१८ युद्धम्

विषयः

पृथिव्या उद्धार-काले हिरण्याक्ष-वराह-समागमस् तयोर् युद्ध-वर्णनं च ।

॥ ३.१८.१ ॥

मैत्रेय उवाच—

तद् एवम् आकर्ण्य जलेश-भाषितं

महा-मनास् तद् विगणय्य दुर्मदः ।

हरेर् विदित्वा गतिम् अङ्ग नारदाद्

रसातलं निर्विविशे त्वरान्वितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्टादशे हिरण्याक्ष- धरोद्धर्तृ-वराहयोः ।

निर्विशेषं महा-युद्धं देव-क्षोभि निरूप्यते ॥

प्रतियोद्धारं श्रुत्वा महा-मनाः शयिष्यस इति यद् उक्तं तद् विगणय्य अगणयित्वा । यतो दुर्मदः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विगणय्य विशेषेण गणयित्वा सम्मत्य ॥१।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

असुरस्य वराहस्याप्य् उक्ति-प्रत्युक्त्य्-अनन्तरम् ।

अष्टादशे गदा-युद्धं ब्रह्म-भीतिदम् उच्यते ॥

प्रतियोद्धारं श्रुत्वा महा-मनाः सोत्साह-चित्तः शयिष्यसे इति प्रशान्तये [भा।पु। ३.१७.३१] इति यद् उक्तं तत् खलु स्व-वधस्यासम्भवत्व-निश्चयात् विगणय्य अगणयित्वा तम् अहं क्व प्राप्स्यामीत्य् अन्विष्यन् दैवात् पुरो दृष्टान् नारदात् पृष्टात् हरेर् गतिं गमनं विदित्वा रसातलं गर्भोदम् एव प्रविवेश ॥१॥

———————————————————————————————————————

॥ ३.१८.२ ॥

ददर्श तत्राभिजितं धरा-धरं

प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया ।

मुष्णन्तम् अक्ष्णा स्व-रुचोऽरुण-श्रिया

जहास चाहो वन-गोचरो मृगः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभितो जयतीत्य् अभिजित् तं श्री-हरिम् । प्रकर्षेणोर्ध्वं नीयमानावनिर् येन । अग्र-दंष्ट्रया दंष्ट्राग्रेण स्व-रुचो हिरण्याक्ष-तेजांस्य् अरुण-श्रिया युक्तं यत्, तेन अक्ष्णा नेत्रेण मुष्णन्तं तिरस्-कुर्वन्तम् । अहो चित्रं वन-गोचरो मृगो वारि-चरो वराहः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अरुण-श्रियेति अक्ष्णः सामानाधिकरण्यं पुंवत् त्वं च भाषित-पुंस्कत्वात् ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वोक्ते वराह-चरिते युद्ध-लीला विशेषतो न विवृतेति तां विवरितुम् आह—ददर्शेत्य्-आदि । अभितो जयतीत्य् अभिजित् तं, अभिजिन्-नक्षत्राधिदैवतं वा । प्रकर्षेणोर्ध्वं नीयमानावनिर् येन । अग्र-दंष्ट्रया दंष्ट्राग्रेण स्व-रुचो हिरण्याक्ष-तेजांस्य् अरुण-श्रिया युक्तं यत् तेन अक्ष्णा नेत्रेण मुष्णन्तं तिरस्-कुर्वन्तम् । अहो चित्रं वन-गोचरो मृगो वारि-चरो वराहः ॥२॥

