१५ वैकुण्ठ-धाम

विषयः

वैकुण्ठ-धाम-वर्णनम्, तत्र गतानां सनकादीनां जय-विजयाव् उद्दिश्य शाप-दानं भगवतो दर्शनं च ।

॥ ३.१५.१ ॥

मैत्रेय उवाच—

प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः ।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

हत-प्रभैः सुरैः पृष्टः प्राह पञ्चदशे विधिः ।

तद्-बीजं विप्र-शापादि वैकुण्ठे विष्णु-भृत्ययोः ॥

तद् एवं देवानां ब्रह्मणश् च संवाद-प्रस्तावम् उक्त्वेदानीं तं संवादं वक्तुम् आह—प्राजापत्यं काश्यपं तेजो वीर्यं परेषां तेजो हन्तीति तथा आर्षः । स्व-पुत्राभ्यां करिष्यते यत् सुराणाम् अर्दनं पीडनं तस्माच् छङ्कमाना ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शङ्कमानेति, गर्भे प्रसूते नूनम् असुरार्दनो हनिष्यतीति । टीकायाम् आर्ष इति तेजोघ्नम् इति वक्तव्ये तेजो-हनम् इति प्रयोग आर्षः । अमनुष्य-कर्तृक चेति टकि तेजो-घ्नम् इत्य् एव स्यात् ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सुरैः पृष्टो विधिस् तत्त्वं वक्तुं दिति-तनूजयोः ।

शापं पञ्चदशे विष्णु-पार्षदोर् विप्रतोऽभ्यधात् ॥

ततो दितेर् गर्भस्य का वार्तेत्य् अपेक्षायाम् आह—प्राजापत्यं प्रजापतेः कश्यपस्य सम्बन्धि। परेषां तेजो हन्तीति तथा तत् पचाद्य् अच् । सुराणाम् अर्दनं पीडनं तस्मात् शङ्कमाना । असुरार्दनाद् विष्णोर् इति वा तद्-धस्ततो मृत्यु-श्रवणात् ॥१॥

———————————————————————————————————————

॥ ३.१५.२ ॥

लोके तेनाहतालोके लोक-पाला हतौजसः ।
न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन गर्भ-तेजसा हतालोके निरस्त-सूर्यादि-प्रकाशे । हतौजसो हत-प्रभावाः । ध्वान्तेन व्यतिकरं सङ्करम् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ध्वान्तेन व्यतिकरम् आसङ्गम् ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन गर्भ-तेजसा हतालोके आहतालोके इति च पाठः । व्यतिकरं व्याप्तिम् ॥२॥

———————————————————————————————————————

॥ ३.१५.३ ॥

देवा ऊचुः—

तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् ।
न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वेत्थ जानासि किं विचारयसि । यद्य् अतो वयं संविग्ना भीताः । अव्यक्तम् अज्ञातम् । न स्पृष्टं वर्त्म ज्ञान-प्रचारो यस्य ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र देवा ऊचुर् इति क्वचित् । तम एतद् इत्य्-आदिना परमेश्वराभेदेन ब्रह्माणं स्तुवन्ति ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेत्थ जानास्य् एव, यतो भगवतः सर्वज्ञस्य तव कालेन अलुप्त-ज्ञान-मार्गस्य॥३॥

———————————————————————————————————————

॥ ३.१५.४ ॥

देव-देव जगद्-धातर् लोकनाथ-शिखामणे ।
परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्माणं परमेश्वरत्वेन स्तुवन्तः प्रार्थयन्ते—देव-देवेति सप्तभिः । लोक-नाथानां शिखामणेभाव-विद् अभिप्रायज्ञोऽसि । केनाभिप्रायेण दितेर् गर्भो वर्धत इति जानासीत्य् अर्थः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : लोक-पाल इति पुण्यारण्यः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकनाथानाम् इन्द्रादीनां शिखामणे ॥४॥

———————————————————————————————————————

॥ ३.१५.५ ॥

नमो विज्ञान-वीर्याय माययेदम् उपेयुषे ।
गृहीत-गुण-भेदाय नमस् तेऽव्यक्त-योनये ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञानं वीर्यं बलं यस्य । इदं ब्रह्म-देहम् उपेयुषे प्राप्तवते । गृहीतो गुण-भेदो रजो-गुणो येन । व्यक्तस्य प्रपञ्चस्य योनये कारणाय । न व्यक्ता केनापि प्रमाणेन विज्ञाता योनिर् यस्येति वा ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नम इत्य्-आदिना परमेश्वराभेदेन स्तुतिः ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं ब्रह्म-देहम् उपेयुषे प्राप्तवते । गुण-भेदो रजः । अव्यक्तः परमेश्वर एव योनिः कारणं यस्य तस्मै ॥५॥

———————————————————————————————————————

॥ ३.१५.६-७ ॥

ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् ।
आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम् ॥**

तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् ।
लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-कामतया प्रतिक्षणं दुःखम् अनुभवन्तो निष्काम-भक्तान् स्तुवन्त आहुर् द्वाभ्याम् । ये त्वा त्वाम् अनन्येन निष्कामेण भावेन भक्त्या ध्यायन्ति । आत्मनो जीवान् भावयतीति तथा । स्वस्मिन् प्रोतानि ग्रथितानि भुवनानि येन । चेतनाचेतन-प्रपञ्च-कारणम् इत्य् अर्थः । तत्र हेतुः—सद्-असद्-आत्मकं कार्य-कारण-रूपं, वस्तुतस् ताभ्यां परम् ॥६॥

जितः श्वासः इन्द्रियाण्य् आत्मा मनश् च यैः । अतः सुपक्व-योगाः । अत एव प्राप्तो युष्मत्-प्रसादो यैस् तेषाम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ये त्वेति युग्मकम् । अनन्य-भक्त्या लब्ध-युष्मत्-प्रसादस् ततः सुनिर्व्यूढ-भक्ति-योगत्वेन स्वत एव श्वासादि-जय इति क्रमः ॥६-७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि अनन्येन परमेश्वराद् अभिन्नेन भावेन ये हिरण्यगर्भोपासकाः । यद् वा, अनन्येन निष्कामेण भावेन भक्त्या भावयन्ति ध्यायन्ति आत्मनो जीवान् भावयति सृजतीति तथा । समष्टित्वाद् आत्मनि स्वस्मिन् प्रोतानि प्रथितानि भुवनानि येन तम् । अतः सन्तोऽसन्तश्आत्मनो देवासुराद्या जीवा यस्मिंस् तम् ॥६-७॥

———————————————————————————————————————

॥ ३.१५.८ ॥

यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः ।
हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ये तु नित्यं कर्म-क्लेशिन इत्य् आहुः—यस्येति । तन्त्या दामन्या आयत्ता अधीनाः । मुख्याय नियन्त्रे प्राण-रूपायेति वा । तथा च श्रुतिः—तस्य वाक्-तन्तिर् नामानि दामानि इत्य्-आदिः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाचा वेद-लक्षणया । तथा च श्रुतिः—तस्य वाक् तन्त्रिर् नामानि दामानीत्य् आदि॥८॥

———————————————————————————————————————

॥ ३.१५.९ ॥

स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् ।
अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तमसा अहो-रात्र-विभागाभावेन लुप्तानि कर्माणि येषाम् । आपन्नान् आपद्-गतान् अस्मान् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमसा अहो-रात्र-विभागाभावेन । आपन्नान् अस्मान् । अदभ्र-दयया अनल्प-कृपया ॥९॥

———————————————————————————————————————

॥ ३.१५.१० ॥

एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् ।
दिशस् तिमिरयन् सर्वा वर्धतेऽग्निर् इवैधसि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आपत्-कारणम् आहुः । एष गर्भः तस्य विशेषणम् । अर्पितं निक्षिप्तं काश्यपम् ओजो वीर्यम् । दिशस् तिमिरयन् तमो-व्याप्ताः कुर्वन् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : गर्भ-निदानम् एव पृच्छामः । गर्भात् तमो जातम् इति तु जानीम एवेत्य् आह—एष इति । एधते इति क्वचित् पाठः ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, विशेष-वार्तां ब्रुतेति तत्राहुः—काश्यपम् ओजो वीर्यम् अर्पितं सत् दितेर् गर्भः ॥१०॥

———————————————————————————————————————

॥ ३.१५.११ ॥

मैत्रेय उवाच—

स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः ।
प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दितेः कुचेष्टितं ज्ञात्वा प्रहस्य देवानां ये शब्दा विज्ञप्ति-वाक्यानि तेषां गोचरो विषय-भूतः प्रत्यभाषत ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वृद्धो बालकान् प्रतीव प्रहस्यशब्द-मात्र-गोचर इति ब्रह्मणः साधारणागोचरत्वं व्यज्य महिमानं दर्शयति ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो, अज्ञा माम् एव स्तुवन्ति—एतद् विपत्ति-त्राणे कोऽहं वराक इति वृद्धो बालान् प्रतीव प्रहस्यशब्दा देवानां विज्ञप्ति-वाक्यानि, तेषां गोचरः विषयः ॥११॥

———————————————————————————————————————

॥ ३.१५.१२ ॥

ब्रह्मोवाच—

मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः ।
चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : युष्मत्-सकाशात् पूर्वं जाताः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद्-विपत्-कारणवतीं प्राचीनाम् अद्भुतां कथां तावत् शृणुतेत्य् आह—मानसा इति ॥१२॥

———————————————————————————————————————

॥ ३.१५.१३ ॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।
ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैकुण्ठाख्यं लोकं ययुः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमलाः शुद्धा भवन्त्य् आत्मानोऽन्तःकरणानि यतस् तस्य ॥१३॥

———————————————————————————————————————

॥ ३.१५.१४ ॥

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः ।
येऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनिमित्तेन विष्ण्व्-अर्पणेन ।

मुक्ताश् चैवाधिकारस्था द्वेषा वैकुण्ठ-लोकगाः । > अमुक्तानां भ्रमः क्वापि न मुक्तानां क्वचिद् भवेत् ॥ इति > भविष्य-पुराणे ।

कृष्णात्मनां मनरज आदधुर् इति च ।

तिरश्चीना स्थावराश् च सर्वे ज्ञानाद् विकुण्ठगाः ।

अमुक्ता मुक्तिम् आयान्ति नियमात् कर्मणः क्षये ॥ इति च ॥१४॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं वर्णयति—वसन्तीत्य् आदि-द्वादशभिः । वैकुण्ठस्य हरेर् इव मूर्तिर् येषां ते । निमित्तं फलं न निमित्तं प्रवर्तकं यस्मिन् । निष्कामेण धर्मेण इत्य् अर्थः । आराधयन् आराधितवन्तः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वैकुण्ठस्येव नित्यानन्द-रूपा मूर्तिर् येषां ते यत्र वसन्ति । तथा न विद्यते निमित्तं कारणं यस्य स श्री-भगवान् एव निमित्तं फलं यत्र, तेन धर्मेण भागवताख्येन ये च हरिम् आराधयन्, ते च यत्र वसन्तीत्य् अन्वयः । हरि-पदान् अतिमात्र-दृष्टैः [भा।पु। ३.१५.२०] इति, यन् न व्रजन्ति [भा।पु। ३.५.२३] इत्य्-आदि वक्ष्यमाणात् ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैकुण्ठ-मूर्तयः भगवत्-सारूप्यवन्तः । अनिमित्तं स्व-प्रयोजनाभाव एव निमित्तं प्रवर्तकं यस्मिंस् तेन निष्कामेण परम-धर्मेण इत्य् अर्थः । आराधयन् पूर्वम् आराधितवन्तः ॥१४॥

———————————————————————————————————————

॥ ३.१५.१५ ॥

यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः ।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्रेति । शब्द-गोचरो वेदान्तैक-वेद्यः । विरजं सत्त्व-मूर्तिं विष्टभ्य धृत्वा। वृषो धर्म-मूर्तिः । स्वानां स्वान् ॥१५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यत्र चाद्यः पुमान् इत्य्-आदि । आद्यः पुरुषः पुरुषोत्तमः सन् श्री-कृष्णः । सतो भावः सत्त्वं, सत्ता-स्वरूपं श्री-विग्रहो नित्य-विग्रहः श्री-कृष्ण इति यावत् । विरजं शुद्धं, शब्द-गोचरः श्रुति-गोचरः, न तु दृश्यः । वृषो धर्म-मयः । स्वानां स्वान् नोऽस्मान् मृडयन् प्रतिपालयन् ।

यद् वा, यत्र पुमान् आस्ते, च-कार आवर्तनीयः, आद्यो भगवान् श्री-कृष्णः पुमान् विष्णुर् वैकुण्ठनाथः । आद्यो भगवान् कीदृशः ? नोऽस्माकं दृग्-गोचरश् च, स्वानाम् इति पृथग् व्याख्येयम्, स्वांशान् स्वान् मृढयन् नोऽस्माकं श्रुति-गोचर इति । च-कारः समुच्चये । एकः श्रुति-गोचरत्वेन, अन्यो दृग्-गोचरत्वेन । दृग्-गोचरत्वम् आक्षेप-लभ्यम्


स वा कीदृशो भगवान् ? उभय-विशेषणम् । किं कृत्वा आस्ते ? सत्त्वम् अवष्टभ्य विरजं शुद्धम् अवष्टभ्य अधः-कृत्य उपरिभूयेत्य् अर्थः । एष पक्ष आद्यं प्रति, अन्यं प्रति विरजं शुद्धं सत्त्वम् अवष्टभ्य आलम्ब्य । एष पक्षः पुमांसं प्रति । वृषो वर्षतीति वृषः कामदः, उभय-विशेषणम् ।

अथवा यत्र पुमान् आस्ते, आद्यो भगवान् श्री-कृष्णः शब्द-गोचर आस्ते, अन्यस्य शब्द-गोचरत्वाद् अन्यस्य दृग्-गोचरत्वम् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्त्वं गुणं सान्निध्येनोपकृत्य वृषः सर्वानन्द-वर्षी ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विरजं सत्त्वं शुद्ध-सत्त्वं विष्टभ्य धृत्वायस्य नाम-रूप-गुण-लीलादिकं सर्वम् एव शुद्ध-सत्त्वम् इत्य् अर्थः । स्वानां स्वान् वृषः साक्षात् परम-धर्म-रूपः ॥१५॥

———————————————————————————————————————

॥ ३.१५.१६ ॥

यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः ।
सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रत्यं वनं विशिनष्टि—यत्रेति चतुर्भिः । सर्वेष्व् अप्य् ऋतुषु शृईः पुष्पादि-संपद्य् एषां तैः ॥१६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु कथं तयोर् एकत्र स्थितौ कश्चित् श्रुति-गोचरः, कश्चिद् अन्यथेत्य् आह—यत्रेत्य्-आदि । यत्र इति औपचारिकम् अधिकरणं, यथाङ्गुल्य्-अग्रे करि-शतम् अङ्गुल्या निर्दिष्टे करि-शतेऽङ्गुलिस्थत्वेनोपचारः, तथा यत्रेति येन निर्दिष्टे नैःश्रेयस-वने यत्रेत्य् उपचारः । नैःश्रेयसं नाम वनं वृन्दावनस्यैव नामान्तरम् इदम् । काम-दुघैः कल्प-द्रुमत्वात् । कैवल्यम् इव मूर्तिमत्, केवलं ब्रह्म स्वार्थिको षण् तत्-स्वरूपम् । वक्ष्यति च—क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः [भा।पु।११.२०.३७] इति । अतस् तत्र वने आद्यः श्री-कृष्णस् तिष्ठति, स तु तत्-तद्-उपासकानाम् एव दृश्यः । ब्रह्मादीनाम् अपि श्रुति-गोचर एवेति तथा पूर्वम् उक्तम् । यत्रेति वैकुण्ठाख्ये धामनि, तत्र उभयं बोद्धव्यम्—यत्रेति परम् एकम्, अन्यन् नैःश्रेयसाख्यं वनं, तत् तु पूर्वोक्ताधिकरण-बलात् ततोऽपि परम् । उभयत्र उभयं रूपम् । पुरे पुरे पुरुषः, वने आद्यः श्री-कृष्णः, पुरुषः खलु ब्रह्मादि-दृश्यः, आद्यः खलु श्रुति-गोचर इत्य् अर्थः । अत उक्तम्—द्रष्टासि मां ततं ब्रह्मन् [भा।पु। ३.९.३१] इत्य्-आदि भौम-लीलायाम् आविर्भूतं वृन्दावने इति ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कैवल्यं शुद्धं भक्ति-सुखं तद् एव मूर्तिमद् इव जातम्, तद्-एक-सम्पन्-मयत्वात् ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कैवल्य-म्ऊर्तिमद् इवेति वनस्पति-समूहस्य नित्य-सिद्धत्वम् एक-रस-निरुद्वेग-परमानन्द-मयत्वम् आत्माराम-विहङ्गम-स्पृहणीयत्वं चोक्तम् ॥१६॥

———————————————————————————————————————

॥ ३.१५.१७ ॥

वैमानिकाः स-ललनाश् चरितानि शश्वद्

गायन्ति यत्र शमल-क्षपणानि भर्तुः ।

अन्तर्-जलेऽनुविकसन्-मधु-माधवीनां

गन्धेन खण्डित-धियोऽप्य् अनिलं क्षिपन्तः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चरितानि चरित्राणि । भर्तुः प्रभोः । अनुविकसन्त्यो मधु मकरन्दस् तद्-युक्ता माधव्यो वासन्त्यो लताः । यद् वा, अनुविकसन् मधवः प्रसरन् मकरन्दा माधव्यो मधु-कालीनाः सु-मनसस् तासां गन्धेन खण्डिता विघ्निता धीर् येषां तेऽपि तद् गन्ध-प्रापकम् अनिलं क्षिपन्तस् तिरस्कुर्वन्तो गायन्ति । अनेन भगवत्-पार्षदानां निरतिशय-विषय-सुखेऽपि भगवद्-भजनानन्दासक्तिर् दर्शिता ॥१७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उभयोः पुर-वनयोर् विशेषणानि दर्शयति—वैमानिका इत्य्-आदि पुर-विशेषणम् । पारावतान्य-भृतेत्य्-आदि नैःश्रेयस-वन-विशेषणम् । यस्मिन् नैःश्रेयसे वने यत्रेत्य् उपचारः, तथैव ते प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् [भा।पु। १०.२१.१४] इत्य्-आदेर् वक्ष्यमाणत्वात् ॥१७॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): (बृ।भा। २.४.४६) चरितानि चरित्राणि । भर्तुः प्रभोः । अनुविकसन् मधवः प्रसरन्-मकरन्दाः माधव्यः मधु-कालीनाः सुमनसः, तासां गन्धेन खण्डिता विघ्निता धीर् येषां ते\ऽपि तद्-गन्ध-प्रापकम् अनिलं क्षिपन्तस् तिरस्कुर्वन्तो गायन्ति । अनेन वैकुण्ठ-वासिनां निरतिशय-सुखे\ऽपि भजनानन्दासक्तिर् दर्शिता\ऽस्ति ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृशत्वेनैव वर्णयति—वैमानिका इत्य्-आदिभिः । अन्तर् मध्ये जल इति तत्-तद्-उपवन-शोभाश इत्य्-आदिकं ध्वनितम् । गन्धेन श्री-भगवद्-विभूति-रूपत्वात् तत्-सौरभ्यानुकारितया तत्-स्मरण-विशेष-कर्त्रा तेन खण्डित-धियः परमानन्दं मोहं प्राप्ता अपि भगवद्-गुण-गणाग्रहेण तद्-गन्धवाहं क्षिपन्तः ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शमलेति ब्रह्माण्ड-वर्ति-जीवानां सर्व-मालिन्य-क्षपणानि स्वेषां तु तद्-विरह-दुःखोपशमकानि । वैमानिका स्वर-विशेषोद्भावनार्थं विमानाद् अवतीर्य सरोवरस्यान्तर्जले कण्ठ-मग्न-जले इत्य् अर्थः । यद् वा, तट-वर्तिनीनाम् एव जल-संलग्न-वृक्ष-शाखाम् आरुह्य ताः स्व-पत्रादिभिर् आच्छादयन्तीनाम् अन्तर्-जल एव विकसन्तीनां मधु-युक्त-माधवीनां गन्धेन खण्डिताः भगवच्-चरितास्वादनैकतानत्वे सविघ्नीकृता धीर् येषां तथा-भूता अपि गायन्त्य् एव, न तु गानाद् विरमन्तीत्य् अर्थः । किन्त्व् अनिलं क्षिपन्तः, अरे माधवी-पूष्पामोद-तुन्दिल-सुमन्द-शीतानिल ! भगवल्-लीलामृत-माधुर्येषु निमज्जिता अस्माकं धियो वृत्तीः क्? आक्रष्टुं यतसे ? किं त्वं तेभ्योऽप्य् आत्मानं मधुरं मन्यसे ? धिक् त्वां मूढेति निन्दन्तः, तेन कैवल्यम् इव मूर्तिमद् इति पूर्वोक्तेस् तद्-वनस्थ-पुष्पामोदादीनां ब्रह्मानन्द-रूपत्वेऽप्य् आक्षेपात् ब्रह्मानन्दाद् अपि भजनानन्दोऽप्य् अधिक इति द्योतितम् ॥१७॥

