तद् उक्तं गीतासु—ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः[गीता १२.४] इति । ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च [गीता १४.२७] इत्य् अतः सायुज्य-प्रेम्णोर् भगवत एव सिद्धिः ॥३२॥

———————————————————————————————————————

॥ ३.३२.३३ ॥

यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।

एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ज्ञान-योगस्यात्म-लाभः फलं शस्त्रेणावगम्यते । भक्ति-योगस्य तु भजनीयेश्वर-प्राप्तिः । कुतस् तयोर् एकार्थत्वम् ? इत्य् आशङ्क्य दृष्टान्तेनोपपादयति—यथा बहूनां रूप-रसादीनां गुणानाम् आश्रयो गुड-क्षीरादिर् एक एवार्थो मार्ग-भेद-प्रवृत्तैर् इन्द्रियैर् नाना प्रतीयते । चक्षुषा शुक्ल इति, रसनेन मधुर इति, स्पर्शनेन शीत इत्य्-आदि, तथा भगवान् एक एव तत्-तद्-रूपेणावगम्यते ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इन्द्रिययैर् नानेयते इति मनसा तु सर्वांश एव गृह्यते इति । अतः सर्वांश-प्रत्यायकत्वाद् भगवद्-भक्ति-योगस् तु मनः-स्थानीयो ज्ञेयः । अतः स एवाङ्गित्वेन निगदितः । भावैर् इत्य् अत्र “कामैरिति क्वचिन्नानायते” इति पुण्यारण्यः ॥३३॥ [भगवत्-सन्दर्भः ९३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं ज्ञान-भक्ति-गम्य एव भगवान् अपि त्व् अनन्त-शक्तित्वात् सर्व-साधन-गम्य इत्य् अत्र दृष्टान्तम् आह—यथेति । बहूनां रूप-रसादीनां गुणानाम् आश्रयः क्षीरादि एक एवाइप् पृथग्-द्वारैः पृथङ्-मार्ग-प्रवृत्तैर् इन्द्रियैर् नाना प्रतीयते—चक्षुषा शुक्ल इति, रसनेन मधुर इति, त्वचा शीत इति, नासिकया सुगन्ध इति । श्रोत्रेण क्षीराभिधान इत्य् एवम् एकैक एव स्व-ग्राह्यो धर्मोऽनुभूयते, नानाग्राह्योऽत एव तत्-तद्-धर्मवान्, नापि क्षीर-रूपोऽर्थः । मनसेन्द्रिय-राजेन तु सुखदस् तृप्ति-करोऽयं शुक्ल-मधुर-शीतल-सुगन्ध-क्षीराभिधानोऽयम् अर्थ इति तत्-तत्-सर्व-धर्म-युक्त एव स प्रतीयते, तथैव शास्त्र-वर्त्मभिः कर्म-ज्ञानादिभिर् अपि साधनैः स्वर्गापवर्गादि-रूपत्वात् स्वर्ग-प्रद ईश्वर इत्य् अपवर्ग-प्रद आत्मा ब्रह्मेत्य् एकोऽंश एवानुभूयते । भक्त्या तु साधन-मुख्यया प्रेम-विषयी-भूतो भगवान् स्वर्गापवर्गादि-सर्व-फल-प्रद ईश्वरादि-शब्द-वाच्यः स सर्वथैवानुभूयते इति भागवतामृत-दृष्टा व्याख्या । तथा हि—

यथा रूप-रसादीनां गुणानाम् आश्रयः सदा ।

क्षीरादिर् एक एवार्थो ज्ञायते बहुधेन्द्रियैः ॥

दृशा शुक्लो रसनया मधुरो भगवांस् तथा ।

उपासनाभिर् बहुधा स एकोऽपि प्रतीयते ॥

जिह्वयैव यथा ग्राह्यं माधुर्यं तस्य नापरैः ।

यथा चक्षुर्-आदीनि गृह्णन्त्य् अर्थं निजं निजम् ॥

तथान्या बाह्य-करण-स्थानीयोपासनाखिला ।

भक्तिस् तु चेतः-स्थानीया तत्-तत्-सर्वार्थ-लाभतः ॥

इति प्रवर-शास्त्रेषु तस्य ब्रह्म-स्वरूपतः ।

माधुर्यादि-गुणाधिक्यात् कृष्णस्य श्रेष्ठतोच्यते ॥ [ल।भ। १.५.२०१-५] इति ॥३३॥

———————————————————————————————————————

॥ ३.३२.३४ ॥

क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः ।

आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शास्त्र-मार्गान् एव प्रपञ्चयति—क्रिययेति त्रिभिः । क्रियया पूर्त-रूपया । क्रतुभिर् यागैः । मर्शनं मीमांसा । आत्मेन्द्रिय-जयो निषिद्ध-वर्जनम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र पूर्ण-दर्शन-हेतुं भक्ति-योगं खण्ड-दर्शन-हेतुं क्रियादिकं च गणयन् तत् तत् प्राप्य तद्-आविर्भाव-भेदान् दर्शयति—क्रिययेति त्रिकेण । क्रिययेत्य्-आदि-त्रयं गृहस्थस्य धर्मः । तपो-वान-प्रस्थस्य स्वाध्याय-मर्शने ब्रह्मचारिणः । आत्मेति द्वयं सन्न्यासिन इति कर्म-काण्ड-मार्गम् उक्त्वा उपासना-काण्ड-मार्गान् आह—योगेनेति । विविधाङ्गेन नाना-भेदेन ज्ञान-काण्ड-मार्गान् आह—भक्ति-योगेनेति । आत्म-तत्त्वावबोधेनेति च प्रेम्णा ब्रह्मानुभवेन चेत्य् अर्थः । तत्र भक्तेर् द्वार-भूतानुष्ठान-विशेषम् आह—धर्मेणेति । भगवद्-धर्मेणेत्य् अर्थः । तद् एव दर्शयति—उभयं चिह्नं यत्र तेनेति । उभय-चिह्नत्वम् एव व्यञ्जयति—यो धर्मः प्रवृत्तिः श्री-भगवति निवृत्तिर् अन्यत्र तद्-द्वयवान् इति । द्वितीय-मार्गस्य द्वारम् आह—वैराग्येण च निवृत्ति-मात्रात्मकेनेत्य् अर्थः । अत्र साद्ध्यम् अप्य् अन्तर्-भूतं ज्ञेयम् अत्र प्राप्यस्याविर्भाव-भेदान् आह—स-गुणः स्वर्गादि-रूपः कर्म-मार्गैः । निर्गुणो ब्रह्म-रूपो ब्रह्मानुभवेन स्वदृक् स्व-स्वरूपेणैव सर्व-द्रष्टा भगवांस् तु भक्ति-योगेन अष्टाङ्ग-योगस् तु तद्-द्वयाङ्गत्व-संपादनानुसारेण तद्-द्वय-प्रापकः । क्वचित् तत्-तत्-सिद्धि-रूप-सगुण-प्रापकश् चेत्य् अर्थः ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शास्त्र-मार्गान् एव प्रपञ्चयति—क्रिययेति त्रिभिः । क्रियादि-त्रयं गृहस्थस्य धर्मः । तपो वानप्रस्थस्य । मर्शनं मीमांसा । स्वाध्याय-मर्शने ब्रह्मचारिणः । आत्मेति द्वयं भिक्षोः, भक्ति-योगेन चैव हीति च-कारेण क्रिययेत्य्-आदीनां भक्ति-मिश्रत्वं ज्ञापयति—क्रियया भक्ति-योगेन च क्रतुभिर् भक्ति-योगेन च दानैर् भक्ति-योगेन चेत्य् एवं सर्वत्र योजनात् भक्ति-योग-मिश्रणं विना क्रियादीनां प्रति स्व-फल-साधकत्वाशक्तिं बोधयति । एव-हि-शब्दाभ्याम् अवधारण-निश्चय-वाचकाभ्यां क्रियादि-साध्यां वस्तु भक्ति-योगेनैव केवलेन लभ्यं निश्चितं स्याद् इति च बोधयत्य् अतो भक्ति-योगस्य सर्व-मुख्यत्वं भगवत्-स्वरूपस्येव ज्ञेयम् ॥३४॥

———————————————————————————————————————

॥ ३.३२.३५ ॥

योगेन विविधाङ्गेन भक्ति-योगेन चैव हि ।

धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उभय-चिह्नेन सकाम-निष्काम-लक्षणेन । तम् एवाह—य इति । स-काम-धर्म-प्राप्यं स्वर्गाद्य् अपि भगवत एव स-गुणं स्वरूपम् इति भावः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभय-चिह्नेन स-काम-निष्काम-लक्षणेन । तद् एवं स्पष्टयति—यो धर्मः प्रवृत्ति-निवृत्तिमान् ॥३५॥