———————————————————————————————————————

॥ ३.१८.३ ॥

आहैनम् एह्य् अज्ञ महीं विमुञ्च नो

रसौकसां विश्व-सृजेयम् अर्पिता ।

न स्वस्ति यास्यस्य् अनया ममेक्षतः

सुराधमासादित-सूकराकृते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एह्य् आगच्छ । रसौकसां पाताल-वासिनां नोऽस्माकं सम्अर्पिता, अन्यथा पातालावतरणम् अस्या न घटत इति भावः । हिरण्याक्षेणाधिक्षेपार्थं प्रयुक्तापि भारती वस्तुतो भगवन्तं स्तौति । तथा हि—**वन-**गोचरो जले शयानः श्री-नारायणः स एव योगिभिर् मृग्यते, दुष्टान् वा हन्तुं मृगयत इति मृगःअज्ञ नास्ति ज्ञो यस्मात् सर्व-ज्ञेत्य् अर्थः । सुरा अधमा यस्मात्, हे सुरोत्तम ! ममेक्षमाणस्यापि सतो माम् अनादृत्यापि त्वम् अनया सह वर्तमानो नोऽस्मदीयं स्वस्ति समस्तं मङ्गलं राज्यं यास्यसि प्राप्स्यसि नात्र सन्देहः । तथाप्य् अस्मत्-कृपया विमुञ्च इत्य् अर्थः । आसादिता लीलया स्वीकृता सूकराकृतिर् येन ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैत्य-भावस्याभास-मात्रत्वम् एव व्यर्थेन तदीय-वाक्येन बोधयति—आहेति त्रिभिः । रसौकसाम् इति सम्प्रति तु विजिते स्वर्ग एवानयोर् वासः सम्पन्न इति गम्यते । रसाया अपि पृथ्वी-विवरत्वान् न स्वस्ति इत्य् अत्र अनचि च [पा। ८.४.४७] इति, वा शरि [पा। ८.३.३६] इति च स-कार-द्वय-सिद्धेर् व्याख्या-द्वयम् ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एह्य् आगच्छ । रसौकसां पाताल-वासिनां नोऽस्माकं समर्पिता, अन्यथा पातालावतरणम् अस्या न घटत इति भावः । हिरण्याक्षेणाधिक्षेपार्थं प्रयुक्तापि भारती वस्तुतो भगवन्तं स्तौति । तथा हि—वन-गोचरो जले शयानः श्री-नारायणः स एव योगिभिर् मृग्यते, दुष्टान् वा हन्तुं मृगयत इति मृगःअज्ञ नास्ति ज्ञो यस्मात् सर्व-ज्ञेत्य् अर्थः । सुरा अधमा यस्मात्, हे सुरोत्तम ! ममेक्षमाणस्यापि सतो माम् अनादृत्यापि त्वम् अनया सह वर्तमानो नोऽस्मदीयं स्वस्ति समस्तं मङ्गलं राज्यं यास्यसि प्राप्स्यसि अत्र सन्देहः । तथाप्य् अस्मत्-कृपया विमुञ्च इत्य् अर्थः । आसादिता लीलया स्वीकृता सूकराकृतिर् येन ॥३॥

———————————————————————————————————————

॥ ३.१८.४ ॥

त्वं नः सपत्नैर् अभवाय किं भृतो

यो मायया हन्त्य् असुरान् परोक्ष-जित् ।

त्वां योगमाया-बलम् अल्प-पौरुषं

संस्थाप्य मूढ प्रमृजे सुहृच्-छुचः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभवाय नाशाय भृतः पुष्टः । वस्तुतस् तु मोक्षाय भृतो धृत आश्रित इत्य् अर्थः । यो भवान् परोक्षेण चौर्येण जयतीति तथा । वस्तुतस् तु दूरत एव स्थित्वा जयतीति । संस्थाप्य हत्वा । वस्तुतस् तु योग-माया-रूपम् अचिन्त्यं बलं यस्य । अल्पं पौरुषं यस्मात् । तं त्वां सम्यक् स्थापयित्वा । भक्त्या हृदि स्थिरी-कृत्येत्य् अर्थः । हे मूढ-प्र, मूढान् प्राति आप्याययतीति तथा । प्रा पूर्ताव् इति धातुः । सुहृदां शुचः संसार-दुःखानि मृजे नाशयामि । यतस् त्वं स्मर्तुर् बान्धवान् अपि मोचयसीति भावः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वास्तवार्थे मूढान् भक्ति-विवशान् प्रतीति तथा-विधः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सपत्नैर् देवैर् नोऽस्माकम् अभवाय नाशाय त्वं भूतः किं पालितः यो माययैव हन्ति, अतः परोक्षं जयति, न तु साक्षात् तं त्वां योगमायैव, न तु दैहिकं बलं यस्य तं संस्थाप्य हत्वा सुहृदां शुचः शोकाश्रूणि प्रमृजामि । पक्षे, अभवाय मोक्षाय भृतः धृतः आश्रित इत्य् अर्थः । किन्तु, मायया कृपया असुरान् अपि यो हन्ति स्वकर्तृक-हननेन तेषाम् अपि सद्-गतिं करोति । अत एव कृपाधिक्याद् एव परोक्षोऽपि सर्वेषां प्रत्यक्षीभूतोऽपि जयसि देवतान्तरेभ्योऽल्प-साधनेनैव प्रत्यक्षीभूतेभ्योऽपि बहुतर-साधनैर् अप्य् असाक्षाद्भूतस् त्वं तेभ्यः सर्वेभ्य उत्कर्षेण वर्तस इत्य् अर्थः । योगमाया-रूपम् अचिन्त्यं बलं यस्य तं, अल्प-पौरुषं पुरुषस्य महत्-स्रष्टुः कर्म पौरुषं विश्व-सृष्ट्यादि तद् अपि अल्पम् अननुरूपं यस्य तं त्वां सम्यक् स्थापयित्वा स्व-हृदय-मन्दिरे भक्त्या स्थिरीकृत्येत्य् अर्थः । हे मूढ-प्रमूढान् प्राति स्व-भक्ति-दानेनाप्ययतीति तथा, प्रा पूर्तौ, सुहृदः शुचः संसार-दुःखानि मृजे नाशयामि यतस् त्वं स्मर्तुर् बान्धवान् अपि मोचयसीति भावः ॥४॥

