१० दश-विध-सृष्टि-वर्णनम्

विषयः

दश-विध-सृष्टि-वर्णनम् ।

३.१०.१

विदुर उवाच—

अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः ।
प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

दशमे काल-संप्रश्न- प्राप्तिं वक्तुं तद् उद्भवः ।

प्राकृतादि-विभागेन सर्गस् तु दशधोच्यते ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

कालस्य लक्षणं सामान्यतो दशम उच्यते ।

सर्गो दश-विधश् चातः प्राकृतादि-विभेदवान् ॥१॥

———————————————————————————————————————

॥ ३.१०.२ ॥

ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहु-वित्तम ।
तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मया । वदस्व वद । भासयस्वेति वा ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वदस्व त्वं सर्वथा जानासीत्य् अतो वदेत्य् अर्थः ॥२॥

———————————————————————————————————————

॥ ३.१०.३ ॥

सूत उवाच—

एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः ।
प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सञ्चोदितः प्रार्थितः । हृदि-स्थान् एवाह, न तु ते प्रश्नास् तेन विस्मृता इत्य् अर्थः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सूत उवाचेति एवम् इत्य्-आदिका सङ्गतिः । स्वयम् एव सूतेन क्रियते, न श्री-शुक-कृतानूद्यत इति बोधयति । मैत्रेय उवाचेत्य् आदिकं तु श्री-शुक-वाक्यानुकरणम् । शुक उवाचेति भऋअतेति च पाठौ न बहु-सम्मतौ ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भार्गवेत्य् आदिना ज्ञाने सामर्थ्यं द्योतितम् । हृदि-स्थान् इति न ते प्रशान् तेन विस्मृता इत्य् अर्थः ॥३॥

———————————————————————————————————————

॥ ३.१०.४ ॥

मैत्रेय उवाच—

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः ।
आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मनि परमेश्वरे मन आवेश्य ॥४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनि श्री-नारायणे आत्मानं मन आवेश्य ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनि श्री-नारायणे आत्मानं मनः ॥४॥

———————————————————————————————————————

॥ ३.१०.५-६ ॥

तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः ।
पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम् ॥**

तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया ।
विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अब्ज-संभूतो ब्रह्मा यद् अधिष्ठाय स्थितः, कर्तरि क्तः । तत् पद्मम् अम्भश् च विलोक्य । कथं-भूतं पद्मम् अम्भश् च ? तेन प्रलय-कालेन कृतं वीर्यं यस्य तेन वायुना कम्पितं, न्यपाद् इत्य् उत्तरेणान्वयः ॥५॥ विवृद्धं विज्ञानं बलं च यस्य । न्यपात् सर्वं पीतवान् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति युग्मकम् ॥५॥ न्यपाद् इति यावत् प्रलये वर्धते स्म तावद् इति भावः ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अब्ज-संभूतो ब्रह्मा यत् पद्मम् अधिष्ठित इति कर्तरि क्तः । तद् एव पद्मम् अम्भश् च वायुना कम्पितं वीक्ष्य न्यपाद् इत्य् उत्तरेणान्वयः । वायुना कथम्भूतेन ? तत्-कालेन प्रलय-समयेन कृतं वीर्यं यस्य तेन न्यपात् नाशयामासेत्य् अर्थः । प्रलय-काले यावत्-प्रमाणम् अम्भो वायुश् चावर्धत तावत्-प्रमाणम् एवेति ज्ञेयम् ॥५॥

———————————————————————————————————————

॥ ३.१०.७ ॥

तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् ।
अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुष्करं पद्मम् । प्राग्-लीनान् त्रील् लोकान् कल्पितास्मि स्रक्ष्यामि ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च पुष्करं पद्मं वियद्-व्यापि सत्य-लोक-पर्यन्तम् उच्छ्रितं कल्पितास्मि स्रक्ष्यामि ॥७॥