———————————————————————————————————————

॥ ३.१५.१८ ॥

पारावतान्यभृत-सारस-चक्रवाक-

दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः ।

कोलाहलो विरमतेऽचिर-मात्रम् उच्चैर्

भृङ्गाधिपे हरि-कथाम् इव गायमाने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्य-भृताः कोकिलाः । दात्यूहश् चातकः । अचिर-मात्रं क्षण-मात्रं विरमति । अनेन तत्रत्य-पक्षिणाम् अपि हरि-कथा-श्रवणादि-परमानन्दो दर्शितः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दात्यूहो जल-चरो वर्षासु क्व क्वेति प्राय-भाषी । भृङ्गाधिपो वनमालाधिकारी कोऽपि मुख्यो भृङ्गः, तस्यातिशयेन भगवत्-प्रियत्वात् श्री-गरुडवत् स्वभावत एव तत्-तद्-अक्षर-मय-शब्दात्मकं गानम् एव तेषु हरि-कथितं ज्ञेयम् । इवेति तत्-पार्षदादि-कर्तृक-हरि-कथा-सादृश्यं ज्ञापयति वीणादिवत् ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैमानिका इव तत्रत्याः पक्षिणोऽपि परम-भक्ता निर्मत्सराश् चेत्य् आह—पारावत्यः कपोताः, अन्य-भृताः कोकिलाः, दात्यूहा डाहुका इति ख्याताः । अचिर-मात्रं शीघ्रम् एव । "हंहो सम्प्रति हरि-कथा प्रवर्तते तद् वयं सर्वे तावत् तूष्णीम् एव शृणुम" इत्य् एवं कोलाहलो विरमते । कदा ? भृङ्गाधिपे भगवद्-वन-मालाधिकारिणि हरि-कथाम् इव हरि-कथा-तुल्यम् एव किम् अपि घूनाक्षर-न्यायेन गायति सति हरि-हरीत्य् आकारक-स्व-पक्ष-शब्दं कुर्वतीत्य् अर्थः । न जाने तस्मिन् साक्षाद्-धरि-कथां गायति सति पक्षिणां तेषां तस्मिन् कीदृश आदरो भवेद् इति भावः ॥१८॥

———————————————————————————————————————

॥ ३.१५.१९ ॥

मन्दार-कुन्द-कुरवोत्पल-चम्पकार्ण-

पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः ।

गन्धेऽर्चिते तुलसिका-भरणेन तस्या

यस्मिंस् तपः सुमनसो बहु मानयन्ति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भक्तैर् अर्चिते सति भगवता तुलसिका-भरणे कृते तस्य गन्धार्थं तपो बहु मानयन्ति ॥१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्दार-पारिजातौ सुरतरु-विशेषौ । कुरवस् तिलक-वृक्षः । उत्पलं रात्रि-विकासि । अम्बुजं दिन-विकासि । नागो नागकेशरः । एताः सुमनसः पुष्प-जातयः सुगन्धा अपि तुलसिका-भरणेन श्री-हरिणा तुलस्या गन्धेऽर्चिते सति यस्मिन् वने, तस्यास् तपो बहु मानयन्ति। अनेन तत्रत्या गुण-ग्राहिण एव, न मत्सरिण इत्य् उक्तम् । एवम्-भूतं वनं यत्र, तद् वैकुण्ठं ययुर् इति पूर्वेणान्वयः ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मन्दारादयः पुष्प-जातयस् तुलसिकाम् एव बहु मानयन्ति, तुलसिका-भरणेन श्री-कृष्णेन । तस्या गन्धेऽर्चिते सति बहु-माननं युक्तम् एव, न तु स्पर्धन्ते, तत्र स्पर्धासूयादि-दोषाभावात् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्र स्थावरा अपि ज्ञान-शालिनः परकीय-भगवत्-प्रीणन-गुण-श्लाघिनश् चेत्य् आह—मन्दारेति । अर्णम् अपि पुष्प-विशेषः । सुमनसस् तत्-तद्-अधिष्ठात्र्यो देवता ज्ञेयाः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पक्षिण इव तत्रत्या वृक्षा अपि स्पर्धासूयादि-रहिताः परम-भक्ता एवेत्य् आह—मन्दार-पारिजातौ सुरतरु-विशेषौ । कुरवस् तिलक-वृक्षः । अर्णं पुष्प-विशेषः । नागो नागकेशरः । एते वृक्षाः परम-सुगन्ध-कुसुमा अपि तुलसिका-भरणेन श्री-हरिणा वन-विहरण-समये तस्यास् तुलस्या गन्धे अर्चिते आदृते सति यस्मिन् वने, "अहो धन्यासि त्वं तुलसि" इति तस्या एव तपो बहु मानयन्ति**,** न तु स्वेषाम् इति तेन, यद् अस्यास् तपो जानीमः । तर्हि तद् एव तपो वयम् इतो भारत-भूमिं गत्वा आचराम इति तेषां मनोऽनुलापो ध्वन्यते । ततश् च वैकुण्ठ-वासिनोऽपि भारत-भूमौ जन्म वाञ्छन्तीति वैकुण्ठाद् अपि भारत-भूमेर् उत्कर्षोऽनुध्वन्यते । बहु मानयन्त्य् एव न त्व् असूयन्तीत्य् अर्थः । यतः सुमनसह् शुद्ध-चित्ताः, पक्षे पुष्प-तरवः । तेन वैमानिका इति पारावतेति मन्दारेत्य्-आदिभिर् जरायुजाण्डजोद्भिदस् त्रय एव हरिं भजन्तो वर्तन्ते, न तु चतुर्थः स्वेदजोऽवर्णाद् इति ज्ञेयम् ॥१९॥

———————————————————————————————————————

॥ ३.१५.२० ॥

यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर्

वैदूर्य-मारकत-हेम-मयैर् विमानैः ।

येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः

कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर् वैकुण्ठम् एव विशिनष्टि । यत् सङ्कुलं व्याप्तं भवति । कैः ? हरि-पदयोर् आनतिः प्रणामस् तावन्-मात्रेण दृष्टैर् भक्तानां विमानैर् न कर्मादि-प्राप्यैः । वैदूर्य-मारकतैर् हेम-मयैश् च विमानैः । बृहन्ति कटि-तटानि यासाम् । स्मित-शोभीनि मुखानि यासां ता अपि । कृष्णे आत्मा येषाम् । रजः कामम् उत्स्मयाद्यैः परिहासादिभिर् न आदधुर् न जनयाम् आसुः ॥२०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनः पुरं विशिनष्टि—तत् सङ्कुलम् इत्य्-आदि । हरि-पदयोर् आनतिर् भक्तिर् येषां ते । तथा तन्मात्रस्य दृष्टं दर्शनं येषु तैर् भक्तैर् इत्य् अर्थः । वैमानिकाः सललनाः [भा।पु। ३.१५.१७] इति प्राग्-उक्तस्य वैमानिक-स्त्री-पुरुषयो रागादि-सम्बन्धः सम्भाव्योऽस्तु, तम् अनेन श्लोकेन निराकुर्वन्न् आह—येषाम् इत्य्-आदि । बृहत्-कटि-तटाः स्मित-शोभि-मुख्योऽपि येषां वैमानिकानां रजो रागम् उत्स्मयाद्यैः स्मितादिभिर् नादधुः, चेत् कृष्णात्मनां कृष्णे आत्मा येषां तान् अपि कृष्णात्मान इति बोद्धव्यम् । उभयोस् तथात्वे प्रपञ्च्सर्व-रतिर् नास्त्य् एव, परं तु श्री-कृष्ण एव तेषां तासां च रतिः ॥२०॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दिग्दर्शिनी) : (बृ।भा। २.४.४६) हरि-पदयोर् आनतिः प्रणामस् तावन्-मात्रेण दृष्टैर् वैकुण्ठ-वासिनां विमानैर् न तु कर्म-ज्ञान-योगादि-प्राप्यैः । रजः-कामम् उत्स्मयः परिहासस् तद्-आद्यैर् न आदधुर् न जनयामासुः, यतः कृष्णे आत्मा येषां, तेषाम् इति ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् वैकुण्ठं मरकतम् एव मारकतं रजो नादधुः, किन्तु तासाम् अपि परम-भक्तत्वाद् भक्त्य्-उद्दीपनम् एव जातम् इत्य् अर्थः ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभितो वर्तिणीम् उद्यान-शोभां वर्णयित्वा मध्य-वर्तिनीं वैकुण्ठ-नगर-शोभां वर्णयति—तद् इति । हरि-पादयोर् आनीतः प्रणतिस् तावन्-मात्रेणापि भजनेन दृष्टैः, न तु सम्पूर्णाङ्गैर् अपि ज्ञान-कर्मादिभिर् इत्य् अर्थः । किं च, तत्र भजनानन्द-निर्वृतेषु लोकेषु पूर्वोक्त-युक्त्या ब्रह्मानन्दोऽपि न प्रभवति । किं पुनर् विषयानन्द इत्य् आह—बृहत्-कोटि-तटाः, परम-सुन्दर्योऽपि येषां कृष्णात्मनां कृष्ण-निमग्न-मनसाम् उत्स्मयाद्यैः उत्कृष्ट-स्मितावलोक-गत्य्-आलापादि-व्यापारैः स्वाभाविकैर् अजः कामं न आदधुर् न जनयामासुस् तैश् च सङ्कुलम् ॥२०॥

———————————————————————————————————————

॥ ३.१५.२१ ॥

श्री रूपिणी क्वणयती चरणारविन्दं

लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा ।

संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि

सम्मार्जतीव यद्-अनुग्रहणेऽन्य-यत्नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रीर् लक्ष्मीः रूपिणी मनोहर-मूर्ति-धारिणी सती श्री-हरेः सद्मनि संमार्जनं कुर्वतीव यस्मिन् लोके संलक्ष्यते । चरणारविन्दं क्वणयती नूपुरेण शब्दयन्ती । मुक्तो दोषश् चाञ्चल्यं यया । यद् वा, मुक्तेन दोषा प्रसारितेन बाहुना । कीदृशे सद्मनि । स्फटिक-मयानि कुड्यानि यस्मिन् । मध्ये मध्ये च शोभार्थम् उपेतं संयुक्तं हेम यस्मिन् । यस्या अनुग्रहणे श्रीर् अनुग्रहं करोत्व् इत्य् एतद् अर्थम् अन्येषां ब्रह्मादीनां यत्नः सा । अयं भावः, यद्य् अपि तत्र रजो नास्त्य् एव तथापि स्वर्ण-पट्टिकावच्छिन्न-भित्ति-भागेषु बहुधा प्रतिबिम्बिता सती लीलाम्बुजं भ्रामयन्ती विनय-भक्तिभ्यां तथा लक्ष्यते इति ॥२१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्री-रूपिणीत्य्-आदि । श्रीर् नैकधा, तथा हि—

पूर्णैका [नामिनी]{।मर्क्} शक्तिः श्री-कृष्णस्य सनातनी । > रमाख्यान्तः-सार-मते सैव वक्षसि लक्ष-भाक् ॥ > तथा विभूति-रूपान्या रूपिणी साप्य् अरूपिणी । > रूपिणीव मते साङ्गा परा त्व् ऐश्वर्य-रूपिणी ॥ > अन्तरानन्दिनी शक्तिर् या सा वपुष्मती मता । > नैःश्रेयस-वने सैव राधेति परिकीर्त्यते ॥ > क्षीराब्धि-मथनोद्भूता रूपिण्याः शिवता तनुः । > वपुः-स्थिता या सा निन्ये रूपिण्या अपि भागशः ॥

अत्र सा द्विधा वर्तते—एका स्वयं श्रीर् या निरतिशयैश्वर्य-रूपानन्दिनी शक्तिः, अन्या तु रूपिणी रूपवती । उभे उभयत्र दर्शयति—रूपिणी श्रीर् नैःश्रेयस-वने वैकुण्ठाख्ये पुरे सम्मार्जतीव सम्मार्जनं गृह-शुश्रूषां कुर्वतीव लक्ष्यते । यद्यप् तत्र रजः-सम्बन्धो नास्ति, तथापि मुक्त-दोषा, मुक्तेन दोष्णा, मुक्तो दोर् बाहुर् यत्र तेन वा लीलाम्बुजेन इतस् ततश् चलन्ती तस्यैव लीलाम्बुजस्य परागा ये पतितास् तान् एव सारयन्ती, गृह-शुश्रूषणम् अवश्यम् एव कार्यम् इति कृत्वेव सम्मार्जनं कुर्वतीव लक्ष्यते । स्फटिक-कुड्य उपेत-हेम्नि संलक्ष्यते, प्रतिबिम्बिता काय-व्यूहवतीव संलक्ष्यते इति द्विर् योजनीयम् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मुक्त-दोषाम् अयम् आत्मापहत-पाप्मेतिवन् नित्यम् एव दोष-रहिता । अत एव तद्-भक्त्यात्यन्तदीनं मन्यात्वेन संमार्जन-कर्त्री या काचित् सैव लक्ष्यते, न तु प्रेयसीवत् । यथोक्तं कुरुक्षेत्र-यात्रायां श्री-कालिन्द्या—अहं तद्-गृह-मार्जनी[भा।पु। १०.८३.११] इति । लोलाम्बुजेनेत्य् उपलक्षणे तृतीया ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वे हरि-भजनानन्दवन्त इति किं वक्तव्यम् ? साक्षाल् लक्ष्मीर् अपि यत्र सदा भजन्ती वर्तत इत्य् आह द्वाभ्याम् । रूपिणी परम-सौरूप्यवती चरणारविन्दं क्वणयन्ती मन्द-गत्या नूपुरेण शब्दयन्ती हरेः सद्मनि स्फटिक-मय-भित्तौ उपेत-हेम्नि मध्ये मध्ये शोभार्थं संयुक्त-सुवर्णे । युक्त-दोषा प्रसारितेन भुजेन लीलाम्बुजेन पाणि-धृतेन सन्-मार्जनीव स्वच्छ-भित्तौ प्रतिबिम्बिता शोधन्या सम्मार्जनं कुर्वतीव संलक्ष्यते, लीलाम्बुजम् अत्र शोधनी-स्थानीयम् ।

यद् वा, संमार्जतीव सम्मार्जन-कारिणान्या दासीव । यद् उक्तं कुरुक्षेत्र-यात्रायां तद्-गृह-मार्जनीति । तदा मुक्त-दोषो निर्दोषा । लीलाम्बुजेनेत्य् उपलक्षणे तृतीया, न चानेन साल्व-माहात्म्या मन्तव्येत्य् आह—यस्या अनुग्रहणे श्रीर् अनुग्रहं करोत्व् एतद्-अर्थम् अन्येषां ब्रह्मादीनां यत्नः सा ॥२१॥

———————————————————————————————————————

॥ ३.१५.२२ ॥

वापीषु विद्रुम-तटास्व् अमलामृताप्सु

प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् ।

अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम्

उच्छेषितं भगवतेत्य् अमताङ्ग यच्छ्रीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग ! हे देवाः ! यद् यस्मिल् लोके श्रीर् एवम् अमत अमंस्त मेने । किं कुर्वती ? विद्रुम-मयानि तटानि यासाम्, अमला अमृत-तुल्या आपो यासां तासु वपीषु । निज-वने लक्ष्मी-वने परिचारिकाभिर् अन्विता तुलसीभिः श्री-विष्णुं पूजयन्ती । तदोदके प्रतिबिम्बितं शोभनालक-युक्तम् उत्कृष्ट-नासिका-युक्तं च स्व-वक्त्रं वीक्ष्य भगवता उच्छेषितं चुम्बितम् इत्य् अमन्यत । अनेन लक्ष्म्या अपि सौभाग्य-सुखं भगवद्-अनुग्रहेणैवेति द्योतितम् ॥२२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नैःश्रेयस-वन-स्थितायाः श्रियश् चरित्रं दर्शयति—वापिष्व् इत्य्-आदि। प्रेष्याः परिचारिकास् ताभिर् अन्विता सती वापीषु, न तु वाप्यां, यावत्य एव वाप्यः सन्ति, तावतीष्व् एव, कदाचित् कस्यांचित् । निज-वने कमल-वने तुलसीभिः, सत्स्व् अपि कमलेषु तुलस्यास् तत्-प्रियत्वात् । ईशं श्री-कृष्णम् अभ्यर्चती अभ्यर्चन्ती वक्त्रं निरीक्ष्य भगवता श्री-कृष्णेन उच्छेषितं पीतम् इति अमत अमंस्त ।

वक्त्रं कीदृशम् ? स्वलकम् उन्नसम् । अधो-मुखं यथा भवति, तथा अर्चन्त्यास् तस्या मुखं प्रतिबिम्बितम् । तेषाम् एकस्मिन् बिम्बे स्व-मुखं च बिम्बितं सत् लग्नम् । तेन उभयोः संयोगे श्री-कृष्ण-मुख-संसक्त-स्व-मुख-स्मृतिर् जाता । अतोऽमत मेने इत्य् उत्प्रेक्षा ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वापीष्व् इति । पत्युर् एव परम-देव-रूपत्वात् ततः सौभाग्य-लाभार्थं स एव पूज्य इत्य् अभिप्रायेण । तत्र च जने ध्यानेन तत्-स्फूर्तेस् तत्र स्व-प्रतिबिम्ब-दृष्ट्या स्व-मूर्तेश् च सह-योगाच् चुम्बितत्व-भानम् अपि सङ्गतम् । यद् वा, उच्छेषितम् उपभुक्तम् इत्य् अमन्यत पूर्व-पूर्वानूतततया स्मृतवतीत्य् अर्थाह् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिचरण-भक्तिम् उक्त्वा साधक-भक्तानाम् इव तस्या अर्चन-भक्तिम् आह—वापीषु दीर्घिकासु अमृत-तुल्य-जलासु निज-वने निःश्रेयस-वनैक-देश-स्थे लक्ष्मी-वने तुलसीभिर् ईशं श्री-नारायणम् अभ्यर्चयितुं प्रातः-स्नानं करिष्यन्ती प्रथमं मुख-क्षालनार्थं सोपान-तट-मध्यासीना जले प्रतिबिम्बितं शोभनालकम् उत्कृष्ट-नासिका-युक्तं च स्व-मुखम् ईक्ष् ईक्षित्वा भगवता उच्छेषितम् उच्छिष्टीकृतं चुम्बनाधर-पानाभ्याम् इत्य् अमत अमन्यत । यद् वा, तत्र जले नीलोत्पल-प्रतिबिम्बे मिलितं स्व-वक्त्र-प्रतिबिम्बं वीक्ष्य भगवता तन्-मुखं चुम्बितं जातम् इति भावोदयो जातः ॥२२॥

———————————————————————————————————————

॥ ३.१५.२३ ॥

यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच्1

छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः ।

यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास्

तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अरचनानुवादाः ॥२३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनः कथम्-भूतं तत् ? यद् वैकुण्ठं न व्रजन्ति । के ? ये कुकथाः शृण्वन्ति । कास् ताः ? अघं भिनत्तीत्य् अघभित् तस्य हरे रचना सृष्ट्य्-आदि-लीला, तस्या अनुवादाद् अन्य-विषया अर्थ-कामादि-वार्ता मति-भ्रंशिकाः । तेषाम् अव्रजने हेतुः—यास् तु हत-भाग्यैर् नरैः श्रुताः सत्यस् तांस् तान् श्रोतॄन् अशरणेषु निराश्रयेषु तमःसु नरकेषु क्षिपन्ति । हन्त खेदे । कथम्-भूताः ? आत्तः सारः श्रोतॄणां पुण्यं याभिस् ताः ॥२३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद् वैकुण्ठं तद् भगवत्-कथा-विमुखा न यान्तीत्य् आह—यन् न व्रजन्तीत्य्-आदि द्वाभ्याम् ॥२३-२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अघभिदोऽघासुर-हन्तुः, अघोऽपि यत्-स्पर्शन-धूत-पातकः [भा।पु। १०.१२.३८] इत्य् अत्र तथा-प्रसिद्धस्य रचनाया अनुवादं परित्यज्यान्यद् अन्यदीयं यद् रचनं, तद् एव विषयो यासां ताः कथा इति भगवत्-कथां कदाचिद् अपि ये न शृण्वन्तीत्य् अर्थः । तमःसु नरक-प्रायेषु संसार-गर्तेषु । सारो विवेकादिः ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र गन्तुं केऽधिकारिण इत्य् अपेक्षायां प्रथमम् अनधिकारिण आह—अघ-भिदः ।शृङ्खलस्य रचना लीला-कथा तस्या अनुवादात् अनुकीर्तनात् अन्य-विषया एव कथाः न्यायादि-शास्त्र-विषया अपि कथाः कुकथास् ता ये शृण्वन्ति, ते यद् वैकुण्ठं न व्रजन्ति । तर्हि किं व्रजन्ति ? तत्राह—याः कुकथा हत-भगैः श्रुता इति हत-भगा एव तत्राधिकारिणः । अतो हत-भगैर् नृभिर् एवात्तो गृहीतः सारः ऋओतव्यत्वेनानुसंहितं महत्त्वं यासां, अत एव तांस् तान् हत-भगान् तमःसु नरकेषु ताः कथा एव बलात्कारेण क्षिपन्ति ॥२३॥

