२२ कर्दम-देवहूति-विवाहः

विषयः

मनु-कर्दम-संवादः, कर्दम-देवहूति-विवाहः, मनोर् ब्रह्मवर्ताय प्रस्थानं च ।

॥ ३.२२.१ ॥

मैत्रेय उवाच

एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् ।

सव्रीड इव तं सम्राड् उपारतम् उवाच ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वा-विंशे कर्दमायादाद् यथादिष्टं हि विष्णुना ।

मनुर् दुहितरं देव- हूतिम् इत्य् उपवर्ण्यते ॥

एवम् आविष्कृतोऽभिष्टुतोऽशेषाणां गुणानां कर्मणां चोदय उत्कर्षो यस्य स सम्राण् मनुः । स-व्रीड इव स्व-कीर्ति-श्रवणात्, प्रत्याख्यान-शङ्कया वा तं मुनिम् उवाचउपारतं निवृत्ति-निरतम् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) :

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वाविंशे प्रिय-भाषी स्वां ज्ञात-तत्त्वाय कन्यकाम् ।

कर्दमाय नृपो दत्त्वा स्वं धामागाद् इतीर्यते ॥

आविष्कृतोऽशेषाणां गुणानां कर्मणांउदयो उत्कर्षो यस्य सः । वचनाद् उपरतं निवृत्ति-निरतं वा मुनिम्स-व्रीड इवेति स्व-कीर्ति-श्रवणात् परमार्थ-परायणे तस्मिन् व्यवहार-वार्ताया वक्तव्यत्वाच् च ॥१॥

———————————————————————————————————————

॥ ३.२२.२-३ ॥

मनुर् उवाच—

ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया ।

छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान् ॥

तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् ।

हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मदीया कन्या त्वया परिणेयेति विज्ञापयिष्यन् युष्मद् अस्मत्-संबन्धस् तावद् ईश्वरेण पूर्वम् एव घटित इत्य् आह—ब्रह्मेति सार्धाभ्याम् । आत्मनः परीप्सया पर्याप्तुम् इच्छया । छन्दो-मयस्य्आत्मनः पर्याप्तिः पालनं वेद-प्रवर्तनं तस्येच्छया । युष्मान् ब्राह्मणान् । तत्-त्राणाय ब्राह्मण-पालनाय । ब्रह्म ब्राह्मण-जातिः । क्षत्रं क्षत्रिय-जातिः॥२-३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मा विराड्-रूपः स्व-मुखत इति जाति-मात्रापेक्षयोक्तम् । एवं दोः-सहस्राद् इति च हृदयं ज्ञान-शक्ति-प्राधान्यात्, अङ्गं क्रिय-शक्ति-प्राधान्यात् ॥२-३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहसा स्व-कन्या-प्रदान-प्रसङ्गस्य तत्-प्रत्याख्यान-शङ्कया प्रथमं ब्राह्मण-क्षत्रिययोः कम् अपि सम्बन्धं स-न्यायम् आह—ब्रह्मेति सार्धाभ्याम् । आत्मनश् छन्दो-मयस्य स्वस्य परीप्सया वेद-प्रवर्तनेन पालनेच्छया युष्मान् ब्राह्मणान् असृजत्पर्याप्तिः पालनम् ॥२॥

ब्राह्मणान् के पालयेयुर् इत्य् अत आह—तद् इति । दोः-सहस्राद् इति परमेश्वरेणैक्यात् । ननु क्षत्रियान् अपि कः पालयेत् ? तत्राह—ब्रह्म ब्राह्मणः । अङ्गं भुजः । अयम् अर्थः—लोके हि हृदये प्रहार आपतिते भुजाभ्यां हृदयस्य गोपनं दृश्यते । भुजे च प्रहार आपतिते देहं कुञ्चितीकृत्य हृदय-मध्ये एव भुजो गोप्यते इति हृदयस्य पालको भुजः, भुजस्य पालकं हृदयम् ॥३॥

