विषयः
दिति-कश्यप-संवादः, दित्यां कश्यप-द्वारा गर्भ-स्थापनं च ।
॥ ३.१४.१ ॥
श्री-शुक उवाच—
निशम्य कौषारविणोपवर्णितां
हरेः कथां कारण-सूकरात्मनः ।
पुनः स पप्रच्छ तम् उद्यताञ्जलिर्
न चातितृप्तो विदुरो धृत-व्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्दशे निदानं तु तद्-वधे वक्तुम् उच्यते ।
सन्ध्यायां कश्यपाद् गर्भ-सम्भवः कामतो दितेः ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेनैवेति । येन स्वायम्भुवे पृथ्वी समुद्दध्रे चाक्षुषेऽपि तेनैवेत्य् अर्थः ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
चतुर्दशे दितिः सायम् अकामं चकमे मुनिम् ।
अनुतेपे च तद्-दुष्ट-पुत्राभूत् शिष्ट-नप्तृका ॥
च-कार एवार्थः ॥१॥
———————————————————————————————————————
॥ ३.१४.२ ॥
विदुर उवाच—
तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना ।
आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेनैव येन भूमिर् उद्धृता । अनुशुश्रुम त्वन्-मुखात् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेनैव येन हरिणा स्वायम्भुवे पृथ्वी उद्दध्रे, तेन च चाक्षुषीये हिरण्याक्षो हत इति व्याख्येयम् ॥२॥
———————————————————————————————————————
॥ ३.१४.३ ॥
तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया ।
दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृधो युद्धम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य चेति च-शब्दः पुनर्-अर्थे ॥३॥
———————————————————————————————————————
॥ ३.१४.४ ॥
श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् ।
ऋषे न तृप्यति मनः परं कौतूहलं हि मे ॥**
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ३.१४.५ ॥
मैत्रेय उवाच—
साधु वीर त्वया पृष्टम् अवतार-कथां हरेः ।
यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : साधुत्वे हेतुः, यद् यस्मात् त्वं हरेर् अवतार-कथां पृच्छसीति । मृत्योः पाशं विशातयति मोचयतीति तथा ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वीर ! हरेर् युद्ध-लीला-शुश्रूषोः पृष्टम् इदं साधु, यत एतत् प्रश्न-मिषेण अवतारयोर् वराह-नृसिंहयोः कथां पृच्छसि । तद्-वैर-कारणोक्तौ तयोर् उपस्थितेः अन्यान् अपि कृतार्थयितुम् इत्य् आह—मर्त्यानाम् इति ॥५॥
———————————————————————————————————————
॥ ३.१४.६ ॥
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।
मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव दर्शयति । यया कथया उत्तानपदः पुत्रो ध्रुवः । मुनिना नारदेन । अर्भक एव । यदा ध्रुवाय सुनन्दादिभिर् विमानम् आनीतं तदास्य देह-त्यागोऽपेक्षितः स्याद् इति मत्वा मृत्याव् आसन्नेऽपि देहं न तत्याज, किन्तु सोपान इव तस्य मूर्ध्नि पदं दत्त्वा विमानम् आरुह्य विष्णु-पदम् आरूढः । वक्ष्यति हि—
परीत्याभ्यर्च्य धिष्ण्याग्र्यं कृत-स्वस्त्य् अयनो द्विजैः । > इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ [भा।पु। > ४.१२.२९]इति ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यया यस्याः प्रभावेणार्भक एव सदा सन् अन्त-कालेऽपि देह-त्यागान् मृत्योर् मूर्ध्नि अङ्घ्रिम् इव कृत्व हरेः पदम् आरुरोह । किन्त्व् अर्भकत्वम् अत्र किशोरत्वं ज्ञेयम् । राजत्वे लब्धे तच्-छ्रवणं जातम् इति युक्त्या लभ्यते, राजत्व-योग्य-वयस आवश्यकापेक्षत्वात्, पुत्राद्य्-उत्पत्ति-श्रवणाच् च ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरि-कथैव जगद्-उद्धारिणीत्य् अत्र प्रमाणम् आह—यया कथया मृत्योर् मूर्ध्नीति ध्रुवस्यान्त-कालं ज्ञात्वा यदैव मृत्युर् आगतस् तदैव सुनन्दादिभिर् विमानम् आनीतम् आरोढुं ध्रुवः सोपानम् अन्वेषणे मृत्युम् अवस्थितं दृष्ट्वा भद्रम् इदं जातम् इति तस्यैव मूर्ध्नि पदं दत्त्वा स-शरीरम् अत्यक्त्वैव विमानम् आरुह्य विष्णु-पदं जगामेति ॥६॥
———————————————————————————————————————
॥ ३.१४.७ ॥
अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।
ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोः सङ्ग्रामे हेतुं वक्तुम् इतिहासं प्रस्तौति—अथेति । अनुपृच्छतां देवानां ब्रह्मणा वर्णित इतिहासो मया श्रुतः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये मया अनुपृच्छतां देवानां सम्बन्धेन ॥७॥
———————————————————————————————————————
॥ ३.१४.८-९ ॥
दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् ।
अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता ॥**
इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् ।
निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-प्रश्न-प्रस्तावाय प्रथमं हिरण्याक्ष-हिरण्यकशिपूत्पत्ति-प्रसङ्गम् आह—दितिर् इत्य्-आदिना यावद् अध्याय-परिसमाप्तिः । मरीचेः पुत्रं कश्यपम् । हृच्-छयः कामः, तेन अर्दिता । अतः सन्ध्यायाम् एव कामितवती ॥८॥ तद् अप्य् [अग्न्य्-अगारे] अग्निहोत्र-शालायम् । तत्रापि समाहितम् । अग्निर् जिह्वा यस्य । यजुषां यज्ञानां पतिं पुरुषं श्री-विष्णुम् ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : दितिर् इति युग्मकम् ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-प्रश्न-प्रस्तावाय प्रथमं हिरण्याक्ष-हिरण्यकशिपूत्पत्ति-प्रसङ्गम् आह—दितिर् इत्य्-आदिना यावद् अध्याय-परिसमाप्तिः । मरीचेः पुत्रं कश्यपम् । हृच्-छयार्दिता काम-पीडिता । अतः सन्ध्यायाम् एव तत्राप्य् अग्निहोत्र-शालायां, तत्रापि समाहितं कृत-समाधिं सन्ध्यायाम् अपि निम्लोचत्य् अर्कास्त-मय-काल एवेत्य् अर्थः । अग्निर् जिह्वा यस्य तं, यजुषां यज्ञानां पतिं विष्णुम् ॥८॥
———————————————————————————————————————
॥ ३.१४.१० ॥
दितिर् उवाच—
एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः ।
दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृपणां बहु-भाषिणीं [भा।पु। ३.१४.१६] इति वक्ष्यति, तत्र एष माम् इति द्वाभ्यां कार्पण्यं, भर्तरीति चतुर्भिश् च बहु-भाषणं वर्ण्यते । दुनोति पीडयति । विक्रम्य शौर्यम् आविर्भाव्य । रम्भां कदलीम् ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष माम् इति मुद्रित-नेत्रे पत्यौ कायिकाश् चाक्षुषाश् च अभियोगे अकिञ्चित्करा एव वाच्केष्व् अपि मध्ये शब्दोत्था अर्थोत्थाश् च व्यङ्ग्याः । परमेश्वराभिनिवेशित-बुद्धौ कश्यपेऽनावकाशं लभन्त एवेत्य् उत्तमाङ्गनानाम् अभिधायैव पुरुषे सम्भोग-प्रार्थना यद्यपि नैव स्वभावः, तद् अपि कन्दर्प-पीडयोन्मादिता दितिर् लज्जा-शङ्के निर्गिलन्तीव समाधि-भङ्गार्थम् उच्चैर् आह—एष साक्षाद् इव दृश्यमान इत्य् अर्थः । त्वत्-कृते इति यद्य् अहम् एकाकिन्य् अस्थासां, तदैष मम किम् अकरिष्यद् इति पत्यौ तस्मिन्न् एव दोषो न्यस्तः । दीनां दुनोतीति त्वं पतिः कथं मां न रक्षसीति भावः । ननु लज्जां कथं सहसैवाहासीः ? तत्राह—रम्भाम् इवेति । यदि प्राणा एव नश्यन्ति, तदा किं लज्जयेति भावः ॥१०॥
———————————————————————————————————————
॥ ३.१४.११ ॥
तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः ।
प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आयुङ्क्तां सर्वतो युनक्तु सम्यक् करोतु ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च केवलम् अहं कामातुरैव रतिं याचे, किन्तु पुत्रार्थिण्य् अपीत्य् आह—तद् इति । आयुङ्क्तां सर्वतो-भावेन करोतु ॥११॥
———————————————————————————————————————
॥ ३.१४.१२ ॥
भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः ।
पतिर् भवद्-विधो यासां प्रजया ननु जायते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भर्तरि प्राप्त-बहु-मानानां स्त्रीणां यशो लोकान् आविशते व्याप्नोति । प्रजया पुत्र-रूपेण । तज् जाया जाया भवति यद् अस्यां जायते पुनः इति श्रुतेः ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्-प्रसादाद् यशस्विनी पुत्रवती च भूयासम् इत्य् आह—भर्तरि भर्तुः सकाशाद् इत्य् अर्थः । प्राप्त-बहु-संमानानां स्त्रीणां यशो लोकान् व्याप्नोति प्रजया पुत्र-रूपेण । तज् जाया जाया भवति यद् अस्यां जायते पुनः इति श्रुतेः । यद् वा, भवद्-विधः पतिः प्रजया हेतुनैव जायते भवति, अतोऽहं प्रजावती कथं न भवेयम् इति भावः ॥१२॥
———————————————————————————————————————
॥ ३.१४.१३ ॥
पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः ।
कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नोऽस्माकं पिता नोऽस्मान् पृथग् अपृच्छत् । अयं भावः—त्रयोदशानाम् अप्य् अस्माकं त्वयि भाव-साम्ये वैषम्याचरणं तवानुचितम् इति ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स इति पदस्यावृत्त्या चतुर्थ्य्-अर्थः षष्ठ्य्-अर्थश् च योज्यः ॥१३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, विवाहात् पूर्वम् एवाहं त्वयानुरागिणीति प्रत्याख्येय-वाक्या न भवितुम् अर्हामीत्य् आह—पुरेति । नोऽस्माकं पिता नोऽस्मान् अपृच्छत् ॥१३॥
———————————————————————————————————————
॥ ३.१४.१४ ॥
स विदित्वात्मजानां नो भावं सन्तान-भावनः ।
त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नो भावम् इति लज्जया त्वन्-नामागृह्णतीनाम् अप्य् अस्माकम् इङ्गितेनैव जनान्तर-द्वारा सहसा ज्ञात्वेत्य् अर्थः । तासां दुहितॄणां मध्ये तेन त्रयोदशानां मध्ये कथम् अहम् एवापुत्रिणीति तद् वैषम्यम् इदम् अनुचितम् इति भावः ॥१४॥
———————————————————————————————————————
॥ ३.१४.१५ ॥
अथ मे कुरु कल्याणं कामं कमल-लोचन ।
आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मोघं न भवति हि । महीयसि त्वादृशे महत्तमे ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स्व-रमणार्थं सायं मत्-समाधि-भङ्गे यतमाना त्वं कथं मत्-सम-शीलेत्य् अत आह—आर्तोपसर्गणम् इति । सम्प्रत्य् अहम् आर्ता किं करोमि—नार्तः कालम् अपेक्षत इति शास्त्रं त्वं परम-दयालुर् जानास्य् एवेति भावः ॥१५॥
———————————————————————————————————————
॥ ३.१४.१६ ॥
इति तां वीर मारीचः कृपणां बहु-भाषिणीम् ।
प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृद्धानङ्गेन कश्मलं मोहो यस्यास् ताम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वीरेति । यथा भवद्-विधा धर्म-वीरास् तथा न कश्यप इति यतोऽनुनयन्न् एव प्रत्याह—न तु सकोप-कटाक्षं तर्जन्न् इति । यदि कृत्रिमम् अपि कोपम् अदर्शयिष्यत् तदा तस्याः काम-पीडापि भीत्या अन्तर् अधास्यतैवेति भावः । प्रवृद्धेति न ह्य् अनङ्ग-घूर्णिता अनुनयं सहत इति भावः ॥१६॥
———————————————————————————————————————
॥ ३.१४.१७ ॥
एष तेऽहं विधास्यामि प्रियं भीरु यद् इच्छसि ।
तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्ध्या-काल-वञ्चनाय भार्या-प्रशंसा—एष इति पञ्चभिः । यतो यस्याः सकाशात् ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष तेऽहम् इति । कश्यपस्य बहु-वाग्-विलास-रचना सायं-काल-यापनार्थम् एवेति ज्ञेयम् ॥१७॥
———————————————————————————————————————
॥ ३.१४.१८ ॥
सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् ।
व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वाश्रमान् उपादायेति । तान् अप्य् अन्नादि-दानेन कृच्छ्रतस् तारयन् स्वयं तरतीत्य् अर्थः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वाश्रमान् इति । वानप्रस्थस्यापि गृहस्थाद् एवोत्पत्तेः ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वाश्रमान् इति । चतुरोऽप्य् आश्रमान् अन्नादि-दानेन कृच्छ्रतस् तारयन् स्वयं तरतीत्य् अर्थः ॥१८॥
———————————————————————————————————————
॥ ३.१४.१९ ॥
याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि ।
यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो देहस्यार्धम् । कर्मसु द्वयोः सहाधिकारात् । यच्-छब्दानां तां त्वाम् इति तृतीय-श्लोकेन सम्बन्धः । स्व-धुरं दृष्टादृष्ट-कर्म-भारम् । विज्वरो निश्चिन्तः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यां स्त्रियम् आत्मनो देहस्य अर्धो वा एष यत् पत्नी इति श्रुतेः । स्व-धुरं दृष्टादृष्ट-कर्म-भारम् ॥१९॥
———————————————————————————————————————
॥ ३.१४.२० ॥
याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः ।
वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हेलाभिर् लीलाभिः । जयेमेति । स-भार्यस्येन्द्रियाणि प्रायेणेतस् ततो न सर्पन्तीति भावः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्ग-पतिर् इति । दस्यवः खलु दुर्गम् आश्रित्यैव जनान् लुण्ठन्ति । यस् तु दुर्ग-पतिस् तत्र कथं प्रभवन्तीत्य् अर्थः । दुर्गोऽत्र विषय-भोग एव । तत्र दैवात् पतितान् ब्रह्मचर्यादीन् एव भ्रंशन्तीति, न तु गृहस्थान्, तेषां भोग-विशेषस्य शास्त्र-विहितत्वेन दुरदृष्टानुत्पादनात् ॥२०॥
———————————————————————————————————————
॥ ३.१४.२१ ॥
न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि ।
अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् अनेकोपकार-कर्त्रीं त्वां कार्त्स्न्येनानुकर्तुं प्रत्युपकारैस् त्वत्-सदृशा भवितुं न प्रभवो न समर्थाः । ये चान्ये गुण-गृध्नवो गुण-प्रियाः, तेऽपि न समर्थाः । सम्पूर्णेनाप्य् आयुषा । वा-शब्दाज् जन्मान्तरैर् अपि न प्रभव इत्य् उक्तम् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं स्त्रियम् आश्रित्यैव गृहस्थ एव सुखेन विषयम् अपि भुङ्क्ते नरकेऽपि न पतति, न तु विरक्त इत्य् अतस् ताम् प्रसिद्धां त्वां स्त्री-जातिम् अनुकर्तुं प्रत्युपकारैस् तादृशी-भवितुं वयं पुरुष-जातयो न प्रभवः । कार्त्स्न्येन यद् आयुस् तेनापि सम्पूर्णेनाप्य् आयुषेत्य् अर्थः । वा-शब्दाज् जन्मान्तरैर् अपि ये चान्येऽतिथयः गुण-गृध्नवस् तद्-गुण-ग्राहिणः, पक्षे त्वाम् इत्य् एक-वचनेन वयम् इति बहु-वचनेन अप्य् आयुषेत्य् आदिना च परिहासः सूचितः ॥२१॥
———————————————————————————————————————
॥ ३.१४.२२ ॥
अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् ।
यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अपि त्वद्-अनुकरणम् अशक्यम् । प्रजात्यै पुत्रोत्पत्त्यै । नातिरोचन्ति न निन्दन्ति । प्रतिपालय प्रतीक्षस्व ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं यद्यपि त्वद्-अनुकरणम् अशक्यम्, स्थित्पूर्व् एतं कामं प्रजात्यै पुत्रोत्पत्त्यै करवाणि । नन्व् अलं वाग्-विलासेन काल-विलम्बस्य दुःख-सहत्वात् तूर्णं तल्प-गृहं प्रविशेति तत्राह—नातिरोचन्ति न निन्दन्ति । प्रतिपालय प्रतीक्षस्व ॥२२॥
———————————————————————————————————————
॥ ३.१४.२३ ॥
एषा घोरतमा वेला घोराणां घोर-दर्शना ।
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-निन्दाम् अगणयन्तीं भीषयन् श्री-रुद्रम् अनुवर्णयति—एषेति सप्तभिः । घोराणाम् एषा वेला । स्वयं च घोर-दर्शना ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निन्दाम् अगणयन्तीं भीषयमाणः श्री-रुद्रम् अनुवर्णयति—एषेति सप्तभिः । घोराणाम् दर्शनं यस्यां, अत एव घोरतमा । घोराणाम् इति घोर-स्वामिकेत्य् अर्थः । घोराण्य् एवाह—चरन्तीत्य् आदि ॥२३॥
———————————————————————————————————————
॥ ३.१४.२४ ॥
एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः ।
परीतो भूत-पर्षद्भिर् वृषेणाटति भूतराट् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूत-पर्षद्भिर् भूत-गणैः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतान्य् अप्य् अगणयन्ती पुनर् आह—एतस्याम् इति ॥२४॥
———————————————————————————————————————
॥ ३.१४.२५ ॥
श्मशान-चक्रानिल-धूलि-धूम्र-
विकीर्ण-विद्योत-जटा-कलापः ।
भस्मावगुण्ठामल-रुक्म-देहो
देवस् त्रिभिः पश्यति देवरस् ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि तत्-संमुखत्व-मात्रं वर्जनीयम् इति चेत्, तत्राह—श्मशाने यश् चक्रानिलो वात-मण्डली, तस्मिन् या धूलिः, तया धूम्रो विकीर्णो विक्षिप्तो विद्योतो द्युतिमाञ् जटा-कलापो यस्य । भस्मनावगुण्ठः प्रावृतोऽमलो रुक्मवद् देहो यस्य, स देवस् त्रिभिः सोमार्काग्नि-नेत्रैः पश्यतीत्य् अस्योत्तर-श्लोक-त्रयेऽप्य् अनुषङ्गः । एकस्य जामातरः परस्परं भ्रातरो व्यवह्रियन्ते । अतो मम भ्राता असौ तव देवर इति लज्जार्थम् उक्तम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु श्मशानादि-सम्बन्धः कथम् अस्मै रोचते ? यदि रोचेत तदास्माकं दुर्वृत्तम् अपि रोचेत । किं च, यदि देवर इत्य् उच्यते, तदास्मत्-सदृश एवासौ कथम् एतावद् आदर-विषयः स्यात् ? तत्राह—न यस्येति । महानुभावत्वाद् अस्मभ्यं सर्व-सम्पत्-प्रदत्वात् तस्यानादरे दोष एव स्याद् इति भावः । अत्र भुक्त-भोगाम् इति यच् चरणापविद्धाम् इति च लोक-शिक्षणाय तस्य कादाचित्कीं लीलाम् आलम्ब्य सिद्धान्तितम् ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि तत् संमुखत्व-मात्रं वर्जनीयम् इति चेत्, तत्राह—श्मशाने यश् चक्रानिलो वात-मण्डली, तत्र धूलिः, धूम्रो विकीर्णो विक्षिप्तो विद्योतो द्युतिमान् जटा-समूहो यस्य सः । भस्मना अवगुण्ठ आवरणं यस्य तथा-भूतोऽमलः स्वर्णवद् देहो यस्य स देवस् त्रिभिः । सोमार्काग्नि-नेत्रैः पश्यतीत्य् एतद्-अपराध-फलं सद्य एव स नो दास्यतीति भावः । स च तेन निःसम्बन्धो नाप्य् अपरिचितश् चेत्य् आह—देवर इति । एकस्य जामातरः परस्परं भ्रातरो व्यवह्रियन्ते । अतो मम भ्रातासौ तव देवर इति त्वं वा कथं न लज्जसे इति भावः ॥२५॥
———————————————————————————————————————
॥ ३.१४.२६ ॥
न यस्य लोके स्व-जनः परो वा
नात्यादृतो नोत कश्चिद् विगर्ह्यः ।
वयं व्रतैर् यच्-चरणापविद्धाम्
आशास्महेऽजां बत भुक्त-भोगाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तथापि महत्त्वेनादरणीयस्य स्व-जनस्य च तव स सर्वं क्षमेतैव तत्राह—यस्य स्व-जनादिर् नास्ति समत्वाद् ईश्वरस्य । ऐश्वर्यम् एवाह—येन चरणेनापविद्धां निर्माल्य-वद् दूरतस् त्यक्तां तेन भुक्त-भोगाम् अजां मायां तन्-मयीं विभूतिं महा-प्रसाद इत्य् आशास्महे । व्रतैस् तम् आराध्य ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् आर्तया मया लज्जा-भयाभ्यां जलाञ्जलिर् दत्त एव त्वयाप्य् अत्र न भेतव्यम् एव, महत्त्वेनादरणीयस्य स्वजनस्य तव सर्वम् एवासौ देवः क्षमेतैवेति, तत्राह—न यस्येति । यस्य स्वस्य स्वजनादिर् नास्ति ईश्वरत्वेन सर्वत्र साम्याद् इति भावः । ऐश्वर्यम् एवाह—येन चरणेनापविद्धां निर्माल्यवद् दूरे त्यक्तां भुक्त-भोगाम् अजां तन्-मयीं विभूतिं महा-प्रसादं वयम् आशास्महे । तत्रापि व्रतैः सकामा वयं तद्-उच्छिष्ट-विषय-भोजिन एव भवाम इत्य् अर्थः ॥२६॥
———————————————————————————————————————
॥ ३.१४.२७ ॥
यस्यानवद्याचरितं मनीषिणो
गृणन्त्य् अविद्या-पटलं बिभित्सवः ।
निरस्त-साम्यातिशयोऽपि यत् स्वयं
