१९ हिरण्याक्ष-वधः

विषयः

ब्रह्मणः प्रार्थनाम् अङ्गीकृत्य वराह-कृतो हिरण्याक्ष-वधः ।

॥ ३.१९.१ ॥

मैत्रेय उवाच—

अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।
प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सोऽग्रहीत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ऊनविंशे विरिञ्च्यादि- प्रार्थितेन महा-मृधे ।

वराहेण हिरण्याक्ष- वधः श्लाघ्योऽनुवर्ण्यते ॥

निर्व्यलीकं च तद् अमृतं च । पाठान्तरे निष्कपटाभिप्रायं च तद् ऋतं च । कालात्मनोऽपि मम मुहूर्त-बलम् उपदिशतीति प्रहस्यापाङ्गालोकनेन स्वी-कृतवान् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्व्यलीकम् अकपटम् अमृतं प्रियं च । प्रेमैक-मयत्वात् । पाठान्तरे ऋतम् अर्थतोऽपि निष्कपटम् ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

युद्धे तस्यासमर्थस्य मायाः सृष्टवतो हरिः ।

स्वास्त्रेण हृत्वा तम् अहन्न् ऊनविंशे स्व-पाणिना ॥

निर्व्यलीकं निष्कपटम् अस्मद्-राद्ध-वरोऽसुर इति । अमृतं न यावद् एष वर्धेतेत्य्-आदि-प्रेम-मयत्वाद् अमृत-तुल्यं वचस् तद्-भगवताप्यादरेणास्वादितं तद् इत्य् आह—प्रहस्येति । अहो मत्-प्रेम्नः सर्व-विस्मारकता-सामर्थ्यं मत्-कालात्मनोऽपि मम मुहूर्त-बलम् उपदिशतीति प्रेम-गर्भेणैवापाङ्गेन स्वीचकार, सत्यं, त्वं यथा दिशसि, तथैव कुर्वन्न् इमम् अधुनैव हन्मि । किन्तु ममास्य च युयुत्सा-सुखं पूर्यताम् अतोऽद्य रात्राव् अवैनं हनिष्यामीति ज्ञापयामासेत्य् अर्थः ॥१॥

———————————————————————————————————————

॥ ३.१९.२ ॥

ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् ।
जघानोत्पत्य गदया हनाव् असुरम् अक्षजः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुखतः अभिमुखे । हनौ कपोलस्याधो-भगे । अक्षजो ब्रह्मणो घ्राणेन्द्रियाद् आविर्भूतः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अक्षजः योऽधोक्षजोऽपि । सम्प्रति नेत्रादिषु प्रकटीभूत इत्य् अर्थः ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुखतः संमुख एव । हनौ कपोलस्याधो-भगे । अक्षजो ब्रह्मणो घ्राणेन्द्रियाद् आविर्भूतः ॥२॥

———————————————————————————————————————

॥ ३.१९.३ ॥

सा हता तेन गदया विहता भगवत्-करात् ।
विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सा स्व-गन्दया तेन हता ततो विहता विच्युत सती विघूर्णिता भूत्वापतद् रेजे च । तद् भगवत्-करात् पतनम् । यद् वा, तत् पदस्यावृत्त्या रेजे इत्य् अनेनापि संबन्धः तद् दैत्य-पौरुषं रेजे इति ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् भगवत्-कारात् पतनम् अद्भुतम् इवाभवद् इतीव-शब्दो भगवद्-इच्छया तत्-तत्-सम्भवान् न वस्तुतोऽद्भूतम् इति बोधयति ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा हरेर् गदा तेनासुरेण विहता विच्युता सती विघूर्णिता भूत्वापतत् । विरेजे च । तत् भगवत्-कारात् पतनम् ॥३॥

———————————————————————————————————————

॥ ३.१९.४ ॥

स तदा लब्ध-तीर्थोऽपि न बबाधे निरायुधम् ।
मानयन् स-मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : धर्मः सत्यः इति प्रोक्ता धर्मश् चापि हरेः प्रियः इति ब्राह्मे ॥४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : लब्ध-तीर्थो लब्धावसरः स च न बबाधे न प्राहरत् । स मानयन् बभूवेति वाक्य-भेदात् स इत्य् अस्यापौनर् उक्त्यम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स-मृधे स-युद्धे जने यो धर्मस् तम् ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लब्ध-तीर्थः लब्धसरोऽपि न बबाधे न प्राहरत् । तत्र हेतुः—मानयन्न् इति । तेन च प्रकोपयन्न् इति—किम् अरे माम् अपि त्वद्-बाहु-बलाद् एव पतित-गदं व्याकुलं जानासि यत् स्व-धार्मिकत्वं प्रथयन् न प्रहरसि । पश्य रे पश्य । क्षण-मात्रेणैव त्वत्-प्राणान् एवापहरामीति भगवांश् चुकोपेत्य् अर्थः ॥४॥

