१२ वेदाद्य्-उत्पत्तिः

विषयः

सनकादे रुद्रस्य मरीच्य्-आदीनां सरस्वत्या वेदादीनां चोत्पत्ति-वर्णनम्, ब्रह्मणो देहात् स्वायम्भुव-मनोः शतरूपायाश् च जन्म ।

॥ ३.१२.१ ॥

मैत्रेय उवाच—

इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः ।

महिमा वेद-गर्भोऽथ यथास्राक्षीन् निबोध मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वादशे तु कुमारादि-मनः-सर्गासमेधनात् ।

काय-द्वैधेन यौनस् तु मनु-सर्गोऽनुवर्ण्यते ॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सनकादि-मरीच्य्-आदि-धराधर्मादि-सृग्-विधिः ।

द्वादशे सर्ग-वृद्ध्य्-अर्थं मिथुनं देहतोऽसृजत् ॥

महिमा प्रभावः ॥१॥

———————————————————————————————————————

॥ ३.१२.२ ॥

ससर्जाग्रेऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् ।

महा-मोहं च मोहं च तमश् चाज्ञान-वृत्तयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तमस् तु शार्वरं प्रोक्तं मोहश् चैव विपर्ययः ।

तद्-आग्रहो महा-मोहस् तामिस्रः क्रोध उच्यते ।

मरणं त्व् अन्ध-तामिस्रम् अविद्या पञ्च-पर्विका ॥ इति भारते ।

तमोऽज्ञानं विपर्यासो मोहोऽन्ये तु तद्-आग्रहा इति हरि-वंशे ॥२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्र इति । ब्रह्मा स्व-सृष्टौ प्रथमम् अविद्या-वृत्तीः ससर्ज । तत्र तमो नाम स्वरूपाप्रकाशः । मोहो देहाद्य्-अहं-बुद्धिः । महा-मोहो भोगेच्छा । तामिस्रं तत्-प्रतिघाते क्रोधः । अन्ध-तामिस्रं तन्-नाशेऽहम् एव मृतोऽस्मीति बुद्धिः । तद् एवोक्तं वैष्णवे—

तमोऽविवेको मोहः स्याद् अन्तः-क्रण-विभ्रमः ।

महा-मोहस् तु विज्ञेयो ग्राम्य-भोग-सुखैषणा ॥

मरणं ह्य् अन्ध-तामिस्रं तामिस्रः क्रोध उच्यते ।

अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति ।

पातञ्जलेऽप्य् एत एवोक्ताः—अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः इति । श्री-विष्णुस्वामि-प्रोक्ता वा, अज्ञान-विपर्यास-भेद-भय-शोकाः । तद् उक्तं स्वादृग्-उत्थ-विपर्यास इत्य्-आदि ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविद्या-वृत्तयः पूर्व-सिद्धा एव, सृष्ट्य्-आरम्भे ब्रह्मतः सकाशात् तम-आदि-रूपेणाविर्बभूवुर् इत्य् आह—ससर्जेति । तत्र तमो नाम जीवस्य स्वरूपाप्रकाशः । मोहो देहादाव् अहम्-आरोपः । महा-मोहो भोक्तव्य-विषयेषु ममत्वारोपः । तामिस्रः भोग-प्रतिघाते सत्य् अन्तः-करण-धर्मस्य क्रोधस्य स्वीकारः । ततश् चान्ध-तामिस्रः क्रोध-तन्-मयी-भाव-रूपा मूर्च्छैव मरणम् । एते जीवस्यासन्तोऽप्य् अविद्यया सृष्टाः । यथोक्तं वैष्णवे—

तमोऽविवेको मोहः स्याद् अन्तः-क्रण-विभ्रमः ।

महा-मोहस् तु विज्ञेयो ग्राम्य-भोग-सुखैषणा ॥

मरणं ह्य् अन्ध-तामिस्रं तामिस्रः क्रोध उच्यते ।

अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति

पातञ्जलेऽप्य् एत एवोक्ताः—अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः इति । श्री-विष्णुस्वामि-प्रोक्ता वा, अज्ञान-विपर्यास-भेद-भय-शोकाः । वस्तुतस् त्व् अविद्याया आवरण-विक्षेपाव् एव द्वौ धर्मौ । ताव् एव अविद्यास्मिता-शब्दात्म।भाव् अज्ञान-विपर्यास-शब्दाभ्यां चोच्यते । राग-द्वेषाभिनिवेशास् त्व् अन्तःकरण-धर्मा अपि विक्षेपांश-प्राधान्याद् विक्षेप-प्रपञ्चतयैवोच्यन्ते इति ज्ञेयम् ॥२॥

———————————————————————————————————————

॥ ३.१२.३ ॥

दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत ।

भगवद्-ध्यान-पूतेन मनसान्यां ततोऽसृजत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न बह्व् अमन्यत नाभ्यनन्दत् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दृष्ट्वेति युग्मकम् । असृजत् ब्राह्म-कल्प-सृष्टान् एव तान् त्रैलोक्य-सृष्टौ तत्र प्रकटयामासेत्य् अर्थः ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविद्याया निवर्तिका विद्यैवेति ज्ञापयितुं विद्या-वृत्तयोऽपि तस्माद् एव सनकादि-रूपेणाविर्बभूवुर् इत्य् आह—दृष्ट्वेत्य् आदिना । महा-कल्पायुषां ब्रह्मादीनां जीवताम् एव प्रथम-परार्धान्ते परमेश्वरे प्रवेशात् पाद्मे कल्पे यथा ब्रह्मा पद्माद् उदपद्यत, तथा ब्रह्मापि सनकादीन् पुनर् उत्पादयामासेत्य् आह ॥३॥

