२१ कर्दम-मनू

विषयः

मनु-वंश-वर्णनं प्रस्तुत्य कर्दम-तपस्या, भगवद्-वर-प्रदानम्, कर्दमस्याश्रमे स्वायम्भुव-मनोर् आगमनं च ।

॥ ३.२१.१ ॥

विदुर उवाच——

स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः ।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एकविंशे तपो-विद्या-तोषितेन तु विष्णुना ।

कर्दमस्य मनोः पुत्र्या विवाह-घटनोच्यते ॥

एधिरे एधाञ्चक्रिरे ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकविंशे तपस्-तुष्टः कर्दमेन स्तुतो हरिः ।

विवाह-घटनाम् आह मनुस् तत्राजगाम च ॥

एधिरे एधाञ्चक्रिरे ॥१॥

———————————————————————————————————————

॥ ३.२१.२ ॥

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
यथा धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्मं महींयथा जुगुपतुः ररक्षतुः, तन् मे वदेति तृतीयेन अन्वयः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मान् अनतिक्रमेण यथा जुगुपतुस् तन् मे वदेति तृतीयेन अन्वयः ॥२॥

———————————————————————————————————————

॥ ३.२१.३ ॥

तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।
पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य मनोः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देवहूतिर् इति क्वचित् पाठः ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवहूतीति देवहूतिर् इत्य् अर्थः ॥३॥

———————————————————————————————————————

॥ ३.२१.४ ॥

तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः ।
ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : योग-लक्षणैर् यमादिभिर् युक्तायाम्कतिधा वीर्यं ससर्ज ? कति पुत्रान् उत्पादयामासेत्य् अर्थः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योग-लक्षणैर् यम-नियमादिभिः । कतिधा वीर्यं ससर्ज ? कत्य् अपत्यान् उत्पादयामासेत्य् अर्थः ॥४॥

———————————————————————————————————————

॥ ३.२१.५ ॥

रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मानवीं मनोः कन्याम् आकूतिं च प्रसूतिं च भार्यां लब्ध्वा यथा भूतानि ससर्ज, तच् च वदेति च-कारस्यार्थः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मानवीं मनोः कन्याम् आकूतिं च प्रसूतिं च ॥५॥

———————————————————————————————————————

॥ ३.२१.६ ॥

मैत्रेय उवाच—

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
सरस्वत्यां तपस् तेपे सहस्राणां समा दश ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्राणां समा दश दश-सहस्राणि संवत्सरान् इत्य् अर्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भ २२५): तद् एवम् ईदृशेन कर्मणा मिश्रा स-कामा भक्तिर् यथा—प्रजा इति । अत्र तद्-दर्शन-जात-भगवद्-अश्रु-पात-लिङ्गेन निष्कामस्याप्य् अस्य ब्रह्मादेश-गौरवेणैव कामना ज्ञेया ॥६-७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रजा इति । दशानां समानां सहस्राणि इति यदि स्यात्, तदा सम्बन्धस्योभयाश्रयत्वे सहस्राणाम् इत्य्-आद्य् अपि स्याद् इति भावः । सहस्राणां तु बहुत्वम् आर्षम् ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समा वर्षाणि दश-सहस्राणि इति अर्थः ॥६॥

———————————————————————————————————————

॥ ३.२१.७ ॥

ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्न-वर-दाशुषम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततस् तस्मिंस् तपसि । क्रिया-योगेन पूजा-प्रकारेण । संप्रपेदे सिषेवे । प्रपन्नेभ्यो भक्तेभ्यो वर-दातारम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततस् तपश्-चरणानन्तरं तावतापि तपसा दर्शनम् अप्राप्येत्य् अर्थः । समाधिश् चित्तैकाग्र्यं, क्रिया-योगेन पूजा-प्रकारेण । प्रपन्नेभ्यो भक्तेभ्यो वराणां दाशुषं दातारम् ॥७॥

———————————————————————————————————————

॥ ३.२१.८ ॥

तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।
दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : शब्द-विषयं ब्रह्म ॥८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : शब्दैक-वेद्यं यद् ब्रह्म तन्-मयं वपुर् दधत्, तं प्रत्य् आत्मानं दर्शयामास ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तावद् इति । यावता कालेन सम्यक् प्रपेदे, तावतेत्य् अर्थः । शाब्दं शब्द-ब्रह्म-प्रतिपाद्यं यत् परं ब्रह्म तत्-स्वरूपं दधत् प्रकाशयत् ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावद् इति । यावत् सम्प्रपेदे इति पूजायां सत्यां तत्-प्रसादे विलम्बाभावः सूचितः । शाब्दं शब्दैक-वेद्यं यद् ब्रह्म, तन्-मयं वपुर् दधद् इति श्री-स्वामि-चरणाः । सच्-चिद्-आनन्द-मयम् आकारं दधत् प्रकटयन् कर्दम-दत्त-गन्ध-माल्य-नैवेद्याद्य्-उपचारैः पूषन्न् इति वा ॥८॥

———————————————————————————————————————

॥ ३.२१.९ ॥

स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् ।
स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजोऽम्बरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स कर्दमस् तं स्वेऽवस्थितं दृष्ट्वा मूर्ध्ना क्षिताव् अपतत् गीर्भिश् चाभ्यगृणाद् (१२) इति चतुर्णाम् अन्वयः । पद्मोत्पले दिन-रात्रि-विकासे । सितानां पद्मानाम् उत्पलानां च स्रक् यस्य तम् । स्निग्धा नीलाश् च येऽलकास् तेषां व्रातो वक्त्राब्जे यस्य ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स तम् इति चतुष्कम् । स्निग्धश्नीलश्अलक-व्रातो यत्र तादृशं वक्त्राब्जं यस्य ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२१.१० ॥

किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् ।
श्वेतोत्पल-क्रीडनकं मनः-स्पर्श-स्मितेक्षणम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्वेतोत्पलं क्रीडनकं यस्य । मनः-स्पर्शं मनस्य् आनन्द-जनकं स्मितम् ईक्षणं च यस्य तम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शङ्ख-चक्र-गदाधरम् इत्य् उक्त्वा चतुर्थे हस्ते पद्म-स्थाने श्वेतोत्पलम् एव क्रीडनार्थं धृतवान् इत्य् आह—श्वेतेति । मनः-स्पर्शं द्रष्टृ-मनः-प्रमोद-जनकं स्मितम् ईक्षणं च यस्य तम् ॥१०॥

———————————————————————————————————————

॥ ३.२१.११ ॥

विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः ।
दृष्ट्वा खेऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वक्षसि श्रीर् यस्य । कौस्तुभः कन्धरायां यस्य ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विन्यस्त इति । गरुत्मतो विनता-पुत्रत्व-मात्रं निरस्तं, तदा विनताया जन्माभावात् ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२१.१२ ॥

जात-हर्षोऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः ।
गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा कृताञ्जलिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीतिर् एव स्वभावः स्वतः-सिद्धो धर्मो यस्य, तथाविध आत्मा मनो यस्य ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रीतिर् एव स्वभावः स्वतः-सिद्धो धर्मो यस्य सः ॥१२॥

———————————————————————————————————————

॥ ३.२१.१३ ॥

ऋषिर् उवाच—

जुष्टं बताद्याखिल-सत्त्व-राशेः

सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः ।

यद् दर्शनं जन्मभिर् ईड्य सद्भिर्

आशासते योगिनो रूढ-योगाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्वाम् ऋते परमानन्दं धिग् अन्य-वर-कामुकम् ।