———————————————————————————————————————

॥ ३.१०.८ ॥

पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः ।
एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवता स्वयं करणीये कर्मणि चोदितो नियुक्तः संस् तदा पद्म-कोशं प्रविश्य तम् एकम् एव त्रिधा लोक-रूपेण व्यभाङ्क्षीद् विबभाज । एकेन कमल-मुकुलेन कथं लोक-त्रय-सृष्टिर् इत्य् असंभावनां वारयितुं तस्य विशालताम् आह—द्वि-सप्तधा चतुर्दश-लोक-रूपेण । उरुधा ततोऽपि बहु-प्रकारेण । भाव्यं भावयितुं योग्यम् । अतो न तेन त्रि-लोकी-करणं चित्रम् इत्य् अर्थः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च आविश्य प्रविश्य भगवता कर्मणि जगत्-सर्गे नियुक्तः । तम् एकम् एव त्रिधा लोक-त्रय-रूपेण व्यभाङ्क्षीत् विबभाज । एकेन कमल-कोषेण कथं लोक-त्रय-सृष्टिर् इत्य् असम्भावनां वारयितुं तस्य विशालताम् आह—द्वि-सप्तधा चतुर्दश-लोक-रूपेण, उरुधा ततोऽपि बहु-प्रकारेण, भाव्यं भावयितुं योग्यम् । अतो न तेन त्रिलोकी-करणं चित्रम् इति स्वामि-चरणाः । प्रथमं स नालेन कमल-कोषेण त्रिधा, ततश् चतुर्दशधा, ततः सूर्य-चन्द्रादि-लोक-भेदेन उरुधा व्यभाङ्क्षीत् । कीदृशं ? भाव्यं ध्येयं वैराजोपासकैर् इत्य् अन्ये ॥८॥

———————————————————————————————————————

॥ ३.१०.९ ॥

एतावाञ् जीव-लोकस्य संस्था-भेदः समाहृतः ।
धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनिमित्तस्य ब्रह्मार्पण-बुद्ध्या कृतस्य । अ इति ब्रह्मेति श्रुतेः ॥९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रि-लोकी-रूपेणैव विभागे हेतुम् आह—एतावांस् त्रि-लोकी-रूपो जीव-लोकस्य जीवानां भोग-स्थानस्य प्रत्य् अहं सृज्यस्य संस्था-भेदो रचनाविशेष उक्तः । ननु परमेष्ठिनोऽपि जीवत्वाविशेषाद् ब्रह्म-लोकस्यापि किम् इति प्रत्य् अहं सृष्टिर् न भवति तत्राह—हि यस्माद् निमित्तस्य निष्कामस्य धर्मस्य विपाकः फल-रूपोऽसौ । उपलक्षणम् एतत् सत्य-लोकस्य महः प्रभृति-लोकानां तद् वासिनां च । त्रै-लोक्यस्य काम्य-कर्म-फलत्वात् प्रतिकल्पम् उत्पत्ति-विनाशौ भवतः । महः प्रभृतीनाम् उपासनासमुचित-निष्काम-धर्म-फलत्वाद् द्वि-परार्ध-पर्यन्तं न नाशः । तत्र-स्थानां च ततः परं प्रायेण मुक्तिर् इति भावः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एतावान् द्विसप्तधा पर्यन्तः श्री-ब्रह्मा तु सर्वतो विशिष्टत्वात् तत्-स्रष्टेत्य् आह—धर्मस्येति । अनिमित्तस्य स्वभावेनैव क्रियमाणस्य, न तु गृहस्थवत् तत्-तत्-सङ्कल्पेनपीत्य् अर्थः । विपाकः पराकाष्ठा-प्राप्त-परिणामः । असाव् इति । ब्रह्मान्तरं व्यवच्छिनत्ति, ब्रह्मणोऽपि भयं मत्त[भा।पु। ११.१०.३०] इत्य्-आद्य्-उक्तेः ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीव-लोकस्य व्यष्टि-विराट्-समूहस्य संस्था-भेदः प्रतिबिम्बोचित-स्थान-रचना-विशेष उक्तः । ननु कथम् एतावतां जीवानाम् एकेनैव ब्रह्मणा संस्था-निर्माणं ? इत्य् अत आह—हि यस्माद् असौ अनिमित्तस्य निष्कामस्य धर्मस्य तपो-विद्यादेः विपाकः परिपाक-मूर्तिर् एव तपो-बलेन किम् अशक्यम् इति भावः ॥९॥

———————————————————————————————————————

॥ ३.१०.१० ॥

विदुर उवाच—

यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः ।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : लक्षणं लक्ष्यम् आत्मा च स्वरूपम् इति कथ्यते इत्य् अभिधानम् ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-भेदेन लोक-सृष्टि-भेदं श्रुत्वा तम् एव कालं जिज्ञासुः पृच्छति । यत् कालाख्यं लक्षणं स्वरूपम् आत्थ अब्रवीः । कथं कालः कल्पते ? किं वा तस्य सूक्ष्मं स्थूलं च रूपं ? इति यथावद् वर्णयेत्य् अर्थः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालाख्ययासदित-कर्म-तन्त्र इति गुणेन कालानुगतेनेति कालेन सोऽजः पुरुषायुषेति तत्-काल-कृत-वीर्येणेत्य् आदिभिः प्रलय-सृष्ट्य्-आदिकं पुरुष-प्रयत्नादिकं च कालेनैव सिद्ध्यतीति विस्मृतः कालं पृच्छति, यत् कालाख्यं लक्षणं स्वरूपम् आत्थ अब्रवीः, तद् यथावद् एव वर्णय ॥१०॥