———————————————————————————————————————

॥ ३.१२.४

सनकं च सनन्दं च सनातनम् अथात्म-भूः ।

सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्यपि प्रतिकल्पं सनकादि-सृष्टिर् नास्ति, तथापि ब्राह्म-सर्गत्वाद् इहोच्यते । वस्तुतस् तु मुख्य-सर्गादय एव प्रतिकल्पं भवन्ति, सनकादयस् तु ब्राह्म-कल्प-सृष्टा एवानुवर्तन्ते ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सनकं चेति । साङ्ख्य-योग-वैराग्य-तपांसीति चत्वार्य् एव विद्यायाश् चतस्रो वृत्तयः । तासाम् एव सनकादि-चतुष्टय-रूपेणाविर्भावः । किं च, भक्त्या विना विद्याया वैफल्यात् तद्-वृत्तिषु तप-आदिष्व् अपि भक्तिर् गुणी-भूता सती तिष्ठेद् इति सनकादयोऽपि भक्तिमन्त एव दृष्टाः । मुख्य-भक्त्येर् आविर्भावस् तु नारद-रूपेणाग्रे वक्ष्यते ॥४॥

———————————————————————————————————————

**॥ ३.१२।**५ ॥

तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः ।

तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वभूर् ब्रह्मा ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तान् इति अनिच्छायां हेतुर् मोक्ष-धर्माण इति । ननु प्रजापतीनाम् अपि मोक्ष-धर्मित्वं दृश्यते । तत्राह—वासुदेव-परायणाः । देवर्षि-भूताप्त-नृणां पितॄणाम् इत्य्-आदिभ्यः ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन् नैच्छन्न् इति ज्ञान-योगं खल्व् आविद्यक-कर्म-योग-निरासक एव स्याद् इति द्योतितम् ॥५॥

———————————————————————————————————————

**॥ ३.१२।**६ ॥

सोऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः ।

क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवध्यातोऽवज्ञातः । प्रत्याख्यातम् अनङ्गी-कृतम् अनुशासनं यैः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवध्यातोऽवज्ञातः । नियन्तुम् उपचक्रम इति ब्रह्मणो राजस-स्वभावत्वं व्यक्तम् । एवं तम-आदि-सनकाद्योः सृष्टौ तामस-सात्त्विक-भावोदयौ तस्य पूर्वं ज्ञेयौ ॥६॥

———————————————————————————————————————

**॥ ३.१२।**७ ॥

धिया निगृह्यमाणोऽपि भ्रुवोर् मध्यात् प्रजापतेः ।

सद्योऽजायत तन्-मन्युः कुमारो नील-लोहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स चासौ मन्युश् च तन् मन्युः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविद्याया निवर्तिका यथा विद्याया अपि क्वचिन् निवर्तिका, तथा अविद्या स्याद् इति दर्शयितुं विद्योदयवत्य् अपि ब्रह्मणि अविद्या-वृत्ति-मुख्यस्य तामिस्राभिधानस्य क्रोधस्य रुद्र-रूपेणाविर्भावम् आह—धियेति । तन्-मन्युः तस्य प्रजापतेर् मन्युः स चासौ मन्युश् चेति वा नील-लोहित इति क्रोधोऽपि तद्-वर्ण एव ॥७॥

———————————————————————————————————————

**॥ ३.१२।**८ ॥

स वै रुरोद देवानां पूर्वजो भगवान् भवः ।

नामानि कुरु मे धातः स्थानानि च जगद्-गुरो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका)। जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तल्-लीलाम् आह—स वा इति ॥८॥

———————————————————————————————————————

॥ ३.१२.९ ॥

इति तस्य वचः पाद्मो भगवान् परिपालयन् ।

अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.१० ॥

यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः ।

ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बालक इव ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.११ ॥

हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही ।

सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्रे पूर्वम् एव मे मया कृतानि ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदीति । हृद्-आदीनाम् अहङ्कार-कार्यत्वाद् अहङ्काराधिष्ठातुः रुद्रस्य तत्-तत्-स्थानौचित्यात् । क्रोध-पक्षे तु हृत्-क्रोधस्य जन्म-स्थानम् एव स तत्र प्रवृत्तो नेत्र-पाणि-पादेन्द्रियेष्व् अपि तिष्ठति तत्-तद्-व्यापार-सूच्यः । तथैवासुषु प्राणेष्व् अपि नासाश्वासाधिय-सूच्यः । तथा बहिर्-आकाशस्य प्रचण्ड-घोर-सिंहादि-शब्दैर् वाय्व्-अग्नि-जलानां शोषकत्व-दाहकत्व-प्लावकत्वैः मह्याः स्व-विकारैर् मुद्गरादिभिस् तथा तेषां सङ्घातैः सिंह-व्याघ्र-सर्पादिभिः । सूर्य-चन्द्रयोस् ताप-हिमाभ्यां मारकत्वम् अस्तीति तेष्व् अपि क्रोधस् तिष्ठति । तप इत्य् उपलक्षणं साङ्ख्य-योग-वैराग्याणाम् अपि तेषाम् अपि भक्ति-पाल्यत्वाभावे क्रोध-स्थानत्वं दृष्टं तपो-दीपित-मन्यव इत्य्-आदि-वाक्यैः । अत एवोक्तम्, आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत्य युष्मद्-अङ्घ्रयः [भा।पु। १०.२.३२]इति ॥११॥

———————————————————————————————————————

॥ ३.१२.१२ ॥

मन्युर् मनुर् महिनसो महाञ् छिव ऋतध्वजः ।

उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्युर् इत्य् आदीन्य् एकादश रुद्राणां नामानि ॥१२॥

———————————————————————————————————————

॥ ३.१२.१३ ॥

धीर् धृतिर् असलोमा च नियुत् सर्पिर् इलाम्बिका ।

इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धीर् इत्य् आदीन्य् एकादश तच्-छक्तीनां नामानि ॥१३॥

