१३ वराहः

विषयः

ब्रह्मणो नासा-रन्ध्राद् आविर्भूतस्य भगवतो यज्ञ-वराहस्य संक्षिप्त-चरितम्, ऋषिभिः कृतं भगवतः स्तवनं च ।

॥ ३.१३.१ ॥

श्री-शुक उवाच—

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रयोदशे सिसृक्षायां मनोर् आकस्मिकाप्लुताम् ।

धराम् उद्धर्तुम् उद्भूतात् क्रोडाद् दैत्यानुसूदनम् ॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आदृतिर् अस्यास्तीत्य् आदृतः सादर इत्य् अर्थः । अर्श आदित्वादच् ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयोदशे मनोर् वाचा ध्यायतो ब्रह्मणो नसः ।

उद्भूय गां गतः क्रोडो गाम् उद्दध्रे द्विजैः स्तुतः ॥

आदृतिर् अस्यास्तीत्य् अर्श आद्यच् आदृतः सादर इत्य् अर्थः । यद् वा, कथयैव कर्त्र्या माम् असौ विदुरः शृणोतु, मन्-माधुर्यम् एतत् कर्तृकास्वादात् सार्थकं भवत्व् इत्य् आदृतः । यद् वा, कथायाम् आदृतः वक्तृभिः श्रोतृभिश् चेत्य् अर्थः ॥१॥

———————————————————————————————————————

॥ ३.१३.२ ॥

विदुर उवाच—

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वयम्भुवः पुत्रस् तद्-देहांशत्वात् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.३ ॥

चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम ।

ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विष्वक्सेनो हरिर् एवाश्रयो यस्य सः ।

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भः ९५): [+++]{।मर्क्}

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.४ ॥

श्रुतस्य पुंसां सुचिर-श्रमस्य

नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः ।

तत्-तद्-गुणानुश्रवणं मुकुन्द-

पादारविन्दं हृदयेषु येषाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तस्य चरितं श्रोतव्यम् इत्य् आह—सुचिरं श्रमो यस्मिंस्, तस्य पुंसां श्रुतस्याञ्जसा मुख्यत्वेनायम् एवार्थः । ईडितः स्तुतः । ननु मुकुन्द-पादारविन्दं येषां हृदयेष्व् अस्ति, तेषां भागवतानां गुणानुश्रवणम् इति यत् ॥४॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४] तेषां माहात्म्य-श्रवणम् एव परम-फलम् इति श्री-विदुरेणोक्तं तृतीय-स्कन्धे—श्रुतस्य इति । अस्यार्थः—सुचिरं श्रमो यस्मिन् तस्य पुंसां श्रुतस्य शास्त्रस्य तद्-अभ्यासस्य तद्-उत्पन्न-ज्ञानस्य वा अयम् एवार्थः । ननु निश्चितम् ईडितः स्तुतः को\ऽसौ ? मुकुन्द-पादारविन्दं येषां हृदयेष्व् अस्ति, तेषां तेषां भागवतानाम्, यद् वा, येषां हृदयेष्व् अस्ति, तेषां तस्य मुकुन्द-पादारविन्द-हृदय-रूपस्यानिर्वचनीयस्य वा गुणस्य माहात्म्यस्य स्वभावस्य वा अनुश्रवणं वारं वारं श्रवणम् इति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : [वैष्णव]{।मर्क्}-कथा-श्रवणं विना विदुषाम् अपि विद्या विफला भवतीत्य् आह—सुचिरं श्रमो यस्मिन्, तस्य गुरु-मुखात् श्रुतस्य शास्त्राद्य्-अध्ययनस्येत्य् अर्थः । अयम् एवार्थः प्रयोजनम् । ईडितः स्तुतः तद्-अन्यस् तु निन्दित इत्य् अर्थः । स च कः ? येषां येषां हृदयेषु कृष्ण-पाद-पद्मं वर्तते, तेषां तेषां गुणानुश्रवण-कीर्तनादीत्य् अर्थः ॥४॥

———————————————————————————————————————

॥ ३.१३.५ ॥

श्री-शुक उवाच—

इति ब्रुवाणं विदुरं विनीतं

सहस्र-शीर्ष्णश् चरणोपधानम् ।

प्रहृष्ट-रोमा भगवत्-कथायां

प्रणीयमानो मुनिर् अभ्यचष्ट ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्र-शीर्षा श्री-कृष्णस् तच्-चरणाव् उपधीयेते यस्मिन्, श्री-कृष्णः प्रीत्या यस्योत्सङ्गे चरणौ प्रसारयतीत्य् अर्थः । तम् अभ्यचष्ट अभ्यभाष्त । मुनिर् मैत्रेयः । प्रणीयमानस् तेन प्रवर्त्यमानः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सहस्राणाम् अनन्त-सङ्ख्यानां शीर्ष्णः श्रेष्ठ-रूपस्य श्री-कृष्णस्य चरणोपधानम् इति महाभारते श्री-भगवतस् तद्-गृह-भोजने प्रसिद्धम् । शीर्षस्य शीर्षंश् छन्दसि[पा। ६.१.६०] इति भगवान् पाणिनिः ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहस्र-शीर्षा विदुर-शङ्का-निवृत्त्य्-अर्थं तद्-गृहे धृत-सहस्र-शीर्ष-विग्रहः श्री-कृष्णस्य चरणयोर् उपधानम् उपबर्ह-रूपं महाभारते विदुर-गृहे भोजने भगवांस् तद्-उत्सङ्गे चरणौ निधाय सुष्वापेति प्रसिद्धेः । प्रणीयमानः तेन प्रवर्त्यमानः ॥५॥

———————————————————————————————————————

॥ ३.१३.६ ॥

मैत्रेय उवाच—

यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः ।

प्राञ्जलिः प्रणतश् चेदं वेद-गर्भम् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वेद-गर्भं ब्रह्माणम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.७ ॥

त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता ।

तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वम् एवैकः पिता सर्वेषाम् । यतो जन्म-कृद् वृत्ति-दः पोषकश् च त्वम् एव । अतस् तव यद्य् अप्य् अन्यापेक्षा नास्त्य् अथाप्य् अस्माकं ते शुश्रूषा केन कर्मणा भवेत् तद् विधेहीत्य् उत्तरेणान्वयः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.८ ॥

तद् विधेहि नमस् तुभ्यं कर्मस्व् ईड्यात्म-शक्तिषु ।

यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे ईड्य, आत्म-शक्तिष्व् अस्मच्-छक्येषु कर्मसु मध्ये केन कर्मणा भवेत् तद् विधेहि इदं कर्तव्यम् इति कथय । यत् कृत्वा यस्मिन् कृते सति । विष्वक् सर्वतः । अमुत्र पर-लोके ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् कृत्वेत्य् अत्र स्थितस्येत्य् अध्याहार्यम् ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे ईड्य, आत्म-शक्तिष्व् अस्मच्-छक्येषु कर्मसु मध्ये केन कर्मणा ते सुश्रूषा भवेत् तद् विधेहि आज्ञापयेत्य् अर्थः । यत् कृत्वा स्थितस्य ममेत्य् अध्याहार्यम् ॥८॥