———————————————————————————————————————

॥ ३.१०.११ ॥

मैत्रेय उवाच—

गुण-व्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।
पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : गुण-व्यतिकरम् आकरोति तद् दृष्ट्वा अप्रतिष्ठितोऽन्यत्र । स भगवः कस्मिन् प्रतिष्ठित इति स्व-महिम्नि इति श्रुतिः । तद् उपादानं गुण-व्यतिकरोपादान-कर्तारं, सृष्ट्य्-आद्य्-अर्थत्वेन तस्य पुरुषस्य ब्रह्मा-विष्णु-महेश्वरा इति त्रीणि रूपाण्य् आत्मना सृष्टानि ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र सामान्यतः कालस्य स्वरूपम् अत्रोच्यते, उत्तराध्याये तु विशेषतः । गुणानां व्यतिकरो महद्-आदि-परिणामस् तेनैवाक्रियते यः, स काल इति शेषः । वक्ष्यते चैकादशे—गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च [भा।पु। ११.२२.१३] इति । स्वतस् तु निर्विशेषः । अप्रतिष्ठितः क्वाप्य् अपर्यवसितः, आद्य्-अन्त-शून्य इत्य् अर्थः । एतद् एव दर्शयितुम् ईश्वरः सृष्ट्य्-आदि तेन निमित्त-भूतेन करोतीत्य् आह—पुरुष इति । उपादीयते निमित्ततया स्वीक्रियते इत्य् उपादानम् । स काल उपादानं निमित्तं यस्मिन्, तम् आत्मानम् एव विश्व-रूपेणासृजत् । स्व-व्यतिरेकेण सृज्यस्याभावात् । एतच् च वस्तु-कथन-मात्रम् । कालेन निमित्तेन चासृजद् इत्य् एतावद् एव विवक्षितम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणानां व्यतिकरात् महद्-आदि-परिणामाद् एव आकारः स्वरूप-ज्ञानं यस्य सः । स्वतस् तु निर्विशेषः अप्रतिष्ठितः क्वाप्य् अपर्यवसितः आद्य्-अन्त-शून्य इत्य् अर्थः । येन निमित्त-भूतेन सृष्ट्य्-आदिकं भवति, स काल इत्य् आह—पुरुष इति । उपादीयते निमित्ततया स्वीक्रियते इत्य् उपादानम् । स काल एव उपादानं निमित्त-कारणं यस्मिन्, तम् आत्मानम् आत्म-शक्ति-कार्यत्वाद् आत्म-शब्द-वाच्यं विश्वम् असृजत् ॥११॥

———————————————————————————————————————

॥ ३.१०.१२ ॥

विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : ब्रह्म निर्मातृकम् । मायया सामर्थ्येन । तत्र यत् संहत्रीश्वराख्य्ग् रूप्ग् तत् कालाख्यम् । कल् छेदेन इति धातोः । अथ त्रयी वाव प्रकृतिः सत्त्वं रजस् तम इति तां नारायणं पर्यपश्यद् अनन्य-प्रतिष्ठितः त्वं वा एतम् आहुः पुरुष इति पूर्णो ह्य् एष भवति सत्रे धाव भूवैषां गुणानाम् उपादानाय विष्णुर् वाव सत्त्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश । ब्रह्मा ब्रह्माणं नाम चतुर्मुखः । ईश ईशानं नाम पञ्च-मुखं यो वा ईश ईशानम् आविवेश । तं वा एनं काल इत्य् आचक्षते काल इत्य् आचक्षते इति सौकरायण-श्रुतिः ॥१२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-व्यतिरिक्त-सृज्याभावं दर्शयन् कालस्य सृष्टि-निमित्ततां दर्शयति—विश्वम् इति । विष्णु-मायया संस्थितं संहृतं ब्रह्म-तन्-मात्रं सद् विश्वम् । ईश्वरेण कर्त्रा कालेन निमित्तेन परिच्छिन्नं पृथक् प्रकाशितम् । अव्यक्ता मूर्तिः स्वरूपं यस्येति स्वतो निर्विशेषता दर्शिता ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कालम् आचष्टे—यत् तु लक्षणं ज्ञापकं गुण-व्यतिकरेण क्रिया-रूपं तत्-परिणामादि पौर्व्यापर्यानुसन्धानेनाक्रियते आकार-भेदैर् लक्ष्यते यः, स काल इत्य् अर्थः । विष्णोर् ईश्वरस्य मायया सृष्ट्य्-आदि-शक्त्या सह लीनं ब्रह्मणि विष्णाव् एव तादात्म्योपपन्नं सत्, ईश्वरेण तत्-प्रभाव-रूपेण कालेन परिच्छिन्नं पृथक् कृतम् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो विश्वं परिच्छिनत्ति, स काल इत्य् आह—विश्वम् इति । विष्णोर् मायया शक्त्या सम्यक् स्थितम् इदं विश्वं ब्रह्म-तन्-मात्रं कारणं यस्य तत् ईश्वरेण ईश्वर-प्रभाव-रूपेण कालेन परिच्छिन्नम् एतावद् इति परिच्छेद-विषयीकृतम् अव्यक्ता मूर्तिर् यस्य इति स्वतो निर्विशेषता दर्शिता ॥१२॥