———————————————————————————————————————

॥ ३.१८.५ ॥

त्वयि संस्थिते गदया शीर्ण-शीर्षण्य्

अस्मद्-भुज-च्युतया ये च तुभ्यम् ।

बलिं हरन्त्य् ऋषयो ये च देवाः

स्वयं सर्वे न भविष्यन्त्य् अमूलाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मद् भुज-च्युतयापि गदया अशीर्णं शीर्षं यस्य तथा-भूते त्वयि सुखं स्थिते सति ये तुभ्यम् अधुना बलिं हरन्ति नवीना भक्ताः, ये च पूर्वे भक्ता ऋषयो देवाश् च, ते सर्वे स्वयम् एवोद्यमं विनैवामूला न भविष्यन्ति, किन्तु दृढ-मूल एव भविष्यन्तीत्य् अर्थः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संस्थिते मृते सति न भविष्यन्ति, पक्षे अस्मद्-भुज-चातुर्यापि गदया अशीर्णं शीर्षं यस्य तस्मिन् संस्थिते सति ये तुभ्यम् अधुना बलिं हरन्ति, नवीना भक्ता ये च पूर्वे भक्ता ऋषयो देवाश् च ते सर्वे स्वयम् एव उद्यमं विनैव अमूला न भविष्यन्ति किन्तु दृढ-मूला एव भविष्यन्तीत्य् अर्थः ॥५॥

———————————————————————————————————————

॥ ३.१८.६ ॥

स तुद्यमानोऽरि-दुरुक्त-तोमरैर्

दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् ।

तोदं मृषन् निरगाद् अम्बु-मध्याद्

ग्राहाहतः स-करेणुर् यथेभः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स हरिर् अरेर् दुरुक्तान्य् एव तोमराः शस्त्र-विशेषास् तैस् तुद्यमानो व्यथ्यमानो दंष्ट्राग्र-गतां पृथ्वीं भीताम् आलक्ष्य तोदं दुरुक्त-व्यथां मृषन् सहमान एव निर्गतः । करेणुर् हस्तिनी । वस्तुतस् त्व् अरि-दुरुक्त-तोमरैर् निमित्त-भूतैस् तुद्यमानः । यथाश्रुतार्थ-ग्राहिणां ब्रह्मादीनां व्यथां दृष्ट्वा अनुकम्पया पीड्यमान इत्य् अर्थः । तोदं मृषन्न् इत्य् अस्याप्य् अयम् एवार्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स तुद्यमानेति । अत्र वास्तवार्थेन तयोर् निगूढ-भक्त-भावत्वं स्पष्टम् एवाङ्गीकृतम् ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स हरिर् अरेर् असुरस्य दुरुक्ति-तोमरैस् तुद्यमानः । पक्षे, अरि-दुरुक्तितोऽमरैर् एव निमित्त-भूतैस् तुद्यमानः यथा-श्रुतार्थ-ग्राहिणां ब्रह्मादीनां व्यथां दृष्ट्वा अनुकम्पया पीड्यमान इत्य् अर्थः । तोदं पाक्षिक-दुरुक्त-व्यथां मृषन् । पाक्षिक-सूक्त-सुख-प्राप्त्या सहमान इत्य् अर्थः । अत एव ग्राहेण आहतः अहतश् च करेणुर् हस्तिनी ॥६॥