———————————————————————————————————————

॥ ३.२२.४ ॥

अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः ।

रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स देव एव रक्षति स्म । कोऽसौ ? यः सद्-असद्-आत्मकः सर्वात्मकः । तथाप्य् अव्ययो निर्विकारः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं ब्रह्म ब्राह्मणस् तपो-बलेन क्षत्रियं पालयति, क्षत्रं क्षत्रियः शारीर-बलेन ब्राह्मणम् इति । वस्तुतस् तु देवः परमेश्वर एवोभयं रक्षति । सद्-असद्-आत्मकः तद् अप्य् अव्ययो निर्विकारः ॥४॥

———————————————————————————————————————

॥ ३.२२.५ ॥

तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः ।

यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं विज्ञापयितुम् एव तद्-दर्शनादिकम् अभिनन्दति—तवेति त्रिभिः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् तु स्वयं भगवान् धर्मम् आह तद् इदं त्व् अधिकम् इति शेषः । यद् वा, यत् यस्मात् सन्दर्शनाद् एव मद्-योग्यतायां कारणात् स्वयं धर्मम् अप्य् आह—संशयोऽत्र तत्-कारणं चित्त-मलम् ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतोऽहं स्वस्य पालकं त्वाम् आगतस् वया च स्व-सन्दर्शनेनैवाहं पालित इत्य् आह—तवेति । रिरक्षिषोः क्षत्रियस्य ॥५॥

———————————————————————————————————————

॥ ३.२२.६ ॥

दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।

दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अकृतात्मनाम् अवशी-कृत-चित्तानाम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकृतात्मनाम् अपुण्यात्मनाम् ॥६॥

———————————————————————————————————————

॥ ३.२२.७ ॥

दिष्ट्या त्वयानुशिष्टोऽहं कृतश् चानुग्रहो महान् ।

अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुग्रहोऽनुशासनादि-रूप एव । उशतीर् उशत्यः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुग्रहः स्व-शिक्षा-ग्रहण-सामर्थ्ये हेतुः कृपा-दृष्ट्यादि-रूपः । अपावृत्तैर् बाधित-कार्यानवधानादि-दोषेणाच्छन्नैर् बहुत्वं स्पृहयानेकायमानत्वात् ।*।*७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उशतीर् उशत्यः ॥७॥

———————————————————————————————————————

॥ ३.२२.८ ॥

स भवान् दुहितृ-स्नेह-परिक्लिष्टात्मनो मम ।

श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञापयति—स भवान् इति सप्तभिः । दुहितुः स्नेहेन परिक्लिष्ट आत्मा यस्य । श्रावितं विज्ञापनम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं च त्वद्-दर्शनान् मे सर्वे क्लेशा गता एव, किन्त्व् एकः क्लेशस् तु दुर्वारो हृदि वर्तत एव । तम् अपि तत्-कृपया दत्ताश्वासो विगत-भीर् एवोद्घाटयामीत्य् आह—स प्रसिद्धः कृपा-सिन्धुर् इत्य् अर्थः । परिक्लिष्ट इति एष क्लेशो मे विवेकेनापि नापयातीति भावः ॥८॥

———————————————————————————————————————

॥ ३.२२.९ ॥

प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।

अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियव्रतोत्तानपदोः स्वसेति पुत्रिका-करण-शङ्का निरस्ता । मम सुतेति क्षत्र-कन्या तव योग्येति दर्शितम् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वय-आद्य्-अनुसन्धानं तत्-कथनं च तादृशां धर्म-साचिव्य-प्राधान्येनैवेति न लज्जा-करम् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रियव्रतोत्तानपदोः स्वसेति पुत्रिका-करण-शङ्का निरस्ता । मम दुहितेति क्षत्रिय-कन्या तव योग्यैवेति भावः ॥९॥

———————————————————————————————————————

॥ ३.२२.१० ॥

यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् ।

अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एषा देवहूतिः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२२.११ ॥

तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।

सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतीच्छ स्वीकुरु ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२२.१२ ॥