———————————————————————————————————————

॥ ३.१०.१३ ॥

यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् ।

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सृष्टिश् च प्रलयश् चैव संसारो मुक्तिर् एव च ।

देवर्षि-प्रभृतयो लोका लोका भूर्-आदयस् तथा ॥ > अनाद्य्-अनन्त-कालीनाः सर्वदैक-प्रकारकाः । > जगत्-प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ > ये त्व् एतद् अन्यथा ब्रूयुः सर्व-हन्तार एव ते । > देवैर् ब्रह्मादिभिः शप्ता ऋषीभिर् मानुषादिभिः ॥ > सेतिहासैस् तथा वेदैः सर्वे यान्त्य् अवरं तमः । > सर्व-ब्रह्मत्व-वेत्तारो जीव-ब्रह्मतस्य-वेदिनः ॥ > अन्य-साम्य-विदो विष्णोर् विष्णु-द्वेष्टार एव च । > सर्वे यान्ति तमो घोरं न चैषाम् उत्थितिः क्वचित् ॥ इति स्कान्दे > ॥१३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रतिष्ठितत्वं दर्शयितुं तत्-कार्य-विश्व-प्रवाहस्याप्रतिष्ठाम् आह—यथेदानीम् अस्ति तथाग्रे पूर्वम् अप्य् आसीत् पश्चाद् अपि भविष्यति ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेत्य् अर्धकम् । ईदृशं पूर्वोक्त-प्रकारेण प्रलयाद्य्-आत्मकं सर्ग इति प्राकृतो वैकृतस् त्व् इति । तत्र केचित् प्राकृता ईश्वर-सृष्टाः, केचिच् च वैकृता ब्रह्म-सृष्टा इत्य् अर्थः । उभयात्मकस् तु वक्ष्यते ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् आद्य्-अन्तयोर् असत्त्वासद् एव विश्वम् इत्य् अतोऽसत्यस्य विश्वस्य किं परिच्छिनत्वाद् युक्तेति चेन्, मैवं वाच्यम् इत्य् आह—यथेति । अग्रे पूर्व-महा-प्रलयस्यादाव् अपि एतद् विश्वम् आसीद् एव, पश्चाद् उत्तर-प्रलयान्तेऽपि भविष्यत्य् एवेत्य् अपेऽस्य न मिथ्या-भूतत्वं, किन्तु नश्वरत्वम् एवेति भावः ॥१३॥

———————————————————————————————————————

॥ ३.१०.१४ ॥

सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः ।
काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तामसस्य पदार्थस्य सत्त्वं हि लय-कारणम् ।

सात्त्विकस्य तमश् चैव तयोर् अपि रजः क्वचित् ॥

गुणतोऽयं लयं प्रोक्तो द्रव्यतस् तु विरोधिना ।

कालतः काल-सङ्ख्याको लयः सर्वस्य वस्तुनः ॥ इति ब्रह्म-तर्के ॥१४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सामान्यतः कालं निरूप्य विशेषतो निरूपयिष्यंस् तन् निमित्तस्य सर्गस्य पूर्वोक्तान् एव भेदान् अनुवदति—सर्ग इति । यस् तु प्राकृतो वैकृतश् च स दशमः । तन् निमित्तम् एव त्रि-विधं प्रलयम् आह—कालेनैव केवलेन नित्यः प्रलयः । द्रव्येण सङ्कर्षणाग्न्य्-आदिना नैमित्तिकः । गुणैः स्व-स्व-कार्यं ग्रसद्भिः प्राकृतिकः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आद्यस् त्व् इत्य् अत्र यत्रेति पूर्वेणापि सम्बध्यते । यत्र महतः सर्गे आत्मनो जीवस्य गुण-वैषम्यं भवतीति यद्यपि पद्म-कल्पेऽस्मिन् पूर्व-सिद्धत्वान् महद्-आदीनां सर्गो नास्ति, तथापि तद्-उद्देशः सूक्ष्म-सूक्ष्म-क्रम-बोधार्थ एव ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सामान्यतः कालं निरूप्योत्तराध्याये विशेषतो निरूपयिष्यन् तन्-निमित्तं सर्गं विस्तरेणोक्तं वक्ष्यमाणं च सुख-बोधार्थं सङ्क्षेपतो दश-विधत्वेन सङ्कलयति सर्ग इति । यस् तु प्राकृतो वैकृतश् च स दशम इति शेषः । तन्-निमित्तम् एव त्रिविधं प्रलयम् आह—कालेनैव केवलेन नित्यः प्रलयः द्रव्येण सङ्कर्षणाग्न्य्-आदिना नैमित्तिकः गुणैः स्व-स्व-कार्यं ग्रसद्भिः प्राकृतिकः ॥१४॥