अथापि कृपणं मानुगृहाण वर-दानतः ॥

बतेति हर्षे । हे ईड्य ! नोऽस्माभिः समग्र-सत्त्व-निधेस् तव दर्शनाद् अद्याक्ष्णोः सांसिद्ध्यं साफल्यं जुष्टं सेवितम् । त्वद्-दर्शनम् एव महा-फलम् इत्य् उपपादयति । यस्य तव दर्शनं सद्भिर् उत्तरोत्तरम् आपादित-प्रकर्षैर् जन्मभी रूढो विरूढो योगो यैस् तेऽपि ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां कर्दम-वाक्य-वृन्दार्थं सङ्क्षेपेणाह—त्वाम् इति । अनुगृहाणेति। कार्पण्य-दोष-नाशार्थं वरं दत्त्वा पश्चाद् अनुगृहाणेत्य् अर्थः, प्रीति-स्वभावात्मा इत्य् उक्तत्वात् (१२) । भव-सिन्धु-पोतम् (१४) इत्य् अनेन लोकानां तादृशोपकर्तरि तस्मिन् प्रीतिर् एव समुचितेति सूचितम् ॥१३-१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो मद्-भाग्यस्य प्रभोः कारुण्यस्य च परमा काष्ठा, यद् अचिरेणैव दर्शनं लब्धवान् अस्मित्य् आह—जुष्टम् इति । बत इति विस्मये । तव दर्शनान् नोऽस्माकम् अक्ष्णोः सांसिद्ध्यं ममाक्षिणी अद्यैव सम्यक् सिद्धे सफले जाते, इतः-पूर्वम् अपि सिद्धे अक्षिणी अप्य् अनक्षिणी एवेत्य् आस्ताम् इति भावः । तव कीदृशस्य ? अखिल-सत्त्वानाम् अतिनिकृष्ट-सत्त्वानाम् इत्य् अर्थः । राशेः राशि-रूपस्येत्य् अर्थः । नैतद् अनुरूपं मया साधनं च कृतम् इत्य् आह—यद् इति । हे ईड्य ! सद्भिर् उत्तरोत्तर-श्रेष्ठैर् बहुभिर् अपि जन्मभी रूढो योगो यैस् तेऽपि आशासते एव, न तु लभन्ते ॥१३॥

———————————————————————————————————————

॥ ३.२१.१४ ॥

ये मायया ते हत-मेधसस् त्वत्-

पादारविन्दं भव-सिन्धु-पोतम् ।

उपासते काम-लवाय तेषां

रासीश कामान् निरयेऽपि ये स्युः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-काम-भक्तान् विगर्हयन्न् आह—य इति । हे ईश ! ये निरयेऽपि स्युः, तेषां कामानां लवाय ये त्वन्-मायया नष्ट-बुद्धयः, त एवोपासते । त्वं तु तेषां तान् कामान् अपि रासि ददासि ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त ! एवं कृपा-समुद्रम् अपि त्वां सकामतया भजन्तीत्य् अहो मौढ्यं लोकानां ! इत्य् आह—ये तव मायया हत-बुद्धयो भवन्ति, ते एव नान्ये काम-लवाय काम-लेशम् एव प्राप्तुम् उपासते । त्वं तु तेषां कामान् बहून् एव अकामितान् अपि रासि ददासि । अन्यथा भक्ति-सुखानभिज्ञास् ते त्वद्-भक्तिम् अपि त्यक्तुं नैव विलम्बेरन्न् इति भावः । भक्तेर् अत्यागे तु काले तेऽपि निष्कामा भवेयुर् एवेत्य् आशयेन ददासि, न तु तद्-दान एव तात्पर्यम् । यतस् ते कलत्र-पुत्र-कुटुम्बैश्वर्याद्याः कामा निरये नारक्याम् अपि योनौ स्युः, किन्तु स्वर्ग-नरकयोः कर्म-जन्यत्व-नियमनात् त्वद्-दत्तानां तु तादृशानाम् अपि भोगानां कर्म-जन्यत्वाभावात् बन्धकत्वाभावेन, नैव वस्तुतः । स्वर्ग-नरक-शब्द-व्यपदेशस् तद् अपि तत्-तुल्यत्वात् तथोक्तिर् इति ज्ञेयम् ॥१४॥

———————————————————————————————————————

॥ ३.२१.१५ ॥

तथा स चाहं परिवोढु-कामः

समान-शीलां गृहमेध-धेनुम् ।

उपेयिवान् मूलम् अशेष-मूलं

दुराशयः काम-दुघाङ्घ्रिपस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यः स-कामान् निन्दामि, सोऽहम् अपि तादृश एवेत्य् आह—तथेति । गृह-मेधो गृहाश्रमस् तत्र धेनुं त्रि-वर्ग-दोग्ध्रीं भार्यां परिवोढु-कामः परिणेतुम् इच्छन् काम-दुघाङ्घ्रिपस्य कल्प-द्रुमस्य तव मूलम् अङ्घ्रिम् उपेयिवान् उपागतोऽस्मि । ननु कामाद्य्-अर्थम् अन्यत् किम् अप्य् उपास्यताम् ? न, यतोऽशेषस्य पुरुषार्थस्य मूलम् एतद् एव ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अशेष-मूलम् इति,

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । > सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् ॥ [भा।पु। > १०.८१.१९] इति ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योऽहं स-कामान् निन्दामि, स चाहम् एव सकामेषु मुख्य इत्य् आह—तथेति । गृह-मेधो गृहाश्रमस् तत्र धेनुं त्रि-वर्ग-दोग्ध्रीं भार्यां परिणेतुम् इच्छन् । धेनु-पदेन स्वस्य निर्बुद्धित्वाद् वृषत्वम् उक्तम् । किं च, सकामेष्व् अपि मध्ये अहं दुराशयः दुरभिप्रायत्वाद् इति निर्बुद्धिर् इत्य् अर्थः, यतः परिवोढु-काम एव काम-दुघाङ्घ्रिपस्य तव मूलम् अङ्घ्रिम् उपेयिवान्अशेषाः सर्वे एव पदार्था मूले यस्य तत्, स्वर्गापवर्गयोः पुंसाम् [भा।पु। १०.८१.१९] इत्य्-आदि-उक्तेः ॥१५॥

———————————————————————————————————————

॥ ३.२१.१६ ॥

प्रजापतेस् ते वचसाधीश तन्त्र्या

लोकः किलायं काम-हतोऽनुबद्धः ।

अहं च लोकानुगतो वहामि

बलिं च शुक्लानिमिषाय तुभ्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि मुक्त्य्-अर्थम् एव किं न भजसि अनधिकारात् ? इत्य् आह—हे अधीश ! यस् त्वं प्रजापतिः, तस्य तव वचसा तन्त्र्यायं काम-हतो लोकः पशुवद् बद्धः । हे शुक्ल ! शुद्ध-धर्म-मूर्ते ! अहं च किल लोकानुगतः, अतस् तुभ्यं बलिं वहामि, कर्म-मयीं त्वद्-आज्ञाम् अनुवर्ते । अनिमिषाय कालात्मने । तद्-अर्थं भार्यां चेच्छामीति च-कारस्यार्थः । न केवलं लोकानुगतो बलिं वहामि, किन्तु ऋण-त्रयापाकरणार्थम् इति किलेत्य् उक्तम् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हि प्रीत्यैव केवलया किं भजसि ? तत्राह—प्रजेति । ते तवाधीनो यः प्रजापतिर् [गीता ३.१०] इत्य्-आदि-श्री-गीतोक्तः, सोऽपि त्वद्-आज्ञानुसारेणैव तथा वक्तीति भावः ।