पिशाच-चर्याम् अचरद् गतिः सताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिषिद्ध-सुख-त्यागाद् असौ पिशाच इत्य् उपहासो न कार्य इत्य् आह द्वाभ्याम् । यस्यानवद्यं विषयासक्ति-शून्यम् आचरितम् । बिभित्सवो भेत्तुम् इच्छवः ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : समीहितं देहस्य कुत्सितत्वं दर्शयित्वा स्वात्म-निष्ठा कर्तव्येति लोक-विशेषं प्रतिशिक्षा-रूपम् ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तस्यापि दिग्-अम्बरतया सदैव स्त्रिया सह मिथुनीभूय तिष्ठतश् चिताभस्मास्थि-भूषणस्य सर्वं सच्-चरितम् अहं जानामीति तत्र हे कुमनीषिणि दिते, मत्तः सकाशात् तच्-चरितस्य तत्त्वं शृण्व् इत्य् आह—यस्य अनवद्यम् अनिन्द्यम् एव चरितं, तत् सर्वं मनीषिण एवादरेण गृणन्ति, ते संसारान् मुक्ता भवन्तीत्य् अर्थः । निरस्तेति अभगवता सहैक्यात् । यद् वा, निरस्तः साम्येन साम्य-गुणवत्त्वेन अतिशयो यस्मात् ॥२७॥
———————————————————————————————————————
॥ ३.१४.२८ ॥
हसन्ति यस्याचरितं हि दुर्भगाः
स्वात्मन् रतस्याविदुषः समीहितम् ।
यैर् वस्त्र-माल्याभरणानुलेपनैः
श्व-भोजनं स्वात्मतयोपलालितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समीहितम् अभिप्रेतं लोक-शिक्षारूपम् । अविदुषोऽविद्वांसः । यद् वा, न विद्वान् अन्यो यस्माद् इति तस्य । सर्व-ज्ञस्येत्य् अर्थः । दुर्भगान् एवाह—यैर् इति । श्व-भोजनं शुनां भोज्यं शरीरम् । स्वात्मतयायम् एवात्मेति बुद्ध्या ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये तु निन्दन्ति, ते संसारे बद्धा भवन्तीत्य् आह—हसन्तीति । दुर्भगाः न कस्याप्य् अनुकम्प्या इत्य् अर्थः । स्वात्मन् स्वस्यात्मनि श्री-कृष्णे रतस्य समीहितम् अभिप्रायम् अविदुषोऽविद्वांसः । समीहितं चेदं समीचीन-गन्ध-पुष्प-वस्त्राभरणादीनि मत्-प्रभोर् अभगवत एवार्हाणीति तस्मै दत्तान्य् अतो नाहम् उपभुञ्ज इत्य् एवं रूपम् । यैर् दुर्भगैः श्व-भोजनं शुनां भोज्यं शरीरम् स्वात्मतयायम् एवात्मेति बुद्ध्या वस्त्रादिभिर् उपलालितम् ॥२८॥
———————————————————————————————————————
॥ ३.१४.२९ ॥
ब्रह्मादयो यत्-कृत-सेतु-पाला
यत्-कारणं विश्वम् इदं च माया ।
आज्ञा-करी यस्य पिशाच-चर्या
अहो विभूम्नश् चरितं विडम्बनम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
पिशाच-चर्याम् अचरत् रुद्रो विष्ण्व्-आज्ञयैव तु ।
गर्भिणी-वध-नादार्थमहे विष्णुर् विडम्बकृत् ॥ इति वाराहे > ॥२९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो अतर्क्यं तस्याचरणम् इत्य् आह—ब्रह्मादयो येन कृतान् सेतून् स्व-स्वाधिकारान् पालयन्ति । यः कारणं यस्य, येन कृतम् इदं विश्वम् । माया च यस्याज्ञा-करी । विभूम्नः परमेश्वरस्य विडम्बनम् अतर्क्यम् इत्य् अर्थः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गुणावतारत्वेन परमेश्वराभेद-दृष्ट्याह—ब्रह्मादय इति विडम्बनं देहस्य भावि-दशानुकरणेन वैराग्य-बोधकम् इत्य् अर्थः ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र विश्वेश्वरे के वयं वराका इत्य् आह—ब्रह्मादयोऽपि यत्-कृतान् सेतून् सायं स्त्री-सङ्गं भोजन-स्वाप-त्यागादि-रूप-मर्यादाः पालयन्ति । य एव कारणं यस्य तन् माया च यस्याधीना, तस्याप्य् अहो चित्रं पिशाच-चर्या, तस्माद् विभूम्नः परमेश्वरस्य चरितं सर्वं विडम्बनम् अनुकरण-मात्रम् एव ॥२९॥
———————————————————————————————————————
॥ ३.१४.३० ॥
मैत्रेय उवाच—
सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया ।
जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भर्त्रा निरूपकेणैवं संविदिते ज्ञापितेऽपि सति । वृषलीव वेश्येव ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भर्त्रा एवं संविदिते ज्ञापितेऽपि सति । यद् वा, भर्त्रा हेतुना एवं ज्ञापिते सति वृषलीव वेश्येव ।
कामो विवेकं ग्रसति स्वीयम् अन्यैश् च दर्शितम् । > अत्र प्रमाणं ब्रह्मैव पुंसः स्त्रीषूच्यते दितिः ॥३०॥
———————————————————————————————————————
॥ ३.१४.३१ ॥
स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि ।
नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विकर्मणि निषिद्धे कर्मणि । दिष्टाय दैव-रूपायेश्वराय । उपविवेशेति मैथुनं लक्ष्यते ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिष्टाय स्वादृष्टाय । उपविवेश रेमे ॥३१॥
———————————————————————————————————————
॥ ३.१४.३२ ॥
अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः ।
ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपस्पृश्य स्नात्वा भर्ग-शब्द-वाच्यं विरजं ज्योतिर् ध्यायन् सनातनं ब्रह्म गायत्रीं प्रणवं वा जजाप ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्पृश्य स्नात्वा आचम्य जजाप प्रणवं गायत्रीं वा ॥३२॥
———————————————————————————————————————
॥ ३.१४.३३ ॥
दितिस् तु व्रीडिता तेन कर्मावद्येन भारत ।
उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् अभ्यभाषत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मावद्येन कर्म-दोषेण ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
॥ ३.१४.३४ ॥
दितिर् उवाच—
न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभोऽवधीत् ।
रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नावधीन् मा हन्त्व् इत्य् अर्थः । वध-शङ्का-बीजम् आह—रुद्र इति । अंहसम् अंहोऽपराधम् अकरवं कृतवत्य् अस्मि ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न अवधीत् मा हन्त्व् इत्य् अर्थः ॥३४॥
———————————————————————————————————————
॥ ३.१४.३५ ॥
नमो रुद्राय महते देवायोग्राय मीढुषे ।
शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुद् दुःखं तद् द्रावयतीति रुद्रस् तस्मै । उग्रायानतिलङ्घ्याय मीढुषे स-कामेषु फल-सेचन-कर्त्रे । निष्कामेषु शिवाय । वस्तुतो न्यस्त-दण्डाय । दुष्टेषु धृत-दण्डाय संहारे मन्यवे ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पश्चात्-तापवती प्रणमति । रुद्राय मां रोदयिष्यते, किं वा मम रुत् रोदनं कृपया द्रावयिष्यते दूरीकरिष्यते, यतो महते देवाय मद्-अपराधं क्षमिष्यमाणाय । किं वा, उग्राय मद्-गर्भम् इमं हनिष्यते । किं वा, मीढुषे मन्-मनोरथ-शाखिनं कृपामृतेनाभिषेक्ष्यत, यतः शिवाय निरस्त-दण्डाय । किं वा, धृत-दण्डाय मां दण्डयिष्यते, यतो मन्यवे मन्यु-स्वरूपाय ॥३५॥
———————————————————————————————————————
॥ ३.१४.३६ ॥
स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः ।
व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भामो भगिनी-भर्ता । उरुर् अनुग्रहो यस्य । व्याधस्य निर्दयस्यापि । सती-पतिर् इत्य् अनेन स्त्रीणां स्वभावं स्वयम् अपि वेत्तीति सूचयति ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं संशयानैव स्तुवाना स्व-दैन्यं दर्शयन्ती तस्माद् अभयं प्रार्थयते । भामो भगिनी-पतिः । उरुर् अनुग्रहो यस्य सः । व्याधस्य निर्दयस्यापि । सती-पतिर् इति स्त्रीणां स्वभावं स स्वयम् एव वेत्तीति सूचयति । यद् वा, सत्या अप्य् अनुरोधेन तद्-भगिनीं मां मा दण्डयत्व् इति सा सती मद्-अपराधं मार्जयत्व् इति वा भावः ॥३६॥
———————————————————————————————————————
॥ ३.१४.३७ ॥
मैत्रेय उवाच—
स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् ।
निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-सर्गस्य स्व-सन्तानस्याशिषं शुभम् । लोक्यां लोक-द्वयार्हाम् । सन्ध्यायां यो नियमः स निवृत्तो यस्य ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-सर्गस्य स्व-सन्तानस्य लोक्यां लोक-द्वयार्हाम् ॥३७॥
———————————————————————————————————————
॥ ३.१४.३८ ॥
कश्यप उवाच—
अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत ।
मन्-निदेशातिचारेण देवानां चातिहेलनात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते आत्मनश् चित्तस्याप्रायत्यादशुचित्वात् । मौहूर्तिकात् सन्ध्या-रूपात् । उत अपि मम निदेशस्याज्ञाया अति-चारेणाति-क्रमेण । देवानां रुद्रानुचराणाम् ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अप्रायत्याद् इति युग्मकम् । मुहूर्तः सन्ध्या-रूपः तद्-भवद्-दोषात् ॥३८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते तव आत्मनो मनसोऽप्रायत्याद् अपावित्र्यात् क्रूर-मनसौ । मुहूर्तः सन्ध्या-रूपो घोरस् तद्-भवाद् दोषाद् घोरौ सन्ध्याया द्वि-घटिकत्वाच् च द्वौ । मम निर्देशस्य आज्ञा-वाक्यस्य अतिचारेणातिक्रमेण च धर्म-मर्यादा-भञ्जनौ देवानां श्री-रुद्राणां हेलनाच् भगवद्-द्वेषिणौ । हे अभद्रे ! इति तवैवाभद्राणि त्वत्-पुत्रयोः सञ्चरिष्यन्तीति भावः ॥३८॥
———————————————————————————————————————
॥ ३.१४.३९ ॥
भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ ।
लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतैश् चतुर्भिर् हेतुभिर् जाठराधमौ पुत्रापसदौ । हे चण्डि कोपने ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जाठरौ तज्-जठर-भवौ अधमौ पुत्रौ एवं व्यस्तात् समस्ताच् च दोषात् लोकान् इत्यादि । हे चण्डीति मद्-धर्म-वाक्येऽपि यत् त्वया प्राचण्ड्यं कृतं, तस्येदं फलं भुङ्क्ष्वेति काम-क्रोधयोस् त्वं खनिर् एवासीति कश्यपस्यापि तस्यां कोपो व्यक्तः ॥३९॥
———————————————————————————————————————
॥ ३.१४.४० ॥
प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् ।
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हन्यमानानां सताम् ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राणिनाम् इति युग्मकम् । यदालोकान् आक्रन्दयिष्यतः तदा प्राणिनां हन्यमानानां स्त्रीणां च निगृह्यमाणानां सम्बन्धे महात्मसु कुपितेषु सत्स्व् इत्य् अन्वयः ॥४०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कियत् तयोर् आयुर् इति चेत् शृण्व् इत्य् आह—प्राणिनाम् इत्य्-आदि प्राणिष्व् इत्य् अर्थः ॥४०॥