———————————————————————————————————————

॥ ३.१०.१५ ॥

आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः ।
द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तमसो रजस् तु द्वि-गुणं रजसः सत्त्वम् एव च ।

परिमाणतः एवं स्युस् त्रयः प्रकृतिजा गुणाः ॥ > तत्र सत्त्वं केवलं स्यात् रजस्य् अपि शताधिकम् । > सत्त्वं रजः-शतांशं तु तमस् तत्र प्रकीर्तितम् ॥ > तमस्य् अपि तथा सत्त्वं तमसस् तु दशोत्तरम् । > तद्-दशांशेन तु रजो मूलज्ग् यत् रजस् तु तत् ॥ > विलये दशांशतः सत्त्व एकांशेन तमस्य् अपि । > मिश्रितं भवति ह्य् एतां साम्यावस्थां विदुर् बुधाः ॥ > यदा तु तत् रजः सर्वं तमसा सह सङ्गतम् । > तदा त्व् आहुर् महत्-तत्त्वं तच्-चतुर्-भाग-सम्भवम् ॥ > तत्र त्रि-भागो रजस एकोऽंश-तमसस् तथा । > तद् आहुर् ब्रह्मणो रूपं गुण-वैषम्य-नामकम् ॥ > तद् एव केवलं सत्त्व इतरापेक्षया भवेत् । > श्रीर् मूल-सत्त्वं विज्ञेया भूर्-मूल-रज उच्यते ॥ > मूलं तमस् तथा दुर्गा महा-लक्ष्मी स्त्री-मूलिका । > गुणेभ्यो गुण-मूलाच् च योऽतीतः स जनार्दनः ॥ > यत् रजो मूल-रजसि मूले तमसि यत् रजः । > तमश् च मूले तमसि महत्-तत्त्वं तद्-आत्मकम् ॥ > दशांशास् तत्र सत्त्वं स्याद् एकांशो रज एव तु । > तद्-दशांशं तमो ज्ञेयम् अहङ्कारस् तद्-आत्मकः ॥ > स रुद्रस् तामसो ज्ञेयो विरिञ्चापेक्षयैव तु । > इतरापेक्षया सत्त्वं सत्त्वाद्यास् तद्वद् अस्य च ॥ > तत् तमोऽंशात् सात्त्विकांशा मन-आद्याः प्रकीर्तिताः । > रजसोऽंशस् त्व् इन्द्रियाणि तमसोऽंशश् च खादयः ॥ इति > तत्त्व-विवेके ॥१५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् एव सर्गान् प्रपञ्चयति—आद्य इत्य्-आदिना यावद्-अध्याय-समाप्ति । महतो लक्षणम् आत्मनो हरेः सकाशाद् गुणानां वैषम्यम् इति । अहमोऽहङ्कारस्य । तस्य लक्षणम्—यत्रेति । द्रव्यादयो वक्ष्यमाणास् त्रयः सर्गाः तन् मात्रो भूत-सर्गः, भूत-सूक्ष्म-सर्ग इत्य् अर्थः । द्रव्य-शक्तिमान् महा-भूतोत्पादकः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तान् एव सर्गान् विवृणोति—आद्य इत्य्-आदिना यावद्-अध्याय-समाप्ति । महतो लक्षणम् आत्मनः परमेश्वरात् सकाशाद् गुणानां वैषम्यं प्रथमः । अहमोऽहङ्कारस्य, तस्य लक्षणम्—यत्रेति । द्रव्याणि भूतानि ज्ञानानि ज्ञानेन्द्रियाणि देवता मनश् च क्रियाः कर्मेन्द्रियाणि तेषाम् उदयः यतः सः ॥१५॥

———————————————————————————————————————

॥ ३.१०.१६ ॥

भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान् ।
चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भूतानि द्रव्य-शक्तीनि भूतेषु द्रवणं यतः ।

