२० सृष्टि-वर्णनम्

विषयः

ब्रह्म-कृत-विविध-सृष्टि-वर्णनम् ।

॥ ३.२०.१ ॥

शौनक उवाच—

महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः ।

कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

विंशे वराह-जन्मादि- व्यवधानाद् अथादितः ।

सर्गोऽनुस्मार्यते वक्तुम् अन्वयं प्रस्तुतां मनोः ॥

प्रतिष्ठां स्थानम् । अध्यस्य प्राप्य । सौते सूतस्य रोमहर्षणस्य पुत्र । अवरम् अर्वाचीनं जन्म येषां तेषाम् ईश्वरे लीनानां मार्गाय निर्गमाय कानि द्वाराणि कृतवान् ? अर्वाचीनान् प्राणिनः कैर् उपायैः सृष्टवान् ? इत्य् अर्थः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वराह-लीलां प्रासङ्गिकीं श्रुत्वा प्रस्तुतं पृच्छति—महीम् इति ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

विसर्गो यः समासेन पूर्वम् उक्तः स एव हि ।

विंशे व्यासोच्यते स्वायम्भुव-वंश-विवक्षया ॥

प्रतिष्ठाम् आश्रयम् । सौते ! रोमहर्षण-सूनो ! अवर-जन्मनां सनकादिभ्य उत्तर-काल-जन्मवतां जीवानाम् ईश्वरे लीनानां मार्गाय निर्गमाय कानि द्वाराणि कृतवान् ? अर्वाचीनान् प्राणिनः कैर् उपायैः सृष्टवान् ? इत्य् अर्थः ॥१॥

———————————————————————————————————————

॥ ३.२०.२-४ ॥

क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् ।

यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति ॥

द्वैपायनाद् अनवरो महित्वे तस्य देहजः ।

सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः ॥

किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया ।

उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विदुर-मैत्रेय-संवादेनैवैतज् ज्ञास्यत इति तम् एव संवादं प्रष्टुम् आह—क्षत्तेति पञ्चभिः । श्री-कृष्ण-सुहृत्त्वे हेतुः—य इति । दुर्योधनादिभिर् अपत्यैः सहितम् अग्रजं धृतराष्ट्रम् अघवान् कृतापराध इति हेतोः श्री-कृष्णोक्त-मन्त्रानादरात् यस् तत्याज ॥२॥ अनवरोऽन्यूनः । महित्वे महिम्नि ॥३॥ कुशावर्ते गङ्गा-द्वारे ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं स्वातन्त्र्येण प्रश्नं विदुर-प्रश्नमय-कथा-शुश्रूषायाम् अनुचितं मत्व तत्-प्रश्नम् एव पृच्छति—क्षत्तेति पञ्चभिः ॥२-३॥ तत्र च यदि क्वचित् तद्-द्वाराविच्छिन्नास्ति तर्ह्य् अप्य् आवृत्त्य ताम् एवादितः प्रवर्तयेत्य् आह विरजास् तीर्थ-सेवयेत्य्-आदिना पादोन-पद्य-त्रयेण । प्रथमं तावत् तीर्थ-सेवया विरजाः दुःसङ्ग-दुःख-रहितः पश्चाद् उपगम्य ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतत्-प्रश्नोत्तरस् तु विदुर-मैत्रेय-संवादेनैव ब्रूहीत्य् आशयेनाह—क्षत्तेति। सापत्यं दुर्योधनाद्यैः पुत्रैः सहितम् अनवरः अन्यूनः विरजाः विगतं रजो यस्मात् सः । तीर्थ-सेवयेति हेतूक्तेः । प्रत्यासत्त्या च तीर्थानाम् एव रजो मालिन्यं विगतम् इत्य् अर्थः । कुशावर्ते गङ्गा-द्वारे ॥२-४॥

———————————————————————————————————————

॥ ३.२०.५ ॥

तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः ।

आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् किम् अपि पृच्छतु किं तवेति चेत् तत्राह—तयोर् इति । अघ-घ्नीर् अघघ्न्यो नूनं कथाः प्रवृत्ताः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रवृत्ता इत्य्-आदिना पुनर् आदित एव श्रवणेच्छा स्पष्टीकृता ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमलाः कथा इति तयोर् भक्तत्वात् भक्तानां च कृष्णान्य-कथा-राहित्यात् गङ्गायाम् आपः गाङ्ग्यः अघघ्नीर् अघघ्न्यः ॥५॥

———————————————————————————————————————

॥ ३.२०.६ ॥

ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः ।

रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कीर्तन्यानि कीर्तनार्हाण्य् उदाराणि कर्मणि यस्य हरेः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भद्रं ते इत्य् औत्सुक्येनाशीर्वादः । कीर्तन्यानि उदाराणि कर्माणि यासु यस्य वेति कथाया हरेर् वा ॥६॥

———————————————————————————————————————

॥ ३.२०.७ ॥

एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः ।

भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् इति व्यास-वाक्यम् । उग्रश्रवा रोमहर्षण-पुत्रः । नैमिषम् अयनम् आश्रयो येषाम् । अर्पितम् अध्यात्मं मनो येन ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ऋषिभिर् इति । श्री-शौनक-प्रश्नम् अनुमोदमानैः सर्वैर् एव तद्-अनुवादात्॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्यात्मं मनः ॥७॥

———————————————————————————————————————

॥ ३.२०.८ ॥

सूत उवाच—

हरेर् धृत-क्रोड-तनोः स्व-मायया

निशम्य गोर् उद्धरणं रसातलात् ।

लीलां हिरण्याक्षम् अवज्ञया हतं

सञ्जात-हर्षो मुनिम् आह भारतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोर् उद्धरणं लीलां हिरण्याक्षं चावज्ञ्या हतं निशम्य । भारतो विदुरः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-सूतस् तु भगवत्-क्रमवत् श्री-विदुरस्य क्रम इति कस्माद् धारा-विच्छिद्येतेत्य् एवं तत्-प्रशंसा-गर्भम् उत्तरम् आह—हरेर् इति । तद् इदम् अपि श्री-शुकोक्तम् एव सूतोऽयम् अनुकृतवान् इति गम्यते । तद् एवानुसृत्यासौ सर्वं कथयति गोर् उद्धरण-रूपां लीलां निशम्य तस्याम् एव हिरण्याक्षम् अवज्ञया हतं निशम्येत्य् अर्थः ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुष्ठु अमायया धृता नित्य-स्थिता क्रोड-तनुर् यस्य तस्य हरेः तौदादिकस्य धृङ् स्थिताव् इत्य् अस्य रूपम् । गोः पृथिव्याः । भारतो विदुरः ॥८॥