———————————————————————————————————————

॥ ३.१५.२४ ॥

येऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना

ज्ञानं च तत्त्व-विषयं सह-धर्म यत्र ।

नाराधनं भगवतो वितरन्त्य् अमुष्य

सम्मोहिता विततया बत मायया ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गात् तान् शोचन्ति । नोऽस्माभिर् ब्रह्मादिभिर् अप्य् अभ्यर्थितां नृ**-**गतिं मनुष्य-जातिं प्रपन्नाः प्राप्ताः सन्तोऽपि हरेर् आराधनं न कुर्वन्ति । कीदृशीं नृ-गतिम् ? यत्र यस्यां धर्म-सहितं तत्त्व-ज्ञानं भवति, तद्-उभय-साधकत्वात् तस्याः । तेऽमुष्य भगवतो विस्तृतया मायया ननु संमोहिताः ? बतेति खेदे । यदि चैवं सम्बन्धः । केवलं त एव न व्रजन्ति, किन्तु ये भगवद्-आराधनं न कुर्वन्ति, तेऽपि तेषां माया-मोहितत्वाद् इति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : येऽभ्यर्थितम् इति । यत्र यस्यां नृ-गतौ भगवद्-धर्म-पर्यन्तो धर्मो भवति, भगवद्-धर्म-पर्यन्तस्य तत्त्वस्य ज्ञानं च भवतीत्य् अर्थः । तां प्रपन्नाःप्राप्ता अपि ये सर्वेषां धर्माणां ज्ञानानां च मूलं भगवत आराधनं न वितरन्तिन कुर्वन्ति, ते सम्मोहिताः । तद् उक्तं—बिले बतोरुक्रम-विक्रमा ये [भा।पु। २.३.२०] इत्य्-आदि । तथा च ब्रह्म-वैवर्ते—

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् । > यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥ > अशीतिं चतुरश् चैव लक्षांस् तान् जीव-जातिषु । > भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात् ॥ > तद् अप्य् अफलतां यातं तेषाम् आत्माभिमानिनाम् । > वराकाणाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥ इति ।

यद् वा, यत्र तत्-तद्-विषयं ज्ञानं धर्मश् च सर्वोऽपि जज्ञे, तादृशीम् अपि नृ-गतिं प्रपन्नाः प्राप्ता य इति पशु-निर्विशेषा व्यावृत्ताः ॥२४॥ [भक्ति-सन्दर्भ १०८]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त यद्यपि तत्र गन्तुं नृ-जातय एवाधिकारिणो, न तु देवादि-जातयः, तद् अपि भक्ति-रहित-शास्त्र-तात्पर्य-भ्रंशित-बुद्धयो नृ-जातय एव केचिद् वञ्चिता भवन्तीति तान् शोचति—ये इति ।

हा हन्त ! भारत-भूमौ कदा नृ-जनुषो भूत्वा वयं कृष्णं भजन्तः क्षण-मात्रेणैव प्राप्नुयाम ? इति नोऽस्माभिर् ब्रह्मादिभिर् अप्य् अभ्यर्थितां नृ-गतिं ये प्रपन्नाः प्राप्ताः, यत्र यस्यां तत्त्व-विषयं ब्रह्म-विषयकं धर्म-सहितं ज्ञानं च भवति, तद् अपि भगवत आराधनं न वितरन्ति, न कुर्वन्ति चेत्, तेअमुष्य मायया मोहिताः, धर्म-ज्ञानयोर् अपि भक्तिं विना फलासिद्धेर् इति भावः ।

यद् वा, यत्र धर्म-सहितं ज्ञानं कुर्वन्ति न त्व् आराधनं, ते मोहिताः । यद् वा, भगवत एवाराधनं भगवते न ददति, तत्-सुख-तात्पर्यतया न कल्पयन्ति, ते सकाम-भक्ता अपीति ॥२४॥

———————————————————————————————————————

॥ ३.१५.२५ ॥

यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या

दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।

भर्तुर् मिथः सुयशसः कथनानुराग-

वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनः कथम्-भूतम् ? यच् च नः उपरि स्थितं व्रजन्ति । के ? अनिमिषां देवानाम् ऋषभः श्रेष्ठो हरिः, तस्य अनुवृत्त्या दूरे यमो येषाम् । यद् वा, दूरीकृत-यम-नियमाः । [“दूरेऽहम्” इति] पाठान्तरे दूरीकृताहङ्कारा इत्य् अर्थः । स्पृहणीयं करुणादि शीलं येषाम् । किं च, भर्तुर् हरेर् यत् सुयशः, तस्य मिथः कथने योऽनुरागः, तेन वैक्लव्यं वैवश्यं, तेन बाष्प-कला, तया सह पुलकीकृतम् अङ्गं येषाम् । यद् वा, नः उपरीति व्रजतां विशेषणम् । निरहङ्कारत्वाद् अस्मत्तोऽपि येऽधिकाः, ते यद् व्रजन्तीत्य् अर्थः ॥२५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यच् च नैःश्रेयसं वनं केचिद् व्रजन्ति, ते के ? इत्य् आह—यच् च व्रजन्ति इत्य्-आदि । ये नोऽस्माकम् उपरि उपरि-भूता अधिकाः । अत एव स्पृहणीय-शीला भर्तुः श्री-कृष्णस्य सुयशसः श्री-वृन्दावन-लीलायाः कथने योऽनुरागः, तेन यद् वैक्लव्यं, तेन या बाष्प-कला, तया सह वर्तमानाः, पुलकीकृतान्य् अङ्गानि येषां ते । इत्य् अनयोर् भेदः—कथादि-चरणारविन्देन वैकुण्ठं यान्ति, प्रेम्णा नैःश्रेयस-वनं यान्तीति । सनकादयस् तु वैकुण्ठ-पुरस्य सप्तम-कक्षा-पर्यन्तं गन्तुम् अशकन्, अस्तु दूरे तद् वनम् इति ॥२५॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): यच् च नोऽस्माकं सर्व-देवानाम् उपरि-स्थितं व्रजन्ति । के ? अनिमिषां देवानाम् ऋषभः श्रेष्ठो हरिः, तस्य अनुवृत्त्या भक्त्या दूरे यमो येषां ते । यद् वा, दूरीकृत-यम-नियमाः । “दूरेऽहम्” इति पाठे दूरीकृताहङ्कारा इत्य् अर्थः । स्पृहणीयं करुणादि भगवद्-भजनादि वा शीलं स्वभावो येषाम् । यद् वा, अस्मत्-प्रार्थ्यं शीलं येषाम् । किं च, भर्तुर् हरेर् यत् सुयशः, तस्य मिथः कथनेन यः [अनुरागः] प्रेमाविर्भावः, तेन वैक्लव्यं वैवश्यं, तेन या बाष्प-कला, तया सह पुलकीकृतम् अङ्गं येषां ते । इत्य् अनुवृत्ति-लक्षणम् उक्तम् । यद् वा, तथा-भूताः सन्तो व्रजन्तीति गमन-प्रकारः । यद् वा, न उपरीति व्रजतां विशेषणम् । निरहङ्कारत्वाद् अप्य् अस्मत्तोऽपि येऽधिकाः, ते इत्य् अर्थः ॥२५॥ (ह।भ।वि। ११.५८७)

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः ५७) : यद् वैकुण्ठम् । यच् च नोऽस्माकम् **उपरि-**स्थितं, नः स्पृहणीय-शीला इति वा । दूरे यमो येषां ते, सिद्धत्वेन दूरीकृत-यम-नियमाः सन्तो वा व्रजन्तीतिभर्तुर् मिथः सुयशसः इत्य् अनेन तथा-विधाया भक्तेर् मोक्ष-सुख-तिरस्कारित्व-प्रसिद्धिः सूचिता । नात्यन्तिकं विगणयन्त्य् अपीत्य् आदौ येऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायां कीर्तन्य-तीर्थ-यशसः कुशला रसज्ञा [भा।पु। ३.१५.४८] इति सनकाद्य्-उक्तेः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनिमिषां कालानधीनानाम् इत्य् अर्थः ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथाधिकारिण आह—यच् चेति । अनिमिषाम् ऋषभो हरिः, तस्य अनुवृत्त्या दूरे यमो येषाम् । यद् वा, दूरीकृत्य यम-नियमाः । “दूरेऽहम्” इति पाठे दूरीकृताहङ्काराः । नोऽस्माकम् अप्य् **उपरि-**भूता अधिकाः । यतोऽस्माभिः स्पृहणीयम् एव, न तु प्राप्यं शीलं येषां ते ।

किं तत् शीलम् ? तत्र तेषां प्रमाणम् आह—भर्तुः प्रभोर् मिथ इति परस्पर-प्रणयवत्त्वेन कथनेन आस्वाद-विशेषोपलब्धेः । क्वचित् पुराणादाव् असुराणाम् अपि कदाचित् केषांचित् तत्र यत् क्षणिक-गमनं श्रूयते, तत् तु तत्रत्य-चिद्-विभूति-सुखानुभवाभावात् गमनम् अप्य् अगमनायमानम् एव, यथा विविध-सौरभ्यादि-गुण-युक्तेषु मणि-मय-राज-सदनेषु व्याघ्र-भल्लुकादीनां प्रवेशः स्व-पुरस्थ-परिजन-वृन्दान्य् एव कौतुक-विशेष-वशात् तांस् तान् दर्शयितुम् इच्छो राज्ञ एवाज्ञया भवति, तथैव स्वीयाप्राकृत-नित्य-धाम-निवासिनः स्वजनान् कौतुक-वशाद् दर्शयितुं प्राकृत-पदार्थान् कदाचित् घोर-सत्त्वान् असुरान्, कदाचित् सात्त्विकान् भृग्व्-आदीन् कदाचित् त्रिगुणातिक्रमिणः सनकादींश् च स्वेच्छयैव भगवान् एव नयति, पुनः शीघ्रम् एव तद्-अयोग्यत्वात् ततो निःसारयति च । स्वैकान्तिक-भक्ति-सिद्धांस् तु स्व-पार्षद-द्वारा विमानैर् वैकुण्ठम् आनयति, तत्र सदा निवासयति, स्व-धाम-माधुर्यं स्व-लीलादि-माधुर्यं तान् एवास्वादयतीति विवेचनीयम् ॥२५॥

———————————————————————————————————————

॥ ३.१५.२६ ॥

तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं

दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः ।

आपुः परां मुदम् अपूर्वम् उपेत्य योग-

माया-बलेन मुनयस् तद् अथो विकुण्ठम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तदा तद्-अपूर्वं विकुण्ठम् अथो अनन्तरम् उपेत्य मुनयः पराम् उत्कृष्टां मुदम् आपुः । अपूर्वत्वे हेतवः—विश्व-गुरुणा हरिणाऽधिकृतम् अधिष्ठितम् । भुवनानाम् एकम् एव वन्द्यम्दिव्यम् अलौकिकम् । विचित्राणि विबुधाग्र्याणां विमानानि तेषां शोचिर् दीप्तिर् यस्मिन् । योग-माया-बलेन इति अष्टाङ्ग-योग-प्रभावेणोपेत्य । परमेश्वरे तु योग-मायेति चिच्-छक्ति-विलास इति द्रष्टव्यम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : योग-माया-बलेन भगवच्-छक्ति-प्रभावेणैव, न तु स्व-शक्त्या । मनीषितानुभावोऽयं मम लोकावलोकनम् [भा।पु। २.९.२१] इति श्री-भगवतोक्तत्वात् ॥२६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ तत्र सनकादीनां गमनं वर्णयति—अथो तद् विकुण्ठं योगमायाया भगवद्-इच्छानुवर्तिन्या भगवच्-छक्तेर् बलेन, न तु स्व-बलेन उपेत्य, भगवत्-कृपया परां मुदम् अपूर्वं यथा स्यात् तथा आपुः । अत्र पराम् अपूर्वम् इति पदाभ्यां तदीय-ब्रह्मानुभव-मुदोऽपि सकाशात् वैकुण्ठीय-मुद आधिक्यं दर्शितम्


विकुण्ठं कीदृशम्? तेनैव विश्व-गुरुणा हरिणा स्वयम् अधिकृतम् इति नात्र तन्-माया-शक्तेर् अधिकार इत्य् अर्थः । कृपया स्वीय-भक्तिम् उपदेष्टुम् एव मुनीन् अप्य् आनिनायेति विश्व-गुरु-पद-व्यङ्गं वास्तु । विचित्राणि विबुधाग्र्याणां विमानानि तेषां शोचिर् यत्र तत् ॥२६॥

———————————————————————————————————————

॥ ३.१५.२७ ॥

तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः

कक्षाः समान-वयसाव् अथ सप्तमायाम् ।

देवाव् अचक्षत गृहीत-गदौ परार्ध्य-

केयूर-कुण्डल-किरीट-विटङ्क-वेषौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन् वैकुण्ठे षट् कक्षाः प्राकार-द्वाराणि । असज्जमानाः भगवद्-दर्शनोत्कण्ठया तत्-तद्-अद्भुत-दर्शन आसक्तिम् अकुर्वाणाः । द्वार-पालौ देवाव् अपश्यन्समानं वयो ययोः । गृहीते गदे याभ्याम् । परार्ध्यैः केयूर्आदिभिर् विटङ्कः सुन्दरो वेषो ययोः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मिन्न् इति युग्मकम् ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् तस्मिन् वैकुण्ठे षट् कक्षाः प्राकार-द्वाराणि अतिक्रम्य, असज्जमाना जन्मत एव ब्रह्मानुभवित्वात् । तत्र तत्र द्वार-प्राकारादौ सौरूप्य-सौरभ्य-सौन्दर्यादिषु विषय-बुद्ध्या आसक्तिम् अकुर्वाणाः ॥२७॥

———————————————————————————————————————

॥ ३.१५.२८ ॥

मत्त-द्विरेफ-वनमालिकया निवीतौ

विन्यस्तयासित-चतुष्टय-बाहु-मध्ये ।

वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां

रक्तेक्षणेन च मनाग्-रभसं दधानौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वक्त्र-स्थया भ्रुवा सह निर्गतेन ॥२८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ताव् एव वर्णयति । मत्ता द्विरेफा यस्यां तया वन-मालया निवीतौ कण्ठ-लम्बिन्या अलङ्कृतौ । असिता नीलाश् चतुष्टये चतुः-सङ्ख्याका बाहवः, तेषां मध्ये विन्यस्तया । वक्त्रंमनाग्-रभसं किञ्चित् क्षुब्धं दधानौस्फुटाव् उत्फुल्लौ निर्गमौ श्वास-मार्गौ नासा-पुटे, ताभ्याम् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मनाग्-रभसत्वे हेतुर् द्वारीति ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ सप्तम्यां कक्षायां देवौ द्वार-पालौ जय-विजयाव् अपश्यन् गृहीत-गदौ तत्रापि वक्त्रं मनाग् रभसं किञ्चित् कोप-क्षुब्धं च दधानौ । केन लक्षणेन ? इत्य् अपेक्षायाम् आह—भ्रुवेत्य्-आदि स्फुट-निर्गमाभ्याम् इत्य् अस्य नासा-श्वासाभ्याम् इति विशेष्य-पदम् अध्याहार्यम् ॥२८॥

———————————————————————————————————————

॥ ३.१५.२९ ॥

द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा

पूर्वा यथा पुरट-वज्र-कपाटिका याः ।

सर्वत्र तेऽविषमया मुनयः स्व-दृष्ट्या

ये सञ्चरन्त्य् अविहता विगताभिशङ्काः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतयोर् मिषतोः पश्यतोस् ताव् अनादृत्य अपृष्ट्वा एव याः । पूर्वाः षट् द्वारः । पुरटालङ्कृत-वज्र-मय्यः कपाटिका यासु ता यथा विविशुस् तथा सप्तमायाम् अपि द्वारि ते निविविशुः । अप्रश्ने हेतुः—सर्वत्र ये अविहता अनिवारिताः सञ्चरन्ति । निःशङ्कत्वे हेतुः—अविषमया स्व-दृष्ट्या इति ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोः कोप-कारणम् आह—एतयोर् मिषतोः पश्यन्तौ एताव् अप्रश्नाद् अनादृत्य याः पूर्वाः षट् द्वारः पुर-पट्टिका हीरक-कीलय-कवाटिकावत्यस् ता यथा विविशुः, तथा सप्तम्याम् अपि द्वारि ते विविशुः । प्रश्नाकरणे हेतुस् तेषां स्वभावम् एवाह—सर्वत्र ते सञ्चरन्ति ये अविहताः केनाप्य् अशक्याभिघाताः ॥२९॥

———————————————————————————————————————

॥ ३.१५.३० ॥

तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान्

वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् ।

वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ

तेजो विहस्य भगवत्-प्रतिकूल-शीलौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वात-रशनान् नग्नान् वृद्धान् अपि पञ्च-वर्ष-बालकवत् प्रतीयमानान् । -काराद् आज्ञया च । अस्खलयतां निवारितवन्तौ । न तत् स्खलनम् अर्हन्तीति तथा तान् । अहो अत्रापि धार्ष्ट्यम् इत्य् एवं तेषां तेजो विहस्यभगवतो ब्रह्मण्य-देवस्य प्रतिकूलं शीलं ययोः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवत्-प्रतिकूल-शीलाव् इत्य् अस्यायं भावः । भगवांस् तावद् आत्मना सर्वतः परमेश्वर इति निजस्य पारमैश्वर्यस्य ब्राह्मणादिभिर् अतिक्रमणं सहते, तदीय-सेवकास् तस्य सुतरां तु तन्-नियोग-प्राप्त-पालनाधिकारस्य तद्-अंशस्य केनाप्य् अतिक्रमं सोढुं न शक्नुवन्तीति भगवतो विपरीत-स्वभावौ ताव् इदं न सहेते इति । दृष्टान्तस् तु चित्रकेतु-शिव-शिवा-वृत्तान्त एव ज्ञेयः ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वातस्य रशना क्षुद्र-घण्टिका तद्-उपलक्षितानि सर्वाणि वस्त्रालङ्कारादीनि येषां ते । वृद्धान् ब्रह्म-समवयस्कान् अपि पञ्च-वर्ष-बालकवत् प्रतीयमानान् ब्रह्म-ज्ञान् वीक्ष्य वेत्रेण तिर्यग्-वेत्र-धारणेन च-कारात् सहसा भगवद्-अन्तः-पूरम् इतो मा विशतेति वाचा च अस्खलयतां निवारयामासतुः । न तत्-स्खलनम् अर्हन्तीति तथा तान् तौ जय-विजयौ अहो तत्रापि ब्रह्म-ज्ञत्वाद् अहङ्कारेण धार्ष्ट्यम् इत्य् एवं तेषां तेजो विहस्य भगवतो ब्रह्मण्य-देवस्य प्रतिकूल-शीलाव् इति दास-द्वारापि स्व-ब्रह्मण्यता-विघातो नैव सम्मतो यतः प्रभोर् मनोऽनुसारिशीला एव भृत्याः अदण्ड्याः कुशलिनो भवन्तीति भावः ॥३०॥

———————————————————————————————————————

॥ ३.१५.३१ ॥

ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः

स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् ।

ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत्

कामानुजेन सहसा त उपप्लुताक्षाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जयस्य विजयस्यापि कदाचिद् ब्रह्म-शापतः ।

कृष्णावतार-पर्यन्तं प्रातिकूलं च जायते ॥ इति नारदीये > ॥३१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : उच्चैर् महत्या भगवत्-परिचर्यया एत्य प्राप्य इह वैकुण्ठे निवसता तद् धर्मिणा भगवद् धर्मिणा सम-दर्शिनां मध्ये वा युवयोर् एव कोऽयं विषमः स्वभावः । कैश्चित् प्रवेष्टव्यं कैश्चिन् नेत्य् एवं-भूतः । ननु स्वामिनो रक्षार्थं द्वार-पालयोर् एष स्वभावो गुण एवेति चेद् अत आहुः, तस्मिन्न् इति । कुहकयोः कपटयोः । आत्म-वत् स्व-दृष्टान्तेन । यथा आवां कपटौ तथान्योऽपि कश्चित् कपटः प्रवेक्ष्यतीति । अयं भावः, न ह्य् अत्र भगवद्-भक्तं विना कश्चिद् आगच्छति । न चेश्वरे प्रशान्तत्वाद् अविद्यमान-विरोधे भय-शङ्का । अतो युवां केवलं धूर्ताव् एवेति ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिमिषेषु वैकुण्ठीय-देवेषु पश्यत्सु अर्हत्तमा अपि भगवत्-समीपम् अतिशयेन गन्तुम् अर्हा अपि हरेर् द्वारपाभ्यां निषिद्धमाना ऊचुः । सुहृत्तमस्य हरेर् दर्शनेच्छाया भङ्गे उपघाते सति कामानुजेन क्रोधेन सहसा उपलक्षितम् एव उपप्लुतानि व्याप्तानि अक्षीणि येषां ते ॥३१॥