———————————————————————————————————————

॥ ३.१३.९ ॥

ब्रह्मोवाच—

प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर ।

यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वां युवाभ्यां स्वस्ति भद्रं स्तात् भूयात् । यद् यतो मा मां शाध्य् अनुशिक्षयेत्य् आत्मना स्वयम् एवार्पितं निवेदितम् अतः प्रीतोऽस्मि ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्सरोऽन्य-शुभ-द्वेषः । स चात्रैकाकितया गुर्व्-आज्ञा-कर्तृषु सजातीयेषु सम्भवतीति गत-मत्सरैर् इत्य् उक्तम् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुभ्यं प्रीत इति ।“पत्ये शेते” इतिवत् सम्प्रदानम् । अतो वां युवाभ्यां स्त्री-पुंसाभ्याम् एव स्वस्ति स्तात् । तद् यतो मा मां शाध्य् अनुशिक्षयेत्य् आत्मना स्वयम् एवार्पितम् । विशेष्य-पदानुक्त्या अहंतास्पद-ममतास्पदादिकं सर्वम् एव निवेदितम् इत्य् अर्थः ॥९॥

———————————————————————————————————————

॥ ३.१३.१० ॥

एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ ।

शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपचितिः पूजा । गृह्येत आज्ञेति शेषः । सनकादयो न कुर्वन्ति वयं किम् इति करिष्याम इत्य् एवं-भूतो गतो मत्सरो येभ्यः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपचितिः सेवा गृह्येत आज्ञेति शेषः । सनकादयो न कुर्वन्ति वयं किम् इत्य् आज्ञां कुर्म इत्य् एवं-भूतो गतो मत्सरो येभ्य इति तैः ॥१०॥

———————————————————————————————————————

॥ ३.१३.११ ॥

स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः ।

उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गां शास शाधि पालयेत्य् अर्थः । पुरुषं हरिम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गां पृथ्वीं शास शाधि पालयेत्य् अर्थः ॥११॥

———————————————————————————————————————

॥ ३.१३.१२ ॥

परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप ।

भगवांस् ते प्रजा-भर्तुर् हृषीकेशोऽनुतुष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजा-पालकस्य ते तुष्टो भविष्यति ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अपार्थाय अपार्थत्वायेत्य् अर्थः । यद् आत्मा नादृतः स्वयम् इति परमात्मानादरेण स्वत एवात्मानादरात् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मम मां प्रीणयितुम् इति वा ॥१२॥

———————————————————————————————————————

॥ ३.१३.१३ ॥

येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः ।

तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उदासीनस्य भगवतोऽतोषे मे को दोषः ? तत्राह—येषाम् इति । यज्ञ-लिङ्गो यज्ञ-मूर्तिः । अपगतोऽर्थो यस्मात् । केवलं श्रमायैवेत्य् अर्थः । यद् यस्माद् आत्मैव स्वयं नादृतः । तस्मिन्न् अतुष्टे स्वार्थस्यैवासिद्धेः सर्वात्मत्वाच् च तस्य ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञैर् यजनैः अर्चन-श्रवण-कीर्तनाद्यैर् एव लिङ्ग्यते ज्ञायते इति सः । यद् यस्माद् आत्मैव नादृतः । परमात्मनादरेण स्वत एवात्मानादरात् तस्मिन्न् अतुष्टे स्वार्थस्यैवासिद्धेः ॥१३॥

———————————————————————————————————————

॥ ३.१३.१४ ॥

श्री-मनुर् उवाच—

आदेशेऽहं भगवतो वर्तेयामीव-सूदन ।

स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वर्तेय वर्तिष्ये । अमीवसूदन पाप-नाशन । अनुजानीद्यत्र स्थातव्यम् इत्य् अनुज्ञां देहि ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वर्तेय वर्तिष्ये । स्थानं वसति-स्थलम् । अनुजानीहि परामृश । अमीव-सूदन हे पाप-नाशन ॥१४॥

———————————————————————————————————————

॥ ३.१३.१५ ॥

यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महीति चेद् अत आह—यदोकः स्थानं सा मही । हे देव, अस्या देव्याः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् ओक इत्य्-आदिकं पाद्म-प्रसङ्गे ब्रह्म-कथा-सूचनवद्-वर्तमान-कल्पज-श्वेत-वराह-कथा-सूचनं ज्ञेयम् । यत्रैव स्वायम्भुव-प्रसङ्गे प्राचेतस-दक्ष-दौहित्र-हिरण्याक्ष-वध-रूपा चाक्षुष-कथापि भविष्यति । अत्र तु श्यामतयाविर्भूत इति तमाल-नीलम् इति वक्ष्यति । महाम्भसि गर्भोदके ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु पूर्व-पूर्व-कल्पे मनवः कुत्र स-प्रजा आसन्न् इति श्रवणज्ञत्वात् त्वं जानासि न वेति चेत् सत्यं जानाम्य् एवेत्य् आह—यद् ओक इति ॥१५॥

———————————————————————————————————————

॥ ३.१३.१६ ॥1

श्री-मैत्रेय उवाच—

परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् ।

कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वं पाने कृतेऽपि पुनर् अकाण्ड एवोद्भूतानाम् अपां मध्ये सन्नाम् अवसन्नां निमग्नाम् । समुन्नेष्ये उद्धरिष्यामि ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.१७ ॥

सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता ।

अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः ।

यस्याहं हृदयाद् आसं स ईशो विदधातु मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चिन्ताम् एवाह—सृजतः सतः । वर्भिर् अद्भिः । रसां रसा-तलम् । ईश्वरेण सर्गे नियुक्तैः मेऽनुष्ठेयं स एव विदधातु सम्पादयतु ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : रसां गतेति । तद्-अवकाश-पर्यन्तं मग्नेत्य् अर्थः । रसाया अपि मही-विवरत्वात् यस्येत्य् अर्धकम् । हृदयाद् आसं सङ्कल्प-मात्रात् ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रसां रसातलोपलक्षितं गर्भोदम् इत्य् अर्थः । रसातलस्य भूर्-विवरत्वात् तत्र भुवो मज्जनानुपपत्तेः । विदधात्व् इति अनुष्ठेयम् इत्य् अस्य पूर्वस्यानुषङ्गः ॥१७॥

———————————————————————————————————————

॥ ३.१३.१८ ॥

इत्य् अभिध्यायतो नासा-विवरात् सहसानघ ।

वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वराह-तोकः सूक्ष्मो वराहः । ख-स्थ आकाशे स्थितः सन् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वराह-तोको निरगाद् इति । तादृश-भावाभावान् न पुत्रत्वादि-व्यवहार इति ज्ञापितम् । अङ्गुष्ठ-परिमाणक इति क्वचित् किन्तु स्वामिभिर् अग्रे अङ्गुष्ठाग्र-प्रमाण इत्य् एव लिखिष्यते ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वराह-तोकः सूक्ष्मो वराहः ॥१८॥