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।

अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्यतस्य स्वतः प्राप्तस्य विषयस्य । प्रतिवादः प्रत्याख्यानम् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उद्यतस्य धात्रा स्वयम् उपसादितस्य निर्मुक्त-सङ्गस्य केवलं धर्मार्थं विसयोपार्जनम् इति मनस्य् आसक्ति-रहितस्य ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चाहं विरक्तस् तपस्वी त्वत्-कन्यां कथं स्वीकरोमीति वाच्यम् इत्य् आह—उद्यतस्य स्वतः-प्राप्तस्य विषयस्य प्रतिवादः प्रत्याख्यानं काम-रक्तस्येति तवान्तर्-गतं कामं ज्ञात्वैवाहम् इहागच्छम्, अतो मयि कामो नापलनीय इति भावः ॥१२॥

———————————————————————————————————————

॥ ३.२२.१३ ॥

य उद्यतम् अनादृत्य कीनाशम् अभियाचते ।

क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कीनाशं कृपणम् । अवज्ञया परापमानेन ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र व्यवहारिकीं नीतिम् आह—य इति । अनादृत्य प्रतिष्ठानुरोधाल् लज्जया प्रत्याख्याय पुनः कृपणम् अदातारम् अपि जनं तम् एव कामं याचते, कामेनैवाचिराद् एव प्राबल्यवता लज्जा-प्रतिष्ठयोर् ग्रस्यमानत्वाद् इति भावः । मानश् च हतो भवतीत्य् अर्थः । तेन परिणाम-दर्शिना विदुषा वर्तमानम् अपि ।विशेषं स्व-मनो मध्य-वर्तिना कामेनाग्रतो ग्रसिष्यमानम् अनुमाय प्रथमम् एव दैवाद् अयाचित एवायातोऽनिषिद्धो विषयोऽङ्गीकर्तव्य एवेति ध्वनिः ॥१३॥

———————————————————————————————————————

॥ ३.२२.१४ ॥

अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् ।

अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य सावधि ब्रह्मचर्यं स उपकुर्वाणाः । मे प्रत्तां मया दत्ताम् ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अवज्ञया परकृतापमानेन ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मन्-मनो मध्य-वर्तिनं कामं त्वं केन लक्षणेनाज्ञासीस् तत्र ज्ञानस्य का कथा श्रवणम् अपि मे जातम् इत्य् आह—अहं त्वेति । त्वा त्वाम् अशृणवम् इति श्रवणम् इदं स्फूर्ति-प्राप्तस्य भगवत एव मुख्याद् इत्य् अवगन्तव्यम् । यस्य सावधि ब्रह्मचर्यं स उपकुर्वाणः । प्रत्तां मया दत्ताम् ॥१४॥

———————————————————————————————————————

॥ ३.२२.१५ ॥

ऋषिर् उवाच—

बाढम् उद्वोढु-कामोऽहम् अप्रत्ता च तवात्मजा ।

आवयोर् अनुरूपोऽसाव् आद्यो वैवाहिको विधिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रत्ता चेति मय्य् एव कृत-निश्चयत्वात् कस्मैचित् प्रतिश्रुता च न भवतीत्य् अर्थः। आद्यः प्रथमः, ततः पूर्वं विवाहाभावात् । मुख्य इति वा ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बाढम् इति । रुचेः प्रथमतो दानेऽपि वैवाहिक-विधेर् अत्रैव प्रारब्धत्वाद् आद्य इत्य् उक्तम् ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्रत्ता कस्मैचिन् न प्रतिश्रुता आद्यः, ततः पूर्वं विवाहाभावात् ॥१५॥