———————————————————————————————————————

**॥ ३.१२।**१४ ॥

गृहाणैतानि नामानि स्थानानि च स-योषणः ।

एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-योषणः स-स्त्रीकः । एभिः स्थानैर् नामभिश् च युक्तः प्रजाः सृज ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-योषणः स-स्त्रीकः । एभिः स्थानैर् नामभिश् च युक्तः सन् प्रजाः सृज ॥१४॥

———————————————————————————————————————

॥ ३.१२.१५ ॥

इत्य्-आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः ।

सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्त्वं बलम् । आकृतिर् नील-लोहितता । स्वभावस् तीव्रता तेन ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वं बलम् । आकृतिर् नील-लोहितता । स्वभावस् तीव्रता ॥१५॥

———————————————————————————————————————

॥ ३.१२.१६ ॥

रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् ।

निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रुद्राणां यूथानि दृष्ट्वा ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुद्र-सृष्टानां रुद्राणां यूथानि दृष्ट्वेत्य् अन्वयः ॥१६॥

———————————————————————————————————————

॥ ३.१२.१७ ॥

अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम ।

मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.१८

तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् ।

तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्रष्टा स्रक्ष्यति ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तप आतिष्ठेति सृष्टि-स्थिति-समये रुद्रस्य लीला न भद्रायेति तपसि प्रवर्तना यथा पूर्वं स्रष्टेति विपरीत-लक्षणा । यथा पूर्व-कल्पान्ते विश्वं समहरन्, तथा इत ऊर्ध्वम् अपि संहर्तासीत्य् अर्थः । क्वचित् कल्पे शिवोऽपि ब्रह्मेव प्रजाः ससर्जेत्य् एके ।

सृजामि तपसा विश्वं ग्रसामि तपसा पुनः ।

बिभेमि तपसा विश्वं वीर्यं मे दुस्तरं तपः ॥

इत्य् उक्तवता भगवता शिवस्यैक्याद् इदम् उक्तम् इत्य् अपरे ॥१८॥

———————————————————————————————————————

॥ ३.१२.१९

तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् ।

सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

कालतो बलतश् चैव ज्ञानानन्दादिकैर् अपि ।

सर्वैर् गुणैर् विष्णुर् एव श्रेष्ठस् तद्-अवमा रमा ॥

अनन्तांशेन कालात् त्व् असमतस्याश् चतुर्मुखः ।

अवरो बहुलांशेन तत्-समो वायुर् उच्यते ॥

नियमाद् वायुर् एवैको ब्रह्मत्वं याति नापरः ।

तस्मात् समानताम् उक्तौ वायुत्वे किञ्चिद् ऊनता ॥

दशवर्षं तु तत् पश्चाज् जननं तत्-स्त्रियोर् अपि ।

आनन्दादिस् तद्-दशांशः कालः संवत्सरात् परः ॥

यावत् पश्चाज् जनिस् तावत् पूर्वं चेद् अक्षयो भवेत् ।

ब्रह्म-वायोस् तु ते देवौ तद्-देशांशः सुखादिकः ॥

शेषस्य गरुडस्यापि कालो दिव्य-सहस्रकः ।

शेष-रुद्रौ ब्रह्म-वायु यथा तद्वत् परस्परम् ॥

तद्-देव्यस् तद्-दशांशा स्युस् ततस् त्व् इन्द्रादयो मताः ।

एवम् उक्तौ च पूर्वं च नान्यथा क्वचिद् इष्यते ।

अन्यथोक्तिर् यत्र च स्यात् तन्-मोहार्थं भविष्यति ।

पूर्वापर-विपर्यासो बहु-रूपत्व-हेतुतः ॥

इति विष्णु-कृत-तत्त्व-विवेके । अथात आनन्दस्य मीमांसा देवासुरेभ्यो मघवान् प्रधान इत्य्-आदि च ।

इन्द्राद्याः सनकाद्याश् च दक्षाद्या येऽपि चापरे ।

ऋषयो मनवो देवास् तद्-वशा ये च केचन ॥

रामाया अवराः सर्वे गुणैः सर्वैर् निसंशयः ।

तत्-समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा ॥

ऋते हरिं ब्रह्म-वायु शेषवीन्द्रान् स-भार्यकान् ।

शङ्करं चेति वेत्तव्यम् अन्यन् मोहार्थम् उच्यते ॥ इति विष्णु-कृत-तत्त्व-विवेके ॥१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः [गीता ३.२१] इति न्यायेन त्वत्तस् तपः शिक्षित्वा सांसारिको लोकोऽपि निस्तरिष्यतीत्य् आह—तपसैवेति ॥१९॥

———————————————————————————————————————

॥ ३.१२.२०-२१

मैत्रेय उवाच—

एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् ।

बाढम् इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम् ॥

अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे ।

भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.२२ ॥

मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-योगस्यापि मरीच्य्-आदि-रूपेणाविर्भावम् आह—मरीचिर् इति । ज्ञान-वैराग्य-तपो-योग-कर्मणां साफल्यं भक्त्यैव, तथा स्वयम् अपि निरपेक्षतयैव भक्तिः सर्व-फल-दात्री स्वयं फल-रूपा चेति सर्वान्ते भक्तेर् नारद-रूपेणाविर्भावम् आह—दशम इति ॥२२॥

