१७ हिरण्याक्ष-दिग्विजयः

विषयः

हिरण्याक्ष-हिरण्यकशिप्वोर् जन्म, तदानीम् उत्पात-दर्शनम्, हिरण्याक्ष-दिग्विजयश् च ।

॥ ३.१७.१ ॥

मैत्रेय उवाच—

निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः ।

ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ततः सप्तदशे जन्म तयोर् लोक-भयङ्-करम् ।

हिरण्याक्ष-प्रभावश् च वर्ण्यते दिग्-जयेऽद्भुतः ॥

क्षेमं विधास्यति [३.१६.३७] इति ब्रह्म-वचनानन्तरं । शङ्कया त्यक्ताः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कारणं तस्योपद्रवस्योत्पत्तौ प्रतीकारे च हेतुम् । शङ्कया सन्देहेन ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

तयोर् जन्मन्य् अरिष्टाणि स्पष्टं सप्तदशेऽभवन् ।

उपाहसच् च दिग्-जेता हिरण्याक्षः प्रचेतसम् ॥

शङ्कया उज्झिता भगवत्य् एव विश्वासेन इति भावः ॥१॥

———————————————————————————————————————

॥ ३.१७.२ ॥

दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी ।

पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भर्तुर् आदेशात् लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः [भा।पु। ३.१४.३९] इति वाक्यात् । स्वापत्याभ्यां परिशङ्किनी देवोपद्रवं शङ्कमाना ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अपत्य-परिशङ्किनी इति । शङ्कमाना सुरार्दनात् [भा।पु। ३.१५.१] इति पूर्वोक्तत्वात् तस्मात् तत्र भय-युक्ता ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भर्तुर् आदेशात् "लोकान् क्रन्दयिष्यति" इति तद्-वाक्यात् अपत्याभ्यां सर्व-लोकोपद्रवम् अपत्यं प्रति विष्णु-हस्ततो वधाद् वा शङ्कमाना ॥२॥

———————————————————————————————————————

॥ ३.१७.३ ॥

उत्पाता बहवस् तत्र निपेतुर् जायमानयोः ।

दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तदा निपेतुर् उद्बभूवुः । उरु भयम् आसमन्ताद् वहन्तीति ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निपेतुर् उद्बभूवुः ॥३॥

———————————————————————————————————————

॥ ३.१७.४ ॥

सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः ।

सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अचलैः सहिता भुवः प्रदेशाः । केतवश् चोदयां चक्रुर् इति शेषः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केतवश् च उदगुर् इति शेषः ॥४॥

———————————————————————————————————————

॥ ३.१७.५ ॥

ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः ।

उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

फट्कारश् चैव फुत्कारास् तथा किलकिलादयः ।

अनुकार-शब्दा विज्ञेया ये चान्ये तादृशा मताः ॥ इत्य् अभिधानम् ॥५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : फूत्-कारान् इति तीव्र-वायु-शब्दानुकरणम् । नग-पतीन् महा-वृक्षान् । वात्या एव अनीकं यस्य । रज एव ध्वजो यस्य ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फूत्-कारान् इति तीव्र-वायु-शब्दानुकरणम् । वात्या एव अनीकं सेना यस्य सः ॥५॥

———————————————————————————————————————

॥ ३.१७.६ ॥

उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भा-गणे ।

व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उच्चैर् हसन्त्य इव तडितो येषु तेषाम् अम्बुदानां घटया समूहेन नष्टो भा-गणः सूर्यादि-प्रभा-समूहो यस्मिन् । पदं स्थानं न व्यादृश्यते स्म ईषद् अपि नादृश्यत ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उच्चैर् हसन्त्य इव तडितो येषु तेषाम् अम्बुदानां घटया नष्टो भा-गणः सूर्यादि-प्रभा यस्मिंस् तस्मिन् व्योम्नि । पदं स्थानम् ॥६॥

———————————————————————————————————————

॥ ३.१७.७ ॥

चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः ।

सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वार्धिः समुद्रो विमना इव । उद्गता ऊर्मयो यस्मात् । **क्षुभिता उदर-**स्था मकरादयो यस्मिन् । उदपानैर् वापी-कूपादिभिः सहिताः । शुष्काणि पङ्कजानि यासु ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वार्धिः समुद्रः । सोदपानाः स-कूपाः ॥७॥