———————————————————————————————————————

॥ ३.२०.९ ॥

विदुर उवाच—

प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् ।

किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सृष्टौ लये तारतम्यं देवानां ज्ञायते स्फुटम् ।

तारतम्य-परिज्ञाने महा-तात्पर्यम् इष्यते ।

अतस् तद् बहुशस् तूक्तम् अन्यच् चैतत् प्रकाशकम् ॥ इति वामने ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्मात् त्वम् अव्यक्त-मार्ग-वित् । ब्रह्मणो वा विशेषणम् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अव्यक्त-मार्ग-वित् अस्मद्-आद्य्-अगोचर-वस्तु-वेत्ता ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२०.१० ॥

ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः ।

ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतज् जगत् । अभावयन्न् उत्पादयामासुः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतज् जगत् अभावयन् उत्पादयामासुः ॥१०॥

———————————————————————————————————————

॥ ३.२०.११ ॥

स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु ।

आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

महतो ब्रह्म-वायू च तद्-भार्ये चाभिमानिनः ।

अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतस्त्रियः ॥

मनसस् त्व् अनिरुश् च चन्द्रश् चान्ये यथोदितम् ।

एवं क्रमो व्यत्ययस् तु सूक्ष्म-स्थूल-विभेदतः ॥

सृष्टौ गुणे च ज्ञानादौ मुक्ति-स्थे वाप्य् अयं क्रमः ।

नियमेनान्यथोक्तिस् तु मोहायासुर-जन्मनाम् ॥ इति वाराहे ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-द्वितीयाः स-भार्याः । स्वतन्त्रा भार्यानपेक्षाः । कर्मसु प्रजा-सर्गादिषु । संहताः परस्परापेक्षाः । इदं जगत् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-द्वितीयाः स-भार्याः कर्मसु सृष्ट्य्-आदिषु स्वतन्त्राः अन्यान् अपेक्षाः । संहताः बहुतर-संमेलनापेक्षाः ॥११॥

———————————————————————————————————————

॥ ३.२०.१२ ॥

मैत्रेय उवाच—

दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।

जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मा किम् आरभतेति प्रश्नस्य यक्षादीन् सृष्टवान् इत्य् उत्तरं वक्तुं पूर्वोक्तां सृष्टिम् अनुस्मारयति, दैवेनेति सप्तभिः । मन्व्-आदि-प्रश्नानां तूत्तराध्यायम् आरभोत्तरं भविष्यति । दुर्वितर्क्येण दैवेन जीवादृष्टेन, परेण प्रकृत्य्-अधिष्ठात्रा महा-पुरुषेणानिमिषेण कालेन च हेतुना भगवतो निविङ्काराज् जात-क्षोभं यद् गुण-त्रयं प्रधानं तस्मान् महान् आसीत् । तद् उक्तं तन्त्रे—

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।

प्रथमं महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् ।

तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ इति ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पाद्मीय-विसर्गं कथयितुं सङ्गतये पूर्व-वृत्तं ब्राह्मीय-सर्गम् अपि स्मारयति । दैवेनेत्य् आदिना । भगवतः परम-कारणान् महान् आसीत् । तच् च तत एव न साक्षात्, किन्तु तच्-छक्तेः प्रधानाख्याद् गुण-साम्याद् एव । कीदृशात् दैवादि-हेतुना जात-क्षोभात् तत्रानिमिषेण कालेन दैवाद् अप्य् उत्तमेन ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किम् आरभतेति प्रश्नस्योत्तरं विसर्ग-विस्तारं वक्ष्यन् तत्-पूर्व-भागं सर्वम् उक्तम् अपि कथा-सौष्ठवार्थं सङ्क्षेपेणानुवदति । दैवेन । जीवादृष्टेन कीदृशेन दुर्वितर्क्येण दुर्ज्ञेय-मूलकेन परेण कालेन जात-क्षोभात् गुण-त्रयात् प्रधानान् महान् आसीत् । भगवतः सकाशात् भगवद्-ईक्षिताद् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

॥ ३.२०.१३ ॥

रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् ।

जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महतो जातो भूतादिर् अहङ्कारस् त्रि-लिङ्गस् त्रि-गुणः । रजः प्रधानाद् इति स्वतः सत्त्व-प्रधानस्यापि महतोऽहङ्कारोत्पत्ति-काले कार्यानुरूपं रजः-प्रधानत्वं भवतीति भावः । पञ्चशः तन् मात्राणि मह-भूतानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि तत् तद् देवताश् चेति पञ्च ससर्जेत्य् अर्थः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रजः-प्रधानाद् इति सत्त्व-प्रधानोऽपि महान् अहङ्कारोत्पत्ति-काले रजः-प्रधानः सूत्राख्यो भवेद् इति भावः । त्रिलिङ्गस् त्रिगुणो भूतादिर् अहङ्कारः । वियद्-आदीनि महा-भूतानि सूक्ष्म-भूतानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि तत्-तद्-देवताश् च पञ्च पञ्च ससर्जेत्य् अर्थः ॥१३॥

———————————————————————————————————————

॥ ३.२०.१४ ॥

तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् ।

संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भौतिकं हैमम् अण्डम् एकैकशः प्रत्य् एकं स्रष्टुम् असमर्थानि सन्ति संहत्य ससृजुः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैव-योगेन भगवच्-छक्ति-योगेन संहत्य मिलित्वा ॥१४॥

———————————————————————————————————————

॥ ३.२०.१५ ॥

सोऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः ।

साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ववात्सीद् अधिष्ठितवान् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अण्ड-कोष एवान्ड-कोषः तद्-अन्तर्-वर्ती विराड् वा । तस्य निरात्मकत्वं तदानीम् अपि जीवानाम् अप्य् अनुद्बोधात् । ईश्वरो महत् स्रष्टा द्वितीय-पुरुष-रूपेण ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरात्मकः न व्यक्तस् तत्रात्मा ॥१५॥