———————————————————————————————————————

॥ ३.१३.१९ ॥

तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत ।

गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गज-मात्रः हस्ति-शरीर-परिमितः ॥२०॥

———————————————————————————————————————

॥ ३.१३.२० ॥

मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह ।

दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्रधा अनेकधा ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.२१ ॥

किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् ।

अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम् ॥

न कतमेन व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.२२ ॥

दृष्टोऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः ।

अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वम् अङ्गुष्ठाग्र-प्रमाणो दृष्टः । गण्ड-शिला स्थूल-पाषाणस् तत् समः । यज्ञो विष्णुः । निज-रूप-तिरो-धानेन मे मनः खेदयन् ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : खेदयन् अदृष्ट-रूपाविर्भावेन संशयैर् मनः क्षोभयन् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञः प्रथम-मन्वन्तरावतारः । खेदयन् अदृष्ट-रूपाविर्भावेन संशयैर् मनः क्षोभयन् ॥२२॥

———————————————————————————————————————

॥ ३.१३.२३ ॥

इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः ।

भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इति मीमांस-मानस्य सतः । जगर्जागर्जत् । गिरीन्द्र-तुल्यः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : जगर्ज तद्-अनुमतिं कुर्वन् हुङ्कृतवान् इव । अगेन्द्रो महान् गिरिः ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१३.२४ ॥

ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् ।

स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वेन असाधारणेन गर्जितेन ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ककुभो दिशः प्रतिस्वनयता प्रतिध्वनि-मतीः कुर्वता ॥२४॥

———————————————————————————————————————

॥ ३.१३.२५ ॥

निशम्य ते घर्घरितं स्व-खेद-

क्षयिष्णु मायामय-सूकरस्य ।

जनस्-तपः-सत्य-निवासिनस् ते

त्रिभिः पवित्रैर् मुनयोऽगृणन् स्म ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : घर्घरितं तज्-जात्य्-अनुकरण-ध्वनिम् । अनिश्चयेन यः स्व-खेदस् तस्य क्षयिष्णु क्षपयिष्णु नाशकम् । ते इति पुनर् उक्तिः प्रसिद्धि-ख्यापनार्था । त्रिभिः पवित्रैर् ऋग्-यजुः-साम-मन्त्रैर् अगृणन्न् अस्तुवन् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मायात्र कृपैव ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माया-मयस्य कृपामयस्य ज्ञानमयस्येति वा मायाया अविद्याया अपि आमयो रोगो यस्मात् तस्येति वा । घर्घरितं तज्-जात्य्-अनुकरण-ध्वनिम् । स्वेषां तद्-अनिश्चयेन पृथिव्या अनुपालम्भेन वा यः खेदस् तस्य क्षयिष्णु क्षपयिष्णु नाशकं ते ब्रह्मादयोऽगृणन् अस्तुवन्, तथा ते प्रसिद्धा जन-आदि-वासिनो भृग्व्-आदयो मुनयस् त्रिभिः पवित्रैः ऋग्-यजुः-साम-मन्त्रैर् अस्तुवन्न् इति ते इत्य् अस्य द्विः-पाठाद् व्य्कह्येयम् ॥२५॥

———————————————————————————————————————

॥ ३.१३.२६ ॥

तेषां सतां वेद-वितान-मूर्तिर्

ब्रह्मावधार्यात्म-गुणानुवादम् ।

विनद्य भूयो विबुधोदयाय

गजेन्द्र-लीलो जलम् आविवेश ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वेदैर् वितन्यते स्तूयते मूर्तिर् यस्य सः । अत एवात्मनो गुणान् अनुवदति तथा तत् तेषां ब्रह्म उच्चारितं वेदम् अवधार्य ज्ञात्वा ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेद-वितान-रूपा सर्व-वेद-मयी, न तु प्राकृती मूर्तिर् यस्य सः । वेदानां भगवन्-निःश्वास-रूपत्वात् भगवन्-निश्वासस्यैव लीलया ब्रह्म-नासा-प्रविष्टस्य शूकर-रूपत्वं ज्ञेयम् । अतस् तेषां मुनीनाम् आत्म-गुणानुवादं तन्-मुनि-कर्तृकम् आत्म-गुणानुकथनम् एव ब्रह्म वेदम् अवधार्य ज्ञात्वा ॥२६॥

———————————————————————————————————————

॥ ३.१३.२७ ॥

उत्क्षिप्त-वालः ख-चरः कठोरः

सटा विधुन्वन् खर-रोमश-त्वक् ।

खुराहताभ्रः सित-दंष्ट्र ईक्षा-

ज्योतिर् बभासे भगवान् महीध्रः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं-भूतः सन्न् आविवेश ? इत्य् अपेक्षायाम् आह द्वाभ्याम् । उच्चैः क्षिप्तो वालः पुच्छं येन । ख-चर आकाश-चारी । कथोरः कठिनः । सटाः स्कन्ध-वालान् । खराणि तीक्ष्णानि रोमाणि यस्याः सा त्वग्यस्य । खुरैर् आहतान्य् अभ्राणि येन । सित-दंष्ट्रोऽति-शुक्ल-दंष्ट्रः । ईक्षा निरीक्षणम् एव ज्योतिर् आलोको यस्य । तदा प्रकाशान्तराभावात् । बभासेऽशोभत । मही-ध्रः पृथिव्या उद्धर्ता ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : खराणि रोमाणि सन्ति यस्याः सा त्वक् यस्य ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जलं प्रविशतस् तस्य ध्यानम् आह—उच्चैः क्षिप्तो वालः पुच्छं येन सः । खचर इति ब्रह्म-लोकाद् आकाश-मार्गेणैव त्रिलोक्याम् अवततारेत्य् अर्थः । खर-रोम-युक्ता त्वग् यस्य सः । ईक्षैव ज्योतिषी चन्द्र-सूर्याव् इव यस्य सः । महीध्रः पृथिव्या उद्धर्ता पर्वत-तुल्यो वा ॥२७॥

