२३ नव-कन्यानाम् उत्पत्तिः

विषयः

समाधि-स्थितस्य कर्दमस्य देवहूति-कृता परिचर्या, कर्दम-द्वारा दिव्य-विमान-निर्माणम्, तत्र दम्पत्योर् विहारो नव-कन्यानाम् उत्पत्तिश् च

॥ ३.२३.१ ॥

मैत्रेय उवाच—

पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा ।
नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥**

विश्रम्भेणात्म-शौचेन गौरवेण दमेन च ।
शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रयो-विंशे ततो योग- निर्मिते सर्व-संपदि ।

विमाने कामगे चित्रातयो रतिर् उदीर्यते ॥

प्रस्थिते गमने कृते सति ॥१-२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्रम्भेणेति युग्मकम् ॥१-२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

देवहूत्यां वरस् तस्या वाञ्छता दिव्य-सम्पदः ।

सृष्ट्वा रतिः कर्दमस्य त्रयोविंशे निरूप्यते ॥१-२॥

———————————————————————————————————————

॥ ३.२३.३ ॥

विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् ।
अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दम्भं कपटम् । अघं निषिद्धाचरणम् । तेजीयांसम् अतितेजस्विनम् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अघम् अपराधम् ॥३॥

———————————————————————————————————————

॥ ३.२३.४-५ ॥

स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् ।
दैवाद् गरीयसः पत्युर् आशासानां महाशिषः ॥**

कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया ।
प्रेम-गद्गदया वाचा पीडितः कृपयाब्रवीत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दैवाद् गरीयसो दैवम् अप्य् अन्यथा कर्तुं समर्थाद् इत्य् अर्थः ॥ व्रत-चर्यया कर्शितां तत्रापि भूयसा कालेनातिक्षामाम् इत्य् अर्थः ॥४-५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स वै इति युग्मकम् । महशिषस् तादृश-सन्तति-पर्यवसानाः ।*।*४॥ क्षामां क्षीण-शक्तिं कर्शितां तनूकृत-देहां कर्दम उवाचेति क्वचित् ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवाद् गरीयसः दैवाद् अपि गुरुतरात्, दैवम् अप्य् अन्यथा कर्तुं समर्थात् । यद् वा, विसृज्य काम (३.२३.३) इत्य् उक्तम्, तद् अपि कियत् समयानन्तरं दैवात् परमेश्वर-प्रेरण-वशात् महाशिषः कामान् आशासानाम् इच्छन्तीम् । कृपया पीडितस् तस्याः कार्श्य-दर्शनेन सन्तप्तः ॥४-५॥

———————————————————————————————————————

॥ ३.२३.६ ॥

कर्दम उवाच—

तुष्टोऽहम् अद्य तव मानवि मानदायाः

शुश्रूषया परमया परया च भक्त्या ।

यो देहिनाम् अयम् अतीव सुहृत् स देहो

नावेक्षितः समुचितः क्षपितुं मद्-अर्थे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुहृत् प्रियः । मद्-अर्थे क्षपयितुं नावेक्षितो न गणितः । समुचितः श्लाघ्योऽपि मत्-सेवासक्तयोपेक्षित इत्य् अर्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स देहो नावेक्षितः, "तिष्ठतु नश्यतु वा" इत्य् एवं न गणित इत्य् अर्थः । परम-पतिव्रतायास् तवैतत् युक्तम् एवेति देहं विशिनष्टि—मद्-अर्थे मत्-सेवार्थे एव क्षपयितुं क्षीणी-कर्तुं समुचितः ॥६॥

———————————————————————————————————————

॥ ३.२३.७-८ ॥

ये मे स्व-धर्म-निरतस्य तपः-समाधि-

विद्यात्म-योग-विजिता भगवत्-प्रसादाः ।

तान् एव ते मद्-अनुसेवनयावरुद्धान्

दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥

अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ-

विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य ।

सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान्

दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तपश्समाधिश्विद्या च उपासना तासु य आत्म-योगश् चित्तैकाग्र्यं, तेन विजिताः प्राप्ता भगवत्-प्रसादा दिव्य-भोगाः, तान् एव तेऽवरुद्धांस् त्वयापि वशी-कृतान् प्रपश्य । ते दिव्यां दृष्टिं वितरामि, यथा दृष्ट्या द्रक्ष्यसि ॥७॥

अन्ये पुनर् भोगाः किम् ? न किम् अपि । अतितुच्छा इत्य् अर्थः । तत्र हेतुः—भगवत उरुक्रमस्य या भ्रूः, तस्या उद्विजृम्भो वक्री-भावः, तेन विभ्रंशिता अर्थ-रचना मनो-रथा येषु । निज-धर्मेण पाति-व्रत्येन दुह्यन्त इति तथा तान् । दुरधिग्आन् दुष्प्रापान् । नृपा वयम् इति या विक्रियास् तत्-तद्-भोग-विकृतयस् ताभिः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः १३): तपश्समाधिश्विद्या च उपासना, तासु य आत्म-योगश् चित्तैकाग्र्यम् । अन्ये पुनर्-भोगाः किम् उरुक्रम-सम्बन्धिनः । अपि तु नेत्य् अर्थः । अत एव भगवतो भ्रुव इत्य्-आदि ॥७-८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ये म इति । पूर्वं स्व-धर्मः तत्-प्रधण-पूजा, ततस् तपः, ततः समाधिर् एकाग्रता, ततो विद्या अनुभवः, ततः आत्मना भगवता शुक्लेन योगः संयोगः, तैर् विजिता इति स्व-धर्मादीम् अपि तत्-परत्वेन कृतिर् गम्यते ॥७॥ नृपाणां विक्रियाभिः सामाद्य्-उपायैः ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् एतन् निरुपाधि-सेवा ऋण-परिशोधनार्थम् अन्यत् किञ्चन तुभ्यं दातुं नोपयुज्यते किन्त्व् एतद् एव परम-दुर्लभं वस्त्व् इत्य् आह—ये इति । समाधिर् ध्यान-परिपाकः, विद्या उपासना, ताव् एव आत्म-योगौ, ताभ्यां विजिताः प्राप्ताः अवरुद्धान् त्वयापि वशीकृतान् न्यायतो लब्धान् एवेत्य् अर्थः । प्रपश्य ते दिव्यां दृष्टिं वितरामि, यया दृष्ट्या तान् एवाधुना साक्षाद् द्रक्ष्यसि । यद् वा, मत्-कृपया दृष्टिं प्रकर्षेण पश्य, अलम् अत्र लज्जयेति भावः । अत्र स्व-धर्म-तपो-मिश्र-भगवद्-ध्यानादिभिर् ये भगवत्-प्रसादास् तेभ्यो भोग-मोक्षाव् अबाधिताव् एव स्याताम् इत्य् अभिप्रायेणाह—अभयान् अशोकान् इति ॥७॥