———————————————————————————————————————

॥ ३.२०.१६ ॥

तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति ।

सर्व-जीवनिकायौको यत्र स्वयम् अभूत् स्वराट् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्रार्काणाम् इवोरुर् दीधितिर् यस्य तत् । सर्व-जीवनिकायानाम् ओकः स्थानं पद्मम् । स्वराट् ब्रह्मा ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : य एवं ब्राह्मे कल्पे सृष्टवान् तस्य प्रविष्टस्य सतः पाद्मे कल्पे नभेः सकाशात् पद्ममभूत् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाभेः सकाशात् यत्र पद्मे स्वराट् ब्रह्मा ॥१६॥

———————————————————————————————————————

॥ ३.२०.१७ ॥

सोऽनुविष्टो भगवता यः शेते सलिलाशये ।

लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : संस्थया स्वया भगवति स्थिति-सामर्थ्येन ॥१७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यः सलिलाशये गर्भोदकस्यान्तः शेते, तेन भगवतानुविष्टोऽधिष्ठितः सन्, स्वराट् । स्वया संस्थया नाम-रूपादि-क्रमेण ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वया संस्थया स्वस्मिंस् तत्-तन्-नाम-रूपाद्य्-आविर्भाव-क्रमेण ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मा भगवताअनुविष्टः अधिष्ठितः । भगवान् एव कः ? तत्राह— इति । ततश् च स ब्रह्मा भगवत्-प्रेरितः सन् लोक-संस्थां लोक-रचनां स्वया संस्थया परिपाट्या नाम-रूपादि-क्रमया ॥१७॥

———————————————————————————————————————

॥ ३.२०.१८ ॥

ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः ।

तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : छाया प्रभा-प्रतियोगिनी तया । अबुध्येत्य् अर्थः, यस् त्व् अबुद्धि-कृतः प्रभोः[भा।पु। ३.१०.१७] इत्य् उक्तत्वात् । महा-तम इति महा-मोहः । स्वरूप-निर्देश-मात्र-विवक्षया मोह इति प्रथमा-प्रयोगः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा दर्शयति—ससर्जेति ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यक्ष-राक्षस-देव-मनुष्यादि-देहेषु ब्रह्मणा स्रष्टव्येषु जीवानाम् अहङ्कारोऽविद्यया विना न सम्भवेत्, अतः प्रथमम् अविद्या-वृत्तीः स्वयम् एव ब्रह्म-द्वारा आविर्भवतीस् तम-आदि-रूपेण ब्रह्मा ताः ससर्जेत्य् आह—ससर्जेति । च्छायया छाय-रूपया तन्वा तमसेत्य् अर्थः । अत्र तमो-मोह-महा-मोह-तामिस्रान्ध-तामिस्राः क्रमेणाज्ञानास्मिता-राग-द्वेषाभिनिवेशा ज्ञेयाः ॥१८॥

———————————————————————————————————————

॥ ३.२०.१९ ॥

विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् ।

जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं प्रथमोक्तां साधारणां सृष्टिम् अनूद्य केनचिद् विशेषेणासाधारणां सृष्टिम् आह—विससर्जेत्य्-आदिना यावत् समाप्ति । तद् विसृष्टं कायं रात्रि-रूपं तत एव जातानि यक्ष-रक्षांसि जगृहुः । क्षुत्-तृषोः समुद्भवो यस्यां ताम् । अत्र च, यास्य सा तनूर् आसीत् ताम् अपाहत सा तमिस्राभवत् इत्य्-आदि-श्रुतिर् अनुसन्धेया ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कायं छाया-रूपं नाभिनन्दन्, हन्त हन्त सृष्ट्य्-आरम्भे तमसैवावृतोऽभूवम् इति विनिन्द्य तत्याज । स च तद्-विसृष्टः कायो रात्रिर् अभूत् तां च तत एव तदानीम् एव जातानि यक्ष-रक्षांसि जगृहुः स्वीचक्रुर् इत्य् अविद्या-धर्माव् आवरण-विक्षेपौ यक्ष-रक्षसाम् अत्यधिकाव् इति विवक्षितम् । कीदृशीं क्षुत्-तृषोः समुद्भवो यस्यां ताम् । अत्र, या तस्य सा तनूर् आसीत् ताम् अपाहत सा तमिस्राभवत् इत्य्-आदि-श्रुतिर् अनुसन्धेया । अत्र द्वि-परार्ध-युषो ब्रह्मणः काय-त्यागो नाम भाव-त्याग एव विवक्षितः । ततश् च ब्रह्मणो मनसि क्रोधादिस् तामसो भाव आविर्बभूव । तस्माद् यक्ष-रक्षांसि बभूवुः । स च तामसो भावो रात्रिर् अभूत् तां च यक्ष-रक्षांस्य् एव जगृहुर् इत्य् एतावान् एवार्थः । सृष्ट्य्-अर्थं योग-बलेन पृथक् पृथक् काय-ग्रहण-त्यागवत्त्वेऽपि द्वि-परार्धायुस् त्वं तस्य न व्याहन्यते विषय-भोगार्थम् अपीन्द्रादि-देवानां नाना-रूप-ग्रहण-त्याग-दर्शनाद् इत्य् अपि केचिद् आहुः ।१९॥

———————————————————————————————————————

॥ ३.२०.२० ॥

क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः ।

मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसृष्टा अभिभूताः । जग्धुम् अत्तुं भक्षयितुम् । यतो वयं क्षुत्-तृड्भ्याम् अर्दिता अत एनं पितेति कृपया मा रक्षतेत्य् एके । अन्ये तु जक्षध्वं भक्षयतेति ब्रुवन्तः । जक्ष भक्ष-हसनयोर् इति धातुः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसृष्टा उपद्रुताः तं ब्रह्माणं जग्धुं भक्षयितुम् । तत्र केचिद् एनं पितेति कृपया मा रक्षेत्य् ऊचुः—जक्षध्वम् इति जक्ष भक्ष-हसनयोर् इत्य् अस्मात् ॥२०॥

———————————————————————————————————————

॥ ३.२०.२१ ॥

देवस् तान् आह संविग्नो मा मां जक्षत रक्षत ।

अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवो ब्रह्मा संविग्नो भीतः सन् मां मा जक्षत मा भक्षयत, किन्तु रक्षत । अहो हे यक्ष-रक्षांसि, यूयं मे प्रजाः सुता बभूविथ जाताः स्थ । एवम् उग्र-स्वभावा यक्ष-राक्षसा जाता इत्य् अर्थः । तत्र ये जक्षध्वम् इत्य् ऊचुस् ते यक्षाः, ये तु मा रक्षतेति ते राक्षसा इति ज्ञेयम् । एतच् च तिर्यग्-आदि-तामस-सर्गस्याप्य् उपलक्षणम् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवो ब्रह्मा । मां न भक्षयत, किन्तु रक्षत । अहो आश्चर्यं हे यक्ष-रक्षांसि ॥२१॥