———————————————————————————————————————

॥ ३.१२.२३-२४

उत्सङ्गान् नारदो जज्ञे दक्षोऽङ्गुष्ठात् स्वयम्भुवः ।

प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः ॥

पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः ।

अङ्गिरा मुखतोऽक्ष्णोऽत्रिर् मरीचिर् मनसोऽभवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्सङ्गात् प्रीति-स्थानात् श्लेषेण उत्कृष्टात् सङ्गात् साधु-सङ्गाद् इत्य् अर्थः । आपो नारा इति प्रोक्ताः इत्य्-आदि-दृष्टेर् नर-शब्देन परमेश्वर उच्यते । नरस्येदम् इत्य् अर्थे तस्येदम् इत्य् अणा नारं भगवद्-दास्य-सख्यादिकं ददातीति नारदो भक्ति-योगः ॥२३-२४॥

———————————————————————————————————————

॥ ३.१२.२५ ॥

धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् ।

अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्ति-योगस्य कर्म-योगस्य च विहितस्यानुष्ठाने परमो धर्मश् च भवतीति धर्मोत्पत्तिम् आह—धर्म इति । स्तनाद् इति सर्वोत्कृष्ट-स्थानस्य हृदयस्याप्य्त् उत्तम-प्रदेशाद् अतिप्रियात् । धर्मस्यैव विहितस्याकरणे निषिद्धस्य च करणे अधर्म इत्य् अधर्मस्याप्य् उत्पत्तिम् आह—अधर्म इति । पृष्ठत इत्य् अप्रकृष्टा-स्थानाद् अनतिप्रियात् ॥२५॥

———————————————————————————————————————

॥ ३.१२.२६ ॥

हृदि कामो भ्रुवः क्रोधो लोभश् चाधरद-च्छदात् ।

आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधरद-च्छदाद् अधरोष्ठात् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधर्मः कथं स्यात् ? इति तत्-प्रवर्तकानां कामादीनाम् उत्पत्तिम् आह—हृदि मनसीति मनसः पुरुषानधीनत्वात् तत्र-स्थस्य कामस्य उन्मूलनं दूःशकम् इति द्योतयति। क्रोध्आदीनाम् अपि मनस एव उत्पन्नानां भ्रू-प्रकृति-प्राकट्य-स्थानम् एव ज्ञेयम् । काम-क्रोधादिमत्त्वेऽपि शास्त्र-ज्ञान-मयं पाण्डित्यं सम्भवेद् इति दर्शयितुं तदैव सरस्वत्या उत्पत्तिम् आह—आस्याद् इति ॥२६॥

———————————————————————————————————————

॥ ३.१२२७ ॥

छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।

मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदा तामस-राजस-भाववताम् अपि कदाचित् किञ्चित् सात्त्विक-भावोदयः स्याद् इति दर्शयितुम् आह—छायायाः कान्तेः ॥२७॥

———————————————————————————————————————

॥ ३.१२.२८ ॥

वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः ।

अकामां चकमे क्षत्तः स-काम इति नः श्रुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देहान्तरेण कृतं सर्गं वक्तुं तद्-देह-त्याग्ते कारणम् आह—वाचम् इत्य्-आदिना ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वाचं दुहितरम् इत्य्-आदि-कथनं देहान्तर्मुखानां भीषणार्थं तद्-बहिर्मुखानां तद्-दृष्टान्तया तथा प्रवृत्त्या तद्-अवज्ञया बाल-शासनार्थं च ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिविदुषाम् अतिविवेकिनाम् अपि काम-जयो न भवेद् अतः कन्या-भगिन्य्-आदिभिः सह रहसि न वसेद् इति ज्ञापयितुम् आह—वाचम् इति । नः श्रुतम् इत्य् अनेनैतद् वक्तुम् अनर्हम् अपि तज्-ज्ञानार्थम् अपराधाद् बिभ्यद् अदोष-दृग् एव ब्रवीमीति द्योतितम् । दोष-दृष्टौ तु मरीचि-पुत्राणाम् इवाधः-पातः स्याद् इति भीषणा न ज्ञेया । तथा नः श्रुतम् इत्य् एतत्-कल्प-भवानां केषाञ्चिद् दृष्टम् अप्य् एतन् न भवेद् इति प्रसङ्गतोऽतिपूर्व-कल्प-गतम् एवैतत् कर्म सम्प्रत्य् उक्तम् इति भावः । चतुः-श्लोकी-भागवतोपदेश-प्राप्त्य्-अनन्तरम् एतद् अघटणात् । यद् उक्तं भगवता—

एतन् मतं समातिष्ठ परमेण समाधिना ।

भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् ॥ [भा।पु। २.९.३६] इति ॥२८॥

जगदानन्दः : मात्स्ये तु—

सृष्ट्य्-अर्थं यत् कृतं तेन तपः परम-दारुणम् ।

तत् सर्वं नाशम् अगमत् स्व-सुतोपगमेच्छया ॥ [मा।पु। १.२.३९]

———————————————————————————————————————

॥ ३.१२.२९ ॥

तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः ।

मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम् ।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्रम्भात् जन्य-जनक-सम्बन्धोत्थ-सख्यात्, न तु पाप-दर्शनोत्थ-कोपाद् इत्य् अर्थः । यद् वा, महतां विकर्मापि नापकारकम् इति विश्वासात् केवलम् अनुप्रवृत्त-लोकानिष्ट-शङ्कयैव प्रबोधयामासेति मरीच्य्-आदीनाम् अपराध्य-भावो द्योतितः ॥२९॥

———————————————————————————————————————

॥ ३.१२.३० ॥

नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे ।

यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वत् त्वत्तो ये पूर्वे ब्रह्मादयोऽन्ये वा तैर् एतन् न कृतम्अपरे त्वत्तोऽर्वाचीनास् तेऽपि न करिष्यन्तिअङ्गजं कामम् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वैः पूर्व-कल्प-गतैर् लोकैः । त्वत्तः पूर्वे ये ब्रह्मादयः, तैर् वा । अङ्गजं कामम् ॥३०॥