———————————————————————————————————————

॥ ३.१३.२८ ॥

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्

क्रोडापदेशः स्वयम् अध्वराङ्गः ।

कराल-दंष्ट्रोऽप्य् अकराल-दृग्भ्याम्

उद्वीक्ष्य विप्रान् गृणतोऽविशत् कम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रोडापदेशो वराह-च्छड्मा । अतः स्वयम् अध्वराङ्गोऽपि पशुर् इव घ्राणेन विजिघ्रन् । गृणतः स्तोतॄन् विप्रान् उद्वीक्ष्योर्ध्वं वीक्ष्य कं जलम् आविशत् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रीडापदेशः प्राकृत-क्रोड-व्याजः । स्वयं तु अध्वराङ्गत्वाद् अप्राकृत-क्रोडाकृतिर् इत्य् अर्थः । स्वभावोऽपि क्रोडस्येव दर्शित इत्य् आह—घ्राणेनेति । आकृत्या अन्येषाम् उग्रोऽपि कृपा-दृष्ट्या भक्तानां परम-सुकोमल इत्य् आह—करालेति ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य लीलाम् आह—घ्राणेनेति । अध्वराङ्गः स्वयं वेद एव क्रोडापदेशो वराह-च्छद्मेति । स्तनापदेशं फल-युग्मम् एव धत्ते मृदुः काञ्चन-वल्लिर् इवेतिवद् अपह्नुत्य्-अलङ्कारेण

क्रोडत्वस्यैव वास्तवत्वं प्रत्यायते ।

प्रकृतं यन् निषिद्ध्यान्यत् स्थाप्यते, सा त्व् अपह्नुतिर् ॥ इति लक्षणात् ।

कं जलम् ॥२८॥

———————————————————————————————————————

॥ ३.१३.२९ ॥

स वज्र-कूटाङ्ग-निपात-वेग-

विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् ।

उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश्

चुक्रोश यज्ञेश्वर पाहि मेति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदानीन्तन-समुद्र-ध्वनिम् उत्प्रेक्षते । स उदन्वान् समुद्र आर्त इव स्तनयन् शब्दं कुर्वन् भो यज्ञेश्वर, मा मां पाहि माम् अव इत्य् एवं चुक्रोश । आर्त-सादृश्यम् आह—उत्सृष्टाः प्रसारिता दीर्घा ऊर्मय एव भुजास् तैर् विशिष्टः । आर्तत्वे हेतुः, वज्र-कूटो वज्र-मयः पर्वतस् तद्वद् अङ्गं यद् भगवतस् तस्य निपात-वेगेन विशीर्णा कुक्षिर् यस्य ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदानीन्तनं समुद्र-ध्वनिम् उत्प्रेक्षते । वज्र-कूटो वज्र-मयः पर्वतस् तद्वद् अङ्गं यद् भगवतस् तस्य निपात-वेगेन विशीर्णा कुक्षिर् यस्य स उदन्वान् स्व-प्राण-त्याग-शङ्कयेवार्तुश् चुक्रोश । हे यज्ञेश्वर मा मां पाहीति चुक्रोश ॥२९॥

———————————————————————————————————————

॥ ३.१३.३० ॥

खुरैः क्षुरप्रैर् दरयंस् तद् आप

उत्पार-पारं त्रि-परू रसायाम् ।

ददर्श गां तत्र सुषुप्सुर् अग्रे

यां जीव-धानीं स्वयम् अभ्यधत्त ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा रसायां रसातले गां पृथ्वीं ददर्श । कः ? त्रि-परुः त्रीणि परूंषि सवनात्मकानि पर्वाणि यस्य । यज्ञ-मूर्तिर् इत्य् अर्थः । किं कुर्वन् ? क्षुर-प्रा आयताग्राः शरास् तत् सदृशैः खुरैर् अपो दरयन् । कथम् ? उत्पार-पारम् उत्पाराणां पार-शून्यानाम् अप्य् अपां पारम-वसानं यथा भवति तथा विदारयन् । कथं-भूतः ? अग्रे प्रलय-समये तत्र तास्व् अप्सु सुषुप्सुः शिशयिषुः सन् जीवा धीयन्ते यस्यां सर्व-जीवाधार-भूतां यां स्वयम् अभ्यधत्त आभिमुख्येन दधार । जठरे धृतवान् इत्य् अर्थः । अनेन तद् उद्धरणेऽनायासं द्योतयति ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-दंष्ट्रयेत्य् अर्धकम् । अत्र विष्णुधर्मे विशेषश् च—

पाताल-मूलेश्वर-भोग-संहतौ

विन्यस्य पादौ पृथिवीं च बिभ्रतः ।

यस्योपमानो न भभूव सोऽच्युतो

ममास्तु माङ्गल्य-विवृद्धये हरिः ॥2इति ।

अत्र तु सलिले स्व-खुराक्रान्त इति वक्ष्यति ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षुरप्रैर् अस्त्र-विशेषैर् इव खुरैस् तदा अपो जलानि दरयन् । उत्पाराणां पार-शून्यानाम् अप्य् अपां पारम् अवसानं यथा स्यात् तथा दरयन् त्रीणि परूंषि सवनात्मकानि पर्वाणि यस्य, यज्ञ-मूर्तिर् इत्य् अर्थः । रसायां रसातलोपलक्षिते पाताल-तले गर्भोदे इत्य् अर्थः । अतलादीनां सप्तानाम् एव भू-विवरत्वेन पृथिवीत्वात् रसातले तस्याः स्थित्य्-असम्भवात् । यद् उक्तं विष्णु-धर्मे—

पाताल-मूलेश्वर-भोग-संहतौ

विन्यस्य पादौ पृथिवीं च बिभ्रतः ।

यस्योपमानो न भभूव सोऽच्युतो

ममास्तु माङ्गल्य-विवृद्धये हरिः ॥ इति ।

अत्रापि सलिले स्व-खुराक्रान्त इति वक्ष्यति । गां पृथ्वीं जीव-धानीं जीवा धीयन्तेऽस्याम् इति जीवधानीम् अभ्यधत्त स्वयम् एव वेद-रूपेणोद्धृतवान् इत्य् अर्थः ॥३०॥

———————————————————————————————————————

॥ ३.१३.३१-३२ ॥

स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां

स उत्थितः संरुरुचे रसायाः ।

तत्रापि दैत्यं गदयापतन्तं

सुनाभ-सन्दीपित-तीव्र-मन्युः ॥

जघान रुन्धानम् असह्य-विक्रमं

स लीलयेभं मृगराड् इवाम्भसि ।

तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो

यथा गजेन्द्रो जगतीं विभिन्दन् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ब्रह्मजस् तु हिरण्याक्षः प्रथमः दंष्ट्रया हतः ।

