विषयः
भगवत्-कृतं सनकादीनां सान्त्वनम्, वैकुण्ठाज् जय-विजययोः पतनं च ।
॥ ३.१६.१ ॥
ब्रह्मोवाच—
इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् ।
प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
हरिणा सान्त्वितैर् विप्रैर् अनुतप्तैस् तु षोडशे ।
तयोर् असुर-भावेऽपि कृतोऽनुग्रह ईर्यते ॥
इति गृणतां तेषां तद्-वाक्यं प्रतिनन्द्येदं जगाद—एताव् इत्य् एकादशभिः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
भृत्येष्व् आत्मीयताम् आत्मस्व् आदरं जानतां हरिः ।
षोडशे विभातां तेषां शापम् एवान्वमोदत ॥
इति गृणतां स्तुवतां तेषां तद्-वाक्यम् ॥१॥
———————————————————————————————————————
॥ ३.१६.२-३ ॥
श्री-भगवान् उवाच—
एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थी-कृत्य मां यद् वो बह्व् अक्रान्ताम् अतिक्रमम् ॥**
यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः ।
स एवानुमतोऽस्माभिर् मुनयो देव-हेलनात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्मान् मां कदर्थी-कृत्य तुच्छी-कृत्य बहु यथा भवति, तथा अतिक्रमं वः कृतवन्तौ ॥२॥ तस्मात् स एव दण्डोऽङ्गी-कृतः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपराधाशङ्गया युष्माभिर् न भेतव्यम् इत्य् आह—एताव् इत्य् एकादशभिः । मह्यं मम । यद् यस्मान् मां कदर्थीकृत्य तुच्छीकृत्य बहु यथा स्यात्, तथा अतिक्रमं वः कृतवन्तौ । मद्-अनभिप्रेताचरणम् एव तुच्छीकरणं, अतो मया कर्तव्य एव दण्डो भवद्भिः कृत इत्य् आह—य इति । माम् अनुलक्षीकृत्य व्रतानि येषां तैः । देवस्य मम हेलनाद् इति मद्-विषयक एवायम् अनयोर् अपराधो वस्तुत इति भावः ॥२-३॥
———————————————————————————————————————
॥ ३.१६.४ ॥
तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे ।
तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हि यस्मात् । ब्रह्म ब्राह्मणा एव मे परमं दैवं दैवतं, तत् तस्माद् अद्य वः प्रसादयामि । तव कोऽपराधः ? इति चेत्, तत्राह—तद् धीति । मदीयैः पुंभिर् असत्-कृतास् तिरस्कृता इति यत्, तद् आत्म-कृतम् एव मन्ये ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, युष्मासु ममैवापराधोऽभूद् इत्य् आह—तद् व इति । ननु कथं तवापराधः ? तत्राह—तद् धीति । यदि जय-विजयौ मद्-भृत्यौ न स्यातां, अहं वा तत्र प्रीतिमान् न स्यां, तदा अपराधो मे न स्याद् इति भावः ॥४॥
———————————————————————————————————————
॥ ३.१६.५ ॥
यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि ।
सोऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, ममैवैताभ्याम् अनिष्टं कृतम् इत्य् आह—यस्य स्वामिनो नामानि तस्य कीर्तिम् । आमयोऽत्र श्वेत-कुष्ठम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु परमेश्वरस्य तव कथम् अपराधः ? अपराधित्वेऽपि को दण्डयितेति किं सङ्कुचसि ? इति तत्र नास्तु दण्डयिता, दुष्कीर्तिस् तु स्याद् एव, इत्य् आह—यस्य स्वामिनो नामानि “अमुकस्य भृत्योऽयं कुकर्म-कृत्” इति तस्य स्वामिन एव कीर्तिं हन्ति । आमयः श्वित्रं त्वचं हन्ति, अथ च “यस्य त्वक्, तस्यैव कुष्ठी पुमान् अयम्” इति निन्दाम् उत्पादयतिईत्य् अर्थः ॥५॥
———————————————————————————————————————
॥ ३.१६.६ ॥
यस्यामृतामल-यशः-श्रवणावगाहः
सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः ।
सोऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश्
छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अनुक्ताश् च गुणा विष्णोर् उक्ता दोषा न तस्य तु ।
अज्ञानाद् दोष-विज्ञानं गुण-ज्ञानम् अयतितम् अर्थतः ॥ इति पैङ्गि-श्रुतिः ॥६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य मेऽमृत-रूपेऽमले यशसि श्रवणेनावगाहः प्रवेशः श्व-पचम् अभिव्याप्य जगत् सद्यस् तत्-क्षणम् एव पुनाति, सोऽहं विकुण्ठो भवद्भ्यो हेतु-भूतेभ्य उपलब्धा प्राप्ता सु शोभना तीर्थ-भूता कीर्तिर् येन सः । स्व-बाहु-स्थानीयं लोकेश्वरम् अपि हन्यां, कान्यस्य कथा ? इत्य् अर्थः । स्व-गुणानुवर्णनं तु ब्राह्मणोत्कर्षार्थम् एव ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् आत्मीयत्वेन तौ भर्त्सयित्वा ब्राह्मणत्वेन तान् स्तौति—यस्येति चतुर्भिः । कीर्तिः पूर्वोक्तं यशः । यद्यपि लोकेश्वरास् ताभ्याम् अतिनिकृष्टा एव, तथाप्य् अश्लीलाच्छादनायैव टीकायां तथा व्याख्यातम् ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अस्मद्-अपराधात् तव दुष्कीर्तिर् अस्मत्-प्रसादनाच् च तव कीर्तिर् इति त्वत्-सृज्या अस्मद्-विध-जीवा एव त्वत्तः परमेश्वर्।आद् अपि तर्ह्य् अधिका अभूम ? इति चेत्, तत्र कः सन्देह इत्य् आह—यस्येति । सोऽहं विकुण्ठः भवद्भ्यो हेतु-भूतेभ्य उपलब्धा प्राप्ता सुतीर्थ-रूपा कीर्तिर् येन सः, स्व-बाहुम् अपि इति ममतास्पदयोर् जय-विजययोः का वार्ता ? अहंतास्पदं स्वाङ्गम् अपि छिन्द्यां, तद्-असमर्थो युष्मासु सापराध एवास्मीति भावः ॥६॥
———————————————————————————————————————
॥ ३.१६.७ ॥
यत्-सेवया चरण-पद्म-पवित्र-रेणुं
सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् ।
न श्रीर् विरक्तम् अपि मां विजहाति यस्याः
प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सर्वोत्तमोऽपि भागवत-विप्रादेः पूजनाय तु ।
गुण-लब्धिं ततो ब्रूते नित्य-पूर्ण-गुणोऽपि सन् ॥ > ब्रूयुश् चान्ये क्वचित् तत् तु तद्-उक्त-रेणु-सारतः । > उपादत्ते वराश् चापि लोकानां मोहनाय च ॥ इति कौर्मे ।
विप्राणां चरण-पद्म-पवित्र-रेणोः सेवया प्रतिलब्ध-शीलं श्रीर् न जहातीति यत् ॥७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : चरण-पद्मयोः स्थितः पवित्रो रेणुर् यस्य । अत एव क्षतो निरस्तोऽखिलस्य लोकस्य मलो येन । यद् वा, चरण-पद्माल् लग्नः पवित्रो रेणुर् यस्मिन्न् इति, क्षतोऽखिलो मलो यस्येति च विग्रहः । प्रतिलब्धं प्राप्तं शीलं येन । येषां सेवया एते गुणा मम, अत एव श्रीर् मां न विजहाति प्रेक्षा-लवार्थेऽवलोकन-लेशार्थम् । इतरे ब्रह्मादयः । तेषां वः प्रतिकूल-वृत्तिं छिन्द्याम् इति पूर्वेणैव संबन्धः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कथम् अस्मत्तो भवतस् तादृशत्वम् ? तत्राह—यत्-सेवयेति । अयम् अर्थः—विप्राणां देव-देवानां भगवान् आत्म-दैवतम् [भा।पु। ३.१६.१७] इति वक्ष्यमाणानुसारेण येषां ब्राह्मणानां स्वभावत एव मल्-लक्षण-ब्रह्म-भावना-पराणां भवतां सेवया सम्बन्धेनैव भवच्-चरण-पद्मे स्थित-पवित्र-रेणु-प्रकटित-तादृश-शक्तिर् जातः । तथा क्षतोऽखिलो मल आत्मारामत्वाद् भजत्स्व् अप्य् औदासीन्यादि-रूपो येन, तादृशो जातः । ततश् च प्रतिलब्धं शीलं भक्त-वात्सल्यादि-सुख-भावो येन तथा-भूतश् च जातो योऽहं, तं मां विरक्तम् अपि लब्ध्वा श्रीर् ब्रह्माण्ड-परार्धाधिष्ठात्री न जहाति न त्यजत्य् एवेत्य् अर्थः । ततश् च तस्या महिमापि महान् एव जातः, तत्-सेवया अन्येषाम् अपीत्य् आह—यस्या इति । इतरे लोक-पालाद्याः । तस्मात् साध्व् एवोक्तं सोऽहं भवद्भ्य [३.१६.६] इत्य्-आदीति भावः । तत्र भवद्भिर् यन्-नमस्कारादिकम् अपि क्रियते, तद् अपि भवद्-इच्छातिक्रम-भयाद् एव न निवार्यत इति ॥७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अस्माकं वैकुण्ठागमनस्येदम् एव फलं वृत्तं सत्, भवान् अस्मद्-अभीष्ट-दैवतम् अप्य् अस्मान् प्रत्य् एवं ब्रूते इति तत्र किं विपरीतं ब्रूथ ? इत्य् आह—यत्-सेवया मम चरणे पद्मे अभूतां, तत्रत्या रेणवोऽपि जगत् पवित्रयन्ति, अखिला अपि कामादयो मलाः मत्तो हेतोर् अप्य् अन्येषाम् अपि क्षताः । सौशील्यानि लब्धानि लक्ष्मीर् अपार-सम्पद् अपि मां न जहाति । यस्या लक्ष्म्या अवलोक-लेशार्थम् अपि इतरे ब्रह्माद्या अपि नियमांस् तप-आदीन् भजन्तीत्य् एतत् सर्वं येषाम् एव सेवया तेषां वः प्रतिकूल-वृत्तिं स्व-बाहुम् अपि छिन्द्याम् [३.१६.६] इति पूर्वेणैवान्वयः ॥७॥
———————————————————————————————————————
॥ ३.१६.८ ॥
नाहं तथाद्मि यजमान-हविर् विताने