———————————————————————————————————————

॥ ३.१७.८ ॥

मुहुः परिधयोऽभूवन् सराह्वोः शशि-सूर्ययोः ।

निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिधयः परिवेषाः । स-राह्वो राहु-ग्रस्तयोः । निर्घाता निरभ्र-गर्जितानि । रथ-निर्ह्राद-तुल्या ध्वनयः । विवरेभ्यो गिरि-गुहाभ्यः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्घाता निरभ्र-गर्जितानि । रथ-निर्ह्राद-तुल्या ध्वनयः । विवरेभ्यो गिरि-गुहाभ्यः ॥८॥

———————————————————————————————————————

॥ ३.१७.९ ॥

अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् ।

सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : टङ्कारोऽप्य् अनुकार-शब्दः । शृगालास् तत्र पुमांसः ।

अपि सम्भावना-प्रश्न-गर्हाशङ्का-समुच्चये ।

नाशस् तत्र शृगालानां शिवानां चान्यथा स्वरः ॥ इत्य् आग्नेये ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : सृगालानाम् उलूकानांटङ्कारैर् ध्वनिभिः सह । शिवाः सृगाल्यः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : टङ्कारैर् ध्वनिभिः सह । शिवाः सृगाल-स्त्रियः ॥९॥

———————————————————————————————————————

॥ ३.१७.१० ॥

सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् ।

व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्राम-सिंहाः श्वानः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१७.११ ॥

खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् ।

खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : खार्कारोऽप्य् आनुकार-शब्दः ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्कशैस् तीक्ष्णैः । हे क्षत्तः ! खार्कारो गर्दभ-जाति-शब्दस् तस्मिन् रभसः संभ्रमो येषाम् । वरूथशः सङ्घशः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे क्षत्तः ! खार्कारो गर्दभ-शब्दानुकरणं, तेनैव रभसो हर्षो येषां ते ॥११॥

———————————————————————————————————————

॥ ३.१७.१२ ॥

रुदन्तो रासभ-त्रस्ता नीडाद् उदपतन् खगाः ।

घोषेऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रासभ-शब्दात् त्रस्ताः सर्वतः क्रोशन्तः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रासभात् गर्दभ-शब्दात् त्रस्ताः ॥१२॥

———————————————————————————————————————

॥ ३.१७.१३ ॥

गावोऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः ।

व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गावोऽत्रसन् त्रस्ताः । असृग् दोहाश् च बभूवुः । देव-लिङ्गानि व्यरुदन्, प्रतिमानाम् अश्रु-स्राव आसीद् इत्य् अर्थः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असृग्-दोहा रुधिर-दुग्धाः । देव-लिङ्गानि देव-प्रतिमाः ॥१३॥

———————————————————————————————————————

॥ ३.१७.१४ ॥

ग्रहान् पुण्यतमान् अन्ये भ-गणांश् चापि दीपिताः ।

अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुण्यतमान् गुरु-बुधादीन् भ-गणान् बहूनि नक्षत्राणि च, अन्ये क्रूर-ग्रहा मङ्गलादयोऽतिचेरुर् अतिक्रम्य जग्मुर् वक्र-गत्या प्रत्यावृत्य युयुधुश् च ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुण्यतमान् बृहस्पति-शुक्रादीन् अन्ये क्रूर-ग्रहा मङ्गलादयोऽतिक्रम्य जग्मुर् वक्र-गत्या प्रत्यावृत्य युयुधुः ॥१४॥

———————————————————————————————————————

॥ ३.१७.१५ ॥

दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः ।

ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-पुत्रान् ऋते विना, तेषां स्व-शापादि-ज्ञानात् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दृष्ट्वेति । ब्रह्म-पुत्रान् सनकादीन् ऋते ब्रह्म-सृष्टाः । सर्वा एव प्रजा अतत्-तत्त्व-विदो भीता विश्व-सम्प्लवं मेनिरे । देवास् तु ब्रह्म-वाक्यात् तत्त्व-विदोऽभीता आसन्, न तु विश्व-सम्प्लवं मेनिरे इत्य् अर्थः ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-पुत्रान् सनकादीन्, तेषां स्व-शापादि-ज्ञानात् ॥१५॥

———————————————————————————————————————

॥ ३.१७.१६ ॥

ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ ।

ववृधातेऽश्म-सारेण कायेनाद्रि-पती इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यज्यमानम् आत्म-पौरुषं पूर्व-सिद्धं स्व-पौरुषं ययोः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ताव् इति । अत्रानयोर् अणिमादि-शक्त्या गूढ-स्थितौ टीका-सम्मतिश् च ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-शापेऽपि भगवद्-भक्तानां सर्वाधिक्यम् इति बोधयितुं तयोर् अकृतैर् अतिसुकृतैः त्रैलोक्याधिपत्य-बल-प्रभाव-भोग-योगैश्वर्यादीनि कृतैर् अपि बहुभिर् दुष्कृतैर् नरक-यातना-गन्ध-मात्राभावं च वक्तुम् आह—ताव् इति ॥१६॥