———————————————————————————————————————

॥ ३.२२.१६ ॥

कामः स भूयान् नर-देव तेऽस्याः

पुत्र्याः समाम्नाय-विधौ प्रतीतः ।

क एव ते तनयां नाद्रियेत

स्वयैव कान्त्या क्षिपतीम् इव श्रियम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वया कान्त्यान्याः क्षिपन्ती श्रीर् यथा, तद्वत् स्थिताम् ॥१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : भूयाद् भवेत् । प्रतीतः गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या [ऋ।वे। १०.८५.३६] इत्य्-आदि-मन्त्र-प्रसिद्धः । स्वयाङ्ग-कान्त्यैव । श्रियं भूषणादि-शोभाम् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कामः स भूयाद् इत्य्-आदि त्रयस्यायम् अर्थः तादृशीयं मां तपस्विनम् अपि प्रार्थयते । तत एनां शुद्ध-भक्तां कथं त्यजेयम् इति वक्ष्यते च पितृभ्यां प्रस्थित इत्य्-आदिभिः श्रियं जगल्-लक्ष्मीम् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्याः कामो भूयात् भवतु । सम्यग्-आम्नायोक्त-विवाह-विधौ प्रतीतिः । गृभ्णामि ते सौभगत्वाय हस्तं मया पत्याजरद्-अष्टिर् भवेथा1[ऋ।वे। १०.८५.३६] इत्य्-आदि-मन्त्र-प्रसिद्धः । स्वयाङ्ग-कान्त्यैव । श्रियं भूषणादि-शोभाम् ॥१६॥

———————————————————————————————————————

॥ ३.२२.१७ ॥

यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां

विक्रीडतीं कन्दुक-विह्वलाक्षीम् ।

विश्वावसुर् न्यपतत् स्वाद् विमानाद्

विलोक्य सम्मोह-विमूढ-चेताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यां विलोक्य न्यपतत् । संमोहेन विमूढं व्याकुलं चेतो यस्य । क्वणब्ध्याम् अङ्घ्रिभ्यां शोभा यस्याः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षिपतीम् इव श्रियम् इति व्यतिरेकालङ्कारेण तस्याः सौन्दर्य-साद्गुण्यादिकं निरुपमम् उक्त्वा स्वाभाविकं प्रभावम् अप्य् आह—याम् इति । क्वणद्भ्याम् अङ्घ्रिभ्यां शोभा यस्यास् ताम् । विमानात् नितरां भूमि-तले अपतत् विलोक्य संमुमोहेति । तत्रापि सम्यग्-चेतनो मृतक इव भूत्वेति भाव-पूर्वक-तद्-अवलोकन-महापराध-फलं सद्यः प्रापेत्य् अर्थः । ननु विलोक्येति, क्त्वा-प्रत्ययोक्तेर् विश्वावसुना सा दृष्टैवेति ॥१७॥

———————————————————————————————————————

॥ ३.२२.१८ ॥

तां प्रार्थयन्तीं ललना-ललामम्

असेवित-श्री-चरणैर् अदृष्टाम् ।

वत्सां मनोर् उच्चपदः स्वसारं

को नानुमन्येत बुधोऽभियाताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तां ललनानां ललामं भूषण-भूताम् । असेवितौ श्रियश् चरणौ यैस् तैर् अदृष्टां द्रष्टुम् अप्य् अयोग्याम् । उच्चपद उत्तानपादस्य । अभियातां स्वयं प्राप्ताम् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : याम् इत्य्-आदि युग्मकम् । उभयोर् अपि कामाद् उषित-चित्तत्वेन सर्वैः प्रतीयमानत्वात् न लज्जा-करं प्रियव्रतस्य तदा विरज्य गतत्वात् उच्चपद इत्य् उक्तम् ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र नहि नहीत्य् आह—असेवित-श्री-चरणैर् जनैर् अदृष्टां मद्-अभीष्ट-देव-श्रीमन्-नारायण-कान्तायाश् चरणौ मयैव सेवितौ, अतो ममैव सादृश्या भवेन् नान्येषां केषाम् अपीति भावः । तेन चाकाश-चारिणा तस्याः कान्तिर् एव विश्वावसुना विलोकिता, न तु सेत्य् आयातम् । आभिजातेऽप्य् उत्कर्षम् आह—मनोस् तव वत्सां वात्सल्य-पात्रीं कन्याम् । उच्चपदः उत्तानपादस्य, प्रियव्रतस्य तदा विरज्य गतत्वान् नोल्लेखः । तत्राप्य् अभियातां स्वयं प्राप्तम् ॥१८॥