———————————————————————————————————————

॥ ३.१२.३१ ॥

तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो ।

यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेजीयसाम् अतितेजस्विनाम् अपि सुश्लोक्यं सत्-कीर्तिदं भवति । येषां तेजीयसां वृत्तम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुश्लोक्यं सङ्कीर्त्य्-अर्हं वृत्तं चरित्रम् ॥३१॥

———————————————————————————————————————

॥ ३.१२.३२ ॥

तस्मै नमो भगवते य इदं स्वेन रोचिषा ।

आत्म-स्थं व्यञ्जयामास स धर्मं पातुम् अर्हति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं प्रबोधितोऽपि ब्रह्मा यदा न प्राबुध्यत, तदा भगवत्-कृपां विना कामं प्रकारान्तरेण नोपशाम्येद् इति सिद्धान्तम् अनुस्मृत्य ते मुनयो भगवन्तम् एव प्रापद्यन्त इत्य् आह—तस्मा इति ॥३२॥

———————————————————————————————————————

॥ ३.१२.३३ ॥

स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।

प्रजापति-पतिस् तन्वं तत्याज व्रीडितस् तदा ।

तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यां तत्याज विभुर् ब्रह्मा मानुषी वाक् च सा स्मृता ।

सरस्वतीं निजां भार्यां देवीं वाचं च तां विदुः ॥ इति च ॥३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तन्वं तनुम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्वं तनुं तत्याजेति महा-पातकस्य प्राणान्तम् एव प्रायश्चित्तं मुख्यम् इति ज्ञापयामास । द्विपरार्ध-मध्ये तस्य तनु-त्याग-सम्भवाद् भाव-त्याग एव तनु-त्यागत्वेनोक्तः । दिश इति ता एव तमसा अद्याप्य् आव्रीयन्ते ॥३३॥

———————————————————————————————————————

॥ ३.१२.३४ ॥

कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् ।

कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं स्रक्ष्यामीत्य् अभिध्यायतः स्रष्टुर् ब्रह्मणश् चतुः-सङ्ख्यायुक्तान् मुखात् । समवेतान् सु-सङ्गतान् । यथा पुरा प्राक् कल्पे ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा [भा।पु। १०.३३.३२] इत्य्-आदि-वचनात् स्व-कन्यानुगामिनोऽपि ब्रह्मणो मालिन्यं नाशङ्कनीयम् इति वक्तुं ब्रह्मणस् तेजस्वीत्वम् आह—कदाचिद् इत्य्-आदिना । नाना-शक्त्य्-उपबृंहितः इत्य् अन्तेन ग्रन्थेन यथा पुराहम् असृजं तथा कथं स्रक्ष्यामीति ध्यायतः वेदा आसन्न् इति वेदेषु सृष्टि-प्रकारः सर्व एव वर्तत इति तद्-दृष्ट्या सुखेन सृजेति भगवद्-आज्ञा-वशाद् इति भावः ॥३४॥

———————————————————————————————————————

॥ ३.१२.३५ ॥

चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह ।

धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चातुर्-होत्रं होत्रादीनां चतुर्णां कर्म । कर्म-तन्त्रं यज्ञ-विस्तारः । उपवेदैर् न्यायैश् च सह । आश्रमास् तद् वृत्तयश् चासन् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : होता उद्गाता अध्वर्युर् ब्रह्मेति चतुर्णां होतॄणां कर्म चातुर्होत्रम् । कर्म-तन्त्रं यज्ञ-विस्तारः उपवेदैर् नयैर् न्यायैश् च सह । आश्रमस् तद्-वृत्तयश् चासन् ॥३५॥

———————————————————————————————————————

॥ ३.१२.३६ ॥

विदुर उवाच—

स वै विश्व-सृजाम् ईशो वेदादीन् मुखतोऽसृजत् ।

यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अभिमानितः शब्दतश् च ब्रह्मा वेदान् ससर्ज ह ।

यज्ञादींश् च क्लिपे वाचा तथा सर्वाभिमानिनः ॥३६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुखतो मुखेभ्यः ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुखतो मुखेभ्यः ॥३६॥

———————————————————————————————————————

॥ ३.१२.३७ ॥

मैत्रेय उवाच—

ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः ।

शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चातुर्-होत्र-सृष्टि-क्रमम् आह—शस्त्रम् अप्रगीत-मन्त्र-स्तोत्रं होतुः कर्म । इज्याम् अध्वर्योः कर्म । स्तुति-स्तोमं स्तुतिः सङ्ग ईतं, स्तोमं तद् अर्थम् ऋक्सम् उदायं त्रि-वृत् स्तोमो भवति इत्य्-आदि-विहितम् उद्गातृ-प्रयोज्यम् । प्रायश्चित्तं ब्राह्मम् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्होत्रस्य सृष्टीम् आह—शस्त्रम् अप्रगीतम् अस्त्र-स्तोत्रं होतुः कर्म । इज्याम् अध्वर्योः कर्म । स्तुति-स्तोमं स्तुतिः सङ्गीतं स्तोत्रं, स्तोमं तद्-अर्थम् ऋक्-समुदायम् । त्रिवृत् स्तोमो भवतीत्य् आदि विहितम् उद्गातुः कर्म । प्रायश्चित्तं ब्रह्मणः कर्म ॥३७॥

———————————————————————————————————————

॥ ३.१२.३८ ॥

आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः ।

स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपवेद-क्रमम् आह—आयुर्वेदाम् इति । आत्मनो मुखैः । स्थापत्यं विश्वकर्म-शास्त्रम् ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपवेदानां सृष्टिम् आह—आयुर् इति । स्थापत्यं स्थपतेः कर्म विश्वकर्म-शास्त्रम् ॥३८॥