———————————————————————————————————————

॥ ३.१८.७ ॥

तं निःसरन्तं सलिलाद् अनुद्रुतो

हिरण्य-केशो द्विरदं यथा झषः ।

कराल-दंष्ट्रोऽशनि-निस्वनोऽब्रवीद्

गत-ह्रियां किं त्व् असतां विगर्हितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सलिलान् निर्गच्छन्तम् अनुगतः सन् । हिरण्य-वत् कपिशाः केशा यस्य दैत्यस्य । झषो मकरः । करालास् तुङ्गा दंष्ट्रा यस्य । अशनि-वन्-निःस्वनो यस्य । निर्लज्जानाम् असतां किं विगर्हितम् अस्ति । निन्दा-भयाभावात् पलायनम् अपि न निन्दितम् इत्य् अर्थः । यद् वा, लोकोपकाराय भुवम् उद्धरतोऽनुद्रवणम् अनुचितं मन्वानो दैतय् आत्मानम् एवाधिक्षिपति । गत-ह्रियां स्वार्थैक-पराणाम् असताम् अस्माकं किं विगर्हित-गणनास्ति, अपि तु नास्त्य् एव । धिग् अस्मान् इत्य् अब्रवीद् इत्य् अर्थः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् इति । अत्र वस्तुतः कैमुतिकेनैव1 श्री-वराह-देवस्य हिरण्याक्षस्य च तज्-ज्ञानाद् उभयस्यापि वास्तवार्थस्य स्तुताव् एव पर्यवसानं गम्यते ॥७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं भगवन्तम् अनुद्रुतोऽनुधावन्, गत-ह्रियां निर्लज्जानाम् असताम् अवीराणां किं विगर्हितम्, अपि तु नैव निन्दा । प्रतियोद्धारं दृष्ट्वा पलायनं नायुक्तम् इत्य् अर्थः ।

पक्षे, गता प्राप्ता ह्रीर् यैस् तेषां कृपालूनां विगर्हितं, अपि तु कृपालुत्वाद् दंष्ट्राश्रित-भू-रक्षणार्थं किञ्चित् पलायनम् अपि न निन्दितम् इत्य् अर्थः । यद् वा, लोकोपकाराय भुवम् उद्धरतो भगवतोऽनुद्रवणम् अनुचितं मन्वानो दैत्य आत्मानम् एवाधिक्षिपति गत-ह्रियां स्वार्थैक-पराणाम् असताम् अस्माकं किं विगर्हित-गणनास्ति, अपि तु नास्त्य् एव धिग् अस्मान् इत्य् अब्रवीद् इत्य् अर्थः ॥७॥

———————————————————————————————————————

॥ ३.१८.८ ॥

स गाम् उदस्तात् सलिलस्य गोचरे

विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् ।

अभिष्टुतो विश्व-सृजा प्रसूनैर्

आपूर्यमाणो विबुधैः पश्यतोऽरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स भगवान् विश्व-सृजाभिष्टुतो विबुधैश् च प्रसूनैर् आपूर्यमाणः । पाठान्तरे विश्व-सृजां प्रसूनैर् विबुधैर् अभिष्टुत इति । सलिलस्योदस्ताद् उपरि व्यवहार-गोचरे देशे गां पृथ्वीं विन्यस्य तस्यां स्व-सत्त्वम् आधार-शक्तिं निहितवान् । अरेस् तस्य पश्यत एव ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथ्वीयं बिभेतीत्य् एतत्-सहितस्य ममासुरेण सह युद्धं न साध्व् इति स भगवान् गां पृथ्वीं सलिलस्योदस्ताद् उपरि गोचरे स्व-नयन-गोचरे देशे विन्यस्य निधाय तस्यां गवि स्व-सत्त्वं स्व-शक्तिं न्यधात्, यथा जले सा न मज्जेद् इत्य् अर्थः । विश्व-सृजाम् इति पाठे प्रजापतिभिर् विबुधैश् च प्रसूनैर् वृष्यमाणैर् आपूर्यमाणः । पश्यतः पश्यन्तम् अरिम् अनादृत्य ॥८॥