———————————————————————————————————————

॥ ३.२२.१९ ॥

अतो भजिष्ये समयेन साध्वीं

यावत् तेजो बिभृयाद् आत्मनो मे ।

अतो धर्मान् पारमहंस्य-मुख्यान्

शुक्ल-प्रोक्तान् बहु मन्येऽविहिंस्रान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भजिष्ये स्वीकरिष्ये । “यावद् अपत्योत्पत्तिस् तावद् गार्हस्थ्यं, ततः परं सन्न्यासः” इति भाषा-बन्धः समयः । तम् एवाह—यावद् आत्मनो मम तेजो गर्भं बिभृयात् । यद् वा, ममात्मनो देहाच् च्युतं तेजो वीर्यं बिभृयाद् इति । अतः परं पारमहंस्यं ज्ञानं तस्मिन् मुख्यान् शुक्लेन विष्णुना साक्षात् प्रकर्षेणोक्तान् अविहिंस्रान् हिंसा-रहितान् शमादीन् बहु यथा भवत्य् एवम् अनुष्ठेयान् मन्ये ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मनः परमात्मनः कपिलाख्यं तेजो मे मत्तो यावद् बिभृयात् ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समयेनेति “यावद् अपत्योत्पत्तिस् तावद् गार्हस्थ्यं ततः परं सन्न्यासः” इति भाषा-बन्ध-मयः समयस् तेन । यद् वा, यावत् ममात्मनो देहाच् च्युतं तेजो बिभृयात्, तावद् भजिष्ये, तत्रापि समयेन मम तपः-शेष-समाप्त्य्-अनन्तरं यदावकाशं लप्स्ये, तदैवेत्य् अर्थः । अत्र ममात्मनो मत्-प्रियेष्ट-देवस्य तेजः कपिल-देवाख्यम् इति वस्त्व्-अर्थश् च ज्ञेयः । अतोऽनन्तरं पारमहंस्येषु मुख्यान् । यद् वा, पारमहंस्यात् ज्ञानाद् अपि मुख्यान् निष्परिग्रह-भक्ति-रूपान् शुक्लेन विष्णुना साक्षात् प्रकर्षेणोक्तान् । अविहिंस्रान् हिंसा-रहितान् बहु यथा स्याद् एवम् अनुष्ठेयान् मन्ये ॥१९॥

———————————————————————————————————————

॥ ३.२२.२० ॥

यतोऽभवद् विश्वम् इदं विचित्रं

संस्थास्यते यत्र च वावतिष्ठते ।

प्रजापतीनां पतिर् एष मह्यं

परं प्रमाणं भगवान् अनन्तः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तव पितुः प्रजा-पतेर् आज्ञा सृष्टाव् एव न सन्न्यासे तत्राह—यत इति । संस्थास्यते च लयं यास्यति । वावेति एवार्थे । ऋण-त्रयापाकरणानन्तरं सन्न्यास एव मादृशानां भगवतोक्त इत्य् अर्थः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रार्थे प्रमाणं तव मम च स्मृत्य्-आरूढो भगवान् एवेत्य् आह—यत इति । यद् वा, ननु तव पितुः प्रजापतेर् आज्ञा सृष्टाव् एव न ।विशेषे, तत्राह—यत इति । संस्थास्यते लयं यास्यति वावेत्य् एवार्थे । प्रजापतीनां मत्-पित्र्-आदीनाम् अपि पतिर् अतः स एव परं प्रमाणम् । तस्य आज्ञैव मया पालनीया, न तु पितुर् एवेति भावः ॥२०॥