———————————————————————————————————————

॥ ३.३२.३६ ॥

आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च ।

ईयते भगवान् एभिः स-गुणो निर्गुणः स्व-दृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एभिर् वर्त्मभिः । स्व-दृक् स्व-प्रकाशः ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सगुणः क्रिया-क्रत्व्-आदि-प्राप्यः स्वर्गादि-रूप इत्य् अर्थः । निर्गुणः सन्न्यास-योगादि-प्राप्यः ब्रह्म-परमात्मदि-स्वरूप इत्य् अर्थः । स्व-दृक् स्वान् अनन्य-भक्तान् एवासक्त्या पश्यतीति स्व-दृक् शुद्ध-भक्ति-योग-प्राप्यो भगवद्-रूप इत्य् अर्थः ॥३६॥

———————————————————————————————————————

॥ ३.३२.३७ ॥

प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् ।

कालस्य चाव्यक्त-गतेर् योऽन्तर्धावति जन्तुषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं ज्ञान-योगम् उपसंहृत्य तस्य च भक्ति-योगेन समानार्थत्वम् उक्त्वा भक्ति-योगाद्य् उपसंहरति—प्रावोचम् इति द्वाभ्याम् । चतुर्-विधं त्रि-गुण-निर्गुण-भेदेन । अन्तर्धावति उत्पत्ति-निधनादि करोति ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र भक्ति-योगम् एव प्राधान्यादनुवदति । प्रावोचम् इति युग्मकेन । स्वं तस्यैव स्वरूपं रूप्यते येन तच् चतुर्-विधं लक्षणम् । तद्-अर्थम् एव च कालादयो निरूपिता इत्य् आह—कालस्येति ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं ज्ञान-योगम् उपसंहृत्य तस्य च भक्ति-योग-प्राप्ये भगवत्य् एव निष्ठां प्रदर्श्य समुचित-दृष्टान्तेन भगवत एव कर्मादि-सर्व-मार्ग-लक्ष्यत्वम् उपपाद्येदानीं भक्ति-योगादिकम् उपसंहरति—प्रावोचम् इति द्वाभ्याम् । चतुर्विधं त्रिगुण-निर्गुण-भेदेन ॥३७॥

———————————————————————————————————————

॥ ३.३२.३८ ॥

जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः ।

यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे मातः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.३२.३९ ॥

नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् ।

न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च ॥

न लोलुपायोपदिशेन् न गृहारूढ-चेतसे ।

नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपदेशेऽनधि-कारिणो दर्शयति, नैतद् इति द्वाभ्याम् । स्व-लाय परोद्वेजकाय । भिन्नाय दुराचाराय । धर्म-ध्वजाय दाम्भिकाय ॥३९-४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नैतदिति युग्मकम् । खलः पर-पक्षोऽपि दूषयितुम् इच्छया प्रविष्टः अविनीतः शिष्य-मर्यादा-रहितः । स्तब्धो गर्वी भिन्नो मतान्तरेण भेदं प्राप्तः धर्म-ध्वजो जीविका-मात्रार्थम् आत्मनि तादृशत्व-व्यञ्जकः लोलुपस्तत्-तद्-दोष-रहितोऽपि लोभेन गत-धैर्यः । गृहारूढ-चेताः पुत्र-जायादिष्वत्यन्तासक्तः अभक्तस्तद्-विपरीत-गुण-युक्तोऽपि मद्-भक्ति-विरोधि-संस्कारः भक्त-द्विषो भक्ति-संस्काराभास-सद्-भावेऽपि भक्त-विरोध-रूप-महा-दोषवन्तः । बहुत्वं तद्-भेदेष्वेकोऽपि न ग्राह्य इति भावः॥३९-४०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् उपदेशानधिकारिणो दर्शयति—नैतद् इति । खलो दूषणार्थम् एव कृत्रिम-भक्त्या अधिजिगमिषुः । अविनीतः शिष्ट-मर्यादा-रहितः, स्तब्धोऽतिगर्ववान्, भिन्नो मतान्तरेण भेदं प्राप्तः, धर्मध्वजो लाभ-प्रतिष्ठाद्य्-अर्थम् एव धर्म-निष्ठः । लोलुपस् तत्-तद्-दोष-रहितोऽपि विषय-भोगेऽतिलोभी । गृहारूढ-चेताः विषयेष्व् अनतिलोलुपोऽपि पुत्र-दार-धनादिष्व् अत्यासक्तः । अभक्तः उक्तानुक्त-सर्व-दोष-रहितोऽपि मद्-भक्ति-हीनः । किं च, भ्रम-प्रमादतः कदाचिद् एभ्योऽप्य् उपदिशतु नाम, जातु कदाचिद् अपि मद्-भक्त-द्विषाम् इति षष्ठ्य्-अन्त-निर्देशेन तत्-सम्बन्धिनोऽपि नोपदिशेत् किम् उत तेभ्य इति ॥३९-४०॥

———————————————————————————————————————

॥ ३.३२.४१-४२ ॥

श्रद्दधानाय भक्ताय विनीतायानसूयवे ।

भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च ॥

बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् ।

निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधिकारिण आह—श्रद्दधानायेति द्वाभ्याम् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-विपरीतान् अधिकारिण आह—श्रद्दधानायेति युग्मकेन । श्रद्दधानो मद्-भक्त-गुरु-मद्-उपदिष्ट-शास्त्रयोर् विश्वासवान् भक्तो भक्ति-संस्कार-युक्तः । विनीतः शिष्य-मर्यादा-युक्तः । अनसूयुः सतीर्थादिषु गुणाधिक्येन गुर्व्-आदराधिक्ये दृष्टे प्रत्युत सुखवान् । कृत-मैत्रो दया-युक्तः । शुश्रूषाभिरतो गुरु-सेवायाम् अनलसः । बहिर् इति द्वयस्य यथा बहिर् विरक्तस् तथान्तरम् अपीत्य् अर्थः । निर्मत्सरः सर्व-शुभाकाङ्क्षी । शुचिर् बहिर्-अन्तः-पवित्रः, एषां हेतु-हेतुमत्त्वं च यथेष्टं विवेचनीयम् । यस्याहम् इति । तेन गुरुणा दीयत इत्य् अन्वयाद् गुरु-लक्षणम् अप्य् उक्तम् । यद् वा, तादृश-शिष्यस्य फलम् आह—यस्येति । एवम्भूतस्य यस्याहम् अतिप्रेयान् भविष्यामीत्य् अर्थः । अत्र यद्यपि पूर्व-दोषा अपि त्यक्ताः स्युस् तथापि तेषाम् उद्देशो व्यतिरेकस्यापि पृथग्-ज्ञानार्थ इति ज्ञेयम् । किं च, एते गुणास् तु समुदिता एव ज्ञेयाः । तत्-तद्-अङ्ग-वैकल्ये तु न्यूनाधिकारित्वम् इति तान् एव गुणान् समुद्दिश्याह—शुचय इति ॥४१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधिकारिण आह—श्रद्दधानायेति द्वाभ्याम् । बहिर् बाह्य-विषयेषु विरक्ताय ॥४१-४२॥

———————————————————————————————————————

॥ ३.३२.४३ ॥

य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् ।

यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतच्-छ्रवण-कीर्तन-परस्यापि मत्-पद-प्राप्तिर् एव फलम् इत्य् आह—य इति । अप्य्-अर्थे च-कारः । सोऽपि मत्-पदवीम् एति । हि निश्चितम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : फल-श्रुत्यापि निजोपदेश-वृन्द-तात्पर्यं निर्धारयति । य इदम् इति। पदवीं भक्ति-योगम् ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् अनुष्ठातॄणां भाग्यं किं वक्तव्यम् एतच् छ्रवण-कीर्तन-मात्र-कृतो भाग्यं शृण्व् इत्य् आह—य इदम् इति । स मच्-चित्तः सन् मत्-पदवीं मच्-चरण-विन्यास-स्थलीम् ॥४३॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वात्रिंशोऽयं तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कापिलेये कर्म-विपाको नाम

द्वात्रिंशोऽध्यायः ।

॥ ३.३२ ॥

(३.३३)

त्रयस्त्रिंशोऽध्यायः

देवहूतिकृता भगवत्स्तुतिः, कपिलस्य प्रस्थानम्, देवहूतेर्ब्रह्मभावापत्तिश्च ।

॥ ३.३३.१ ॥

मैत्रेय उवाच—

एवं निशम्य कपिलस्य वचो जनित्री

सा कर्दमस्य दयिता किल देवहूतिः ।

विस्रस्त-मोह-पटला तम् अभिप्रणम्य

तुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रयस् त्रिंशे तु तस्यैव कपिलस्योपदेशतः ।