———————————————————————————————————————

॥ ३.१२.३९ ॥

इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः ।

सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

इतिहास-पुराणे तु श्रुत्वा हरि-मुखात् स्वयम् ।

भारतादीन् विना पश्चात् हरिणान्यैश् च निर्मितान् ॥ इति ॥३९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इतिहासेति युग्मकम् । इतिहासेत्यादिकं प्रथमस्कन्धे विवृतमस्ति ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेभ्य इति सर्वे वेद-विवरण-रूपत्वात् तेषाम् ॥३९॥

———————————————————————————————————————

॥ ३.१२.४० ॥

षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ ।

आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म-तन्त्र-क्रमम् आह—षोडश्य्-उक्थाव् इति । पुरीषी चयनम् । अग्निष्टुद् अग्निष्टोमः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-तन्त्र-सृष्टिम् आह—षोडश्य्-उक्थाव् इति । पूरीषि चयनम् अग्निष्टुत् अग्निष्टोमः एतौ दक्षिण-वक्त्राद् इत्य् एवं क्रमः सर्वत्र द्रष्टव्यः ॥४०॥

———————————————————————————————————————

॥ ३.१२.४१ ॥

विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।

आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विद्येति शौचम् । क्षेत्र-ज्ञस्येश्वर-ज्ञानाद् विशुद्धिः परमा मता इति स्मृतेः । दानम् इति दया, भूताभय-प्रदानस्य कलां नार्हन्ति षोडशीम् इति वचनात् । एवं च, तपः शौचं दया सत्यम् इति पादाः कृते कृताः[भा।पु। १.१७.२४] इति प्रथम-स्कन्धोक्तेर् अविरोधः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.४२ ॥

सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।

वार्ता सञ्चय-शालीन-शिलोञ्छ इति वै गृहे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्राजापत्यं ब्रह्मचर्यम् एक-भार्य-र्तु-गामिता इति व्यास-स्मृतौ । वार्ता यायावरं ज्ञेयम् एका हि त्वम् असञ्चय इति ॥४२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मचर्याद्य्-आश्रमेष्व् एकैकस्य चातुर्-विध्यम् आह—सावित्रं ब्रह्मचर्यं, उपनयनाद् आरभ्य गायत्रीम् अधीयानस्य त्रि-रात्रम् । प्राजापत्यं व्रतान्य् आचरतः संवत्सरम् । ब्राह्मं वेद-ग्रहणान्तम् । बृहन् नैष्ठिकम् । वार्ता अनिषिद्ध-कृष्य्-आदि-वृत्तिः । सञ्चयो याजनादि-वृत्तिः । शालीनम् अयाचित-वृत्तिः । शिलोञ्छः पतित-कणिश-कण-वृत्तिः । एक-वचनम् आर्षम् । इत्य् एता गृहे वृत्तय इति । यद् वा, शिलोञ्छ इति द्वन्द्वैक्ये सप्तमी । एवं वृत्ति-भेदे सति गृहे स्थिता भवन्तीत्य् अर्थः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सावित्रम् इत्य् आदयो ब्रह्मचर्य-भेदाः वार्तेति । सर्वेऽपि द्वन्द्वो विभाषयैकवद् भवतीति न्यायात् । ऊकालोऽच् ह्रस्व-दीर्घ-प्लुत [पा। १.२.२७] इतिवत् ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपनयनाद् आरभ्य गायत्रीम् अधीयानस्य त्रि-रात्रं व्याप्य ब्रह्मचर्यं सावित्रम् । व्रतान्य् आचरतः संवत्सर-पर्यन्तं बृहद् इति चतुर्विधं ब्रह्मचर्यम् । वार्ता अनिषिद्ध-कृष्य्-आदि-वृत्तिः । सञ्चयो याजनादि-वृत्तिः । शालीनम् अयाचित-वृत्तिः । शिलोञ्छनं पतित-कणिश-कण-वृत्तिः । शिलोञ्छ इति द्वन्द्वैक्यम् ऊकालोऽच् ह्रस्व-दीर्घ-प्लुत[पा। १.२.२७] इतिवत् । गृहे इति जीविका-चातुर्विध्यात् गार्हस्थ्यम् अपि चतुर्विधम् इत्य् अर्थः ॥४२॥

———————————————————————————————————————

॥ ३.१२.४३ ॥

वैखानसा वालखिल्यौडुम्बराः फेनपा वने ।

न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

वैखानसा मूल-भक्षाः फल-भक्षा उडुम्बराः ।

वालखिल्याः सर्व-भक्षा फेनपा वत्स फेनपाः ॥ इति च ॥४३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : वने स्थिताश् चत्वारः । तत्र वैखानसा अकृष्ट-पच्य-वृत्तयः । वालखिल्या नवेऽन्ने लब्धे पूर्व-सञ्चितान्न-त्यागिनः । औदुम्बराः प्रातर् उत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फलादिभिर् जीवन्तः । फेनपाः स्वयं पतितैः फलादिभिर् जीवन्तः । कुटीचकः स्वाश्रम-कर्म-प्रधानः । बह्वोदः कर्मोपसर्जनी-कृत्य ज्ञान-प्रधानः । हंसो ज्ञानाभ्यास-निष्ठः । निष्क्रियः प्राप्त-तत्त्वः । एते च सर्वे यथोत्तरं श्रेष्ठाः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैखानसाः अकृष्ट-पच्य-वृत्तयः । वालखिल्याः नवेऽन्ने लब्धे पूर्व-सञ्चितान्न-त्यागिनः । उडुम्बराः प्रातर् उत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फलादिभिर् जीवन्तः । फेनपाः स्वयं पतितैः फलादिभिर् जीवन्तः । वने इति वृत्ति-भेदेन नाम-भेदाद् वानप्रस्थाश्रमोऽपि चतुर्विधः । न्यासे इति सन्न्यासोऽपि चतुर्विधः । तत्र कुटीचकः स्वाश्रम-कर्म-प्रधानः । बह्वोदः कर्मोपसर्जनी-कृत्य ज्ञान-प्रधानः । हंसो ज्ञानाभ्यास-निष्ठः । निष्क्रियः प्राप्त-तत्त्व इति यथोत्तरं श्रेष्ठाः ॥४३॥