———————————————————————————————————————

॥ ३.२२.२१ ॥

मैत्रेय उवाच—

स उग्र-धन्वन्न् इयद् एवाबभाषे

आसीच् च तूष्णीम् अरविन्द-नाभम् ।

धियोपगृह्णन् स्मित-शोभितेन

मुखेन चेतो लुलुभे देवहूत्याः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे उग्र-धन्वन् विदुर ! लुलुभे मुनेर् मुखेन प्रलोभ्यते स च । यद् वा, मुखेन प्रलोभितवान् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अरविन्द-नाभानुभव-जात-प्रसाद-रूपेण स्मितेन यत् शोभितं शोभा-विशेषं प्राप्तं, तेन मुखेन लुलुभे । अयम् एव मह-भागवतो मत्-पतित्व-योग्य इति लोभं चकार ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे उग्र-धन्वन् इति । त्वं यथा वीरो युद्धाय प्रत्यवर्तसे, तथा सोऽपि स्वाभिमताद् भगवद्-धर्माद् इति भावः । ततश् च देवहूत्याः स्मित-शोभितेन मुखेन चेतो लुलुभे, अर्थात् कर्दमस्य चेतस् तस्यां लुब्धं बभूव । तेन च हन्त हन्तातिविरक्ते कन्यार्पितेति मनु-शत-रूपयोर् अनुतापो नाभूद् इति व्यञ्जितम् ॥२१॥

———————————————————————————————————————

॥ ३.२२.२२ ॥

सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।

तस्मै गुण-गणाढ्याय ददौ तुल्यां प्रहर्षितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स मनुः । अन्व् अनन्तरम् । महिष्याश् च व्यवसितं निश्चयं ज्ञात्वा ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स मनुः । अन्व् अनन्तरम् । दुहितुर् देवहूतेर् महिष्यास् तन्-मातुश् च व्यवसितम् अभिप्रायम् ॥२२॥

———————————————————————————————————————

॥ ३.२२.२३ ॥

शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् ।

दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पारिबर्हान् विवाह-काले प्रदेयान् । भूषाः भूषणानि वासांसि परिच्छदान् गृहोपकरणानि च ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारिबर्हान् विवाहे प्रदेयान् । महान्ति मूल्यानि येषां तान् अनर्घ्यान् इत्य् अर्थः ॥२३॥

———————————————————————————————————————

॥ ३.२२.२४ ॥

प्रत्तां दुहितरं सम्राट् सदृक्षाय गत-व्यथः ।

उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्तां दत्ताम् । सदृक्षाय सदृशाय । गता व्यथा चिन्ता यस्य । औत्कण्ट्ह्येन उन्मथितः क्षुभित आशयो यस्य ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रत्ताम् इति युग्मकम् ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्तां प्रदत्ताम् ॥२४॥

———————————————————————————————————————

॥ ३.२२.२५ ॥

अशक्नुवंस् तद्-विरहं मुञ्चन् बाष्प-कलां मुहुः ।

आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्या विरहं सोढुं हे अम्ब ! हे वत्से ! इति ब्रुवन् । सन्धिर् आर्षः । शिखाः केशान् आसिञ्चत् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वत्से इति ब्रुवन् ॥२५॥

———————————————————————————————————————

॥ ३.२२.२६ ॥

आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः ।

प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आमन्त्र्येति युग्मकम् ।

———————————————————————————————————————

॥ ३.२२.२७ ॥

उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः ।

ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋषि-कुल-हितायाः उभयोः सुरोधसोः शोभन-तटयोः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋषि-कुल्याया ऋषीणां सरितः ऋषि-कुल-हिताया वा । उभयोः सुरोधसोः शोभन-तटयोः ॥२७॥

———————————————————————————————————————

॥ ३.२२.२८ ॥

तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् ।

गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य ज्ञात्वा ब्रह्मावर्ताद् देशात् प्रजाः पतिं प्रत्युज्जग्मुः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्युदीयुः प्रत्युज्जग्मुः ॥२८॥

———————————————————————————————————————

॥ ३.२२.२९ ॥

बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता ।

न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ज्ञानानन्द-स्वरूपेभ्यो रोमेभ्योऽस्य कुशादयः ।