स एव पार्षदाविष्टो द्वितीयः कर्ण-ताडनात् ॥

पूर्वं लयोदके मग्नां द्वितीयं तेन मज्जिताम् ।

भुवम् उद्धरतैवासौ हरिणा क्रोड-मूर्तिना ॥ इति ब्रह्माण्डे ॥३२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : रसायाः सकाशाद् उत्थितः संरुरुचे सम्यग् अशोभत । तत्राप्य् अम्भसि गदाम् उद्यम्यागच्छन्तं रुन्धानं प्रतिघ्नन्तं न सह्यः सहनानर्हो विक्रमो यस्य तं दैत्यं सुनाभं चक्रं तद्वत् सन्दीपितस् तीव्रो मन्युर् यस्य । यद् वा, मयि विद्यमाने किम् इति परिभवं सहस इति सुनाभेन सन्दीपितस् तीव्र-मन्युः स भगवान् सिंहो गजम् इव लीलया जघानेत्य् उत्तरेणान्वयः ॥३१॥ गजेन्द्रो जगतीं क्रीडया विदारयन् गैरिकया यथा अरुण-गण्ड-तुण्डो भवति तथा तस्य रक्तम् एव पङ्कस् तेनाङ्कितौ गण्डौ तुण्डं च यस्य सः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रापीति सार्धकं तादृश-सम्प्लवाम्भस्य् अपीत्य् अर्थः । अपिर् अत्र विस्मये । सम्प्लवादि-साधारण्ये नैवाभेदोक्तिर् इयम् । वस्तुतस् तु चाक्षुषान्तर-सम्प्लवे एवायं प्रसङ्गः । अत एव स्वायम्भुवादि-सम्प्लवे त्रिलोकी-गतानाम् अनुत्पत्तेर् महर्-लोक-स्थानां च पालनाय जनस्-तपः-सत्य-निवासिभिर् एव स्तुतं चाक्षुष-सम्प्लवान्त-हिरण्याक्ष-दिग्-विजये तु सर्गिणां स्थितिश् चिरन्तन्य् एव स्पष्टा । अथवा तत्रैव वराहावतारेऽपीति कदाचिद् अपीत्य् अर्थः । मृगराड्-आदि-दृष्टान्तस् तत्-पराक्रमाद्य्-अनुभव-सोपान-मात्रम् ॥३१-३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि तादृश-सम्प्लवाम्भस्य् अपीति । अपि विस्मये । दैत्यं हिरण्याक्षं जघान । आदि-दैत्यम् इति च पाठः । कीदृशम् ? गदया सह आपतन्तम् । स कीदृशः ? सुनाभेन चक्रेण सन्दीपितः । मयि वर्तमानेऽपि त्वां प्रत्ययं गदामुद् यच्छतीत्य् उद्दीप्तीकृतो मन्युर् यस्य सः । रुन्धानं रोद्धुं चतुर्-दिक्षु भ्रम꣡अं तं घ्न꣡अं श्री-वराहम् उपमिमीते गजेन्द्रस् त्रिकूट-पर्वत-स्थः । सिंह-शरभादीनाम् अपि हन्ता जगतीं तत्रत्यां पृथिवीं क्रीडया विदारयन् गैरिकया अरुण-गण्ड-तुण्डो भवति तथा । जगती जगति-च्छन्दो-विशेषेऽपि क्षिताव् अपि इत्य् अमरः ॥३१-३२॥

———————————————————————————————————————

॥ ३.१३.३३ ॥

तमाल-नीलं सित-दन्त-कोट्या

क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग ।

प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्

विरिञ्चि-मुख्या उपतस्थुर् ईशम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

व्यत्यासेनापि चोच्यन्ते अविवेकेन कुत्रचित् ।

दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचित् ॥ इति स्कान्दे ।

अविवेकेनेत्य् अस्य विविच्य नोच्यते इत्य् अर्थः । न तु कर्तुर् अविवेकः । सर्वज्ञस्य कुतोऽज्ञानं व्यासस्योदार-कर्मणः । दुष्टानां मोहनार्थाय इति ॥३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रज्ञाय आलक्ष्य । अनुवाको वैदिकं सूक्तं तत् सदृशैर् वाक्यैस् तुष्टुवुः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र श्वेत-वराह-कल्पे स्वायम्भुव-मन्वन्तरारम्भे ब्रह्म-नासात एव श्वेत-वराह आविर्भूय केवलं पृथ्वीम् उद्धृत्यैवान्तरधात् ततः षष्ठे चाक्षुष-मन्वन्तरे पुनर् आकस्मिके प्रलये जलादेर् आविर्भूय नीलो वराहः पृथ्वीम् उद्धरन् हिरण्याक्षं जघानेति वराह-द्वय-लीलाम् एकीकृत्वैवात्र मैत्रेयः प्राह स्मेति श्री-भागवत्मृत-कारिकाभ्योऽवगन्तव्यम् । ताश् च, यथा—

द्विर् आविरासीत्3 कल्पेऽस्मिन्न् आद्ये स्वायम्भुवान्तरे ।
घ्राणाद् विधेर् धरोद्धृत्यै चाक्षुषीये तु नीरतः ॥१०॥

हिरण्याक्षं धरोद्धारे निहन्तुं दंष्ट्रि-पुङ्गवः ।

चतुष्पात् श्री-वराहोऽसौ नृ-वराहः क्वचिन् मतः ॥११॥

कदाचिज् जलद-श्यामः कदाचिच् चन्द्रपाण्डरः ।

यज्ञ-मूर्तिः स्थविष्ठोऽयं वर्ण-द्वय-युतः स्मृतः ॥१२॥

दक्षात् प्राचेतसात् सृष्टिः श्रूयते चाक्षुषेऽन्तरे ।

अतस् तत्रैव जन्मास्य हिरण्याक्षस्य युज्यते ॥१३॥ [ल।भा। १.३.१०-१३]

उत्तानपाद-वंश्यानां तनयस्य प्रचेतसाम् ।

दक्षस्यैव दितिः पुत्री हिरणाक्षो दितेः सुतः ॥१५॥

कल्पारम्भे तदा नास्ति सुतोत्पत्तिर् मनोर् अपि ।

क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः ॥१६॥

अतः काल-द्वयोद्भूतं श्री-वराहस्य चेष्टितम् ।

एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुरोधतः ॥१७॥

मध्ये मन्वन्तरस्यैव मुनेः शापान् मनुं प्रति ।

प्रलयोऽसौ बभूवेति पुराणे क्वचिद् ईर्यते ॥१८॥

अयम् आकस्मिको जातश् चाक्षुषस्यान्तरे मनोः ।

प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित् ॥१९॥ [ल।भा। १.३.१५-१९] इति ।

अनुवाको वैदिकः सूज्क्तं तत्-सदृशैर् वाक्यैस् तुष्टुवुः ॥३३॥

———————————————————————————————————————

॥ ३.१३.३४ ॥

ऋषय ऊचुः

जितं जितं तेऽजित यज्ञ-भावन

त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद्-रोम-गर्तेषु निलिल्युर् अद्धयस्

तस्मै नमः कारण-सूकराय ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भो अजित ! ते त्वया जितं जितम् इति सम्भ्रमे वीप्सा । यज्ञैर् भाव्यते आक्रियत इति तथा । त्रयीं वेद-मयीम् । निलिल्युर् लीन-प्रायाः । कारणं पृथिव्य्-उद्धरणं तेन सूकराय ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कारणं परं ब्रह्म तत्-स्वरूपाय शूकराय ॥३४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते त्वया जितं जितम् । हे अजित ! जय जयेत्य् अर्थः । यज्ञान् भावयसि, हे सर्व-यज्ञ-कारणेत्य् अर्थः । त्रयीं वेद-मयीम् । हे सर्व-जगत्-कारण ॥३४॥