ननु काम-हतोऽनुबद्धो भवतु नाम, त्वं न काम-हतः । कथं नारदादिवत् तन् नातिक्रामसि ? तत्राह—लोकानुगतः, तेषु लोकेषु प्रतिष्ठा-लिप्सुर् इत्य् अर्थः । प्रतिष्ठा-त्यागस् तु दुष्कर इति भावः । तस्माद् अनिमिषाय कालात्मकत्वात् सर्व-प्रवर्तकाय तुभ्यं बलिं पूजोपहारं च वहामि समर्पयामि । दुष्फले लब्धेऽप्य् आयत्यां तादृश-दुर्वासना निवर्त्यताम् इति विचिन्त्येति भावः । यद्यप्य् असौ चामल-स्वभावात् गुरु-लोकतः सङ्कोचेनैव तादृश-निज-दुःखम् अप्य् अङ्गीकरोति, न तु प्रतिष्ठादीच्छया, तथापि परमाश्चर्य-शिरोमणिः स्वस्मिन् तत्-तद्-दोषत्वेनैव पश्यतीति ज्ञेयम् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं चेद् अस्ति विवेकः, तर्हि निष्काम एव कथं न भजसि ? इत्य् अत आह—प्रजापतेर् ब्रह्मणस् तव त्वदीयस्य "प्रजाः सृज" इति वचसा तन्त्र्या, लोको मरीच्य्-आदिः ।

सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । > अनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक् ॥ [गीता ३.१०] इति > गीतोक्तेश् च ।

सोऽपि त्वद्-आज्ञानुसारेणैव वक्तीति न तस्यापि दोष इति ते पद-ध्वनिः


ननु काम-हतो लोकोऽनुबद्धो भवतु नाम, त्वं त्व् अकाम-हतः कथं सनकादिवत् तन् नातिक्रमसि ? तत्राह—अहं च लोकानुगतः तद्-अनुगामि-बुद्धिः, न तु नारदादि-सदृशीभवितुं समर्थ इत्य् अर्थः । अतस् तन्त्र्या बद्धो वृष इव बलिं वहामि, कर्म-मयीं त्वद्-आज्ञाम् अनुवर्ते, तद्-अर्थम् एकां भार्याम् इच्छामीत्य् अर्थः । -कारात् त्वद्-भक्तिं च करोम्य् आयत्यां त्वत्-प्राप्त्य्-अर्थम् इति भावः । हे शुक्ल ! अनिमिषाय काल-रूपं त्वां प्रसादयितुम् इत्य् अर्थः ॥१६॥

———————————————————————————————————————

॥ ३.२१.१७ ॥

लोकांश् च लोकानुगतान् पशूंश् च

हित्वा श्रितास् ते चरणातपत्रम् ।

परस्परं त्वद्-गुण-वाद-सीधु-

पीयूष-निर्यापित-देह-धर्माः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिमिषायेत्य् अनेन कालात्मकात् त्वत्तो भीतः कर्म करोमीत्य् उक्तम् । एतत् तु भयं त्वद्-भक्तानां नास्तीत्य् आह द्वाभ्याम् । लोकान् कामाभिभूतांस् तान् अनुसृतान् पशूंश् च । विवेके सत्य् अपि पुनः कर्म-जडान् मादृशान् हित्वा अनादृत्य ये तव चरण-रूपम् आतपत्रं श्रिताः, तान् एवाह—त्वद्-गुणानां वादः कथा, तद् एव सीधु मदिरा, संसार-विस्मारकत्वात् । पीयूषं रुचि-करत्वात् । तेन निर्यापिता विलापिता देह-धर्माः क्षुत्-पिपासादयो यैः, एषाम् इत्य् उत्तरेणान्वयः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शुद्ध-भक्तानां तु लोक-सङ्कोच-हेतुकापि कामाद्य्-आसक्तिर् [निह्णूयेत्य्]{।मर्क्} अपि तथैवाह—लोकांश् चेति ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु लोकाः पित्र्-आदयः तद्-आज्ञानुवर्तिनः, पुत्र-भ्रात्रादयश् च लोकतो धर्मतश् च यशस्विनः सुखिनश् च दृश्यन्ते । किम् इति तान् सकामत्वान् निन्दसि ? पित्र्-आदीन् दुःखयतां निष्काम-भक्तानां निष्परिग्रहाणां किं सुखं, किं वा यशः, यतस् तान् अभिनिन्दसि ? इति तत्राह द्वाभ्यां—लोकान् इति ।

पशून् इति तेषां पशुत्वात् तत्-त्यागे दोषो नास्तीति भावः । यद् वा, लोकान् न्याय-मीमांसादि-शास्त्राभिज्ञान् तद्-अनुगतांस् तद्-उपदेश-वाक्येषु विश्वसतः शास्त्रानभिज्ञान्, तेषाम् उभयेषाम् अपि पशुत्वं, भक्ति-राहित्यात् । चरणम् एवातपत्रम् आश्रिता इति निरातपत्राः पशवस् तु जाज्वल्यन्त एवेति भावः । तेषां सुखम् अपरम् अप्य् आह—त्वद्-गुणानां वादः कथनम् एव संसार-विस्मारकत्वात् सीधु मृत्यु-दूरीकरणाद् अतिस्वादुत्वाच् च पीयूषं, तेनैव तत्-पानेनैव निर्यापिता देह-धर्मा बाल्य-पौगण्डादयः क्षुत्-पिपासादयो वा यैः, ते भवन्तीति क्रियया अन्वयः ॥१७॥