———————————————————————————————————————

॥ ३.२०.२२ ॥

देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।

ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभया दीव्यन् द्योतमानः । या या देवता द्युतिमत्यः सात्त्विक्यस् तास् ताः प्रमुखतः प्राधान्येनासृजत् । ते देवाः । देवता इति स्त्रीत्वेन निर्दिष्टानाम् अप्य् अर्थ-मात्र-विवक्षया त इति पुंस्त्वेन प्रतिनिर्देशः । एवं यक्ष-रक्षांसीत्य् अत्रापि ज्ञेयम् । तेन विसृष्टां त्यक्तां प्रभाम् अहः दिवस-रूपां सतीं देवयन्तः क्रीडयन्तोऽहार्षुर् जगृहुः॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देवयन्त इति । दिवु अर्दने इत्य् अस्मात् चौरादिकात् याचमान इत्य् अर्थः ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रभया प्रभाव-रूपया सत्त्व-मय्या तन्वा दीव्यन् द्योतमानः । या या देवताः प्रमुखतः प्राधान्येनासृजत् । अत्र या इत्य् अस्यापि ते इत्य् अनेन प्रतिनिर्देशोऽर्थ-मात्र-दृष्ट्यैव ज्ञेयः । विसृष्टां तेन त्यक्तां तां प्रभाम् अहः दिवस-रूपां तत् तनूम् अहार्षुर् जगृहुः ।

किम्-अर्थं ? ताः देवयन्तः क्रीडयन्तः क्रीडयितुं यथा रात्रिर् यक्ष-रक्षोभिः सह तिष्ठति तथा अहोऽपि देवैर् दीव्यतीत्य् अर्थः । इति सन्दर्भः । अत्र ब्रह्मणो मनसि प्रसादः सात्त्विक-भाव आविर्बभूव । तस्मा देवा बभूवुः स च प्रसादो दिनं बभूव । तच् च ते एव जगृहुर् इत्य् एतावान् एवार्थः ॥२२॥

———————————————————————————————————————

॥ ३.२०.२३ ॥

देवोऽदेवान् जघनतः सृजति स्मातिलोलुपान् ।

त एनं लोलुपतया मैथुनायाभिपेदिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अदेवान् इति च्छेदः । स जघनाद् असुरान् असृजत इति श्रुतेः । अति-लोलुपान् स्त्री-लम्पटान् । अभिपेदिरे प्राप्ताः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं च तस्य मनसि कामो राजस-भावोऽभूत् तस्मा असुरा बभूवुः । स च भावः । सन्ध्या अभूत् तां चासुरा जगृहुर् इत्य् आह—देव इति । अदेवान् स जघनाद् असुरान् असृजत इति श्रुतेः । कामाद् अनर्थो महान् भवतीत्य् आह—त एनम् इत्य्-आदि ॥२३॥

———————————————————————————————————————

॥ ३.२०.२४ ॥

ततो हसन् स भगवान् असुरैर् निरपत्रपैः ।

अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परापतद् अपलायत ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परापतत् पलायत ॥२४॥

———————————————————————————————————————

॥ ३.२०.२५ ॥

स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् ।

अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तेच्छानुरूपम् आत्मानं दर्शयतीति तथा तम् उपव्रज्य ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपव्रज्य मनसैवोपसाद्य निवेदयामासेति शेषः ॥२५॥

———————————————————————————————————————

॥ ३.२०.२६ ॥

पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः ।

ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पहीति द्वाभ्यां प्रार्थितवान् । यभितुं मैथुनेन धर्षयितुम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२०.२७ ॥

त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः ।

त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकानां जनानाम् । तव अनासन्नाव् अनाश्रितौ पादौ यैस् तेषाम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : क्लेशद इति स्वं प्रत्युन्मुखीकर्तुम् इति ज्ञेयम् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव अनासन्न-पदां त्वत्-पादावनाश्रितवताम् अभक्तानां त्वं क्लेशदः तेन क्लिष्टानाम् अपि त्वत्-पादाव् आश्रितवतां भक्तानां त्वं क्लेश-नाशन इति गम्यते । एक इत्य् एवं-विधो भक्त-वत्सलः कोऽपि नास्तीति भावः । त्वच्-चरणम् अनाश्रितवतां काल-कर्म-ग्रहादि-रूपेण त्वम् एवैकः क्लेशदः । तेषाम् एवाकस्माच् चरणाश्रितत्वे सति साक्षात् त्वम् एव तत्-तत्-क्लेश-नाशनः, त्वद्-भक्तेषु काल-कर्मादीनाम् अनधिकाराद् इत्य् आशयः । त्वयि वैषम्याभावस् तु कल्प-तरु-दृष्टान्तेन ॥२७॥

———————————————————————————————————————

॥ ३.२०.२८ ॥

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः ।

विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जानन्न् अपि समर्थोऽपि क्वचिद् ब्रह्मा हरेः प्रियः ।

ज्ञात्वा करोति कर्माणि ह्य् अज्ञवच् चाप्य् अशक्तवत् ॥

व्यसृजन् मलवद् देहं बाह्यं न तु निजं पुरा ।

ब्रह्मा तच् च हरादित्वं प्राप देवादि-दैवतम् ॥ इति कौर्मे ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : विविक्तम् असन्दिग्धम् अध्यात्म-दर्शनं पर-चित्त-ज्ञानं यस्य हरेः । घोरां काम-कश्मलां स्व-तनुं विमुञ्चेति उक्तवान् इति शेषः । इत्य् उक्तश् च ब्रह्मा तं तनुं विमुमोच । सर्वत्र तनु-त्यागो नाम तत् तन् मनो-भाव-त्यागो विवक्षितः । ग्रहणं च तत् तद् भावापत्तिर् इति द्रष्टव्यम् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सोऽवधार्येत्य् अस्य टीकायां भावो नाम सृज्यावेशो ज्ञेयः । भावत्व् अमननं च तद्-आयुषो द्विपरार्धमितत्वात् ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विविक्तम् असन्दिग्धम् अध्यात्म-दर्शनं पर-चित्त-ज्ञानं यस्य सः । विमुञ्चेत्य् उक्तवान् इति शेषः । इत्य् उक्तेश् च ब्रह्मा तनुं विमुमोच ॥२८॥