श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन ।
यद् ब्राह्मणस्य मुखतश् चरतोऽनुघासं
तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, ब्राह्मणो ममैव श्रेष्ठं मुखम्, अतो युष्मद्-अवज्ञया मन्-मुख-तिरस्कार एव कृत इत्य् आह—नाहम् इति । विताने यज्ञे यजमानस्य हविश् चरु-पुरोडाशादि हुत-भूग् अग्निः, तेन मुखेन अदन्न् अश्नन्न् अपि, तथा नाद्मि नाश्नामि । यद् यथा श्च्योतता क्षरता घृतेन प्लुतं विलोडितं पायसादि प्रतिग्रासं रसास्वाद-पूर्वकं चरतो भूञ्जानस्य ज्ञानिनो ब्राह्मणस्य मुखतोऽश्नामि । मयि समर्पितैः कर्म-फलैस् तुष्टस्य निष्कामस्येत्य् अर्थः ॥८॥
———————————————————————————————————————
कैवल्य-दीपिका: हुत-भुङ्-मुखेन विताने यज्ञे, अदन् अश्नन् तथा नाद्मि । किंभूतं ? श्च्योतता अक्षरता घृतेन प्लुतम् आलोडितम् । यद् यथा ब्राह्मणस्य मुखेन चरतः अश्नतः अनुघासं प्रतिग्रासम् अद्मि । अभि सन्तुष्टस्य मयि नारायणे अवहितैः अर्पितैः निज-कर्मज-पाकैः प्रारब्ध-कर्म-जनितैः शुभाशुभैः । अर्पणं च नारायणायेति समर्पयेत् तद् [भा।पु। ११.२.३६]1 इति वक्ष्यति ॥८॥ [मु।फ। ४.८]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतो ममान्तः-सन्तोषोऽपि ब्राह्मण-सन्तोषेणैव स्याद् इत्य् आह—नाहम् इति । मय्य् अवहितैर् अतिस्नेहेन मय्य् एव समर्पितैः ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अहं ब्राह्मणान् एव सेवे मद्-दृष्ट्या च ये ब्राह्मणान् सेवमाना भवेयुस् त एव मत्-सेवकाः, यतो ब्राह्मण-मुखेनैवाहं भुञ्जे इत्य् आह—नाहम् इति । यजमानस्य हविश्-चरु-पुरोडाशादि हुतभुग् अग्निस् तेन मुखेन अदन्न् अश्नन्न् अपि तथा नाद्मि तथा । यथा ब्राह्मणस्य मुखतो मुखेनानुघासं प्रत्ग्रासम् एव श्च्योतद्भिर् घृतैः प्लुतं व्याप्तम् इत्य् अत्राप्य् अनुवर्तनीयं चरतो भुञ्जानस्य मयि समर्पितैः कर्म-फलैस् तुष्टस्येत्य् अनेन तथा विप्राणां देव-देवानां भगवान् आत्म-दैवतं [भा।पु। ३.१६.१८] इत्य् अग्रिम-वाक्येन ब्राह्मणस्य भक्ति-राहित्ये सत्य् अपूज्यत्वम् अभियज्य श्वपाकम् इव नेक्षेत लोके विप्रम् अवैष्णवम् इत्य्-आदि वचन-विरोधः परिहृतः । अवैष्णवं वैष्णव-विद्वेषिणम् इति तत्रार्थो द्रष्टव्यः । एवं च भक्ति-मिश्र-स्वधर्मवान् एव ब्राह्मणो भवति, यथा वशिष्टादिः । भक्तैः कैवल्ये प्राधान्ये सत्गि जात्या ब्राह्मणोऽपि वैष्णव एवोच्यते, यथा श्री-नारदादिर् इति विवेचनीयम् ॥८॥
———————————————————————————————————————
॥ ३.१६.९ ॥
येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग-
माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः ।
विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः
सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विप्राणां चापि भक्तानाम् अन्येषां च जनार्दनः । > ब्रह्मणः शङ्कराद् वापि देवताण्डास् तथैव च ॥ > आत्मनश् च श्रियश् चैव सकाशात् प्रियताम् अपि । > पूज्यताम् अत्ययुक्तं च वदेत् क्वापि विमोहयन् ॥ इति स्कान्दे ॥९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, येषाम् अमलम् अङ्घ्रि-रजोऽहं किरीटैर् बिभर्मि, तान् विप्रान् अपकुर्वतोऽपि कोऽन्यो न विषहेत । कथं-भूतोऽहम् ? अखण्डा अनवच्छिन्ना विकुण्ठाप्रतिहता च योग-माया-विलास-भूता विभूतिर् यस्य सः । तथा यस्य मम अर्हणाम्भः पादोदकं चन्द्र-ललामेन ईश्वरेण सहितान् लोकान् सद्यः पुनाति । एवं परमेश्वरः परम-पावनोऽपि सन्न् अहं बिभर्मीति ॥९॥
———————————————————————————————————————
कैवल्य-दीपिका: येषाम् इति । कः पुरुषः विप्रान् न विषहेत ? तत्-कृतं क्रोधं न सहेत । यैर् विप्रैः सत्य-लोक-वासिभिः त्रिविक्रमत्वे मच्-चरण्आर्हणी-कृतं पदं नभो-गङ्गा-रूपम् । चन्द्र-ललामेन शिवेन सह त्रीन् लोकान् अद्यापि सद्यः पुनाति । तथा येषाम् अमलम् अङ्घ्रि-रजोऽहं साहस्रैः किरीटैः बिभर्मि । अकुण्ठा अखण्डा देश-कालाभ्याम् । विकुण्ठाख्य-लोक-रूपा योग-माया विभूतिर् यस्य स तथा ॥९॥ [मु।फ। ४.९]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्माद् एवं तस्माद् येषाम् इति ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, ब्राह्मण-कृतातिक्रमोऽपि सोढव्य एव, न तु प्रतिकर्तव्य इत्य् आह—येषाम् इति । विप्रान् अपकुर्वतोऽपि को न सहेत, अपि तु सर्व एव, तत्र कारण-जिज्ञासायां स्व-किरीटं तर्जन्या दर्शयन्न् आह—येषाम् अङ्घ्रि-रजः किरीटैर् अहं बिभर्मि यद्-धारण-प्रसादात् अकुण्ठ-योग-माया-सम्पत्तिर् अहम् अभुवं, तथा यस्य मम अर्हणाम्भश् चरणोदकं चन्द्र-ललामेन महादेवेन सहितान् लोकान् सद्यः पुनाति, तेन यो मच्-चरण-रजो मूर्ध्नि धत्ते, तस्यैव चरणामृतं ग्राह्यं नान्यस्येति ज्ञेयम् ॥९॥
———————————————————————————————————————
॥ ३.१६.१० ॥
ये मे तनूर् द्विज-वरान् दुहतीर् मदीया
भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या ।
द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान्
गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च मे तनूर् अधिष्ठानानि । कास्ताः । द्विज-वरान् दुहतीर् दोग्ध्रीः, गा इत्य् अर्थः । दुहितुर् इति पाठेऽपि गा एव । विष्णु-रूपात् सूर्याद् उत्पन्नत्वात् । सूर्य-सुताश् च गावः इति वचनात् । अलब्ध-शरणानि रक्षक-हीनानि भेद-बुद्ध्या मद्-अधिष्ठानं न भवन्तीति पृथग्-दृष्ट्या ये द्रक्ष्यन्ति । अघेन क्षता नष्टा दृष्टिर् येषां तान् । मदीयोऽधिकृतो दण्ड-नेता यो यमस् तस्य गृध्राकारा ये दूताः । अहिवन् मन्युर् येषाम् । रुषा क्रोधेन कुषन्ति चञ्चुभिश् छिन्दन्ति ॥१०॥
———————————————————————————————————————
कैवल्य-दीपिका: ये म इति । द्विज-वरान् ब्राह्मणान् । मदीया दुहतीर् दुहितॄः धेनूः । गावो हि सूर्यात् प्रसूताः, सूर्यश् च विष्णुः । अलब्ध-शरणानि रक्षक-हीनानि भूतानि च । एता मम तनवः ममाधिष्ठानानि तानि । ये भेद-बुद्ध्या अनधिष्ठान-बुद्ध्या द्रक्ष्यन्ति, विष्णुं भजन्तोऽपि तेषाम् अपकारं करिष्यन्ति नोपकारम् । यद्यपि सर्वं विष्णोर् अधिष्ठानं, तथाप्य् अत्र कृताव् उपकारापकारौ झटिति विष्णुं स्पृशतो ममत्वातिरेकात् । अघ-क्षत-दृशः पापैर् अन्धीकृत-दृष्टयः । अहि-मन्यवः सर्प-क्रोधाः । सर्पाः खल्व् एतेनैव क्रुध्यन्ति, न च क्रोधं त्यजन्ति । तान् पुरुषान् गृध्राः गृध्राकाराः यमदूताः कुशन्ति छिन्दन्ति घातयन्ति । मम रुषा प्रेरिताः । अहं हि दण्ड-नेतॄणां यमादीनाम् अधिष्ठाता ॥१०॥ [मु।फ। ४.१०]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततो मद्-अनुशरणा विप्रादिषु तथा बुद्धिम् एव कुर्वीरन् न चेद् दण्डं प्राप्स्यन्तीत्य् आह—ये मे इति तनूस् तन्-निर्विशेषणत्वान् ममाहङ्कारास्पदानि, मदीया ममतास्पदानि । अलब्ध-शरणाः कृपास्पदानि । भेद-बुद्ध्या तत्-तद्-इतरत्व-बुद्ध्या॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्राह्मण-कृतातिक्रमम् असहिष्णूनां का वार्ता ? ब्राह्मणेषु मद्-बुद्धि-भेद-दर्शिन एव नारकिन इत्य् आह—ये जना मे तनूर् मम देह-रूपान् दुहतीर् दोग्ध्रीर् गा इत्य् अर्थः । "दुहितॄर्" इति पाठे गा एव विष्णु-रूपात् सूर्याद् उत्पन्नत्वात् सूर्य-सुताश् च गावः इति वचनात् । अलब्ध-शरणानि अनाथानि, भेद-बुद्ध्या मत्-तनवो न भवन्तीति पृथग्-दृष्ट्या ये द्रक्ष्यन्ति, तान् मदीयोऽधिकृतो दण्ड-नेता यो यमस् तस्य गृध्राकारा ये दूताः । अहि-मन्यवः रुषा क्रोधेन कुषन्ति नेत्रादिषु चञ्चुभिश् छिन्दन्ति ॥१०॥
———————————————————————————————————————
॥ ३.१६.११ ॥
ये ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्तस्
तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः ।
वाण्यानुराग-कलयात्मजवद् गृणन्तः
सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतास् तु मां वशी-कुर्वन्तीत्य् आह—ये क्षिपतः पुरुषं भाषमाणान् अपि ब्राह्मणान् संबोधयन्ति । मयि या धीः, तया वासुदेव-दृष्ट्याऽर्चयन्तः सन्तः तुष्यद्-धृदः प्रीयमाण-चित्ताः । स्मितम् एव सुधा, तया उक्षितं सिक्तं पद्म-तुल्यं वक्त्रं येषाम् । अनुराग-कलया प्रेम-शोभया वाचा गृणन्तः स्तुवन्तः । यथा कुपितम् आत्मजं स्निग्धः पिता, सत्-पुत्रा इव पितरम् । अहम् इव भृगुं युष्मान् वा । तैर् अहम् उपाहृतो वशी-कृतः ॥११॥
