११ आयुर्-वर्णनम्

विषयः

मन्वन्तरादि-काल-परिमाण-निरूपणं मनुष्य-देवाद्य्-आयुषो वर्णनं च ।

॥ ३.११.१ ॥

मैत्रेय उवाच—

चरमः सद्-विशेषाणाम् अनेकोऽसंयुतः सदा ।

परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : काल-परिमाणं दर्शयितुं द्रव्य-परिमाणं दृष्टान्तत्वेन दर्शयति ।

मनुष्याद् एव लोकोऽपि विशेषेणैव दर्शने ।

अंशांशत्व-विशेषं तु यस्य द्रष्टुं न शक्नुयुः ॥

चरमो विशेष इति मुनयो श्रूयुर् अञ्जसा ।

परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् ॥

अनन्तांश-युतत्वेऽपि यं ब्रूयुर् भ्रान्ति-दर्शनात् ।

ततोऽपि परमाणुत्वं तद्-अंशानां तु यद्यपि ।

अनन्तत्वाद् विवेकार्थम् अस्योक्ता परमाणुता ॥ इति तत्त्व-विवेकः ।

अनेकांशैर् आसमन्ताद् ॥१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

तत एकादशे कालः परमाण्व्-आदि-लक्षैः ।

युग-मन्वन्तरादिभ्यः कल्पम् आनादि वर्ण्यते ॥

तद् एवं सामान्यतः कालस्योपलक्षण-भूतं गुण-व्यतिकरं दश-विधं निरूप्येदानीं तस्यैव विशेषं निरूपयितुं तत्-परिच्छेद्यं वस्तु लक्षयति द्वाभ्याम् । सतः कार्यस्य विशेषाणाम् अंशानां यश् चरमोऽन्त्यो यस्यांशो नास्ति । अनेकः कार्यावस्थाम् अप्राप्तः । असंयुतः समुदायावस्थां चाप्राप्तः । अत एव सदा कार्य-समुदायावस्थयोर् अपगमेऽप्य् अस्ति स परमाणुर् विज्ञेयः । किं तत्र प्रमाणम् अत आह—यतो येभ्यः समुदितेभ्यो नृणां व्यवहर्तॄणाम् ऐक्य-भ्रमोऽवयवि-बुद्धिः । तथा च पञ्चमेऽवयवि-निराकरणे वक्ष्यति, येषां समूहेन कृतो विशेष इति । कार्यानुपपत्त्या कल्प्यत इति भावः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकादशे पुनः कालो विशेषेणापि लक्ष्यते ।

मास-वर्ष-युगादीनां प्रमाणं ज्ञायते यतः ॥

प्रथमम् आत्यन्तिकं सूक्ष्म-कालं स्वरूपतो लक्षयितुम् अशक्नुवंस् तत् परिच्छेद्यं वस्तु लक्षयति । सतः कार्यस्य पृथिव्य्-आदेर् विशेषाणाम् अंशानां यश् चरमः, यस्यांशो न सम्भवति । ननु चरम इत्य् एक-वचनात् स किम् एक एव न, किन्त्व् अनेकः । अत्र सूक्ष्म-काल-ज्ञानार्थं तेषां बहुत्वेऽपि एकस्यैवोपयोगितेत्य् एक-वचन-प्रयोगः । ननु तर्हि स स्वैर् मिलितोऽमिलितो वा अत्रोपादीयत इत्य् अत आह—असंयुतः परमाणुर् विज्ञेय एव, न तु दृश्यत इत्य् अर्थः । ननु तर्हि तस्य सत्त्वे किं प्रमाणं तत्राह—यतः येभ्यः समुदितेभ्यः नॄणाम् ऐक्यम् इति भ्रमो भवति । सूर्य-रश्मि-युक्ते गवाक्ष-रन्ध्रे ये भ्रमन्तोऽतिसूक्ष्म एव कण इति बुद्धिर् भवतीत्य् अर्थः । तस्य षष्ठोऽंश एव परमाणुः स त्व् अदृश्य एवेत्य् अर्थः । नॄणाम् इत्य् उक्त्या त्रसरेणु-प्रमाण-देहानां कीट-विशेषाणां केषांचित् कोऽपि दृश्य एवेति व्यज्यते ॥१॥

———————————————————————————————————————

॥ ३.११.२ ॥

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।

कैवल्यं परम-महान् अविशेषो निरन्तरः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कालतो देशतो गुणतश् च परम-महत्त्वम् । सतः पर-ब्रह्मण एव । सच्-छब्दोऽन्यत्राप्य् उपचारतो भवतीत्य् अतः पदार्थस्येति । सत्-पदस्य यो मुख्याभिधेयस् तस्य ।

मुख्याभिधेयस् त्व् अर्थः स्याद् वाच्यम् अन्यच् च भण्यते ।

अमुख्येष्व् अर्थ-शब्दस् तु नीचो परिहितो भवेत् ॥ इति ब्रह्म-तर्के ।

यद्य् एव समः प्लुषिणेत्य्-आदिनान्यत्र-स्थितस्य तत्-परिमाणत्वम् अप्य् अस्तीत्य् अतः स्वरूपावस्थितस्येति । जगद्-आवरक-स्वरूपस्य ततः किञ्चिन् महत्त्वम् इत्वम् इत्य् अतः कैवल्यम् इति । तत्रापि बहु-विधानि रूपाणि तस्य सन्तीति अविशेष इति । सर्व-गते प्रादेश-मात्रम् अपि विद्यत इत्य् अतो निरन्तर इति । पर-ब्रह्मणो यः केवल-भावः । अण्डाऽद्य्-अन्तः-प्रविष्टं तद्-आवरकं तस्यैव परम-पुरुषादि-रूपान्तरं तद् एक-देशं प्रादेशः प्रादेश-मात्रादि-विशेषं च विना यत् सर्व-गतं रूपं तद् एव परम-महान् ।

काल-कोटि-विहीनत्वं कालानन्त्यं विदुर् वधाः ।

देश-कोटि-विहीनत्वं देशानन्त्यं तथैव च ॥

गुणानाम् अप्रमेयत्वं वस्त्व्-आनन्त्यं विदो विदुः ।

आनन्त्यं त्रिविधं नित्यं हरेर् नान्यस्य कस्यचित् ॥

तस्य सर्व-स्वरूपेष्व् अप्य् आनन्त्यं तु त्रि-लक्षणम् ।

तथापि देशतस् तस्य परिच्छेदोऽपि विद्यते ॥

परिच्छेदस् तथा व्याप्तिर् एक-रूपेऽपि युज्यते ।

तस्याचिन्त्याद्भुतैश्वर्याद् व्यवहारार्थम् एव च ।

गुणतः कालतश् चैव परिच्छेदो न कुत्रचित् ।

व्याप्तत्वं देशतोऽप्य् अस्ति सर्व-रूपेषु यद्यपि ।

न च भेदः क्वचित् तेषाम् अणु-मात्रोऽपि ।विशेष् ।

तथापि विशेषेऽणुत्वं तस्माद् ऐश्वर्य-योगतः ।

तस्माद् बुद्ध्य्-अवतारार्थम् अव्याप्तत्वं च भण्यते ॥

यत् तस्य व्यापकं रूपं परं नारायणाभिधम् ।

शून्यं ब्रह्मेति तत् प्राहुर् द्वितीयं स्रष्टृ यत् ततः ॥

परमः पुरुषो नाम मितं तद्-देशतो विभुः ।

तृतीयं वासुदेवाख्यं जगद्-आवरकं मितम् ॥

देशतो जगद् आविष्टं तुरीयं विष्णु-नामकम् ॥ इति ब्रह्म-तर्के ।

सर्व-गतस्यापि ब्रह्म-रूपस्य कालादि-रूपया प्रकृत्या समव्याप्ताव् अपि दार्ष्टान्तिकान्तर्-भावात् तद्-अन्यस्मिन्न् अवस्थानाच् च स्वरूपावस्थितस्येत्य् उक्तम् ।