———————————————————————————————————————
॥ ३.१४.४१ ॥
तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः ।
हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शत-पर्व-धृक् वज्र-धर इन्द्रः ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शत-पूर्व-धृक् वज्रधर इन्द्र इव ॥४१॥
———————————————————————————————————————
॥ ३.१४.४२ ॥
दितिर् उवाच—
वधं भगवता साक्षात् सुनाभोदार-बाहुना ।
आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुनाभेनोदारो बाहुर् यस्य । मह्यां मम कोपितेष्व् इत्य् उक्तत्वाच् छङ्कित-चित्ता सती प्रार्थयते, ब्राह्मणान् मा भूद् इति ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुनाभेन चक्रेण उदारो बाहुर् यस्य तेनेति तस्य तम् अतिसुन्दरं बाहुम् उन्नमन्तं पुत्रौ मे द्रक्ष्यत इति भाग्यवन्ताव् एव पुत्रौ मे भविष्यतः, तथा मरणस्यावश्यकत्वेऽपि तद्-धस्ततो मरणात् सर्व-पापेभ्यो निस्तारश् च तयोर् भावी । आशासे वाञ्छामि मह्यं माम् अपि निस्तारयितुम् इति तादृश-पुत्रयोर् माता अहम् अपि जन्म-मध्येऽप्य् अदृष्ट-भगवद्-रूपापि पुत्र-सम्बन्धेन भगवद्-दर्शिनीवाभिमंस्ये, क्रुद्धाद् विप्राद् वधं मा आशासे इति । कोपितेषु महात्मस्व् इति त्वद्-उक्त्या ब्रह्म-शापाद् एव पुत्रौ मे मरिष्यत इति शङ्कित-चित्ता व्याकुलैवाहम् आखिद्यं, सम्प्रति भगवद्-धस्ततो वधं श्रुत्वा स्थिर-चित्तैवाभूवम् इति भावः ॥४२॥
———————————————————————————————————————
॥ ३.१४.४३ ॥
न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च ।
नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नारका अपि तथा यां यां योनिम् असौ गतो भवति तत्र-स्थाश् च नानुगृह्णन्ति कृपां न कुर्वन्ति ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नानुगृह्णन्ति न निकटे गमनादिकम् अनुमन्यन्ते ॥४३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः न ब्रह्मेत्य् आदि द्वितीयार्थे षष्ठ्यौ । नारकोऽपि तथा यां यां योनिम् असौ गतो भवति । तत्रस्थाश् च नानुगृह्णन्ति ॥४३॥
———————————————————————————————————————
॥ ३.१४.४४ ॥
कश्यप उवाच—
कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् ।
भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतो योऽपराधस् तेन शोकस् ततोऽनुतापस् तेन । प्रत्यवमर्शनाद् युक्तायुक्त-विचारात् । भगवति हरौ । भवे श्री-रुद्रे । एतैः पञ्चभिः कारणैः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृतेति सार्धकम् ॥४४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृतो योऽपराधस् तेन शोकस् ततोऽनुतापस् तेन । प्रत्यवमर्शनाद् एतैः पञ्चभिः कारणैः ॥४४॥
———————————————————————————————————————
॥ ३.१४.४५ ॥
पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।
गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रस्य हिरण्यकशिपोः पुत्राणां मध्ये एकः सतां मतो भविष्यति । तम् एव वर्णयति—गास्यन्तीति सार्धैः पञ्चभिः । समं सह स-दृक्षं वा ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गास्यन्तीति सार्धत्रिकम् ॥४५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रस्य हिरण्यकशिपोः पुत्राणां मध्ये एकः सतां मतो भविष्यति । सन्त एव गास्यन्ति समं सह सदृशं वा ॥४५॥
———————————————————————————————————————
॥ ३.१४.४६ ॥
योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।
निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हीन-वर्णं हेम यथा योगैर् दाहादिभिर् उपायैः शोध्यते तथा यस्य शीलं स्वभावम् अनुवर्तितुम् अनुगन्तुं प्राप्तुं निर्वैरादिभिर् योगैर् आत्मानं भावयिष्यन्ति शोधयिष्यन्ति ।
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-यशो-गानस्य फलम् आह—योगैर् इति । अनुवर्तितुम् अनुमोदनेनानुगन्तुम् ॥४६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हीन-वर्णं हेम योगैर् दाहादिभिर् यथा शोध्यते, तथा यस्य शीलं स्वभावम् अनुवर्तितुम् अनुगन्तुं प्राप्तुं निर्वैरादिभिर् योगैर् आत्मानं भावयिष्यन्ति शोधयिष्यन्ति ।**।**४६॥
———————————————————————————————————————
॥ ३.१४.४७ ॥
यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् ।