———————————————————————————————————————
कैवल्य-दीपिका: ये ब्राह्मणान् इति । ये ब्राह्मणान् सम्बोधयन्ति तैर् अहम् उपाकृतः कृत-षोडशोपचारः । मयि धिया अर्चयन्तः । विष्णु-बुद्ध्या पूजयन्तः । क्षिपतः तिरस्कारान् कुर्वतोऽपि तुष्यद्-हृदः प्रीयमाण-चित्तः । पाप-मयैर् इत्य् अतस् तिरस्काराद् इति । पद्मोपमं ब्राह्मण-वक्त्रं क्रोधाग्निना शुष्यन् स्मित-सुधया सिञ्चन्तः । आत्मजवत् पुत्रान् इव गृणन्तः स्तुवन्तः । अहम् इव अहं यथा सम्बोधयामि ॥११॥ [मु।फ। ४.११]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनः प्राकृतानां ब्राह्मणानां भक्तिं विशिष्याह—य इति । मयि स्थिता या धीर् ब्रह्माण-भक्ति-लक्षणा तया तद्-अनुसारिण्य् एवेत्य् अर्थः ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये तु कृतातिक्रमान् अपि ब्राह्मणान् न प्रतिकुर्वन्ति प्रत्युताधिकं प्रसादयन्ति, तेषाम् अहम् एव वश इत्य् आह—ये मयि या धीस् तया भगवद्-दृष्ट्या ब्राह्मणान् क्षिपतः पुरुषं भाषमाणान् अपि अर्चयन्तः कटूक्तिभिर् अपि तुष्यद्-धृदः । अनुराग-कलया प्रेम-वैदग्धी-मय्या वाण्या आत्मजवत् कुपितं पितरं सत्-पुत्रा इव गृणन्तः पुरुषम् इदं न भाषध्वे, किन्तु परम-हितं कृपामृतम् एव वर्षथेति स्तुवन्तः सम्बोधयन्ति—हे स्वामिनः ! हे कृपा-सिन्धवः इत्य्-आदि-कोमला-मन्त्रणेन प्रीणयन्ति, अहम् इव युष्मान् भृगुं तैर् अहम् उपाकृतो वशी-कृतः ॥११॥
———————————————————————————————————————
॥ ३.१६.१२ ॥
तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ
युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः ।
भूयो ममान्तिकम् इतां तद् अनुग्रहो मे
यत् कल्पताम् अचिरतो भृतयोर् विवासः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मान् मेऽवसायम् अभिप्रायम् अलक्षमाणाव् अजानन्तौ युष्मद्-अपराधोचितां गतिं सद्यः प्राप्य मत्-समीपम् इतां प्राप्नुताम् । तद् इति स मेऽनुग्रहः । तम् एवाह—यत् भृतयोर् विवासोऽचिरतः शीघ्रं कल्पतां सम्पद्यतां समाप्यताम् इति ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवत्-कृपया तावद् एव तौ ममान्तिकम् इताम् आगच्छतां, किन्तु एतयोर् भृत्ययोर् विवासः शीघ्रं कल्पयतां भवत्व् इति । यत् तन् मे मह्यं भवताम् अनुग्रह-रूपम् एव । दण्डं विना तु मम सुखं न स्याद् इति भावः ॥१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्माद् एवं स्व-भर्तुर् मम अवसायम् अभिप्रायम् अलक्षमाणौ दैवाद् अपश्यन्तौ युष्मद्-अपराधोचितां गतिं सद्यः प्राप्य मत्-समीपम् इतां पुनः प्राप्नुताम् इतीयं मे प्रार्थनेति भावः ।
ननु प्रभो ब्राह्मणातिक्रमिणो मद्-अपराधिन एवेति श्री-मुखेन स्वयम् एव ब्रूषे । तत् कथं पुनर् अपि तयोर् एवं स्निह्यसीति तत्र सवैवश्यम् आह—तद् अनुग्रहो मे इति । यद् यस्मात् तत्र जय-विजययोर् ममानुग्रह एव, न तु निग्रह इति न हि स्वाभाविको धर्मस् त्यक्तुं शक्यत इति भावः । तस्मात् भृतयोर् भृत्ययोर् विवासः विशिष्टो मया सह-वासः अचिराद् एव कल्प्यतां समर्थो भवतु ॥१२॥
———————————————————————————————————————
॥ ३.१६.१३ ॥
ब्रह्मोवाच—
अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् ।
नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : देवीं द्योतमानाम् । ऋषि-कुल्याम् ऋषि-कुल-स्तुति-पराम् ॥१३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : उशतीं कमनीयां प्रियां देवीं द्योतमानाम् ऋषि-कुल्याम् ऋषयो मन्त्रास् तत् प्रवाह-रूपाम्, ऋषि-कुल-योग्याम् इति च । सरस्वतीं वाचम् आस्वाद्य तन् माद्युर् यम् अनुभूय सर्प-प्रायेण मन्युना दष्टानाम् अपि । क्रोध-विषय-व्याप्तानां हि मनो रसानुभवाभावात् प्रिय-भाषणम् अपि न सहते, तेषां त्व् आत्मा मनो नातृप्यत अलम् इति नामन्यत ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवीं प्रभाव-युक्ताम् ॥१३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरस्वतीं वाणीं नदीं च । उशतीं कमनीयां पक्षे स्वच्छां, देवीं मुनीनां बुद्ध्या विविध-वितर्कादिमय्या सह क्रीडन्तीं पक्षे पूज्यां, ऋषि-कुलाय हितां पक्षे ऋषीणां कुल्यां जलाशय-रूपाम् आस्वाद्य माधुर्यम् अनुभूय, मन्युना सर्प-तुल्येन दष्टानां क्रोध-विष-व्याप्तानां मनो रसानुभवाभावात् प्रिय-भाषणम् अपि न सहते तेषां तु आत्मापि बुद्धिर् अपि मनोऽपि नातृप्यत् अलम् इति नामन्यत । तत्र तेषां महानुतापत्वेऽपि यन् मन्यु-सर्प-विषानपगमस् तद्-भक्तापराधस्य दुर्वारत्वम् एव ज्ञापयति । सत्य् अपि तादृशे भक्तापराधे यो भगवच्-चरण-तुलसी-गन्धादि-माधुर्यानुभवः स खलु ब्राह्मणातिक्रमानन्तरम् अनुतप्तयोर् जय-विजयोर् या तेषु कृपा तद्-अनुगामिन्या भगवत्-कृपायाः प्रभावम् एव ज्ञापयति, अतो यद्य् एषां भक्तापराधो नाभविष्यत् तदा भक्त-भगवतोः कृपा-पात्री-भूतानाम् एषां शुद्ध-दास्य-प्रेमैवाजनिष्यत् । तस्माद् अपराध-सद्-भावाच् छान्त-भक्तत्व् एवैषाम् अभूत् । यद् उक्तं—
भावोऽप्य् अभावम् आयाति कृष्ण-प्रेष्ठापराधतः । > आभासतां च शनकैर् न्यून-जातीयताम् अपि ॥ [भ।र॥सि। १.३.५४] > इति ॥१३॥
———————————————————————————————————————
॥ ३.१६.१४ ॥
सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् ।
विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सतीं श्रेष्ठाम् । व्यादाय प्रसार्य, कर्णं दत्त्वेत्य् अर्थः । लघ्वीं मिताक्षराम् । गुरुभिर् अर्थैर् गह्वरां दुष्प्रवेशाम्—अगाधाम् अभिप्रायतः, गम्भीराम् अर्थतः । विगाह्य विचार्यापि किम् अस्मान् अभिनन्दति निन्दति वा ? अस्मत्-कृतं दण्डं वा सङ्कोचयति ? इति न विदुः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सतीम् अकपटाम् । गुरुर् योऽर्थः प्रयोजनं गह्वराम् इव दुर्गमो यस्यां ताम् । यतोऽगाध-गम्भीराम् । अगाधां भावतोऽतल-स्पर्शां गम्भीराम् अर्थतोऽपि दुरवगाहां च । अतस् तां यथा-शक्ति विगाह्य तृप्त्या अपि तत्र तस्य कर्तुम् इष्टं युद्धादि-लीला-लक्षणं तु न विदुर् इत्य् अर्थः ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यादाय कर्णौ प्रसार्य शृण्वतः । सतीं सत्यां शोभनां च । लघ्वीं मिताक्षराम् । गुरुभिर् अर्थैर् गह्वरां दुष्प्रवेशां, अगाधाम् अगम्याभिप्रायां, गम्भीरां दुर्बोध-बाह्याभ्यन्तरार्थां विगाह्य विचार्यापि किम् अस्मान् अभिनन्दति निन्दति वा अस्मत्-कृतं दण्डं व्यवस्थापयति सङ्कोचयति वा निरस्यति वा अस्मान् वापराधेन योजयति भृत्यौ वा प्रसादाधिक्येनेति तच्-चिकीर्षितं न विदुः । अत्राभिनन्दन-पक्षो व्याख्यात एव । निन्दन-पक्षस् तु भगवद्-अनभिप्रेतोऽपि बिभ्यद्भिर् मुनिभिर् आत्मनि सद्-भावितत्वात् सरस्वत्या च दत्तावकाशत्वाद् एवं व्याख्येयः ।
तथा हि—एतौ द्वौ पार्षदौ मह्यम् इति सर्वज्ञान् अपि मुनीन् यत् परिचाययति स्म, तेन “रे मूढा मत्-पार्षदाव् अप्य् अभिशपथ । एतावद् अपि बलं धध्वे ?” इति व्यञ्जितम् । कदर्थीकृत्य मां यद् वोबह्वाक्रातम् अतिक्रमम् [भा।पु। ३.१६.२] इत्य् अत्र सनकाद्य्-अतिक्रमात् पूर्वं भगवत्-कदर्थनाभावाद् इयं तेषु भगवतो वक्रोक्तिः कोप-व्यञ्जिकैव । वस्तुतस् तु चतुर्थ्यातिशयोक्त्या प्रथमं मत्-कदर्थनं कृतं, ततो युष्मद्-अतिक्रम इति कारण-कार्ययोः पौर्वापर्य-विपर्ययो भगवता प्रयुक्तः । स एवानुमतोऽस्माभिर् इति । अस्मद्-अनुमतिर् यदाभविष्यत्, तदा युष्मत्-कृतो दण्डोऽपि नावेत्स्यत्, ब्रह्म-तेजः समर्थोऽपि हस्तं नेच्छे मतस् तु मे [भा।पु। ३.१६.२९] इत्य् अग्रिमोक्तेः ।