देव्यां कालादि-रूपिण्यां स्थितं ब्रह्मापि सर्वगम् ।

उत्तम्ऽनन्यगं यस्माद् आत्मवत् सा हरेर् विभोः ॥

महद्-आदि-गतं यत् तु तद्-अन्य-गतम् उत्तम् । इति ब्राह्मे ।

अनुमितः शास्त्र-लोकानुसारेण ज्ञातः । अनुमेति द्वयं प्राहुर् यथा ज्ञानं च लिङ्गजम् इत्य् अभिधानम् ।

यावन्तं तद् एव लोकस्थो मानुषस् त्व् अवधारयेत् ।

महा-प्राज्ञो देव-जूकः स कालः परमाणुकः ॥

सर्गाद्यैर् अनवच्छिन्नस् तद् अनन्तर इत्य् अपि ।

तथैव परमाण्व्-आदि-विशेषात्मापि नो भवेत् ॥

पूर्वापरादि-भेदो न स कालः परमो महान् ॥ इति ब्रह्म-तर्के ।

स्वरूपावस्थितस्य कैवल्यम् अविशेषो निरन्तर इत्य् एतानि विशेषणानि क्रमेण परम-महतः कालस्याप्य् अत्रोक्तानि ।

देशतः कालतश् चैव वस्तुतस् तु त्रिधा हरेः ।

यथानन्त्यं न चान्यस्य प्रकृतेर् देश-कालतः ॥

तथा शब्दस्य कालस्य देशानन्त्यं न कालतः ।

काल-शब्दात्मिक् सैव तथापि तु हरेः सदा ॥

नास्याः सामर्थ्य-लेशोऽपि ज्ञानानन्द-गुणेष्व् अपि ।

ज्ञेयस् तद् अवरो वायुः शेषवीन्द्र-हरास् ततः ॥

अवरास् तत इन्द्राद्या गुणैः सर्वैर् न संशयः ॥ इति ब्रह्म-वैवर्ते ॥

अण्व्-आदि काल-संस्थान-भोक्तृत्वात् परमेश्वरः ।

अण्व्-आदि-नाम-वाच्योऽसौ कालश् चेत्य् अभिधीयते ॥ इति च ।

सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी, तद् एव ब्रह्म भुङ्क्ते । तद् अपि ब्रह्म परम-महान्, तस्यापि त्रिधा परिच्छेदाभावात्

सर्वं सर्वत्र भोक्तापि विशेषाद् एक-भोक्तृवत् ।

स्थितो हरिर् अचिन्त्यात्मा निजैश्वर्याद् अजो विभुः ॥ इति ब्रह्म-तर्के ॥२-४॥

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परम-महान् अविशेषो निरन्तरः ॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूक्ष्मम् उक्त्वा स्थूलम् आह—सत एवेति । यस्य चरमोऽंशः परमाणुस् तस्यैव सतः कार्य-मात्रस्य स्वरूपावस्थितस्य परिणामान्तरम् अप्राप्तस्य यत् कैवल्यम् ऐक्यं स परम-महान् । पुंस्त्वं तु परमाणु-प्रतियोगित्वात् । ननु नाना-विशेषवान् परस्परं भिन्नश् च सर्वः पदार्थः, कथम् ऐक्यं तस्य ? तत्राह—अविशेषो विशेष-विवक्षा-रहितो निरन्तरो भेद-विवक्षा-रहितश् च सर्वोऽपि प्रपञ्चः परम-महान् इत्य् अर्थः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्यन्तिकं सूक्ष्मम् उक्त्वा आत्यन्तिकं सूक्ष्मम् [स्थूलम्?] अप्य् आह—यस्य चरमोऽम्शः꣡ परमाणुस् तस्यैव सतः कार्य-मात्रस्य स्वरूपावस्थितस्य प्रलय-परिणाम-प्राग्-भूतस्य यत् कैवल्यम् ऐक्यं स परम-महान्**,** पुंस्त्वं तु परमाणु-प्रतियोगित्वात् । ननु नाना-विशेषवान् परस्परं भिन्नश् च सर्वः पदार्थः, कथम् ऐक्यं तस्य ? तत्राह—अविशेषो विशेष-विवक्षा-रहितो निरन्तरो भेद-विवक्षा-रहितश् च सर्वोऽपि प्रपञ्चः परम-महान् इत्य् अर्थः ॥२॥

———————————————————————————————————————

॥ ३.११.३ ॥

एवं कालोऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।

संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा सूक्ष्मः स्थूलश् चायं पदार्थः—एवं कालोऽप्य् अनुमितः । च-कारान् मध्यमावस्था गृह्यते । संस्थानं परमाण्व्-आद्य्-अवस्थानस्य भुक्तिर् व्याप्तिस् तया भगवान् इति हरेः शक्तिः स्वतोऽव्यक्तो भुङ्क्ते व्याप्नोति परिच्छिनत्तीति तथा । विभुर् उत्पत्त्य्-आदिषु दक्षः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा सूक्ष्मः स्थूलश् चायं पदार्थः—एवं कालोऽप्य् अनुमितो ज्ञातः । केन प्रकारेण ? संस्थानं परमाणु-परम-महतोः स्वरूपं तस्य भुक्त्या व्याप्त्या भगवच्-छक्तित्वाद् भागवत् स्वतोऽव्यक्तो व्यक्तं सर्व-प्रपञ्चं भुङ्क्ते व्याप्नोति परिच्छिनत्तीति तथा । विभुर् अत एव व्यापकः, उत्पत्त्य्-आदिषु दक्षो वा ॥३॥

———————————————————————————————————————

॥ ३.११.४ ॥

स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् ।

सतोऽविशेष-भुग् यस् तु स कालः परमो महान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव प्रपञ्चयति—स इत्य्-आदिना । सतः प्रपञ्चस्य परमाणुतां परमाण्व्-अवस्थां यो भुङ्क्ते, स कालः परमाणुः । तस्यैवाविशेषं साकल्यं यो भुङ्क्ते, स परम-महान् । अयम् अर्थः—ग्रह-र्क्ष-तारा-चक्र-स्थ[भा।पु। ३.११.१३] इत्य्-आदिना यत् सूर्य-पर्यटनं वक्ष्यते, तत्र सूर्यो यावता परमाणु-देशम् अतिक्रामति तावान् कालः परमाणुः । यावता च द्वादश-राश्य्-आत्मकं सर्वं भुवन-कोशम् अतिक्रामति, स परम-महान् संवत्सरात्मकः कालः । तस्यैवावृत्त्या युग-मन्वन्तरादि-क्रमेण द्वि-परार्धान्तत्वम् इति । तथा च पञ्चमे सूर्य-गत्यैव कालादि-विभागं वक्ष्यति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं [भा।पु। ३.१०.३] इति यद् उक्तं तद् एव विवृणोति—स काल इति । अत्र टीकायां परमाणु-देशम् अति क्रामति इत्य् अत्र मध्यम-वीथी-मय-ज्योतिश्-चक्र-गत्येति ज्ञेयम् । सर्वं भुवन-कोषम् अतिक्रामति इत्य् अत्र तु स्व-गत्येति ज्ञेयम् । यो भुङ्क्ते परमाणुताम् इत्य् अत्र च सूर्य-रूपेण परमाणु-देशातिक्रामिताम् इत्य् एवार्थः । वक्ष्यते च तस्य कालस्य सूर्येणाभेदः—यः सृज्य-शक्तिम् उरुधा[भा।पु। ३.११.१५] इत्य् अनेन । यद् वा, परमाणुतां तत्-पदार्थवत् परम-सूक्ष्मावस्थतां यो भुङ्क्ते व्याप्नोति स कालः परमाणुः ।1 सतः प्रपञ्चस्याविशेष-भुक् सृष्ट्य्-आदि-संहार-पर्यन्तं सर्वम् एव व्याप्नोति यः, स कालः परम-महान् द्वि-परार्ध-रूप इत्य् अर्थः । तथा च वक्ष्यते कालोऽयं परमाण्व्-आदि द्विपरार्धान्तः[भा।पु। ३.११.३८] इति ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्भोक्तेत्य् अस्यार्थं विवृणोति—सतः कार्यस्य परमाणुतां परमाणु-स्वरूपं यः कालो भुङ्क्ते, सूर्य-रूपेण अतिक्राम्यति स परमाणुः । ग्रह-र्क्ष- [भा।पु। ३.११.१३] इति वक्ष्यमाण-वाक्य-दृष्ट्या यावता कालेन सूर्यः परमाणु-देशम् अतिक्रामति, तावान् कालः परमाणुर् इत्य् अर्थः । स च तस्यैव अविशेषं सर्वम् एव प्रपञ्चं भुङ्क्ते वत्सर-युगाद्य्-आवृत्त्या सूर्य-रूपी यः कालः स परम-महान् सृष्टिम् आरभ्य प्रपञ्चस्य संहार-पर्यन्तं यावान् कालः तावान् सर्व एव परम-महान् इत्य् अर्थः । तत्र परमाण्व्-अणु-त्रसरेणूनां कार्यांशानां संज्ञ-प्रमाणे तुल्ये एव, तथा परम-महतः कार्यस्य कालस्य च संज्ञेव तुल्या तन्-मध्य-स्थानां संज्ञा-प्रमाणयोर् भिन्नत्वम् इति ज्ञेयम् ॥४॥