———————————————————————————————————————

॥ ३.१५.३२ ॥

मुनय ऊचुः—

को वाम्2 इहैत्य भगवत्-परिचर्ययोच्चैस्

तद्-धर्मिणां निवसतां विषमः स्वभावः ।

तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां

को वात्मवत् कुहकयोः परिशङ्कनीयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : युवयोर् यथा विरुद्ध-स्वभावत्वं, तद्वद् भगवद्-विषय इह शङ्कनीयः कः तस्मान् निषेधो व्यर्थ इत्य् अर्थः ॥३२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् द्वार-पाल-पतिभ्यां देवेषु पश्यत्सु वार्यमाणास् ते मुनयः—को वाम् इत्य्-आदि-श्लोक-त्रयीम् ऊचुः । सुहृत्तमः श्री-हरिस् तस्य दिदृक्षितं दर्शनेच्छा तस्य भङ्गे सति कामस्यानुजः क्रोधस् तेन सहसाकस्माद् एवोपप्लुतानि क्षुभितान्य् अक्षीणि येषां ते । सुष्ठु पूज्यतमा अपीति निषेधानर्हत्वे क्रोधानर्हत्वे व हेतुः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तयोर् द्वार-पालयोः सालोक्य-सामीप्यादि-तारतम्यवत्सु वैकुण्ठ-जनेष्व् अप्य् उचितं विचारं कामानुजोपरक्तवात् स्व-स्वभावणुसाराच् च निन्दति—को वेति त्रिभिः ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रोधोपरक्तत्वात् प्रथमं निन्दन्ति—को वा इति । तद्-धर्मिणां भगवत्-तुल्य-धर्मिणां तत्रापि इह तत्-समीप एव वसतां विषमः ब्राह्मणैर् न प्रवेष्टव्यम् इति भगवत्-स्वभाव-परिपन्थी कः स्वभावः । ननु ब्राह्मण-वेशेन भगवद्-दृषिणोऽपि कपटेन प्रविशन्त्य् अतः प्रथमं ब्राह्मणा अपि जिज्ञास्या एव ततः प्रवेशनीया इति चेत्, तर्हि युवाम् एव तद्-भक्त-वेशेन कपटिनौ, तदीय-ब्रह्मण्यत्व-प्रशान्तत्व-गत-विग्रहत्वादि-महा-गुण-लोपे प्रवृत्तौ तद्-द्वेषिणाव् अत्रस्थः, न त्व् अन्यः कोऽपि तस्य शङ्कनीय इत्य् आहुः—तस्मिन्न् इत्य्-आदि । आत्मवद् इति आत्मवन् मन्यते जगद् इति न्यायेन वां युवयोः कपटिणोर् अपि को वा शङ्कनीय इति काक्वा युवाम् एव शङ्कनीयाव् इति भावः ॥३२॥

———————————————————————————————————————

॥ ३.१५.३३ ॥

न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव्

आत्मानम् आत्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं

व्युत्पादितं ह्य् उदर-भेदि भयं यतोऽस्य ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : समस्त-कुक्षौ स्थिते भगवति न हि भेदः । अस्मिन् लोकेऽन्तस्थ-भगवद्-रूपं बहिस्थैक्येन पश्यन्ति । नभो नभसीव । तत्र प्रत्युदर-भेद-निमित्तं भयं युवाभ्यां व्युत्पादितं किं सर्वान्तर्यामित्वेनाभयस्य भयम् अस्तीति भावः कृतः । अन्यथा किम् इति निवारणम् ।

सर्वे दरगतः ब्रह्म ये भेदेन विचक्षते । > सर्वत्रापि भयं तेषां मृतानां तम एव च ॥ इति तत्त्व-विवेके > ॥३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : भय-शङ्का-बीजं च भेदः स च कस्याप्य् अस्मिन् नास्तीत्य् आहुः—न हीति । समस्तं विश्वं कुक्षौ यस्य यत्र यदेह भगवति धीरा विद्वांस आत्मनोऽन्तरं भेदं न पश्यन्ति किन्त्व् अस्मिन् परमात्मन्य् आत्मानम् अन्तर्-भूतं पश्यन्ति महाकाशे घटाकाशम् इव तदा यथान्यस्य राजादेर् उदर-भेद्य् उदर-भेद-युक्तं भयं भवति तथास्य श्री-हरेस् तादृग् भयं यतो येन कार्णेन सुर-वेष-धारिणोर् युवयोर् विशेषेणोत्पादितं तत् किम्, न किञ्चिद् इत्य् अर्थः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : धीराः ब्रह्म-निष्ठाः उदरैस् तद्-उपलक्षितैर् देहैर् यो भेदः पृथक् पृथक् तत्-पूरणात्मकः । यद् उक्तं तत्-कारणं भयम् ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शृणुतं रे मूर्खौ शृणुतम् इत्य् आहुः—न हीति । समस्तम् एव विश्वं कुक्षौ यस्य तस्मिन्न् इति युवयोर् ये शङ्कनीयास् तेऽप्य् अस्य कुक्षाव् एव वसन्तीत्य् अर्थः । इह वैकुण्ठे यत्र भगवति आत्मनि परमात्मनि आत्मानं सर्वम् एव जीवात्मानं धीरा ज्ञानिनोऽन्तरं भिन्नं न पश्यन्ति । नभसि महाकाशे नभो घटाकाशम् इव तस्यास्य परमेश्वरस्य युवाभ्यां सुर-लिङ्गिभ्याम् उदर-भेदि भयं शत्रुः कश्चित् कपटेनात्रागत्य प्रभोर् अस्य उदर-भेत्स्यतीति भयं, यतः कारणात् विशेषेणोत्पादितं तत् किम् अस्माकम् अग्रे ब्रूतं तावत् प्रथमम् इत्य् अर्थः । अत्र यद्यपि सार्वज्ञादि-स्वरूप-भूतानन्त-कल्याण-गुणाद् ईश्वर-चैतन्याद् अल्पज्ञत्वाधीनत्वादि-स्वभावं जीव-चैतन्यम् ईशितव्यं सूर्यात् तदा तप इव जात्यैव भिद्यते, तदाप्य् अत्र वक्तॄणां सनकादीनां ज्ञानित्वाज् ज्ञानिनां च पद्धतौ अद्वैत-ज्ञान-लभ्य-निर्वाण-सिद्ध्य्-अर्थं चित्-सामान्य-ग्रहणस्यैव विधीयमानत्वात् चिद्-विशेष-भूतानाम् ईश्वर-जीवयोर् गुणानां मायायाश् च ग्रहणस्य निषिद्धत्वाद् ईश्वर-जीवयोर् महाकाश-दृष्टान्तो नानुपपन्नो ज्ञेयः ॥३३॥

———————————————————————————————————————

॥ ३.१५.३४ ॥

तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः

कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् ।

लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या

पापीयसस् त्रय इमे रिपवोऽस्य यत्र ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : त्रयो रिपवो देह-त्रये ॥३४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्माद् अमुष्य वैकुण्ठ-नाथस्य भृत्याभ्यां युवाभ्यां प्रकृष्टं भद्रम् एव कर्तुम् इह अस्मिन्न् अपराधे यद् युक्तं तद् धीमहि चिन्तयेम । तद् एवाहुः—अन्तरस्य भेदस्य भावः सत्ता तद्-दर्शनेन इतो वैकुण्ठ-लोकाद् व्रजतम् । यत्र येषु लोकेष्व् अस्य पापीयसोऽन्तर-भाव-द्रष्टुर् इमे कामः क्रोधस् तथा लोभः [गीता १६.२१] इति गीतोक्तास् त्रयो रिपवो भवन्ति । इतो वैकुण्ठात् पापीयसो लोकान् इति वा ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पापीयसो लोकान् जन-समूहान् व्रजतं तेषु जायेताम् । यत्र व्रजने इमे अस्मिन् निर्दिष्टा लोका दैत्य-राक्षस-राजन्य-जन-समूहास् त्रयोऽस्य भगवतोऽपि रिपवः ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं निन्दित्वाप्य् अशान्तत्वात् पुनर् अतिक्रोधात् शपन्ति । तत् तस्माद् वां युवाभ्यां मन्द-धीभ्यां भूताभ्याम् अमुष्य विकुण्ठ-भर्तुः प्रकृष्टं प्रकर्षं कर्तुं धीमहि । अत्र भेद-दर्शनं विशेषतो ब्राह्मण-वारणं च ब्रह्मण्य-देवस्यापकर्षस् तद्-अभावम् एव प्रकर्षस् तं कर्तुं तद्-अनन्तरङ्गत्वेन वयम् एव चिन्तयेमेति क्षणं तूष्णीं स्थित्वा तद् एवाहुः—इतो वैकुण्ठाद् व्रजतम् । यत्र लोकेषु पापीयसो युष्मद्-विधापराधि-जनस्य भेद-भाव-दृष्ट्या इमे, कामः क्रोधस् तथा लोभः [गीता १६.२१] इति गीतोक्तास् त्रयो रिपवो भवन्ति । अत्रापरोक्षार्थ-वाचिना इदम्-शब्द-प्रयोगेनेमे सम्प्रत्य् अस्माद् देहाद् भूताः क्रोधादय इति सरस्वत्य्-अभिमतोऽर्थः ॥३४॥

———————————————————————————————————————

॥ ३.१५.३५ ॥

तेषाम् इतीरितम् उभाव् अवधार्य घोरं

तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः ।

सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्-

पाद-ग्रहाव् अपतताम् अतिकातर्येण ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इति तेषाम् ईरितं भाषणं घोरम् अवधार्य, तंब्रह्म-दण्डं ब्रह्म-शापम् अवधार्य, तं चास्त्र-समूहैर् अप्य् अनिवार्यम् अवधार्य । हरेर् अनुचराव् अतिकातर्येण भयेन तत्-पाद-ग्रहणं कुर्वन्तौ सन्तौ दण्डवद् अपतताम् । कथं-भूतस्य हरेः ? एवं-भूतेभ्यो मुनिभ्यस् ताभ्याम् अप्य् उरु अधिकं बिभ्यतो भयं भावयतः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तं च ब्रह्म-दण्डम् अवधार्येत्य् अनेनानयोस् तेषु पूर्वं ब्राह्मणत्व-ज्ञानं नासीद् इति गम्यते । ब्राह्मणेभ्य उरु बिभ्यतः ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो अपराद्धम् आवाभ्यां यद् ब्राह्मणाः कोपिता इति तयोर् वैक्लव्यम् आह—तेषाम् इति । हरेः सकाशात् प्रथमं बिभ्यतः भीतौ । अतुस् उ-कार-लोपश् छान्दसः । ततश् च अतिकातर्येण तेषां पाद-ग्रहणं कुर्वन्तौ दण्डवद् अपतताम् ॥३५॥

———————————————————————————————————————

॥ ३.१५.३६ ॥

भूयाद् अघोनि भगवद्भिर् अकारि दण्डो

यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् ।

मा वोऽनुताप-कलया भगवत्-स्मृति-घ्नो

मोहो भवेद् इह तु नौ व्रजतोर् अधोऽधः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सुर-हेलनस्यापि दण्डो भवति ॥३६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो अपराद्धम् अस्माभिर् इत्य् अनुतप्यमानान् प्रत्य् ऊचतुः—अघोन्य् अघवति य उचितो दण्डः स एव भगवद्भिर् अकारि । नात्र भवताम् अपराधः कश्चित् । अतोऽसौ नौ आवयोर् भूयात्योऽशेषम् अपि सुर-हेलनम् ईश्वराज्ञाति-क्रम-रूपं पापं हरेत, किन्तु युष्माकं यः कृपा-निमित्तोऽनुतापस् तस्य लेशेन नौ अधोऽधो मूढ-योनीर् व्रजतोर् अपि भगवत्-स्मृति-प्रतिघातको मोहो मा भवेत्, किन्तु मोहोऽपि स्मृतिम् एव प्रवहताद् इति प्रार्थना ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तौ तु स्वस्य तद्-रिपुष्व् एव जन्म बुद्ध्वा रिपुत्वं च बुद्ध्वा तत्-स्मरण-मात्रं प्रार्थयेते—भूयाद् इति । इह ईदृग्-अपराधे भगवत्-स्मृति-घ्नस् तु मोहो मा भवेद् इत्य् अन्वयः ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो अपराद्धम् अस्माभिर् एव, यद् युवां भगवद्-भक्तौ शप्तौ । हन्त हन्त अतः परं किं कुर्मः ? क्रोधाद्या जिता इत्य् अस्माकं सार्वकालिकोऽभिमानोऽत्र वैकुण्ठे चूर्णीबभूवेति पश्चात्-तापवतस् तान् प्रत्येकम् आहतुः—अघोन्य् अपराधानि मयि भगवद्-भक्तिर् युष्माभिर् यो दण्डोऽकारि, स भूयाद् इत्य् आशीर् लिङा तम् अहं स्वस्मिन्न् आषीर्वादम् एव भावयामि, न तु दण्डम् । अत्र हेतुः पुनर् द्वौ संहताव् एवाहतुः । यो दण्डः नौ आवयोर् अशेषम् एव सुर-हेलनं युष्मद्-अवज्ञानात् भगवद्-अनभिप्रेताचरणाच् च । वैकुण्ठ-देशानुचित-क्रोध-करणाच् च युष्मासु भगवति च वैकुण्ठ-धाम्नि च जातम् अपराधं सर्वं हरेत नाश्रयेत्, किं तु युष्माकं यः कृपा-निमित्तः सम्प्रत्य् अनुतापस् तस्य कलया एकेन लेशेन एतद् एवावां प्राप्नुयावः नौ आवयोर् अधोऽधः पततोर् अपि मोहो भगवत्-स्मृति-घ्नो मा भवेत् । मोहस् तु भगवति सेवा-बुद्धि-परिपन्थी भविष्यत्य् एव । युष्मद्-अभिशापान्यथानुपपत्तेस् तद् अपि मोहः सोऽपि स्मृतिम् एव प्रवहतात्, न तु विस्मृतिम् इति प्रार्थना ॥३६॥

———————————————————————————————————————

॥ ३.१५.३७ ॥

एवं तदैव भगवान् अरविन्द-नाभः

स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः ।

तस्मिन् ययौ परमहंस-महा-मुनीनाम्

अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अत्र स्थितयोः पुनः पूर्ववन् मोहो न स्यात् ॥३७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स्वानां महत्सु अतिक्रमम् अपराधं तत्-क्षणम् एव विबुध्य, तस्मिन् यत्र ते रुद्धास् तं देशं ययौआर्याणां हृद्यो मनोज्ञः । चरणौ चलयन्न् इत्य् अयं भावः—मच्-चरण-दर्शन-प्रतिघातजं क्रोधं तौ दर्शयन् शमयिष्यामीति त्वरा-व्याजेन पद्भ्याम् एव ययौ । श्री-साहित्यं च निष्कामान् अपि विभूतिभिः पूरयित्वा क्षमापयितुम् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तावद् एव श्री-भगवान् तत्रैवागत इत्य् आह—एवं तदैवेत्य्-आदि चतुर्दश। अत्र क्रमेण व्याख्यायते—एवम् इति । टीका च—

एवं स्वानां महत्सु अतिक्रमम् अपराधं तत्-क्षणम् एव > विबुध्य, तस्मिन् यत्र ते सनकादयस् ताभ्यां जय-विजयाभ्यां > रुद्धाः । तं देशं ययौआर्याणां हृद्यः मनोज्ञः । > चरणौ चलयन्न् इति । अयं > भावः—मच्-चरण-दर्शन-प्रतिघातजं क्रोधं तौ दर्शयन् > शमयिष्यामीति त्वरा-व्याजेन पद्भ्याम् एव ययौ । श्री-साहित्यं च > निष्कामान् अपि विभूतिभिः पूरयित्वा क्षमापयितुम् । इत्य् एषा ।

अत्र तेषाम् आत्मारामाणाम् अप्य् आनन्द-दानार्थं चरण-दर्शनेन तस्य सच्चिदानन्द-घनत्वम् । श्री-साहित्येन तच्-छक्ति-विलासस्यापि स्वरूपानितरत्वं विवक्षितम् । स्वानाम् इति बहु-वचनं द्वयोर् अप्य् अपराधः सर्वेष्व् एव परिवारेष्व् आपततीत्य् अपेक्षया तयोर् बहुमानाद् वा । स्व-शब्देन मुनीनां न तादृशं तद्-आत्मीयत्वम् इति विवक्षितम् ।

यद् वा, चरणौ चलयन्, न तु पादुके अपि स्वीकुर्वन्न् इति मुनिष्व् आदर-विशेषो दर्शितः । सह-श्रीर् इति तेषु तस्या अप्य् अगोपनं स्वस्य सूचयित्वा तयोर् अपराध एव दृढीकृत इति ॥३७॥ [भगवत्-सन्दर्भ ८५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं परस्परापराध-भावनोद्भूतान्तर्-दैन्य-समुद्र-पृषद्भिर् एवाश्रु-मिषेण बहिर् निःसरद्भिः स्नपयित्वेव दोषात् पुनः शुद्धीकृतेषु सनकादि-जय-विजयेषु विप्रत्व-भक्तत्वयोर् याथार्थ्यम् अनुभावितेषु तत्रत्य-सभ्येष्व् आत्म-धिक्कारेणैव भक्तिः समुद्योतते, समुद्योतिनी च भक्तिर् भगवन्तम् आकर्षतीमम् अर्थं प्रमाणीकुर्वन्न् इव ब्रह्मण्य-देवो भक्त-वत्सलो भगवांस् तदा तत्रैवोपजगामेत्य् आह—एवम् इति । स्वानां सद्-अतिक्रमं स्व-भक्त-कर्तृकं ब्राह्मणातिक्रमम् । आर्याणां हृदि प्रादुर्भवतीति तथा सोऽपि तेषां नेत्रेष्व् अपि प्रादुर्भवितुम् इति भावः । तस्मिन् सप्तम-द्वार-प्रदेशे महा-मुनीनाम् अन्वेषणीयौ अन्वेष्टुं योग्याव् इति तथा निर्विकल्पक-ज्ञानानन्तरं स-विकल्पक-ज्ञानम् अपेक्षितव्यं भवति, तथा ब्रह्म-स्वरूपानुभवानन्तरं भगवत्-स्वरूपम् अनुभवितुम् अर्हन्ति, अत एव चरणौ चलयन्न् इति मच्-चरण-माधुर्यम् अननुभूत-चरम् एतान् अनुभाव्य महा-निर्वृति-चमत्कार-सिन्धौ निमज्जयामीत्य् अभिप्रायेणैव सह-श्रीर् इति बहिरङ्गाया एव मच्-छक्तित्वम् एते जानन्ति, न त्व् अस्याः श्रियः स्वरूप-भूताया इत्य् एताम् अप्य् आह्लादिनीं शक्तिम् अनुभावयामीत्य् अभिप्रायेण ॥३७॥

———————————————————————————————————————

॥ ३.१५.३८ ॥

तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस्

तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् ।

हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्-

छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : शशिनोः केशरा रश्मयः ॥३८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तैर् दृष्टं देवम् अनुवर्णयति पञ्चभिः । तं त्व् आगतं तेऽचक्षत अपश्यन्। आ पञ्चमाद् इदम् एव क्रिया-पदम् । स्व-पुंभिः शीघ्रं प्रतिहृतम् आनीतम् औपयिकं गमनोचितं छत्र-पादुकादि यस्य । कथं-भूतम् ? स्व-समाधिना भाग्यं भजनीयं फलं यद् ब्रह्म, तद् एव अक्ष-विषयम्हंस-वच् छ्रीर् ययोः, तयोर् उभयतश् चलतोर् व्यजनयोर् यः शिवोऽनुकूलो वायुः, तेन लोलन्तश् चलन्तः शुभ्रातपत्र-शशि-केसराः, शुभ्रं यद् आतपत्रं, तद् एव शशि-सादृश्याच् छशी, तस्य केसरा मुक्ताहार-विलम्बाः, तेभ्यो गलन्ति सीकराम्बूनि यस्मिंस् तम् । सीकरोऽम्बु-कणः ॥३८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : तं त्व् आगतम् इत्य्-आदि । स्व-समाधि-भाग्यं स्वकीयस्य समाधेर् भाग्य-रूपम् । समाधेः कदाचिद् अप्य् एवं भाग्यं नासीत्, तत् सम्प्रत्य् अक्षि-विषयम् अचक्षत, अतः समाधिनात्म-साक्षात्काराद् अप्य् अक्षि-साक्षात्कारोऽतिशय-सौभाग्य-प्रद इति भावः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तं त्वेति पञ्चकम् । ते सनकादयस् तम् अचक्षतनिरीक्ष्य च नेमुः [भा।पु। ३.१५.४२] इति पञ्चभिर् अन्वयः । कथम्भूतम् ? स्व-समाधि-भाग्यं स्व-समधिना भाग्यं भजनीयं फलं यद् ब्रह्म, तद् एव अक्षि-विषयम् । यद् वा, स्व-समाधि-रूपस्य साधनस्य भाग्यं फल-रूपं, यतोऽक्ष-विषयं तदीय-स्व-प्रकाशता-शक्ति-संस्कृत-निखिल-धीन्द्रिय-स्फुरितत्वेन सम्प्रति विस्पष्टम् एवानुभूयमानम् । अनेन पूर्ववत् तस्य शब्द-स्पर्श-रूप-रस-गन्धाख्यानां सर्वेषाम् एव धर्माणां सच्-चिद्-आनन्द-घनात्मकत्वं साधितम् । तथा नित्यम् एव तथा-विध-सततोदित्वर-माधुरी-वैचित्र्यानुभव-पूर्वकं परम-प्रेमानन्द-सन्दोहेन सेवमानैस् तस्य आत्मीयैः पुरुषैर् आनीत सेवौपयिक-नाना-वस्तुभिः सेव्यमानं भगवन्तं कथञ्चित् क्वचित् कदाचिद् एव तदानीं केनापि समाधिज-भाग्योदयेन केवलम् अपश्यन्न् इति तेषां परम-विदुषां स्पृहास्पदावस्थेषु श्री-वैकुण्ठ-पुरुषेषु कस्या अपि भगवद्-आनन्द-शक्तेर् विलास-मयत्वं दर्शितम् ॥