———————————————————————————————————————

॥ ३.२१.१८ ॥

न तेऽजराक्ष-भ्रमिर् आयुर् एषां

त्रयोदशारं त्रि-शतं षष्टि-पर्व ।

षण्-नेम्य् अनन्त-च्छदि यत् त्रिणाभि

कराल-स्रोतो जगद् आच्छिद्य धावत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनन्त-च्छदि अनन्तावयवम् । तृतीयोऽतिशय इति महा-व्याकरणे । मथनान् मिथिलो जातः इत्य्-आदिवच् च ॥१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तव यत् त्रिणाभि काल-चक्रं, तज् जगद् आच्छिद्य आकृष्य धावद् अपि एषां त्वद्-भक्तानाम् आयुर् आच्छिद्य धावन् भवति । कथं भूतम् ? अजरं ब्रह्म तस्मिन्न् अक्ष-रूपे भ्रमिर् भ्रमणम् । भ्रमद् इति वक्तव्येऽतिभ्रमण-शीलत्वाद् उपचारेण भ्रमिर् इत्य् अभेद-निर्देशः । अधिक-मासेन सह त्रयोदश मासा अरा यस्य । त्रि-शतं षष्टिश् चाहो-रात्राः पर्वाणि यस्य । शत-शब्दे विभक्तेर् अलुग् आर्षः । षड् ऋतवो नेमयो यस्य । अनन्ताः क्षण-लवादयश् छदाः पत्राणि पत्राकारा धाराः सन्ति यस्य । त्रीणि चातुर्मास्यानि नाभय आधार-भूतानि वलयानि यस्य । कराल-स्रोतस् तीव्र-वेगम् । एतैर् विशेषणैर् एव संवत्सरात्मकं चक्रम् उक्तम् इति द्रष्टव्यम् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां त्रि-गुणेत्य् अधिकम् एवात्र भाति त्रिनाभि-शब्दस्यान्यथैव व्युत्पाद्यत्वात् । पाठस् तु त्रिनाभीत्य् एव सत्-पुस्तके ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त एव कालं जयन्ति, नान्ये इत्य् आह—न ते इति । यत् त्रिनाभि काल-चक्रं तज् जगद् आच्छिद्य संहृत्य धावद् अपि, एषां त्वद्-भक्तानाम् आयुर् आच्छिद्य धावन् भवतीत्य् अन्वयः । कथं-भूतम् ? अजरं ब्रह्म तस्मिन्न् अक्ष-रूपे भ्रमिः । भ्रमद् इति वक्तव्ये अतिभ्रमण-शीलत्वात् उपचारेण भ्रमिर् इत्य् अभेद-निर्देशः । अधिमासेन त्रयोदश मासा अरा यस्य तत् । शत-शब्दे विभक्तेर् अलुग् आर्षः । षट् ऋतवो नेमयो यस्य । अनन्ताः क्षण-लवादयश् छदाः पत्राणि पत्राकारा धाराः सन्ति यस्य । त्रीणि चातुर्मास्यानि नाभय आधार-भूतानि वलयानि यस्य । कराल-स्रोतस् तीव्र-वेगम् । एतैर् विशेषणैर् एव संवत्सरात्मकं चक्रम् उक्तम् इति द्रष्टव्यम् ॥१८॥

———————————————————————————————————————

॥ ३.२१.१९ ॥

एकः स्वयं सन् जगतः सिसृक्षया-

द्वितीययात्मन्न् अधि-योगमायया ।

सृजस्य् अदः पासि पुनर् ग्रसिष्यसे

यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु निरुपाधिम् उदासीनं मां किं याचसे ? तथापि मायया विश्व-सृष्ट्य्-आदि-कर्तृत्वात् त्वम् एव याच्यः । इत्य् आह—स्वयम् एक एव सन्न् अप्य् आत्मन्य् अधिकृतया योग-मायया हेतु-भूतया याः स्वी-कृताः शक्तयः सत्त्वाद्याः, ताभिः । अदो विश्वम् । स्व-व्यतिरिक्त-साधनानपेक्षत्वे दृष्टान्तः—यथेति ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सकामैर् अपि सर्वात्मा भवान् एव प्रार्थ्य इत्य् अभिप्रायेणाह—एक इति । सिसृक्षया हेतुना आत्मन् आत्मन्य् अधिकृता या योगमाया तया चाधिकृता याः स्व-शक्तयः, ताभिः सर्वत्रैव विशेषाणम् अद्वितीययेति । अर्थ-वशाद् विभक्ति-विपरिणामः । भवान् इति क्वचित् पाठः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं निष्काम-भक्तान् एव धन्यान् ब्रूषे, अथ च निष्कामो भवितुं न शक्नोषि । तर्ह्य् अन्यस्माद् एव देवतान्तरात् शीघ्र-फल-प्रदात् कथं स्वकामं न साधयसि? तत्र त्वां विना जगत्य् अस्मिन्न् अन्यं कम् अपि न पश्यामि, इत्य् आह—स्वयम् एक एव सन्न् अपीच्छाया द्वितीयत्वाभावात् अद्वितीयया सिसृक्षया । यद् वा, तव सिसृक्षा ब्रह्मादि-सिसृक्षैव, नान्यानुरोधवतीत्य् अर्थः । आत्मनि स्वस्मिन्न् अधिगतः प्राप्तः ईक्षण-योगात् योगो यस्यास् तया मायया सृष्ट्य्-आदिकं करोषि । यद् वा, आत्मन्य् अधिकृतया योगमायया चिच्-छक्त्या हेतुना याः स्वीकृताः सन्त्वाद्याः शक्तयस् ताभिर् अदो विश्वं स्व-व्यतिरिक्त-साधनान् अपेक्षत्वे दृष्टान्तः । अतस् तद्-भिन्नस्य देवतान्तरस्याभावात् सकामेनापि मया त्वम् एव सेव्यसे इति भावः ॥१९॥

———————————————————————————————————————

॥ ३.२१.२० ॥

नैतद् बताधीश पदं तवेप्सितं

यन् मायया नस् तनुषे भूत-सूक्ष्मम् ।

अनुग्रहायास् त्व् अपि यर्हि मायया

लसत्-तुलस्या भगवान्1 विलक्षितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अपि मायिकत्वाद् भक्तेभ्यो विषय-सुखं दातुं नेच्छसि, तथाप्य् अस्मद्-अभिप्रायानुसारेण तत् संपादय, इत्य् आह—नैतद् इति । हे अधीश ! नोऽस्माकं भजतां भूत-सूक्ष्म-रूपं पदं शब्दादि-विषय-सुखं मायया तनुषे विस्तारयसीति । यद् एतत् तव यद्य् अपि ईप्सितं न भवति, तथाप्य् अस्मद्-अनुग्रहायास् तु, ऋण-त्रयापाकरणानन्तरम् एवापवर्गाय भवत्व् इत्य् अर्थः । यर्हि यतो मायया परिच्छिन्न इव लसन्त्या तुलस्या युक्तस् त्वं विलक्षितोऽसि । एवं-भूतस्य तव दर्शनं यतो भुक्ति-मुक्ति-प्रदम् इत्य् अर्थः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः सकामत्वात् त्वत्तो बहिर्-मुख एव मादृशस् त्वं तु तत्रापि परम-कृपालुर् इत्य् आह—नैतद् इति । यत् शब्दादि-रूपं विषयम् अस्मभ्यं तनुषे, एतत् तव ईप्सितं न स्यात् । कथं तर्हि तनोमि ? तत्राह—मायया व्याजेनैव स्निग्धेनाग्रजेन स्वस्मिंस् तत्-स्नेह-वर्धनार्थम् इति बलानुजाय खण्ड-लड्डुक-दानवत् तद्-व्यजेनात्मनि स्नेहम् एव वर्धयितुम् इत्य् अर्थः । अतस् तद्-दानम् अनुग्रहायास् तु भवेत्


तत्र लिङ्गं—यर्हि यद् वर-दान-समये मायया कृपया हेतु-भूतया त्वं दृष्टोऽसि, तत्रापि लसन्त्या भक्त-जन-दृष्टेः परम-सुखदया तुलस्या युक्त इति भगवान् इति । अत्र तनुवेति पाठे तादृश-तुलसिकया तनुवेत्य् अर्थः, वर-दान-मात्रं पारोक्स्येणापि भवेद् इति भावः ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं चेत् तर्हि मत्-प्रसादात् तव कलत्रापत्य-भोगैश्वर्याणि परमोत्तमानि भवन्त्व् इति वरं ददानं भगवन्तं स-प्रणामम् आह—नैतद् इति द्वाभ्याम् । हे अधीश! एतत् पदं मत्-काम्यमानं वस्तु तव स्व-भक्त-मात्र-हित-कारिणो दातुम् ईप्सितं न भवति । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः [भा।पु। ६.९.५०] इति त्वद्-उक्तेर् अवसीयत इति भावः । कथं तर्हि ददामि ? तत्राह—यद् यस्मान् नोऽस्मभ्यं भूत-सूक्ष्मं शब्दादीन्द्रिय-भोग्यं विषय-सुखं तनुषे ददासि, तत् खलु माययैव, न त्व् अमायया अनभिज्ञ-भक्तोऽयम् अन्यथा विमनस्को भविष्यतीति मद्-अनुरोधेनैवेत्य् अर्थः । वासनामयं विषय-सुखम् अन्तः-करणे वरत एव, तद् एव वर-दानेन विस्तारयसीति तन्-धात्व्-अर्थः ।