———————————————————————————————————————

॥ ३.११.५ ॥

अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः ।

जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अगात् दृष्टि-विषयं प्राप्य ज्ञात इत्य् अर्थः, राशि-भेदात् ॥५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं ह्व्य्-अणुकादि-लक्षण-पूर्वकं मध्यम-कालावस्थां कथयति । द्वौ परमाणू अणुः स्यात् । त्रयोऽणवस् त्रसरेणुः । स तु प्रत्यक्ष इत्य् आह—जालार्केति । गवाक्ष-प्रविष्टेष्व् अर्क-रश्मिष्व् अवगतः । कोऽसौ ? योऽति-लघुत्वेन स्वम् एवानुपतन्न् अगाद् गतः । पाठान्तरे स्वम् एवानुपतन्न् अवगतः, न तु गां पृथ्वीम् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अणुर् द्वाव् इति पद्यं पदार्थ-कालयोः सामान्य-वचनं दृष्टान्त-दार्ष्टान्तिक-भावनैक-नामत्वेन च ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वौ परमाणू अणुः स्यात् । त्रयोऽणवस् त्रसरेणुः, स तु प्रत्यक्ष इत्य् आह—जालार्केति । गवाक्ष-प्रविष्टेष्व् अर्क-रश्मिषु खम् एवातिलाघवेन अनुपतन्न् अवगतश् चक्षुषा ज्ञातः, न तु गां पृथ्वीम् । अगाद् इति पाठे तथा-भूतश् चलतीत्य् अर्थः । अत्राणु-परमाण्वोः सत्त्वे किं ज्ञापकम् इति चेत् त्रसरेणुर् एव । तथा हि अवयवानां स्थौल्य-प्रचुरत्वे विना अवयवी कल्प्या, न तु परमाणवस् तेषां स्थौल्याभावात् स्थौल्यम् अनेक-वस्तु-घटितत्वम् इत्य् अणोः स्थौल्यं परमाणुं विना न सम्भवेद् इति परमाणु-सिद्धिः । त्रसरेणोर् दृश्यत्वम् अवयव-स्थौल्यं विना न सम्भवेद् इत्य् अणु-सिद्धिः । तथा अणोः स्थौल्यार्थं परमाणोर् द्वित्वम् एव कल्प्यते, न तु त्रित्व-चतुष्ट्वादिकं प्रथमोपस्थितेस् तन्त्रत्वाद् इति न्यायात् । यथा कपिञ्जलान् आलभते प्राचुर्यार्थम् अणोर् अपि त्रित्वम् एव कल्प्यते तथा युक्तेर् इति ॥५॥

———————————————————————————————————————

॥ ३.११.६ ॥

त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।

शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शतं भागाः त्रुटि-रूपा यस्मिन् स वेधः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रसरेणु-त्रिकम् इति । तिर्भिस् त्रसरेणुभिः त्रुटिः । सूच्या भिन्ने पद्म-पात्रे त्रुटिर् इत्य् अभिधीयते इति सूर्य-सिद्धान्तः । यावता कालेन पद्म-पुष्प-पत्रं भिद्यते तावान् कालः त्रुटिर् इत्य् अर्थः । शतं भागाः त्रुटि-रूपा यस्मिन् स वेधः त्रुटि-शतेन वेध इत्य् अर्थः । तैस् त्रिभिर् लवः ॥६॥

———————————————————————————————————————

॥ ३.११.७ ॥

निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः ।

क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते निमेषास् त्रयः क्षण इत्य् आम्नातः । काष्ठाः पञ्चदश एकं लघु ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते निमेषास् त्रयः क्षण इत्य् आम्नातः । कथिताः ताः काष्ठाः पञ्चदश एकं लघु भवति ॥७॥

———————————————————————————————————————

॥ ३.११.८ ॥

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।

ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ऊनातिरेकात् सप्त वेति ॥८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाडिकाः षट् सप्त वा प्रहरः । स एव यामो दिनस्य रात्रेश् च चतुर्थो भागः । ह्रासे षट् वृद्धौ सप्त । सन्ध्यांश-मुहूर्त-द्वयं विनेति ज्ञातव्यम् । तत्राप्य् अनियमार्थो वा-शब्दः । प्रत्यहं तद् भेदानां गणयितुम् अशक्यत्वात् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : षट् सप्त वेति । वा-शब्दस् तत्र सर्वम् एवान्तरं समुच्चिनोति ।*।*८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाडिका दण्डः ते द्वे नाडिके । षट् सप्त वा नाडिकाः प्रहरः स एव यामोऽपि । दिनस्य रात्रेश् च चतुर्थ-भागः । ह्रासे षट् वृद्धि-प्रवृत्तौ सप्त । सन्ध्या-द्वय-घटिकां विनेति ज्ञेयम् । तत्राप्य् अनियमे वा-शब्दः । प्रत्यहं तद्-भेदानां गणयितुम् अशक्यत्वात् ॥८॥