ततश् च यूयं च बटकार्ध-मूल्या अभविष्यतेति मद्-ब्रह्मण्यतैव युष्मान् उन्मादयतीति भावः । तद् धीत्य् आत्म-कृतं मन्ये [भा।पु। ३.१६.४] इति जय-विजययोर् आत्मत्वेन स्वीकारात् प्रेमाधिक्यं, सोऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिर् [भा।पु। ३.१६.६] इति मुनिष्व् आदर-मात्रम् । छिन्द्यां स्व-बाहुम् अपि [भा।पु। ३.१६.६] इति पुनर् अपि तयोः प्रेमास्पदता, यत्-सेवया [भा।पु। ३.१६.७] इति मुनिषु पुनर् अप्य् आदरः, सोऽपि बाह्य एव, ब्राह्मण-सेवयैव किं तस्य चरण-रेणुः पवित्रोऽभूत् ? तयैव किं तस्याखिला मलाः क्षताः ? तयैव किं लक्ष्मीस् तं न त्यजतीति हेत्व्-असत्त्वाद् इति । नाहं तथाद्मि [भा।पु। ३.१६.८] इत्य् आदौ यूयं ब्राह्मणा भोजन-प्रियाः केवलं भोजनीया एवेति । ब्राह्मण-मुखेनाहं भुञ्जे इति ख्यातेर् लोकेषु विस्तारिता घासं चरत इति श्लेषेण ब्राह्मणः खलु गौर् इवादरणीयः, पशु-बुद्धित्वाद् एव मद्-दत्तेन गौरवेण हृष्यति, न तु युष्माभिर् मत्-सुख-तात्पर्या काचिन् मदीय-परिचर्या सम्भवेद् इति ।
येषां बिभर्मि [भा।पु। ३.१६.९] इति किरीटेषु ब्राह्मण-पद-रजो धारणाद् एव मम योग-माययैश्वर्यं, तथा तस्मा एव हेतोर् मच्-चरणोदकं सर्व-जगत्-पावनी गङ्गेति गौरवम् उपहास एव फलितम् । दुहतीर् मदीया [भा।पु। ३.१६.१०] इति गो-ब्राह्मणयोर् भेदो नास्ति द्वयोर् एव मत्-तनुत्वाद् इति पुनर् अपि हास एव ।
ये ब्राह्मणान् [भा।पु। ३.१६.११] इति ब्राह्मणानां खलु क्रोध औत्पत्तिक एव धर्मः, तं चाहं मद्-भक्ताश् च हसन्त एवेति सहिष्णुता सुधा मद्-भक्तेभ्य एव मया दत्तेति तयैवाहं वशीकृतः स्याम् इति जय-विजययोऽस्तु सहिष्णुतायाः सम्प्रत्य् अनुदयान् मम तत्रौदासीन्यं जातम्, अतः शापोऽपि वः प्राभूत्, अन्यथा तु नैव प्राभविष्यत् । अत एवाम्बरीषे ममौदासीन्याभावात् दुर्वाससः कोपात् क्षिप्त-जटाया अपि वैफल्यं, प्रत्युत मत्-स्वरूप-चक्र-कृतः सन्तापः साक्षान् मया ब्रह्मण्येन कारितम् अम्बरीष-पाद-पतनादिकम् इति ।
यं वानयोर् दमम् अधीश भवान् विधत्ते > वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् । > अस्मासु वा य उचितो ध्रियतां स दण्डो > येऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ [भा।पु। ३.१६.२५]
इत्य् अग्रिम-वाक्य-दृष्ट्या च निन्दन-पक्षोऽयं व्याख्यातः ॥१४॥
———————————————————————————————————————
॥ ३.१६.१५ ॥
ते योग-माययारब्ध-पारमेष्ठ्य-महोदयम् ।
प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभित**2-त्वचः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तद्-भ्रू-विजृम्भः परमेष्ठि-धिष्ण्यम् इत्य् उक्तम् ॥१५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् चाभिनन्दतीति ज्ञात्वा ते प्रहृष्टाः सन्तः प्रोचुः । क्षुभिता रोमाञ्चिता त्वक् येषाम् । कूपितेति पाठे सञ्जातरोम-कूपोक्त्या रोमञ्चितत्वम् एवोक्तम् । आरब्ध आविष्कृतः पारमेष्ठ्यस्य परमैश्वर्यस्य महोदयः परमोत्कर्षो येन तम् । अधिराजत्वम् आविष्कृत्य राज-शिक्षार्थं ब्राह्मणान् मानयतीति ज्ञात्वेत्य् अर्थः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषाम् अपि प्राञ्जलित्वादि महा-भक्तौ हेतुः । योगेति योगमाया स्वरूप-शक्तिः । कुपितेति पाठे रोम-मूलानाम् उच्छूनतया तद्-अन्तरालेषु सञ्जाताः कूपवन्-निम्न-प्रदेशाः यत्र तादृश-त्वचः ॥१५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु परमेश्वरस्य तव कथम् अपराधः ? अपराधित्वेऽपि को दण्डयितेति किं सङ्कुचसि ? इति । तत्र नास्तु दण्डयिता दुष्कीर्तिस् तु स्याद् एवेत्य् आह—यस्य स्वामिनो नामानि अमुकस्य भृत्योऽयं कुकर्म-कृद् इति तस्य स्वामिन एव कीर्तिं हन्ति । आमयः श्वित्रं त्वचं हन्ति, अथ च यस्य त्वक् तस्यैव कुष्ठी पुमान् अयम् इति निन्दाम् उत्पादयतीत्य् अर्थः ॥१५॥
———————————————————————————————————————
॥ ३.१६.१६ ॥
ऋषय ऊचुः—
न वयं भगवन् विद्मस् तव देव चिकीर्षितम् ।
कृतो मेऽनुग्रहश् चेति यद् अध्यक्षः प्रभाषसे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अध्यक्षः सर्वेश्वरः सन् “तद् धीत्य् आत्म-कृतं मन्ये” इत्य् उक्त्या मयापराधः कृत इति । “तथा तद्-अनुग्रहो मे” इत्य्-आदि-वचनेन ममानुग्रहश् चेति यत् प्रभाषसे, तेन तव यच् चिकीर्षितं तन् न विद्मः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न वयम् इति । अयम् अर्थः—अनयोर् वैकुण्ठ-सेवकयोर् ब्राह्मणावज्ञा न सम्भवति । अस्माकं च ब्रह्म-निष्ठानां सामान्यत एव क्रोधो न सम्भवति, विशेषतो भगवद्-भक्त्यात्रागतानां पार्षदेष्व् इति तवैव चिकीर्षितं न विद्मः, येन तत्-तद्-अघटनीयं घटितम् । तत्र हेतुः—अध्यक्षोऽन्तर् बहिर् अपि सर्वेश्वरत्वेन सर्वम् अन्यथा कर्तुं समर्थः । यदि वास्माकम् एव दोषः स्यात्, तव चिकीर्षितं न स्यात्, तदाध्यक्षेण त्वया पूर्वम् एवैतयोर् अस्माकं चान्तः-करणं, ततस् तत औद्धत्यान् नियमितं स्याद् इति । स्वयं च निजाभीष्ट-सिद्धिर् एवाभिप्रेत्येत्य् आह—यद् यस्मात् मे मह्यम् अनुग्रहश् च कृत इति प्रभाषसे ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं ज्ञात-तत्त्वा अपि तद्-अभिप्रायं तन्-मुखाद् एव श्रोतुं पुनः प्रश्न-गर्भम् आहुः—न वयम् इति । चिकीर्षितम् अनुग्रहं निग्रहं वेत्य् अर्थः । यद् यस्माद् अध्यक्षः सर्वेश्वरः सन्न् अस्मान् प्रत्य् अपि कृतो मेऽनुग्रहो युष्माभिर् इति भाषसे, तद् असम्न्भाव्यत्वाद् अस्मान् निजिघृक्षुर् एव प्रथमम् उपहससि । किं वा, ब्रह्मण्यत्वात् स्व-कृत-धर्म-प्रवर्तनार्थम् अस्मान् अनुइजिघृक्षुर् एव वास्तवम् एव स्तौषीति त्वच्-चिकीर्षितं ज्ञातुम् असमर्थान् अज्ञान् अस्मान् स्वाभिप्रायं ज्ञापयेति ध्वनिः ॥१६॥
———————————————————————————————————————
॥ ३.१६.१७ ॥
ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।
विप्राणां देव-देवानां भगवान् आत्म-दैवतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किलेति लोक-शिक्षार्थं सूचितं परमार्थम् आहुः—विप्राणाम् इति । देव-देवानां देव-पूज्यानाम् अपि भगवांस् त्वम् आत्मा च दैवतं च ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यच् चोक्तं यस्यामृतेत्य् आदिना ततृअहुः—ब्रह्मण्यस्येति । किल-शब्दो ह्य् अनृते । तच् चान्यथा-ख्यापनम् । तच् चेह लोक-शिक्षार्थम् एवेति तथा तैर् व्याख्यातम् । तत्र च ब्राह्मणस्येति यद्यपि सौशील्येनैव तव तादृश-गुणत्वं, तथापि लोक-शिक्षार्थम् अपि कल्पत इति भावः । अत एव ब्रह्मण्यत्वेनैवस्माकं दैवतत्वं साध्यते, तव तु दैवतत्वं स्वरूपेणैवेति विवक्षितम् ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-मुख-वाक्यानां दुर्ज्ञेयत्वं प्रपञ्चयन्त आहुः—ब्रह्मण्यस्य तव ब्रह्मण्यत्वेनैव दैवतम् इति तवैव दैवतत्वं वास्तवं, न तु ब्राह्मणानां, श्लेषेणात्मा दैवतं चेति त्वां विना ते मृतका एव तद् अपि त्वं यत् सेवया चरण-पद्म-पवित्र-रेणुं [भा।पु। ३.१६.७] इत्य्-आदि यत् ब्रूषे तत् किं स्विद् इति भावः ॥१७॥
———————————————————————————————————————
॥ ३.१६.१८ ॥
त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : धर्मस्यापि दुर्ज्ञेयः ॥१८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोक-शिक्षार्थता-प्रपञ्चः—त्वत्त इत्य् अष्टभिः । धर्मस् त्वत्त एव भवति, रक्ष्यते च त्वद्-अवतारैः । परमः फल-रूपोऽत एव गुह्यो [होप्यः]{।मर्क्} । न च स्वर्गादि-फलवद् विकारी भवान्, किन्तु निर्विकारो मतः । अत एवं-भूतस्य तवेदं लोक-शिक्षा-मात्रम् इति भावः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चानुष्ठीयमानेन धर्मेणैव लोका पूज्या भवन्ति । स धर्मस् तद्-भक्ति-लक्षण एव, न वर्णाश्रम-निष्ठः । तं च धर्मं तद्-भक्ता एव प्रवर्तयन्तीति त्वद्-भक्ता ब्राह्मणेभ्योऽपि श्रेष्ठाः इत्य् आहुः—त्वत्तः प्रादुर्भूतो भक्ति-लक्षणः सनातनो धर्मः, दृष्टिः सतां दर्शनेऽस्तभवत्-तनूनाम् इति दृष्ट्या, तव तनुभिर् भक्तै रक्ष्यते सर्वत्र प्रवर्तनाद् इत्य् अर्थः । तस्य च धर्मस्य परमः फल-रूपः, न च स्वर्गादि-फलवद् विकारी, किन्तु निर्विकारो भवान् एव मतः । त्वत्-प्राप्तिर् एव त्वद्-भक्तेः फलम् इत्य् अर्थः । तत्र सनातन-निर्विकार-पदाभ्याम् अन्यो धर्मो न व्याख्यातः ॥१८॥
———————————————————————————————————————
॥ ३.१६.१९ ॥
तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् ।
योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विपरीतं चेदम् इत्य् आहुः—तरन्तीति । यस्यानुग्रहाद् एव निवृत्ता विरक्ता योगिनश् च सन्तो मृयुं तरन्ति स भवान् परैर् अनुगृह्येतेति किं स्वित् । न किञ्चिद् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तरन्तीति । यद् अनुगृह्येत तत् किं स्वित् तत् तु तर्कातीतम् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेष्व् अपि ब्राह्मणेषु मध्ये प्रवृत्ति-निष्ठेभ्यो निवृत्ताः श्रेष्ठाः । तेभ्योऽपि योगिनः, तेऽपि यद्-अनुग्रहान् मृत्युं तरन्ति, स भवान् यत्-परैर् अन्यैर् अनुगृह्येत, तत् किं स्विद् इति प्रश्नो विस्मयाधिक्येन ॥१९॥
———————————————————————————————————————
॥ ३.१६.२० ॥
यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर्
अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः ।
धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो
लोकं मधुव्रत-पतेर् इव काम-याना ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मधुव्रत-पतेः सार-ग्राहिणां पतेः । अङ्घ्रि-स्थ-तुलसी-लोकं स्थानम् उरसि-स्थापि स्पर्धयेव कामयाना लब्धापि वक्षसि पदम् इति च ॥२०॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् चोक्तं यत्-सेवया चरण-पद्म-पवित्र-रेणुं सद्यः क्षताखिलम् अलं प्रतिलब्ध-शीलं [भा।पु। ३.१६.७] इत्य्-आदि, तद् अत्यन्तम् असंभावितम् इत्य् आहुर् द्वाभ्याम् । यं वै विभूतिर् लक्ष्मीर् अनुवेलम् अवसरेऽवसरे उपयाति सेवते । धृतः पाद-रेणुर् यस्याः । धन्यैः सुकृतिभिर् अर्पितम् अङ्घ्र्यौ यत् तुलस्या नवं दाम माला तद् धाम स्थानं यस्य तस्य । मधु-व्रत-पतेर् भ्रमर-मुख्यस्य लोकं स्थानम् अङ्घ्रिं कामयमानेव ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यम् इति । अत्र च पूर्ववज् जगद्-अधिकारिण्य् एव लक्ष्मीः, न तु साक्षात् प्रेयसी वैकुण्ठ-लक्ष्मीः । अस्याः परम-भागवत-शिरोमणित्वात् उपयाति आराधयति । लोकं विषयं वैकुण्ठ-कीट-विशेषस्यापि विष्यं कामयमानेति तस्या वैकुण्ठ-लक्ष्मीतोऽति-न्यूनत्वं दर्शितम् । इवेति स्व-विषये जगति वैराग्याभावोऽपि दर्शितः ॥२०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् चोक्तं
यत्-सेवया चरण-पद्म-पवित्र-रेणुं > सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् । > न श्रीर् विरक्तम् अपि मां विजहाति [भा।पु। ३.१६.७]
इति तद् अप्य् असंभावत्व्ऽआद् इति दुर्ज्ञेयम् इत्य् आहुर् द्वाभ्याम् । यं त्वां विभूतिः सम्पत्ति-रूपा लक्ष्मीर् अनुवेलम् अवसरेऽवसरे उपयाति सेवते, धृतः पाद-रेणुर् यस्याः सा । धन्यैः भक्तैर् अर्पितम् अङ्घ्र्यौ यत् तुलस्या नव-दाम, तत्रैव धाम ऐश्वर्यं यस्य तस्य मधु-व्रत-पतेर् भ्रमर-मुख्यस्य लोकम् अङ्घ्रिं कामयमानेव त्वत्-कान्तापि त्वद्-भक्तैर् एवेत्य् अर्थः ॥२०॥
———————————————————————————————————————
॥ ३.१६.२१ ॥
यस् तां विविक्त-चरितैर् अनुवर्तमानाम्
नात्याद्रियत् परम-भागवत-प्रसङ्गः ।
स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः
श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : परम-भागवतत्वेन तस्याम् अत्याद, न तु कामात् ।
हरि-भक्तिर् हरेः प्रीतिर् ज्ञानानन्दादयो गुणाः । > अधिकारे च मुक्तौ च ब्रह्म-वाय्वाश् च तत्-स्त्रियोः । > शेषवीन्द्रहराणां च तत्-स्त्रीणां वासवादिनाम् । > यथा-क्रमं तु विज्ञेआ भूमौ कारणतोऽन्यथा ॥ > देहस्य लक्षणं चैव भूमाव् अप्य् अन्यथा भवेत् । > ब्रह्मादिषु क्रमेणैव नित्यं स्याद् देह-लक्षणम् ॥ > श्रियोऽधिका गुणाः सर्वे सर्वेभ्यो नियमेन तु । > उक्ताश् चैवाप्य् अनुक्ताश् च ततो विष्णोर् न संशयः ॥ इति > तत्त्व-निर्णये ॥२१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : विविक्त-चरितैर् विशुद्धैः परिचरणैर् अनुवर्तमानां सेवमानाम् अपि यो नात्याद्रियत् नातीवादृतवान्, स एवं-भूतस् त्वम् । अयं भावः—इत्थं नामातिलम्पटतया लक्ष्मीस् त्वां सेवते । कथम् ? एवं हि सा मेने । अयं हि सार-ग्राही मधु-व्रतश् चञ्चलश् च स चाङ्घ्रि-गतायां तुलस्यां स-परिवारो निश्चलः सन् रमते अतोऽङ्घ्रि-लावण्यम् अत्य्-अधिकं स्यात् ततोऽहं वक्षसि स्थितापि योगि-जनादि-बहु-सेवक-सङ्घर्षम् अङ्गी-कृत्यापि तुलस्या सह सापत्न्येनापि चरणौ सेविष्यामीति तद् एवम् अत्य्-औत्सुक्येनानुवर्तमानाम् अपि तां त्वं नातीवाद्रियसे । यतः परम-भागवतेष्व् एव प्रकृष्ट-सङ्गवान् । स एवं परम-सौभाग्य-निधिस् त्वम् । अतो ब्राह्मण-प्रसादान् मां श्रीर् न विजहातीत्य् अलभ्य-लाभत्वेन निर्देशो न समञ्जस इति । किं च स्वत एव त्वं भग-भाजनो भजनीयानां गुणानाम् आश्रयः परम-शुद्धश् च तं त्वां द्विजानाम् अनुपथं पथि पथि लग्नं यत् पुण्यं रजस् तथा श्रीवत्स-लक्ष्म च किं पुनीतः पवित्री-कुरुतः ? किं किम्-अर्थं च ते उभे अगाः प्राप्तो भूषणत्वेन स्वी-कृतवान् असि । अतो यत्-सेवया चरण-पद्म-पवित्र-रेणुं [भा।पु। ३.१६.७] इत्य्-आदि-वचनं लोक-सङ्ग्रह-मात्रम् इत्य् अर्थः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः पूत-चरितैः परिचरन्तीम् अपि नात्याद्रियत् तल्-लोकस्यादानात् जगति मुहुः स्थापनाच् च । परमो निष्कामः । अत्र टीकायाम् एकम् एव किं-पदम् उभयथोभयत्र योजितं स्यात्, चैकस्यापि ब्रह्म-शब्दवद् इति न्यायेन ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विविक्त-चरितैर् विशुद्धैः परिचरणैर् नात्याद्रियत् नातीवादृतवान् । अत्रातिशब्देन पत्नीत्वेनैव नाद्रियत भक्तत्वांशेन त्व् आद्रियतैव, यतः परम-भागवतेष्व् एव प्रकृष्टः सङ्ग आसक्तिर् यस्य सः । स त्वं लक्ष्म्या सदैवापेक्षमाणोऽपि तस्यां निरपेक्षोऽपि ब्राह्मण-प्रसादाद् एव मां श्रीर् न जहातीति यद् ब्रूषे तत् किं स्विद् इति भावः । तथा द्विजानाम् अनुपथं पथि पथि लग्नं यत् पुण्यं रजस् तथा श्रीवत्स-लक्ष्म च किम् अगाः प्राप्तवान् असि किं तत एव हेतोस् त्वं भग-भाजनः षड्-ऐश्वर्यवान् अभूः, तथा पुनीतः ते एव पुण्य-रजः-श्रीवत्स-लक्ष्मणी त्वां पवित्री-कुरुत एतत् सर्वं दुर्ज्ञेयं किं स्विद् इत्य् अर्थः ॥२१॥
———————————————————————————————————————
॥ ३.१६.२२ ॥
धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः
पद्भिश् चराचरम् इदं द्विज-देवतार्थम् ।
नूनं भृतं तद्-अभिघाति रजस् तमश् च
सत्त्वेन नो वरदया तनुवा निरस्य ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : धारणाद् भगवान् धर्मो यमनाद् यम उच्यते । इति शब्द-निर्णये ।
अनन्तासन-वैकुण्ठ-क्षीर-सागरगैस् त्रिभिः । > रक्षां करोति भगवान् कपिलः सत्त्व-वर्धनात् ॥ > असत्त्वोऽपि रजश् चैव तमश् चापि निरस्य तु ॥ इति मुक्ति-भेदे ।
कपिलो वरदश् चैव विकलश् चेति कथ्यते इति च । अतः सत्त्वस्य कारणत्व-मात्रं कपिलो वरदा तनुः ॥२२॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्म-मूर्तेश् च तवेदम् उचितम् एवेत्य् आहुः—धर्मस्येति त्रिभिः । त्रिष्व् एव युगेष्व् आविर्भवतीति त्रि-युगः । यद् वा, त्रीणि युगानि युगलानि त्रि-युगाः षड्-गुणा भग-शब्द-वाच्याः सन्त्य् अस्येति त्रि-युगः । हे त्रि-युग ! धर्म-रूपस्य तव त्रिभिः पद्भिः स्वैर् असाधारणैस् तपः-शौच-दयाभिः । सत्यस्य धर्म-विप्लवेऽपि कलाव् अनुवर्तमानत्वात् त्रिभिर् इत्य् उक्तम् । भृतं पालितम् । किं कृत्वा ? नोऽस्माकं वरदया सत्त्वेन तनुवा तन्वा सत्त्व-मूर्त्या तद् अभिघाति, येषां पादानाम् अभिघातकं रजश् च तमश् च निरस्य निराकृत्य । द्विजानां देवतानां च प्रयोजनाय नूनं भृतम् । यद् वा, हि-लोपे रूपं निरस्येति । अस्माकं तन् निवर्तयेत्य् अर्थः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ निर्वेदाद् भारतवर्ष-स्थितिः तत्-तद्-युग-स्वभावाविष्ट-साधारण-विप्रवन्-मान्यतया स-दैन्यम् आहुः—धर्मस्येति त्रिभिः । पद्भिर् इति एक-शेषो द्वन्द्वः । एकैक-पादस्य त्रिभिस् त्रिभिर् अंशैर् इत्य् अर्थः । त्रि-युगत्वात् कलौ तद्-आविर्भावाभावेन चतुर्थ-चतुर्थांश-मात्रस्य स्थितत्वात् । ततश् च तेषां कालेन क्रमशो नश्यताम् अपि तद्-आविर्भावेनैव च मुहुः पूरणात् त्रिभिर् इत्य् उक्तम् । अतोऽभीष्ट-प्रदयानया तन्वा आकृत्या सत्त्वेन सह तत्-पद-त्रयात्मकं रजस् तमश् च नोऽस्मकं निराकुरु । यैः पार्षदानां निग्रहानुग्रहादौ प्रवर्तिताः स्मः, तान् गुणान् निज-तनु-तेजसा स्वयम् अपुनर् उद्भवान् कुर्व् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, विप्रा वयम् इतः पूर्वं त्वत्तः पराभवं नैव प्राप्ता इत्य् आहुः—धर्मस्येति । त्रिष्व् एव युगेष्व् आविर्भवसीति हे त्रि-युग ! यद् वा, त्रीणि युगानि षड्-गुणा भगवच्-छब्द-वाच्याः सन्त्य् अस्येति त्रि-युगः । त्रिभिस् तपः-शौच-दयादिभिः स्वैर् असाधारणैः पद्भिः इदं विश्वं भृतं पालितम् । सत्यस्य धर्म-विप्लवेऽपि कलाव् अनुवर्तमानत्वात् त्रिभिर् इत्य् उक्तम् । द्विज-देवतार्थं द्विजानां देवतानां च प्रयोजनायैव नूनं भृतम् । किं कृत्वा ? नोऽस्माकं वर-दायिन्या तनुवा तन्वा तद् अभिघाति, तेषां पादानाम् अभिघातकं रजस् तमश् च सत्त्वेन सत्त्व-गुणेन निरस्य निराकृत्य ॥२२॥