———————————————————————————————————————

॥ ३.१८.९ ॥

परानुषक्तं तपनीयोपकल्पं

महा-गदं काञ्चन-चित्र-दंशम् ।

मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः

प्रचण्ड-मन्युः प्रहसंस् तं बभाषे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परा पराक् पृष्ठतोऽनुषक्तं लग्नम् । तपनीयोपकल्पं सुवर्णाभरणम् । काञ्चन-मयश् चित्रो दंशः कवचं यस्य, तं दैत्यम् । प्रचण्ड-मन्युत्वम् अधिक्षेपादिकं चानुकरण-मात्रं, दैत्य-वाक्य-भीतानां देवानां भय-निवृत्तये । वस्तुतस् तेन तथानुक्तत्वेन कोपादि-हेत्व्-अभावात् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : परानुषक्तेति । अत्रापि तद्वत् । अग्रिमाध्याये कराला [भा।पु। ३.१९.८] इत्य् आदाव् अपि । तथापि सप्तम-स्कन्धे यच् छ्री-युधिष्ठिरेण तद्-दुरुक्ति-निन्दनं श्री-नारदेन च भगवतस् तद्-अस्पृश्यतया सिद्धान्तितं, तद् औपाधिकानुकरण-मात्रम् अवलम्ब्येति ज्ञेयम् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परा पृष्ठतो अनुषक्तं लग्नं तपनीयोपकल्पं स्वर्णालङ्कारं दंशं कवचं दुरुक्तैस् तद्-अन्तं न तु सूक्तैर् इति भावः । अत एव दुरुक्त-श्रवणेन प्रचण्ड-मन्युः, सूक्त-श्रवणस्य प्रतिवचनम् अवश्यम् अपेक्षत इत्य् अतो भगवद्-वाक्येऽपि द्वितीयोऽर्थो व्याख्यायते ॥९॥

———————————————————————————————————————

॥ ३.१८.१० ॥

श्री-भगवान् उवाच—

सत्यं वयं भो वन-गोचरा मृगा

युष्मद्-विधान् मृगये ग्राम-सिंहान् ।

न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा

विकत्थनं तव गृह्णन्त्य् अभद्र ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्राम-सिंहान् शुनः । प्रतिमुक्तस्य बद्धस्य । विकत्थनं श्लोघाम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्यम् इत्य्-आदि श्री-भगवद्-वाक्यानि च केवलोपाधि-दृष्ट्या तानि चोपहास-पराण्य् अपि वास्तवार्थम् अपि वहन्ति । तत्र वन-गोचरत्वम् एकान्त-वासत्वं ज्ञेयम् । तथापि कृपया युष्मद्-विधान् ग्राम्य-विषयासक्त-श्रेष्ठान् मृगये मृगयामहे मोचयितुम् अन्वेषयामः । नन्व् अविनीतान् अस्मान् कथं कृपयसि ? तथाह—न मृत्यु-पाशैर् इति ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्राम-सिंहान् शुनः । वीरा अस्मद्-विधाः प्रतिमुक्तस्य बद्धस्य, पक्षे वन-गोचराः वन-स्थैस् त्यक्त-विषय-भोऐर् भक्तैर् एव दृश्यास् तद् अपि कृपयैव ग्राम-सिंहान् ग्राम-स्था विषयासक्तास् तन्-मुखान् अपि मृगये स्व-पदं दातुम् अन्वेषयामि ।

नन्व् आत्म-श्लाघिनो दुर्विनीतान् कथं कृपयसीति तत्राह—वीराः अस्मद्-विधा दया-वीरास् तव विकत्थनं दोषं न गृह्णन्ति । अत एव तव कथं-भूतस्य मृत्यु-पाशैः प्रतिमुक्तस्य अतिशयेन त्यक्तस्य असमद्-अनुकम्पित-जने मृत्योर् अनधिकारात् । हे अभद्र ! न विद्यते भद्रं यस्मात् ॥१०॥

———————————————————————————————————————

॥ ३.१८.११ ॥

एते वयं न्यास-हरा रसौकसां

गत-ह्रियो गदया द्रावितास् ते ।

तिष्ठामहेऽथापि कथञ्चिद् आजौ

स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न्यास-हरा निक्षेप-हराः । द्राविताः पलायनं कारिताः । अथाप्य् असमर्था अपि तिष्ठामः । तत् किम् ? यतः स्थेयं स्थातव्यम् एवास्माभिः । तत् किम् ? इत्य् अत आह—क्व यामः ? गन्तव्य-देशाभावात् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काकूक्त्या उपहसति—न्यास-हरा न्यस्त-वस्तु-हरा द्राविताः पलायनं कारिताः, अथाप्य् असमर्था अपि । ननु किम् अनेन क्लेशेन यथेष्टं पलायध्वं, तत्राह—स्थेयम् एव यतः क्वेत्य् आदि ।

पक्षे, रसौकसाम् असुराणाम् अपि न्यास-हरा भक्त्या समर्पित-पूजोपहार-ग्राहिणः गत-ह्रियः भक्त-वात्सल्याद् एव हेतोर् न लज्जामहे इत्य् अर्थः । यतो गदया तव स्तुति-वाच्य द्राविता द्रुत-चित्तीकृता, गदेर् भिदादित्वाद् अङ् । अथापि तद् अपि त्वया सह आजौ युद्धेऽपि तिष्ठामहे—स्व-बलोद्रेकं प्रकाशयाम इत्य् अर्थः । प्रकाशने आत्मने-पदम् ।