विधुन्वतः प्रयागे तु वराह-वपुषोऽभवम् ।

रोमणि तानि देवस्य रूपाण्य् आसन् सहस्रशः ॥ इति स्कान्दे ।

तत्र एवासन् तेभ्य एवासन् । सप्तसु प्रथम् इति सूत्रात् ॥२९-३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कोऽसौ ब्रह्मावर्तः ? इत्य् अपेक्षायाम् आह—यत्र बर्हिष्मती नाम पुरीति । सापि कुत्र ? यत्र यज्ञस्य यज्ञ-वराहस्य रोमाणि न्यपतन्न् इति । यत्रेति सर्वत्र संबध्यते ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोऽसौ ब्रह्मावर्तः ? इत्य् अपेक्षायाम् आह—यत्र बर्हिष्मती नाम पुरीति । सापि कुत्र ? यत्र यज्ञस्य यज्ञ-वराहस्य रोमाणि न्यपतन्न् इति । यत्रेति सर्वत्र संबध्यते ॥२९॥

———————————————————————————————————————

॥ ३.२२.३० ॥

कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः ।

ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बर्हिष्मती नाम निरुक्तिं ब्रुवन् प्रसङ्गाद् देशस्य श्रैष्ठ्यम् आह द्वाभ्याम् । कुशाः काशाश् चासन् । शश्वन् नित्यं हरितं वर्चो वर्णो येषाम् । यज्ञ-घान् राक्षसादीन् । पराभवं नीत्वा यज्ञं विष्णुम् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कुशकाशा इति त एव तद्-रूपा एव ।*।*३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बर्हिष्मती नाम निर्वक्ति रोमान्य् एव कुशास् ते आसन्न् इत्य् अन्वयः ॥३०॥

———————————————————————————————————————

॥ ३.२२.३१ ॥

कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः ।

अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञ-पुरुषं विष्णुं यत इति यत्रायजत् । भुवं स्थानम् । लब्धेति तृन् प्रत्ययान्तम् । लब्धवान् सन्न् इत्य् अर्थः । यतो लब्धवांस् तं यज्ञ-पुरुषम् इति वा । एतेन स्वर्गाद् अपि भूमिः श्रेष्ठा, तत्रापि तत् स्थानं श्रेष्ठम् इत्य् उक्तं भवति ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुशकाशमयम् इति बहिः-शब्देनोभयोक्तः भुवं भू-रूपं स्थानं लुब्ध्वेति तृण्-प्रत्ययान्तम् ॥३१॥

———————————————————————————————————————

॥ ३.२२.३२ ॥

बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् ।

तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—यां बर्हिष्मतीं नाम पुरीं समावसत् । पूर्वं यस्याम् उषितः, तस्यां निर्विश्य भवनं प्रविष्टः सन् भोगान् बुभुज इत्य् अन्वयः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रस्तुतम् आह—मां समावसत् यस्यां पूर्वम् उषितस् तस्यां प्रथमं निर्विश्य स्वीयं भवनम् ॥३२॥

———————————————————————————————————————

॥ ३.२२.३३ ॥

सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः ।

सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः ।

प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा शृण्वन् हरेः कथाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्येषां धर्मादीनाम् अविरोधेन । प्रत्य् उषेषु उषःसु सङ्गीयमाना सत्-कीर्तिर् यस्य, तथापि स्वयं हरेर् एव कथाः शृण्वन् भोगान् बुभुजे ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सभार्य इति सार्धकम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यस्य धर्मस्याविरोधेन । प्रत्यूषेषु प्रत्यूषःसु प्रत्यूष आरभ्येत्य् अर्थः । कथयैव स्व-माधुर्येणानुबिद्धेन वशीकृतेन हृदा ॥३३॥

———————————————————————————————————————

॥ ३.२२.३४ ॥

निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।

यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योग-मायासु ऐच्छिक-भोग-रचनासु । यद् यतः आभ्रंशयितुम् आ ईषद् अपि भ्रंशयितुम् अभिभवितुम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निष्णातम् इति युग्मकम् ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगाद् अष्टाङ्ग-योगाभ्यासाद् एव मायासु माया-ज्ञानेषु निष्णातं पारगं तथासौ विषयान् भोक्तुं जानाति यथा सम्यग् भुक्ता अपि विषया स्वेष्व् आसक्तिम् उत्पादयितुं न शक्नुवन्तीत्य् अर्थः ॥३४॥