अन्ये शच्य्-आदिभिर् अपि भुज्यमानाः स्वर्गीया अपि भोगा भय-शोक-व्याप्ता एवेत्य् आह—अन्ये इति । किं ? न किम् अपि, तुच्छा इत्य्-आदि । निज-धर्मेण पातिव्रत्येन दुह्यमानान् नृपोऽहं नृप-पत्नी चाहम् इति वा विक्रियास् ताभिर् दूरधिगम्आन् दुर्लभान् इत्य् अर्थः ॥८॥

———————————————————————————————————————

॥ ३.२३.९ ॥

एवं ब्रुवाणम् अबलाखिल-योगमाया-

विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् ।

सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्-

व्रीडावलोक-विलसद्-धसिताननाह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिला योग-मायाश्विद्याश् च तत्-तद्-उपासनाः, तासु विचक्षणं निपुणम् एवं ब्रुवाणं पतिम् अवेक्ष्य गताधिर् निश्चिन्ता जाता । संप्रश्रयो विनयः प्रणयः प्रेम ताभ्यां विह्वला गद्-गदा तया गिरा ईषद्-व्रीडा-सहितो योऽवलोकः, तेन विलसद् विकसितं हसितं जात-हासं चाननं यस्याः सा । आह जगाद ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इत्य् अत्र हसितस्यैव ईषद् इत्य् अपि विशेषणम् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगमाया योगोत्थ-विभूतयः, विद्या उपासनाश् च, तासु च विचक्षणं मद्-भर्ता मत्-पार-लौकिकीर् भोग-मोक्ष-सम्पदो मह्यं ददाति, न त्व् ऐहिकीर् इति मनसि विमृशन्ती सम्प्रश्रयो विनयः प्रणयः प्रेम-विशेषः, ताव् एव विह्वलं यथा स्यात्, तथा यान्ती कर्दमं प्रति गच्छन्ती या गीस् तया । विह्वलयेति सोमपा-शब्दवत् । ईषद्-व्रीडा-युक्तोऽवलोक एव विलसद्-धसिताननं यस्याः, सा आह

पत्यौ प्रकट-सम्भोग-प्रार्थनाया रसाभासत्वात् तस्या देवहूतेश् चोत्तमाङ्गना-मुकुट-मणित्वात् राद्धम् इत्य्-आदि पद्य-द्वयस्य मुखेन वक्तुम् अशक्यत्वात् तद्-वाचनार्थं लज्जा-हसित-म्रक्षितम् अवलोकम् एव मुखं चकार । तत्र व्यज्यमानौ विनय-प्रणयाव् एव गद्गद-वाणीं चकार तथा यथा राद्धम् (१०) इत्य्-आदि-पद्य-द्वयं स्पष्टम् उच्यमानं बभूव । मुखेन तु सा तुष्णीम् एव तदा तस्थाव् इत्य् अर्थः ॥९॥

———————————————————————————————————————

॥ ३.२३.१० ॥

देवहूतिर् उवाच

राद्धं बत द्विज-वृषैतद् अमोघ-योग-

मायाधिपे त्वयि विभो तद् अवैमि भर्तः ।

यस् तेऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो

भूयाद् गरीयसि गुणः प्रसवः सतीनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बतेति हर्षे । द्विज-वृष ! द्विज-श्रेष्ठ ! हे भर्तः ! त्वय्य् एतत् सर्वं राद्धं सिद्धम् एव । तद् अहम् अवैमि जानामि । किन्तु यस् ते त्वया समयोऽभिहितः स तावद् भूयात्सकृद् इति गर्भ-संभव-मात्र-पर्यन्त इत्य् अर्थः । यस्माद् गरीयसि श्रेष्ठे भर्तरि हेतु-भूते स्त्रीणां प्रसवो गुणो महान् लाभः । समास-पाठे गरीयसि पत्यौ सति सतीनां यतो गुण-प्रसवो गुण-विस्तारो भवति । अतः पुत्रोत्पत्त्या मम गुण-विस्तारे जाते पश्चात् त्वद्-उक्तं सर्वं भवत्व् इति भावः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अङ्ग-सङ्ग इत्य् अनेन प्राप्तां मदनोद्भव-द्योतन-जाम् लज्जां वारयति—गरीयसीति ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवहूतिर् उवाचेति । नेत्रेङ्गितेनेति शेषः । हे द्विज-वृष ! ब्राह्मण-श्रेष्ठ ! एतत् त्वयि राद्धं सिद्धम् एव तद् अहम् एव अवैमि जानाम्य् एव । किन्तु यस् ते त्वया समयोऽभ्यधायि उक्तः, स भूयात् सकृद् गर्भ-सम्भव-मात्र-पर्यन्तोऽङ्ग-सङ्ग इत्य् अर्थः । यस्माद् गरीयसि श्रेष्ठ-पत्यौ हेतु-भूते सतीनां स्त्रीणां गुणः खलु प्रसवोऽपत्योत्पत्तिर् एव यद्-अभावाद् बन्ध्येयम् इति स्त्रीषु निन्दैवेति भावः । निर्विसर्ग-पाठे गुणानां प्रसव इति समासेऽपत्य-मिषेण पत्युर् गुणा एव प्रसूयन्ते, ताभिर् इति मे त्वत्तः सद्-अपत्यानि भवन्त्व् इति भावः ॥१०॥