———————————————————————————————————————

॥ ३.२०.२९ ॥

तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् ।

काञ्ची-कलाप-विलसद्-दुकूल-च्छन्न-रोधसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : साहो-रात्रयोः सन्धिर् अभवत् इति श्रुतेः । सा तेन विसृष्टा तनुः सायन्तनी सन्ध्या बभूव । सा च कामोद्रेक-वेला । असुराश् च राजसत्वात् स्त्री-लम्पटाः । अतस् तां सन्ध्याम् एव स्त्रियं कल्पयित्वा ते संमोहं प्राप्ता इत्य् आह—ताम् इति त्रिभिः । नूपुराभ्यां क्वणती चरणाम्भोजे यस्याः । मदेन विह्वले लोचने यस्याः । काञ्ची-कलापेन विलसद्-दुकूलं तेन छन्नं रोधः कटितटं यस्यास् ताम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम् इति त्रिकम् । अन्योऽन्येति लेखादिवत् श्लेषाप्य् अङ्गीकृता । यद् वा, सुपां सुलुग् इत्य्-आदिना यादेशः ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्वा मूढ-धियः स्त्रियम् इत्य् अग्रिमोक्तेस् तां सन्ध्याम् एव स्त्रियं कल्पयित्वा स्त्री-लम्पटा असुरा मुमुहुर् इत्य् आह—तां क्वणद् इति । अत्र स्व-स्व-नीडं प्रति गन्तुं नभसि स्व-शब्दम् उड्डीनान् चटक-सारसादीन् एव नूपुर-काञ्च्य्-आदीन् कल्पयन्ति स्म । तत्-तद्-आकारान् मेघ-खण्डान् एव चरण-नयन-नितम्ब-स्तनादीन् । अत एवैकुत्र श्लेषेण पयोधर-शब्दः उपन्यस्तः । सन्ध्याया आरुण्यम् एवारुण-दुकूलम् । रोधः कटि-तटं, श्लेषयेति भिदाद्य् आङ्-अन्ताट्टाप्-प्रत्ययः । ङित्य् अपि गुण आर्षः ॥२९॥

———————————————————————————————————————

॥ ३.२०.३० ॥

अन्योन्य-श्लेषयोत्तुङ्ग-निरन्तर-पयोधराम् ।

सुनासां सुद्विजां स्निग्ध-हास-लीलावलोकनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्योन्यं श्लेषयोपमर्देन हेतुनोत्तुङ्गौ निरन्तरौ पयोधरौ यस्याः । सु-द्विजां सु-दतीम् । स्निग्धो हासो लीलावलोकनं च यस्याः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्योन्य-श्लेषया उपमर्देनैव हेतुना उत्तुङ्गौ निरन्तराव् अव्यवधानौ पयोधरु यस्यास् तां सुपां सुलुग् इत्य्-आदिना टा-प्रत्ययस्य यादेशो वा । अन्तराच् छिद्रोत्थौ यत् किञ्चित् सूर्य-प्रकाशाव् एव हासावलोकने कदाचित् तन्-मेघ-खण्डान्तर्धानम् एव लज्जया निगूहनम् ऊर्ध्वतस् तल-पर्यन्त-पतितानि दीर्घ-श्याम-मेघ-खण्डान्य् एव ॥३०॥

———————————————————————————————————————

॥ ३.२०.३१ ॥

गूहन्तीं व्रीडयात्मानं नीलालक-वरूथिनीम् ।

उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गूहन्तीं वस्त्राञ् चलेनावृण्वानाम् । नीलानाम् अलकानां वरूथः स्तोमो विद्यते यस्याः । हे धर्म विदुर, तां स्त्रियम् उपलभ्य मत्वा ॥३१।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीलालक-वरूथम् । हे धर्म ! विदुर ! तां स्त्रियम् उपलभ्य मत्वा ॥३१॥

———————————————————————————————————————

॥ ३.२०.३२ ॥

अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः ।

मध्ये कामयमानानाम् अकामेव विसर्पति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : संमूढानां विभावना-क्रमम् आह—अहो इति ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां काम-मोह-प्रलापम् आह—अहो इति ॥३२॥

———————————————————————————————————————

॥ ३.२०.३३ ॥

वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् ।

अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिसम्भाव्य सत्कृत्य । विश्रम्भात् प्रणयात् । कुबुद्धयस् ते तां पप्रच्छुः॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किम् इयम् अस्मास्व् एवानुरागिणी अन्यत्र वा, देवी मानुषी वा वृषस्यन्ती ब्रह्मचारिणी वेत्य् एवं वितर्कयन्तः । अभिसम्भाव्य सत्कृत्य ॥३३॥

———————————————————————————————————————

॥ ३.२०.३४ ॥

कासि कस्यासि रम्भोरु को वार्थस् तेऽत्र भामिनि ।

रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कासीति त्रिभिः । कासि जात्या । कस्य वा कन्या ? हे भामिनि कोपने । रूपम् एव द्रविणम् अनर्घ्यं वस्तु । तद् एव पण्यं क्रयार्हम् । तेन तद्-असमर्पणेन नो विबाधसे ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विबाधने हेतुः । दुर्भगान् एतन्-मूल्य-द्रव्य-हीनान् ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूपम् एव द्रविणम् अनर्घ्यं वस्तु, तद् एव पण्यं क्रयार्हं तेनास्मान् दुर्भगान् त्वद्-दास्यानर्हान् अपि विबाधसे वध्वा स्व-सङ्ग एव जिघृक्षसि । यद् वा, विबाधसे न क्रीणासि धिग् अस्मान् दुर्भगान् इति भावः ॥३४॥

———————————————————————————————————————

॥ ३.२०.३५ ॥

या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव ।

उत्सुनोषीक्षमाणानां कन्दुक-क्रीडया मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं जाति-कुलादि-प्रश्नेन या वा काचिद् भव । दिष्ट्या इदं तावद् भद्रं जातं यत् तव दर्शनम् । किन्तु केवलं नो मन उत्सुनोषि विमथ्नासि ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्सुनोषि मथ्नासि । कन्दुक-क्रीडयेति अस्तं गच्छन् चञ्चलः सूर्य एव अरुण-कन्दुकत्वेन कल्पितः ॥३५॥