———————————————————————————————————————

॥ ३.१३.३५ ॥

रूपं तवैतन् ननु दुष्कृतात्मनां

दुर्दर्शनं देव यद् अध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हि-रोमस्व्

आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति—रूपम् इत्य्-आदि-चतुर्भिः । छन्दांसि गायत्र्य्-आदीनि । यज्ञाङ्ग-भूत-च्छन्द-आद्य्-अनुवादेन भगवद् अवयवता विधीयते । बर्हिः-शब्दे दीर्घाभाव आर्षः । दृशि चक्षुषि । चातुर्-होत्रं होत्रादि-कर्म-चतुष्टयम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अतस् तद्-आश्रयैव सर्वा यज्ञ-प्रक्रियेत्य् आह—रूपम् इत्य्-आदि-चतुर्भिः ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति—रूपम् इत्य्-आदि-चतुर्भिः । त्वचि छन्दांसीत्य् आदौ छन्द-आदीनां तव त्वग्-आदय एव कारणम् इत्य् अर्थो ज्ञेयः । बर्हिः-शब्दे दीर्घाभाव आर्षः । चातुर्-होत्रादि-कर्म-चतुष्टयम् ॥३५॥

———————————————————————————————————————

॥ ३.१३.३६ ॥

स्रक् तुण्ड आसीत् स्रुव ईश नासयोर्

इडोदरे चमसाः कर्ण-रन्ध्रे ।

प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते

यच् चर्वणं ते भगवन्न् अग्नि-होत्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्रुक् जुहूस् तुण्डे मुखाग्रे । स्रुवो नासिकयोः । इडा भक्षण-पात्री । चमसा ग्रहाश् च सोम-पात्राणि । प्राशित्रं ब्रह्म-भाग-पात्रम् । ग्रस्यतेऽनेनेति ग्रसनं मुखान्तर्वर्ति-च्छिद्रम् । चर्वणं भक्षणम् ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

॥ ३.१३.३७ ॥

दीक्षानुजन्मोपसदः शिरो-धरं

त्वं प्रायणीयोदयनीय-दंष्ट्रः ।

जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः

सत्यावसथ्यं चितयोऽसवो हि ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दीक्षा दीक्षणीयेष्टिः । अनुजन्म वारं वारम् अभिव्यक्तिः । उपसदस् तिस्र इष्टयः । शिरो-धरं ग्रीवा । प्रायणीया दीक्षानन्तरेष्टिः । उदयनीया समाप्तीष्टिः । ते एव दंष्ट्रे यस्य । प्रवर्ग्यो महा-वीरः प्रत्युपसदं पूर्वं क्रियते । सत्यो होम-रहितोऽग्निः । आवसथ्य औपासनाग्निः । तयोर् द्वन्द्वैक्यम् । तत् तव क्रतु-रूपस्य शीर्षं शिरः । चितय इष्टका-चयनानि पञ्चासवः प्राणाः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

॥ ३.१३.३८ ॥

सोमस् तु रेतः सवनान्य् अवस्थितिः

संस्था-विभेदास् तव देव धातवः ।

सत्राणि सर्वाणि शरीर-सन्धिस्

त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रातः सवनादीन्य् अवस्थितिर् आसनं बाल्याद्य्-अवस्था वा । अग्निष्टोमोऽत्य्-अग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽति-रात्र आप्तोर्याम इति सप्त-संस्थादि-भेदास् त्वङ् मांसादि-सप्त-धातवः । सत्राणि द्वादशाहादीनि बहु-याग-सङ्घात-रूपाणि । असोमा यज्ञाः, स-सोमाः क्रतवः, तद्-रूपस् त्वम् । इष्टिर् यजनम् अनुष्ठानं तद् एव बन्धनं यस्य सः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सवनानि प्रातर्-आदि-कर्म-कालाः । अवस्थितिर् आसनम् । संस्था-विभेदा अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रम् आप्तोर्याम इति सप्त-धातवस् त्वङ्-मांसादयः । सत्राणि द्वादशाहादीनीति बहु-याग-सङ्घात-रूपाणि । यज्ञा असोमाः क्रतवः, ससोमास् तद्-रूपस् त्वम् । इष्टिर् यजनं यज्ञाङ्ग-भूता त्वद्-भक्तिः, सैव बन्धनं यस्य ॥३८॥

———————————————————————————————————————

॥ ३.१३.३९ ॥

नमो नमस् तेऽखिल-मन्त्र-देवता-

द्रव्याय सर्व-क्रतवे क्रियात्मने ।

वैराग्य-भक्त्य्-आत्म-जयानुभावित-

ज्ञानाय विद्या-गुरवे नमो नमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वोक्तम् एव स-परिकरं कीर्तयन्तः प्रणमन्ति—नमो नम इति । अखिल-मन्त्रादि-रूपाय क्रियात्मने सामान्य-व्यापार-रूपाय । किं च, वैराग्य-यूक्त-कर्म-साध्या सत्त्व-शुद्धिस् ततो भक्तिस् तत आत्म-जयश् चित्त-स्थैर्यं, तेनानुभावितं साक्षात्-कृतं यज् ज्ञानं तस्मै । एवं-भूत-ज्ञान-प्रदाय गुरवे च ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तार्थं समासेन स्तवानाः प्रणमन्ति—नमो नम इति । क्रियात्मने यज्ञादि-व्यापार-रूपाय । यद्यप्य् एवं त्वं लीलया कर्म-मार्ग-प्रवर्तकत्वेन सर्व-कारण-मूर्तिर् असि । तद् अपि कर्म-फल-स्पृहा-रहितया भक्त्यैव तवानुभवो भवेद् इत्य् आहुः—वैराग्यं दृष्टादृष्टा-कर्म-फल-स्पृहा-राहित्यं तद्-युक्ता या भक्तिस् तयैवात्मनो मनसो जयस् तेनानुभावितं साक्षात्-कृतं ज्ञानं स्व-विषयकं येन तस्मै । अत एव विद्या-गुरवे । ददामि-बुद्धि-योगं तं येन माम् उपयान्ति ते [गीता १०.१०] इति त्वद्-उक्तस् त्वत्-प्रापकं ज्ञानं त्वम् एव दातुम् अर्हसीति भावः ॥३९॥

———————————————————————————————————————

॥ ३.१३.४० ॥

दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता

विराजते भूधर भूः स-भूधरा ।

यथा वनान् निःसरतो दता धृता

मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे भूधर । स-भूधरा स-पर्वता । वनाद् उदकान् निर्गच्छतो गजेन्द्रस्य । दता दन्तेन ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो पृथिव्या भाग्यं, यां वं धत्से इति तां वर्णयति—दंष्ट्रेति । हे भूधर ! स-भू-धरा स-पर्वता । वनात् जलात् । सपत्र-पद्मिनीति तस्याः कोरक-कुट्मलादिभिर् उच्च-नीच-पर्वता उपमिता ॥४०॥