अथ तेषां भगवद्-रतेर् उद्दीपनत्वेन चित्त-क्षोभकत्वात् तत्-परिच्छदादीनाम् अपि तादृशत्वम् आह—हंसेति सार्ध-त्रिभिः । केशरा मुक्ता-मय-प्रलम्बाः । अत्र छत्रस्य शशितया केशराणां शीकराम्बुत्वेन रूपकम् । शशि-सम्बन्धित्वाच् छीकर-रूपाणाम् अम्बूनाम् अमृतत्वं लभ्यते ॥३८॥ [भगवत्-सन्दर्भ ७९.२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तैर् अनुभूत-चरं तन्-माधुर्यं वर्णयति पञ्चभिः । तत्र भगवत्-साक्षात्कारे रूप-माधुर्यं व्यापकम् एव, शब्दादि-माधुर्यं च किञ्चित् किञ्चित् भगवद्-दत्त-स्व-विषयक-रति-शक्त्या तैर् अनुभूतं ज्ञेयम् । तं तु तत्रागतं ते अचक्षत अपश्यन् । कीदृशम् ? स्व-पुम्भिः प्रतिहृतान्य् औपयिकानि यस्मै तम् । अहो श्री-भगवच्-चरणाः सम्प्रति बहिश्-चत्वरम् अलङ्कुर्वत इति तात्कालिक्या प्रथया तम् अवलोकितुम् अत्युकण्ठया द्वार-पुर-नागर-विमान-कानन-स्था भक्त-जना आगत्य विविध-रत्न-वस्त्रालङ्कार-फल-गन्ध-पुष्प-माल्यारात्रिकादीन्य् उपकल्पयाञ्चक्रुर् इत्य् अर्थः । अक्ष-विषयं तेषाम् इन्द्रिय-गोचरी-भूतः ।

ननु तर्हि तस्य विषयत्वं प्रसक्तं तत्र स-हुङ्कार-भ्रू-तर्जनम् आह—स्व-समाधेस् तेषां स्व-हृदि ब्रह्माकारे ब्रह्मानन्दानुभवस्यापि भाग्यं मूर्तिमद् इत्य् अर्थः । "अहो एतद्-दर्शनेनैवास्माकं समाधिर् अपि सफलो बभूव" इति तेऽमन्यन्त । तद् अपि तद्-रूपादेर् विषयत्वं को मूढः सम्भावयेद् इति भावः । हंसवत् श्रीर् ययोस् तयोर् उभयतश् चलतोर् व्यजनयोर् यः शिवोऽनुकूलो वायुस् तेन लोलन्तश् चलन्तः शुभ्रातपत्र-शशि-केशराः शुभ्रं यद् आतपत्रं तद् एव शशीव तस्य केशरा मुक्ता-हार-विलम्बाः, तेभ्यो गलन्ति शीकराम्बूनि यस्मिंस् तम् ।

अत्र अतिशयोक्त्या मुक्ता-विलम्बानां केशरत्वेन छत्रस्य अधो-मुख-सहस्र-दल-कमलाकारत्वम् आरोपितम् । तेन च छत्रस्य शैत्य-सौगन्ध्य-मार्दवानि व्यञ्जितानि । तथा शीकाराम्बूनां शशि-सम्बन्धित्वेनामृतत्वम् ॥३८॥

———————————————————————————————————————

॥ ३.१५.३९ ॥

कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम

स्नेहावलोक-कलया हृदि संस्पृशन्तम् ।

श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्-

चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कौस्तुभो ब्रह्मणो रूपं प्राणश् चूडामणिस् तथा ॥३९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्स्नस्य द्वार-पाल-मुनि-वृन्दस्य प्रसादे सुमुखम्स्पृहणीयानां गुणानां धाम स्थानम् । स्नेहावलोक-कलया स-प्रेम-कटाक्षेण हृदि संस्पृशन्तं सुखयन्तम् । त्रैलोक्य-विवक्षा-पक्षे सत्य-लोक-पर्यन्तः स्वर्गः, तस्य चूडामणिवत् स्थितं स्व-धिष्ण्यं वैकुण्ठं सुभगयन्तं शोभयन्तम् ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृत्स्न-प्रसाद- इति । कृत्स्नः पूर्णो यो मुनिषु प्रसादः, तेन सुमुखं मनोहर-वक्त्रम् । पार्षदयोस् तु प्रसादो न स्फुटः, एतौ द्वौ [भा।पु। ३.१६.२] इत्य्-आदि वक्ष्यमाण-विरोधात् । यद् वा, कृत्स्नस्य द्वार-पाल-मुनि-वृन्दस्य प्रसादे सुमुखम् इति। स्पृहणीयानां गुणानां धाम स्थानम् इति च तत्-तद्-गुणानां तादृशत्वं दर्शितम् । स्नेहावलोकेति विलासस्य । स्वः सुख-भोग-स्थानानि, नित्यानन्तानन्द-रूपत्वात् तेषां चूडामणिम्आत्म-धिष्ण्यं स्व-स्वरूप-स्थानं श्री-वैकुण्ठम् । तादृशेऽप्य् उरसि शोभितया रेखा-रूपया श्रिया कृत्वा सुभगयन्तम् इव, तत्र भूषण-विशेषं निदधानम् इव । इवेति वाक्यालङ्कारे । अनेन श्री-वैकुण्ठस्य नित्यत्वं सर्वोत्कृष्टत्वं च । उक्तं च, तद्-विश्व-गुर्व् [भा।पु। ३.१५.२६] इत्य्-आदौ, आपुः परां मुदम् इत्य्-आदि । वक्ष्यते च—अथ ते मुनयो दृष्ट्वा [भा।पु। ३.१६.२७] इत्य्-आदि, वैष्णवीं श्रियं [भा।पु। ३.१६.२८] इत्य् अन्तम् ॥३९॥ [भगवत्-सन्दर्भ ७९.३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-भक्ताभ्याम् अभिशाप-दायिष्व् अस्मासु न जानीमहे भगवान् अन्तः कुप्यति न वेति संशय-सिन्धु-निमग्नेषु कृत्स्न आभ्यन्तरो बाह्यश् च यः प्रसादः, तेन सुमुखम् । अत एव हन्त हन्तास्मासु प्रत्युत प्रसाद एव पूर्ण उपलभ्यत इत्य् अन्तर् उल्लसन् मुनि-वृन्दस्य नेत्रादीन्द्रियैः स्पृहणीयानां सौन्दर्य-सौस्वर्य-सौरभ्य-सौकुमार्य-कारुण्यौदार्याणां धाम पूर्णास्पदम् । हा हन्तावयोर् ब्रह्म-शापानल-दग्धयोर् अधः-पततोर् ईदृग्-दर्शन-माधुरी पुनर् न घटिष्यत इति खेदार्णव-निमग्नौ रुदन्तौ जय-विजयौ प्रति यः स्नेहावलोकः, तस्य कलया कौशलेन, तत्रत्य-जनानां सर्वेषाम् एव हृदि संस्पृशन्तम् अहो भक्त-वात्सल्यम् इति मनो-लोभयन्तं, श्रिया वामस् तनोर्ध्व-स्वर्ण-रेखा-रूपेण स्थितया स्वश् चूडामणिं सत्य-लोकान्तानां स्वर्गाणां चुडायां मणिम् इव स्व-धिष्ण्यं वैकुण्ठं सुभगयन्तं धन्यः स वैकुण्ठो यत्रत्याः स्वर्ण-रेखा-मयीं लक्ष्मीं भगवद्-वक्षसि विलोकयन्तीत्य् एवं सौभाग्यवन्तं कुर्वन्तं, एवं गरेऽपि व्याख्येयम् । अत्र कृपा-माधुर्य-रूप-माधुर्ये तन्-मनो-नेत्राभ्याम् अनुभूते ज्ञेये ॥३९॥

———————————————————————————————————————

॥ ३.१५.४० ॥

पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या

काञ्च्यालिभिर् विरुतया वन-मालया च ।

वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे

विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथुर् नितम्ब आश्रयत्वेन विद्यते यस्य तस्मिन् पीतांशुके । अलिभिर् नादितया वन-मालया च युक्तम् । सुभगयन्तम् इति पूर्वेणैव वा सम्बन्धः । वल्गुषु प्रकोष्ठेषु वलयानि यस्य । गरुडस्य स्कन्धे विन्यस्त एको हस्तो येन । इतरेणान्येनाब्जं लीला-कमलं धुनानं भ्रामयन्तम् । विन्यस्येति पाठे च वल्ग्व्-इत्य्-आदि हस्तस्य विशेषणम् ॥४०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पीतांशुके इत्य्-आदि । वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् इति सनकादीन् प्रति स्वभाव-द्विभुज-विग्रहेणैव प्रादुरभूत् । पश्चाद् एषां कैवल्य-वासनाम् आलक्ष्य चतुर्भुजोऽभूद् इत्य् अभिप्रायेण वक्ष्यति—दोर्-दण्ड-षण्ड-विवर इति ॥४०-४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पीतांशुके इत्य् अत्र काञ्च्या वनमालया चेत्य् उपलक्षणे3 तृतीया ॥४०॥ [भगवत्-सन्दर्भ ७९.४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथुर् नितम्ब आस्पदत्वेन वर्तते यस्य तस्मिन्न् इति नितम्बोऽयं ममैव नान्यस्येति पीतांशुकेन । तत्र स्वीय-सत्त्वम् आरोपितम् इति इन्-प्रत्यय-ध्वनिः । तादृशे पीतांशुके विस्फुरन्त्या काञ्च्येति पीतांशुकम् अपि स्वास्पदीकृत्य, तद्-उपरि स्व-स्वत्त्वम् आरोप्य स्थितयेत्य् अर्थः । तथा तां कञ्चीम् अपि स्वास्पदीकृत्य । तद्-उपरि-स्थितया वन-मालया कीदृश्या ? अलिभिर् विरुतयेति वन-मालाम् अपि स्वास्पदीकृत्य तद्-उपर्य् अलिभिः सत्त्वम् आरोपितम् इत्य् अलिभ्य एव सर्वतोऽपि साम्राज्यं भगवता दत्तम् इति भावः । तृतीयान्तानाम् आत्म-धिष्ण्यं सुभगयन्तम् इति पूर्वेणैवान्वयः


वल्गु मनोहरं प्रकोष्ठे वलयं यत्र यद् यथा स्यात् । एवं गरुड-स्कन्धे विन्यस्त-वाम-हस्तम् । विन्यस्येति पाठे वल्ग्व् इत्य्-आदि हस्तस्य विशेषणम् । इतरेण दक्षिण-हस्तेन कमलं भ्रामयन्तम् इति लीला-कमल-भ्रामण-मिषेण मुनीनां हृदय-कमलं ब्रह्मास्वाद-सुस्थिरम् अपि स्व-माधुर्य-दर्शनया चपलीकुर्वन्तम् । तेन च हे मुनयो मन्-निर्विशेष-स्वरूपानन्दात् सर्वोत्तमत्वेन निश्चितात् सम्प्रति कथं चित्तं चालयथ ? तत्रैव किं न स्थिरीकुरुध्वे ? मा स्व-निष्ठां त्यजतेति मुनिषु नर्म द्योतितम् ॥४०॥

———————————————————————————————————————

॥ ३.१५.४१ ॥

विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह-

गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् ।

दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य-

हारेण कन्धर-गतेन च कौस्तुभेन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-कान्त्या विद्युतः क्षिपती ये मकराकारे कुण्डले तयोर् मण्डनस्यार्हे गण्ड-स्थले यस्मिंस् तच् च तद् उन्नसं च मुखं यस्य । मणि-युक्तं किरीटं यस्य । दोर्-दण्डानां षण्डं समूहस् तस्य विवरे मध्ये स्थितेन हरता मनो-हरेण विहरतेति वा परार्ध्य उत्कृष्टस् तेन हारेण । कन्धरायां स्थितेन ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विद्युद् इति । हरता मनोहरेण ॥४१॥ [भगवत्-सन्दर्भ ७९.५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-कान्त्या विद्युतः क्षिपन्ती ये मकराकारे कुण्डले तयोर् मण्डनार्हे गण्ड-स्थले यत्र तच् च तथा उन्नसं मुखं यस्य तं दोर्-दण्डानां षण्डं समूहस् तस्य विवरे मध्ये हरता मुनीनां चित्तं चोरयता अत एव चौर्य-हेतुक-भयम् एव भुज-च्छिद्रे प्रविशतेत्य् अर्थः । परार्ध-मूल्य्-हारेण कन्धर-शब्देनात्र वक्षसोऽभिधानम् । यद् वा, कन्धराभ्यां सकाशात् स्वर्ण-सूत्र-द्वारा गतेन वक्षः-पर्यन्तं लम्बितेन कौस्तुभेनेति पूर्ववद् अन्वयः ॥४१॥

———————————————————————————————————————

॥ ३.१५.४२ ॥

अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः

स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् ।

मह्यं भवस्य भवतां च भजन्तम् अङ्गं

नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अविद्यमान-करणं विद्यमान-स्मृतिस् तथा ।

उभयं रचनं प्रोक्तं पूर्व-सिद्धेषु तु स्मृतिः ॥ इति > शब्द-निर्णये ॥४२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं बहुन ? इन्दिराया उत्स्मितम् “अहम् एव सर्व-सौन्दर्य-निधिः” इत्य् अहङ्करणम् अत्र भगवत्-सौन्दर्ये उपसृष्टम् अस्तं-गतम् इति स्वानां भक्तानां धियाविरचितम्, भृत्यैः स्व-मनस्य् एवं वितर्कितम् इत्य् अर्थः । कुतः ? बहु-सौष्ठवेन सौन्दर्येण आढ्यं युक्तम् । किं च, मह्यां मम भवस्य ईश्वरस्य भवतां च कृतेऽङ्गं भजन्तं मूर्तिं प्रकटयन्तम् अचक्षत । निरीक्ष्य च कैः शिरोभिर् मुदा नेमुर् नमश् चक्रुः । न विशेषेण तृप्ता दृशो नेत्राणि येषां ते ॥४२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अत्रोपसृष्टम् इत्य्-आदि । वस्तुतस् तु लक्ष्म्यैव पुरुषो लक्ष्मीवान् भवतीति कृत्वा इन्दिराया लक्ष्म्या यद् उत्स्मितं गर्वः, तद् अस्मिन् भगवत्-सौन्दर्ये उपसृष्टं नष्टम् इति स्वानां भक्तानां धिया विरचितं वितर्कितम् ।

यद् वा, इन्दिराया सौन्दर्यवत्य् अहम् एवेति यद् उत्स्मितं गर्वः, सोऽत्रैव उपसृष्ट उपसर्जनीभूतः, यतोऽस्य वक्षः-स्थल-स्थितत्वेनैवातिशोभते, न तु स्वतस् तथेति स्वानां भक्तानां मह्यं भवस्य भवतां च धिया विरचितं वितर्कितं । इन्दिराया अङ्गं भजन्तं वक्षसि दधानं, सद्यो-गतायाः करं वा गृह्णन्तम् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं परिच्छदादीनाम् अपि तादृशत्वं वर्णयित्वा पुनस् तस्यैवातिमनोहरत्वम् आह—अत्रोपसृष्टम् इति । इन्दिराया उत्स्मितं गर्वः । अत्र भगवति उपसृष्टम् । अस्य परम-सौन्दर्यादि-गुण-शालिनः कान्तस्य नित्येन लाभेन नित्यम् एवाधिकम् आविर्भावितम् इति [स्वानां] तदीयानां धिया [विरचितं]वितर्कितम् । अत्र हेतुः—बहु-सौष्ठवाढ्यम् अनन्त-स्वरूप-रूप-गुण-सम्पद्भिर् युक्तम् ।

नन्व् एवम्भूतस्य लक्ष्म्या अपि रहस्य-महा-निधि-रूपस्य परम-वस्तुनः कथं प्रकाशः सम्भवति ? इत्य् अत आह—मह्यम् इति । भवस्य भवतांचाङ्गम् अङ्गीकारं भजन्तम् । अस्मद्-विषयकम् अङ्गीकारं भजन्तं तत्-तत्-कार्य-सम्पादनार्थम् आविशन्तम् इत्य् अर्थः ।4

उल्लङ्घित-त्रिविध-सीम-समातिशायि- > सम्भावनं तव परिव्रढिम-स्वभावम् । > माया-बलेन भवतापि निगुह्यमानं > पश्यन्ति केचिद् अनिशं त्वद्-अनन्य-भावाः ॥ [स्तोत्र-रत्न, १६] > इतिवत् ।

भक्तिर् एवैनं नयति भक्तिर् एवैनं दर्शयति इत्य्-आदि-श्रुतेश् च । यद् वा, तथा-भूतं तम् अचक्षतेति । अवितृप्त-दृशो निरीक्ष्य मुदा कैर् इति पश्यन्त एव शिरोभिर् नेमुर् इत्य् अर्थः ॥४२॥ [भगवत्-सन्दर्भ ७९.६]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं बहुना ? इन्दिराया उत्स्मितम् अहम् एव सर्व-सौन्दर्याणां निधिर् इत्य् अहङ्करणम् अत्र भगवत्-सौन्दर्ये उपसृष्टम् अस्तं गतम् इति स्वानां भक्तानां धिया विरचितम् । भृत्यैः स्व-मनस्य् एवं वितर्कितम् इति स्वामि-चरणः । परम-सौन्दर्यादि-गुण-शालिनः कान्तस्य लाभेन तस्या उत्स्मितं गर्व उप आधिक्येन सृष्टम् आविर्भावितम् इति सन्दर्भः ।

यद् वा, अत्र भगवति । उपसृष्टं ब्रह्मादिभिर् आराध्ययापि रूप-गुण-माधुर्यैः सर्वतः श्रेष्ठयापि मया उपसर्जनीभूतम् अप्रधानीभूतम् इत्य् अर्थः । इति हेतुना । च-कारात् प्रेम्णा च इन्दिराया लक्ष्म्या उत्कृष्टं स्मितं, “धन्याहं यस्या ईदृशः प्रेयान्” इत्य् आनन्दोत्थ उल्लासो यस्मात्, तथा-भूतम् अङ्गं भजन्तं समुचित-वस्त्रालङ्कारादिभिः शोभयन्तं, न तु शम्भुम् इव सुन्दरम् अप्य् अङ्गं भस्मादिभिर् विरूपयन्तम् इत्य् अर्थः । दृश्यते च स्वाङ्ग-परिष्कारेऽपि पूजादि-शब्द-प्रयोगः । यथा पादयोर् अल्प-पूजेति सामुद्रिकादौ ।

तच् च परः-सहस्र-किङ्कर-द्वारैर् एवेत्य् आह—स्वानां स्वाङ्ग-परिचारकाणां धिया नित्य-विविध-वस्त्रादि-शृङ्गार-वैलक्षण्य-विधायिन्या सूक्ष्म-बुद्ध्यैव बहु-सौष्ठवाढ्यंविरचितम्

अङ्गं पुनः कीदृशम् ? भवस्य शम्भोर् भवताम् अस्मद्-आदीनां च मह्यं महनीयं गन्ध-पुष्पादिभिर् ध्यानेन देशान्तरे पूजनीयम् एव, न तु तेषाम् इव वैकुण्ठे साक्षात् परिचरणीयम् इत्य् अर्थः । महः पूजायाम् इत्य् अस्य चुर्-आद्य्-अन्तस्य रूपम् । एवं-भूतं तम् अचक्षत । ततो विशेषतस् तं निरीक्ष्य च अतृप्त-नेत्राः सन्तः कैः शिरोभिः नेमुः ॥४२॥