तथा तन्मात्र-शक्तीनि शब्दाद्य्-आत्मकता यतः ॥ > क्रिय-शक्तीनि वाग्-आद्यानीन्द्रियाणीत्य् आदि तु । > ज्ञान-शक्तीनि मनसा देवाश् च ज्ञान-शक्तयः ॥ > एतेषां मूल-भूतत्वाद् अहङ्कारस् त्रिशक्तिमान् । > मानुषापेक्षया देवा सात्त्विकाः परिकीर्तिताः ॥ > तत्रापि सात्त्विकाः प्रोक्ता तात्त्विकायास् तु देवताः । > तत्रापि सात्त्विको रुद्रस् तत्रापि तु चतुर्मुखः ॥ > अविकारी ब्रह्म-रुद्रौ देह-भेदादि-सम्भवौ । > विकारवन्त इन्द्राद्यास् तस्माद् वैकारिका मताः ॥ > त एवेन्द्रिय-रूपेण यतस् त्व् अतिविकारिणः । > ज्ञान-मात्र-गुणोद्रिक्तास् तस्मात् तैजस-नामकाः ॥ > अविकारित्व-योग्यत्वं निवृत्तं हीन्द्रियेषु तु । > वैकारित्व-नामापि ततस् तेषां न विद्यते ॥ > यथा विप्र-कुले मूर्खो मूर्ख इत्य् अभिधीयते । > विद्या-योग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् ॥ > तामसानि हि भूतानि किञ्चिद् व्यवहितत्वतः । > ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्ण-ज्ञानो हरिः स्वयम् ॥ इति च > ॥१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञान-कर्मेन्द्रियात्मकश् चतुर्थः । पञ्चमो वैकारिकः इन्द्रियाधिष्ठातारो देवा मनश् च ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तन्मात्रः तेषां भूतानां मात्रा सूक्ष्मावस्था यस्मिन् सः । यस् त्व् इति । तु-शब्दः पाद-पूरणे । तु-हि-च-स्म-हे-वै-पाद-पूरणे इत्य् अमरः ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूत-सर्गः तन्मात्रः तन्-मात्रात्मको द्रव्येषु महा-भूतेषु शक्तिमान् तत्-प्रकाशन-सामर्थ्यश् चेत्य् अर्थः । ज्ञान-कर्मेन्द्रियाणाम् आत्मा स्वरूपं यतः ॥१६॥

———————————————————————————————————————

॥ ३.१०.१७ ॥

वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः ।
षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अबुद्धि-पूर्वम् इव तु ब्रह्मणो हरि-बुद्धितः ।

अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ > तामसानां तु भूतानां सहस्रं सत्त्व-भागिनाम् । > शतांश-रजसाम् एक-तमसां सर्व-वेदिनाम् । > केवलस् तमसो योऽंशः साविद्या पञ्च-पर्विका ॥ > ज्ञातार्ति-दुष्टास् तद्-देहाद् दैत्य-रक्षः-पिशाचकाः । > यत् रजो-भौतिकं तेन मानुषाणां सदा जनिः ॥ > तमो-गूढेन रजसा त्व् इतर-स्थास्नु-चारिणाम् । > भौतिकेन तु सत्त्वेन गूढं ब्रह्मण आण्डजम् ॥ > रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् । > तज्जो रुद्रस् ततस् त्वेम् इन्द्रादीनां पुनर् जनिः ॥ > गूहितं भूत-रजसा तत् सत्त्वं मानुषा यदा । > देवा एवं गुणास् त्व् एते सर्वं व्याप्य व्यवस्थिताः ॥ १७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : षष्ठस् तु तमसः पञ्च-पर्वाविद्यायाः । अबुद्धिर् जीवानाम् आवरणं विक्षेपश् च तां करोतीत्य् अबुद्धि-कृत्तस्य । मे मत्तः शृणु ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैकारिकाः सात्त्विकाहङ्कार-सम्बन्धी । देवानाम् इन्द्रियाधिष्ठातॄणां सर्गः यन् मयं मनः मनसोऽपि सर्गः तृतीय इत्य् अर्थः । एते पञ्च-सर्गाः प्राधानिका उक्ताः । आविद्यकं सर्गम् आह—षष्ठस् त्व् इति । तु भिन्नोपक्रमे । तमसोऽज्ञानस्य सर्गः, षष्ठः प्रभोः परमेश्वरस्य शक्तिर् अबुद्धिर् जीव-मोहिनी या अविद्या-नाम्नी तया कृतः । अयम् अर्थः—प्रधानम् अविद्या विद्येति मायायास् तिस्रो वृत्तयः । तत्र प्रधानेन महद्-आदि-पृथिव्य्-अन्तानि तत्त्वानि सत्यान्य् एव सृष्टानि यैर् एव समष्टि-व्यष्टि-रूपाः जीवस्य स्थूऌआस् तया सूक्ष्माश् चोपाधयोऽभवन् द्वितीयया अविद्यया तु जीवं मोहयन्त्या जीव-सम्बन्धम् अविद्यास्मिता-राग-द्वेषाभिनिवेशात्मकं तमः पञ्च-विधम् अज्ञानम् असत्यम् एव सृष्टम् । एवं सत्य-मिथ्यात्मकं जगद् इदं प्रधानाविद्याभ्यां सृष्टम् । तृतीयया विद्यया तु पञ्च-विधाज्ञान-निवर्तकं ज्ञानं सृष्टम् । तच् चाग्रे विवृत्य व्याख्यास्यते ॥१७॥