———————————————————————————————————————
॥ ३.१६.२३ ॥
न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपम्
गोप्ता वृषः स्वर्हणेन स-सूनृतेन ।
तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था
लोकोऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मैव गोपो यस्य तद्-आत्म-गोपम् ॥२३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-गोपं त्वयैव रक्षणीयं द्विजोत्तमानां कुलम् । यदि ह स्फुटं त्वं न गोप्ता न रक्षिता । तृन्-प्रत्ययान्तत्वान् न षष्ठी-प्रयोगः । वृषः श्रेष्ठः । हे देव ! पन्था वेद-मार्गो नङ्क्ष्यति नाशं यास्यति । ऋषभस्य श्रेष्ठस्य । हि यस्मात् तद् अनर्हणम् असूनृतं चाग्रहीष्यत् । तद् उक्तं गीतासु—
यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । > स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ [गीता ३.२१] इति > ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-प्रमाणं मत्वेति योज्यम् ॥२३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मा अधुनाप्य् अस्मासु तवानुग्रह एवायम्, न तु निग्रह इति निश्चित्य समाश्वसिम इत्य् आहुः । द्विजोत्तमानां कुलम् आत्म-गोपं त्वयैव रक्षणीयं त्वं यदि ह स्पष्टं न गोप्ता नागोपायिष्यत्, वृषो धर्म-रूपः श्रेष्ठो वा, तर्हि हे देव ! पन्थाः वेद-मार्गो नङ्क्ष्यति अनङ्क्ष्यत् । यद् उक्तं गीतासु—
यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । > स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ [गीता ३.२१] इति > ॥२३॥
अतोऽस्मास्व् अघटमानम् अपि यत् सेवयेत्य् आदि तद्-वचो लोक-शिक्षार्थम् एवेत्य् अभिप्रायः ॥२३॥
———————————————————————————————————————
॥ ३.१६.२४ ॥
तत् तेऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः
क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः ।
नैतावता त्र्य्-अधिपतेर् बत विश्व-भर्तुस्
तेजः क्षतं त्व् अवनतस्य स ते विनोदः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
असुरा अप्रियाश् चापि नित्यानन्दान् न लोकवत् ।
निषेध्य-बुद्धि-विषयम् अप्रियं हि हरेर् मतम् ॥ इति च ।
तस्माद् अनभीष्टम् इव ॥२४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : नश्यत्व् इति चेत् तत्राहुः । तद् वेद-मार्ग-नशनम् । इवेति लोकोक्तिः । सत्त्व-निधित्वाज् जनाय क्षेमं शं विधातुम् इच्छोः, अत एव निज-शक्तिभी राजादिभिर् उत्पाटित-धर्म-प्रतिपक्षस्य । अतस् तव ब्रह्म-कुलेऽवनतिर् युक्तैव । ननु महतोऽन्येष्व् अवनतिस् तेजो-हानि-करी ? तत्राहुः—एतावत तु धर्म-त्राण-प्रयोजनेनावनतस्य नमनं कृतवतस् तव तेजः प्रभावो न क्षतं न क्षीणम् । यतः स नमनादिस् ते विनोदः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्त्वस्य निधिः शेवधि-रूपो यस् तस्य । तेजस अक्षतत्वे हेतुः विश्व-भर्तुर् इति, अपरिच्छेद्य-तेजस्त्वाद् इति भावः । तादृशस्यावनमनादौ हेतुः—विनोद इति, सुख-मय इत्य् अर्थः, सत्त्व-निधित्वाद् इति भावः ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु नश्यतु पन्थाः, तत्राहुः । तद् वेद-मार्ग-नशनम्, इवेति लोकोक्तिः । जनायेति क्रियया सम्प्रदानं क्रिया-ग्रहणम् अपि कर्तव्यम् इति षष्ठ्य्-अर्थे चतुर्थी वा । अत एव निज-शक्तिभिर् लोके राजादिभिर् उत्पाटित-धर्म-प्रतिपक्षस्य ।
ननु तद् अपि परमोत्कृष्टस्य निकृष्टेष्व् अवनतिस् तेजो-हानि-करी ? तत्राहुः—नैतावतेति । एतावता तु धर्म-त्राण-प्रयोजनेनावनतस्य नमनं कृतवतस् तव तेजः प्रभावो न क्षतं न क्षीणम्, यतः स नमनादिस् ते विनोदः कौतुक-विशेष एव ॥२४॥
———————————————————————————————————————
॥ ३.१६.२५ ॥
यं वानयोर् दमम् अधीश भवान् विधत्ते
वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो
येऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शापाग्रहं परित्यज्य विज्ञापयन्ति । यं वान्यं दण्डं विधास्यति भवान्, वृत्तिं न्व् अधिक-जीविकां वा, तत् सर्वम् अनुमन्यामहे । ये वयं निरपराधाव् एतौ किल्बिषेण शापेन अयुङ्क्ष्महि योजितवन्तः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र श्री-भगवतः किम् अपि चिकीर्षितम् एव कारणं निश्चित्य आहुः--अस्मास्व् इति ॥२५॥ [प्रीति-सन्दर्भ ९२ द्रष्टव्यः]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वस्तुतस् तु दुरवगाहाभिप्रायं त्वां काय-मनो-वाक्यैर् अवनता वयम् इदं निवेदयाम इत्य् आहुः—यं वा दमं दण्डं ब्रह्मण्यत्वात् तथा भक्त-वत्सलत्वाद् वृत्तिं याम् अधिकां जीविकां वा भवान् विधत्ते, तत् सर्वम् अनुमन्यामहे, स्वच्छन्देनैव प्रभो तां विधेहि । अस्मद्-दत्तोऽभिशापस् तु “रसातलं गच्छतु” इति भावः । पुनश् च सभयाश्रु-कम्पम् आहुः—अस्मास्व् इति । ये वयं निरपराधाव् एतौ किल्बिषेण शापेन अयुङ्क्ष्महि योजितवन्तः ॥२५॥
———————————————————————————————————————
॥ ३.१६.२६ ॥
श्री-भगवान् उवाच—
एतौ सुरेतर-गतिं प्रतिपद्य सद्यः
संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ ।
भूयः सकाशम् उपयास्यत आशु यो वः
शापो मयैव निमितस् तद् अवेत विप्राः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अन्तर् भक्ता बहिः क्रुद्धा हिरण्याद्या हरिं प्रति ।
सर्व-क्रुद्धाः शम्बराद्या अन्तः-क्रोध-वशास् तथा ॥ २६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्-कारितत्वाच् छापस्य युष्माकं नापराध इत्य् आश्वासयन्न् आह—एतौ सद्य एवासुर-योनिं प्राप्य, भूयोऽप्य् आशु मत्-समीपम् आगमिष्यतः । संरम्भेण क्रोधावेशेन संभृतः संवृद्धो यः समाधिर् एकाग्रता, तेन अनुबद्धो दृढी-कृतो योगो ययोः । हे विप्राः ! यो वः शापो युष्मत्-कृतः शापस् तद् इति स मयैव निमितो निर्मित इत्य् अवेत जानीत ॥२६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : शापो मयैव मत्-पार्षदानाम् अन्य-जनस्य पराभवो नास्तीति भावः । इति तेषां स्मयश् चापराधश् च दूरीकृतः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तेषां तयोश् च चित्त-प्रसक्तौ स्व-चिकीर्षितम् एव कारणम् आह—एताव् इति । गतिश् चेष्टा अनुकरणम् इति यावत् । पूर्वं संरम्भेण समाधिः पश्चात् योगो भक्ति-योगो यः स्वाभाविकः, स एव ययोस् तौ । सकाशं समीपं श्री-कृष्ण-सायुज्यं प्राप्य तद्-अन्तर्धानाद् अनन्तरम् इति ज्ञेयम् ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा भैष्टेति ताम् आश्वासयन्न् आह—एताव् इति । संरम्भेण क्रोधावेशेन सम्भृतः संस्पृष्टो यः समाधिर् मदीय-ध्यान-परिपाकः, तेनानुबद्धः प्रतिक्षणाभ्यस्तो योगो मत्-संयोगो याभ्यां तौ । भो विप्राः ! वो युष्माकं शापः स मयैव निमितो निर्मितः, अनयोर् मत्-परम-भक्तयोर् असुर-भाव-सिद्ध्य्-अर्थं युष्मान् वैकुण्ठम् आनीय द्वार-पालाव् इमौ शुद्ध-सत्त्व-स्वरूपाव् अपि ब्राह्मण-मात्र-परम-भक्ताव् अपि युष्मत्-प्रातिकूल्ये प्रवर्त्य, युष्माकम् आत्माराम-चूडामणीनाम् अपि क्रोधम् उपपाद्य शापम् उत्पादितो मयैव । न तु मत्-पार्षदयोर् नापि युष्माकं कोऽप्य् अपराध इति भावः ।