———————————————————————————————————————

॥ ३.१७.१७ ॥

दिवि-स्पृशौ हेम-किरीट-कोटिभिर्

निरुद्ध-काष्ठौ स्फुरद्-अङ्गदा-भुजौ ।

गां कम्पयन्तौ चरणैः पदे पदे

कट्या सुकाञ्च्यार्कम् अतीत्य तस्थतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्य् अङ्गदानि येषु ते भुजा ययोः। अङ्गदेति टाब्-अन्तत्वम् आर्षम् । शोभना काञ्ची यस्यां तया कट्या ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सोमपा-शब्दवद् अङ्गदा-शब्दोऽपि भवेत् ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चष-दिन-वयस्त्वे एव ताव् एवम् अभूताम् इत्य् आह—दिवीति । काष्था दिशः । अङ्गदेति टाब्-अन्तत्वम् आर्षम् ॥१७॥

———————————————————————————————————————

॥ ३.१७.१८ ॥

प्रजापतिर् नाम तयोर् अकार्षीद्

यः प्राक् स्व-देहाद् यमयोर् अजायत ।

तं वै हिरण्यकशिपुं विदुः प्रजा

यं तं हिरण्याक्षम् असूत साग्रतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यमयोर् मध्ये यः स्व-देहात् प्रथमम् अजायत, तं यथा हिरण्यकशिपुं विदुः । सा दितिः प्रथमं यम् असूत, तं हिरण्याक्षं यथा विदुस् तथा नाम कृतवान् इत्य् अर्थः । अयं भावः—यदा हि गर्भाधान-समये योनि-पुष्पं विशद्-वीर्यं द्विधा विभक्तम् आदि-पश्चाद्-भावेन प्रविशति, तदा यमौ भवतः । तयोश् च पितृतः प्रवेश-क्रम-विपर्ययेण मातृतः प्रसूतिः ।

यदा विशेद् द्विधा-भूतं बीजं पुष्पं परिक्षरत् ।

द्वौ तदा भवतो गर्भौ सूतिर् वेश-विपर्ययात् ॥ इति पिण्ड-सिद्धि-स्मरणात् ।

अतः स्व-देहात् पूर्वं यो जातस् तस्य हिरण्यकशिपुर् इति दितिः प्रथमं यम् असूत तस्य हिरण्याक्ष इति नाम कृतवान् इति ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दशमेऽह्नि नाम-करणम् आह—प्रजापतिः कश्यपः । यमयोर् मध्ये स्व-देहाद् यः प्रथमम् अजायत, तं हिरण्यकशिपुं यथा विदुः, सा दितिः प्रथमं यम् असूत, तं हिरण्याक्षं यथा विदुस् तथा तयोर् नाम अकार्षीद् इति । यथा-तथयोर् अध्याहारेणान्वयः ।

यदा विशेद् द्विधा-भूतं बीजं पुष्पं परिक्षरत् ।

द्वौ तदा भवतो गर्भौ सूतिर् वेश-विपर्ययात् ॥ इति पिण्ड-सिद्धि-स्मरणात् ।

पितृ-क्रमेण हिरण्यकशिपुर् ज्येष्ठः पित्रा कश्यपेन तस्यैवादाव् अहितत्वात् । तथा मातृ-क्रमेण हिरण्याक्षो ज्येष्ठः मात्रा दित्या तस्यैवादौ प्रसूतत्वात् । एवं क्रमाद् वैविध्येन द्वयोर् अपि ज्येष्ठत्वे पितुः प्राधान्यात् हिरण्यकशिपुर् एव ज्येष्ठत्वेन व्याहृतः ॥१८॥

———————————————————————————————————————

॥ ३.१७.१९ ॥

चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च ।

वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दोर्भ्याम् उद्धतो ब्रह्म-वरेणाकुतो-मृत्युः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दोर्भ्यां बाहु-बलेनैवेत्य् अर्थः । ब्रह्म-वरेण चेति च-कारात् ब्रह्म-वरोऽपि तत्र सहायोऽभूद् इत्य् अर्थः ॥१९॥