———————————————————————————————————————

॥ ३.२३.११ ॥

तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं

येनैष मे कर्शितोऽतिरिरंसयात्मा ।

सिद्ध्येत ते कृत-मनोभव-धर्षिताया

दीनस् तद् ईश भवनं सदृशं विचक्ष्व ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग-सङ्गार्थं च प्रथमम् इति कर्तव्यतां संपादयेत्य् आह—हे ईश, तत्र अङ्ग-सङ्गे इति कृत्यं साधनं यथोपदेशं काम-शास्त्रानुसारेण उपशिक्ष सञ्जानीही, उपकल्पयेत्य् अर्थः । येन साधनेन अभ्यङ्ग-भोजन-पानादिनातीव रन्तुम् इच्छया कर्शितो दीनश् च ममैष आत्मा देहः सिद्ध्येत रति-समर्थो भवेत् । कथं-भूतायाः ? ते त्वयैव कृतः क्षोभितो यो मनो-भवः, तेन धर्षितायाःतत् ततोऽनुरूपं भवनं विचक्ष्व वितर्कय, विचारयेति यावत् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र सत्-पुत्रोत्पत्ति-कामनायाम् इति कर्तव्यं शिक्षययथोपदेशं त्वच्-छिक्षानुरूपं येन च तत्-कर्तव्येन हेतुना तत्-कृत-काम-धर्षिती-भवन्त्या मे मम एष आत्मा देहः तप-आदिना अतिकर्शितो दीनश् चापि रिरंसया सिद्ध्येत, तद्-योग्यः स्यात् तद्-अनन्तरं च ।*।*११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि प्रविश पर्ण-शालां तत् ते वाञ्छितं करवाणीति चेत्, न, तद् ईदृश-मलिन-कृश-शरीरेण नैतादृश-पर्ण-शालायां नैतादृश-परिच्छदेन सिद्ध्येद् इत्य् आह—तत्रेति । तत्र अङ्ग-सङ्गे इति कृत्यं साधनं यथोपदेशं वात्स्यायनादि-शास्त्रोपदेशम् अनतिक्रम्य उपशिक्ष, स्वस्माद् एव जानीहि, काम-प्रक्रियायाः स्वैक-गम्यत्वात् । ज्ञात्वा च तत्-तत्-समुचित-वस्तु-जातं रसोद्दीपनादिकम् अभ्यङ्ग-भोजन-पानादिकं च साधु सम्पादय इत्य् अर्थः । येन एष आत्मा देहः अतिरिरंसया कर्षितः क्षोभितः सन् सिद्ध्येत रति-समर्थो भवेत् । मम कीदृश्याः ? ते त्वयैव कृतः स्व-दर्शनादिना जनितो यो मनोभवह्, तेन धर्षितायाः दीनः सम्प्रति तु दरिद्र एव तत् तस्मात् हे ईश ! योग-बलेन सर्वं स्रष्टुं समर्थः । सदृशं रत्य्-अनुरूपं भवनंविचक्ष्व विचारय ॥११॥

———————————————————————————————————————

॥ ३.२३.१२ ॥

मैत्रेय उवाच—

प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः ।
विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि तत् क्षणम् एव आविरचीकरद् आविर्भावयां बभूव ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रियाया इति दशकम् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तूष्णीं स्थितया देवहूत्या नेत्रेङ्गितेनैव एतद् यद् उक्तं कर्दमोऽपि तूष्णीं स्थित एव । तदैव तत् तत् सर्वं सम्पादयामासैव, न तु प्रत्युत्तरं ददाव् इत्य् आह—प्रियाया इत्य्-आदिना ॥१२॥

———————————————————————————————————————

॥ ३.२३.१३ ॥

सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् ।
सर्व-र्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव विशिनष्टि—सर्व-काम-दुघम् इति नवभिः । सर्वैश् च रत्नादिभिः समन्वितम् । सर्व-र्द्धीनां सर्व-संपदां य उपचयः, तस्योदर्क उत्तरोत्तराभिवृद्धिर् यस्मिन् । उपस्कृतं शोभितम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च देव-मनुष्यादि-कृतम् इव तद्-अपूर्ण-सुख-मयम् इत्य् आह—सर्वेति । न च सामान्य-विमानम् इव उत्तरोत्तर-काल-कृतापचय एव उदर्कः उत्तरोत्तर-फलं यत्र तत् । उपस्करणं परिकरः, न चौष्ण्य-शैत्यादि-कालिक-दुःख-सहितम् इत्य् आह—सर्व-कालेति ॥१३॥

———————————————————————————————————————

॥ ३.२३.१४ ॥

दिव्योपकरणोपेतं सर्व-काल-सुखावहम् ।
पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपकरणं परिकरः । पट्टिका अल्प-विस्तार-पट्ट-वस्त्र-विशेषाः, पताका विस्तृतास् ताभिः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पट्टिकाभिः क्षुद्र-पताकाभिः पताकाभिर् बृहतीभिः ॥१४॥