ज्ञान-भवेन तन्-मातुर् जीवन् मुक्तिर् उदीर्यते ॥

विस्रस्तं मोह-रूपं पटलम् आवरणं यस्याः सा । तत्त्वान्य् एव विषयस् तेनाङ्किता सिद्धिः साङ्ख्य-ज्ञानं तस्य भूमिं क्षेत्रं प्रवर्तकम् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यानि तत्त्वानि तत्त्व-विचारस्य विषयाः तैर् अङ्किता लक्षिता या सिद्धिः परमात्म-स्फूर्तिस् तस्या भूमिम् आश्रयं प्रवर्तकम् इत्य् अर्थः । एवम् अन्यत्र । एतद् इति पुण्यारण्य-मतः पाठः । सिद्ध इति सम्बन्धोक्ति-मतः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयस्त्रिंशे देवहूत्या स्तुतः श्री-कपिलो ययौ ।

वनं तद्-उपदिष्टेन वर्त्मनैव तम् अपि सा ॥

जनित्री जनयित्री । विस्रस्तं मोह-पटलं भक्ति-ज्ञानादि-विषयकम् अज्ञान-समूहो यस्या सा । तत्त्व-विषयेषु भक्ति-तत्त्व-साङ्ख्य-ज्ञान-तत्त्व-योग-तत्त्वादि-विषयेषु अङ्कितः परम-निपुणत्वेन अङ्क-गणनायां रेखा सञ्जाता यस्य स चासौ सिद्धा भूमयो भू-तल-स्था जना यतः स चेति तम् ॥१॥

———————————————————————————————————————

॥ ३.३३.२ ॥

देवहूतिर् उवाच—

अथाप्य् अजोऽन्तः-सलिले शयानं

भूतेन्द्रियार्थात्म-मयं वपुस् ते ।

गुण-प्रवाहं सद्-अशेष-बीजं

दध्यौ स्वयं यज् जठराब्ज-जातः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भूतेन्द्रियार्थात्म-मयं तेभ्यः प्रधानम् ।

त्वं प्रधान-मयो देव-प्रधानाद् अधिको यतः इति वाराहे ॥२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथेति वाक्यान्तरे । अजोऽपि तव वपुः केवलं दध्यौ, न तु दृष्टवान् । स च स्वयं साक्षाद् यस्य तव जठराब्जाज् जातः, स भवान् एव विश्वस्य सर्गादि विधत्ते, न तु तव सर्गादि-कर्ता कश्चिद् अस्ति । स एवं-भूतस् त्वं मे मया कथं जठरेण धृत इति त्रयाणाम् अन्वयः । कथं भूतं वपुः ? सत् व्यक्तम् । तत्र हेतुः—अन्तः-सलिले शयानम् । कीदृशम् ? भूतानीन्द्रियाणि चार्थाश् च शब्दादय आत्मा च मन एतन्-मयम् एतैर् व्याप्तम् इत्य् अर्थः । कुतः ? गुणानां प्रवाहो यस्मिंस् तत् । कुतः ? अशेषस्य कार्य-कारणस्य बीजं कारणम् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति त्रिकम् । अथ वाक्यान्तरे । अज इति प्रसिद्धोऽपि ब्रह्मा यस्य तव जठराज्जातः, ते तव रूपं दध्यौ स्वीयाश्रेष्ठत्व-सम्पादनार्थम् उपासनाञ्चकारेत्यर्थः। कतमत्तद्-रूपम् ?तत्राह—सलिलम् इति । गर्भोदकशायीत्यर्थः । तच्च किं स्वरूपं सत् ? कीदृशतया दध्यौ ? तत्राह—सदिति । सच्-चिद्-आनन्द-स्वरूपम् एवाशेष-बीजं दध्यौ । अनश्वर-बीजतया चिन्तितवानित्य् अर्थः । यतो भूतादीनां य आत्मा कारणं प्रकृतिः तन्-मयं तच्-छक्तिकम् इत्य् अर्थः । अत एव गुणानां प्रवाहो यस्मात् तादृशं तदेवं यस्य जठराज्जातोऽसौ, स एव सर्गादि विधत्ते, न तद्-आदयः ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्त्वम् उपदिश्य यत् त्वं मां संसाराद् उद्धरसि, नैतच् चित्रम् । चित्रं खल्व् एतद् एव यन् मानुष्या निकृष्टाया ममापि गर्भाज् जातोऽसि जठरीकृतानन्त-कोटि-ब्रह्माण्डाः परमेश्वर इत्य् आह—अथेति वाक्यारम्भे । अजोऽपि ब्रह्मापि अन्तः-सलिले ब्रह्माण्ड-मध्य-स्थित-सलिले शयानं वपुर् गर्भोद-शायि-रूपं तव दध्यौ केवलं, न तु प्रथमम् एव ददर्शेति भावः । कीदृशं भूतानि च इन्द्रियाणि च अर्थांश् च आत्म-मयाः स्वमयाश् चिद्-आनन्द-रूपा एव, न तु प्रकृति-विकारा यत्र तत् । गुणान् भक्त-वात्सल्यादीन् प्रकर्षेण वहतीति तत्, सत् सत्यं, अशेषस्य जगतो बीजं कारणम् ॥२॥

———————————————————————————————————————

॥ ३.३३.३ ॥

स एव विश्वस्य भवान् विधत्ते

गुण-प्रवाहेण विभक्त-वीर्यः ।

सर्गाद्य् अनीहोऽवितथाभिसन्धिर्

आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं-भूतो भवान् सर्गादि विधत्ते ? गुण-प्रवाह-रूपेण विभक्तं वीर्यं शक्तिर् येन सः । शक्ति-द्वारेण विधत्ते न साक्षाद् इत्य् अर्थः । यतोऽनीहो निष्क्रियः । तर्हि कथं शक्ति-द्वारेणापि सर्गादि विधत्ते ? तत्राह—अवितथाभिसन्धिः सत्य-सङ्कल्पः । किम्-अर्थं विधत्ते ? आत्मनां जीवानाम् ईश्वरः । जीवानां भोगार्थम् इत्य् अर्थः । ननु कथं विचित्रान् भोगान् एक एव विदध्यात् ? तत्राह—अतर्क्याः सहस्रम् अपरिमिताः शक्तयो यस्य ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः १२) : तासाम् अचिन्त्यत्वम् आह—आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिःइति ।स्पष्टम् । उक्तं चाचिन्त्यत्वं श्रुतेस् तु शब्द-मूलत्वाद् [वे।सू। २.१.२७] इत्य् आदौ । आत्मनि चैवं विचित्राश् च हि [वे।सू। २.१.२८] इत्य्-आदौ च ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र हेतुः—गुण-प्रवाहेण तद्-वृत्ति-परम्परा-भेदेन विभक्तं ब्रह्मादिभ्यः विभज्य दत्तं वीर्यं स्व-शक्तिर्येन सः । तेन च तस्य न लेप इत्याह—अनीहश्चावितथाभिसन्धिश्चेति । तत्रानीहत्वे हेतुः—आत्मा परम-साक्षी । उत्तरत्र हेतुः—ईश्वरः स्वच्छन्देच्छ इति । तत्राविरोधे हेतुम् आह—अतर्क्येति । अचिन्त्यानन्त-शक्तेस्तस्य नैतावताश्चर्यत्वम् । अपरम् अपि तदनन्तत्वम् अस्तीत्यर्थः,श्रुतेस् तु शब्द-मूलत्वात्[वे।सू। १.१.४] इति भावः ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-प्रवाहेण रज-आदि-गुण-परम्परया विभक्तं विभज्य दत्तं वीर्यं सृष्ट्य्-आदि-शक्तिर् येन सः । अवितथाभिसन्धिः सत्य-सङ्कल्पः ॥३॥

———————————————————————————————————————

॥ ३.३३.४ ॥

स त्वं भृतो मे जठरेण नाथ

कथं नु यस्योदर एतद् आसीत् ।

विश्वं युगान्ते वट-पत्र एकः

शेते स्म माया-शिशुर् अङ्घ्रि-पानः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, प्रलये यस्योदरे एतद् विश्वम् आसीत् स त्वं मया जठरेण कथं धृतः ? ननु शिशौ मयि किम् एतद् उच्यते ? तत्राह—बट-पत्र इति । अङ्घ्रिं पादाङ्गुष्ठं पिबतीत्य् अङ्घ्रि-पानः । इदम् अपि शिशुत्वं तद्वद् एव मायेति भावः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स त्वम् इति। शैशव-लीलार्थं मद्-इच्छयेति चेत् सा च स्वत एव स्यादित्याह—बट-पत्र इति माया अतर्क्या शक्तिस्तत्-प्रधानः शिशुः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स त्वं मया मानुष्या कथं जठरेण भृतः इत्य् आश्चर्यस्य कारणं त्वम् एव ब्रूहीति भावः । ननु स्व-शिशौ मयि कथम् एवं ब्रूषे ? तत्र सत्यम् एव त्वं शुशुर् एवेत्य् आह—युगान्ते प्रलये बटस्य एकस्मिन् पत्रे भवान् शेते स्म । किम्-अर्थं माया-शिशुः मां बाल-लालनाभ्यासिनः सांसारिका अपि लोका ध्यातुं शक्नुवन्त्व् इति कृपामय-बाल-मूर्तिर् इत्य् अर्थः । तत्र समुचित-मधुर-लीलाम् आह—अङ्घ्रि-पानः स्व-चरणाङ्गुष्ठ-पान-कर्ता सर्वम् एव सुखं त्यक्त्वा मच्-चरण-माधुर्ये एव सर्वे मनीषिणो निमज्जन्ति, तद् एतन् मयाप्य् आस्वाद्यानुभवनीयम् इति बुद्ध्यैवेति भावः ॥४॥