———————————————————————————————————————

॥ ३.११.९ ॥

द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः ।

स्वर्ण-माषैः कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

काकणिका-चतुष्कं तु विंशांशेत्य् अभिधीयते ।

कृष्णलेत्य् अपि तं ब्रूयुस् तैश् चतुर्भिस् तु माषकम् ॥

चतुरङ्गुल-दीर्घे तु कृते मास-चतुष्टयम् ।

यावत् स्यात् परिणाहेन तावद् द्वारं विधीयते ॥

प्रस्थस्य नाडी-पात्रस्य षट्-दलस्य शुभे जले ।

भाराधिक्ये नोदकेन क्षिप्रं पूर्तिर् भविष्यति ॥

अतिशैत्ये कलङ्के च माघेनैव तु पूरणम् ।

तस्माद् वसन्त-काले तु प्रयागस्थोदकेन तु ॥

नाडी-शुद्धि-परीक्षा स्याद् अन्यथा न सम्भवेत् ॥ इति पाद्मे ।

निर्मलेन समोष्णेन नित्य-सूर्यांशु-वारिणा ।

प्रवाहगेन कार्या स्यात् कलि-शुद्धिः सदैव तु ॥ इति ब्रह्माण्डे ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाडिकाया उन्मानम् आह—उन्मीयतेऽनेनेत्य् उन्मानं पात्रं षट्-पल-ताम्र-विरचितम् । पञ्च-गुञ्जो माषस् तैश् चतुर्भिश् चतुर्-अङ्गुलायामशलाकारूपेण रचितैः कृत-मूल-च्छिद्रं तेन छिद्रेण यावत् प्रस्थ-परिमितं जलं प्रविशति तेन च प्लुतं निमग्नं भवति तावान् कालो नाडिका । अत्र पल-च्छिद्रयोर् आधिक्ये शीघ्रं निमज्जेद् अल्पत्वे च विलम्बेनेति पल-शलाकयोर् नियमः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाडीकाया उन्मानम् आह—उन्मीयतेऽनेनेत्य् उन्मानं षट्-पल-ताम्र-रचितं पात्रं चतुःषष्ट्या माषैः पलं भवति । पञ्च-गुञ्जा माषः तैश् चतुर्भिश् चतुरङ्गुलायाम-शलाका-रूपेण रचितैः कृत-मूल-च्छिद्रं तेन छिद्रेणयावत् प्रस्थ-परिमितं जलं प्रविशति । तेन च प्लुतं निमग्नं भवति तावान् कालो नाडिका अत्र पल-च्छिद्रयोर् आधिक्ये शीघ्रं निमज्जेत् । अल्पत्वे च विलम्बेनेति पल-शलाकयोर् नियमस् तत्रापि रजतादि-शलाकया छिद्र-पुष्टिः स्याद् इति स्वर्णस्यापि नियमः ॥९॥

———————————————————————————————————————

॥ ३.११.१० ॥

यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे ।

पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यत्रोभयोः स-शब्दः स्यात् तत्र द्वि-वचनेऽप्य् उभ इत्य् अभिधानम् ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहनी अहो-रात्रम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.११.११ ॥

तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् ।

द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : षण्-मासा अयनम् । दिवीत्य् अस्योत्तरेणान्वयः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : षण्-मासा अयनम् । दिवीत्य् अस्योत्तरेणान्वयः ॥११॥

———————————————————————————————————————

॥ ३.११.१२ ॥

अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः ।

संवत्सर-शतं नॄणां परमायुर् निरूपितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दिवीति देवानाम् अहो-रात्रे प्राहूः । द्वादश मासाः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ग्रहर्क्षेति सूर्य-गति-मात्र-कथनं, न तु कालावसान-तात्पर्यकं संवत्सरस्य परम-महत्त्वायोगात् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते अयने दिवि देवानाम् अहनी अहो-रात्रौ द्वादश-मासा वत्सरः ॥१२॥

———————————————————————————————————————

॥ ३.११.१३ ॥

ग्रह-र्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् ।

संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेन क्रमेणासौ सूर्यो नित्यम् आयुः क्षपयतीत्य् आह—ग्रहाश् चन्द्रादयः, ऋक्षाण्य् अश्विन्य् आदीनि, तारा अन्यणि नक्षत्राणि, तद् उपलक्षितं यत् काल-चक्रं, तत्र स्थितोऽनिमिषः कालात्मा विभुर् ईश्वरः सूर्यो जगद् द्वादश-राश्य्-आत्मकं भुवन-कोशं पर्येति पर्यटति ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच् च नृणाम् आयुर् उदयास्तमयाभ्यां सूर्यो हरतीत्य् आह—ग्रहाश् चन्द्रादयः ऋक्षाण्य् अश्विन्य्-आदीनि तारा अन्यानि नक्षत्राणि तेषां चक्रे मण्डले तिष्ठतीति ज्योतिश्चक्रस्थ इत्य् अर्थः । अनिमिषः काल-स्वरूपः विभुर् ईश्वरांशः पर्येति परिक्रामति ॥१३॥

———————————————————————————————————————

॥ ३.११.१४ ॥

संवत्सरः परिवत्सर इडा-वत्सर एव च ।

अनुवत्सरो वत्सरश् च विदुरैवं प्रभाष्यते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

इडा-वत्सर-नामासौ नक्षत्र-द्वादश-स्थितः ।

तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥

वत्सरो यः स्थितस् त्व् अह्नां षष्ट्य्-उत्तर-शत-त्रये ।

गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः ॥

सौर-द्वादशके मासे यः स्थः संवत्सरो हरिः ।

एवं स काल-नामापि काल-स्थः परमेश्वरः ॥ इति ब्रह्म-तर्के ।

सर्वदा दर्शनात् तस्यानिमिषत्वं विदुर् बुधाः ।

सततं गमनाद् वापि काल-स्थस्य महात्मनः ॥ इति च ॥१४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : संवत्सरादि-भेदश् च सौर-बार्हस्पत्य-सावन-चान्द्र-नाक्षत्र-मास-भेदेन द्रष्टव्यः । केचित् पुनर् एवम् आहुः । यदा शुक्ल-पक्ष-प्रतिपदि सङ्क्रान्तिर् भवति सौर-चान्द्र-मासयोर् युग-पद् उपक्रमो भवति स संवत्सरः । ततः सौर-मानेन वर्षे षट् दिनानि वर्धन्ते चान्द्र-मानेन वर्षे षट् दिनानि ह्रसन्तीति द्वादश-दिन-व्यवधानाद् उभयोर् अग्र-पश्चाद् भावो भवति । एवं व्यवधान-तारतम्येन पञ्च-वर्षाणि गच्छन्ति । तन्-मध्ये द्वौ मल-मासौ भवतः । पुनः षष्ठः संवत्सरो भवति ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रह-र्क्ष-तारा-चक्र-स्थ इत्य् उक्तम्, अतः सूर्य-गत्या ग्रहादीनां गत्या वर्यस्य नाम-भेदान् आह—संवत्सर इति सौर-गत्या । परिवत्सर इति बार्हस्पत्य-गत्या । अनुवत्सर इति चान्द्र-गत्या । ऋक्ष-ताराणां स्वतो गत्य्-अभावात् चक्र-गतिर् एव गतिर् इति । तत्रापि ऋक्षाणां सप्त-विंशति-दिन-मानैर् मासैर् द्वादशभिर् वत्सर इति । ताराणां सङ्ख्याभावात् त्रिंशद्-दिन-प्रमाणैः सावनैर् मासैर् इदावत्सर इति ज्ञेयम् ॥१४॥

———————————————————————————————————————

॥ ३.११.१५ ॥

यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या

पुंसोऽभ्रमाय दिवि धावति भूत-भेदः ।

कालाख्यया गुणमयं क्रतुभिर् वितन्वंस्

तस्मै बलिं हरत वत्सर-पञ्चकाय ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अ-भ्रमायाभूत-भेदकः क्रतुभिः स्व-प्रज्ञाभिः ।