———————————————————————————————————————

॥ ३.२३.१५ ॥

स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः ।
दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विचित्राणि माल्यानि पुष्पाणि यासु । मञ्जु यथा भवत्य् एवं सिञ्जन्तः कूजन्तः षड्-अङ्घ्रयो यासु ताभिः स्रग्भिः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दुकूल-क्षौमे अतसी-तन्तु-सम्भवत्वेन समानेऽप्य् अवान्तर-भेदे ज्ञेये, दुकूलं क्षौमम् अस्त्रियाम् इत्य् अमरः ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्रग्भिर् अतिपुष्ट-दीर्घाभिर् गोपानसी-लग्नाभिः । विचित्राणि रक्त-पीतादि-वर्णानि माल्यान्य् अन्तरा प्रोतानि यासु ताभिः । दुकूलैः क्षुद्र-कृमि-कोषोत्थ-पट्ट-वस्त्रैः क्षौमैर् अतसी-तन्तु-भवैः कौशेयैर् बृहत्-कृमि-कौषोत्थैर् नाना-वस्त्रैर् आङ्करैः कार्पासैश् च चतुष्किका वेद्यास् तरण-रूपैः ॥१५॥

———————————————————————————————————————

॥ ३.२३.१६ ॥

उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् ।
क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपर्य् उपरि विरचित-गृहेषु । कशिपुभिः शय्याभिः कान्तं कमनीयम् । पर्यङ्कादिभिश् च कान्तम् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कशिपुभिः शय्याभिः ॥१६॥

———————————————————————————————————————

॥ ३.२३.१७ ॥

तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् ।
महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः ॥**

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.२३.१८ ॥

द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् ।
शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : देहली-द्वार-बन्धः ॥१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वाःसु द्वारेषु विद्रुम-निर्मिता देहली उदुम्बरः, तया भातं शोभितम् । वज्र-खचित-कपाट-युक्तम् । इन्द्रनील-मयेषु शिखरेषु प्रासादाग्र-भागेषु ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विद्रुम-मय्या देहल्या भातं द्वार्षु वज्र-कवाटवत् हीरक-कवाट-युक्तं शिखरेषु सर्वोर्ध्व-प्रासाद-चूडासु ॥१८॥

———————————————————————————————————————

॥ ३.२३.१९ ॥

चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः ।
जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चक्षुष्मन्त इव ये पद्म-रागाग्र्यास् तैः । यद् वा, चक्षुष्मद् इव । कैः ? पद्म-रागाग्र्यैः । विचित्रैर् वैतानैर् वितान-समूहैः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हीरक-मय-भित्तिषु अर्पितैः पद्मरागाग्र्य-खण्डैश् चक्षुष्मद् इव वैतानैर् वितान-समूहैः हेम्नस् तोरणैर् वन्दन-माल्येति ख्यातैः ॥१९॥

———————————————————————————————————————

॥ ३.२३.२० ॥

हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् ।
कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : कृत्रिमान् शोभार्थ-कृतान् ॥२०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्रिमान् अपि हंसादीन् स्वान् स-जातीयान् मन्यमानैस् तत्र तत्र अधिरुह्याधिरुह्य निकूजितम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृत्रिमान् अपि हंसादीन् स्वान् स्व-जातीयान् मन्यमानैस् तत्र तत्र स्व-गण-मध्ये अधिरुह्य निर्भरं कूजितम् । विहार-स्थानं क्रीडा-प्रदेशः विश्रामः शयन-गृहं संवेशः सम्भोगान्तर्-निद्रा-गृहम् ॥२०॥

———————————————————————————————————————

॥ ३.२३.२१ ॥

विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः ।
यथोपजोषं रचितैर् विस्मापनम् इवात्मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विहार-स्थानं क्रीडा-प्रदेशः, विश्रामः शयन-गृहम्, संविश उपभोग-स्थानम्, प्राङ्गणं गृहाद् बहिः, अजिरं प्राकाराद् बहिः, यथा उपजोषं यथा-सुखम् आत्मनः स्वस्य माया-विरोऽपि विस्मय-जनकम् इव ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मन इति । विमानस्यापि विस्मापनम् इव इत्य् उत्प्रेक्षा-मात्रम् ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राङ्गणं गृहाद् बहिः अजिरं प्राचीराद् बहिः । यथोपजोषं यथा-सुखम् आत्मनः स्वस्य कर्दमस्यापि, इवेति स्व-निर्मितत्वात् स्वस्य वस्तुतो न विस्मापनम् इति ॥२१॥

———————————————————————————————————————

॥ ३.२३.२२ ॥

ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा ।
सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नातिप्रीतेन मलिन-देहत्वात् परिचारिकाभावाच् च ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मलिन-देहादित्वेन भावानुद्दीप्तेर् नातिप्रीतेन स्वयम् इत्य् अत्र प्रियाम् इति क्वचित् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नातिप्रीतेन मलिन-देहत्वात् परिचारिकाभावाच् चेति भावः ॥२२॥

———————————————————————————————————————

॥ ३.२३.२३ ॥

निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह ।
इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मिन् ह्रदे बिन्दु-सरसि । आरुहाधिरोह । शुक्लेन विष्णुना कृतम् आनन्द-बिन्दु-निपातनेन । यापकं प्रापकम् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इति-कृत्यं शिक्षयति—निमज्ज्येति युग्मकम् । वेणी-भूतान् स्व-मूर्धजान् इति क्वचित् ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ह्रदे बिन्दु-सरसि यापकं प्रापकम् ॥२३॥

———————————————————————————————————————

॥ ३.२३.२४ ॥

सा तद् भर्तुः समादाय वचः कुवलयेक्षणा ।
स-रजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : समादाय आहृत्य । स-रजं मलिनम् । वेणी-भूतान् जटिलान् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समादाय आहृत्य ॥२४॥