नन्व् एवं चेति, तर्हि न ददामीति ? तत्राह—अनुग्रहायास् तु दीयमानम् एतद् अस्तु, किं त्व् अनुग्रहायापि । हन्त हन्त ! मयैव दत्तेन विषय-सुख-वरेण भक्तोऽयम् अन्धे तमसि पातितस् तद् इमम् उद्धरामीत्य् आयत्यां त्वत्-कृपा-प्राप्त्य्-अर्थम् अप्य् अस्त्व् इत्य् अर्थः ।

तत्र लिङ्गं—यर्हि वर-दान-समये सम्प्रति विलक्षितः विशेषेण त्वं दृष्टः, तर्हि मायया कृपया मनः-स्पर्श-स्मितेक्षणम् [३.२१.१०] इत्य् उक्तेः स्मित-द्योतित-कृपा-कटाक्षेण विशिष्ट एव दृष्टः । तत्रापि लसन्त्या भक्त-जनैः परिचर्यायां समर्पितया दृष्टेः परम-सुखदया तुलस्या उपलक्षिता चिद्-आनन्द-मयी या तनुस् तया युक्त इति भक्त-परिचरणीयत्वम् एव तनोर् अमायिकत्वे लिङ्गम् । अमायिक-तनु-दर्शन-प्रदानम् एव कृपायां लिङ्गम् । भगवान् इत्य् अप्य् अत्र पाठः ॥२०॥

———————————————————————————————————————

॥ ३.२१.२१ ॥

तं त्वानुभूत्योपरत-क्रियार्थं

स्व-मायया वर्तित-लोक-तन्त्रम् ।

नमाम्य् अभीक्ष्णं नमनीय-पाद-

सरोजम् अल्पीयसि काम-वर्षम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं त्वा त्वां भुक्ति-मुक्ति-प्रदं नमामि । मुक्ति-दत्वे हेतुः, अनुभूत्या ज्ञानेनोपरतः क्रियार्थः कर्म-फल-भोगो यस्मिन् । भोग-दत्वे हेतुः, स्व-मायया आवर्तितं लोक-तन्त्रं विश्वोपकरणं येन । अतः स-कामैर् निष्कामैश् च नमनीयं पाद-सरोजं यस्य तम् । तत्राल्पीयसि स-कामे पुंसि भजने वा कामान् वर्षतीति तथा तम् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तं परम-प्रीतिदं तत्र हेतुः भक्तानां निजानुभवेन शिथिलित-कर्म-फल-भोगं तद्-अनुभवाद् अन्यत्र तु स्वेत्य्-आदि-रूपं तस्मान् महतां स्वभावत एव नमनीय-पदाब्जम् अतिक्षुद्र एव काम-वर्षित्वेन स्फुरन्तम् इति ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न त्व् एतत् त्वय्य् असम्भवम् इत्य् आह—तं त्वाम् अनुभूत्या उपरतः क्रियार्थः कर्म-फल-भोगो यस्मात् तं यदा कृपया स्व-माधुर्यानुभवं दास्यसि, तदैव भोगेच्छा स्वयम् एवापयास्यतीति भावः । स्व-मायया स्वीय-माया-शक्ति-प्रेरणयावर्तितं जनितं लोकानां देव-तिर्यग्-आदीनां तन्त्रं कर्म-फल-सुख-दुःख-सम्बन्धि परिच्छेदो येन तम् । यावद् अविद्यां प्रेरयसि तावद् भोगेच्छा भवत्य् एवेति भावः । तेन सम्प्रति सृष्टिं विवर्धयिषुर् अस्मान् काम-संवलितान् करोषीति सतापि विवेकेन कामांस् त्यक्तुं न शक्नुम इत्य् आह—अल्पीयस्य् अतिनिकृष्टेऽपि मद्-विधे जने कामान् वर्षसीति तथा तम् ॥२१॥

———————————————————————————————————————

॥ ३.२१.२२ ॥

ऋषिर् उवाच—

इत्य् अव्यलीकं प्रणुतोऽब्ज-नाभस्

तम् आबभाषे वचसामृतेन ।

सुपर्ण-पक्षोपरि रोचमानः

प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमृतेन सुख-करेण । प्रेम-स्मिताभ्याम् ईक्षणेन विभ्रमन्ती भ्रूर् यस्य ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रेम-पूर्वकं यत् स्मितं, तत्-पूर्वकं यद् वीक्षणं, तस्य गरुडादिषु तत्-सौजन्य-व्यञ्जनाय बिभ्रमन्त्यौ भ्रुवौ यस्य ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अव्यलीकं निष्कपटम् ॥२२॥

———————————————————————————————————————

॥ ३.२१.२३ ॥

श्री-भगवान् उवाच—

विदित्वा तव चैत्त्यं मे पुरैव समयोजि तत् ।
यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चैत्त्यं हार्दं भावम् । मे मया समयोजि सङ्घटितम् । यद्-अर्थम् एवाहं समर्चितः, तत् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : चैत्त्यं लोक-व्यवहारानुसृताव् अपि मत्-प्रीत्यैक-तात्पर्यम् अयं हार्दं तव ज्ञात्वा तद् उचितम् एव समयोजि पर्यवसानतः स्वयम् एव पुत्रः स्याम् इति । अतः स-कामत्वेऽपि मत्-प्रीत्यैक-तात्पर्यत्वात् त्वयैवाहं सम्यग् अर्चितः, तथा नान्यैर् निष्कामैर् अपीत्य् अर्थः ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चैत्त्यं चित्ताभिप्रायम् । दिग्-आदि-यद्-अन्तात् स्वार्थे\ऽण् [पा। ४.३.५४] । मे मया समयोजि सङ्घटितम् । त्वयाहम् एव नान्यः ॥२३॥

———————————————————————————————————————

॥ ३.२१.२४ ॥

न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् ।
भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मयि सङ्गृभितः सङ्गृहीत एकाग्री-कृत आत्मा चित्तं यैस् तेषां यन् मद्-अर्हणम्। त्वादृशेष्व् अतितरां सर्वथा मृषा निष्फलं न स्यात् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र कैमुत्येन हेतुः—न वा इति । सत्यं दिशत्य् अर्थितम् अर्थितो नृणां [भा।पु। ५.१९.२७] इत्य्-आदि-न्यायेन मद्-अर्हण-मात्रं मृषैव तुच्छ-फलदम् एव न स्यात्, किन्त्व् एतेषां परमार्थ-फलम् अपि स्यात् । मयि सङ्गृभितात्मनां मध्ये त्वादृशेषु त्व् अतितराम् इत्य् अर्थः ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च मद्-भजनं कामं दत्त्वैव केवलम् उपक्षीयते, किन्तु मत्-पदम् अपि ददातीति समाश्वसिहीत्य् आह—सत्यं दिशत्य् अर्थितम् अर्थितो नृणां [भा।पु। ५.१९.२७] इत्य्-आदि-न्यायेन मद्-अर्हण-मात्रं मृषैव तुच्छ-फलदम् एव न स्यात्, किन्त्व् अन्ते मत्-पद-प्रदम् एव स्यात् । तत्रापि मयि सङ्गृभितात्मनां निहित-मनसां भक्तानां मध्ये त्वादृशेषु त्व् अतितराम् इत्य् अर्थः । हृ-गृअहोर् भश् छन्दसीति भ-कारः । ह्रस्वत्वम् आर्षम् ॥२४॥