———————————————————————————————————————

॥ ३.१२.४४ ॥

आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च ।

एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आन्वीक्षकी तन्त्र-विद्या सा च वेदानुसारिणी ।

विशेष्सर्वु-प्रोक्ता शिवाद्य्-उक्ता ज्ञेया वेद-बहिष्कृताः ॥

दण्ड-नीतिः राज-धर्मस् त्रयी-वेदाः प्रकीर्तितः ।

वार्ता-वाणिज्यकादिः स्याद् एताभिर् युत् तु जीवनम् ।

तद् आन्वीक्षिक्य्-आदि-नाम ब्रह्मणा निर्मितं पुरा ॥ इति च ।

प्रणवः पूर्व-वक्त्रात् ।

प्रणवः पूर्व-वक्त्रेण भूर्-आद्याश् च मुख-त्रयात् ।

प्रदक्षिणम् अवर्तन्त वेदाश् चैवाश्रमास् तथा ॥४४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न्यायादीनां पूर्वादि-क्रमेणोत्पत्तिम् आह—आन्वीक्षिकीति । आन्वीक्षिक्य्-आद्या मोक्ष-धर्म-कामार्थ-विद्याः । भूर्-भूवः-स्वर् इति व्यस्तास् तिस्रः । समस्ता चतुर्थी । यथाह आश्वलायनः—एवं व्याहृतयः प्रोक्ता व्यस्ताः समस्ताः इति । यद् वा, मह इति चतुर्थी । तथा च श्रुतिः—

भूर्-भुवः-सुवर् इति वा एतास् तिस्रो व्याहृतयः । तासाम् उ ह स्मैतां चतुर्थीं माहा-चमस्यः प्रवेदयते मह इति ॥ इति ।

दह्रतो हृदयाकाशात् ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यायादीनां पूर्वादि-क्रमेणोत्पत्तिम् आह—आन्वीक्षिकीति । आन्वीक्षिक्य्-आद्या मोक्ष-धर्म-कामार्थ-विद्याः । भूर्-भूवः-स्वर् इति व्यस्तास् तिस्रः । समस्ता चतुर्थीत्य् एवं चतस्रो व्याहृतयः । यथाह आश्वलायनः—एवं व्याहृतयः प्रोक्ता व्यस्ताः समस्ता अपि इति । यद् वा, मह इति चतुर्थी । तथा च श्रुतिः—

भूर्-भुवः-सुवर् इति वा एतास् तिस्रो व्याहृतयः ।

तासाम् उ ह स्मैतां चतुर्थीं माहा-चमस्यः प्रवेदयते महतीम् इति ॥ इति ।

हृत् स्वतः हृदयाकाशात् । दह्रत इति पाठे स एवार्थः ॥४४॥

———————————————————————————————————————

॥ ३.१२.४५ ॥1

तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः ।

त्रिष्टुं मांसात् स्नुतोऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्नुतः स्नायुतः । अनुष्टुप् स्नावान् इति श्रुतेः ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छन्दसाम् उत्पत्तिम् आह—तस्येति । स्नुतः सान्युतः सर्वाङ्गाच्छादक-नाडीत इत्य् अर्थः । अनुष्टुप् स्नावान् इति श्रुतेः ॥४५॥

———————————————————————————————————————

॥ ३.१२.४६-४७ ॥2

मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतोऽभवत् ।

स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृतः ॥

ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः ।

स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्पर्शास् तस्याभव-जीवात् स्वरा देहात् प्रजज्ञिरे ।

ऊष्माण इन्द्रियेभ्यश् च अन्तस्था बलतो विभोः ॥ इति च ।

यस्मात् यज् जायते चाङ्गात् तत् तद् अङ्गाभिधं भवेत् ॥ इति च ॥४६-४७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-कल्पे ब्रह्मा शब्द-ब्रह्म-रूपोऽभवद् इत्य् उक्तं तद् एव दर्शयन् वर्णानाम् उत्पत्तिम् आह—स्पर्श इति सार्धेन । स्पर्शः कादि-वर्ग-पञ्चकम् । स्वरोऽकारादिः । उष्माणः श-ष-स-ह-चतुष्कम् । अन्त-स्था य-र-ल-वाः । सप्त-स्वराः षड्-जादयः। विहारेण क्रीडया ॥४६-४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वर्णानाम् उत्पत्तिम् आह—स्पर्श इति सार्धेन । कादि-वर्ग-पञ्चकं स्पर्शः । स्वरोऽकारादिः । उष्माणः श-ष-स-ह-चतुष्कम् । अन्त-स्था य-र-ल-वाः । सप्त-स्वराः षड्-जादयः। विहारेण क्रीडया ॥४७॥

———————————————————————————————————————

॥ ३.१२.४८ ॥3

शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः ।

ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शब्द-ब्रह्मात्मको ब्रह्मा सर्व-शब्दोऽभिधीयते ।

ऋते नारायणादीनि नान्मां स विषयो यतः ॥
व्यक्त-ब्रह्माण्डम् उद्दिष्टम् अव्यक्तं महद्-आदि च ।