———————————————————————————————————————

॥ ३.२०.३६ ॥

नैकत्र ते जयति शालिनि पाद-पद्मं

घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् ।

मध्यं विषीदति बृहत्-स्तन-भार-भीतं

शान्तेव दृष्टिर् अमला सुशिखा-समूहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षुभित-चित्तानां वाक्यं नैकत्रेति । हे शालिनि श्लाध्ये । एकत्र न जयति न स्थिरी-भवति । यद् वा, नैकत्रानेक-गति-विलासेषु जयति सर्वोत्कर्षेण वर्तते । पतत्-पतङ्गम् उच्छलन्तं कन्दुकम् । बृहतोः स्तनयोर् भाराद् भीतं तव कृशं मध्यं विषीदति श्राम्यति । शान्ता मन्थरेव प्रसरति । सु-शिखा-समूहः शोभनः केश-कलापस् ते । पाठान्तरे सुशिखाः शोभनान् केशान् अवकीर्यमाणान् समूहः बधानेति । अत्र चास्तं गच्छन् सूर्य एव पतत्-पतङ्गः, मेघ-विच्छेदो मध्य-विषादः तारका-रूपा दृष्टिः, तम एव केशा इत्य्-आद्य्-ऊह्यम् ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कन्दुक-क्रीडां वर्णयन्ति—हे शालिनि ! श्लाघ्ये ! एकत्र न जयति न स्थिरीभवति । पतत्-पतङ्गम् अधश् चलं कन्दुकम् । पक्षेऽस्तं गच्छन् सूर्यः । कृशत्वाद् विषीदति । दृष्टिर् अमला निष्कामेव वस्तुतस् त्व् अन्तः सकामैवेत्य् अर्थः । श्रान्ता कन्दुक-क्रीडाश्रमं व्यञ्जयती । अत एव सुशिखाःशोभनान् केशान् अवकीर्यमानान् समूहः वधान । सुशिखा-समूह इति पाठे—स्व् इत्य् अव्ययं पृथक्-पदम् । ततश् च शिखा-समूहश् च सुन्दर इत्य् अर्थः ॥३६॥

———————————————————————————————————————

॥ ३.२०.३७ ॥

इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् ।

प्रलोभयन्तीं जगृहुर् मत्वा मूढ-धियः स्त्रियम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रमदेवाचरन्तीं स्त्रियं मत्वा जगृहुः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इतीति । सन्ध्य हि कामिनां स्त्री-स्फूर्तिं करोति । ततश् च तेषां स्फुरन्ती स्त्री तद्-अभेदेन तैर् अवगता तद्-अनुसारेण मुनीन्द्रेणापि वर्णितेति ज्ञेयम् ॥३७॥

———————————————————————————————————————

॥ ३.२०.३८ ॥

प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना ।

कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रहस्यात्मानम् आत्मना जिघ्रन्त्या । कान्त्या सौन्दर्येण । प्रहसनम् आत्मावघ्राणं च सौन्दर्यानुभाव-चातुर्य-विकारः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भावः सौन्दर्य-गर्वः तेन गम्भीरम् अन्यत्रादत्त-दृष्टित्वादिकं यथा स्यात् तथा प्रहस्य स्वस्मिन्न् एव प्रेमातिशयेन सौरभ्यातिशयानुभवेन च स्वयम् आत्मानं जिघ्रन्त्या कान्त्या कान्तिमत्या तन्वा ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा ब्रह्मणः सौन्दर्यं स्मृत्य्-आरूढं बभूव, तदा तस्माद् गन्धर्वादयो बभूवुस् तच् च सौन्दर्यं ज्योत्स्नाभूत्, तां च एवं जगृहुर् इत्य् आह—प्रहस्येति । कान्त्या कीदृश्या भाव-गम्भीरं व्यञ्जित-स्वाभियोगं यथा स्यात् तथा प्रहस्य आत्मनैवात्मानं जिघ्रन्त्येति कान्ति-कान्तिमतोर् ऐक्येनोपचारात् प्रहसनावघ्राणादीनि स्व-सौन्दर्यास्वादन-चिह्नानि ॥३८॥

———————————————————————————————————————

॥ ३.२०.३९ ॥

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।

त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्योत्स्नां चन्द्रिका-रूपाम् । त एव गन्धर्वादि-गणाः । विश्वावसुः पुरोगमो मुख्यो येषु ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.२०.४० ॥

सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा ।

दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनस् तन्द्रिणा आलस्येन । तांश् च मुक्त-केशान् वीक्ष्य नेत्रे निमीलितवान् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्म-तन्द्रिणा आत्मनस् तन्द्रा-युक्तेन देहेन उपलक्षणं चैतत् जृम्भा निद्रोन्मानवत्त्वस्य तस्य एव कार्य-क्रम-रूपत्वात् तेषाम् ॥४०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदाचिद् ब्रह्मण आलस्यम् अभूत् तस्माच् च भूत-पिशाद्या बभूवुस् तच्-चालस्यं जृम्भा-निद्रादि-रूपाभूत् तां च त एव जगृहुर् इत्याह—सृष्ट्वेति । तन्द्रा यस्य कार्यत्वेनास्ति तत्-तन्द्रि आलस्यं तेन ॥४०॥

———————————————————————————————————————

॥ ३.२०.४१ ॥

जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।

निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते ।

येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियाणां विक्लेदः स्रावो यया तां निद्रां प्रचक्षते । येनेन्द्रिय-विक्लेदेन हेतुनोच्छिष्टांश् च सतो धर्षयन्ति भ्रान्तान् कुर्वन्ति । तं भूतादि-गणम् उन्मादं प्रचक्षते । तन्द्रा-जृम्भिकानिक्रोन्माद-हेतुत्वेन भूतादीनां तनूनां च चातुर्विध्यम् उक्तम् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : जगृहुर् इति सार्धकम् । अत एवाभेदेनाह—जृम्भणाख्यां निद्राम् इति च । धर्मस्यैव प्राधान्य-विवक्षया मत्व्-अर्थीयश् च नात्र कृतः । तम् इन्द्रिय-विक्लेदं यम् उन्मादं प्रचक्सते तत्रोन्मादोऽपि भवतीति तद्-अभेदेन तम् अपि निर्दिशन्तीत्य् अर्थः ॥४१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यया निद्रया भूतेषु मनुष्यादिषु इन्द्रियाणां मुखादीनां विक्लेदः । येन च विक्लेदेन हेतुना उच्छिष्टान् सतो धर्षयन्ति, तं धर्षम् उन्मादं प्रचक्षते । अत एव भूत-प्रेतादि-धर्षिता जना उन्मत्ता उच्यन्ते ॥४१॥