———————————————————————————————————————

॥ ३.१९.५ ॥

गदायाम् अपविद्धायां हाहा-कारे विनिर्गते ।
मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सुनाभं चेति च-कारेण पूर्वं गदाम् अपि सस्मारेति गम्यते ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपविद्धायां पतितायां, न चैतत् शाल्व-युद्धे सार्ङ्गधनुः-पतनम् इव परमतम् आशङ्कनीयम् । हिरण्याक्षस्य पार्षदत्वात् पार्षदस्य च भगवत्-तुल्य-बलत्वात् तुल्य-बलत्वे च गदा-पतनस्यासम्भवत्वाभावात् । तुल्य-बलत्वं विना च युद्ध-सुखस्यानुत्पत्तेर् गदा-पतनम् इदं भगवद्-उत्साह-वर्धकत्वाद् भूषणम् एव, न तु दूषणम् । भक्त-स्थाने भगवता प्रेमाम्बुधिना स्व-पराभवस्य शतशोऽङ्गीकृतत्वाद् इत्य् एतद्-अर्थ-व्यञ्जकम् उतंर-श्लोके स्व-पार्षद-मुखेनेति पदम् अनुसन्धेयम् । सुनाभं चेति, च-काराद् गदाम् अपि पूर्वं सस्मारैवेति गम्यते ॥५॥

———————————————————————————————————————

॥ ३.१९.६ ॥

तं व्यग्र-चक्रं दिति-पुत्राधमेन

स्व-पार्षद-मुख्येन विषज्जमानम् ।

चित्रा वाचोऽतद्-विदां खे-चराणां

तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यग्रं स-संभ्रमं चक्रं यस्य । विषज्जमानं विशेषेण सङ्गं प्राप्नुवन्तं प्रति । अतद्-विदां तत्-प्रभावम् अजानताम् । आसमन्ताद् आसन् स्म ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बहिर् दिति-पुत्राधमेन अन्तस् तु स्व-पार्षद-मुख्येनेत्य् अर्थः । दितिजाभिधेनेति पाठे नाम-मात्रतस् तद्-रूपेण ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यग्रं संभ्रम-युक्तं हन्त हन्त भगवान् मां स्मरति स्मेति स्वयम् एवागत्य हस्ते लग्नं चक्रं यस्य तम् । अत्र दिति-पुत्राभिधेन दिति-पुत्राधमेनेति पाठ-त्रयम् । विषज्जमानं वीक्ष्येति शेषः ॥६॥

———————————————————————————————————————

॥ ३.१९.७ ॥

स तं निशाम्यात्त-रथाङ्गम् अग्रतो

व्यवस्थितं पद्म-पलाश-लोचनम् ।

विलोक्य चामर्ष-परिप्लुतेन्द्रियो

रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स दैत्यस् तम् आत्त-चक्रं निशाम्य दृष्ट्वा अग्रतो व्यवस्थितं च विलोक्य आमर्षेण क्रोधेन परिप्लुतानि क्षुभितानि इन्द्रियाणि यस्य सः । आदशत् दष्टवान् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमम् आत्त-रथाङ्गं निशाम्य दृष्ट्वा पुनर् अग्रतो व्यवस्थितं च विलोक्य । दन्त-च्छदम् अधरम् ॥७॥

———————————————————————————————————————

॥ ३.१९.८ ॥

कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव ।
अभिप्लुत्य स्व-गदया हतोऽसीत्य् आहनद् धरिम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चक्षुर्भ्यां दहन्न् इव सञ्चक्षाणः पश्यन् । इव इति वस्तुतः क्रोधाभावम् आह—हतोऽसि ज्ञातोऽसीति वास्तवोऽर्थः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सञ्चक्षाणः पश्यन् हतोऽसि । पक्षे, ज्ञातोऽसि ॥८॥

———————————————————————————————————————

॥ ३.१९.९ ॥

पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः ।
लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वात-रंहसं वायु-वेगाम् ॥९।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१९.१० ॥

आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि ।
इत्य् उक्तः स तदा भूयस् ताडयन् व्यनदद् भृशम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : घटस्वोद्यमं कुरु । यतस् त्वं जेतुम् इच्छसि ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१९.११ ॥

तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।
जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यथेच्छयैव सर्वे तु मनसा देहतोऽपि वा ।

कर्तुं शक्तोऽपि शस्त्राद्या लीलैवानन्त-शक्तितः ॥ इति वराहे > ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां गदाम् ॥११॥

———————————————————————————————————————

॥ ३.१९.१२ ॥

स्व-पौरुषे प्रतिहते हत-मानो महासुरः ।
नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हतो मानो गर्वो यस्य ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैत्य-महाभटेन हिरण्याक्षेण अर्पितं क्षिप्तम् । अज्ज्ञितम् इति तार्क्ष्य-पतत्रस्य त्यक्तत्व-मात्रांशे तात्पर्यम् । न तु तद्वद् इच्छयैव तत्-सिद्धम् इत्य् अंशेऽपि ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१९.१३ ॥

जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् ।
यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्वलन्यो ज्वलनस् तद्वल् लोलुपं ग्रसन-व्यग्रम् । यज्ञाय विष्णुम् आलक्ष्य । अकार्य-करत्वे दृष्टान्तः, विप्रम् उद्दिश्याभिचारं कुर्वन् यथा ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यज्ञायेति । यज्ञो विष्णुस् तद्-अर्थं लक्ष्यीकृत्येत्य् अर्थः । विप्रार्थं विप्रम् उद्दिश्य अभिचरन् यथा हवनीय-द्रव्यं गृह्णाति तद्वत् ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्वलत् ज्वाला-युक्तं ज्वलनो वह्निस् तद्वल् लोलुपं ग्रसन-व्यग्रं यज्ञाय मूर्तिमन्तं यज्ञम् इव हन्तुम् । अत्यन्तानौचित्ये दृष्टान्तः । विप्राय हन्तुम् ॥१३॥

———————————————————————————————————————

॥ ३.१९.१४ ॥

तद् ओजसा दैत्य-महा-भटार्पितं

चकासद् अन्तः-ख उदीर्ण-दीधिति ।

चक्रेण चिच्छेद निशात-नेमिना

हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तः स्वे आकाश-मध्ये चकासत् प्रकाशमानम् । उदीर्ण् उत्कटा दीधितिर् दीप्तिर् यस्य। निशात-नेमिना शित-धारेण । हरिर् इन्द्रो यथा तार्क्ष्यस्य पतत्रम् उज्झितं चिच्छेद । देवान् विनिर्जित्य अमृत-कलशं नयता गरुडेन इन्द्र-प्रयुक्त-वज्रस्यामोघस्य मानं दातुं पिच्छम् एकं त्यक्तं तद् यथेन्द्रश् चिच्छेद, छिन्नं च तद् यथा स्वे प्रचकाशे तद्वत् प्रकाशमानम् इत्य् अभिसन्धिः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चकासद् दीप्यमानम् अन्तर् यस्य तथा खे आकाशे उदीर्णा उद्गता बहिर् अपि दीधितयो यस्य तत् । यद् वा, चकासन्त्यः अन्तः-खे आकाश-मध्ये उदीर्णा दीधितयो यस्य तत् । निशात-नेमिना तीक्ष्ण-धारेण हरिर् इन्द्रो यथा तार्क्ष्यस्य गरुडस्य पतत्रं पक्षम् उज्झितं त्यक्तं चिच्छेद । देवान् जित्वा अमृत-कलसं नयता गरुडेन इन्द्र-प्रयुक्त-वज्रस्य अमोघ-रक्षणार्थं पिच्छम् एकं त्यक्तम् । तद् यथा इन्द्रश् चिच्छेद छिन्नं च यथा खे प्रकाशते, तद्वत् प्रकाशमानम् इत्य् अपि सम्बन्धः ॥१४॥