———————————————————————————————————————

॥ ३.२१.२५ ॥

प्रजापति-सुतः सम्राण् मनुर् विख्यात-मङ्गलः ।
ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विख्यातं मङ्गलम् अभ्युदयः सद्-आचारादि-लक्षणं यस्य ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सप्तार्णवाम् इति । भाविनि भूतवद् उपचारः प्रियव्रत-रथखातत्त्वात् तेषाम् ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२१.२६ ॥

स चेह विप्र राजर्षिर् महिष्या शतरूपया ।
आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे विप्र ! महिष्या सह ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे विप्र ! ॥२६॥

———————————————————————————————————————

॥ ३.२१.२७ ॥

आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् ।
मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभो! हे मद्-आराधन-भाव-युक्त! ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयः-शीलादिभिर् अनुरूपाय ॥२७॥

———————————————————————————————————————

॥ ३.२१.२८ ॥

समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।
सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र यस्यां भार्यायाम् । समाहितम् अभिसन्धानेन स्थितम् । नृप-वधू राज-कन्या ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इमान् एतान् वत्सरान् व्याप्य समाहितं मद्-अर्पितं यत् तव हृदयं, तद् यत्र वर्तते, यस्याम् एव स-धर्म-चारिणीत्व-योग्यं त्वदीय-हृदय-तुल्यं हृदयं वर्तते इत्य् अर्थः । वक्ष्यते च श्री-मनुना सर्वात्मनानुरूपां ते [भा।पु। ३.२२.११] इति ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्र यस्यां तव हृदयं समाहितम् आसक्तम् । नृप-वधू राज-कन्या ॥२८॥

———————————————————————————————————————

॥ ३.२१.२९ ॥

या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति ।
वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते वीर्यम् आत्मनि भृतं धृतं, या प्रसविष्यति सा भजिष्यति । वीर्ये वीर्य-प्रसूतासु कन्यासु । अञ्जसा आत्मने पुत्रान् आधास्यन्ति ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते वीर्यम् आत्मनि भृतं धृतं नवधा नवापत्य-रूपेत्य् अर्थः । वीर्ये वीर्य-प्रसूतासु कन्यासु अञ्जसा आत्मनो वीर्यम् आधास्यन्ति ॥२९॥

———————————————————————————————————————

॥ ३.२१.३० ॥

त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः ।
मयि तीर्थी-कृताशेष-क्रियार्थो मां प्रपत्स्यसे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : निदेशम् आज्ञाम् । उशत्तमः शुद्ध-सत्त्वः । तीर्थं पात्रं, तेन दानं लक्ष्यते, मयि समर्पित-सर्व-कर्म-फल इत्य् अर्थः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहं तावत् पात्रत्वात् तीर्थं, ततो मयि यत् समर्पितं तद् अपि मद्-अन्तः-पातातिशय-विवक्षया तीर्थम् एवोच्यते इति भावः ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुग्रहायास् त्व् इति यत् प्रार्थितं तत्राह—त्वं चेति द्वाभ्याम् । तीर्थं पात्रं, तेन दानं लक्ष्यते, मयि समर्पित-सर्व-कर्म-फल इत्य् अर्थः ॥३०॥

———————————————————————————————————————

॥ ३.२१.३१ ॥

कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् ।
मय्य् आत्मानं सह-जगद् द्रक्ष्यस्य् आत्मनि चापि माम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : गार्हस्थ्येन दयां कृत्वा, सन्न्यासेन अभयं दत्त्वा, मय्य् आत्मानं जगच् च सह एकीभूतं द्रक्ष्यसि ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मयि परमाश्रये आत्मानं द्रक्ष्यसि, आत्मनि तद्-अधिष्ठाने मां तच् च सह जगद् यथा स्यात् तथैव जगद् अपि द्रक्ष्यसीत्य् अर्थः ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गार्हस्थे अन्नाच्छादनादि-दानैर् जीवेषु दयां कृत्वा, वैराग्ये अभयं यद् भक्त्य्-उपदेशेनेत्य् अर्थः । मय्य् अधिष्ठान-तत्त्वे परमेश्वरे सर्वं जगद् आत्म-सहितम् अस्तीति यत् शास्त्र-दृष्ट्या साम्प्रतं जानासि, तद् एव तदा साक्षाद् एव द्रक्ष्यसि, प्रथमम् आदि-पुरुषं कारणार्णव-शायिनं सहस्र-शीर्षादि-रूपं मां द्रक्ष्यसि । ततस् तस्यैव मम रोम-कूपेषु अनन्त-कोटि-ब्रह्माण्डान्य् आत्म-सहितानि साक्षाद् द्रक्ष्यसीत्य् अर्थः । तथा आत्मनि स्वस्मिन्न् अन्तर्यामिणं मां सन्तम् अधुना जानास्य् एव । तदा तु—

केचित् स्व-देहान्तर्-हृदयावकाशे > प्रादेश-मात्रं पुरुषं वसन्तम् । > चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख- > गदा-धरं धारणया स्मरन्ति ॥ [भा।पु। २.२.८]

इति द्वितीय-स्कन्धोक्तं तृतीय-पुरुषं क्षीरोद-नाथं माम् एव साक्षाद् द्रक्ष्यसीति सृज्यासृज्यं सर्वं वस्तु त्वाम् अहं दर्शयिष्यामीति फलितोऽर्थः ।

यद् वा, मयि पुत्र-भूते श्री-यशोदेव सह जगद् आत्मानं द्रक्ष्यसि, तथात्मनि चापि मां श्री-गोपीव,

तं काचिन् नेत्र-रन्ध्रेण हृदि-कृत्य निमील्य च । > पुलकाङ्गुल्य्-उपगुह्यास् ते योगीवानन्द-सम्प्लुता ॥ [भा।पु। १०.३२.८]

इत्य्-उक्त-रीत्या द्रक्ष्यसीति ॥३१॥

———————————————————————————————————————

॥ ३.२१.३२ ॥

सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने ।
तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-वीर्येण सह देवहूत्याम् अवतीर्येति शेषः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वीर्यं प्रभावं, तेन सह व्यक्तीभूयेति शेषः । मद्-व्यक्तौ त्वत्-तपः-प्रभावो व्यक्तीभविष्यतीत्य् अर्थः । वक्ष्यते च प्रजापतिना, शुक्लो वितन्वन् मामकं यशः [भा।पु। ३.२४.४] इति ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चान्यां च काञ्चिद् आनन्दस्य वार्तां शृण्व् इत्य् आह—सहाहम् इति । त्वद्-वीर्येण त्वत्-कन्यापत्य-वृन्देन सह आविर्भूयेति शेषः ॥३२॥