———————————————————————————————————————

॥ ३.२३.२५ ॥

अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् ।
आविवेश सरस्वत्याः सरः शिव-जलाशयम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शबलौ विवर्णौ स्तनौ यस्मिंस् तत् । सरस्वत्याः शिवानि जलान्य् आशेरते यस्मिन्, शिवा जलाशया जल-चरा यस्मिन्न् इति वा ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्

———————————————————————————————————————

॥ ३.२३.२६ ॥

सान्तः-सरसि वेश्म-स्थाः शतानि दश कन्यकाः ।
सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सा तत्र निमग्ना सती विस्मयं ददर्श । तम् आह—सान्तः सरसि इति दशभिः । उत्पल-गन्धयः कमला-गन्धीः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सान्तर् इति युग्मकम् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२३.२७ ॥

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।
वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुभ्यं तव कर्म-करीः परिचारिका वयम् अस्मान् आज्ञापयेति स्त्रियः प्रोचुः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्म-करीर् नः शाधिवयं किं करवाम इत्य् अन्वयः ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुभ्यं तव कर्म-करीः किङ्कर्यः । यद् वा, तुभ्यं परिचरितुं त्वम् अस्मान् शाधि आज्ञापय ॥२७॥

———————————————————————————————————————

॥ ३.२३.२८-२९ ॥

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।
दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः ॥**

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।
अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च स्नानेन स्नान-योग्य-तैलादिना ॥२८॥ परर्ध्यान्य् उत्कृष्टानि । वरीयांसि तत्-प्रियाणि द्युमन्ति दीप्तिमन्ति च । पानं पेयम् । अमृतं स्वादु । आसवं मादकम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्नानेनेति युग्मकम् । परार्ध्यानीति पाठो बहुत्र ॥२८-२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्नानेन स्नान-योग्य-तैलादिना भूषणादीनि परिधातुं ददुःअन्न-पाने च भोक्तुं ददुः ॥२८-२९॥

———————————————————————————————————————

॥ ३.२३.३० ॥

अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् ।
विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : आदर्शे ददर्श ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदर्शे स्वम् आत्मानं ददर्शेति शेषः । आत्मानं विशिनष्टि चतुर्भिः । कृतं स्वस्त्य्-अयनं मङ्गलं यस्य । पुंस्त्वम् आत्म-शब्द-सामानाधिकरण्यात् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथादर्श इति चतुष्कम् ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वम् आत्मानं ददर्शेति शेषः ॥३०॥

———————————————————————————————————————

॥ ३.२३.३१ ॥

स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् ।
निष्क-ग्रीवं वलयिनं कूजत्-काञ्चन-नूपुरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विरजम् इत्य् अस्य प्रपञ्चः । स्नातम् उद्वर्त्य क्षालितम् । कृतं शिरः-स्नानम् अभ्यङ्गो येन । भूषितत्वम् एवह । निष्कं पदकं ग्रीवायां यस्य ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृत-शिरः-स्नानं तैलादिना आशिर आरभ्य सर्वाङ्ग-स्नानम् ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काश्चित् पाश्चात्याः स्त्रियः शिरसा न स्नान्तीति तद्-वारणार्थम् आह—कृत-शिरः-स्नानम् इति ॥३१॥

———————————————————————————————————————

॥ ३.२३.३२ ॥

श्रोण्योर् अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया ।
हारेण च महार्हेण रुचकेन च भूषितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहूनि रत्नानि यस्यां तया । रुचकेन मङ्गल-द्रव्येण कुङ्कुमादिना । तद् उक्तं विश्व-प्रकाशे—रुचकं मङ्गल-द्रव्ये ग्रीवा-भरण-दन्तयोः इति ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रोण्योः कट्योर् अध्यस्तया उपरि-विन्यस्तया काञ्च्या रुचकेन मङ्गल-द्रव्येण—रुचकं मङ्गल-द्रव्ये ग्रीवाभरण-दन्तयोः इति विश्वः ॥३२॥

———————————————————————————————————————

॥ ३.२३.३३ ॥

सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा ।
पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदता सुभ्रुवा चक्षुषेति च जाताव् एक-वचनानि । एतैर् लसच् छोभमानं मुखं यस्य । कथं-भूतेन चक्षुषा ? श्लक्ष्णो मनो-हरः स्निग्धोऽपाङ्गो नेत्र-प्रान्तो यस्य । पद्म-कोशेन स्पर्धत इति पद्म-कोश-स्पृत्, तेन ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुदता सुभ्रुवो चक्षुषेति जाताव् एक-वचनानि । श्लक्ष्णो मनोहरः । स्निग्धोऽपाङ्गो यत्र तेन । पद्म-कोषेण सह स्पर्धत इति पद्म-कोष-स्पृत्, तेन ॥३३॥

———————————————————————————————————————

॥ ३.२३.३४ ॥

यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् ।
तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्ट्वा च यदा पतिं सस्मार तदा यत्र असौ तत्र एव स्वयम् अप्य् आस्ते ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च भावो जात इत्य् आह—यदेति ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२३.३५ ॥

भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा ।
निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं निशाम्य दृष्ट्वा । तां च तस्य योग-गतिं योग-प्रभावं दृष्ट्वा । संशयं किम् इदम् इति विस्मयम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न तु जल-ह्रदात् पद-व्यापारेण यान्तम् इति तस्याद्भुतैव योग-गतिःनिशाम्य दृष्ट्वा तस्यैव योग-गतिं योग-प्रभावं च दृष्ट्वा संशयं—"कथम् एतद् अभूत् ?" इति विस्मयम् ॥३५॥