———————————————————————————————————————

॥ ३.१७.२० ॥

हिरण्याक्षोऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् ।

गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रणं युद्धम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१७.२१-२२ ॥

तं वीक्ष्य दुःसह-जवं रणत्-काञ्चन-नूपुरम् ।

वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् ॥

मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् ।

भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

न देवानां प्रजापानां विजेता वरतो विना ।

बलेन विद्यया वापि न समस्तत् पतीन् विना ।

वरोऽपि तादृशो यावच् छरीरं नान्य-देहगः ॥ इति तत्त्व-निर्णये ॥२१-२२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुःसहो जवो वेगो यस्य । रणन्तौ काञ्चन-मयौ नूपुरौ यस्य । अंसे न्यस्ता महती गदा येन ॥२१॥ मनसा शौर्येण वीर्येण बलेन वरेणउत्सिक्तं गर्वितम् । असृण्यं निरङ्कुशम् । निलिल्यिरे लीना बभूवुः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् इति युग्मकम् ॥२१-२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनो-वीर्य-वरैर् मनो-बल-देह-बल-देवता-बलैर् उत्सिक्तं गर्वितम् । असृण्यं निरङ्कुशम् ॥२२॥

———————————————————————————————————————

॥ ३.१७.२३ ॥

स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राट् ।

सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वेन महसा तेजसा तिरोहितान् स दृष्ट्वा ज्ञात्वा क्षीबान् मत्तान् अपश्यन् सन् । “क्लीबान्” इति पाठे पौरुष-हीनान् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न पश्यन् क्षीबा मत्तः सन्, क्लीबान् इति पाठे पौरुष-हीनान् ॥२३॥

———————————————————————————————————————

॥ ३.१७.२४ ॥

ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीम-निस्वनम् ।

विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-प्रतियोद्धारं दश-दिक्षु क्वापि कम् अप्य् अदृष्ट्वा स्वीय-महा-बलस्योष्मणानुतप्तो वारिधि-मध्ये कथञ्चित् कश्चिद् वा तिष्ठेत् तेन सह युद्ध्येयेत्य् आकाङ्क्षया वार्धिं जगाहे ॥२४॥

———————————————————————————————————————

॥ ३.१७.२५ ॥

तस्मिन् प्रविष्टे वरुणस्य सैनिका

यादो-गणाः सन्न-धियः स-साध्वसाः ।

अहन्यमाना अपि तस्य वर्चसा

प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्ना अवसन्ना धीर् येषाम् । वर्चसा तेजसा प्रघर्षिता अभिभूताः सन्तः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१७.२६ ॥

स वर्ष-पूगान् उदधौ महा-बलश्

चरन् महोर्मीञ् छ्वसनेरितान् मुहुः ।

मौर्व्याभिजघ्ने गदया विभावरीम्

आसेदिवांस् तात पुरीं प्रचेतसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महोर्मीन् अभिजघ्नेमौर्व्या मारयतीति मौर्वं कार्ष्णायसं तन्-मय्या । यद् वा, मूर्वा नाम तृण-विशेषः, तन्-मय-रज्ज्वा दृढ-निबद्धयेत्य् अर्थः । विभावरी-संज्ञाम् आसेदिवान् प्राप्तः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वर्ष-पूगान् वर्ष-समूहान् व्याप्य महोर्मीम् एव गदया जघ्ने । चलन् चपलः मौर्वं कार्ष्णायसं मुर्वा-नाम-तृण-विशेषो वा, तन्-मय्या । अहो जल-मध्ये काचित् पुरी वर्तते, तद् इमां प्रविशामीति विभावरी-संज्ञां प्राप्तः ॥२६॥

———————————————————————————————————————

॥ ३.१७.२७ ॥

तत्रोपलभ्यासुर-लोक-पालकं

यादो-गणानाम् ऋषभं प्रचेतसम् ।

स्मयन् प्रलब्धुं प्रणिपत्य नीचवज्

जगाद मे देह्य् अधिराज संयुगम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असुराणां लोकः पातालं, तत्-पालकम्प्रलब्धुम् उपहसितुं प्रणिपत्य ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : असुर-लोकाः दानव-प्राय-जनाः । तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकं [भा।पु। १०.२८.२] इति दशमात् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असुर-लोकस्य पातालस्य पालकम्प्रलब्धुम् उपहसितुं प्रणिपत्य ॥२७॥