———————————————————————————————————————

॥ ३.२२.३५ ॥

अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः ।

शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : गत-सारं यात-यामं यामः सार इहोच्यते इति नारदीये ॥३५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो यातो यामो यस्य पक्वस्यान्न् अस्य तद् गत-सारं भवति, अतोऽन्यद् अपि गत-सारं यात-यामम् उच्यते । अयात-यामा अगत-सारा आसन् । स्वान्तरं तदीयं मन्व्-अन्तरं यापयन्ति गमयन्ति ते यामाः कालावयवाः कुर्वतः स्व-वाक्यैर् उपनिबध्नतः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अयातयामा न जीर्णा वृथा नापक्षीणा इत्य् अर्थः । अन्याघ्राता इति वा । जीर्णं च परिभुक्तं च यातयामम् इदं द्वयम् इत्य् अमरः । शृण्वत इत्य्-आदिकं यथा-क्रमम् एव ज्ञेयम् । ध्यायतस् तद्-वैशिष्ट्येन स्मरतः कुर्वतस् तत् कथा ग्रन्थान् रचयतः ब्रुवतस् तान् उपदिशतः ।*।*३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा तस्य यामा अयात-यामा अव्यर्थाः । जीवं च परिभुक्तं च यात-यामम् इदं द्वयम् इत्य् अमरः । कीदृशाः ? स्वान्तरं स्वीयं मन्वन्तरं यापयन्तीति ते । कुर्वतः स्व-वाक्यैर् दृश्य-श्राव्य-काव्य-रूपेणोपनिबध्नतः ॥३५॥

———————————————————————————————————————

॥ ३.२२.३६ ॥

स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् ।

वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिभूतं गति-त्रयं जाग्रद्-आदि सात्त्विकादि वा येन ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गति-त्रयं जाग्रद्-आदि-सत्तादि वा, ताप-त्रयं वा ॥३६॥

———————————————————————————————————————

॥ ३.२२.३७ ॥

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।

भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : पर्यासे मानुषत्वेनावस्थानेऽपि ॥३७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : दिव्यास् त्वान्तरिक्षाः । मानुषाः शत्रु-प्रभवाः । भौतिकाः शीतोष्णादि-प्रभवाः । वैयासे ! हे विदुर ! ॥३७॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): दिव्या आन्तरिक्षाः । मानुषाः शत्रु-प्रभवाः । भौतिकाः शीतोष्णादि-प्रभवाः । यद् वा, शारीरा मानसाश् चेत्य् आध्यात्मिकाः । दिव्या आधिदैविकाः । मानुषा अन्य-भौतिकाश् चेत्य् आधिभौतिकाः इति त्रिविधा अपि तापाः । वैयासे हे विदुर ॥३७॥ (ह।भ।वि। ११.६६०)

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भः १२४) : एवम् अप्य् उक्तं गारुडे—

न च दुर्वाससः शापो वज्रं चापि शचीपतेः ।

हन्तुं समर्थं पुरुषं हृदिस्थे मधुसूदने ॥ [ग।पु। १.२३४.३३] इति ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र भक्तिर् एव कारणम् इत्य् आह—शरीरा इति । दिव्या आन्तरीक्षाः, मानुषाः शत्रु-प्रभवाः, भौतिकाः शीतोष्णादि-प्रभवाः । वैयासे, हे विदुर ॥३७॥

॥ ३.२२.३८ ॥

यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् ।

नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य ज्ञानातिशयम् आह—य इति । नृणां साधारण-धर्मान् ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२२.३९ ॥

एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् ।

वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य यद् अपत्य देवहूतिस् तस्योदयं प्रभावम् ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उदयं प्रभावम् ॥३९॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वाविंशोऽयं तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे देवहूति-प्रदानं नाम

द्वाविंशोऽध्यायः ।

॥ ३.२२ ॥



  1. यथा सः इत्य् आकरे । ↩︎