———————————————————————————————————————

॥ ३.२१.३३ ॥

मैत्रेय उवाच—

एवं तम् अनुभाष्याथ भगवान् प्रत्यग्-अक्षजः ।
जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यग्-भूतेष्व् अक्षेषु जायते आविर्भवतीति प्रत्यग्-अक्षजःसरस्वत्या नद्या परिश्रितात् परिवेष्टितात् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यग्-भूतेष्व् अक्षेषु जायते आविर्भवतीति सः । सरस्वत्या नद्या परिश्रितात् परिवेष्टितात् ॥३३॥

———————————————————————————————————————

॥ ३.२१.३४ ॥

निरीक्षतस् तस्य ययाव् अशेष-

सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः ।

आकर्णयन् पत्र-रथेन्द्र-पक्षैर्

उच्चारितं स्तोमम् उदीर्ण-साम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अशेषैस् तपो-मन्त्रादि-सिद्धेश्वरैर् अभिष्टुतः सिद्ध-मार्गो वैकुण्ठ-मार्गो यस्य । यद् वा, अशेष-सिद्धेश्वराभिष्टुतश् चासौ सिद्धैर् मृग्यत इति सिद्ध-मार्गश् च स ययौपत्र-रथेन्द्रो गरुडस् तस्य पक्षैर् उदीर्णम् अभिव्यक्तं साम आकर्णयन्, बृहद्-रथान्तरे पक्षौ इति श्रुतेः । उच्चारितं स्तोमं च सामाधार-भूताणाम् ऋचां समुदायं शृण्वन् । स्तोम आत्मा इति श्रुतेः । समास-पाठे उच्चारितः स्तोमः स्तोत्रीय-समुदायो यस्य साम्न इति ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य कर्दमस्य निरीक्ष्यमाणस्य सतः । अशेषैः सिद्धेश्वरैर् अभिष्टुतः सिद्ध-मार्गो वैकुण्ठ-मार्गो यस्य सः । पत्र-रथेन्द्रो गरुडस् तस्य पक्षैर् उच्चारितं स्तोमम् ऋक्-समुदायं शृण्वन् । कीदृशम् ? उदीर्णम् अभिव्यक्तं साम यत् तत् स्वरूपम् । समास-पाठे उच्चारितः स्तोमः स्तोत्रीय-समुदायो यस्य तथा-भूतं यद् उदीर्णं साम तत् बृहद्-रथान्तरे पक्षौ इति श्रुतेः ॥३४॥

———————————————————————————————————————

॥ ३.२१.३५ ॥

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।
आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं कालं परश्व इत्य् उक्तं प्रतीक्षमाणः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२१.३६-३७ ॥

मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् ।
आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम् ॥**

तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् ।
उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शातकौम्भाः सौवर्णाः परिकरा यस्मिंस् तं रथम् आस्थाय, दुहितरंआरोप्य, वरान्वेषणार्थं पर्यटन् ॥३६॥ हे सुधन्वन् विदुर । यद् अहः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मनुर् इति युग्मकम् ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् अहो भगवान् समादिशत् तस्मिन्न् अहनि महीं पर्यटन् मुनेर् आश्रम-पदम् उपायाद् इत्य् अन्वयः । हे सुधन्वन् ! हे विदुर ! ॥३६-३७॥

———————————————————————————————————————

॥ ३.२१.३८-३९ ॥

यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः ।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥**

तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।
पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रवेश-मात्रेण परमानन्दं प्राप्त इति दर्शयितुम् आश्रमं वर्णयति—यस्मिन्न् इत्य्-आदिभिः सप्तभिः श्लोकैः । प्रपन्ने कर्दमे ॥३८॥ शिवम् आरोग्यम् अमृतवत् स्वादु जलं यस्मिन् ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्मिन्न् इति सप्तकम् । प्रपन्ने प्रपन्न-मात्रे अर्पितया तद्-एक-सत्कृतयेत्य् अर्थः । यस्मिन्न् एव तद्-अश्रु-बिन्दु-वृन्द-स्वरूपं बिन्दु-सरो नाम सरोऽभूद् इत्य् अर्थः ॥३८॥ टीकायां शिवम् आरोग्यम् इति “आयुर् घृतम्” इतिवत् आरोग्य-जनकम् इत्य् अर्थः । अरोगम् इति क्वापि ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आश्रमं वर्णयति—यस्मिन्न् इति सप्तभिः श्लोकैः । प्रपन्ने कर्दमे ॥३८॥

———————————————————————————————————————

॥ ३.२१.४० ॥

पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः ।
सर्व-र्तु-फल-पुष्पाढ्यं वन-राजि-श्रियान्वितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कूजन्तः पुण्या मृगा द्विजाश् च येषु, तैः पुण्य-द्रुम-लतानां जालैः समूहैर् युक्तम् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लता-जालैर् अन्वितम् ॥४०॥

———————————————————————————————————————

॥ ३.२१.४१ ॥

मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् ।
मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : घुष्टं नादितम् । मत्त-भ्रमराणां विभ्रमो विनोदो यस्मिन् । मत्ता बर्हिण एव नटास् तेषाम् आटोपो नृत्य-संभ्रमो यस्मिन् । आह्वयन्तो मिथो मत्ताः कोकिला यस्मिन् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : घुष्टं नादितम् । मत्ता बर्हिण एव नटास् तेषाम् आटोपो नृत्य-सम्भ्रमो यस्मिंस् तं, मिथ आह्वयन्तो मत्ता कोकिला यस्मिंस् तम् ॥४१॥

———————————————————————————————————————

॥ ३.२१.४२ ॥

कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः ।
कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कदम्बादिभिर् वृक्षैर् अलङ्कृतम् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२१.४३ ॥

कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः ।
सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कारणडवादिभिः पक्षिभिर् वल्गु यथा तथा कूजितम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रत्यान् वृक्षान् उक्त्वा पक्षिण आह—कारण्डवैर् इत्य्-आदि ॥४३॥

———————————————————————————————————————

॥ ३.२१.४४ ॥

तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः ।
गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिणादिभिर् वृतम् । तत्र क्रोडः सूकरः । श्वाविच् छल्लकः । मर्को मर्कटः । तद्-विशेषो गो-पुच्छःहरिर् वानरः सिंहो व । नाभिः कस्तूरी-मृगः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृगान् आह—तथैवेति । क्रोडः सूकरः । श्वावित् शल्लकः । मर्को मर्कटः । गो-पुच्छस् तद्-विशेषः । हरिः सिंहः । नाभिः कस्तूरी-मृगः ॥४४॥

———————————————————————————————————————

॥ ३.२१.४५ ॥

प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः ।
ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हुतो हुताशनो ब्रह्मचारि-योग्यो येन ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रविश्येति सार्ध-त्रिकम् ॥४५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२१.४६ ॥

विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् ।
नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् ॥**

तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च ।

श्रीधर-स्वामी (भावार्थ-दीपिका) : उग्रा युक् योगो यस्य तेन वपुषा विद्योतमानम् । तस्य भगवतो व्याहृतं भाषणम् एव अमृत-कला अमृत-मयस्य चन्द्रस्य कला तन्सयं पीयूषं तस्य श्रवणेननातिक्षामं तपसा कृशं सन्तम् अप्य् अकृशम् ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नातीति नैवेत्य् अर्थः ॥४६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपसि तपो-मध्य एव उग्रा युक् योगो यत्र तेन । तद् अपि न अतिक्षामम् अनतिकृशं, तत्र कृपा-अपाङ्गेति तद् व्याहृतेति हेतु-द्वयं तद्-व्याहृतम् एव अमृत-कलस्य चन्द्रस्य सम्यक् पीयूषं तस्य श्रवणेनेत्य् अनेन तन्-मुख्यामृत-कलत्वम् उक्तम् ॥४६॥