भूतानां ज्यैष्ठ-कनिष्ठाज्ञप्त्यै यज्ञादि-वृत्तये ।

बोधयन् सृज्य-शक्तिं च कालस्थो वर्तते हरिः ॥ इति तन्त्र-प्रकाशिकायाम् ॥१५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतः कालात्मा वित्यमप्रमत्तैः पूजनीय इत्य् आह—य इति । सृज्यं कार्यम् अङ्कुरादि तद्-विषयां बीजादीनां शक्तिं काल-रूपया स्व-शक्त्या बहुधोच्छ्वसयन् कार्याभिमुखी-कुर्वन् दिव्य् अन्तरिक्षे धावति । कोऽसौ ? भूत-भेदो महा-भूत-विशेषस् तेजो-मण्डल-रूपी सूर्यः । किम् अर्थं धावति । पुरुषस्याभ्रमाय भ्रमो मोहस् तन् निवृत्तये । आयुर्-आदि-व्ययेन विषयासक्तिं निवर्तयन्न् इत्य् अर्थः । स-कामानां तु गुण-मयं स्वर्गादि-फलं क्रतुभिर् विस्तारयन् । तस्मै संवत्सर-पञ्चक-प्रवर्तकाय पूजां कुरुत ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किम्-अर्थम् इदं वत्सर-भेद-कल्पनम् इति चेत् तत्-तद्-वर्ष-विहित-धर्मादि-सिद्ध्य्-अर्थम् इत्य् आह—य इति । सृज्यानाम् उद्भिज्-जादीनां शक्तिम् अङ्कुरादौ सामर्थ्यं स्व-शक्त्या काल-रूपया उरुधा उच्छ्वसयन् प्रकाशयन् दिवि अन्तरीक्षे धावति कोऽसौ भूत-भेदः महा-भूत-विशेषस् तेजो-मण्डल-रूपी सूर्यः किम्-अर्थं धवति पुंसः पुरुषस्य अभ्रमाय दिङ्माहादि-निवृत्तये सकामानां गुण-मयं स्वर्गादि-फलं संवत्सरादि-विहित-कर्म-काल-ज्ञापनया क्रतुभिर् अनुष्ठेयैः । तस्मात् तस्मै वत्सर-पञ्चक-प्रवर्तकाय कलिम् अर्ध्यादि-पूजोपहारं दत्त । हे धार्मिक-लोकाः ! ॥१५॥

———————————————————————————————————————

॥ ३.११.१६ ॥

विदुर उवाच—

पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् ।

परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं स्व-स्व-मानेन वर्ष-शतं गणितम् आयुर् मानम् । प्रत्यहं कल्प्यते सृज्यते इति कल्पस् त्रै-लोक्यं तस्माद् बाह्यतः । विदो ज्ञानिनः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पित्रादीनाम् आयुर् इदम् इति । तद् एतद् यथा-स्वं पूर्वोक्त-काल-गणनात्मकम् इत्य् अर्थः । शतं तु नृणाम् एव । पूर्वं नृणां पितॄणां देवानां च काल-सङ्ख्यानम् उक्त्वा संवत्सर-शतं नॄणां परमायुर् निरूपितम् इति निर्धारितत्वात् । इन्द्रादीनां मन्वन्तर-स्थायिनाम् अधिक-परिमाण-प्रप्तिश् च परेषां ब्रह्म-सनकादीनां कल्पाद् ब्रह्म-दिनाद् बहिर् ये स्युः जीवन्ति ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं स्व-स्व-मानेन वर्ष-शतं ये विदो विद्वांसः कल्पाद् दैनन्दिनाद् बहिः परत्रापि तिष्ठन्ति, तेषां सनकादीनां भृग्व्-आदीनां च गतिम् आयुः ॥१६॥

———————————————————————————————————————

॥ ३.११.१७ ॥

भगवान् वेद कालस्य गतिं भगवतो ननु ।

विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योग-राद्धेन योग-सिद्धेन ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् भवान् योग-राद्धेन योग-सिद्धेन ॥१७॥

———————————————————————————————————————

॥ ३.११.१८ ॥

मैत्रेय उवाच—

कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् ।

दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वादशभिर् वर्ष-सहस्रैर् इत्य् उत्तर-श्लोक-सामर्थ्याज् ज्ञातव्यम् । अवधीयते इत्य् अवधानं सन्ध्या चांशश् च, तत्-सहितम् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृतम् इत्य्-आदीनाम् अयम् अर्थः—मनुष्याणां षष्ट्य्-अधिक-त्रि-शत-परिमितैर् वर्षैः (३६०) देवानां वर्षं, तैर् द्वादशभिः सहस्रैस् तेषां चतुर्युगम् । तच् च मनुष्याणां विंशति-सहस्राधिक-त्रि-चत्वारिंशल्-लक्ष-गणितं (४३२०००) वर्ष-सङ्ख्याकं भवति । तावद् एव सत्यादि-चतुर्-युगम् । यतः सत्यं (१७२८०००) त्रेता (१२९६०००) द्वापरः (८६४०००) कलिः (४३२०००) इति एवं देवानां युग-सहस्र-द्वयं ब्रह्मणोऽहो-रात्रः । तच् च मनुष्याणां पद्माष्टकं चतुः-षष्टि-कोट्य्-अधिकं (८००,०००,६४०,०००,०००) इति ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कल्प-बहिर्-आयुषो हि भृग्व्-आदयो ब्रह्म-तुल्यायुष एव भवन्तीति ब्रह्मण आयुर् वक्तुं युगादीनां मानम् आह—कृतम् इति । वर्षैर् वर्ष-सहस्रैः । अवधीयत इत्य् अवधानं सन्ध्या-सन्ध्यांशश् च, तत्-सहितम् ॥१८॥

———————————————————————————————————————

॥ ३.११.१९ ॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् ।

सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत-युगे चत्वारि सहस्राणि सन्ध्या-सन्ध्यांशयोश् चत्वारि-चत्वारीत्य् अष्टौ शतानि च । एवं त्रेतादिष्व् अपि योज्यम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा-क्रमम् इति । कृत-युगे चत्वारि सहस्राणि । सन्ध्या-सन्ध्यांशयोश् चत्वारि-चत्वारीत्य् अष्टौ शतानि । एवं त्रेतादिष्व् अपि योज्यम् ॥१९॥

———————————————————————————————————————

॥ ३.११.२० ॥

सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः ।

तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युगस्यादौ सन्ध्या, अन्तेऽंशः सन्ध्यांशः । उक्तानि शतानि सङ्ख्या ययोः, तयोर् अन्तर् मध्ये युगम् । तस्य विशेषम् आह—यत्र इति । गवालम्भादि-धर्म-विशेषो यत्र विधीयते इत्य् अर्थः । साधारण-धर्मस् तु सन्ध्यांशयोर् अप्य् अस्त्य् एव ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सन्ध्या-सन्ध्यांशयोर् अन्तर् इत्य् अत्र सन्ध्या-सन्ध्यांशयोर् अन्त इति ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युगस्यादौ सन्ध्या, अन्तेऽंशः सन्ध्यांशः । तयोः कथम्भूतयोः ? उक्तानि शतानि सङ्ख्या ययोः, तयोर् अन्तर् मध्य-वर्ती यः कालः, तं युगम् आहुःयत्र धर्म इति ध्यान-यज्ञ-परिचर्या-कीर्तनात्मको धर्म-विशेषः । साधारण-धर्मस् तु गुण-भूतः । सन्ध्यांशयोर् अप्य् अस्त्य् एव । किं च, यस्य युगस्य यो धर्मः, स एव तत्-सन्ध्या-सन्ध्यांशयोर् अपि प्रधानी-भूतः इति ज्ञेयम् । मनुष्याणां षष्ट्य्-अधिक-त्रि-शत-वर्षैर् देवानाम् एक-वर्षम् । एवं मनुष्याणां विंशति-सहस्राधिक-त्रिचत्वारिंशल्-लक्ष-वर्षैश् चतुर्-युगं शास्त्रेषु युग-शब्देनोच्यते । तत्राष्टाविंश-सहस्राधिक-सप्तदश-लक्षैर् वर्षैः सत्यं, षण्णवति-सहस्राधिक-द्वादश-लक्षैस् त्रेता । चतुःषष्ठि-सहस्राधिकाष्ट-लक्षैर् द्वापरः । द्वात्रिंशत्-सहस्राधिक-चतुर्-लक्षैः कलिः ॥२०॥