ननु हे प्रभवो वैकुण्ठं गत्वा सुखेन विराजध्वं, किं युद्ध-क्लेशेन ? तत्राह—स्थेयम् इति सनकादि-द्वारा अभिशापेन वैरम् उत्पाद्य युद्ध-सुखार्थं बलिना त्वया सहाजौ स्थेयम् एव क्व यामः ॥११॥

———————————————————————————————————————

॥ ३.१८.१२ ॥

त्वं पद्-रथानां किल यूथपाधिपो

घटस्व नोऽस्वस्तय आश्व् अनूहः ।

संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां

यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पद्-रथानां पदातीनां ये यूथ-पास् तेषाम् अधिपः । मुख्य इत्य् अर्थः । अस्वस्तये पराभवार्थम् आशु घटस्व यतस्व । अनूहो निर्वितर्कः । यो नातिपिपर्ति न पूरयति पालयति वा असाव् असभ्यः सभायाम् अनर्हः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पद्-रथानां पदातीनां ये यूथ-पास् तेषाम् अधिपः अस्वस्तये पराभवार्थम् आशु घटस्व यतस्व । अनूहो निर्वितर्कः । यो नातिपिपर्ति न पूरयति असाव् असभ्यः सभायाम् अनर्हः ।

पक्षे, त्वयैव प्रेम्णा मद्-युद्ध-सुखोत्पादनार्थं प्रतिज्ञाय असुर-भावोऽङ्गीकृतः । अतो यः स्वाम् इत्य्-आदि । अत एव त्वम् इत्य्-आदि नोऽस्मान् सुखयितुं घटस्व । क्रियार्थोपपदस्येत्य्-आदिना चतुर्थी । असूनाम् अस्वस्तये स्व-प्राण-त्यागार्थं किं कृत्वा संस्थाप्य हृदये सम्यक् स्थिरीकृत्य स्वीयानां कानाम् आनन्दानां सम्बन्धि अश्रु प्रमृज ॥१२॥

———————————————————————————————————————

॥ ३.१८.१३ ॥

मैत्रेय उवाच—

सोऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् ।
आजहारोल्बणं क्रोधं क्रीड्यमानोऽहि-राड् इव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सोऽधिक्षिप्तः सत्यं वयम् इति श्लोकेन । रुषा प्रलब्ध उपहसितश् च एते वयम् इति द्वाभ्याम् । क्रीडां कार्यमाणोऽहि-राट् महा-सर्प इव ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोऽधिक्षिप्तः सत्यं वयम् इति श्लोकेन रुषा प्रलब्ध उपहसितः । एते वयम् इति द्वाभ्याम् । क्रीडां कार्यमाणोऽहि-राट् महा-सर्प इव । पक्षे, अधिक्षिप्तः अधिकारात् पार्षदत्व-लक्षणात् क्षिप्तः । अत एव रुषा कर्त्र्या प्रकर्षेण लब्धश् च । भगवद्-इच्छा-प्रयुक्त-ब्रह्म-शाप-वशात् शुद्ध-सत्त्व-मयोऽपि तमो-मयोऽभूद् इत्य् अर्थः । तदा तु युद्ध-काले आसम्यक्-प्रकारेणैव उल्बणम् अत्युद्रिक्तं क्रोधं जहार जग्राह ॥१३॥

———————————————————————————————————————

॥ ३.१८.१४ ॥

सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः ।
आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्युना प्रचलितानि क्षुभितानीन्द्रियाणि यस्य ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१८.१५ ॥

भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि ।
अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तकं मृत्युम् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१८.१६ ॥

पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः ।
अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम् ॥**

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.१८.१७ ॥

ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।
आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सौम्य विदुर । तां गदाम् अप्राप्ताम् एवाहनत् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोऽसुरस् तु तां भगवद्-गदाम् अप्राप्ताम् एवाहनत् ॥१७॥

———————————————————————————————————————

॥ ३.१८.१८ ॥

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च ।
जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हर्यक्षो हिरण्याक्षः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१८.१९ ॥

तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः

क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः ।

विचित्र-मार्गांश् चरतोर् जिगीषया

व्यभाद् इलायाम् इव शुष्मिणोर् मृधः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अक्षतः क्षतवद् विष्णुर् असमः समवत् तथा ।