———————————————————————————————————————

॥ ३.१५.४३ ॥

तस्यारविन्द-नयनस्य पदारविन्द-

किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।

अन्तर्-गतः स्व-विवरेण चकार तेषां

सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अक्षर-जुषाम् अपि तद्-रूप-सेवाभ्यासिनाम् अपि ॥४३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वरूपानन्दाद् अपि तेषां भजनानन्दाधिक्यम् इत्य् आह । तस्यपदारविन्द-किञ्जल्कैः केशरैर् मिश्रा या तुलसी तस्या मकरन्देन युक्तो यो वायुः, स्व-विवरेण नासा-च्छिद्रेण, अक्षर-जुषां ब्रह्मानन्द-सेविनाम् अपि सङ्क्षोभंचित्तेऽतिहर्षं तनौ रोमाञ्चम् ॥४३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ब्रह्मानन्दास्वादाद् अपि परम-हृदय-सङ्क्षोभ-जनकं तद्-दर्शनम् इति दर्शयति—तस्येत्य्-आदि । अक्षरं ब्रह्म तज्-जुषां तत्-सेविनाम् अपि । एवम् अनिर्वाच्यं यथा स्यात् तथा चित्त-तन्वोः सङ्क्षोभं सम्यग् विकारं चकार कारयामासेत्य् अर्थः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्येति । अत्र पदयोर् अरविन्द-किञ्जल्क-मिश्रा या तुलसीति व्याख्येयम् । अरविन्द-तुलस्यौ च तदानीं वन-माला-स्थिते एव ज्ञेये । अस्तु तावद् भगवद्-आत्म-भूतानां तेषाम् अङ्गोपाङ्गानां तेषु क्षोभ-कारित्वं तत्-सम्बन्धिनो वायोर् अपीति भावः । अन्यत् तैः ॥४३॥ [भगवत्-सन्दर्भ ७९.७]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तानि भगवद्-अङ्ग-माधुर्याणि तान् ब्रह्मानन्दतोऽपि परम-चमत्कारं प्रापयित्वा स्वेषु मज्जयामासुर् इति किं वक्तव्यम्, तद्-एकाङ्ग-सम्बन्धि-वस्तु-सम्बन्धी मारुतोऽपि तान् स्व-निष्ठां च्यवयित्वा क्षोभयन् विजिग्ये इत्य् आह—तस्येति । पदारविन्दयोर् ये किञ्जल्काः श्वेतारुण-कान्तिमन्-नखरास् तैर् मिश्रा या तुलसी तस्या मकरन्द-सम्बन्धी वयुस्तेषामन्तर् अन्तः-करण-गतः, तत्र स्वाधिकारं कर्तुम् इव प्रविष्टः ।

नन्व् आज्ञां विना परकीयान्तः-पुर-प्रवेशः सनकादीनाम् इव सहसानुचित इति चेत्, तत्र स-न्यायम् आह—स्व-विवरेण नासा-च्छिद्रेण । नासा-च्छिद्रं खलु वायोर् एव विवरं भवति, तत्र प्रवेष्टुं कस्याज्ञां गृह्णीयात्? इति भावः ।

तत्र गत्वा किम् अकरोत् ? तत्राह—चित्त-तन्वोः संक्षोभं चकार । आदौ बलात् चित्तं सानन्द-विवर्ते निपात्य क्षोभयामास, ततस् तनुम् अपि कम्पाश्रु-रोमाञ्च-स्वेदादिभिः । लोके ह्य् अन्योऽपि परकीय-देशे स्वाधिकारं चिकीर्षुः प्रथमं तद्-देशाध्यक्षं निबध्य विलुण्ठ्य क्षोभयति, ततस् तद्-देशम् अपि स्व-सैन्य-सम्मर्दितं करोतीति ।

ननु ब्रह्मानन्द-जुषां तेषां चित्तं ब्रह्मानन्द-मयम् एव, कथं भगवद्-आनन्दस् तत् स्वमयं करोतु ? तत्राह—अक्षर-जुषाम् अपीति । एवम् एवास्य माधुर्याधिक्येन बलवत्त्वम् इति भावः ॥४३॥

———————————————————————————————————————

॥ ३.१५.४४ ॥

ते वा अमुष्य वदनासित-पद्म-कोशम्

उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् ।

लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि-

द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हर्ष-कारितं संभ्रमम् आह द्वाभ्याम् । तेवै किल अमुष्यवदनम् एव असित-पद्मस्य कोशोऽन्तर्-भागः, तम् । असित-पद्म-कोशम् इत्य् अभूतोपमा । सुन्दरतरे अरुणे अधरोष्ठे कुन्दवद् धासो यस्मिंस् तम् । उत् ऊर्ध्वं वीक्ष्यलब्ध-मनोरथाः सन्तो नखा एव अरुण-मणयस् तेषां श्रयणम् आश्रय-भूतम् अङ्घ्रि-द्वन्द्वंपुनरवेक्ष्य अधो-दृष्ट्या वीक्ष्य, पुनः पुनर् एवं निरीक्ष्य युगपत् सर्वाङ्ग-लावण्य-ग्रहणाशक्तेः पश्चान् निदध्युर् ध्यातवन्तः ॥४४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तुलसी-मकरन्द-वायुर् एव तथा चकार, किं पुनस् तल्-लावण्येत्य्-आदि ? इति दर्शयति—ते वा अमुष्येत्य्-आदि द्वाभ्याम् । पुनश् चित्त-तन्वोः सङ्क्षोभानन्तरं नमनानन्तरं च, वदनासित-पद्म-कोषम् उद्वीक्ष्य ऊर्ध्व-दृष्ट्या वीक्ष्य पञ्च-वर्षीयाकारत्वे ह्रस्वत्वाद् ऊर्ध्व-दर्शनं, पुनर् नखारुण-मणि-श्रयणम् अङ्घ्रि-युगलं चावेक्ष्य, अव-शब्दोऽधोऽर्थः, अधो-दृष्ट्या वीक्ष्य निदध्युश् चक्षुर् निमील्य ध्यानं कृतवन्तः ।

अयम् अर्थः—एतल् लावण्यं न तावच् चक्षुर्-ग्राह्यं मनो-ग्राह्यं वा भवति, तद् अपि जानीम इति अन्तर्-दृष्ट्या ध्यातवन्तः । चक्षुर्भिर् आपीय चित्तम् अपूरयन्, कालान्तरे ध्यातुं यथा शक्नुवन्ति, सकृद् विलोक्य ध्यानेनान्तश् चिन्तयन्तः स्वानुभवेन समगृणन् सम्यग् अस्तुवन्, तद् इत्य् अध्याहार्यम् ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः) : हर्ष-कारितं सम्भ्रमम् आह द्वाभ्याम्—ते वा इति । तेवै किल, वदनम् एव असित-पद्म-कोष ईषद्-विकसितं नीलाम्बुजं तं, उत् ऊर्ध्व-दृष्ट्या वीक्ष्य, लब्ध-मनोरथाः सन्तः, नखा एव अरुण-मणयः, तेषां श्रयणम् आश्रय-भूतं अङ्घ्रि-द्वन्द्वंपुनरवेक्ष्य अधो-दृष्ट्या वीक्ष्य पुनः पुनर् एवं वीक्ष्य युगपत् सर्वाङ्ग-लावण्य-ग्रहणाशक्तेः पश्चान् निदध्युश् चिन्तयामासुः, “युगपद् एव कथम् इदम् इदं सर्वं पश्येम ?” इत्य् उत्कण्ठाभिः स्थायिभाव-पोषकं चिन्ताख्यं भावम् आपुर् इत्य् अर्थः ॥४४॥ [भगवत्-सन्दर्भ ७९.८]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वदनासित-पद्म-कोशं वदनम् एवासित-पद्म-कोष ईषद्-विकसितं नीलाम्बुजं तं, उत् ऊर्ध्व-दृष्ट्या वीक्ष्य, पुनश् चार्वाग्-दृष्ट्याङ्घ्रि-द्वन्द्वं च वीक्ष्य पुनः पुनः श्री-मुखादि-श्री-चरण-पर्यन्तम् अङ्गं दृष्ट्वेत्य् अर्थः । पश्चाद् धार्ष्ट्य-बुद्ध्या सम्भ्रमान् निमीलिते नेत्रे निदध्युः । अन्तर् अपि तद् एव ददृशुर् इत्य् अर्थः ।

यद् वा, भक्त्य्-अतिशयेन पश्चाद् अङ्घ्रि-द्वन्द्वम् एव ददृशुर् इत्य् अर्थः । निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् इत्य् अमरः। कोषो विहीन-बाह्य-दल-पटलोऽन्तर्-भागः ॥४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तुलसी-गन्धेन शोधित-प्राणानां तेषाम् इन्द्रियाणां च प्राणाधीनत्वात् प्रथमं चक्षुर्भ्यां रूप-माधुर्य-ग्रहणे लब्धाधिकाराणां रूप-माधुर्यस्य च प्रत्यङ्ग-गत-वैविध्येनानन्त्यात् युगपज् जिघृक्षायाम् आवेग-सञ्चारि-कारितम् आनन्द-सम्मर्द-वैवश्यम् आह—ते वा इति । वै निश्चितं । वदनम् एव्आसित-पद्मस्य कोषः, बाह्य-रूक्ष-दल-पटल-रहितोऽन्तर्-भागः, तम् उद्वीक्ष्य उत्कृष्ट-माधुर्यत्वेनास्वादः, तत्रापि सुन्दरतर- इति अधर-माधुर्यम् उत्कृष्टतरं, तद् उपरि च हास-परिहास-माधुर्यम् उत्कृष्टतमम् इति भावः ।

लब्धाशिष इति पित्रा ब्रह्मणा भ्रात्रा नारदेन च भक्त्य्-अर्थं या आशिषः पूर्वं दत्ताः, तत्-फल-लाभात् ता लब्धा इत्य् अर्थः ।

“अहो चरण-सौन्दर्यं कीदृशम् !” इति मुख-माधुर्यम् ईषद् एव गृहीत्वा, तत्रातृप्ता एव ते चरण-माधुर्ये दत्तेक्षणा बभूवुर् इत्य् आह—पुनर् इति । नखा एवारुण-मणयस् तेषां श्रयणम् आश्रय-भूतम् अङ्घ्रि-द्वन्द्वं पुनर् एव अधः-प्रदेशे ईक्षित्वा ईषद् वीक्ष्य निदध्युः, पुनर् अपि मुखं वीक्ष्य, पुनः पुनर् अप्य् एवं ददृशुर् इत्य् अर्थः । निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् इत्य् अमरः ।

एवं श्री-स्वामि-चरणास् तु युगपत्सर्वाङ्ग-लावण्य-ग्रहणाशक्तेः पश्चात् निदध्युर् ध्यातवन्त इत्य् आहुः । एवम् अत्र लब्धाशिषः इत्य् अग्रे च पित्रानुवर्णित-रहा [भा।पु। ३.१५.४६] इत्य् आभ्यां भक्त-कृपानुगामिन्या भगवत्-कृपयैवैषां भक्तेर् उत्पत्ताव् अपि भगवत्-कृपाया भूयस्त्वाद् भूम्ना व्यपदेशा भवन्तीति न्यायेन भगवत्-कृपयैव सनकादीनां भक्तिर् भक्त्यैव तेषां तन्-माधुर्यानुभव इति प्रसिद्धिः ॥४४॥

———————————————————————————————————————

॥ ३.१५.४५ ॥

पुंसां गतिं मृगयताम् इह योग-मार्गैर्

ध्यानास्पदं बहु-मतं नयनाभिरामम् ।

पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर्

औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योग-मार्गैर् गतिं मृगयतांपुंसांध्यानस्य विषय-भूतम् । बहु-मतम् अत्यादरास्पदम्, बहूनां तत्त्व-दृशां संमतम् इति वा । पौंस्नं पौरुषं वपुर्दर्शयन्तम्अन्येष्व् असिद्धैर् असाधारणैर् औत्पत्तिकैर् नित्यैर् अणिमाद्य्-अष्टैश्वर्यैर् युतम्समगृणन् सम्यग् अस्तुवन् ॥४५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पौंस्नं पुंसां नारायणादीनां निरासः निरासार्थेन न पौंस्नं श्रेष्ठाख्यं स्वं रूपं, तत् तु नैःश्रेयसवनस्थं द्विभुजत्वात् ध्यानास्पदम् अपि नयनाभिरामम् । अतो बहु-मतं नयनाभिरामत्वेन बहूनां मतम्—ध्यानतोऽपि यत् पुरतो नयनाभ्याम् दृश्यते, तद् एव बहु-मतम् इत्य् अर्थः । अष्ट-भोगा ह्य् अणिमादयोऽष्ट-सिद्धयस् तैर् अन्येषां तु बहुभिर् योग-साधनैर् एव भवन्ति, अस्य पुरुषस्य त्व् औत्पत्तिकाः स्वभाव-सिद्धा इति ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुंसाम् इति । बहु-मतं ब्रह्मणोऽपि घन-प्रकाशत्वाद् अत्यादरास्पदम्5पौंस्नं वपुर् दर्शयानम् इति । पुरुषस्य गर्भोद-शायिनो गुणावतार-रूपं श्री-विष्ण्व्-आख्यं यद् वपुस् तद्-अभिन्नतः स्वं वपुर् दर्शयन्तं, न तु ब्रह्मादिवद् अन्यथात्वेनेत्य् अर्थः । अनन्येत्य् अनन्येन स्वेनैव सिद्धैः स्वरूप-भूतैर् इत्य् अर्थः । अत एव औत्पत्तिकैः, तद्वद् एवानादि-सिद्धैर् इत्य् अर्थः । अणिमाद्य्-अष्टैश्वर्य-युतम् विशिष्टं, न तूपलक्षितम् । अनेन तेषां स्तुत्य्-आस्पद-विशेषणत्वेन ऐश्वर्योपलक्षित-समस्त-भगानां तादृशत्वं व्यञ्जितम् ॥४५॥ [भगवत्-सन्दर्भ ७९.९]6

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु मुमुक्षूणाम् अपि शुद्ध-भक्त्य्-अभावात् तन्-माधुर्यम् अजिघृक्षूणाम् अपि तद्-ध्यानं विना न मुक्तिर् इत्य् आह—पुंसाम् इति । गतिं मुक्तिं योग-मार्गैर् अष्टाङ्ग-योगैर् बहु-मतं ध्यानास्पदम् इति स-विशेष-रूपस्यावश्य-ध्येयत्वे नारायण-स्वरूपम् एव बहूनां सम्मतम् इत्य् अर्थः । पौंस्नं पुरुष-सम्बन्धि वपुर्दर्शयन्तम् इति मोहिन्य्-आदि-वपुर् अन्तरम् अपि तस्य भगवच्-छब्द-वाच्यं बहुतरम् अस्तीति ध्वनितम् । अनन्येन स्वेनैव सिद्धैः स्वरूप-भूतैर् इत्य् अर्थः । अत एव औत्पत्तिकैर् नित्यैर् अष्टभिः शब्द-स्पर्श-रूप-रस-गन्ध-कृपा-कर्मैश्वर्यैर् भोगैः, नाना-विध-भक्तैर् भक्त्या भुज्यमानत्वाद् आस्वाद्यमानत्वाद् भोगैः । तत्र शब्दादीनि सौस्वर्य-सौकुमार्य-सौन्दर्य-माधुर्य-सौरभ्य-वात्सल्य-लीला-शब्द-वाच्यानि सप्त माधुर्याणि भक्तानां प्रेमाकार-षड्-इन्द्रिय-भोग्यानि अष्टमं भगवच्-छब्द-वाच्यम् ऐश्वर्य-षट्कं भक्तैर् मुमुक्षुभिर् मुक्तैश् च यथा-शक्ति स्वाद्यत इति ज्ञेयम् ।

अष्ट-भोगैर् अणिमाद्य्-अष्टैश्वर्यैर् इति [वा] ॥४५॥

———————————————————————————————————————

॥ ३.१५.४६ ॥

कुमारा ऊचुः—

योऽन्तर्-हितो हृदि गतोऽपि दुरात्मनां त्वं

सोऽद्यैव नो नयन-मूलम् अनन्त राद्धः ।

यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः

पित्रानुवर्णित-रहा भवद्-उद्भवेन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नित्यं ब्रह्म-रूपेण प्रकाशसे, न तच् चित्रम् । इदानीं तु परम-मङ्गल-विशुद्ध-सत्त्व-श्री-मूर्त्या प्रत्यक्षोऽसि । अहो भाग्यम् अस्माकम् इत्य् आहुः—हे अनन्त, यस्त्वं हृद्-गतोऽपि दुरात्मनाम् अन्तर्-हितो न स्फुरसि, स नोऽस्माकम् अन्तर्-हितो भवसि । नयन-मूलं त्व् अद्यैव राद्धः प्राप्तोऽसि । अन्तर्धानाभावे हेतुः—भवतः सकाशाद् उद्भवो यस्य तेनास्मत्-पित्रायर्हि यदा एवानुवर्णित-रहा उपदिष्ट-रहस्यः, तदैव नःकर्ण-मार्गेण गुहां बुद्धिं गतः प्राप्तोऽसीति ॥४६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद्यपि ब्रह्म-रूपेण नित्यत्वं प्रकाशसे, तथापि नो न निर्वृतिः । अतः पितुर् मुखात् श्रुत्वा द्रष्टुम् आगताः स्मः, तत्रास्माकं भाग्य-वशात् सिद्धम् एवेत्य् आह—योऽन्तर्-हित इत्य्-आदि । दुरात्मनां नोऽस्माकं ब्रह्म-निष्ठानां हृदि-गतोऽप्य् अन्तर्हित एव त्वम्। एवं-रूपेण न प्रकाशसे, सोऽद्यैव त्वं नयन-मूलं राद्धः प्राप्तः, एतावन्तं कालम् इयता भाग्येन वञ्चिताः स्म इति दुरात्मतत्त्व् निर्वेदो दर्शितः ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ श्री-भगवतस् तादृशत्वे तादृशत्व-व्यञ्जिनीं निजां मूर्तिं तेषाम् एव स्व-हार्दाभिव्यक्ति-करेण स्तुति-वाक्येन प्रमाणयति—श्री-कुमारा ऊचुर् इति ।

स्तुतिम् आह— इति पञ्चभिः । अत्र अक्षर-जुषाम् अपि [भा।पु। ३.१५.४३] इत्य् अनुसृत्य व्याख्यायते । नित्यं ब्रह्म-रूपेण प्रकाशसे न तच् चित्रम् । इदानीं तु विशुद्ध-सत्त्व-लक्सणेन स्वरूप-शक्ति-वृत्ति-विशेषेण प्रकाशितया घन-प्रकाश-पर-तत्त्वैक-रूपया मूर्त्या प्रत्यक्षोऽसि । अहो भाग्यम् अस्माकम् इत्य् आहुः—हे अनन्त ! यस् त्वं दुष्टात्मनाम् अन्तर्यामि-रूपेण हृद्-गतोऽप्य् अन्तर्हितो भवसि, न स्फुरसीत्य् अर्थः, त्वं नोऽस्माकम् अन्तर्हितो न भवसि ।

तत्र हेतुः—यर्ह्य् एवभवद्-उद्भवेन अस्माकं पित्रा अस्मभ्यम् अनुवर्णित-रहा उपदिष्ट-चतुःश्लोकी-प्रोक्त-प्रेम-भक्त्य्-आख्य-रहस्यः प्रोक्तः, तर्ह्य् एव कर्ण-विवरेण तद्-रूपतया गुहांगतोऽस्य् अन्तः स्फुरसीति नयन-मूलं त्व् अद्यैव राद्धः प्राप्तोऽसि । कृपा-वैशिष्ट्येन तर्ह्य् एव सम्यङ् नयनं प्रविष्टः, तत्राविर्भूत इत्य् अर्थः । रह इत्य् अद्-अन्तोऽपि क्वचित् । तन्-मातरो यद् अभजन् रह-रूढ-भावाः [भा।पु। १०.५५.४०] इत्य्-आदिषु दृश्यते । नाद्यैवेत्य् अत्र “सोऽद्यैवेति क्व” इति तु न टीका-सम्मतम् । “नोऽद्यैव” इति क्वचित् ॥४६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो महत्-कृपाया अपारो महिमा यतो भगवता ईदृश-साक्षात्कारानन्दम् अनुभाविताः स्म इत्य् अहो भाग्यम् अस्माकम् इत्य् आहुः—हे अनन्त ! अपार-माधुर्यैश्वर्य-सिन्धो ! यस् त्वं हृद्-गतोऽपि दुरात्मनाम् अन्तर्हित एव, त्वं न केवलम् अद्यैवनोऽस्माकं नयन-मूलं राद्धः प्राप्तोऽसि, अपि तु पूर्वम् अपि ।

ननु कदाहम् एवं दृष्ट आसम् ? तत्र सरसम् आहुः—यर्हीति । न स्मरसि भवद्-उद्भवेन पित्रा ब्रह्मणा अनुवर्णितं रहो यस्य स त्वं यदैव नोऽस्माकं कर्ण-मार्गेण गुहां गतः प्राप्तोऽसि, तदैवेति ।

अयम् अर्थः—“भो ब्रह्मानुभविनो मत्-तनया ब्रह्म-साक्षात्काराद् अपि भगवत्-साक्षात्कारः कोटी-गुणितानन्दः सोऽपि भवताम् अस्तु । स तु भगवान् नीलोत्पल-दल-श्यामलः पीणायत-चतुर्-बाहुः, कटक-केयूर-कुण्डलादि-मण्डितश् चन्द्र-वदनो वैकुण्ठे विराजमानो भक्त्या लभ्यत” इति भगवद्-भक्तस्यास्मत्-पितुः कृपाशीर्-वचनं यदैवाश्रौष्म, तदैव कारणे लब्धे तत्-फल-लब्धेर् आवश्यकत्वात् भावि किलाद्यतनम् अपि भगवद्-दर्शनं तद्-भक्त-कृपातुल्य-कालम् एव जातम् । जानन्तो वयम् आस्मेति भङ्ग्या, “हन्त भगवन् ! न त्वं स्वतन्त्रोऽस्मान् कृपयसि, किन्तु स्व-भक्ताधीन एव” इति तद्-भक्त-कृपाया माहात्म्यम् अनिर्वचनीयम् एवेति ॥४६॥

———————————————————————————————————————

॥ ३.१५.४७ ॥

तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं

सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् ।

यत् तेऽनुताप-विदितैर् दृढ-भक्ति-योगैर्

उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पित्रोपदिष्टं भवताम् अन्यादृशम् अदृश्यम् आत्म-तत्त्वम् । अहं त्व् अन्य एव स्यां, दृश्यत्वात् ? नैवम्, अस्मत्-प्रत्यभिज्ञया भेद-निरासाद् इत्य् आहुः—तम् इति । हे भगवन् ! आत्म-तत्त्वम् एव परंत्वां विदाम विद्मः, प्रत्यभिजानीमः ।

ननु निरुपाधेर् आत्म-तत्त्वस्य कथम् ईदृशम् ऐश्वर्यं स्यात् ? अत आहुः—सत्त्वेन विशुद्ध-सत्त्व-मूर्त्या । एषां भक्तानाम् । सम्यक् प्रतिक्षणं सम्प्रति रतिः प्रीतिः, तां रचयन्तम्

आत्म-तत्त्वम् एवाहुः—तेऽनुतापः कृपा, तेन विदितैर् ज्ञातैर् दृढैर्भक्ति-योगैः श्रवणादिभिर् मुनयोहृदि यद् विदुः । कीदृशाः ? उद्ग्रन्थयो निरहं-मानाः, अत एव विगत-रागाः ॥४७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वम् अधुनैव विदितोऽसीत्य् आह—तं त्वाम् इत्य्-आदि । तं तथा-विधाचिन्त्य-महिमानं त्वां सम्प्रति विदामः । अधुनैव जानीमः । ब्रह्मानन्दाद् अपि परम-चमत्कारानन्दवान् असीति जानीम इत्य् अर्थः । हे भगवन् ! अचिन्त्य-शक्ते !