———————————————————————————————————————

॥ ३.११.२१ ॥

धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते ।

स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुष्-पात् संपूर्णः । त्रेतादिषु पादेन पादेन व्येति ह्रसति । पादेन पादेन वर्धमानेनाधर्मेण हेतुना । एतच् च स्वरूप-कथन-मात्रं वैराग्यार्थं न तु धर्म-सङ्कोचनार्थम् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुष्-पात् पूर्णः । मनुजानुलक्षीकृत्य अन्येषु त्रेतादिषु अधर्मेण पादेन पादेन वर्धता वर्धमानेन हेतुना व्येति पादेन पादेन ह्रसति ॥२१॥

———————————————————————————————————————

॥ ३.११.२२ ॥

त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् ।

तावत्य् एव निशा तात यन् निमीलति विश्व-सृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रि-लोक्या बहिर् महर्-लोक-प्रभृति-ब्रह्म-लोकम् अभिव्याप्य चतुर्-युग-सहस्रम् एकं दिनम् । यद् यस्यां विश्व-सृक् ब्रह्मा निमीलति स्वपिति ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रि-लोक्या बहिर् महर्-लोक-प्रभृति-ब्रह्म-लोकम् अभिव्याप्य चतुर्-युग-सहस्रम् एकं दिनम् । यद् यस्यां विश्व-सृग् ब्रह्मा निमीलति, तदैव स्वपन्तं गर्भोदशायिनम् अनुस्वपिति । एवं युग-सहस्र-द्वयं ब्रह्मणोऽहोरात्रः । तत्र मनुष्याणां चतुः-षष्ठि-कोट्य्-अधिकाष्ट-पद्म-वर्षाणि भवन्ति ॥२२॥

———————————————————————————————————————

॥ ३.११.२३ ॥

निशावसान आरब्धो लोक-कल्पोऽनुवर्तते ।

यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र दिन-स्थितिम् आह—निशावसान इत्य्-आदि-सार्धैश् चतुर्भिः । चतुर्दश-मनून् भुञ्जन् पालयन् । व्याप्नुवन्न् इत्य् अर्थः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र दिन-स्थितिम् आह—निशावसान इत्य्-आदि-सार्धैश् चतुर्भिः । चतुर्दश-मनून् भुञ्जन् पालयन् । व्याप्नुवन्न् इत्य् अर्थः ॥२३॥

———————————————————————————————————————

॥ ३.११.२४ ॥2

स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् ।

मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः ।

भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : दिनस्थो भगवान् भोक्ता ।

युगैक-सप्ततेर् ऊर्ध्वं सार्धाष्टादश-लक्षकम् ।

वत्सराणां मनोर् भुक्तिः सहस्रं चतुर्-उत्तरम् ।

शतानां प्रलयश् चैव पञ्चोत्तरम् अथापि च ।

आद्येषु षट्सु प्रथमे द्वि-साहस्रां प्रकीर्तितम् ।

वत्सराणां मनोर् अन्तर् एवम् इन्द्रादीनां भवेत् ॥ इति महा-वाराहे ॥२४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : किञ्चिद् अधिकां युगानाम् एक-सप्ततिम् । मनु-वंश्याः पृथ्वी-पालकाः क्रमेण भवन्ति । सप्तर्षि-प्रभृतयस् तु युगपत् सम-कालम् एव भवन्ति । सुरेशा इन्द्राः । तान् अनुवर्तन्ते ये गन्धर्वादयस् तेऽपि ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वं स्वम् इत्य् अर्धकम् ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुः स्वायम्भुवादिः किञ्चिद् अधिकां चतुर्-युगानाम् एक-सप्ततिं कालं व्याप्य तत्र देव-मानेन द्विपञ्चाशत्-सहस्राधिकान्य् अष्ट-लक्षाणि वर्षाणि भवन्ति, मनुष्य-मानेन तु तिर्ंशत्-कोट्यः सप्त-षष्ट-लक्षाणि विंशतिः सहस्राणीति । तथोक्तं विष्णु-पुराणे—

त्रिंशत्-कोट्यस् तु सम्पूर्णाः सङ्ख्याताः सङ्ख्यया द्विज ।

सप्त-षष्टिस् तथान्यानि नियुतानि महा-मुने ।

विंशतिश् च सहस्राणि कालोऽयम् अधिकं विना ।

मन्वन्तरस्य सङ्ख्येयं मानुषैर् वत्सरैर् द्विज ॥ इति ।

मनु-वंशः पृथ्वी-पालकः क्रमेण भवति । सप्तर्षि-प्रभृतयस् तु युगपत् सम-कालम् एव भवन्ति । सुरेशा इन्द्रास् तान् अनुवर्तन्ते ये गन्धर्वादयस् तेऽपि ॥२४॥

———————————————————————————————————————

॥ ३.११.२५ ॥

एष दैनन्दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः ।

तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रैलोक्यं वर्तयतीति तथा ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : युगपद् इति स्व-स्व-मन्वन्तर इत्य् अर्थः ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रैलोक्ये वर्तते इति स त्रैलोक्य-सृष्टिर् इत्य् अर्थः ॥२५॥

———————————————————————————————————————

॥ ३.११.२६ ॥

मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः ।

मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-मूर्तिभिर् मन्वन्तरावतारैर् मन्व्-आदिभिर् द्वार-भूतैर् आविष्कृत-पुरुष-कारः सन् विश्वं रक्षति ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-मूर्तिभिर् अवतारैर् उदित-पौरुष आविष्कृत-पुरुषाकारः ॥२६॥

———————————————————————————————————————

॥ ३.११.२७ ॥

तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः ।

कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रात्रि-गतां स्थितिम् आह पञ्चभिः । तमसो मात्रं लेशम् । प्रतिसंरुद्धः प्रत्याहृतो विक्रमो येन । अनुगतम् अनुप्रविष्टम् अशेषं यस्मिन् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रात्रि-गतां स्थितिम् आह—तमसो मात्रां त्रैलोक्य-मात्र-संहारार्थं लेशं कालाग्नि-रुद्र-रूपेण स्वीकृत्य संहारं प्रतिसंरुद्धो वह्न्य्-आदिभिर् आवृतो विक्रमो भूर्-आदि-लोक-त्रयं येन सः । विक्रमो भूर्-भुवः-स्वर् इति पूर्वोक्तेः । ततश् चानुगतम् अनुप्रविष्टम् अशेषं यस्मिन् त्रैलोक्य-स्थ-जीव-वृन्दं यत्र सः । तूष्णीं त्यक्त-मायिक-लीला-विनोद इत्य् अर्थः ॥२७॥

———————————————————————————————————————

॥ ३.११.२८ ॥

तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः ।

निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव स्पष्टयति—तम् एवेति । अन्व् अपि धीयन्त इति कर्म-कर्तरि-प्रयोगः । तिरोहिता भवन्तीत्य् अर्थः । कथं ? निर्मुक्तो रहितः शशी भष्करश् च यथा भवति तथा ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एव स्पष्टयति—तम् एवेति । अन्व् अपि धीयन्त इति कर्म-कर्तरि-प्रयोगः । तिरोहिता भवन्तीत्य् अर्थः । कथं ? निर्मुक्तो रहितः शशी भष्करश् च यथा भवति तथा ॥२८॥

———————————————————————————————————————

॥ ३.११.२९ ॥

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।

यान्त्य् उष्मणा महर्लोकाज् जनं भृग्व्-आदयोऽर्दिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवच्-छक्ति-रूपो यः सङ्कर्षण-मुखाग्निस् तेनोष्मणार्दिताः सन्तो जन-लोकं यान्ति ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केन प्रकारेण इत्य् अपेक्षायाम् आह—त्रिलोक्याम् इति ॥२९॥