———————————————————————————————————————

॥ ३.२३.३६ ॥

स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स मुनिर् विवाहात् प्राग् यद् आत्मनो रूपं, तद् एव पुनर् बिभ्रतीम्संवीतौ प्रावृतौ रुचिरौ स्तनौ यस्याः । पाठान्तरे तु रूप-विशेषम् ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स ताम् इति युग्मकम् । अपूर्वत्वे हेतुः आत्मन इति टीकायां विवाहात् प्राग् इत्य्-आदिकम् अपूर्ववद् इति वति-प्रत्यय-स्वारस्याल् लभ्यते । अपूर्वत्वं हि तपो-मय-दशा-मात्रापेक्षया ।*।*३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स मुनिर् आत्मनो रूपं विवाहात् प्राक् यादृशम् आसीत्, तद् एव पुनर् बिभ्रतीम् इत्य् अर्थः । संवीतौ प्रावृतौ रुचिरौ स्तनौ यस्यास् ताम् । नपुंसक-पाठे रूप-विशेषणम् ॥३६॥

———————————————————————————————————————

॥ ३.२३.३७ ॥

विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् ।
जात-भावो विमानं तद् आरोहयद् अमित्र-हन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शोभने वाससी यस्याः । जातो भावः प्रेम यस्य । हे अमित्र-हन् ! जित-काम ! ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अमित्र-हन् ! जित-काम ! ॥३७॥

———————————————————————————————————————

॥ ३.२३.३८ ॥

तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो

विद्याधरीभिर् उपचीर्ण-वपुर् विमाने ।

बभ्राज उत्कच-कुमुद्-गणवान् अपीव्यस्

ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : उद्गुणवान् अवीच्यः उत्तमामृत-वीची-युक्तः ॥३८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन् विमाने मुनिर् बभ्राजेन लुप्तो महिमा स्वातन्त्र्यं यस्य । उपचीर्णं शुश्रूषितं वपुर् यस्य । विकसित-कुमुद्-गणवान् अपीव्योऽतिसुन्दरः । पूर्ण-चन्द्र इव मुनिः, नभ इव विमानम्, तारा इव ताः स्त्रियः, कुमुदानीव तासां नेत्राणीति ज्ञेयम् ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उडुपतिर् इति उडुः रोहिणी, सा च प्रिया-स्थानीया ज्ञेया, प्रिया-शब्द एवोभयत्रोन्नीयते ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन् विमाने मुनिर् बभ्राजेउपचीर्णं शुश्रूषितं वपुर् यस्य सः । विकसित-कुमुद्-गणवान् अपीव्योऽतिसुन्दरः । पूर्ण-चन्द्र इव मुनिः, नभ इव विमानम्, तारा इव ताः स्त्रियः, कुमुदानीव तासां नेत्राणीति ज्ञेयम् ॥३८॥

———————————————————————————————————————

॥ ३.२३.३९ ॥

तेनाष्ट-लोकप-विहार-कुलाचलेन्द्र-

द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु ।

सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु

रेमे चिरं धनदवल् ललना-वरूथी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन विमानेन । अष्ट-लोक-पालानां विहारो यस्मिन् कुलाचलेन्द्रे मेरौ तस्य द्रोणीषु दरीषु । अनङ्गस्य सखा यो मारुतः शीत-सुगन्धम् अन्दानिलस् तेन सौभगं सौन्दर्यं यासु । सिद्धैर् नुतः स्तुतः सन् । द्युधुनिर् गङ्गा तस्याः पातेन शिवः स्वनो यासु तासु रेमे । ललना-वरूथी स्त्री-रत्न-समूहवान् ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन विमानेन रेमे । कुलाचलेन्द्रो मेरुः द्युधुर् निर्गङ्गा तस्या ऊर्ध्वतः पातेन शिवः स्वनो यासु तासु ललना-समूहवान् ॥३९॥

———————————————————————————————————————

॥ ३.२३.४० ॥

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैश्रम्भकादिषु देवोद्यानेषु । मानसे च सरसि । रतः सन् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैश्रम्भकादिषु देवोद्यानेषु मानसे सरसि ॥४०॥

———————————————————————————————————————

॥ ३.२३.४१ ॥

भ्राजिष्णुना विमानेन काम-गेन महीयसा ।
वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्यशेतातिक्रम्य स्थितः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्यशेत अतिक्रान्तवान् ॥४१॥

———————————————————————————————————————

॥ ३.२३.४२ ॥

किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् ।
यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्दाम-चेतसां धीराणाम् । व्यसनं संसारस् तस्यात्ययो यस्मात् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : किम् इति । उद्दाम-चेतसाम् अपेक्षान्तर्-आबद्ध-चित्तत्वेन निजाश्रये धैर्यं गतानाम् । यद् वा, सर्वत्र कुण्ठता-रहित-चित्तानाम् इति तीर्थ-पद इति व्यसनात्यय इति च दुःसाध्यत्वम् एव व्यावर्तयति । सर्व-विघ्नात्यय-पूर्वकं सर्व-सम्पादनस्य विवक्षितत्वात् ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्दाम-चेतसां तच्-चरणाद् अन्यत्राबद्ध-मनसाम् ॥४२॥

———————————————————————————————————————

॥ ३.२३.४३ ॥

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया ।
बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेक्षयित्वा दर्शयित्वा । गोलं मण्डलम् । स्व-संस्थया द्वीप-वर्षादि-रचनया यावांस् तावन्तम् । बहून्य् आश्चर्याणि यस्मिंस् तम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोलं मण्डलम् । स्व-संस्थया द्वीप-वर्षादि-रचनया यावांस् तावन्तम् ॥४३॥

———————————————————————————————————————

॥ ३.२३.४४ ॥

विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् ।
रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नवधा विभज्य नव-भेदम् आत्मानं कृत्वा ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-तद्-अपत्योत्पत्तौ तत्-तद्-गुणप्रधानत्वेन नवधा ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नवधा नव-प्रभेदेनात्मानं कृत्वा ॥४४॥