ननु कीदृशं मां ज्ञातवन्तः ? तत्राहुः—परमात्म-तत्त्वं परमात्मनोऽपि तत्त्वं रहस्यम् । तर्हि कथम् अहं दृश्ये ? तत्राहुः—एषां भक्तानां सत्त्वेन सात्त्विकेन भावेन सह रतिं प्रीतिं रचयन्तं जनयन्तं भक्तानुग्रहाय दृश्यमानम्, यद् इदं तव तत्त्वं तद्-भक्ता एव विदुः, अनुभवेन दृढीकृतवन्तः, अनुतापेन शान्त-रस-स्थायि-भावेन निर्वेदेन विदितैर् व्यक्तैर् दृढ-भक्ति-योगैर् उद्ग्रन्थयो मुनयो मनन-शीला विरागा विशेषेण त्वयि रागोऽनुरागो येषाम् ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भ ६८.११): ननु, पित्रोपदिष्टं भवताम् अदृश्यम् आत्म-तत्त्वाख्यं रहः, अहं त्व् अन्य एव स्यां दृश्यत्वात् । नैवम्, अस्मत्-प्रत्यभिज्ञया भेद-निरासाद् इत्य् आहुः—तं त्वाम्इति । हे भगवन्! परं केवलम् आत्म-तत्त्वं ब्रह्म-स्वरूपं त्वांविदाम विद्मः प्रत्यभिजानीमः । केन प्रत्यभिजानीथ? सम्प्रति अधुना सत्त्वेन, अस्मास्व् एतद्-रूपाविर्भावेन । एतावन्तं कालं न ज्ञातवन्तो वयं, अधुना तु साक्षाद्-अनुभवेन निश्चितवन्तः स्म इत्य् अर्थः ।7 त्वं शुद्ध-चित्त-वृत्तौ ब्रह्मवत् नेत्रेऽप्य् अस्माकं स्फुरसि, न तु दृश्यत्वेनेति भावः ।

न केवलं प्रत्यभिज्ञा-मात्रम् इत्य् आहुः—एषाम् अस्माकं रतिं रचयन्तम्, अन्यथा रतिर् अपि त्वय्य् अस्माकं नोद्भवेद् इति भावः ।

निरहं-मानादित्वेनान्येषाम् अप्य् आत्मारामाणाम् अन्यतो रत्य्-अभावम् एव द्योतयन्तस् तदात्म-तत्त्वम् आहुः, तत्रैव साधन-वैशिष्ट्यात् किम् अपि वैशिष्ट्यं चाहुः—यत् त्वद्-रूपत्वेनाविर्भवद्-आत्म-तत्त्वं तेऽनुतापः कृपा, तेनैव विदितैर् दृढ-भक्ति-योगैर् विदुः। यद् वा अनुतापो दैन्यं, तेन विदितैस् ते तव दृढ-भक्ति-योगैः ।

कीदृशाः ? उद्ग्रन्थयो निरहं-मानाः, अत एव विरागाः । तद् एवं पित्रानुवर्णित-रहा इत्य् अत्र रहः-शब्दश् चतुः-श्लोकी-रीत्या प्रेम-भक्तेर् एव वाचक इति व्यञ्जितम् ॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवानुभवेन परमतया निश्चिन्वन्ति—तं त्वाम् इति । हे भगवन् ! तं पित्रोपदिष्ट-रहस्यं त्वांपरमं भगवल्-लक्षणं यद् **आत्म-तत्त्वं,**ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति श्री-भगवद्-गीतानुसारि, शुभाश्रयः स-चितस्य सर्वगस्य तथात्मनः [वि।पु। ६.७.७५] इति श्री-विष्णु-पुराणादि-प्रसिद्धं ब्रह्मणोऽपि परमम्, तद् एव विदाम प्रत्यभिजानीमः । कथम् ? तत्राहुः—सम्प्रत्य् अधुना सत्त्वेनास्मास्व् एतद्-रूपाविर्भावेन । एतावन्तं कालं न ज्ञातवन्तो वयं, अधुना तु साक्षाद्-अनुभवेन निश्चितवन्तः स्म इत्य् अर्थः । न केवलं प्रत्यभिज्ञा-मात्रम् इत्य् आहुः—एषाम् अस्माकं ब्रह्मानुभविनाम् अपि रतिं रचयन्तम्, अन्यथा रतिर् अपि त्वय्य् अस्माकं नोद्भवेद् इति भावः ।

यद् वा, एषाम् अस्माकं ब्रह्मानुभविनाम् अपि सम्प्रति साक्षात्कार-समयेऽस्मिन् रतिं रचयन्तम् इति । अस्य परमत्वम् आत्मारामान्तरानुभवेनाभिव्यञ्जयन्ति—तं त्वाम् इति । यत् त इति विरागाः—चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठत कर्हिचित् [भा।पु। ७.१५.३५] इति तादृशत्वेन प्रसिद्धा अप्य् उद्ग्रन्थयो निरहङ्कारा अपि मुनयो यत् परमात्म-तत्त्वं तव कृपा-विदितैः, मयि भक्तिर् अस्तु ते [भा।पु। ४.३०.३२] इति पृथ्व्-आदाव् इव त्वत्-क्र्पा-मात्र-लब्धैः । अत एव दृढैः सालोक्य-सार्ष्टि [भा।पु। ३.२९.१३] इत्य्-आदि-न्यायेन निश्चलैर् भक्ति-योगैर् विदुर् इति । यथोक्तं—आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदिना ॥४७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, एतावन्तं कालं वयं ज्ञानिन एवास्म, सम्प्रति तु भक्ता अभूमेत्य् अहो भाग्यम् अस्माकम् इत्य् आहुः—तं पित्रानुवर्णित-रहस्यं त्वांसम्प्रति सत्त्वेन साधुत्वेन त्वत्-कृपयापीत्य् अर्थः । उद्भूतेन वैष्णवत्वेन हेतुना विदाम साक्षाद् अनुभवाम परमं यद् आत्म-तत्त्वं इति आत्म-तत्त्वम् अस्माकं पूर्वम् अनुभूतम् आसीद् एव, अधुना तु ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इत्य्-आदि तद्-भक्तेर् उत्कृष्टात्म-तत्त्वम् अपीत्य्-अर्थः । एषां वैकुण्ठ-वासिनां रतिं प्रेम रचयन्तम्

ननु, भो ज्ञानिनः ! भक्ति-योगेन विना ममेदं साकारं स्वरूपं नानुभूयते ? तत्राहुः—यद् उत्कृष्टात्म-तत्त्वं ते तव दृढ-भक्ति-योगैर् एव मुनयोऽस्मल्-लक्षणाः सनकादयो विदुर् जानन्ति ।

ननु, केन लक्षणेन भक्ति-योगो ज्ञातवत्यः ? तत्राहुः—अनुतापेन त्वद्-भक्ताभ्यां शाप-दानानन्तर-जातेन पश्चात्-तापेनैव विदितैर् ज्ञातैः, न हि वीत-रागा निर्विकारा मुनयो भक्तिं विनानुपन्तीति ॥४७॥

———————————————————————————————————————

॥ ३.१५.४८ ॥

नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं

किं व् अन्यद्8 अर्पित-भयं भ्रुव उन्नयैस् ते ।

येऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः

कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अतोऽनपेक्षाणाम् आनन्दोद्रेको मोक्षेच्छुभ्यः । > तेषां परिपाकतः पूर्वं ब्रह्म-दृष्ट्या मुक्ति-प्राप्तिः । > मोक्षः केवलो भक्तो मुक्ताव् अपि सुखी भवेत् ॥४८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वयम् अपि भक्तिं प्रार्थयितुं भक्तानां सुखातिशयम् आहुः—आत्यन्तिकं मोक्षाख्यम् अपि तव प्रसादं ते न गणयन्ति नाद्रियन्ते, किं तु किम् उत अन्यद् इन्द्रादि-पदम् ? ते भ्रुव उन्नयैर् उज्जृम्भैर् अर्पितं निहितं भयं यस्मिंस् तत् । ते के ? अङ्ग ! हे भगवन् ! येभवतः कथायारस-ज्ञाः । कथं-भूतस्य ? रमणीयत्वेन पावनत्वेन च कीर्तन्यं कीर्तनार्हं तीर्थं पवित्रं च यशो यस्य ॥४८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतम् एवार्थं प्रकटीकुर्वन्त आहुः—नात्यन्तिकम् इत्य्-आदि । अति अतिशयोऽन्तो देह-द्वय-ध्वंस-रूपा नाशो वपुषोऽत्यन्तः अपुनर्-भवः, तेन दीव्यतीति इकण्, आत्यन्तिकं प्रसादं कैवल्यं न विगणयन्ति, अस्तु तावत् प्रार्थ्यम्, किम् अन्यद् इन्द्रादि-पदम् । तत् कीदृशम् ? ते तव भ्रुव उन्नयैर् उत्क्षेपैः काल-चेष्टितैर् अर्पित-भयम्। ते के ? इत्य् आहुः—येऽङ्गेत्य्-आदि । रसज्ञा इति रसज्ञत्वेनैव मोक्षाभिलाषं दूरीकुर्वन्ति ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ पूर्वम् अभेद-मतयोऽपि सम्प्रति स्वरूपानन्द-शक्ति-विलासैर् विचित्रित-मतयो भूयोऽपि भेदात्मिकां भक्तिम् एव प्रार्थयितुं भक्तानां सुखातिशयम् आहुः—नात्यन्तिकं ति । आत्यन्तिकं मोक्ष-लक्षणं प्रसादम् अपि, किम् उतान्यद् इन्द्रादि-पदम् ॥४८॥ [भगवत्-सन्दर्भ ७९.१२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्-साक्षात्कारस्य का कथा, त्वत्-परोक्षेऽपि त्वत्-कथा-कीर्तनानन्दोऽपि ब्रह्मानन्दाद् अधिक इत्य् आहुः—आत्यन्तिकं मोक्षाख्यं सायुज्यम् अपि ते प्रसादं त्वत्-प्रसादत्वेन न गणयन्ति नाद्रियन्ते, किम् उ किम् उत अन्यत् इन्द्रादि-पदम् । ते भ्रुव उन्नयैर् उज्जृम्भितैर् अर्पितं निहितं भयं यस्मिन् तत् । त एव के ? तत्राहुः—येऽङ्गेति । कथा-रसज्ञास् त एव कुशलाः, अन्ये अकुशलिन इत्य् अर्थः । कथायाः कीदृश्याः ? कीर्तनार्हाणि पावनत्वात् तीर्थ-रूपाणि यशांसि यस्याः । भवत इत्य् अस्य वा विशेषणम् ॥४८॥

———————————————————————————————————————

॥ ३.१५.४९ ॥

कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच्

चेतोऽलिवद् यदि नु ते पदयो रमेत ।

वाचश् च नस् तुलसिवद् यदि तेऽङ्घ्रि-शोभाः

पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यावत् परम-भक्तैस् तु भुज्यते दुःखम् उल्बणम् । > तावन् मुक्तौ सुखोद्रेकस् तत्र चेद् भक्ति-वर्धनम् ॥४९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं स्वीयापराधं द्योतयन्तो भक्तिं प्रार्थयन्ते—कामम् इति । हे भगवन् ! इतः-पूर्वम् अस्माकं वृजिनं नाभवत् । इदानीं सर्वाण्य् अपि जातानि, यतस् त्वद्-भक्तौ शप्तौ । अतस् तैः स्व-वृजिनैर् निरयेषु कामं नोऽस्माकं भवो जन्म स्तात् स्यात् । नु वितर्के । यदि तु नश् चेतस् ते पदयो रमेत, अलिर् यथा कण्टकैर् आविध्यमानोऽपि पुष्पेषु रमते, तद्वद् विघ्नान् अविगणय्य यदि रमेत । अङ्घ्रिभ्यां शोभा यासाम् । यथा च तुलसी-गुणनैर् अपेक्ष्येण त्वद्-अङ्घ्रि-संबन्धेनैव शोभते, तथा यदि नो वाचः शोभेरन् । यदि च ते गुण-गणैर् आपूर्येत, कर्ण-रन्ध्र इत्य् अल्पस्य पूरणम् एव याचक-रीत्या प्रार्थयन्ते । अयं तु गूढोऽभिप्रायः—कर्ण-रन्ध्रस्याकाशत्वाद् गुण-गणानां चामूर्तत्वान् न कदाचित् पूरणम् । अतो नित्यम् एव श्रवणं फलिष्यतीति ॥४९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवम् असभ्यम् अपि प्रसादं कुर्व् इत्य् आशयेनोपसंहरति—कामम् इत्य्-आदि द्वाभ्याम् । स्व-मतम् एवैतत् ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कामम् इति । अनेन तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [वे।सू। ४.१.१३] इति न्यायेनासम्भव-तद्-भावानां ब्रह्म-ज्ञानिनाम् अपि स्वेषां बहु-नरक-कारि-वृजिनापात-क्षमापणेन तयोर् इत्थम्भूत-गुणो हरिः [भा।पु। १.७.१०]इतिवत् सर्वाद्भुत-महत्तमत्वं सूचितम् । अहो ! निरया अपि भवेयुर् एव, न तावतापि पर्याप्तम् । तेभ्यश् च नास्माकम् अपि भयम् । अत्र तु मूलं दुष्फलं भगवत्-पराङ्-मुखी-भाव एव, स त्व् अस्माकं मा भूद् इति स-काकु प्रार्थयन्ते । नु वितर्के । यदि तु नश् चेतस् ते पदयो रमेत, तत्राप्य् अलिवद् एव केवल-तन्-माधुर्यास्वादापेक्षया, न तु ब्रह्मानुभवापेक्षया । एवं वाचश् चेत्य्-आदि ।

अत्र भक्तापराधस्य भगवता क्षमा तद्-इच्छा-मात्र-कृत-तत्-क्रोध-जननात् तेषाम् अपराधाभासत्वेनेति ज्ञेयम् । श्लोक-द्वयेऽस्मिन् कैवल्यान् नरकेऽपि त्वद्-भक्ति-मात्रं कामयमानानाम् अस्माकं तद्-अविरोधत्वात् श्रेयान् इति स्वारस्य-लब्धम् ॥४९॥ [भगवत्-सन्दर्भ ७९.१३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मद्-भक्ताः सत्यम् ईदृशा एव मोक्षं न गणयन्त्य् एव । स्वेषां सम्प्रति का निष्ठा वः शुद्ध-भक्तौ मुक्तौ वा तां स्पष्टं ब्रूथ ? व्यञ्जनयालम् इत्य् अत आहुः—नोऽस्माकं भव एव स्तात्, न तु मोक्ष इत्य् अर्थः । तत्रापि स्व-वृजिनैः स्वाशुभ-कर्मभिर् निरयेषु नारकीष्व् अपि योनिषु ।

कस् तत्राधिको लाभः ? मुक्तौ वा कः खल्व् अलाभः ? तम् आह—चेत इति । अलिर् यथा कण्टकैर् आविद्धमानोऽपि पुष्पेषु रमते, तद्वत् विघ्नान् अविगणय्य यदि रमेत इति प्रेमा व्यञ्जितः । यदीत्य् अनेन नारक्याम् अपि योनौ भक्तौ नरकम् अपि मोक्षाद् उत्तमम् इत्य् आशीस्ता-तङा लभ्यते । अङ्घ्रिभ्याम् एव शोभा यासां, ता इति । तुलसी यथा स्व-शोभाया अभावाद् अन्यत्र न तिष्ठति, अङ्घ्र्योर् एव शोभते, तथैवास्माकं वाचोऽपि त्वद्-अङ्घ्रि-रूप-गुण-नाम-वर्णन एव शोभन्तां, नान्यत्र ।

पूर्येत इति तत्रान्य-वार्ता न प्रविशत्व् इति । यद् वा, कर्ण-रन्ध्रस्य इत्य् अल्पस्य पूरणम् अतो नित्यम् एव श्रवण-कीर्तन-स्मरणानीत्य् आनन्द-त्रयं मुक्तौ नास्त्य् एव, भवे तु सम्भवेद् अपीति निकृष्टोऽपि भव एव प्रार्थितो न मोक्षः ।

एवम् एव नाथ योनि-सहस्रेषु [वि।पु। १.२०.१८]9 इति, कीटेषु पक्षिषु मृगेषु [ह।भ।वि। ८.४३६ (पाण्डव-गीतायां)]10 इत्य्-आदि-प्रार्थना निष्काम-भक्तानां स्वभाव एव । तेषाम् अनु संहितं भजनानन्दम् अननुसंहितम् अपि भव-क्षयं च कुरुते इति भगवतोऽपि स्वभावः सर्वत्र द्रष्टव्यः॥४९॥

———————————————————————————————————————

॥ ३.१५.५० ॥

प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं

तेनेश निर्वृतिम् अवापुर् अलं दृशो नः ।

तस्मा इदं भगवते नम इद् विधेम

योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्य वयं कृतार्थाः स्मेत्य् आहुः—हे पुरु-हूत ! विपुल-कीर्ते ! यद् इदं प्रादुश्चकर्थ प्रकटितवान् असि । दृशो नेत्राणि । अनात्मनाम् अजितेन्द्रियाणां दुरुदयोऽप्रकटोऽपि । इत्थं यः प्रतीतोऽसि । तस्मै तुभ्यम् इदं नमो विधेम ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापीत्थं कृतार्थत्वम् अस्माकम् अतिचित्रम् इत्य् आहुः—प्रादुर् इति । अनात्मनाम् आत्मनस् तव एकान्त-भक्ति-रहितानाम् अप्रकटोऽपि इत् इत्थं यः प्रतीतोऽसि, तस्मै तुभ्यं नम इदं विधेमेति

अत्रैतद् उक्तं भवति । एते ब्रह्म-विद्या-सिद्धानां परावर-गुरूणाम् अपि गुरवः । अत एव परमहंस-महा-मुनीनां [भा।पु। ३.१५.३७] इत्य् उक्तम् ।

तं त्वाम् अहं ज्ञान-घनं स्वभाव- > प्रध्वस्त-माया-गुण-भेद-मोहैः । > सनन्दनाद्यैर् हृदि संविभाव्यम्11 [भा।पु। ९.८.२३]

इति श्रीमद्-अंशुमद्-वाक्यादौ, इहात्म-तत्त्वं सम्यग् जगाद मुनयो यद् अचक्षतात्मन् [भा।पु। २.७.५]12 इति ब्रह्म-वाक्यादौ, तस्मै मृदित-कषायाय तमसः पारं दर्शयति भगवान् सनत्-कुमारः [छा।उ। ७.२६.२] इत्य्-आदि-श्रुतौ च तथा प्रसिद्धम् ।

आसन्नानुभवस्यैव तु सिद्धस्याणिमादिभिर् विघ्नोऽपि सम्भाव्यः, न तु सिद्धानुभवस्य,

तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः । > स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ [भा।पु। ३.२८.३८] > इति श्री-कपिल-देव-वाक्यात् ।13