———————————————————————————————————————

॥ ३.१०.१८ ॥

षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु ।
रजो-भाजो भगवतो लीलेयं हरि-मेधसः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गुणातीतं च यद् रूपं ब्रह्मादीनां सुखात्मकम् ।

चिद्-रूपं तच् च सत्त्वस्यैवोत्कर्षो यत्र विद्यते ॥ > तच् चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः । > उपगूहने तु नैवास्ति विशेषो नित्य-चिन्मये ॥ > प्रकृतेर् गुण-रूपाया मूलिकायाश् च न क्वचित् । > विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः ॥ > अव्यक्ताद्याः पृथिव्य्-अन्ताः सर्वाः प्रकृतयः स्मृताः । > तद्-उपादानकः सर्गः प्राकृतः परिपठ्यते ॥ > अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते । > पञ्च-पर्वात्व-विद्या तु भूतेभ्यो हरिणा पुरा ॥ > उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस् तेन निःसृता । > तत्-स्रष्टृत्व-ज्ञापनाय तस्मात् सा प्राकृता मता ॥ > एते गुणा हरेः समयक् स्वातन्त्र्य-विषयाः सदा । > स्वतन्त्राः प्रकृतेश् चापि ब्रह्मणोऽन्येषु तु क्रमात् । > देवेष्व् एव तद् अन्येषु परतन्त्रा हि ते मताः ॥ इति च ॥१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुद्वेगेन श्रोतव्यताम् आह—यद् विषया मेधा संसारं हरति, तस्य हरेर् लीला। यद् वा, इयम् इति तम-आदि-सर्ग-रूपा । रजो-भाज इति ब्रह्म-रूपस्येत्य् अर्थः । अस्मिन् पक्षे अबुद्धि-कृत इति प्रथमान्तम् । अनवधान-कृत इत्य् अर्थः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : रजो-भाजः सन्निधौ न स्वयं तद्-उपकारकस्य ब्रह्म-रूपेण तु तद्-उपाधिकस्येत्य् अर्थः । टीकायां तम-आदीति । आदि-पदेन मुख्य-सर्ग-प्रभृतित्वं ग्राह्यम् । अनवधान-कृत इति हरेर् एव ध्यान-स्वातन्त्र्यात्, ब्रह्मणस् तु तद्-व्यभिचाराद् इत्य् अर्थः ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृतेर् माया-शक्तेः सकाशाज् जात्ता इति प्राकृता इमे षट् । विकृतिः समष्टि-विराड् ब्रह्मा तस्माज् जातान् वक्ष्यमाणान् अपि मे मत्तः वैकृतान् इत्य् एतद् विवृणोति—रजो-भाजो ब्रह्म-रूपस्य हरिर् मेधायां यस्य तस्य ॥१८॥

———————————————————————————————————————

॥ ३.१०.१९ ॥

सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः ।
वनस्पत्य्-ओषधि-लता-त्वक्-सारा वीरुधो द्रुमाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुख्यम् इव प्रथमं कृतो मुख्य-सर्गः । तस्थुषां स्थावराणाम् । षड्-विधत्वम् एवाह—ये पूष्पं विना फलन्ति ते वनस्पतयः । ओषधयः फल-पाकान्ताः । लता आरोहणापेक्षाः । त्वक्-सारा वेण्व्-आदयः । लता एव काठिन्येन आरोहणानपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सप्तम इति सार्धकम् ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थावर-जङ्गमात्मकस्य जगतः स्थावराणां प्राथम्यात् मुख्ये प्रथमे भवो मुख्यः । यस् तस्थूषां स्थावराणाम् । पुष्पं विना फलयन्तो वनस्पतयःओषधयः फल-पाकान्ताः । लता आरोहणापेक्षाः । त्वक्-सारा वेण्व्-आदयः । लता एव काठिन्येनारोहणापेक्षा वीरुधः । पुष्पैर् एव फलन्तो द्रुमाः ॥१९॥

———————————————————————————————————————

॥ ३.१०.२० ॥

उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्थास्नुभिर् नियमान् मुख्या-स्थितेर् गतिर् अवाप्यते ।