अजितो जितवच् चैव ज्ञोऽज्ञवच् च प्रकाशयेत् । > सर्व-रूपेष्व् अनन्तोऽपि ब्रह्माद्याश् चैव तन्-मते । > अनुसारितया ब्रूयुः कुर्युश् च स न दुःख-भाक् ॥ इति ब्रह्माण्डे > ॥१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्पृधोः स्पर्धमानयोः । तिग्माभ्यां गदाभ्याम् आहतान्य् अङ्गानि, तयोः क्षताद् आस्रवतीति क्षतास्रवं रुधिरं, तस्य घ्राणम् अवघ्राणं, तेन विवृद्धो मन्युर् ययोः । विचित्रान् मार्गान् गदा-युद्ध-भ्रमण-भेदान् । इला गौः, तस्यां निमित्त-भूतायां शुष्मिणोः मत्तयोर् वृषभयोः । प्रस्तुतेऽपि इला पृथ्वी, तद्-अर्थम् । वृषभौ हि खलु बहूनि दिनानि सङ्ग्रथितोत्तुङ्ग-शृङ्ग-संहर्ष-विदीर्णाङ्ग-गलद्-रुधिरौ परस्परोपमर्द-व्यग्रोग्र-संरम्भौ चमत्कारित-गज-यूथपौ युध्यमानौ तिष्ठत इति प्रसिद्धम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्पृधोः स्पर्धमानयोः क्षतास्रवं रुधिरं, तस्य घ्राणेन विवृद्धो मन्युर् ययोः । इलायां वासितायां गवि विषये शुष्मिणोर् मत्तयोर् वृषभयोर् इव इलायां भुवि शुष्मिणोर् हरि-हर्यक्षयोर् मृधो व्यभात् अशोभत । भू-गो-वाचस् त्व् इडा इला इत्य् अमरः॥१९॥

———————————————————————————————————————

॥ ३.१८.२० ॥

दैत्यस्य यज्ञावयवस्य माया-

गृहीत-वाराह-तनोर् महात्मनः ।

कौरव्य मह्यां द्विषतोर् विमर्दनं

दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वराट् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञा एवावयवा यस्य च । मह्यां मही-निमित्तं द्विषतोः एवं विधं विमर्दनं युद्धं दिदृक्षुः स्वराट् ब्रह्मा तत्रागात् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दैत्यस्येति । मायया कृपया गृहीतत्वं प्रपञ्चं प्रत्यानीतत्वम् ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायया शक्त्या गृहीता स्व-स्वामित्वेनाङ्गीकृता वाराही तनुर् यस्य तस्य माया-भर्तुर् वराहस्येत्य् अर्थः । मायया कृपया गृहीतत्वं प्रपञ्चं प्रत्यानीतत्वम् इति सन्दर्भः । स्वराट् ब्रह्मा ॥२०॥

———————————————————————————————————————

॥ ३.१८.२१ ॥

आसन्न-शौण्डीरम् अपेत-साध्वसं

कृत-प्रतीकारम् अहार्य-विक्रमम् ।

विलक्ष्य दैत्यं भगवान् सहस्र-णीर्

जगाद नारायणम् आदि-सूकरम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनेक-कल्प-जन-नेतृत्वात् सहस्रणीः ॥२१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : आगत्य च नारायणम् आह—किं कृत्वा । दैत्यं विलक्ष्य । कथं भूतम् । आसन्नं प्राप्तं शौण्डीरं शौर्यं मदो वा येन । अपेतं साध्वसं यस्मात् । कृतः प्रतीकारो येन । अहार्योऽप्रतिकार्यो विक्रमो यस्य । सहस्रणीः सहस्राणाम् ऋषि-सहस्राणां नेता ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एष इति युग्मकम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसन्नं प्राप्तं शौण्डीरं शौर्यं मदो वा येन तम् । ऋषि-सहस्राणां नेता सहस्रणीः ब्रह्मा ॥२१॥

———————————————————————————————————————

॥ ३.१८.२२-२३ ॥

ब्रह्मोवाच—

एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् ।
विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् ॥**

आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरोऽसुरः ।
अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे देव ! तेऽङ्घ्रि-मूलं प्राप्तानां देवादीनाम् । एषोऽसुरः ॥२२॥ आगस्-कृद् वृथैवापराधारोपकः । तत् परिहाराय प्रवृत्तौ भय-कृत् । भीतं ज्ञात्वा दुष्कृद् अर्थ-प्राणादि-हर्ता । अस्मत्तो राद्धो लब्धो वरो येन । अन्वेषन् प्रतिरथम् अवलोकयन् । अप्रतिरथः प्रतिपक्ष-शून्यः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे देव ! आगस्कृत् वृथैवापराधारोपकः तत्-परिहाराय प्रवृत्तौ भय-कृत् भीतान् ज्ञात्वा दुष्कृत् अर्थ-प्राणादि-हर्ता ॥२३॥