———————————————————————————————————————

॥ ३.२१.४७ ॥

प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् ।
उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रांशुम् उन्नतम् । उपसंसृत्य समीपं गत्वा मलिनं ददर्शेति पूर्वैव क्रिया । अर्ह्यतेऽनेनेत्य् अर्हणं महा-रत्नं तद् असंस्कृतम् अनिर्णिक्तं यथा मलिनं दृश्यते तद्वत् ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रांशुम् अष्ट-वितस्ति-प्रमाण-तनुम् उपसंसृत्य निकटं गत्वा मलिनं ददर्शेति पूर्वैव क्रिया । अर्ह्यतेऽनेनेत्य् अर्हणं महा-रत्नं, तत् असंस्कृतं यथा मलिनं दृश्यते, तद्वत् ॥४७॥

———————————————————————————————————————

॥ ३.२१.४८ ॥

अथोटजम् उपायातं नृ-देवं प्रणतं पुरः ।
सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उटजं पर्ण-शालां प्रप्तं । पुरः पाद-समीपे प्रणतम् आशीर्भिर् अभिनन्द्य सपर्यया पूजया प्रत्यगृह्णात् सत्-कृतवान् ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उटजं पर्णशालां प्रप्तम् । पुरः पाद-समीपे प्रणतम् । पुनर् अपि पादौ गृह्णन्तम् अनुरूपया आतिथ्योचितया सपर्यया सहितः प्रत्यगृह्णात् भुजाभ्याम् उत्थाप्यालिलिङ्ग । किं कृत्वा ? प्रतिनन्द्य, "अद्य मूर्तम् एव तपो-मयं तेजः साक्षात्-कृत्य कृत-कृत्योऽस्मि" इत्य् अभिनन्दन्तं राजानं, "राजन्न् अद्य भागवती विश्व-पालनी-शक्तिस् त्वम् अवलोक्यसे" इति प्रत्यभिष्टुतेत्य् अर्थः ॥४८॥

———————————————————————————————————————

॥ ३.२१.४९ ॥

गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः ।
स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षालित-चरणम् उचित-दर्भाद्य्-आसने आसीनं गृहीतानि अर्हणानि पुष्प-चन्दन-दूर्वा-दल-फलादीनि येन तम् । संयतं तूष्णीं स्थितम् ॥४९॥

———————————————————————————————————————

॥ ३.२१.५० ॥2

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।

वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते चङ्क्रमणं पर्यटनम् । हि यस्मात् ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे देव ! यस्य चङ्क्रमणम् इत्य्-आदि । स एव त्वं हरेः पालनी-शक्तिर् भवसि ॥५०॥

———————————————————————————————————————

॥ ३.२१.५१ ॥

योऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् ।
रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वायम्भुवो मनुश् चैव पृथुश् चैवार्जुनाव् अपि ।

ब्रह्म-शेषाधिपा रुद्र इन्द्र-ऋष्य्-आदयस् तथा । > विष्ण्व्-आवेश-युताः सर्वे न तु विष्णु-स्वरूपकाः ॥ इति तत्त्व-निर्णये > ॥५१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनु-स्थं विष्णुं प्रणमति—य इति । स्थाने तत्-तत्-कार्यावसरे शुक्लाय विष्णवे ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्कादीनां रूपाणि स्थाने युक्तम् एव त्वम् सम्यक् त्वया धत्से, तत्र प्रतापेन त्वम् अर्कः, यशसा चन्द्रः, अधृष्यत्वेन अग्निः, ऐश्वर्येण इन्द्रः, सर्वत्र प्रवेशवत्त्वेन वायुः, दुष्ट-निग्रहत्वेन च प्रचेताः । अत एव तस्मै मद्-अभीष्ट-देवाय त्वद्-रूपेण पुनर् अपि ममोटजम् आगताय शुक्लाय तुभ्यं नमः ॥५१॥

———————————————————————————————————————

॥ ३.२१.५२-५४ ॥

न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् ।
विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान् ॥**

स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः ।
विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव ॥**

तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः ।
भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न यदेति पञ्चानाम् अयम् अर्थः—यद्यपि धर्म-रक्षार्थं सर्वतः पर्यटतस् तव प्रसङ्गाद् अप्य् आगमनं संभवति तथापि विशेष-कार्यं चेद् अस्ति तत् कथ्यताम् इति । जैत्रं जय-प्रदं मणि-गणा अर्पिता यस्मिंस् तं रथम् आरुह्य त्वं यदा भुवो मण्डलं न पर्यटसि तदा सेतवो भिद्येरन्न् इति त्रयाणाम् अन्वयः । विस्फूर्जन्-नादं कुर्व-चण्डं कोदण्डं धनुर् यस्य । वर्णाश्रमाणां निबन्धनं यैः । बत अहो ॥५२-५४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न यदेति सार्ध-त्रिकम् । रथेन रथ-सान्निध्य-मात्रेण ॥५२॥ स्व-सैन्यस्य चरणैः क्षुण्णं सङ्घट्टितम् ॥५३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे राजन् ! किम्-अर्थम् आयातोऽसीति त्वां कथं पृच्छामो यतस् तत्-कारणं जानाम्य् एवेति व्यतिरेकेणाह—न यदेति । यदा भुवो मण्डलं न पर्यटसि, तदा सेतवो भिद्येरन्न् इति त्रयाणाम् अन्वयः । मणि-गणानाम् अर्पितम् अर्पणं यत्र तं जैत्रं जय-शीलम् । जैत्रत्वम् एवाह—रथेन रथ-सान्निध्य-मात्रेण अघान् दुष्टान् ॥५२-५४॥

———————————————————————————————————————

॥ ३.२१.५५ ॥

अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः ।
शयाने त्वयि लोकोऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरङ्कुशैर् नृभिर् निमित्त-भूतैः । शयाने निश्चिन्ते ॥५५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शयान इत्य् अर्धकम् । धर्माधर्मयोः पालन-संहारौ त्वद्-दृष्टाव् एव सम्यक् स्यातां दस्यु-निवारणं त्वद्-अनुसन्धान-मात्रेण स्याद् इति ॥५५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.२१.५६ ॥

अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः ।
तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्व्यलीकेन सहर्षेण । प्रतिपद्यामहे स्वीकुर्महे ॥५६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथापि यद्यपि सामान्यतो जानामि, तद् अपि पृच्छे पृच्छामि—इह मत्-पर्ण-शालायां यद्-अर्थम् इति नहि दुष्ट-निग्रहार्थं पर्यटनं मत्-पर्ण-शालायां सफली-भवतीति भावः । निर्व्यलीकेन निष्कपटेन सहर्षेण वा हृदा प्रतिपद्यामहे स्वीकुर्महे ॥५६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशस् तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे > विदुर-मैत्रेय-संवादे मनु-कर्दम-संवादो नाम > एकविंशोऽध्यायः ।

॥ ३.२१ ॥


  1. तनुवा इति पाठान्तरः। ↩︎

  2. अत्र कर्दम उवाचेति क्वचित्। ↩︎