———————————————————————————————————————

॥ ३.३३.५ ॥

त्वं देह-तन्त्रः प्रशमाय पाप्मनां

निदेश-भाजां च विभो विभूतये ।

यथावतारास् तव सूकरादयस्

तथायम् अप्य् आत्म-पथोपलब्धये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : देह-तन्त्रः देह-प्रकाशः । ततिः प्रकाशो विस्तारस् तन्त्रं चेत्य् अभिधीयतेइति तन्त्र-मालायाम् ॥५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथवा न त्वं मयापत्यान्तरम् इव जठरे भृतः, किन्तु वराहाद्य्-अवतार-वद् इच्छयैवाविर्भूतोऽसीत्य् आह—त्वं देह-तन्त्रो देह-परिकरः स्वी-कृत-मूर्तिर् असि । पाप्मनां दुष्टानाम् । निदेश-भाजाम् आज्ञानुवर्तिनां विभूतये समृद्धये । आत्म-पथोपलब्धये ज्ञान-मार्ग-प्रदर्शनाय ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एतादृशं च प्राकट्यं किम्-अर्थम् ?इत्यत्राह—त्वम् इति। तत्र त्वम् इत्य् अर्धेन सामान्यतः प्रयोजनं योजयित्व विशेषत आह—यथेति । तस्मादिति शेषः ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तव स्वभाव एवायं यत् कृपयैवम् अवतरसीत्य् आह—त्वं देह-तन्त्रः, अन्य-बालको यथ मातृ-कुक्षि-प्रविष्टो मातुर् देहाधीनः, तथा त्वम् अपि लीलया मम मातुर् देहाधीनः । यद् वा, देहे तन्त्रं वस्त्रालङ्कार-परिच्छदो यस्य सः । किम्-अर्थं द्रष्टुः पाप्मनां पापानां प्रशमाय निदेश-भाजां त्वद्-आज्ञानुवर्तिनां विभूतये भक्ति-ज्ञानादि-सम्पत्त्यै । अयम् अपि कपिलावतारः स्वीय-भक्ति-ज्ञान-मार्गोपलब्धये ॥५॥

———————————————————————————————————————

॥ ३.३३.६ ॥

यन्-नामधेय-श्रवणानुकीर्तनाद्

यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते

कुतः पुनस् ते भगवन् नु दर्शनात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वद्-दर्शनाद् अहं कृतार्थास्मीति कैमुत्य-न्यायेनाह । यन्-नामधेयस्य श्रवणम् अनुकीर्तनं च तस्मात् । क्वचित् कदाचिद् अपि । श्वानम् अत्तीति श्वादः श्वपचः, सोऽपि सवनाय सोम-यागाय कल्पते योग्यो भवति । अनेन पूज्यत्वं लक्ष्यते ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : क्वचित् कदाचिद् अपि प्रारब्ध-पाप-हारित्वम् अप्य् आह द्वाभ्याम्— नामधेय-श्रवणादि-हेतोर् इत्य् एवान्वयः, उत्तरानुरोधात्, अपि-शब्दस्यासङ्गतेश् च ।

श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात्, क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षणे प्रायश्चित्त-विवक्षायां त्व् अतीत-प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अत एव श्वपच इति टीका-काराः ।

सद्यः सवनाय कल्पत इति—

सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् ।

बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥ [स्कन्द।पु।] इतिवत् ।

तत्र योग्यतायां लब्धारम्भो भवतीत्य् अर्थः । तद्-अनन्तर-जन्मन्य् एव द्विजत्वं प्राप्य तद्-आद्य्-अधिकारी स्याद् इति भावः ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वद्-दर्शनाल् लोकः कृतार्थीभवतीति कैमुत्य-न्यायेनाह—यद् इति । प्रह्वणं नमस्कारः । क्वचिद् इति कादाचित्काद् अपि स्मरणाद् इत्य् अर्थः । श्वादोऽपि श्वपचोऽपि सद्यस् तत्-क्षण एव सवनाय सोम-यागाय कल्पते योग्यो भवति । सोम-याग-कर्ता ब्राह्मण इव पूज्यो भवतीति दुर्जात्य्-आरम्भक-प्रारब्ध-पाप-नाशो व्यञ्जितः । यद् उक्तं श्री-रूप-गोस्वामि-चरणैः—

दुर्जातिर् एव सवनायोग्यत्वे कारणं मतम् ।

दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत् ॥ [भ।र।सि। १.१.२२]

सरस्वती: हे भगवन् ! क्वचित् यन्-नाम-धेय-श्रवणानुकीर्तनात् यस्य भगवतः तव नाम्नः आदौ श्रवणम्**,**अनु तद्-अनन्तरं कीर्तनं च, तस्मात् । यत्-प्रह्वणात् यस्य तव शिरसा नमस्कारात् । यत्-स्मरणात् यस्य तव भगवतः स्मरणेन च । श्वादः सर्वाधम-श्वपच-कुलोद्भूतोऽपि सद्यः तत्-क्षणात् सवनाय सोम-यागाय कल्पते योग्यो भवति । ते तव दर्शनात् पुनः कुतः नु किं कर्तव्यं कृतार्थोऽस्मीत्य् अर्थः ॥६॥

———————————————————————————————————————

॥ ३.३३.७ ॥

अहो बत श्व-पचोऽतो गरीयान्

यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।

तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या

ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् उपपादयति—अहो बत आश्चर्ये । यस्य जिह्वाग्रे तव नाम वर्तते सश्वपचोऽप्य् अतोऽस्माद् एव हेतोर् गरीयान् । यद् यस्माद् वर्तते अत इति वा । कुतः ? इत्य् अत आह—त एव तपस् तेपुः कृतवन्तः । जुहुवुर् होमं कृतवन्तः । सस्नुः तीर्थेषु स्नाताः । आर्यास् त एव सदाचाराः। ब्रह्म वेदम् अनूचुर् अधीतवन्तः । त्वन्-नाम-कीर्तने तप-आद्य्-अन्तर्-भूतं, ततस् ते पुण्यतमा इत्य् अर्थः । यद् वा, जन्मान्तरे तैस् तपो-होमादि सर्वं कृतम् इति त्वन्-नाम-कीर्तन-महा-भाग्योदयाद् अवगम्यत इत्य् अर्थः ॥७॥

———————————————————————————————————————

सनातन-गोस्वामी : [ह।भ।वि। ११.३८९] अहो बतेत्य् आश्चर्ये । यस्य जिह्वाग्रे तुभ्यं तव त्वद्-अर्थम् अपि वा नाम वर्तते, श्रद्धादि-राहित्येनापि यथा-कथञ्चिद् अपि असम्यक्तयापि नामाभासम् अपि य उच्चारयतीत्य् अर्थः, स श्वपचोऽपि जात्या कर्मणा च श्व-मांस-भक्षणाद् अनिवृत्तेर् उभयथा पापोऽपि, अतोऽस्माद् एव हेतोर् गरीयान् । यद् यस्माद् वर्तते, अत इति वा । कुतः ? इत्य् अत आह—त एव तपस् तेपुः सम्यक् कृतवन्तः । जुहुवुर् होमं कृतवन्तः । सस्नुः तीर्थेषु स्नाताः । आर्यास् त एव सदाचाराः । ब्रह्म वेदम् अनूचुर् अधीतवन्तः । त्वन्-नाम-कीर्तने तप-आदिकं सर्वं सत्-कर्मान्तर्-भूतं, अतस् ते पुण्यतमा इत्य् अर्थः । यद् वा, जन्मान्तरेषु तैस् तपो-होमादि सर्वं कृतम् अस्तीति त्वन्-नाम-कीर्तन-महा-भाग्योदयाद् अवगम्यत इत्य् अर्थः । तप-आदीनां सर्वेषां नाम-कीर्तन-फलतोक्त्या सर्व-सत्-कर्माधिकत्वं व्यक्तम् एव ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् सद्यः सवनाय कल्पते इति यद् उक्तं, तद् अपि न किञ्चित्, यतस् तप-आदिकं सर्वं तन्-नाम-ग्रहण-मात्रान्तर्भूतम् एव स्यात्, यत एव तस्य तन्-नाम-ग्रहीतुस् तप-आदि-कर्तृकेभ्यो गरीयस्त्वम् अपि स्याद् इत्य् अभिप्रेत्याह—अहो बतेति । व्याख्या तु टीकायाः प्रथम-पक्ष-गतैव ग्राह्या ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सद्यः सवनाय कल्पत इति यद् उक्तं, तद् अपि न किञ्चिद्, यतः सोम-याग-कर्तृभ्योऽप्य् आधिक्यम् एवास्य फलतो भवेद् इत्य् आह—अहो बतेत्य् आश्चर्यात्, अप्य् एतद् आश्चर्यम् इत्य् अर्थः । यस्य श्वपचस्य जिह्वाग्रे जिह्वाया अग्रे एव न तु सम्पूर्णायां तस्याम् इत्य् असम्यक्तयोच्चारितम् इत्य् अर्थः । वर्तते एव न तु वृत्तम् इत्य् असम्पूर्णम् उच्चारितम् इत्य् अर्थः । नाम एकम् एव, न तु नामानीत्य् अर्थः । सम्पूर्ण-जिह्वायां सम्पूर्णोच्चारितानि बहूनि नामानि तु किम् उतेति भावः । तुभ्यं तव त्वां प्रीणयितुं चेति वा । अत एव स श्वपचो गरीयान् अतिशयेन गुरुर् भवतीत्य् अन्यान् अपि नामात्मक-मन्त्रम् उपदेष्टुं योग्यतां धत्ते इति भावः ।