———————————————————————————————————————

॥ ३.१७.२८ ॥

त्वं लोक-पालोऽधिपतिर् बृहच्-छ्रवा

वीर्यापहो दुर्मद-वीर-मानिनाम् ।

विजित्य लोकेऽखिल-दैत्य-दानवान्

यद् राजसूयेन पुरायजत् प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्माद् राजसूये भवान् अयजत् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयजद् भवान् इति पृथग्-वाक्यं विजित्येति विपरीत-लक्षणा, तेन तदानीं दैत्यानाम् अभावात् सर्वैर् अपि राजसूयः कर्तुं शक्यते स्म । तेन सम्प्रति मां जित्वा पुनर् अपि राजसूयं कुर्व् इति भावः । यद् वा, कृतोऽपि राजसूयस् तदैव ते सिद्ध्यति, यदि मां जयसीति भावः ॥२८॥

———————————————————————————————————————

॥ ३.१७.२९ ॥

स एवम् उत्सिक्त-मदेन विद्विषा

दृढं प्रलब्धो भगवान् अपां पतिः ।

रोषं समुत्थं शमयन् स्वया धिया

व्यवोचद् अङ्गोपशमं गता वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपशमं युद्धादि-कौतुकाद् उपरमम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वया धिया शमयन्न् इति । अत्र मे रोषो न फलवान् भविष्यतीति परामार्शेनेत्य् अर्थः । उपशमं गताः वयं सम्प्रति प्रवयसोऽभूमेत्य् अर्थः । तेन यौवनावस्थायां यदि त्वां प्राप्स्यं तदा त्वादृशानां सहस्रम् अप्य् अजेष्यम् इति भावः । यद् वा, उपशमं सन्न्यासम् । तेन सन्न्यासं चेन् नाकरिष्यं तदाधुनापि त्वाम् अजेष्यम् इति भावः ॥२९॥

———————————————————————————————————————

॥ ३.१७.३० ॥

पश्यामि नान्यं पुरुषात् पुरातनाद्

यः संयुगे त्वां रण-मार्ग-कोविदम् ।

आराधयिष्यत्य् असुरर्षभेहि तं

मनस्विनो यं गृणते भवादृशाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युद्ध-मार्ग-निपुणं त्वां यस् तोषयिष्यति तम् इहि गच्छ । गृणते स्तुवन्ति ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि मे रण-कण्डूयातः कथं निस्तारः ? तत्राह—पश्यामीति । तस्मा हे असुरर्षभ ! त्वम् इहि गच्छ । मनस्विनः शूरा गृणते रण-कण्डूयापहर्तृत्वेन स्तुवन्ति ॥३०॥

———————————————————————————————————————

॥ ३.१७.३१ ॥

तं वीरम् आराद् अभिपद्य विस्मयः

शयिष्यसे वीर-शये श्वभिर् वृतः ।

यस् त्वद्-विधानाम् असतां प्रशान्तये

रूपाणि धत्ते सद्-अनुग्रहेच्छया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आराच् छीघ्रम् । विस्मयो नष्ट-गर्वः । वीरशये रणाङ्गणे । रूपाणि वराहाद्य्-अवतारान् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तं कतिभिर् दिनैर् लप्स्ये ? इति तत्राह—तम् इति । आरात् पञ्चभिर् एव दिनैर् इत्य् अर्थः । विस्मयो विगत-गर्वः सन् शयिष्यसे, सम्प्रति तु गर्व-रोग-पीडितो रण-कण्डूयोद्वेगेन त्वं न शेषे इति भावः । वीर-शये वीराः शेरते यत्र तत्र रणाजिरे इति तव शय्यापि समुचिता भविष्यतीत्य् अर्थः । तदा चरणाद्य्-अङ्ग-यन्त्रण-कारिणः परिचारका अपि बहवो भविष्यन्तीत्य् आह—श्वभिर् इति ।

नन्व् एवं चेत्, तस्याकारं ज्ञापय । यथाधुनैव ब्रह्माण्डस्यान्तर्-बहिर् अपि अनिव्ष्य तं निष्काश्य तेन सहाहं योत्स्ये, कथं स मां हन्याद् इति यूयं पश्यथ । इति तत्राह—य इति । प्रशान्तये नाशाय रूपाणि वराह-नृसिंहाद्याकारान् धत्ते इति सामान्यतो जानामि, त्वां तु केन रूपेण वधिष्यतीति विशेषं तु न जानामीत्य् अर्थः ॥३१॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयेऽस्मिन् सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे

हिरण्याक्ष-दिग्-विजये आदि-दैत्योत्पत्तिर् नाम

सप्तदशोऽध्यायः

॥ ३.१७ ॥