———————————————————————————————————————

॥ ३.१८.२४ ॥

मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् ।
आक्रीड बालवद् देव यथाशीविषम् उत्थितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्माद् एवं-भूतोऽयं तस्माद् एनं माक्रीड माक्रीडय । हे देव ! यथोत्थितं क्षुभितम् आशी-विषं सर्पं वालः पुच्छा-कर्षणादिना क्रीडयति, तद्वत् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मैनम् इत्य्-आदि श्री-ब्रह्मणो वाक्यम् । तादृश-भगवद्-युद्ध-लीलावेश-मयेन प्रेम-विशेषेणैश्वर्य-ज्ञण-सङ्कोचात् । टीकायां यद् यस्मात् इति व्याख्यानाद् यदाशी-विषम् इत्य् एव पाठः । सर्वत्र चैष एव अतो यथेत्य् अध्याहार्यैव व्याख्यातम् ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एनं मा आक्रीडय, बालवत् अज्ञ इव स्वयं तु विज्ञ-चूडामणिर् एवासीति भावः । यद् यथा आशी-विषं सर्पम् उत्थितं गरुड इति शेषः । अथवा यद् यस्माद् आशी-विषम् उत्थितम् एनं मन्य इति शेषः ॥२४॥

———————————————————————————————————————

॥ ३.१८.२५ ॥

न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः ।
स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वाम् आसुरीम् । हे देव ! स्वां मायाम् । अघं पाप-रूपम् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मायां शक्तिम् आस्थाय प्रकटीकृत्य ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वां वेलाम् आसुरीम् । हे देव ! स्वां मायां तेनासुर-वेलायां विवृद्ध-बलम् एनं त्वं परमेश्वरोऽपि हन्तुं नैव प्रभविष्यतीत्य् ऐश्वर्य-ज्ञानवतोऽपि ब्रह्मणः प्रेम्नैवानिष्टाशङ्कित्वं ज्ञेयम् । यथैश्वर्य-ज्ञान-पूर्णयोर् अपि वसुदेव-देवक्योः समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः [भा।पु। १०.३.२९] इत्य्-आदि-वाक्यम् ॥२५॥

———————————————————————————————————————

॥ ३.१८.२६ ॥

एषा घोरतमा सन्ध्या लोक-च्छम्बट्2-करी प्रभो ।

उपसर्पति सर्वात्मन् सुराणां जयम् आवह ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आदरं सुमुखं विन्द्यां छम्बट्-कारस् तु भक्षणम् इत्य् अभिधानम् ॥२६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : वेलाम् एवाह—एषेति । लोकानां छम्बट्-करी विनाश-करी । छम्बड् इत्य् अव्ययं विनाशे वर्तते ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एषेति भयेन निकटत्व-स्फूर्तेः ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छद्मट्-करी छद्मड् इत्य् अव्ययं विनाश-वाचकम् ॥२६॥

———————————————————————————————————————

॥ ३.१८.२७ ॥

अधुनैषोऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् ।
शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

मध्याह्नस् त्व् अभिजित्-प्रोक्त आषढोत्तर एव च ।

श्रवणस्यापि पूर्वार्धो विषुवं चाभिजित् स्मृता ॥ इति च ॥२७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिजिन् मध्याह्नः । स एव मौहूर्तिको योगः सन् । मुहूर्तः शुभ-दः कालः अगाद् गत-प्रायः । अतो यावन् मुहूर्त-शेषोऽस्ति तावद् एव सु-दुस्तरम् एनं निस्तर जहि ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मुहूर्ते भवो मौहूर्तिको योगः काल-विशेषः ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिजित् मध्याह्नः मौहूर्तिकः, मुहूर्त एव भवः । अगात् गत-प्रायः । अतो यावद् अस्यावशिष्टोऽस्ति तावद् आशु दुस्तरम् एनं निस्तर जहीत्य् अर्थः ॥२७॥

———————————————————————————————————————

॥ ३.१८.२८ ॥

दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् ।
विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वां मृत्युं त्वयैव शापानुग्रह-काले विहितं निर्मितम् । आसादितः प्राप्तः । शर्मणि सुखे आघेहि स्थापय ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वा त्वां विहितंत्वयैव शापानुग्रह-समये निर्मितम् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे > हिरण्याक्ष-वधो नामाष्टादशोऽध्यायः ।

॥ ३.१८ ॥


  1. कौतुकेनैव इति ङ। ↩︎

  2. छद्मट् इति केचित्। ↩︎