ननु तर्हि स श्वपचो यज्ञाध्ययन-तप-आदिकं करोत्व् इति, तत्राह—तेपुर् इति । तस्यैकस्य का वार्ता, अन्येऽपि ये तव नाम गृणन्ति ते एव तेपुर् इत्य् अवधारणं लभ्यते । अन्येषां तपः सामस्त्य-साङ्गत्वाद्य्-अदर्शनात् । एवं विशेषानुक्तेः सर्वम् एव तपःजुहुवुः । सर्वेष्व् एव तीर्थेषु । आर्या अपि त एव नान्ये । ब्रह्म वेदं त एव अनूचुर् अधीतवन्तः । अनूचानः प्रवचने साङ्गेऽधीती गुरोस् तु यः इत्य् अमरः ।

अत्र तेपुर् इत्य्-आदिषु भूत-निर्देशात् गृणन्तीति वर्तमान-निर्देशात् त्वन्-नामानि गृह्यमाण एव तपो यज्ञादयः सर्वे कृता एव भवन्ति, न तु क्रियमाणाः, नापि करिष्यमाणा इत्य् अतस् तांस् तु कथं पुनः कुर्युः ? इत्य् अत एव भक्तानां कर्मस्व् अनधिकारोऽपि ज्ञेयः । परोक्ष-वाचि लिड्-अन्त-पद-प्रयोगेण सिद्धान्य् एव तानि तप-आदिनापि ते न जानन्ति, किं पुनस् तत्-साधन-श्रमम् इति भावः । अत्र गृणन्तीति वर्तमान-प्रयोगेण नाम-ग्रहणाविच्छेद एव यदि स्यात् तदैवैवं स्याद् इति तु न व्याख्येयम् ।

चित्रं विदूर-विगतः सकृद् आददीत

यन्-नाम-धेयम् अधुना स जहाति बद्धम् इति ।

यन्-नाम सकृत् श्रवणात् पुक्कशोऽपि विमुच्यते संसारात् इत्य्-आदि वाक्येषु सकृत्-पद-प्रयोग-व्याकोपात् ॥७॥

सरस्वती : यत् यस्य जिह्वाग्रे रसना-प्रान्ते तुभ्यं तव नाम वर्तते अतः दैक्ष-विप्राभिधानात् स श्वपचः शौक्रान्त्यजादि-नीच-कुलोद्भूतोऽपि गरीयान् श्रेष्ठः । अहो बत इत्य् आश्चर्यम् । ये ते तव नाम गृणन्ति उच्चारयन्ति ते तपः तेपुः अनुष्ठितवन्तस् तपस्विनोऽधिका इत्य् अर्थः । जुहुवुः होमं कृतवन्तः । सस्नुः सर्वेष्व् एव तीर्थेषु स्नाताः । आर्याः सदाचाराः ब्रह्म साङ्गं वेदम् अनूचुः अधीतवन्तः ॥

———————————————————————————————————————

॥ ३.३३.८ ॥

तं त्वाम् अहं ब्रह्म परं पुमांसं

प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् ।

स्व-तेजसा ध्वस्त-गुण-प्रवाहं

वन्दे विष्णुं कपिलं वेद-गर्भम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यक्-स्रोतसि प्रत्याहृते आत्मनि मनसि संविभाव्यं सञ्चिन्त्यम् । वेदा गर्भे यस्य सः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् त्वाम् अहम् अज्ञः स्तोतुं नैव प्रभवामीति केवलं वन्दे—तम् इति । प्रत्यक्-स्रोतसि प्रत्याहृते मनसि ॥८॥

———————————————————————————————————————

॥ ३.३३.९ ॥

मैत्रेय उवाच—

ईडितो भगवान् एवं कपिलाख्यः परः पुमान् ।

वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविक्लवया गम्भीरया वाचा ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विक्लवया गद्गदया यतो मातृ-वत्सलः ॥९॥

———————————————————————————————————————

॥ ३.३३.१० ॥

कपिल उवाच—

मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे ।

आस्थितेन परां काष्ठाम् अचिराद् अवरोत्स्यसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते तव सु-सेव्येन सुख-सेव्येन मे मयोदितेन । आस्थितेनानुष्ठितेन । परां काष्ठां जीवन्-मुक्तिम् अवरोत्स्यसि प्राप्स्यसि ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सुसेव्येन भक्ति-योगस्य तथोक्तत्वात् ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुसेव्येन भक्ति-योगेनेत्य् अर्थः । आस्थितेनानुष्ठितेन परां काष्ठां प्रेम-सिद्धिम् अवरोत्स्यसि प्राप्स्यसि नित्य-सिद्ध-मातृ-भावोऽपि तां तथोक्तिर् लोक-शिक्षार्थम् एव ज्ञेयः ॥१०॥

———————————————————————————————————————

॥ ३.३३.११ ॥

श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः ।

येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यायाः यास्यसि । अतद्-विदो मन्-मतम् अविद्वांसः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मम । यायाः यास्यसि ॥११॥

———————————————————————————————————————

॥ ३.३३.१२ ॥

मैत्रेय उवाच—

इति प्रदर्श्य भगवान् सतीं ताम्45 आत्मनो गतिम् ।

स्व-मात्रा ब्रह्म-वादिन्या कपिलोऽनुमतो ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुमतोऽनुज्ञातः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उशतीम् इत्यत्र सतीं ताम् इतिक्वचित् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुमतौ हेतुः—ब्रह्म-वादिन्या स्व-पुत्रम् अपीमं ब्रह्मैव ब्रवीमि जानामि च । तत् कथं स्वेच्छया गृहे रक्षितुं प्रभवामीति विचारेण ॥१२॥

———————————————————————————————————————

॥ ३.३३.१३ ॥

सा चापि तनयोक्तेन योगादेशेन योग-युक् ।

तस्मिन्न् आश्रम आपीडे सरस्वत्याः समाहिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सरस्वत्या आपीडे पुष्प-मुकुट-तुल्ये । सरस्वत्येति पाठे मुकुटेनेव संवेष्टिते । बिन्दु-सरसि समाहिता बभूव ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सा चेति युग्मकम् । सरस्वत्येति पाठे आपीडवति तस्मिन् बिन्दुसरसीत्यर्थः । प्रकृत्याभिरूप इतिवत्तृतीया ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरस्वत्या आपीडे पुष्प-मुकुट-तुल्ये ॥१३॥

———————————————————————————————————————

॥ ३.३३.१४ ॥

अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् ।

आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं-भूता सती समाहिता ? तद् आह—अभीक्ष्णं त्रि-सवणम् अवगाहः स्नानं तेन कपिशान् पिशङ्गान् स्वत एव कुटिलानलकान् केशांस् तथात्मानं देहं चीर-धारिणं कृशं च बिभ्रती सती ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अभीक्ष्णावगाहेत्यत्र अभीक्ष्ण-गाहेति स्वामि-पुण्यारण्ययोर्मतः ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभीक्ष्णं त्रि-सवनम् अवगाहः स्नानं कुटिलालकान् जटिलान् । आत्मानं देहं च चीर-धारिणम् ॥१४॥

———————————————————————————————————————

॥ ३.३३.१५ ॥

प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् ।

स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजा-पतेः कर्दमस्य तपो-योगाभ्यां विजृम्भितम् अतिशयितं स्व-गार्हस्थ्यं हित्वा पुत्र-भूतेश्वर-विरहातुरा सती वदनं किञ्चिद् अनिर्वाच्यं शोक-व्याकुलं चकारेति षष्ठेनान्वयः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रजापतेर् इति षट्कम् । विबुधानुचरा विबुधानुचर्यः किञ्चित् किम् अपि अनिर्वचनीयम् । अतिमलिनम् इत्य्-आदिवत् । तत्र हेतुः—पुत्रेति ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजापतेर् इत्य् आदीनां वदनं किञ्चिद् अनिर्वाच्यं शोक-व्याकुलं चकारेति षष्ठेनान्वयः ॥१५॥