ननु भक्त-वत्सलस्यापि तव भक्ताभ्याम् आभ्याम् ईदृश-दुःख-दाने प्रवृत्तौ किं कारणम् ? तत्राह—तत् कारणं हे विप्राः ! अवेत परामृश्य सर्वज्ञत्वेनैवावगच्छत मया प्रकाशितेन तेनालम् इति भावः । तच् च कारणं जय-विजययोर् एव प्रेम-विजृम्भिता काचिद् इच्छा । सा तु "भो प्रभुवर ! देवाधिदेव ! वैकुण्ठ-नाथ ! अन्यत्राल्प-बलत्वात् । अस्मासु प्रातिकूल्याभावात् यदि तत्र भवतो युयुत्सा-सुखं न सम्पद्यते, तदा आवाम् एव केनापि प्रकारेण प्रतिकूलीकृत्य तद्-युद्ध-सुखम् अनुभूयताम् इत्य् आवयोस् त्वत्-सर्व-सुख-परिपूर्णतायाम् अणु-मात्रम् अपि न्यूनत्वम् असहमानयोः किङ्करयोः प्रार्थना हठः स्व-भक्त-वात्सल्य-गुणम् अपि लघूकृत्य निष्पाद्यताम्" इति मनोऽनुलाप-मयी, रसो वै सः [तै।उ। २.७] इति, आनन्दमयः इति, सैषा आनन्द-मयस्य मीमांसा भवति [तै।उ। २.७] इत्य्-आदि-श्रुति-विवृतेषु भगवतः शृङ्गारादि-सर्व-रस-परिपूर्ति-विवेचन-प्रसङ्ग-भवा ज्ञेया ।
ततश् च, स्वेच्छामयस्य [भा।पु। १०.१४.२], मद्-भक्तानां विनोदाय करोमि विविधाः क्रियाः [प।पु।3] इति तत्-प्रकार-सम्पादने भगवतोऽपीच्छाप्य् अजनीति रहस्यस्य प्रकटानुक्तिः—"अहो महद्-अपराधाद् वैकुण्ठाद् अपि परम-सिद्धानाम् अप्य् अधः-पातो भवेत्, किं पुनर् मर्त्य-लोकात् साधनाभासानाम् अस्माकम्" इति साधक-भक्तान् महद्-अपराधेषु सावधानी-कर्तुं ज्ञेया ॥२६॥
———————————————————————————————————————
॥ ३.१६.२७-२८ ॥
ब्रह्मोवाच—
अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् ।
वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् ॥**
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वरूप-श्रीस् तथा भार्या द्वेधा श्रीस् तु हरेर् मता ॥२८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : नेत्रोत्सव-जनकं विकुण्ठं हरिं, तन्-निवासं च वैकुण्ठं लोकम् । स्वयां-प्रकाशं प्रकाशान्तरानपेक्षम्, सत्त्व-परिणामत्वात् ॥२७॥ अनुमान्य अनुज्ञाप्य । परिक्रम्य प्रदक्षिणी-कृत्य । वैष्णवीं श्रियं वैकुण्ठे वर्णिताम् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति युग्मकम् । स्वयम्-प्रभं स्व-प्रकाशं, भगवद्वत् सच्-चिद्-आनन्द-रूपत्वात् ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विकुण्ठं हरिं तद्-अधिष्ठानं वैकुण्ठं च स्वयां-प्रभं स्व-प्रकाशं शुद्ध-सत्त्व-मयत्वात् । अनुमान्य अनुज्ञाप्य ॥२८॥
———————————————————————————————————————
॥ ३.१६.२९ ॥
भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।
ब्रह्म-तेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मम एव तु मतं संमतम् । इदम् अत्र तत्त्वम्—यद्य् अपि सनकादीनां क्रोधो न संभवति, न च भगवत्-पार्षदयोर् ब्राह्मण-प्रातिकूल्यम्, न च भगवतः स्व-भक्तोपेक्षा, न च वैकुण्ठ-गतानां पुनर् जन्म, तथापि भगवतः सिसृक्षादिवत् कदाचिद् युयुत्सा समजनि, तदाऽन्येषाम् अल्प-बलत्वात् स्व-पार्षदानां तुल्य-बलत्वेऽपि प्रातिपक्ष्यानुपपत्तेः, “एताव् एव ब्राह्मण-निवारणे प्रवर्त्य, तेषु च क्रोधम् उद्दीप्य, तच्-छाप-व्याजेन प्रतिपक्षौ विधाय, युद्ध-कौतुकं सम्पादनीयम्” इति भगवतैव व्यवसितम् । अतः सर्वं सङ्गच्छते । तद् इदम् उक्तं शापो मयैव निर्मित इति, मा भैष्टम् इति, अस्तु शम् इति, हन्तुं नेच्छे मतं तु मे इत्य्-आदि च ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच्-चिकीर्षितत्वम् एव स्पष्टयति—भगवान् इति । मा भैष्टम् अस्तु शम् इत्य् अस्य आसुर-भावोऽपि भवतोर् जीवन्-मुक्तानां देहावेश इव नटानां तत्-तद्-अनुकरणम् इव च तद्-आभास एव स्याद् इति भावः । तथैव हि व्याख्यास्यते तैः सप्तमे विष्णु4-चक्र-हतांहसाव् [७.१.४५] इत्य् अत्र । तयोर् अंह एव हतं, न तु ताव् इति ।
तद् इदं षष्ठ-सन्दर्भे सप्तम-वाक्यावतारिकायां क्वचिच् च लीला-शक्तिर् एवेत्य् आरभ्य, वस्तुतस् तेन तथा उक्तत्वेन कोपादि-हेत्व्-अभावात् इत्य् एवेत्य् अन्तेन विवृतम् अस्ति । तथा हि—
क्वचिच् च लीला-शक्तिर् एव स्वयं तल्-लीला-माधुर्य-पोषाय प्रतिकूलेष्व् अनुकूलेषु चात्मोपकरणेषु तादृश-शक्तिं विन्यस्य तादृश-तत्-प्रिय-जनानाम् अपि विषयावेशाद्य्-आभासं सम्पादयति । यथा पूतना-वर्णने—वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् मनो हरन्तीं वनितां व्रजौकसां [भा।पु। १०.१६.६] इति । तद्-आभासत्व-विवक्षया च मनो हरन्तीं मनो-हरेवाचरन्तीम् इति शिष्टम् उक्तम् । तद्-दत्त-शक्तित्वं च तस्यास् तत्रैव सूचितम्—
न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु । > कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ [भा।पु। > १०.६.३] इत्य् अनेन ।
तथैवेदं घटते—
अमंसताम्भोज-करेण रूपिणीं > गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ [भा।पु। १०.६.६] इति ।
श्रियं प्राकृत-सम्पद्-अधिष्ठात्रीं पतिं यं कञ्चित् तद्-उचित-प्राचीन-पुण्य-भाजम् इत्य् अर्थः। पूर्ववद् एव तां तीक्ष्ण-चित्तां [भा।पु। १०.६.९] इत्य् आदौ तत्-प्रभया च धर्षिते निरीक्षमाणे जननी ह्य् अतिष्ठतां [भा।पु। १०.६.९] इत्य् उक्तम् ।
एवम् एव क्वचित् तादृशानाम् अपि मायाभिभवाभासो मन्तव्यः । यथा प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] इत्य्-आदिषु श्री-बलदेवादीनाम् । यथा च दैत्य-जन्मनि जय-विजययोः । अत्र पूर्वेषां स्वल्प एव तद्-आभासः, तयोस् तु सम्यग् इति विशेषः, तत्-प्रेमादीनाम् अनावरणाद् आवरणाच् च ।
तत्र तयोर् वैर-भाव-प्राप्तौ खलु मुनि-कृतत्वं न स्यात् । मतं तु मे [भा।पु। ३.१६.२९] इत्य् अत्र भगवद्-इच्छायास् तत्-कारणत्वेन स्थाप्तितत्वात् । नापि सा तदीय-वैर-भावाय सम्पद्यते स्वेच्छामयस्य [भा।पु। १०.१४.२] इत्य्-आदिभ्यः । त्रैवर्गिकायास-विघातम् अस्मत्-पतिर् विधत्ते पुरुषस्य शक्र [भा।पु। ६.११.२३] इत्य्-आदिभिः कैमुत्यापाताच् च । अत एवोक्तम्—तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः [भा।पु। १०.२.३३] इति । न च तयोर् एव स्वापराध-भोग-शीघ्र-निस्तारार्थम् अपि तादृशीच्छा जाता इति वाच्यम् । तादृशैः परम-भक्तैर् हि भक्तिं विना सालोक्यादिकम् अपि नाङ्गीक्रियते । तत्-सद्-भावे निरयोऽप्य् अङ्गीक्रियत इति, नात्यन्तिकं विगणयन्त्य् अपि [भा।पु। ३.१५.४८] इत्य्-आदेः, कामं भवः स्व-वृजिनैर् निरयेषु नस् तात् [भा।पु। ३.१५.४९] इत्य् आदेश् च ।
अत एवाभ्याम् अपि तथैव प्रार्थितम्—
मा वोऽनुताप-कलया भगवत्-स्मृति-घ्नो > मोहो भवेद् इह तु नौ व्रजतोर् अधोऽधः [भा।पु। ३.१५.३६] इत्य् > अनेन ।
न च तयोर् वास्तव-वैर-भावे सति भक्तान्तराणाम् अपि सुखं स्याद् इति वाच्यम् । भक्ति-स्वभाव-भक्त-सौहृद-विरोधाद् एव । तस्मात् तयोर् वैर-भावाभासत्व एव श्री-भगवतस् तयोर् अन्येषां भक्तानाम् अपि रसोदयः स्याद् इति स्थितम् । तत एवम् अर्थापत्ति-लब्धं सर्व-भक्त-सुखद-श्री-भगवद्-अभिमत-युद्ध-कौतुकादि-सम्पादनार्थं वैर-भावात्मक-मायिकोपाधिं स्वाभिकाणिमादि-सिद्धिकेन शुद्ध-सत्त्वात्मकेन स्व-विग्रहेण प्रविश्य स्व-सान्निध्येन चेतनीकृत्य च विलीय स्थिताया अपि भक्ति-वासनायाः प्रभावेन तत्रानाविष्टाव् एव तिष्ठतः । अतो वैर-भाव-ज-स्मरणेन वैर-भावोऽपगत इत्य् उभयम् अपि बाह्यम् । एतद् अभिप्रेत्यैव श्री-वैकुण्ठेनाप्य् उक्तम्—यातं मा भैष्टम् अस्तु शं [भा।पु। ३.१६.२९] इति ।
तथा हि हिरण्याक्ष-युद्धे—परानुषक्तं [भा।पु। ३.१८.९] इत्य्-आदि-पद्ये टीका च— प्रचण्ड-मन्युत्वम् अधिक्षेपादिकं चानुकरण-मात्रं दैत्य-वाक्य-भीतानां देवानां भय-निवृत्तये । वस्तुतस् तेन तथानुक्तत्वेन कोपादि-हेत्व्-अभावाद् इत्य् एषा ।5
ब्रह्म-तेज इति । यावत् ब्राह्मणत्वोपहित-भक्तीनां सान्निध्यम् आसीत्, तावद् ब्रह्मण्यता-गुण एव प्रबल आसीत् । अधुना शुद्ध-भक्त-गुण-सान्निध्ये तु शुद्ध-भक्त-वात्सल्यम् एव। भक्ति-विशेषं प्राप्यैव तद्-गुण-विशेष-प्रकाशाद् इति भावः ।
एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा > पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ [भा।पु। ३.१६.३०]
एतद् इति पद्यं विगीतम् अपि सर्वत्र6 दृश्यते गुर्जर-देशे तु टीका चास्ति ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदैवोपस्थिताव् अनुगौ जय-विजयौ दृष्ट्वाह—यातम् इतो मर्त्य-लोकं गच्छतम् । तदैव विरह-व्याकुलौ फूत्कृत्य रुदन्तौ वीक्ष्य पुनः कृपार्द्र-चित्त-नवनीत आह—मा भैष्टं शं कल्याणं युवयोर् अस्तु । इतो मा यातं, अत्रैव वैकुण्ठे मां सेवमानौ सदा तिष्ठतम् इति मा-पदम् उभयत्रान्वितम् । पुनर् आनन्दितौ तौ वीक्ष्याह—ब्रह्म-शापं हन्तुं समर्थोऽप्य् अहं, मे तु मम तु मतं नेच्छामि । ब्रह्म-शापस्यामोघत्व-मर्यादाया मयैव कृतत्वात्, अतो वज्रस्यामोघत्व-रक्षणार्थं गरुडो यथा पक्षांशम् एकं ददौ, तथैवैकांशेन एकैक-प्रकाशेन असुर-भावं गच्छतं वैकुण्ठेऽपि स्व-स्वरूपेण तिष्ठतम् इत्य् अतो वामन-चरिते—
तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप । > प्रहस्यानुचरा विष्णोः प्रत्यषेधन्न् उदायुधाः ॥ > नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः । > कुमुदः कुमुदाक्षश् च विष्वक्सेनः पतत्त्रि-राट् ॥ [भा।पु। > ८.२१.१५-१६]
इत्य्-आदिईनां युध्यमानानां भगवत्-पार्षदानां मध्ये जय-विजययोर् अप्य् उल्लेखं श्रूयते। तदा च तयोर् हिरण्याक्षत्व-हिरण्यकशिपुत्वानन्तरं पार्षदत्वासुरत्वान्यथानुपपत्तेर् एवम् अवश्यम् एव व्याख्येयम् ॥२९॥
———————————————————————————————————————
॥ ३.१६.३० ॥
एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।
पुरापवारिता द्वारि विशन्ती मय्य् उपारते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा मयि उपारते योग-निद्रां गतवति सति द्वारि विशन्ती युवाभ्यां पुराऽपवारिता तदा क्रुद्धया रमया एतद् यद् ब्राह्मणैर् इदानीम् उक्तं, तत् पुरैव निर्दिष्टम् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रैतत् पुरेति पद्यं सर्वत्र दृष्टम् अप्य् असाम्प्रदायिकत्वान् न व्याख्यातम् ॥३०॥
———————————————————————————————————————
॥ ३.१६.३१ ॥
मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अन्तर् भक्ता बहिर् वैरा हिरण्याद्या हरेर् मताः ।
तत्र भक्त्याभवन् पूता द्वेष आवेशकान् गताः ॥ > ब्रह्मजा असुरा ये तु विष्णोः पार्षदतां गताः । > कल्याद्याश् च हरेर् द्वेषम् अन्तः कृत्वा तमो गताः ॥ इति च ।
तस्मात् संरम्भोऽल्प-फलः कथ्यत एव । भक्ति-योग एव ब्रह्म-हेलन-निस्तारकः ॥३१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्येष्यतं प्रत्येष्यथः । निकाशं समीपम् ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-अपराधाभास-दुःख-फल-भोगाभासानुवादेन मर्यादां रक्षन्न् आह—मयीति । संरम्भस्य योगेन प्रतिफलेनाभासेनेत्य् अर्थः ॥३१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चैकांशेनासुर-भावेऽपि चिन्ता कार्या, यतोऽहम् अप्य् अवतार-त्रयेण युवाभ्यां सह वीर-रस-मयं युद्ध-सुखम् अनुभविष्यामीत्य् असुर-भावेऽपि मत्-सेवैव भवद्भ्यां सम्पादयिष्यते । तृतीयेन तु जन्मनि साक्षाद् एव वां स्वीकरिष्ये इत्य् आह—मयीति संरम्भेण क्रोधावेशेन योगः युद्धेषु मयि यः संयोगो ध्यानं वा तेन प्रत्येष्यतं प्रत्येष्यथः । निकाशं समीपम् ॥३१॥
———————————————————————————————————————
॥ ३.१६.३२ ॥
द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् ।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् ॥**
न कतमेनापि व्याख्यातम्।
———————————————————————————————————————
॥ ३.१६.३३ ॥
तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः ।
हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुस्तराद् ब्रह्म-शापात् हरि-लोकतः पतन्ताव् इति शेषः । हरि-लोकत एव हत-श्रियाव् अभूताम् इति वा । विगत-स्मयौ नष्ट-गर्वौ च ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : दुस्तरात् त्यक्तुम् अशक्याद् धेतोर् हत-श्रियौ दुःखेन म्लानौ स्मित-रहितौ चाभूताम् । ब्रह्म-शापं लक्ष्यीकृत्य भगवद्-इच्छयैवेत्य् अर्थः ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरि-लोकतः पतन्ताव् इति शेषः । विगत-स्मयौ नष्टानन्दौ ॥३३॥
———————————————————————————————————————
॥ ३.१६.३४ ॥
तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः ।
हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विकुण्ठस्य धिषणात् स्थानात् । पुत्रका हे देवाः ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विकुण्ठस्य धिषणात् स्थानात् विमानाग्र्येषु सत्यादि-लोक-स्थ-विमान-श्रेष्ठेषु । पुत्रका हे देवाः ॥३४॥
———————————————————————————————————————
॥ ३.१६.३५ ॥
ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः ।
दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : काश्यपं तेजो वीर्यं प्रप्तौ ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ताव् एवेति । तौ पार्षद-रूपाव् एव सन्तौ अणिमाख्य-सिद्ध्या प्राप्तौ प्रविष्टौ ॥३५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काश्यपं तेजः कश्यपस्य वीर्यं प्रप्तौ स्व-देहत्वेनाङ्गीकृतवन्ताव् इत्य् अर्थः ॥३५॥
———————————————————————————————————————
॥ ३.१६.३६ ॥
तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः ।
आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सहैव गर्भे प्रविष्टौ यमौ तयोस् तेजसा वस् तेज आक्षिप्तं तिरस्-कृतम् । न चात्र प्रतिविधिः शक्यः । यत एतर्हि इदानीं भगवान् एव तद् एवं विधातुम् इच्छति ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यमयोः शेषेणान्तक-तुल्ययोः । तर्हि किम् अप्य् उपशमनं कुर्व् इति चेत्, तत्र के वयं वराकाः ? शाप-भ्रष्टयोर् अपि भगवत्-पार्षदयोर् उपरि नास्माकं प्रभुतेत्य् आह—तत् खलूपशमनं स एव भगवान् विधातुम् इच्छति ॥३६॥
———————————————————————————————————————
॥ ३.१६.३७ ॥
विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो
योगेश्वरैर् अपि दुरत्यय-योगमायः ।
क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस्
तत्रास्मदीय-विमृशेन कियान् इहार्थः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि कोऽप्य् उपायो विचार्यताम् इति चेत्, तत्राह—विश्वस्येति । त्रयाणां गुणानाम् ईशः स एव सत्त्वोत्कर्ष-काले नः क्षेमं विधास्यति । विमृशेन विमर्शनेन ॥३७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहरति—विश्वस्येत्य्-आदि ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तयोर् [३६] इत्य् अस्य टीकायां तद् एव विधातुम् इति तद् इत्य् अस्यैवार्थः । नोऽस्माकं भक्तानां तु सर्वदा क्षेमम् एव करिष्यति ॥३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु वयं सम्प्रति म्रियामहे, स कदा उपशमं विधास्यतीति चेत् तत्र भवन्तो म्रियन्तां जीवन्तु वा तस्यैवेच्छा कारणं, किन्तु सम्प्रति पालन-समये स पालयिष्यत्य् एवेत्य् आह—विश्वस्येति । तत्र प्रकारस् तु वयं नैव जानीम इत्य् आह—योगेश्वरैर् इति । तत्र सर्वज्ञानाम् अपि न ज्ञानम् इति भावः । ननु, तद् अप्य् अत्र विपत्ताव् अस्मद्-आश्वासनार्थं किम् अपि परामृशेति तत्राह—तत्र अस्मदीयेन विमृशेन विमर्शेन कियान् अर्थ इति अस्मद्-विमृश्यम् अन्यथापि स कुर्याद् इति भावः ॥३७॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
तृतीये षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे जय-विजय-भ्रंशो नाम षोडशोऽध्यायः ॥
॥ ३.१६ ॥
-
कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुस्åत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ ↩︎
-
कुपित इति क्वचित् पाठः। ↩︎
-
परमात्म-सन्दर्भे धृतः। पुराणे तु न प्राप्तः। ↩︎
-
कृष्ण- ↩︎
-
थे प्रीति-सन्दर्भ (७) सेच्तिओन् एन्द्स् हेरे। ↩︎
-
टीकासु भावार्थ-दीपिकायां अपि (इति पुरि-दासः)। ↩︎