अत एव तेषां प्रध्वस्त-माया-गुण-भेद-मोहानां क्रोधादिकम् अपि दुर्घट-घटना-कारिण्या श्री-भगवद्-इच्छयैव जातम् इति तैर् अपि व्याख्यातम् । तद् एवं तेषां सतत-ब्रह्मानन्द-मग्नत्वं सिद्धम् । तद् उक्तम्—अक्षर-जुषाम् अपि [भा।पु। ३.१५.४३]14 इति, योऽन्तर्हितः [भा।पु। ३.१५.४६] इत्य्-आदि च ।

श्रूयते चान्यत्र ब्रह्म-जुषाम् अविक्षिप्त-चित्तत्वम् । तथा सप्तमे श्री-नारद-वाक्यम्—

कामादिभिर् अनाविद्धं प्रशान्ताखिल-वृत्ति यत् । > चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ [भा।पु। > ७.१५.३५] इति ।

तथापि तेषां भगवद्-आनन्दाकृष्ट-चित्तत्वम् उच्यते । एवम् अन्येषाम् अप्य् आत्मारामाणां तादृशत्वं श्रूयते—स्व-सुख-निभृत-चेतास् तद्-व्युदस् तान्य् अभावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९]15 इत्य्-आदिषु ।

अथ लोक-सङ्ग्रहार्थैर् वैषा तेषां भक्ति-प्रक्रिया प्राचीन-संस्कार-वशा वा ? नैवम् । उभयत्रापि वासो यथा परिकृतं मदिरा-मदान्ध16 [भा।पु। ३.२८.३७] इतिवत् तत्रावेशासम्भवात् । दृश्यते त्व् अन्यत्रानावेशः—

मानसा मे सुता युष्मत्-पूर्वजाः सनकादयः । > चेरुर् विहायसा लोकान् लोकेषु विगत-स्पृहाः ॥ [भा।पु। ३.१५.१२] > इत्य्-अभिधानात् ।

भगवति त्व् आवेशः, परमहंस-महा-मुनीनाम् अन्वेषणीय-चरणौ [भा।पु। ३.१५.३७]17 इत्य् अत्र यादृच्छिकताविरोध्य् अन्वेषणीयत्वाभिधानात् । पञ्चमे तु, असङ्ग-निशित-ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरत-परिगुणित-गुण-गण-कथनो\ऽसि [भा।पु। ५.३.११] इत्य् अत्र गद्ये तद्-एक-निष्ठत्वम् अप्य् उक्तम् । अजित-रुचिर-लीलाकृष्ट-सार [भा।पु। १२.१२.६९] इत्य् अत्रैव च । अत्रापि तेनेश निर्वृतिम् अवापुर् अलं दृशो न [भा।पु। ३.१५.५०]18 इत्य् आदौ सुखदत्वम् अपि साक्षाद् एवोक्तम् ।

अत्र पूर्वोक्त-हेतोश् च, स्तुतौ प्रत्युतोपालम्भ-प्रसङ्गाच् च, स्नेहावलोक-कलया हृदि संस्पृशन्तं19 [भा।पु। ३.१५.३९] इति साक्षाद्-उक्तेश् च, दृशाम् एव सुखं जातम् इत्य् अनासक्तिर् एव व्यञ्जितेत्य् अपि न व्याख्येयम् । तस्माद् आत्मारामाणां रमणास्पदत्वाद् ब्रह्माख्यम् आत्म-वस्त्व् एव श्री-भगवान् । तत्रापि चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः [भा।पु। ३.१५.४३] इति श्रवणात् ततोऽपि घन-प्रकाशः । तत् तद् विचित्र-श्री-भगवद्-अङ्गोपाङ्गाद्य्-अभिनिवेश-दर्शनानन्द-वैचित्री चोपलभ्यते, सा चान्यथानुपपत्त्या स्वरूप-शक्ति-विलास-रूपैवेति ।

ननु, भवतु तेषाम् आनन्दाधिक्यात् तस्मिन् निर्विशेष-स्वरूपानन्दस्यैव घन-प्रकाशता, उपाधि-वैशिष्ट्यात् । यतः, विशुद्ध-सत्त्व-सम्भावितायां चित्त-वृत्तौ यद् ब्रह्म स्फुरति, तद् एव घनीभूताखण्ड-विशुद्ध-सत्त्व-मये भगवति स्फुरत् तद्-अध्यस्ततया तद्-ऐक्यम् आपन्नायां तस्यां विशेषत एव स्फुरति । अत एव श्री-विग्रहादि-पर-ब्रह्मणोर् अभेद-वाक्यम् अपि तद्-अत्यन्त-तादात्म्यापेक्षयैव । अत एव तत्र तत्रोपाधाव् एक एव निर्भेद-परमानन्दः समुपलभ्यते, न तु विशेषाकार-गन्धोऽपि, तत्-तद्-उपाधेर् अपेक्षणं तु प्रतिपद-तद्-आनन्द-समाधि-गत-कौतुक-निबन्धनम् । तस्मात् कथम् अनेन प्रमाणेन तत्-तद्-उपाधीनाम् अपि पर-तत्त्वाकारत्वं साध्यते ? इति चेत्, उच्यते—

भवन्-मते तावद् यच् छुद्ध-चित्त-वृत्तौ पर-ब्रह्म स्फुरति, तत् सम्यग् एव स्फुरति । भेदांश-लेश-परित्यागेनैव ब्रह्म-विद्यात्वाङ्गीकारात् । असम्यग्-ज्ञानस्य तत्त्वानङ्गीकारात् तेन कैवल्यासम्भवाच् च । अतो न श्री-विग्रहादाव् अधिकाविर्भावाङ्गीकारो युज्यते । किं च, विशुद्ध-सत्त्व-मय-विग्रहा विलक्षणोपाधय इति वदतस् तव कोऽभिप्रायः ? किं तत् परिणामास् ते तत्-प्रचुरा वा ? नाद्यः, रजोऽसद्-भावेन परिणामासम्भव इति ह्य् उक्तम् । न चान्त्यः, येषु विग्रहादिषु तत्-प्राचुर्यं, ते मिश्र-सत्त्वस्य कार्य-भूता इत्य् अर्थापत्तौ, सत्त्वं विशुद्धं श्रयते भवान् स्थितौ [भा।पु। १०.२.३४] इत्य्-आदि-वचन-जाते विशुद्ध-पद-वैयर्थ्यम् इति चोक्तम् एव । अस्तु वा विमिश्रत्वं, तथापि तादृशे ब्रह्म-स्फुरण-योग्यतैव न सम्भवेत्, किं पुनर् विशेषेणेत्य् उद्देश्य-विस्मृतिश् च स्यात् । अथाखण्ड-विशुद्ध-सत्त्वाश्रयत्वेन तेऽपि तद्-रूपतयैवोच्यन्ते ।

ततश् च तेष्व् अनुभूताखण्ड-शुद्ध-सत्त्वे तस्मिन् ब्रह्मानुभवन्तीति चेत्, तद् अयुक्तं कल्पना-गौरवात्, तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यं [भा।पु। ३.१५.३८] इति साक्षाद् एव गोचरी-कृतत्वेनोक्ततया परम्परा-दृष्टत्व-प्रतिघाताच् च । तस्मात् तस्य शुद्ध-सत्त्वस्य प्राकृतत्वं तु निषिद्धम् एव । तस्मान् न ते प्राकृत-सत्त्व-परिणामाः, न वा तत्-प्रचुराः, किन्तु स्व-प्रकाशता-लक्षण-शुद्ध-सत्त्व-प्रकाशिता इति प्राक्तनम् एवोक्तं व्यक्तम् । अत एव तेषाम् उपाधित्व-निराकृतेस् तत्-तद्-अनुभवानन्द-वैचित्री च सम्पद्यते । तथैव तम् एवम् एवम्भूतम् अचक्षतेति तत्-तद्-विषय-सौन्दर्य-वर्णनं प्रस्तुतोपकारित्वात् सार्थकं स्यात् । अखण्ड-शुद्ध-सत्त्व-मयत्व-कथन-मात्रेणैवाभिप्रेत-सिद्धेः। अत एव निरीक्ष्य च न वितृप्त-दृश20 [भा।पु। ३.१५.४२] इति दृक्-सम्बन्धित्वाद् रूप-कृतैवातृप्तिर् उक्ता ।

तथैव च-शब्देनैवाक्षर-जयित्वं पदारविन्द-परिमलात्मक-वायु-लक्षणस्य तद्-विशेषस्य दर्शितम् । अन्यथोभयत्रापि ब्रह्मानन्दस्यैव निर्विशेषतयोपलभ्यमानत्वे विद्या-जुषाम् अपीत्य् उपाधि-प्रधानम् एवोच्यते, उपाधि-युगलस्यैव मिथः-स्पर्धित्व-प्राप्तेः । अनेनाक्षरानुभव-सुख-जयित्व-कथनेन वशिष्ठादीनं पुत्र-शोकादिकम् इव तद्-आवेशाभास एवायम् इत्य् अपि निरस्तम् । अत एवम् एवोक्तं श्री-स्वामिभिर् अपि—स्वरूपानन्दाद् अपि तेषां भजनानन्दाधिक्यम् आह इति ।

तस्माद् अस्ति वैचित्र्यम् अपि । अत एव तैर् अपि विचित्रतयैव प्रार्थितं—चेतोऽलिवद् यदि नु ते पदयो रमेत [भा।पु। ३.१५.४९]21 इत्य्-आदौ । अक्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेत् ? इति न्यायेन तद्-उपाध्य्-अन्तरान्वेषण-वैयर्थ्यात्, तेषाम् अतद्-अन्वेषण-कौतुकाभावाच् च ।

किं च, न तेषाम् अभेदात्मकोऽनुभवो वा दृश्यते, प्रत्युत नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः [भा।पु। ३.१५.४२], कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताद् [भा।पु। ३.१५.४९] इत्य्-आदाव् अभेदस्य तत्-प्रतियोगि-नमस्काराद्य्-उपलक्षित-भेदात्मक-भक्ति-सुखम् एव दृश्यते । तस्मान् मायिकोपाधि-निर्हीनत्वाद् धेयांशतया प्रतिभातत्वाच् च न तज्-जातीयं सुखम् अप्य् अन्य-जातीयं कर्तुं शक्नोतीति । सन्त्य् एवान्यथानुपपत्ति-सिद्धायाः स्वरूप-शक्तेर् एव विलासाः ।

अपि च—अस्तु तावज् जीवन्-मुक्त-दशायां तन्-मते विद्योपाधि-प्रतिफलितस्यैव सतो ब्रह्मणः सकाशात् श्री-भगवतो घन-प्रकाशता, सर्वोपाधि-विनिर्मुक्त-मुक्ति-दशायाम् अपि साक्षात् तादृशतास्त्य् एवेति सुव्यक्तं, नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं [भा।पु। ३.१५.४८] इत्य्-आदौ।22 तस्मान् नोपाधि-तारतम्य-चिन्ता । भवतः कथायाः [भा।पु। ३.१५.४८] इत्य् अनेन निरुपाधि-ब्रह्म-भूयाद् उपरि च वैचित्री स्फुटम् एवासौ स्वीकृता ।

तस्मात् सान्तरङ्ग-वैभवस्य भगवतः सुखैक-रूपत्वं, तद्-रूपत्वेऽपि ब्रह्मतोऽपि घन-प्रकाशत्वं, स्वरूप-शकित्-विलास-वैचित्री चेति विद्वद्-अनुभव-प्रमाणेन निर्णीतम् । तत्र, मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्त इति, यं सर्वे देवा आमनन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ।ता।उ। २.४]23 इत्य् अत्र श्रुताव् अद्वैत-वाद-गुरवोऽपि । कृष्णो मुक्तैर् इज्यते वीत-मोहैः24 इति भारते ।

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । > समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ [गीता १८.५४] > इति श्री-भगवद्-गीतोपनिषत्सु ।

मुक्तानाम् अपि भक्तिर् हि नित्यानन्द-स्वरूपिणी इति भारत-तात्पर्ये प्रमाणिता श्रुतिश् च । तथा आ-प्रायणात् तत्रापि हि दृष्टम् [वे।सू। ४.१.१२] इत्य् अत्र च मध्व-भाष्य-प्रमाणिता सौपर्ण-श्रुतिः—सर्वदैनम् उपासीत यावन्-मुक्ति मुक्ता ह्य् एनम् उपासत इति ।

अत एव श्री-प्रह्लाद-बलि-प्रभृति-महा-भागवत-सम्बन्धम् अभिप्रेत्य श्री-विष्णु-पुराणेऽप्य् उक्तं, पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते [वि।पु। २.५.७] इति ।

अत्र विशेषो श्री-भगवत्-सन्दर्भे ज्ञेयः ॥५०॥ [भगवत्-सन्दर्भ ८५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं त्वदीय-श्रवणाद्य्-आनन्द-त्रिक-लोभेन त्वत्-परोक्ष-मयो भवोऽपि प्रार्थ्यते । त्वया तु स्व-साक्षात्कारामृतम् अपि वयं त्वद्-भक्तापराधिनोऽपि पायिताः स्मेत्य् अहो ते क्षमाया एतावती सीमा । कारुण्यं त्व् अपारम् इत्य् आहुः—प्रादुर् इति । पुरु यथा स्यात् पुरुभिर् बहुभिर् भक्तैर् आहूत—“हे नारायण ! विष्णो ! गोविन्द ! कृपया दर्शनं देहि” इत्य् आहूत ! तेन स्व-भक्ताह्वानोत्थ-कृपा-परवशेनैव भवता स्वरूपम् आविष्कुर्वता वयम् अपि कृतार्थीकृता इति भावः । दृशो नेत्राणि बुद्धि-वृत्तयो वा इदं नम इति मूर्धसु धृतान् अञ्जलीन् दर्शयन्ति ।

इत् इत्थम् । यद् वा, इद् इति नम इत्य् अस्य विशेषणं श्री-चरणारविन्दं प्रतिगच्छद् इत्य् अर्थः । अनात्मनाम् आत्मा त्वं सेव्यत्वे न वर्तते येषां तेषां दुरुदयः श्लेषेण यथा त्वं दुरुदयस् ते अनात्मनः आत्म-शून्या मृतका एवेति भावः । प्रतीतः उलूकानां सूर्य इव दुर्दर्श एव निश्चित इत्य् अर्थः ।

अत्र समस्तात्माराम-मुकुट-मणीनां लब्ध-निरन्तर-ब्रह्मानुभवानां श्रुताव् अपि तस्मै मृदित-कषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार इत्य्-आदि-वाक्येषु प्रसिद्धानां सनकादीनां भक्ताव् ईदृश-प्रार्थनालिङ्गेनैव ब्रह्मानन्दाद् अपि भजनानन्दस्याधिक्येऽवगते भगवद्-रूप-नाम-गुण-परिच्छद-भक्त-धाम्नां चिद्-घनाकारत्वं स्वत एव लब्धं तथा-भूतत्वं विना भक्तेर् असिद्धेर् अग्रे च कापिलेये निर्गुणत्वं चास्या वक्ष्यते । मुक्तानाम् अपि भक्तिर् हि नित्यानन्द-स्वरूपिणी इति भारत-तात्पर्ये प्रमाणिता श्रुतिश् च । आप्रायणात् तत्रापि हि दृष्टम् इत्य् अत्र च मध्व-भाष्य-प्रमाणिता सौपर्ण-श्रुतिः । सर्वदैनम् उपासीत यावन् मुक्तिम् उक्ता ह्य् एनम् उपासत इति । अत एव प्रह्लाद-बलि-प्रभृति-महाभागवत-सम्बन्धम् अभिप्रेत्य श्री-विष्णु-पुराणे25ऽप्य् उक्तं—पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते इति ॥५०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयेऽस्मिन् पञ्चदशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां > संहितायां वैयासिक्यां तृतीय-स्कन्धे > विदुर-मैत्रेय-संवादे वैकुण्ठ-वर्णनं नाम > पञ्चदशोऽध्यायः ।

॥ ३.१५ ॥


  1. अरचनानुवादाः इति मध्व-पाठः। ↩︎

  2. को वा इति केचित्। ↩︎

  3. इत्थम्-भूत-लक्षणे तृटीया इति भगवत्-सन्दर्भे। ↩︎

  4. मद्-आदीनां भक्तानां कृते अङ्गं भजन्तं मूर्तिं प्रकटयन्तम् अस्मद्-विषयकम् अङ्गीकारं भजन्तम् इत्य् अर्थः इति भगवत्-सन्दर्भे पाठः। ↩︎

  5. अत्र “बहूनां तत्त्व-दृशां सम्मतम् इति वा” इत्य् अधिकः पात्ःओ भगवत्-सन्दर्भे। ↩︎

  6. भगवत्-सन्दर्भे अधिक-पाठः—समगृणन् सम्यग् अस्तुवन्न् इत्य् अर्थः ॥ इति। ↩︎

  7. इत्य् अस्मात् परं “ब्रह्म च श्री-विग्रहश् चायं स्व-प्रकाश-परमात्मत्वेनैव स्फुरति चित्त-वृत्तौ, ब्रह्मवत् नेत्रे स्फुरति, न तु दृश्यसे। नेत्रे च तदाधार-मात्रम् इति स्वयम् अप्य् अभेदेनैव प्रतीम इति भावः ।” इत्य् अतिरिक्त-पाठः ग-च-करलिप्योः, तथा झ-ग्रन्थेऽपि उपलभ्यते। ↩︎

  8. “किं त्व् अन्यत्” इति श्रीधरस्य पाठः, “किं वान्यत्” इति क्वचित् पाठः। दत्त-पाठस् तु गौडीयानां सम्मतः। ↩︎

  9. नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।

    तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥ ↩︎

  10. कीटेषु पक्षिषु मृगेषु सरीसृपेषु

    रक्षः-पिशाच-मनुजेष्व् अपि यत्र तत्र ।

    जातस्य मे भवतु केशव ते प्रसादात्

    त्वय्य् एव भक्तिर् अतुलाव्यभिचारिणी च ॥ ↩︎

  11. वरिअन्त्—सनन्दनाद्यैर् मुनिभिर् विभाव्यम्। लस्त् लिने कथं विमूढः परिभावयामि। ↩︎

  12. तप्तं तपो विविध-लोक-सिसृक्षया मे

    आदौ सनात् स्व-तपसः स चतुः-सनो\ऽभूत्

    प्राक्-कल्प-सम्प्लव-विनष्टम् इहात्म-तत्त्वं

    सम्यग् जगाद मुनयो यद् अचक्षतात्मन् ↩︎

  13. देहो\ऽपि दैव-वशगः खलु कर्म यावत्

    स्वारम्भकं प्रतिसमीक्षत एव सासुः

    तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः

    स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः [३.२८.३८] ↩︎

  14. तस्यारविन्द-नयनस्य पदारविन्द-

    किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः

    अन्तर्-गतः स्व-विवरेण चकार तेषां

    सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः [३.१५.४३] ↩︎

  15. स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावो

    \ऽप्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम्

    व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं

    तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतो\ऽस्मि [१२.१२.६८] ↩︎

  16. देहं च तं न चरमः स्थितम् उत्थितं वा

    सिद्धो विपश्यति यतो\ऽध्यगमत् स्वरूपम्

    दैवाद् उपेतम् अथ दैव-वशाद् अपेतं

    वासो यथा परिकृतं मदिरा-मदान्धः [३.२८.३७] ↩︎

  17. एवं तदैव भगवान् अरविन्द-नाभः

    स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः

    तस्मिन् ययौ परमहंस-महा-मुनीनाम्

    अन्वेषणीय-चरणौ चलयन् सह-श्रीः [३.१५.३७] ↩︎

  18. प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं

    तेनेश निर्वृतिम् अवापुर् अलं दृशो नः

    तस्मा इदं भगवते नम इद् विधेम

    यो\ऽनात्मनां दुरुदयो भगवान् प्रतीतः [३.१५.५०] ↩︎

  19. कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम

    स्नेहावलोक-कलया हृदि संस्पृशन्तम्

    श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्-

    चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् [३.१५.३९] ↩︎

  20. अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः

    स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम्

    मह्यं भवस्य भवतां च भजन्तम् अङ्गं

    नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः [३.१५.४२] ↩︎

  21. कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच्

    चेतो\ऽलिवद् यदि नु ते पदयो रमेत

    वाचश् च नस् तुलसिवद् यदि ते\ऽङ्घ्रि-शोभाः

    पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः [३.१५.४९] ↩︎

  22. “अत एव यः कश्चिद् अपि जल्पति—ज्ञानाकारायां प्रेमाकारायां च चित्त-वृत्तौ ब्रह्म प्रकाशते, तत्र तूत्तरस्याम् उपाधि-वैशिष्ट्यात् प्रकाश-वैशिष्ट्यम् इत्य् अत्रैव पुरुषार्थ-सारत्वं तत्र तत्रोच्यत इति तद् अपि स्वयम् एव बहिष्कृतम् ।” इत्य् अत्रेदं वाक्यं केषुचिद् भगवत्-सन्दर्भ-संस्करणेषु करलिपिषु चोपलभ्यते। ↩︎

  23. १०.८७.२१-भावार्थ-दीपिकायां धृतं सर्वज्ञस्य वचनम्। ↩︎

  24. महाभारते नोपालभ्यत। ↩︎

  25. इ चोउल्द्न्ऽत् फ़िन्द् थिस् वेर्से इन् थे वि।पु॥ ↩︎