———————————————————————————————————————

॥ ३.३३.१६ ॥

पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः ।

आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र गार्हस्थ्ये । क्षीर-फेन-निभा मृदु-शुभ्राः शय्या आस्तरणान्याभान्ति दन्त-घटिता मञ्चकाश् च । स्वर्ण-मयाः परिकराः । आसनानि पीठादीनि । सुस्पर्शान्यास्तरणानि येषु ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्

———————————————————————————————————————

॥ ३.३३.१७ ॥

स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च ।

रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः ॥

न कतमेन व्याख्यातम्

———————————————————————————————————————

॥ ३.३३.१८ ॥

गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः ।

कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहुभिर् अमर-द्रुमैः रम्यम् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्

———————————————————————————————————————

॥ ३.३३.१९ ॥

यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः ।

वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्रोद्याने प्रविष्टम् आत्मानं देवहूतिम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रविष्टम् आत्मानं देवहूतिम् ॥१९॥

———————————————————————————————————————

॥ ३.३३.२० ॥

हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् ।

किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आखण्डल इन्द्रस् तस्य या योषितस् तासाम् अपीप्सिततमं प्राप्तुम् इष्टतमं तद् धित्वा तत्राभिमानं त्यक्त्वा ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्

———————————————————————————————————————

॥ ३.३३.२१ ॥

वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा ।

ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुहृद्-वियोगस्य दुःसहताम् आह—वनम् इति । नष्टे वत्से वत्सला गौर् इवाभूत् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवति वात्सल्याख्यायाः प्रीतेः सर्वोपमर्दित्वम् आह—वनम् इति । ज्ञात-तत्त्वापि शुद्धान्तः-करणत्वात् श्रवण-समय एव तत्-तत्-साधन-साध्याविर्भाववत्य् अपि ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवति वात्सल्याख्यायाः प्रीतेः सर्वोपमर्दित्वम् आह—वनम् इति । पत्यौ कर्दमे वनं गतेऽपि यद् अपत्यं वीक्ष्यमाणा जीवन्त्य् आसीत् तस्यापि विरहेणातुरेति—हन्त भोः के कुत्र वर्तन्ते ? पश्यन्तु यद् अपत्यं शीघ्रम् एव परावर्तयन्तां भवन्तो, नो चेद् अहं न जीविष्यामीति विलपन्ती गौर् इवेति सर्वम् एव तत्त्व-ज्ञानं सहसैव विस्मृतवतीवेति भावः॥२१॥

———————————————————————————————————————

॥ ३.३३.२२ ॥

तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् ।

बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विरह-कृत-ध्यान-फलम् आह—निस्पृहा निर्वासना । वत्स विदुर ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् एवेति सार्ध-चतुष्कम् । तत्र पूर्व-वर्णित-गृह-त्यागोऽपि तथैव जात इत्याह—तम् इति । हरिं कपिलं ध्यायन्ती कपिल-रूपेणैवाविर्भूतं स्मरन्ती तं चापत्यं ध्यायन्ती अपत्यत्वेनैव स्मरन्तीत्यर्थः ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विरहोत्थ-ध्यान-फलम् आह—तम् एवेति ॥२२॥

———————————————————————————————————————

॥ ३.३३.२३-२६ ॥

ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् ।

सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया ॥

भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा ।

युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना ॥

विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् ।

स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम् ॥

ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः स्व-सुतः कपिलो यद् आह, तद् भगवतो रूपं ध्यायती तद् आत्मानं च विश्वतो-मुखं सर्व-गतं ध्यायती ब्रह्मण्य् अवस्थित-मतिर् बभूवेति पूर्वस्यैवानुषङ्गः । केन ध्यायती ? विशुद्धेनात्मना मनसा ॥२३॥

विशुद्धौ कारणान्य् आह—भक्ति-प्रवाह-रूपेण योगेन वैराग्येण च युक्तानुष्ठानेन जातं यज् ज्ञानं तेन च । युक्तानुष्ठानं च गीता-सूक्तं—

युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।

युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥ [गीता ६.१७] इति ।

ब्रह्म-हेतुना ब्रह्मत्वा-पादकेन ॥२४॥

विश्वतो-मुखत्वे हेतुः—स्वानुभूत्या स्वरूप-प्रकाशेन तिरो-भूतम् । माया-गुणैर् विशेषणं परिच्छेदो यस्य ॥२५॥

कथं-भूते ब्रह्मणि ? आत्मनां जीवानां संश्रये भगवति ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कथं वा कीदृशत्वेन वा ज्ञात-तत्त्वाप्यभूत् ? तत्राह—ध्यायन्तीति सार्धैस्त्रिभिः । ज्ञान-कथन-समये ब्रह्मण्यवस्थित-मतिर्बभूव । भक्ति-कथन-समये भगवत्यवस्थित-मतिर्बभूव । किन्तु ब्रह्म-ज्ञानम् अपि तत्र भगवज्-ज्ञानोपोद्बलकम् एव जातम् इतिज्ञेयम्, ब्रह्म-भूतः प्रसन्नात्मा[गीता १८.५५] इत्य्-आदि-गीताद्य्-अनुसारात्तथैव भगवन्तं विशिनष्टि । आत्म-संश्रये ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२६] इति श्री-गीतानुसारात्,शुभाश्रयः स-चित्तस्य सर्वगस्य तथात्मनःइति श्री-विष्णु-पुराणानुसाराच्च। ब्रह्मण्यवस्थाने हेतुरिति अस्य विशेषणं युक्तानुष्ठान-जातेन ब्रह्म-हेतु-जातेन ब्रह्म-हेतुरिति च ब्रह्माविर्भाव-कारणेनेत्यर्थः । पूर्वं साधन-वैराग्येणेति विशुद्धेनेत्यादि च । आत्मानं शुद्ध-जीवं विशेषतः शुद्धेन अविद्या-स्पर्श-सम्भावना-मात्र-हीनेन आत्मना परमात्मना तत्-तादात्म्येन विश्वतोमुखं सर्व-गतं ध्यायन्तीति जीवात्मनः शुद्धत्व-प्रकारम् आह—स्वानुभूत्येति । भगवत्यवस्थाने हेतुर्भक्ति-प्रवाह-योगेनेति । मद्-गुण-श्रुति-मात्रेणैत्य्-आदि-रीत्या प्रेम-प्रवर्तित-सन्तत-मनो-गत्या इत्यर्थः । तत्-पूर्व-साधनं समस्त-व्यस्त-चिन्तय अन्वय-व्यतिरेक-विचार-पूर्वकं यद् भगवद्-रूपं प्रसन्न-वदनः सुतो ध्यान-गोचरम् आह—ध्यान-विषयत्वेनोपदिष्टवान् तद् ध्यायन्तीति । यदेव वासनान्तरानुसारेण ज्ञान-फलतयोपदिष्टं, तदेव हि स्व-वासनानुसारेण प्रेम-फलतयानुष्ठितम् इतिभावः । तथाप्यानुषङ्गिकतया ज्ञान-हेतुत्वम् अपि तस्यैव ज्ञेयम् ।श्रेयः-सृतिं भक्तिम् उदस्य[भा।पु। १०.१४.४] इत्यादेः ॥

तदानीन्तनीं तद्-अवस्थाम् आह—सार्धैस्त्रिभिः । तत्र निवृत्तेति सार्धकम् । जीवापत्तिर्लिङ्ग-शरीराध्यासः ॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च हन्त हन्त विरहातुराया मम मनो भगवति पुत्र-भावं न जहाति, तद् अहं क्षणम् एकान्ते उपविश्य पुत्र-भावं विहाय मनः प्रणिधाय तद् उक्तंध्यानम् एवाभ्यस्यामीति सा दध्याव् इत्य् आह—ध्यायतीति । भगवद्-रूपं ध्यायन्ती ब्रह्मणि भगवत्य् अवस्थित-मतिर् आसीद् इत्य् अन्वयः । भक्तेः प्रवाह-रूपेण योगेन युक्तं समुचितं यद् अनुष्ठान-जातं तेन । यद् वा, गीता-सूक्तं—

युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।

युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥ [गीता ६.१७] इति ।

युक्तानुष्ठानं तस्माज् जातेन वैराग्येण तथा ज्ञानेन ब्रह्म-हेतुना ब्रह्मानुभवस्य हेतुना शुद्ध-भक्त्य्-उत्थेनेत्य् अर्थः । न तु ब्रह्म-रूपेण ऐक्य-पदार्थ-ज्ञानेनेत्य् अर्थः । अत एव निर्गुणत्वाद् विशुद्धेन तद् आत्मानं तस्य भगवत आत्मानं स्वरूपं विश्वतो दश-दिक्ष्व् एव मुखं यस्य तथा-भूतं स्फूर्ति-प्राप्तं स्वानुभूत्या स्वानुभवेन पश्यन्तीति शेषः तिरोभूता मायाया गुण-विशेषा यत्र तद् यथा स्यात् तथा पश्यन्ती, ब्रह्मणि भगवति आत्मनां जीवानां संश्रये परमात्मनीति क्रमेण ज्ञानिनां भक्तानां योगिनां च प्राप्ये वस्तुनि परिपूर्णेऽङ्गिनि स्वरूपे अवस्थिता मतिर् यस्या सा । तेन भक्ति-प्रवाह-योगेनेत्य् अनेन प्रवाह-पद-व्यञ्जिता मद्-गुण-श्रुति-मात्रेणेत्य् उक्त-लक्षणा भाव-भक्तिस् तस्या अभूद् एव । तथा ज्ञानिनां तृतीय-भूमिका-विना-भूतं यत् त्वं-पदार्थ-तत्-पदार्थयोर् ज्ञानं तद् भक्ति-मते उपासकोपास्ययोर् भक्त-भगवतोर् ज्ञानम् उपयुज्यत एव । यद् उक्तं ज्ञान-वैराग्ययोर् भक्ति-प्रवेशायोपयोगितेति तथैवाष्टाङ्ग-योगिनां यत् सप्तमं ध्यानं तन् नवाङ्ग-भक्तेस् तृतीयम् अङ्गं परमोपयुक्तम् एवेति देवहूत्या ज्ञानिनां तज् ज्ञानं योगिनां ध्यानं च सारङ्ग इव सार-भुगिति न्यायेन गृहीत्वा स्वानुष्ठेयायां भक्तावन्तर्-भावितम् । अत एवोक्तं ज्ञानेन ब्रह्म-हेतुनेति । यद् आह ध्यान-गोचरं सुत इति च ॥२३-२६॥

———————————————————————————————————————

॥ ३.३३.२७ ॥

निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः ।

नित्यारूढ-समाधित्वात् परावृत्त-गुण-भ्रमा ।

न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीवोपाधि-प्रभृतय आमुक्तेः सर्व-देहिनाम् ।

नियमात् सन्त्य् अभावस् तु निष्फलत्वाद् उदीर्यते ॥ इति वराहे ॥२७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तथापि गुणानां विद्यमानत्वात् कथम् अस्मरणम् ?तत्राह—नित्यारूढो लब्ध-प्रतिष्ठः समाधिर् यस्यास् तस्या भावस् तत्त्वं तस्मात् । परावृत्तः शान्तो गुण-निमित्तो भ्रमो यस्याः सा ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्या जीवन्-मुक्तिम् आह सार्धैस् त्रिभिः । तदा च निवृत्ता जीवापत्तिर् जीव-भावो यस्यास् तस्या भावस् तत्त्वं तस्मात् । विगत-क्लेशा प्राप्त-निर्वृतिश् च सत्यात्मानं देहं न सस्मारेत्य् उत्तरेणान्वयः ।**।**२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च जरयत्य् आशु या कोषम् इत्य् उक्त-लक्षणं भक्तेर् आनुषङ्गिकं च फलं तस्याम् उद्भूतम् इत्य् आह—निवृत्ता जीवस्य जीवात्मनः आपत्तिर् आपद्-रूपा अविद्या यस्यास् तस्या भावस् तत्त्वं तस्मात् क्षीण-क्लेशा अत एवाप्त-निर्वृतिः । यद् वा, भगवन्-मातृत्वात् स्वरूपत एव या अविद्या-रहिता तद् अपि तथोकित्र् अयम् आत्मा अपहत-पाप्मेतिवत् । भक्तानां मते ध्यानानन्द-मोह परावृत्तः शान्तः गुणेषु विषयेषु भ्रमो भ्रमणं पर्यटनं यस्याः सा । आत्मानं देहम् ॥२७॥

———————————————————————————————————————

॥ ३.३३.२८ ॥

तद्-देहः परतः पोषोऽप्य् अकृशश् चाध्य्-असम्भवात् ।

बभौ मलैर् अवच्छन्नः स-धूम इव पावकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परतः परभिर् एव कर्दम-सृष्ट-विद्याधरीभिः पोषः पोषणं यस्य । आधिर् मनो-ग्लानिस् तद् असंभवाद् अकृशः मलैर् अवच्छन्नोऽपि बभौ ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न केवलम् एतावत्, किन्तु तद्-देहश्चाकृशोऽभूत् । कीदृशोऽपि ? तत्राह—परत इति । अकृशत्वे हेतुः । आध्य्-असम्भवादिति । भगवद्-आवेशानन्देनेति भावः । अत एव बभौ कीदृषोऽपि ? तत्राह—मलैरिति । अपीति योज्यम् । तत्र दृष्टान्तः—स-धूम इति ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदानीन्तनीं तद्-अवस्थाम् आह—तस्या देहः परतः पराभिर् एव कर्दम-सृष्ट-विद्याधरीभिः पोषः पोषणं यस्य सः । आधिर् मानसी व्यथा तद्-असम्भवाद् भगवद्-आवेशानन्दाद् अकृशश् च—निर्वृतिर् अतिस्थूल-करणीइति वैद्यकोक्तेः ॥२८॥

———————————————————————————————————————

॥ ३.३३.२९ ॥

स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् ।

दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दैव-गुप्तम् आरब्ध-कर्म-पालितम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैवेन श्री-वासुदेवेनैव गुप्तं किम् अजितोऽवति नोपसन्नान्[भा।पु। २.२.६] इति न्यायेन ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैव-गुप्तं भगवता रक्षितम् ॥२९॥

———————————————————————————————————————

॥ ३.३३.३० ॥

एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।

आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्वाणं नित्यम् उक्तम् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रकाश-विशेषेण परमात्माख्यं ब्रह्माख्यं च भगवन्तं महा-वैकुण्ठ-नाथम् अवाप । तं च निर्वाणं संसार-दुःख-निवृत्ति-पूर्वकं यथा स्यात्तथा अवापेत्यर्थः । तद्-आभासस्यापि तदानवस्थितेः ।*।*३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परं श्रेष्ठम् आत्मानं भगवन्तं वैराग्य्कृत-नाथम् । ननु सा किं निर्वाणं न प्राप ? तत्राह—तस्या भगवान् एव ब्रह्म निर्वाण इत्य् आह—ब्रह्मेति । यद् वा, अधोक्षजालम्भम् इहेत्य् आदौ । तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधाः[भा।पु। ७.७.३७] इति सप्तमोक्तेर् ब्रह्म-निर्वाण-पद-वाच्यं तं कपिलम् एव स्व-पुत्रं कपिल-वैराग्य्कृते प्राप ॥३०॥

———————————————————————————————————————

॥ ३.३३.३१ ॥

तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् ।

नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीर विदुर ! उपेयुषी प्राप्ता ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वीर विदुर ! ॥३१॥

———————————————————————————————————————

॥ ३.३३.३२ ॥

तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् ।

स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे सौम्य, तस्यास् तन् मर्त्यं शरीरं सरिद् अभूत् । कथं-भूतम् ? योगेन विधूता विलीना मार्त्या दैहिका धातु-मला यस्य ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-कपिल-देववद्रूपान्तरेण महा-वैकुण्ठ-स्थितापि लोक-निस्तारार्थं स्व-देहं सर्वत्र भ्रमयतीति लोक-प्रसिद्धं सरिद्-रूपम् आसाद्य स्वयं तद्-अधिष्ठात्री भूत्वा पृथिव्याम् अपि व्यूह्य स्थितेत्याह—तस्या इति ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे सौम्य, तस्यास् तन् मर्त्यं शरीरं सरिद् अभूत् । कीदृशम् ? योगेन विधूता विलीना मार्त्या धातु-मला यस्य तत् ॥३२॥

———————————————————————————————————————

॥ ३.३३.३३ ॥

कपिलोऽपि महा-योगी भगवान् पितुर् आश्रमात् ।

मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कपिलोऽपि ययाव् इत्य् उक्तं तद् एव प्रपञ्चयति, कपिलोऽपीति त्रिभिः । समनुज्ञाप्यानुज्ञां संप्रार्थ्य ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राक् प्रथमं सदाचारादुदीचीम् एव दिशं ययौ । पश्चाद्गङ्गा-सागर-सङ्गम एव स्थिरताम् अवापेत्यर्थः ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कपिलो ययाव् इत्य् उक्तम् । तद् एव प्रपञ्चयति कपिलोऽपीति त्रिभिः । समनुज्ञाप्य अनुज्ञां प्रार्थ्य प्राक् प्रथमं सद्-आचाराद् उदीचीम् एव दिशं ययौ । पश्चाद्गङ्गा-सागर-सङ्गम एव स्थिरताम् अवापेत्यर्थः ॥३३॥