———————————————————————————————————————

॥ ३.१९.१५ ॥

वृक्णे स्व-शूले बहुधारिणा हरेः

प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् ।

प्रवृद्ध-रोषः स कठोर-मुष्टिना

नदन् प्रहृत्यान्तरधीयतासुरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अराः सन्त्य् अस्येत्य् अरि चक्रं, तेन बहुधा वृक्णे छिन्ने सति प्रत्य् एत्याभिमुखम् आगत्य हरेर् उरो वक्षः प्रहृत्य ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वृक्ण इत्य्-आदिषु पूर्व-पूर्ववत् क्रोधाधिकं तद्-आभास एव । प्रहारादिकं च महा-सारत्वं ज्ञात्वैव ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृक्ने छिन्ने उरः प्रहृत्य साक्षाद् युद्धे स्व-सामर्थ्याभावम् अवधार्य मायाः स्रक्ष्यन्न् अन्तर्दधौ ॥१५॥

———————————————————————————————————————

॥ ३.१९.१६ ॥

तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः ।
नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनाग् ईषद् अपि । क्वाप्य् अंशे ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवानन्तरम् आह—तेनेत्थम् इति । आदिः परम-कारण-रूपश् चासौ शूकराकृतिश् चेति ॥१६॥

———————————————————————————————————————

॥ ३.१९.१७ ॥

अथोरुधासृजन् मायां योग-मायेश्वरे हरौ ।
यां विलोक्य प्रजास् त्रस्ता मेनिरेऽस्योपसंयमम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य जगतः । उपसंयमं प्रलयम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रजाः ब्रह्म-पुत्रादयः ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमम् आत्त-रथाङ्गं निशाम्य दृष्ट्वा पुनर् अग्रतो व्यवस्थितं च विलोक्य । दन्त-च्छदम् अधरम् ॥१७॥

———————————————————————————————————————

॥ ३.१९.१८ ॥

प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् ।
दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पांसु-कृतं तमश् च प्रेरितवन्तः । क्षेपणैर् यन्त्रैः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षेपणैर् यन्त्रैः ॥१८॥

———————————————————————————————————————

॥ ३.१९.१९ ॥

द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः ।
वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नष्टो भगणो नक्षत्र-समूहो यस्याम् । अनेन दैत्य-बलातिरेकाद् ब्रह्म-दत्त-मुहूर्तातिक्रमो गम्यते । अह्नि नक्षत्राणाम् असंभवात् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्तनयित्नुर् अत्र मेघज्योतिर्-आख्यः । कर्तरि प्रयोगात् ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नष्ट-भगणेत्य् अनेन युद्ध-कुतूहलिना भगवता ब्रह्म-दत्त-मुहूर्तस्यातिक्रमो गम्यते ॥१९॥

———————————————————————————————————————

॥ ३.१९.२० ॥

गिरयः प्रत्यदृश्यन्त नानायुध-मुचोऽनघ ।
दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नानायुधानि मुञ्चन्तीति तथा यातुधान्यश् च प्रत्यदृश्यन्त ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नानायुधानि यातुधान्यश् च प्रत्यदृश्यन्त ॥२०॥

———————————————————————————————————————

॥ ३.१९.२१ ॥

बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः ।
आततायिभिर् उत्सृष्टा हिंस्रा वाचोऽतिवैशसाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हिंस्राच् छिन्धि-भिन्धीत्य् एवं-भूता अतिवैशसा अत्युग्रा वाच उत्सृष्टा इत्य् अत्रैव वाक्य-समाप्तिः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिवैशसा अत्युग्रा वाचश् च उत्सृष्टा उदसृज्यन्त ॥२१॥

———————————————————————————————————————

॥ ३.१९.२२ ॥

प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् ।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रादुष्कृतानाम् इति प्रकटिता माया विनाशयत् । “विनाशनम्” इति पाठे यथाश्रुतैव षाष्ठी । त्रीणि सवनानि पादा यस्य । यज्ञ-मूर्तिर् इत्य् अर्थः । त्रयो अस्य पादाः इति श्रुतेः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विनाशनं विनाशकं "विनाशयन्" इति पाठे द्वितीयार्थे षष्ठ्यः । त्रयस् तप-आदयः पादा यस्य स त्रिपात् धर्म-मूर्तिः । यद् वा, त्रीणि सवनानि पादा यस्य । त्रयो अस्य पादाः इति श्रुतेः । यज्ञ-मूर्तिर् इत्य् अर्थः ॥२२॥

———————————————————————————————————————

॥ ३.१९.२३ ॥

तदा दितेः समभवत् सहसा हृदि वेपथुः ।
स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भर्तुर् आदेशं त्वत्-पुत्रौ भगवान् हनिष्यतीत्य् एवं-भूतम् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१९.२४ ॥

विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् ।
रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपगूहमानो बाह्वोर् अन्तर्निधाय सङ्घट्टयन् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाह्वोर् अन्तर् निधाय मर्दयिष्यन्न् उपगूहमानोऽपि तं स्वस्माद् बहिर् अवस्थितं ददर्श ॥२४॥

———————————————————————————————————————

॥ ३.१९.२५ ॥

तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः ।
करेण कर्ण-मूलेऽहन् यथा त्वाष्ट्रं मरुत्-पतिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहन् जघान । त्वाष्ट्रं वृत्रम् । मरुत्-पतिर् इन्द्रः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तम् असुरं त्वाष्ट्रं वृत्रं मरुत्पतिर् इन्द्रः ॥२५॥

———————————————————————————————————————

॥ ३.१९.२६ ॥

स आहतो विश्व-जिता ह्य् अवज्ञया

परिभ्रमद्-गात्र उदस्त-लोचनः ।

विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहोऽपतद्

यथा नगेन्द्रो लुलितो नभस्वता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परितो भ्रमद्-गात्रं शरीरं यस्य । उदस्ते बहिर् निर्गते लोचने यस्य । विशीर्णा बाह्व्-आदयो यस्य । नगेन्द्रो महा-द्रुमः । लुलित उन्मूलितः । नभस्वता वायुना ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नगेन्द्रो महा-द्रुमः । लुलित उन्मूलितः ॥२६॥

———————————————————————————————————————

॥ ३.१९.२७ ॥

क्षितौ शयानं तम् अकुण्ठ-वर्चसं

कराल-दंष्ट्रं परिदष्ट-दच्छदम् ।

अजादयो वीक्ष्य शशंसुर् आगता

अहो इमं को नु लभेत संस्थितिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संस्थितिं मृत्युम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अजादय इति । ऋषि-सहितत्वात् ॥२७॥

———————————————————————————————————————

॥ ३.१९.२८ ॥

यं योगिनो योग-समाधिना रहो

ध्यायन्ति लिङ्गाद् असतो मुमुक्षया ।

तस्यैष दैत्य-ऋषभः पदाहतो

मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असत आरोपिताल् लिङ्गाल् लिङ्ग-शरीरान् मोक्तुम् इच्छया । वराहस्य पूर्व-पादयोर् एव करत्वात् करेणाहन्न् इति पदा हत इति चाविरुद्धम् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदाहत इति वराहस्य पूर्व-पादयोर् एव करत्वात् करेणाहन्न् इत्य् अनेनाविरोधः ॥२८॥

———————————————————————————————————————

॥ ३.१९.२९ ॥

एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् ।
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनीनां शापात् । स्पष्टम् ॥२९॥

———————————————————————————————————————

॥ ३.१९.३० ॥

देवा ऊचुः

नमो नमस् तेऽखिल-यज्ञ-तन्तवे

स्थितौ गृहीतामल-सत्त्व-मूर्तये ।

दिष्ट्या हतोऽयं जगताम् अरुन्तुदस्

त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिल-यज्ञानां तन्तवे विस्ताराय कारणायेति वा । अरुन्-तुदो मर्म-भेत्ता ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देवा ऊचुर् इति । देवा इन्द्रादयः । स्थिति-समये प्रकटित-बुद्ध-सत्त्व्आत्म**-मूर्तये** श्री-विष्णु-रूपाय ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्तवे विस्तारकाय कारणायेति वा । अरुन्तुदो मर्म-भेदी ॥३०॥

———————————————————————————————————————

॥ ३.१९.३१ ॥

मैत्रेय उवाच—

एवं हिरण्याक्षम् असह्य-विक्रमं

स सादयित्वा हरिर् आदि-सूकरः ।

जगाम लोकं स्वम् अखण्डितोत्सवं

समीडितः पुष्कर-विष्टरादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सादयित्वा हत्वेत्य् अर्थः । पुष्कर-विष्टरादिभिर् ब्रह्मादिभिः संस्तुतः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वं वाराहम् एव ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुष्करं पद्मं विष्टर आसनं यस्य सः । ब्रह्मा तद्-आदिभिः ॥३१॥