———————————————————————————————————————

॥ ३.१३.४१ ॥

त्रयीमयं रूपम् इदं च सौकरं

भू-मण्डलेनाथ दता धृतेन ते ।

चकास्ति शृङ्गोढ-घनेन भूयसा

कुलाचलेन्द्रस्य यथैव विभ्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वया धृता भूर् विराजत इत्य् उक्तम् । इदानीं भू-मण्डलेन त्वद्-रूपं विराजत इत्य् आहुः—त्रयीति । अथेत्य् अर्थान्तरे । ते इदं रूपं दन्तेन धृतं यद् भू-मण्डलं तेन चकास्ति शोभते । शृङ्गेणोढो धृतो यो घनस् तेन । भूयसाऽतिमहता विभ्रमो विलासः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत एव त्रयी-मयम् अपि भू-मण्डल-स्थानीयेन शृङ्गोढ-घनेन कुलाचलेन्द्रस्य यथैव विभ्रमेण एव रूपं चकास्तीत्य् अर्थः ॥४१।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा त्वया स्वामिना धृता भूः शोभते, तथा भुवापि स्व-भक्तया धृतस् त्वं शोभस इत्य् आहुः—त्रयीति । कुलाचलेन्द्रस्य महा-पर्वतस्य शृङ्गेण ऊढो धृतो यो घनो मेघस् तेन विभ्रमः शोभा यथा ॥४१॥

———————————————————————————————————————

॥ ३.१३.४२ ॥

संस्थापयैनां जगतां स-तस्थुषां

लोकाय पत्नीम् असि मातरं पिता ।

विधेम चास्यै नमसा सह त्वया

यस्यां स्व-तेजोऽग्निम् इवारणाव् अधाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकाय वास-स्थानार्थम् । ते पत्नीम् । जगतां मातरम् । यतस् त्वं पितासि । एवं सति तत्र स्थिताः सन्तस् त्वया पित्रा सहास्यै मात्रे मनसा विधेम नमनं करिष्यामः, नमस्कारेण परिचरेमेति वा । स्व-तेजो-धारण-शक्तिं याज्ञिका मन्त्रतोऽग्निम् अरणाव् इवाधाः निहितवान् असि ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं युष्माकम् अभीप्सितं तद् व्रतेति चेद् अत आहुः—संस्थापयेति । लोकाय वास-स्थानार्थं ते पत्नीं जागतां मातरं यतस् त्वं पितासि । अतस् त्वया पित्रा सह अस्यै मात्रे नमसा विधेम नमस्कारं करवाम । स्व-तेजो-धारण-शक्तिं त्वम् अधाः धृतवान् असि । अरणौ अग्निं याज्ञिका यथा धारयति तथा ॥४२॥

———————————————————————————————————————

॥ ३.१३.४३ ॥

कः श्रद्दधीतान्यतमस् तव प्रभो

रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्व-विस्मये

यो माययेदं ससृजेऽतिविस्मयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं च त्वयाति-दुष्करं कृतम् इत्य् आहुः—क इति । प्रभो, तव त्वया कृतं भुव उद्विबर्हणम् उद्धरणं त्वद् अन्यः कः श्रद्दधीत स्पृहयेत् । अध्यवस्येद् इत्य् अर्थः । त्वयि पुनर् असौ विस्मयो न भवति । यतो विश्वे सर्वे विस्मया यस्मिन् । कुतः ? यो भवान् । अतिविस्मयम् अत्यद्भुतम् इदं विश्वम्, क्रिया-विशेषणं वा । ससृजे सृष्टवान् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तवेमां लीलामनैर् दुष्करां वयं गायाम इत्य् आहुः—क इति । हे विभो ! भुव उद्विवर्हणं तव त्वत्-कर्तृकं त्वत्तोऽन्यत्तमः कः श्रद्दधीत कर्तुं स्पृहयेत् अध्यवस्येद् इत्य् अर्थः ॥४३॥

———————————————————————————————————————

॥ ३.१३.४४ ॥

विधुन्वता वेद-मयं निजं वपुर्

जनस्-तपः-सत्य-निवासिनो वयम् ।

सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर्

विमृज्यमाना भृशम् ईश पाविताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मयं दर्शयन्तः प्रार्थयन्ते—विधुन्वतेति द्वाभ्याम् । सटानां शिखाभिर् अग्रैर् उद्धूता उच्छलिता ये शिवा अम्बु-बिन्दवस् तैः सिच्यमाना वयं पवित्री-कृताः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथिव्य्-उद्धरणं त्वयि न विस्मयो विस्मयः पुनर् अयम् एव यत् तन्-मिषेण महार्णवे निपतता वस्तुतस् त्व् अस्मास्व् एव कृपापरवशेन त्वया स्वाङ्ग-क्षालनामृतैर् ऊर्ध्वोर्ध्वं प्रापितैर् वयम् ऋषयः कृतार्थीकृता इत्य् आहुः—विधुन्वतेति ॥४४॥

———————————————————————————————————————

॥ ३.१३.४५ ॥

स वै बत भ्रष्ट-मतिस् तवैषते

यः कर्मणां पारम् अपार-कर्मणः ।

यद्-योगमाया-गुण-योग-मोहितं

विश्वं समस्तं भगवन् विधेहि शम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तव कर्मणां पारं य एष तेऽवलोकयति ज्ञातुम् इच्छतीत्य् अर्थः । यस्य तव योग-मायया यो गुणैः सह् योगस् तेन मोहितम् । अतो विश्वस्य शं मङ्गलं विधेहि । यथा त्वाम् अचिन्त्यानन्त-शक्तिं ज्ञात्वा भजे तथानुगृहाणेत्य् अर्थः ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स वै इति । एष ते इति भौवादिकस्य एषृ गताव् इत्य् अस्य ऋकारानुबद्धस्य रूपम् । ततो गत्य्-अर्थत्वज् जानात्य् अर्थत्वेन अवलोकयतीति व्याख्यातम् । तस्य चासम्भवाद् ज्ञातुम् इच्छतीत्य् एवार्थः ।*।*४५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तल्-लीलां कति वर्णयामो वयं सर्व-वेद-विदोऽपि तल्-लीला-सिन्धोः कणम् अपि सामस्त्येन न विद्मः, के पुनर् अन्ये वराका इत्य् आहुः—स वै इति । यस् तव कर्मणां पारम् एषते जानाति जानामीत्य् अभिमन्यत इत्य् अर्थः । एषृ गतौ भौवादिकः। ननु माया-मोहितो जीवो न जानातु नाम, मायातीतो मद्-भक्तो नारदादिर् जानात्य् एव ? इति तत्राहुः—यस्य तव योगमाया चिच्-छक्ति-वृत्ति-भेदः गुण-योगो गुण-मेलन-रूपोऽविद्या च ताभ्यां मोहितं समस्तम् अप्राकृतं प्राकृतं च विश्वं, तत्र ये अप्राकृतास् त्वद्-भक्तास् ते योग-मायया तन्-माधुर्येषु निमज्य मोह्यन्ते । ये च त्वद्-अन्ये प्राकृता जीवास् ते मायया वैषयिक-सुख-दुःखेषु मोह्यन्ते इति कस् ते कर्मणां पारं ज्ञास्यतीत्य् अर्थः । अतः शं विधेहि, यथा जानीम इति मिथ्याभिमानो न भवेद् इति भावः ॥४५॥