———————————————————————————————————————

॥ ३.२३.४५ ॥

तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता ।
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्राप्त-षोडश-वर्षः सन्न् आवीच्य इति कथ्यते इत्य् अभिधानम् ॥४५॥

———————————————————————————————————————

अन्यैर्न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२३.४६ ॥

एवं योगानुभावेन दम्-पत्यो रममाणयोः ।
शतं व्यतीयुः शरदः काम-लालसयोर् मनाक् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शरदः संवत्सराः । मनाग् ईषद् इव व्यतीयुः ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनाक् ईषद् इव व्यतीयुः ॥४६॥

———————————————————————————————————————

॥ ३.२३.४७ ॥

तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् ।
नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मना स्व-देहार्ध-रूपेणाति-प्रीत्या भावयन् । तथा सति सद्-अपत्यं भवेद् इति। नोधा नवधा । सर्व-सङ्कल्प-विद् इति तस्या बह्व्-अपत्य-सङ्कल्पं जानन्न् इत्य् अर्थः । विभुस् तथा कर्तुं समर्थश् च । आत्म-विद् इति च तस्याम् अनासक्तत्वात् स्त्रियो जाता इति भावः । पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः इति स्मृतेः ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्याम् इति । सर्वेषां ब्रह्मणो मरीच्य्-आदि-प्रजापतीनां च सृष्टि-कामनया यः सङ्कल्पस् तद्-वित्, तथा आत्मानं भगवन्तं च निजोपदेशकं वेत्तीति, तथा या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति,

वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः । > सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने! > तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् ॥ [भा।पु। > ३.२१.२९,३२] इति हि तद्-उपदेशः ।

यद्यपीत्थं तथापि तद्-असमाप्तौ प्रवृजिष्यन्तम् इति ततोऽप्य् अग्रिम-तत्-प्रार्थनान्तरम् आशङ्क्येति गम्यते । श्री-देवहूत्या तु यावत् तेजो बिभृयाद् आत्मनो मे इत्य् अत्रार्थ-विशेषो नावगत इति ॥४७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां स्त्रियं भावयन्न् इति आधान-काले स्त्री-ध्यानेन स्त्र्य्-अपत्यं स्याद् इति तस्याः स्त्र्य्-अपत्य-कामनां जानन्न् इत्य् अर्थः । आत्मना बुद्ध्या आत्म-विद् विरक्त इति तस्य कामाल्पत्वात् शुक्राल्पत्वम्, अतोऽपि स्त्र्य्-अपत्यं भवेत् । यद् उक्तं—पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः इति नोधा नवधा सर्व-सङ्कल्प-विद् इति तस्या बह्व्-अपत्य-सङ्कल्पं जानन्न् इत्य् अर्थः, विभुः सर्वत्र समर्थः ॥४७॥

———————————————————————————————————————

॥ ३.२३.४८ ॥

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।
सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽनन्तरम् एव । सद्य एकस्मिन्न् एवाहनि । चारूणि सर्वाण्य् अङ्गानि यासाम् ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पतिम् इति युग्मकम् ॥४८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदा एकस्मिन्न् एवाहनि ॥४८॥

———————————————————————————————————————

॥ ३.२३.४९ ॥

पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः ।
स्मयमाना विक्लवेन हृदयेन विदूयता ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृजिष्यन्तम् आलक्ष्य वितर्क्य स्मयमाना बहिः, अन्तस् तु विक्लवेन व्याकुलेन विदूयता सन्तप्यमानेन हृदा उवाचेत्य् उत्तरेणान्वयः ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मयमानेति पति-दर्शन-स्वाभावात्, वस्तुतस् तु विक्लवेन व्याकुलेन विदूयमानेन चित्ताभिर् इत्य् अर्थः ॥४९॥

———————————————————————————————————————

॥ ३.२३.५० ॥

लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया ।
उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नखा एव मणयस् तैः श्रीः शोभा यस्य तेन पदा भुवं लिखन्तीति दुरन्त-चिन्ता-लक्षणाम् ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२३.५१ ॥

देवहूतिर् उवाच—

सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् ।
अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपोवाह संपादितवान् । अभयम् इति भाविनो दैन्यात् संसाराच् च यद् भयं तन् निवर्तयेत्य् अर्थः ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ श्री-देवहूतिर् उवाचेति क्वचित् अभयं पुनः प्रार्थना-क्षमा-रूपम् ॥५१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपोवाह सम्पादितवान् ॥५१॥

———————————————————————————————————————

॥ ३.२३.५२ ॥

ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः ।
कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र दैन्यं निवेदयति । तुभ्यं तव दुहितृभिः स्वयम् एवात्मनः समा योग्याः पतयो विमृग्या इति दैन्यं प्राप्तम् । संसार-भयम् उररी-कृत्याह—कश्चिद् इति । विशोकाय ज्ञानोपदेशाय । स्त्रीभिर् ऋणान् अपाकरणात् कञ्चित् कालं त्वद्-अवस्थानेन ब्रह्म-वित् पुत्रः कश्चित् किं स्याद् इत्य् अर्थः ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रार्थनाम् एवाह—ब्रह्मन्न् इति । तुभ्यं त्वया दुहितृभिः समास् तासां योग्याः ॥५२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुभ्यं तव स्वयम् एव विमृग्या इत्य् आसां विवाह-चिन्तापि मे नास्तीति भावः । विशोकाय शोक-दूरीकरणाय तेन कम् अपि योग्यं पुत्रम् अपि त्वत्तोऽहं प्राप्नुयाम् इति कृपया कतिचिद् दिनानि तिष्ठेति भावः ॥५२॥