स स्व-दृग् भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्व-प्रसादे हेतुर् यद्-आत्मकम् । स्व-दृग् आत्म-साक्षी । यस्यानन्यया भगवान् एव सत्य इत्य् एवं-भूतया दृशा तोष्यते तोषं प्राप्स्यते ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनन्यया तद्-एक-स्फूर्ति-मय्या ॥४७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य अभगवतः प्रसादाद् धेतोर् यस्मै प्रह्लादाय इदं विश्वम् एव प्रसीदति । कीदृशं सत् ? य एवात्मा अन्तर्यामी यस्य तत् अन्तर्यामि-रूपेण तथा लोकान् प्रेरयति, यथा तत्-पितृ-वैरिण इन्द्राद्या अपि प्रह्लादाय प्रसीदन्तीत्य् अर्थः । स्वीयान् भक्तान् एव प्रीत्या पश्यतीति स्वदृक् । न विद्यतेऽन्यो यस्यां तादृश्या दृशा बुद्ध्या यद्-बुद्धौ अन्यः प्रवेष्टुं न शक्नोतीत्य् अर्थः ॥४७॥
———————————————————————————————————————
॥ ३.१४.४८ ॥
स वै महा-भागवतो महात्मा
महानुभावो महतां महिष्ठः ।
प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये
निवेश्य वैकुण्ठम् इमं विहास्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुः—स वा इति । महात्मा अविच्छिन्न-दृष्टिः महानुभावो महा-प्रभावः । महताम् अपि मध्ये महिष्ठोऽतिशयेन महान् । प्रवृद्धया भक्त्यानुभाविते शोधिते चित्ते वैकुण्ठं हरिं निवेश्य देहाद्य्-अभिमानं त्यक्ष्यति ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : महा-भागवतत्वम् एव विवृणोति । महात्मेत्य् आदिना कुण्डल-मण्डिताननम् इत्य् अन्तेन ॥४८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महात्मा महा-धृतिर् महा-बुद्धिर् वा । महान्त एव स्तम्भ-स्वेदाद्याः प्रेमानुभावा यस्य सः । तत्र हेतुः—प्रवृद्धया भक्त्या अनुभाविते अनुभावं प्रापिते आशये मनसि वैकुण्ठ-स्थं वस्तु-मात्रं वा निवेश्य इमं मायिकं लोकं त्यक्ष्यति ॥४८॥
———————————————————————————————————————
॥ ३.१४.४९ ॥
अलम्पटः शील-धरो गुणाकरो
हृष्टः परर्द्ध्या व्यथितो दुःखितेषु ।
अभूत-शत्रुर् जगतः शोक-हर्ता
नैदाघिकं तापम् इवोडुराजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-भागवतत्वम् आह—अलम्पट इति । शील-धरः सु-स्वभावः । गुणानां धैर्यादीनाम् आकरो जन्म-भूमिः । परेषां समृद्ध्या हृष्टः । परेषु दुःखितेषु सत्सु । न भूतो जातः शत्रुर् यस्य । निदाघे भवं तापं चन्द्रो यथा हरत्य् एवं जगतः शोक-हर्ता भविष्यति ।**।**४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अलम्पट इति युग्मकम् ॥४९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यभक्तिं भक्त्य्-उत्थान् महा-गुणांश् चावोचम् अन्यान् अपि भक्त्य्-अनुकूलान् स्वाभाविकान् गुणान् शृण्व् इत्य् आह—अलम्पट इति । वक्तुम् अश्क्या एव गुणा इत्य् आह—गुणानाम् आकरः । परेषाम् ऋद्ध्या सम्पत्त्या परेषु दुःखितेषु सत्सु निदाघ-भवं तापं चन्द्रो यथा तथा जगतः शोक-हर्ता भविष्यति ।**।**४९॥
———————————————————————————————————————
॥ ३.१४.५० ॥
अन्तर् बहिश् चामलम् अब्ज-नेत्रं
स्व-पूरुषेच्छानुगृहीत-रूपम् ।
पौत्रस् तव श्री-ललना-ललामं
द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपरिच्छिन्न-दृष्टित्वम् आह—अन्तर् इति । स्व-पुरुषाणाम् इच्छया पुनः पुनर् गृहीतानि रूपाणि येन । श्रीर् एव ललना सुन्दरी तस्या ललामं मण्डनम् । द्रष्टा द्रक्ष्यति ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : महा-मना गम्भीर-चित्ता आसीत् । तेनापि सह वैरं भविष्यतीति दुःखस्य तेनैव तौ हनिष्येते इति सुख-जातस्य च परस्परोपमर्दात् ॥५०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तर् अन्तः-करणे ध्यानेन, बहिः साक्षान्-नेत्राभ्यां च पौत्रः प्रह्लादो द्रष्टा द्रक्ष्यति । श्रीर् एव ललना कान्ता तस्या ललामं मण्डन-रूपम् ॥५०॥
———————————————————————————————————————
॥ ३.१४.५१ ॥
मैत्रेय उवाच—
श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् ।
पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विष्णु-हस्त-वधाल् लोका भक्तस्यान्यस्य न क्वचित् ।
तथाप्य् असुर-मोहाय न विविक्तं क्वचित् क्वचित् ॥ इति स्कान्दे । > हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः ॥ इति च । > स्वतः सद्-गतयोऽन्यस्य पुत्रादेर् हेतुता भवेत् । > योग्यतानादि-भक्तिः स्याद् अयोग्यस्य कुतो गतिः ॥ इति ब्रह्म-तर्के > ॥५१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-मनाः सोत्साह-चित्ता । हरिणा सह युद्धेन मरणे पुत्रयोः कीर्तिः सद्-गतिश् च भवेद् इति ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भृशम् अमोदत । हन्त हन्त मद्-विकर्माणि सत्-कर्म-शिरोमणि-दुर्लभं फलम् ध्यास्यतीत्य् अहो मे भाग्यम् इत्य् आननन्द । महा-मनाः पुत्रयोर् मे सत्-कीर्तिः सद्-गती भविष्यत इति सोत्साह-चित्ता ॥५१॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्दशस् तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे > दिति-गर्भाधानं नाम चतुर्दशोऽध्यायः ।
॥ ३.१४ ॥