———————————————————————————————————————

॥ ३.१३.४६ ॥

मैत्रेय उवाच—

इत्य् उपस्थीयमानोऽसौ मुनिभिर् ब्रह्म-वादिभिः ।

सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपस्थीयमानः स्तूयमानः । स्व-खुराक्रान्त इति जलेऽपि धारण-शक्त्य्-आधानं दर्शयति । अविता रक्षकः ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्थीयमानः स्तुत्या परिचर्यमाणः । सलिले सलिलोपरि स्व-खुराक्रान्त इति जलेऽपि धारण-शक्त्य्-आधानं दर्शयति । अविता रक्षकः ॥४६॥

———————————————————————————————————————

॥ ३.१३.४७ ॥

स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययौ स्व-लोकम् इति शेषः । अन्तर्दधे इति वा ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ययौ स्व-लोकम् इति शेषः ॥४७॥

———————————————————————————————————————

॥ ३.१३.४८ ॥

य एवम् एतां हरि-मेधसो हरेः

कथां सुभद्रां कथनीय-मायिनः ।

शृण्वीत भक्त्या श्रवयेत वोशतीं

जनार्दनोऽस्याशु हृदि प्रसीदति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथनीयानि मायीनि मायावन्ति चरित्राणि यस्य । श्रवयेत श्रावयेत । ह्रस्वत्वम् आर्षम् । उशतीं कमनीयाम् । हृदि प्रसीदति स्व-मनसि सन्तुष्यतीत्य् अर्थः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं हिरण्याक्षम् इत्य्-आदि वक्ष्यति हरि-मेधसः लोक-दुःख-हर-सङ्कल्पस्य कथनीया प्रशस्या मा माया कृपा तद्-युक्तस्य । प्रशस्यत्वम् एवाह—शृण्वीतेति ॥४८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरन्ती भक्त-संसारं नाशयन्ती मेधा बुद्धिर् यस्मिन् तस्य । कथनीया वर्णनीया माया माया-शक्तिः कृपा वा स्वरूप-शक्तिर् वा तद्वतः । श्रवयेत श्रावयेत् । उशतीं कमनीयाम् ॥४८॥

———————————————————————————————————————

॥ ३.१३.४९ ॥

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ

किं दुर्लभं ताभिर् अलं लवात्मभिः ।

अनन्य-दृष्ट्या भजतां गुहाशयः

स्वयं विधत्ते स्व-गतिं परः पराम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आशिषो यद्य् अपि सुलभास् तथापि न प्रार्थनीया इत्य् आह—ताभिर् आशीर्भिर् अलम् । लवात्मभिस् तुच्छाभिः । न च तदा भजनस्य वैफल्य शङ्कनीयम् इत्य् आह—भगवद्-भजन-व्यतिरेकेण फलान्तर-दृष्टिं विना भजतां स्व-पद-प्राप्तिं स्वयम् एव विधत्ते । गुहाशयत्वाद् अहैतुकीं भक्तिं जानन् ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-फलदेऽपि तत्-प्रसादे परम-फलम् आह—तस्मिन्न् इति । स्व-गतिं स्व-स्फूर्ति-रूपं ज्ञानम् ॥४९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं वस्तु दुर्लभम् ? अपि तु सर्वम् एव सुलभम् । तद् अपि ताभिर् आशीर्भिर् अलम् । लवात्मभिः क्षुद्राभिस् तुच्छाभिर् इत्य् अर्थः । न च तदा भजनस्य वैफल्यं शङ्कनीयम् इत्य् आह—अनन्य-दृष्टा भगवद्-भजन-व्यतिरेकेण फलान्तर-दृष्टिं गुहाशयत्वाद् अहैतुकीं भक्तिं जानन्न् इति स्वामि-चरणानां व्याख्या ॥४९॥

———————————————————————————————————————

॥ ३.१३.५० ॥

को नाम लोके पुरुषार्थ-सारवित्

पुरा-कथानां भगवत्-कथा-सुधाम् ।

आपीय कर्णाञ्जलिभिर् भवापहाम्

अहो विरज्येत विना नरेतरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः को नाम पुरा-कथानां पूर्व-वृत्तानां मध्ये कथञ्चिद् आपीय विरज्येत विरमेत् । नरेतरं पशुं विना ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च सा कथैव तैः पीयूष-धारेव त्यक्तुम् अशक्या भवतीति व्यतिरेकेणाह—क इति ।*।*५०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तिर् एव सर्व-पुरुषार्थ-महा-फलम् इति जानन्न् एव सारज्ञ उच्यते । भक्तिः पुरुषार्थ-साधनम् एव, न तु स्वतः फल-रूपेति व्याचक्षाणस् तु पशुर् एवेत्य् आह—को नामेति । पुरा-कथानां पूर्व-वृत्तानां मध्ये भवापहां संसार-ध्वंसिनीम् अहो आश्चर्यं नरेतरं पशुं विना को विरज्येत—स पशुर् एवेति तेन औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस् तच् चापि चित्त-वडिशं शनकैर् वियुङ्क्ते इति वक्ष्यमाण-लक्षणस्य योगिनः पशुत्वं व्यञ्जितम् ॥५०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशस् तृतीयस्य सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे पृथिव्य्-उद्धरणं नाम

त्रयोदशोऽध्यायः

॥३.१३॥


  1. अत्र द्वौ अधिकौ श्लोकौ केषुचित् संस्करणेषु प्राप्येते—

    पीतं मया जलं पूर्वं पृथिवी च निवेशिता ।

    तथापि किम् इदं साद्य प्लाव्यते पुनर् अम्बुभिः ॥

    प्रजा देवासुर-पितृ-मनुष्य-पशु-पक्षिणः ।

    सरीसृपान् नगान् नागान् भूतान्य् उच्चावचानि च ॥

    तयोर् न कापि कस्यचिद् व्याख्या ॥ ↩︎

  2. इदं विष्णु-धर्म-पद्यं क्वचित् क्वचित् कस्मिंश्चित् संस्करणे भागवतस्यैव गणितः। तद् असद् इत्य् अनुमीयते। ↩︎

  3. द्विधाविरासीत्। ↩︎