———————————————————————————————————————

॥ ३.२३.५३ ॥

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।
इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषयान् भुङ्क्ष्व किं ब्रह्म-विद्ययेति चेत् तत्राह—एतावतालं पूर्यताम् । परित्यक्तः पर आत्मा यया तस्या मम ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किम् एतद् उक्ति-भङ्ग्या पुनर् अपि मत्तो विषय-सुखं वाञ्छसीति तत्र सलज्जम् आह—एतावता कालेन, स इन्द्रियार्थ-प्रसङ्गस् तेनालं यतः परित्यक्तः पर आत्मा परमेश्वरो यया तस्या इति तेनैतावान् कालो मे व्यर्थ एव गत इति भावः ॥५३॥

———————————————————————————————————————

॥ ३.२३.५४ ॥

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः ।
अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-कृतम् अनुशोचन्त्य् आह—इन्द्रियार्थेष्व् इति चतुर्भिः । मे मया । परं भावं त्वं ब्रह्म-विद् इति ॥५४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-भागवतस्य तव क्षणिकेनापि सङ्गेन लोका निसरन्ति । ममत्वेतावद्-वार्षिकेणापि यन् निस्तारो नाभूत् तत्रैतद् एव हेतु-द्वयम् इत्य् आह—इन्द्रियार्थेष्व् इति । परं भावं तवैवं महा-।विशेषं महा-भागवतत्वं च यत् क्षण-मात्रेणैव सर्वं ममतास्पदं त्यक्तुं प्रवृत्तोऽसीति भावः । तथापीति तद् अपि मय्य् अपराधिन्यां कृपां कुर्व् इति भावः ॥५४॥

———————————————————————————————————————

॥ ३.२३.५५ ॥

सङ्गो यः संसृतेर् हेतुर् असत्सु विहितोऽधिया ।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गः कथम् अभयायास्तु तत्राह—सङ्ग इति । अधियाज्ञानेन ॥५५॥

———————————————————————————————————————

सनातन गोस्वामी- (ह।भ।वि। १०.२६१) अधिया विवेक-हीनेन जनेन असत्सु विहितो यः सम्षारस्य हेतुः सङ्ग-विषय-भोगादि-रूपः । अप्य्-अर्थे एव-शब्दः । सोऽपि साधुषु कृतश् चेत् तर्हि निःसङ्गताय संसार-नाशाय कल्पते, समर्थो भवति ॥५५॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): (बृ।भा। २.७.१४): अधिया अज्ञानेन हेतुना अबुद्धिना पुरुषेण वा असत्सु असाधु-लोकेषु विहितः संसृतेर् हेतुर् यः सङ्गः भोजन-पानादि-लक्षणः । अधिया इत्य् अस्य परार्धेन वा सम्बन्धः । अज्ञानेनापि कृत्वेत्य् अर्थः । अप्य्-अर्थे एव-शब्दः । सो\ऽपि साधुषु कृतः सन् निःसङ्गो विरक्तो प्रेम-युक्तो वा प्रेम्णि फलानुसन्धानाभाव-न्यायात् तद्-भावाय कल्पते समर्थो भवतीति । वाशिष्ठे च—

सदा सन्तो\ऽभिगन्तव्या यद्यप्य् उपदिशन्ति न । > या हि स्वैर-कथास् तेषां उपदेशा भवन्ति ते ॥ > शून्यम् आपूर्णताम् एति मृतिर् अप्य् अमृतायते । > आपत् सम्पद् इवाभाति विद्वज्-जन-समागमात् ॥ इति ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सङ्ग इति । स एव सोऽपि अज्ञान-पूर्वकोऽपीत्य् अर्थः ॥५५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, वस्तु-शक्तिर् बुद्धिं नापेक्षत इत्य् अतो भवद्-विध-साधु-सङ्गो विफलो भवितुं सर्वथैव नार्हतीत्य् आह—सङ्ग इति । अधिया अज्ञानेनापीत्य् उभयत्राप्य् अन्वेति ॥५५॥

———————————————————————————————————————

॥ ३.२३.५६ ॥

नेह यत् कर्म धर्माय न विरागाय कल्पते ।
न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वभावतः प्रवृत्तं यस्य कर्म धर्मार्थं न कल्पते धर्माभिमुखं न भवेत्, तत्रापि निष्काम-धर्म-द्वारा विरागाय न कल्पते । तद्-द्वारा च तीर्थ-पदस्य हरेः सेवार्थं न पर्यवस्येद् इत्य् अर्थः ॥५६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तीर्थ-पदाः साधवः । तीर्थी-कुर्वन्ति तीर्थानीत्य् आद्य् उक्तेः ॥५६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किम् एवं निर्विद्यसे तवैतावती सम्पत्तिर् अतो विषयान् भुङ्क्ष्वेति तत्राह—नेहेति । यस्य कर्म देएन्द्रियादि-व्यापारो धर्माद्य्-अर्थं न भवेत् ॥५६॥

———————————————————————————————————————

॥ ३.२३.५७ ॥

साहं भगवतो नूनं वञ्चिता मायया दृढम् ।
यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न मुमुक्षेय मोक्तम् इच्छां न कृतवत्य् अस्मि ॥५७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सा यथा-कथञ्चित् कृत-भगवत्-सङ्गाप्य् अहं तन्-महिमा-ज्ञानांशेन वञ्चिता अतो भगवन्-मायैवात्र कारणम् इत्य् अर्थः ॥५७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रोदाहरणम् अहम् एवेत्य् आह—साहं जीवन् मृता, न मुमुक्षेय मोक्तुम् इच्छा-मात्रम् अपि न कृतवत्य् अस्मीति साश्रु स-गद्गद-वाक्यम् ॥५७॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोविंशस् तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे देवहूत्य्-अनुतापो नाम

त्रयोविंशोऽध्यायः ।

॥ ३.२३ ॥

(३.२४)