———————————————————————————————————————

॥ ३.२०.४२ ॥

ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः ।

साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऊर्जस्वन्तं बलवन्तम् । परोक्षेणादृश्य-रूपेण ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ऊर्जस्वन्तं वर-दानेनोत्साहादि-लक्षण-सत्त्व-युक्तम् ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदाचिद् आत्मनो बलिष्ठत्वं पारोक्ष्यं च भावयामास । ताभ्यां च साध्याः पितरश् च बभूवुस् ते च हव्य-कव्ये बभूवतुर् इत्य् आह—द्वाभ्याम् । ऊर्जस्वन्तं सत्त्ववन्तं तेन सत्त्वेन साध्यान् गणान् परोक्षेण पारोक्ष्येण च पितृ-गणान् ॥४२॥

———————————————————————————————————————

॥ ३.२०.४३ ॥

त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे ।

साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनः सर्गो यस्मातम् । यद् येन कार्येण संप्रदानत्व-निमित्तेन । कवयः कर्म-कोविदाः । साध्येभ्यः पितृभ्यश् च स्व-पितृ-रूपेभ्यः । वितन्वते श्राद्धादिना हव्यं कव्यं च ददति ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : त इति । तद्-युक्तम् एव ज्ञात्वा तेभ्यो ददतीति यत् येन स्व-लक्षणेन कायेनैव हेतुना ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते साध्याः पितरश् च तं कायम् अनुरूपम् इत्य् अर्थः । यद् यतो हेतोर् वितन्वते साध्येभ्यो हव्यम् अन्नं पितृभ्यः कव्यम् अन्नं श्राद्धादिना समर्पयन्तीत्य् अर्थः ॥४३॥

———————————————————————————————————————

॥ ३.२०.४४ ॥

सिद्धान् विद्याधरांश् चैव तिरोधानेन सोऽसृजत् ।

तेभ्योऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तिरोधानेन दृश्यत्वे सत्य् अप्य् अन्तर्धान-शक्त्या ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदाचित् स अन्तर्धानं भावयामास । तस्माच् च सिद्ध-विद्याधरा बभूवुर् इत्य् आह—सिद्धान् इति ॥४४॥

———————————————————————————————————————

॥ ३.२०.४५ ॥

स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः ।

मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यात्म्येन प्रतिबिम्बेन । आत्माभासं प्रतिबिम्बम् आत्मनात्मनो मानः प्रतिबिम्ब-दर्शिनः सुन्दरस्य शिरः-कम्पादि-चेष्टा । अत एव तत्-सृष्टानां मिथः संमाननेन नित्यं मिथुनी-भवः ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनः प्रतिबिम्बं भावयामास । तस्माच् च किन्नर-किंपुरुषा बभूवुर् इत्य् आह—स किम् इति । प्रत्यात्मेन प्रतिबिम्बेन । अहं सुन्दर इत्य् आत्मनैवात्मानं मानयन्, आत्माभासं मुकुरम् ॥४५॥

———————————————————————————————————————

॥ ३.२०.४६ ॥

ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना ।

मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रतिबिम्ब-रूपम् । कर्मभिस् तत् पराक्रमानुवर्णनैः ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् प्रत्यात्मं स्त्री-पुंसयोः पारस्परिक-दर्शन-रूपम् अभूद् अतस् तेऽपि तद् एव जगृहुर् इत्य् आह—ते त्व् इति ॥४६॥

———————————————————————————————————————

॥ ३.२०.४७ ॥

देहेन वै भोगवता शयानो बहु-चिन्तया ।

सर्गेऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भोग आभोगो विस्तारः पादादि-प्रसरणं तद्वता देहेन । अनुपचिते वृद्धिम् अप्राप्ते । तत् भोग-क्रोधादि-युक्तम् ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनसैव शयानं देहं तत्याज । स चाहि-सर्पादि-रूपो बभूवेत्य् आह—देहेति । भोग आभोगो विस्तारस् तद्वता पादादि-प्रसरणवेत्य् अर्थः । बहु-चिन्तया सर्गे अनुपचिते सति कथं मे सृष्टिः सिद्ध्येद् इति भावनया ततश् च चिन्ता-मध्य एव कश्चिद् अविवेकोऽभूत्, यतो महान् क्रोधो बभूव । क्रोधानन्तरं तद्-वपुर् उत्ससर्ज ॥४७॥

———————————————————————————————————————

॥ ३.२०.४८ ॥

येऽहीयन्तामुतः केशा अहयस् तेऽङ्ग जज्ञिरे ।

सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुतोऽमुष्माद् देहाद्ये केशा अहीयन्त प्रच्युतास् तेऽहयो जाताः । प्रसर्पतः पादाद्य्-आकुञ्चनैः प्रचलतोऽमुष्मात् सर्पाः । अत एव अगा न भवन्तीति नागाः, अतिवेगवन्त इत्य् अर्थः । भोगवतो जातत्वाद् भोगेन फणेनोरुर् विस्तीर्णा कन्धरा येषाम् । सर्वे चैते तत्-क्रोध-योगात् क्रूराः । तेषाम् अवान्तर-जाति-भेदः सर्प-सिद्धान्ते प्रसिद्धः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ये इति । केश-स्खलनम् अप्य् अस्य भाव-मयम् एव ज्ञेयम् ॥४८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमुतः अमुष्माद् देहात् ये केशा अहीयन्त विच्युतास् ते अहयो जाताः । प्रसर्पतः पादाद्य्-आकुञ्चनैः प्रचलतोऽमुष्माद् ये हस्त-पादाद्यो विच्युतास् ते सर्पाः । ये च मुण्ड-कन्धराद्यास् ते नागाः । कीदृशाः ? भोगवतो जातत्वाद् भोगेन फणेन उरु विस्तीर्णा कन्धरा येषां ते । सर्वे च क्रोध-योगात् क्रूराः । तेषाम् अवान्तर-जाति-भेदः सर्प-सिद्धान्ते प्रसिद्धः ॥४८॥