———————————————————————————————————————

॥ ३.१९.३२ ॥

मया यथानूक्तम् अवादि ते हरेः

कृतावतारस्य सुमित्र चेष्टितम् ।

यथा हिरण्याक्ष उदार-विक्रमो

महा-मृधे क्रीडनवन् निराकृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथानूक्तं गुरूक्तिम् अनतिक्रम्य मयावादि तव कथितम् । हे सुमित्र ! यथा येन प्रकारेण ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथानूक्तं गुरूक्तिम् अनतिक्रम्य । यद् वा, यथोक्तं श्री-गुरुणेत्य् अर्थतो लभ्यम् । तथानु अनन्तरं ते तुभ्यम् अवादि उक्तम् । हे सुमित्र ! चेष्टितम् एव केन प्रकारेण जातम् ? तत्राह—यथा येन प्रकारेण ॥३२॥

———————————————————————————————————————

॥ ३.१९.३३ ॥

सूत उवाच—

इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् ।
क्षत्तानन्दं परं लेभे महा-भागवतो द्विज ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे द्विज शौनक ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इति कौषारवेत्य् आदिकं श्री-शुक-वचनाद् अधिकं सूत-वचनम् इति गम्यते ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१९.३४ ॥

अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् ।
उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् उपश्रुत्य ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुण्य-श्लोको युधिष्ठिर इति प्रसिद्धः ॥३४॥

———————————————————————————————————————

॥ ३.१९.३५ ॥

यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् ।
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-मात्रेण पशूनाम् अपि सुलभोऽन्यथा देवानाम् अपि दुर्लभ इति तत् कथा-श्रवणे कस्यानन्दो न स्याद् इत्य् आह—य इति द्वाभ्याम् । झषो ग्राहः । क्रोशन्तीनां सतीनाम् इति कृपालुत्वम् उक्तम् । सङ्कटाद् अचोचयत् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथा-श्रवण-मात्रेण मानुष्यान् उद्धरतीति किं वक्तव्यम् ? यतः स्मरणेनापि पशून् अप्य् उद्धरति स्मेत्य् आह—य इति । झषो ग्राहः । झषाद् इति किं वक्तव्यम् ? कृच्छ्रतः संसाराद् अपि, करेणूनाम् इति तासां पतिम् इत्य् अर्थः ॥३५॥

———————————————————————————————————————

॥ ३.१९.३६ ॥

तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् इति । ऋजुभिर् अकुटिलैर् अत एव अनन्य-शरणैः असाधुभिस् ततोऽन्यादृशैः। कृतज्ञः शरणागति-मात्रे सुखाराध्यता-विज्ञः, पुरुषार्थ-चतुष्टय-दातृत्वात् । तद् एवं सति को न सेवेत ? तस्यैव सेवा-परित्यागेन तत्-तद्-अन्यद् वाञ्छेद् इत्य् अर्थः ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः स सदैवाराधयितुम् उचित इत्य् आह—तम् इति । कृतज्ञः शरणागत-पालनाभिज्ञः । असाधुभिर् अनृजुभिर् अन्य-शरणैश् च ॥३६॥

———————————————————————————————————————

॥ ३.१९.३७ ॥

यो वै हिरण्याक्ष-वधं महाद्भुतं

विक्रीडितं कारण-सूकरात्मनः ।

शृणोति गायत्य् अनुमोदतेऽञ्जसा

विमुच्यते ब्रह्म-वधाद् अपि द्विजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कारणेन पृथिव्य् उद्धरणादिना सूकर-रूपस्य हरेः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-कारणं तत्-तत्त्वं तद् एव शूकर-रूप आत्मा विग्रहो यस्य ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सकामान् अपि कथा-श्रवणे प्रवर्तयति—यो वा इति ॥३७॥

———————————————————————————————————————

॥ ३.१९.३८ ॥

एतन् महा-पुण्यम् अलं पवित्रं

धन्यं यशस्यं पदम् आयुर्-आशिषाम् ।

प्राणेन्द्रियाणां युधि शौर्य-वर्धनं

नारायणोऽन्ते गतिर् अङ्ग शृण्वताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् धरेर् विक्रीडितं शृण्वताम् अन्ते श्री-नारायणो गतिर् भवति । महा-पुण्यं स्वर्गादि-प्रदम् । अलं पवित्रम् अतिशयेन शोधकम् । धन्यं धनावहम् । यशस्यं कीर्ति-करम् । आयुषश् चाशिषां च पदं स्थानं परित्राणं वा प्राणानाम् इन्द्रियाणां च पदम् । अङ्ग हे विदुर ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एतद् इति । अङ्ग हे शौनक! ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये एकोनविंशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे > हिरण्याक्ष-वधो नामैकोनविंशोऽध्यायः ।

॥ ३.१९ ॥