तद्-व्यापकत्वाद् ब्रह्मा तु व्यक्तात्मकः सदा स्मृतः ॥ इति च ॥४८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव शब्द-तनुत्वाद् ब्रह्मणः परमेश्वरो नित्यं प्रकाशत इत्य् आह—व्यक्ता वैखरी, अव्यक्तः प्रणवः, तद्-आत्मनस् तस्य ब्रह्मणः परः परमेश्वरोऽवभाति । कीदृशः ? ब्रह्म परिपूर्णः, तत्राव्यक्तात्मनो ब्रह्म-रूपो विततोऽवभटि व्यक्तात्मनो नाना-भक्त्य्-उपबृंहित इन्द्रादि-रूपोऽवभाति ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शब्द ब्रह्मेति । व्यक्ताव्यक्तौ वैखरी-प्रणवौ । तत्-तद्-आत्मकात् सर्वस्माद् अपि वेदान्तस्य परमेश्वर एवाभाति । स एव च ब्रह्म-परिपूर्ण-रूपः । तत्र हेतुः—स्वरूपतोऽविततः शक्तिश् च नानेति ॥४८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमेश्वर-स्फूर्त्यैव ब्रह्मणस् तेजस्वित्वम् अधिकम् इत्य् आह—शब्द-ब्रह्म वेदस् तन्-मय एव आत्मा देहो यस्य तस्य । यतो व्यक्ता वैखरी, अव्यक्तः प्रणवः, तद्-आत्मनस् तस्य ब्रह्मण उपास्यत्वेन परः परमेश्वर आभाति सम्यक् स्फुरति । य एव निर्विशेष-ज्ञान-गम्यत्वेन ब्रह्म । स-विशेष-शुद्ध-ज्ञान-गम्यत्वेन नाना-शक्त्य्-उपवृत्तं हितो भगवान् इत्य् अतस् तस्य कन्यानुगमन-जन्य-मालिन्यं नास्तीति साधितम् ॥४८॥

———————————————————————————————————————

॥ ३.१२.४९ ॥4

ततोऽपराम् उपादाय स सर्गाय मनो दधे ।

ऋषीणां भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ऋषीणां भूरि-वीर्याणाम् इति सिंहावलोकनम् ।

यत्र पश्चात्तनः श्रेष्ठास् तत्र सिंहावलोकनम् ॥ इति ब्रह्म-तर्के ॥४९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : या पूर्वं विसृष्टा सती नीहारं तमोऽभवत् । ततोऽपराम् अनिषिद्धकाम् आसक्तां तनुम् । शब्द-ब्रह्म-तनुस् तु सदास्त्य् एव । तन्व्-अन्तरग्रहणे कारणम् आह—ऋषीणाम् इत्य्-आदिना ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या पूर्वं विसृष्टा सती नीहारं तमोऽभवत् । ततोऽपराम् अनिषिद्धकाम् आसक्तां तनुम् । शब्द-ब्रह्म-तनुस् तु सदास्त्य् एव । ननु तेन पूर्व-सृष्टौ मरीच्य्-आदय एव बहुतराः प्रजाः सृजन्तीति सर्गे तस्यालं पुनः प्रयत्नेनेत्य् अत आह—ऋषीणाम् इति ॥४९॥

———————————————————————————————————————

॥ ३.१२.५० ॥5

ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव ।

अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चिन्ताम् एवाह—अहो इति । व्यपृतस्य व्यापारं कुर्वाणस्य ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.५१ ॥

न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् ।

एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : केन व्याप्तत्वात् कायः ॥५१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्त-कृतो यथोचितं कुर्वतः ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युक्त-कृतः यथोचितं कुर्वतः ॥५१॥

———————————————————————————————————————

॥ ३.१२.५२ ॥

कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते ।

ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव कस्य ब्रह्मणो रूपं द्विधा भूतम् इत्य् आश्चर्यात् कायम् अद्याप्य् अभिचक्षते ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवं स्वीय-दिष्टम् एवावेक्षमाणस्य कस्य ब्रह्मणः रूपम् एकम् एव द्विधा एकं श्मश्रु-युक्तम् अपरं कुच-द्वय-युक्तम् इति द्विविधम् अभूत् । यद् उभयम् अपि कायं क-सम्बन्धित्वात् काय-शब्द-वाच्यं नडादित्वात् यन् न लोपश् छान्दसः ॥५२॥

———————————————————————————————————————

॥ ३.१२.५३ ॥

यस् तु तत्र पुमान् सोऽभून् मनुः स्वायम्भुवः स्वराट् ।

स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : या स्त्री सा अस्य महिष्य् आसीत् ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.५४ ॥

तदा मिथुन-धर्मेण प्रजा ह्य् एधां बभूविरे ।

स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एधां बभूविरे वृद्धिं प्राप्ताः । तद् एवाह—स चापीति ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च स्वायम्भुवः ॥५४॥

———————————————————————————————————————

॥ ३.१२.५५ ॥

प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत ।

आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम ॥

न कतमेनापिव्याख्यातम्।

———————————————————————————————————————

॥ ३.१२.५६ ॥

आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् ।

दक्षायादात् प्रसूतिं च यत आपूरितं जगत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो यासां सन्ततिभिः ॥५६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः यासां सन्ततिभिः ॥५६॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदूर-मैत्रेय-संवादे सृष्टि-वर्णनं नाम

द्वादशोऽध्यायः ।

॥१२॥


  1. गौडीय-मठ-संस्करणे मज्जाया इति पर-श्लोकस्य प्रथमश् चरणोऽस्मिन् श्लोकेऽन्तर्भुक्तः । ↩︎

  2. गौडीय-मठ-संस्करणे एतयोर् द्वयोः श्लोकयोः शेषास् त्रयश् चरणाः ४६-साङ्ख्यक-श्लोक इति । ↩︎

  3. गौडीय-मठ-संस्करणे अयं श्लोकः ४७-साङ्ख्यकः । ↩︎

  4. गौडीय-मठ-संस्करणे अस्य श्लोकस्य प्रथम-चरणः ४८-साङ्ख्यक-श्लोके गणितः । ↩︎

  5.  ↩︎