———————————————————————————————————————

॥ ३.११.३० ॥

तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः ।

प्लावयन्त्य् उत्कटाटोप-चण्ड-वातेरितोर्मयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कल्पान्तेनैधिताः सिन्धवः समुद्राः । उत्कट आटोपः क्सोभो येषां ते च ते चण्ड-वातैर् ईरितोर् मयश् च ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सद्य इति त्रिलोक्यां दग्धायां सत्याम् अविलम्बेनेत्य् अर्थः । दाहस् तु शत-वर्ष-पर्यन्तो ज्ञेयः । उत्कट आटोपः क्सोभो येषां ते च, ते चण्ड-वातेरित-तरङ्गाश् चेति ते ॥३०॥

———————————————————————————————————————

॥ ३.११.३१ ॥

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः ।

योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जन-लोक आलयो येषां महर्-लोक-गतानाम् अन्येषां च तैः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्कटाटोपैश् चण्ड-वातैर् ईरिता ऊर्मयो येषां ते ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगाख्या विमलादीनां चिच्-छक्ति-वृत्तीनां पञ्चमी सैव तदानीं निद्रा-रूपा तया मुदित-नेत्रः । जनालयैर् जन-लोक-निवासिभिर् मुनिभिः ॥३१॥

———————————————————————————————————————

॥ ३.११.३२ ॥

एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः ।

अपक्षितम् इवास्यापि परमायुर् वयः-शतम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अस्य ब्रह्मणः, ब्रह्मणो दिनम् इत्य् उक्तत्वात् ।

नायुर् मानं भगवतः कस्मिन् रूपोऽपि विद्यते ।

अनादित्वाद् अमध्यत्वाद् अनन्तत्वाच् च सोऽव्ययः ॥ इति हरिवंशः ॥३२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैराग्यार्थम् आह—एवं-विधैर् अहो-रात्रैर् वर्ष-शतं सर्वेषां प्राणिनाम् आयुषः परम् अधिकम् अस्य ब्रह्मणो यद् आयुस् तद् अप्य् अपक्षितम् इव क्षीणम् इवेति लोकोक्तिः । गत-प्रायम् इत्य् अर्थः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य ब्रह्मणोऽप्य् आयुर् उपलक्षितम् अपक्षीणं गत-प्रायम् एवेति यस्माद् बिभेम्य् अहं [भा।पु। ३.९.१८] इत्य् उक्त्या कालाद् बिभ्यता ब्रह्मणापि विषय-भोगेभ्यो विरज्य निरन्तरम् एव भागवत् उपास्यते मनुष्याः कियद् आयुषः केन साहसेन विषयम् उपभुञ्जानास् तं न भजन्तीति भक्ति-वैराग्ययोः प्रयत्न आवश्यक इति काल-निरूपण-प्रयोजनम् उक्तम् ॥३२॥

———————————————————————————————————————

॥ ३.११.३३ ॥

यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते ।

पूर्वः परार्धोऽपक्रान्तो ह्य् अपरोऽद्य प्रवर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वस्य परार्धस्यादाव् इति त्रिभिर् वस्तु-कथन-मात्रम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् अर्धम् इति अद्य अस्मिन् ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-आयुर् द्विधा विभक्तम् आह—यद् इति ॥३३॥

———————————————————————————————————————

॥ ३.११.३४ ॥

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् ।

कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाद्मत्वे हेतुः, यद् इति ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वस्येति प्रभास-खण्डोक्तः श्वेत-वराहादिभिः पितृ-कल्पास् तैस् त्रिंशत्-कल्पैर् एव शुक्ल-प्रतिपदाद्य्-अमावस्यान्तानि त्रिंशद्-दिनानि तेषाम् एव कल्पानां पुनः पुनर् आवृत्त्या मासाः मासैर् द्वादशभिर् वर्षं पञ्चाशता वर्षैर् एकं परार्धम् । तत्र पूर्वस्य प्रथमस्य आदौ ब्राह्म इति श्वेत-वाराह एव ब्रह्म-जन्म-तिथित्वात् ब्राह्म-शब्देनोच्यते । सा तिथिश् च चैत्र-शुक्ल-प्रतिपद् एव ज्योतिः-शास्त्रोक्त्या ज्ञेया ॥३४॥

———————————————————————————————————————

॥ ३.११.३५ ॥

तस्यैव चान्ते कल्पोऽभूद् यं पाद्मम् अभिचक्षते ।

यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अयं तु द्वितीयस्यादौ कथितः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कल्पः पितृ-कल्पः यं परार्धस्यैवान्तिमं पितृ-कल्पम् एव पाद्मं वदन्ति, पाद्मत्वे हेतुः—यद् इति । तेन सर्वेष्व् एव कल्पेषु लोकात्मकं पद्मं न भवति, किन्तु क्वापि क्वाप्य् एवेत्य् अर्थः ॥३५॥

———————————————————————————————————————

॥ ३.११.३६ ॥

अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।

वाराह इति विख्यातो यत्रासीच् छूकरो हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं कालेन निमित्तेन सृज्यानाम् आयुः परिमाणम् उक्त्वा काल-परिच्छेद-रहितं तत्त्वम् आह—कालोऽयम् इति पञ्चभिः । उपचर्यते केवलं न त्व् अनेनापि क्रमेणायुर् गणनं तस्येत्य् आह—अव्याकृतस्य कार्योपाधि-शून्यस्य अत एवानन्तस्यानादेश् च जगद्-आत्मनो जगत्-कारणस्य ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं ब्रह्मणो दिन-कल्पनेन गर्भोद-शायिनो दिन-कल्पना ज्ञेया। तस्यापि तद्-अन्ते योग-निद्रा-स्वीकारात् । कारणार्णव-शायिनः काल-कल्पनऽं त्व् एवम् इत्य् आह—कालोऽयम् इति । यस्यैक-निश्वसित-कालम् अथावलम्ब्य जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथाः इति ब्रह्म-संहितातः ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयं तु सम्प्रति वर्तमान-द्वितीयस्य परार्धस्य एक-पञ्चाशत्तम-वर्षस्य प्रथम-दिवस इत्य् अर्थः । अत्र पाद्मं कल्पम् अथो शृण्व् इत्य् उपक्रान्तायाम् उदाप्लुतं विश्वम् इत्य्-आदि-पाद्म-कल्प-कथायाम् एकार्णवोदके एकस्य पद्मस्यैव श्रवणात् तत्रैकस्य ब्रह्मण एवोद्भवाद् विलोक्य तत्रान्यद् अपश्यमान इत्य् आद्य्-उक्तेर् महा-कल्पायुषां सनकादीनां च तत्रानुपलम्भात् केचित् प्रथम-परार्धान्ते महर्-जनस्-तपः-सत्यानां द्वि-परार्धान्त-पर्यन्त-स्थायिनाम् अनष्टानाम् अपि जल-प्लावनं तथा तत्रत्यानां सर्वेषाम् एव कल्पायुषां ब्रह्म-साहितेनैव श्री-नारायणे प्रवेशम् आख्याय प्रथम-परार्ध-समाप्तौ द्वितीय-परार्धस्यादिमं श्वेत-वाराहम् एव पाद्मम् आहुः । द्वादशाध्याये च सनकादि-मरीच्य्-आदीनां ब्राह्म-कल्प इव ब्रह्मत एवाविर्भावश् च वक्ष्यते, न च तत्र ब्राह्म-कल्प-कथैवेति वाच्यं, पाद्म-कल्प-कथायाः प्रक्रान्तत्वात् । तस्मात् तस्यैव चान्त इत्य् अत्र अन्ते अवसाने समाप्ताव् इत्य् अर्थ इति । अयं त्व् इति तुर् एवार्थे अयम् एव पाद्म एव वाराह इति ख्यातः । तत्र हेतुर् यत्रासीद् इति द्वितीयस्यापीत्य् अपि-कारेण प्रथम-परार्धस्यादिमो ब्राह्मः कल्पोऽपि पाद्म उच्यत इति व्याचक्षते ॥३६॥