———————————————————————————————————————

॥ ३.३३.३४ ॥

सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः ।

स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दत्तम् अर्हणम् अर्ध्यं निकेतनं च यस्मै ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सिद्धेति युग्मकम् ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.३३.३५ ॥

आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः ।

त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपशान्त्य् अर्हं समाहित आस्ते ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम् ।

———————————————————————————————————————

॥ ३.३३.३६ ॥

एतन् निगदितं तात यत् पृष्टोऽहं तवानघ ।

कपिलस्य च संवादो देवहूत्याश् च पावनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकरणार्थम् उपसंहरति—एतद् इति । तव त्वया ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एतदित्यत्र एवम् इतिपुण्यारण्यः ।*।*३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.३३.३७ ॥

य इदम् अनुशृणोति योऽभिधत्ते

कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् ।

भगवति कृत-धीः सुपर्ण-केताव्

उपलभते भगवत्-पदारविन्दम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतच् छ्रवण-कीर्तन-फलम् आह—य इति । सुपर्ण-केतौ गरुड-ध्वजे । उपलभते प्राप्नोति ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-कपिल-देवोक्त-तात्पर्यं फलेन दर्शयन् श्री-देवहूत्यास्तादृशीं गतिम् एव द्रढयति—य इदम् इति । योऽभिधत्ते मात्रं, यो वा शृणोति मात्रं, किम् उतानुतिष्ठति यः, किम्-उततरां श्री-देवहूतिर् इवेत्य् अर्थः ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रीमत्-कपिल-देवोक्त-तात्पर्यं फलेन दर्शयन् देवहूत्यास् तादृशीं गतिम् एव द्रढयति—य इदम् इति । योऽभिधत्ते मात्रं, यो वा शृणोति मात्रं, किमुतानुतिष्ठति यः किमुततरां श्री-देवहूतिः । उप आधिक्येन प्रेमवत् पार्षदतया भगवत्-पदारविन्द-सेवार्थं प्राप्नोति ॥३७॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयस्य त्रयस्त्रिंशः सङ्गतः सङ्गतः सताम् ॥*॥

श्रीमद्-भगवानस्यार्थम् अशास्त्रज्ञो न वेद्म्य् अहम् ।

टीकां कुर्वे तद् अप्य् आत्म-बुद्धेस् तत्-सङ्ग-वाञ्छया ॥

ब्रह्मादि-स्तम्ब-पर्यन्तं विश्वं नाथत्य् अयं जनः ।

प्रसादम् एव प्रणमन् क्षमयन् मन्तम् आत्मनः ॥

तृतीय-स्कन्ध-टीकेयम् अपूरि यमुना-तटे ।

श्री-वृन्दावन-कल्प-द्रुम-मूले ऐषाष्टमी-दिने ॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे कपिलोपाख्यानं नाम

त्रयस्त्रिंशोऽध्यायः ।

॥३३॥


  1. ब्र।सू। २.१.१ शाङ्कर-भाष्ये। ↩︎

  2. वरस्योरोर् वा भावः (क्वचित् पाठान्तरम्) ↩︎

  3. "देवहूतिर् उवाच" नोत् इन् अल्ल् एदितिओन्स्। ↩︎

  4. दुःख-फल (क्वचित् पाठान्तरम्) ↩︎

  5. सर्वाङ्ग- ↩︎

  6. पर-श्लोक-टीकायाम्। ↩︎

  7. विसृजति हृदयं न यस्य साक्षाद्

    धरिर् अवशाभिहितो\ऽप्य् अघौघ-नाशः

    प्रणय-रशनया धृताङ्घ्रि-पद्मः

    स भवति भागवत-प्रधान उक्तः ↩︎

  8. रूप-गोस्वामि-महानुभावैर् भक्ति-रसामृत-सिन्धौ १.४.१५ द्रष्टव्यः। ↩︎

  9. पेर्हप्स् नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् [वि।पु। १.२०.१८] wअस् इन्तेन्देद्। ↩︎

  10. माययाचितां इति जीवादीनां पाठः। ↩︎

  11. चास्पृहयन्ति इति श्रीधरः। ↩︎

  12. नु इति मञ्जुषा। ↩︎

  13. क्षणिक-पक्षं विज्ञान-वादिनां क्षणिक-विज्ञान-सन्ततिर् आत्मेत्य् एवं-रूपम् Ṁ एवं च क्षणिक-विज्ञानम् एवात्मा तस्योत्पत्तिमत्त्वान् नानादित्वम् इति तद्-व्यावृत्तिर् ज्ञेया । ↩︎

  14. तार्किक-मते स्वतो जडाश् चिद्-योगाच् चेतना आत्मानो भवन्ति तन्-मतं निराकर्तुं व्याचष्टे—ज्ञानादि-गुणत्वम् इति । ↩︎

  15. परिध्यानाभावात् । ↩︎

  16. परमात्म-सन्दर्भ, सेच्तिओन् १९। ↩︎

  17. मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ [चा।नी।द। १३.१२]; मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । तस्मात् तद् अभिसंयोज्य परात्मनि सुखी भवेत् ॥ [ना।पु। १.३४.५८॥। ↩︎

  18. अवयोग-प्रक्रिया-योगश् चिन्तामणौ त्रिपुरासार-समुच्चये योग-तारावल्य्-आदौ चानुसन्धेया । ↩︎

  19. छान्दोग्य ३.३२.८-९। ↩︎

  20. दहर ↩︎

  21. तत्र प्रत्ययैकतानता ध्यानम् ॥ [यो।सू। २.३] ↩︎

  22. तद् एवार्थ-भाव-निर्भासं स्वरूप-शून्यम् इव समाधिः ॥ [यो।सू। ३.३] ↩︎

  23. तस्मात् केवल- इत्य् आरभ्य एतत्-पर्यन्तं प्रीतिसन्दर्भतः प्राप्तोऽधिकः पाठः सन्निवेशितः, तत्रत्य-प्रकरण-प्रसङ्ग-योजनार्थम्। ↩︎

  24. विसृजति हृदयं न यस्य साक्षाद्

    धरिर् अवशाभिहितो\ऽप्य् अघौघ-नाशः ।

    प्रणय-रशनया धृताङ्घ्रि-पद्मः

    स भवति भागवत-प्रधान उक्तः ॥ ↩︎

  25. सुखजड इति क्वचित्। ↩︎

  26. इत्य् अनेन कोश-ध्वंसनस्य तु तद्-आनुषङ्गिक-गुणत्वम् उक्तम् । ↩︎

  27. छा।उ। ७.२४.१ द्रष्टव्यः। ↩︎

  28. थे सेच्तिओन् इन् ब्रच्केत्स् इस् इन् भक्ति-सन्दर्भ अन्द् सोमे एदितिओन्स् ओफ़् क्रम-सन्दर्भ, नोत् अल्ल्। ↩︎

  29. प्रश्नानुसारात् (ङ) ↩︎

  30. इन् भक्ति-सन्दर्भ, नोत् इन् क्रम-सन्दर्भ तेxत्स्। ↩︎

  31. ब्रह्म-द्åष्टिर् उत्कर्षात् [वे।सू। ४.१.५-६], प्रतिमासु शीला-बुद्धिः कुर्वाणो नरकं व्रजेत् इति मन्त्र-शास्त्रे। अप्सु देवा मनुष्याणां रवौ देवा मनीषिणाम् । प्रतिमास्व् अल्प-बुद्धीनां योगिनां ह्åदये हरिः ॥ इत्य् आह्निकाचार-तत्त्वे ॥ ↩︎

  32. थे सेच्तिओन् फ़्रोम् श्री-कपिल॥। तो हेरे इस् फ़ोउन्द् इन् ख, ग म्स्स्। ↩︎

  33. जातं ↩︎

  34. मैत्री-करुणा-मुदितोपेक्षाणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् [यो।सू। १.३३] इति॥ ↩︎

  35. थिस् सेच्तिओन् फ़्रोम् जीव- इस् नोत् इन् थे त्य्पेद् एदितिओन्। ↩︎

  36. थिस् सेन्तेन्चे नोत् इन् थे पुरिदस् एदितिओन्। ↩︎

  37. गोविन्द-नाम- ↩︎

  38. सम्पृक्तो ↩︎

  39. जन्तुभिश् च इति पाठान्तरः। ↩︎

  40. परायणाः ↩︎

  41. ततश् चायम् अर्थः॥।स्तौत्य् अपीति इति टीकांशः सर्वेषु कर-लिपिषु न दृश्यते। ↩︎

  42. जन्तुभिश् च इति पाठान्तरः। ↩︎

  43. तेनावगुण्ठ- इति श्रीधर-धृत-पाठान्तरः। ↩︎

  44. भाविनि (जीव) ↩︎

  45. उशतीम् इति श्री-जीवस्य पाठः। ↩︎