———————————————————————————————————————

॥ ३.२०.४९ ॥

स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः ।

तदा मनून् ससर्जान्ते मनसा लोक-भावनान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा मन्यमानोऽभूत् तदा मनून् ससर्ज ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृत-कृत्यम् इवेति इव-शब्दात् कृतं पूर्व-कृत्यम् इत्य् अर्थः । मनून् मनुष्यान् लोक-भावनान् कर्मणा सर्व-लोकोद्भव-हेतून् अत एव श्री-मनोः प्रजा भविष्यन्ति॥४९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिन्तानन्तरं सृष्टिर् मे पूर्णैव सम्पद्यतेति मनसि यदा मिथुनं सिसृक्षतस् तस्य आनन्दो बभूव । तदा तस्मात् मनवो अभवंस् ते च सृष्टि-पूर्ति-मयीं पुरुषाकारतां जगृहुर् इत्य् आह—स आत्मानम् इति द्वाभ्याम् । मनून् इति तेषु तदानीं स्वायम्भुवो मनुः प्रकटः सर्वैर् अदृश्यत । अन्ये च यथा-समयं दृश्या इति ज्ञेयम् । अत्रास्ते इति पदोपन्यासान् मनु-सर्गोऽयं सर्वान्तिमो ज्ञेयः । अत एव तद्-अनन्तरं वक्ष्यमाणोऽपि ऋषि-सर्ग एतत् पूर्वत्रैव ज्ञेयः । अत्र दशम-द्वादश-विंशाध्यायेषु क्वचित् क्रमेण क्वचिन् मण्डूक-प्लुति-सिंहावलोकादि-न्यायात् क्रमातिक्रमेणाप्य् उक्तानां सर्गाणाम् अयं क्रमो ज्ञेयः । प्रथमं पञ्च-पर्वाविद्या-सर्गः । ततो वनस्पति-वृक्षादि-सर्गः, ततः सर्पादि-सर्गः, (ततो गो-महिष्य्-आदि-सर्गः, ततो यक्ष-राक्षसासुर-किन्नर-किंपुरुषादि-सर्गः,) ततश् च सनकादि-मरीच्य्-आदि-सर्गः, ततो मनुष्य-सर्गः, सर्वान्ते मनु-सर्गस्, ततः पूर्व-सृष्टा अपि स्त्री-पुं-स्वरूपेण वर्धन्ते स्मेति ॥४९॥

———————————————————————————————————————

॥ ३.२०.५० ॥

तेभ्यः सोऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् ।

तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ये पुरा सृष्टा देवाः । दृष्ट्वा तु पौरुषीं सृष्टिं देवाः सुकृतम् ऊचिरे इति ॥५०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेभ्यः स्वीयं पुरुषं पुरुषाकारं पुरं देहम् अत्यसृजद् ददौ । तान् मनून् ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तेभ्य इति आत्मवान् परमाश्रयः सन्न् इत्य् अर्थः । आत्मनः इति पाठस् तु प्रायो दृश्यते । तत्र परमट्मनः पुरं प्रकाश-स्थानम् इत्य् अर्थः ॥५०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वीयं पुरं पुरुषाकारं देहम् अत्यसृजत् ददौ ॥५०॥

———————————————————————————————————————

॥ ३.२०.५१ ॥

अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् ।

प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते त्वया यत् कृतं तत् सुकृतम् । सुकृतत्वम् आहुः । यस्मिन् मनु-सर्गे । क्रिया अग्निहोत्राद्याः । अतोऽस्मिन् सर्वे वयं साकं सहान्नं हविर्भागाद्य् अदाम भक्षयाम । हे ब्रह्मन् ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे जगत्-स्रष्टस् ते त्वया यस्मिन् मनु-सर्गे सति क्रिया अग्निहोत्राद्याः प्रतिष्ठिता भवेयुः, तैर् मनुभिः पालनाद् इति भावः । साकं सहैव वयं सर्वे अन्नं हविर् भागादि अदाम भक्षयाम । हे इति पृथक् पदम् ॥५१॥

———————————————————————————————————————

॥ ३.२०.५२ ॥

तपसा विद्यया युक्तो योगेन सुसमाधिना ।

ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यत्रापि तु हरेर् नाम तद् अन्यत्र प्रयुज्यते ।

तदान्तर हरेस् तत्र गृहीति नान्यथा भवेत् ॥

स्वातन्त्र्याद् अवरत्वं च परस्यापि प्रयुज्यते ।

स्थितस्यापि यथा-राज्ञः स्वानां जय-पराजयौ ॥ इति पाद्मे ।

अतो हृषीकेशो ब्रह्मान्तर्यामी ॥५२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : काय-सृष्टिम् उक्त्वा ऋषीणां सृष्टिम् आह—तपसेति । विद्या उपासना । योगोऽत्रासनादिः । सु-समाधिर् वैराग्यैश्वर्यादि-युक्तः समाधिः तेन च युक्तः । हृषीकेशः स्व-वशेन्द्रियः सन् । ऋषीर् ब्रह्मा ऋषीन् प्रजाः ससर्ज ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो विद्यया युक्तस्य ब्रह्मणो मानुषी-सृष्टिम् आह—तपसेति । विद्या उपासना योगोऽष्टाङ्गः सुसमाधिर् ज्ञान-वैराग्ये हृषीकेशः स्व-वशेन्द्रियः सन् ऋषीन् सनकादीन् ॥५२॥

———————————————————————————————————————

॥ ३.२०.५३ ॥

तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः ।

यत् तत् समाधि-योग-र्द्धि- तपो-विद्या-विरक्तिमत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं तद् देहं यस्यांशम् अदाद् इत्य् अत आह—यद् इति । समाधिश् च योगश् च ऋद्धिश् च ऐश्वर्यं तपश् च विद्या च विरक्तिश् च विद्यन्ते यस्मिंस् तत् ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं तद्-देहं यस्यांश-मदाद् इत्य् अत आह—समाधिर् ज्ञानं च योगश् च ऋद्धिर् अणिमाद्यैश्वर्यं च तपश् च विद्या च विरक्तिश् च विद्यन्ते यस्मिंस् तत् । एतद्-अनन्तरं रुद्रोद्भवं, ततश् च मरीच्य्-आदि-सृष्टिर् द्वादशाध्याये ज्ञेयाः ॥५३॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये विंशतितमः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे जगत्-सृष्टिर् नाम

विंशोऽध्यायः

॥२०॥

# कापिलेयम्