———————————————————————————————————————

॥ ३.११.३७ ॥

कालोऽयं द्वि-परार्धाख्यो निमेष उपचर्यते ।

अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् परिच्छेदे कालस्यासामर्थ्याद् इत्य् आह—कालोऽयम् ईश्वरः समर्थोऽपि भूम्नः परिपूर्णस्येशितुं नैव प्रभुः समर्थः । यतो धाम-मानिनां देह-गेहाभेमानिनाम् एवेश्वरः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : धाम-मानिनां सत्य-लोकाद्य्-अधिकार-मानिनाम् ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं सूक्ष्मं स्थूलं कालम् उक्त्वेदानीम् आत्यन्तिकं स्थूलं परम-महान्तं कालम् आह—द्वि-परार्ध-संज्ञः कालस्य पर्यवसानासम्भवेऽप्य् आत्यन्तिक-स्थूलत्वेन स एव शास्त्रे व्यवह्रीयते सोऽपि जगद्-आत्मनः परमेश्वरस्य निमेषः । नन्व् एवं निमेषादिक्रमेण तस्यापि किम् आयुर् गण्यते, तत्र नहि नहीति सरसनाद् अंशम् आह—उपचर्यते क्वचिन् निमेष इति । यस्यैक-निःश्वसित-कालम् अथावलम्ब्य जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथा इति ब्रह्म-संहितादौ क्वचिन् निश्वास इत्य् उपचार-मात्रं न तु वस्तुतो निमेषोऽपीत्य् अर्थः । यतोऽव्याकृतस्य काल-कृत-विकार-रहितस्य । तत्र हेतुर् अनन्तस्यानादेः काल-परिच्छेदातीतस्येत्य् अर्थः । यतो जगद्-आत्मनः कालादि-सर्व-जगत्-कारणस्य ॥३७॥

———————————————————————————————————————

॥ ३.११.३८ ॥

कालोऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः ।

नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : “भूम्न” इत्य् उक्तं तत् प्रपञ्चयन्न् आह—विकारैः षोडशभिर् युक्तैर् अष्ट-प्रकृति-संयुतैः सहितस् तद् आरब्ध इत्य् अर्थः । अयम् आण्ड-कोशो यत्र प्रविष्टः परमाणुवल् लक्ष्यते इत्य् उत्तरेणान्वयः । कीदृशः । अन्तः पञ्चाशत्-कोटि-योजन-विस्तृतः, बहिश् च विशेषादिभिः पृथिव्य्-आदिभिः सप्तभिर् आवृतः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यञ्जितम् एवार्थं पुनः स्पष्टयति—कालोऽयम् इति । भूम्नः परमेश्वरस्य धाम-मानिनां सत्य-लोकाद्य्-अधिकारिणाम् ॥३८॥

———————————————————————————————————————

॥ ३.११.३९ ॥

विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः ।

आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

दशेन्द्रियाणि च मनो-भूतान्य् अण्ड-गतानि तु ।

विकारा इति विज्ञेया भूताहं महतः परम् ॥

पृथिवीं विशेष इत्य् आहुः शब्दादीनां बहुत्वतः ।

सा सूक्ष्मत्वाद् वृणोत्य् अण्डं द्विगुणा तु दशोत्तराः ।

अवादयः प्रकृत्य्-अन्ता अष्ट प्रकृतयः स्मृताः ॥ इति च ।

शरीराणां बहुत्वेन अतीतान् आगतैस् तथा ।

अस्येव देव-कायेषु प्रति प्रति च दर्शनात् ।

विष्णु-सामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥ इति ब्रह्म-तर्के ।

एकम् अण्डं बहुत्वेन प्रत्येकं रोम-कूपगम् ।

ब्रह्मापश्यत् तथात्मानं हरेस् तेषु पृथक् पृथक् ॥ इति ब्रह्माण्डे ।

बृहद्-अण्डम् अभूद् एकम् इति च भारते ॥३९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : कीदृशैः ? अण्ड-कोश-प्रमाणाद् दश-गुणम् उत्तरोत्तरोऽधिको येषु तैः । न केवलम् अयम् एक एव, अपि त्व् अन्येऽपि लक्ष्यन्ते ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विकारैर् इति युग्मकम् । विकारा एकादशेन्द्रिय-पञ्च-महाभूत-रूपाः प्रकृतयः प्रकृति-महद्-अहङ्कार-पञ्च-तन्मात्रा-रूपाः महद्-आद्याः, प्रकृति-विकृतयः सप्तेति न्यायेन ख-स्वकार्यं प्रति महद्-आदीनाम् अपि प्रकृतित्व-मननात् ।*।*३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जगद्-आत्मन् इत्य् अनेन व्यञ्जितं सर्व-जगत्-परिच्छेदकत्वं तस्याह—विकारैः षोडशभिर् युक्तैः अष्ट-प्रकृति-युक्तैः सहितस् तद्-आरब्ध इत्य् अर्थः । अयम् अण्ड-कोषो यत्र प्रविष्टः परमाणुवल् लक्ष्यते इत्य् उत्तरेणान्वयः । कीदृशः ? बहिर् विशेषादिभिः पृथव्यादिभिः सप्तभिर् आवृतः ॥३९॥

———————————————————————————————————————

॥ ३.११.४०-४१ ॥

दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् ।

लक्ष्यतेऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः ॥

तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् ।

विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अन्तर्-गता शरीराणि । धाम-गृहम् अण्ड-राशयः ।

यमः कालो मानुषाणां तस्य कालः सुदर्शनः ।

तस्यापि रुद्रस् तत्-कालो ब्रह्मा दुर्गापि तस्य तु ॥

सा ब्रह्म-प्रलये देवी वर्तते चक्र-रूपिणी ।

संहरति सदा लोकान् सैव ब्रह्मादिषु स्थिता ॥

तस्या नियामको विष्णुः परः कालः स उच्यते ।

कालाभिमानिनी सैव प्रभुर् न जगद्-ईशितुः ।

तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥ इति च ॥४०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषां कारणानां कारणम् । धाम स्वरूपम् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्ये च लक्ष्यन्ते इति जलाद्य्-आवरणं तु पूर्वोक्त-युक्त्यैवम् एव सर्वेषाम् अवगन्तव्यम् ॥४०॥

यद्यपि पूर्वोक्त-रीत्या महा-पुरुषोऽपि कालाधीनो न भवत्य् एव । तथाप्य् आविर्भाव-तिरोभाव-लीलत्वाद् अक्षर-शब्द-वाच्यो न भवति । किन्तु तस्य परम-स्वरूपं स्वयं भगवान् एव नित्याविर्भावत्वात् तद्-वाच्य इत्य् आह—तद् आहुर् इति । महात्मनो विष्णोर् महा-विष्ण्व्-आख्यस्य साक्षाद् यत् परं धाम स्वतः सिद्धं परमांशि-रूप-तत्त्वं तद् एवाक्षरं नित्याविर्भावं ब्रह्म परिपूर्णं भगवत्त्वम् आहुः । यतः सर्व-कारणस्य पूरुषस्यापि कारणम् इति ॥४१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कीदृशैः ? अण्ड-कोष-प्रमाणाद् दश-गुण उत्तरोत्तरोऽधिको येषु तैः । न केवलम् अयम् एक एव अपि त्व् अन्येऽपि लक्ष्यन्ते विष्णोः कारणार्णव-शायिनो धाम देहः । गृह-देह-त्विट्-प्रभावा धामनीत्य् अमरः ॥४०-४१॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे

काल-स्वरूप-कथनं नाम

एकादशोऽध्यायः ।

॥ ३.११ ॥


  1. ३.२९.३७तम-श्लोको द्रष्टव्यः। ↩︎

  2. सोमेतिमेस् दिविदेद् इन्तो त्wओ वेर्सेस्, २४-२५। ↩︎