प्रायः परोपकर्तृत्वात् ते मुख्य-स्रोतसः स्मृताः ॥ > नाधो नोर्ध्वं तिरश्चां तु पुनस् तत्रैव यज् जनिः । > यज्ञोपयोगं च सताम् उपकारं विनापि च ॥ > तिर्यक्-स्रोतस इत्य् एव प्रोच्यन्ते ज्ञानिभिस् ततः । > प्रायोऽधो-गमनं यस्मात् प्रयत्नेन विना भवेत् ॥ > अर्वाक्-स्रोतस इत्य् एव मानुषाः परिकीर्तिताः । > नियमाद् ऊर्ध्व-गन्तारो देवामोक्षैक-भागिनः ॥ > ऊर्ध्व-स्रोतस इत्य् एव तस्मात् ते परिकीर्तिताः ॥ इति ब्राह्मे । > तिरश्चां स्थावराणां च बुद्धि-पूर्व-प्रवर्तनाम् । > असुराणां रक्षसां वा पिशाचानां तथैव च ॥ > अर्वाक्-स्रोतस् त्वम् उद्दिष्टं नियमाद् असुरादिनाम् । > मुख्य-स्रोतस इत्य् अस्य अर्थ उत्स्रोतस इति । > ऊर्ध्व इत्य् एव यस् तूच्चतम एवाभिधीयते ॥ > ऊर्ध्व-स्रोतस एतस्माद् देवा एव न तत्-परे । > उच्छब्द-उच्च-मात्रेऽपि तस्मात् स्थास्नुषु भण्यते ॥ इति च । > तिरश्चीना स्थावराश् च अन्तः-स्पर्शा इतीरिताः । > यत्-प्रत्यक्षानुमानाभ्यां हृज्ज-ज्ञानं हि शास्त्रतः ॥ इति पाद्मे > ॥२०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां साधारणं लक्षणम् आह—ऊर्ध्वं स्रोतः आहार-सञ्चारो येषाम् । तमः-प्राया अव्यक्त-चैतन्याः । अन्तः-स्पर्शाः स्पर्शम् एव जानन्ति नान्यत् । तद् अप्य् अन्तर् एव न बहिः। विशेषिणोऽव्यवस्थित-परिणामाद्य्-अनेक-भेदवन्तः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां साधारणं लक्षणम् आह—ऊर्ध्वं स्रोत आहार-सञ्चारो येषां ते । तमः-प्राया अव्यक्त-चैतन्याः अन्तः-स्पर्शा अन्तश् छेद एव व्यथानुभविनः । विशेषिणः अव्यवस्थित-परिणामाद्य्-अनेक-भेदवन्तः ॥२०॥

———————————————————————————————————————

॥ ३.१०.२१ ॥

तिरश्चाम् अष्टमः सर्गः सोऽष्टाविंशद्-विधो मतः ।
अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : यद् अप्रयत्नाद् हृदयङ्गमं तद् एव जानन्ति नो शास्त्र-युक्तिभ्याम् इत्य् अर्थः ।

अष्टाविंशद्-विशेषेण यज्ञेषूपकृतो यतः । > तिरश्चां तावद् एतस्माद् गण्यते चन्द्र-वेदिभिः ॥२१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तिर्यक् स्रोतसां सर्गम् आह—तिरश्चाम् इति । स च अष्टाविंशति-भेदः । तिरश्चां लक्षणम् । अविदः श्वस्तनादि-ज्ञान-शून्याः । भूरि-तमसः आहारादि-ज्ञान-मात्र-निष्ठाः । घ्राणेनैवेष्टम् अर्थं जानन्ति । हृदि अवेदिनो दीर्घानुसन्धान् अशून्याः । तथा च श्रुतिः—अथेतरेषां पशूनाम् अशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति, न विदुः श्वस्तनं न लोकालोकौ इति ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : गौर् अज इति चतुष्कम् । एकैकोऽयं बहूनाम् उपलक्षण-रूपो ज्ञेयः ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तिरशाः तिर्यक्-स्रोतसाम् । अविदः स्वस्तनादि-ज्ञान-शून्याः । भूरि-तमसः आहारादि-मात्र-निष्ठाः । घ्रान-ज्ञाः घ्राणेनैवेष्टम् अर्थं जानन्ति । हृदि अवेदिनः दीर्घानुसन्धान-शून्याः अल्प-परामर्शाः । तथा च श्रुतिः—अथेतरेषां पशूनाम् अशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति, न विदुः श्वस्तनं न लोकालोकौ इति । यद् वा, भूरि-तमसो बहु-रुषः घ्राणेनैव जानन्ति हृद्यं प्रति स्व-प्रियं वस्त्व् एव विन्दन्ति भोजन-शयनाद्य्-अर्थं गृह्णन्ति ॥२१॥

———————————————————————————————————————

॥ ३.१०.२२-२५ ॥

गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः ।
द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम ॥**

खरोऽश्वोऽश्वतरो गौरः शरभश् चमरी तथा ।
एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून् ॥**

श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ ।
सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः ॥**

कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः ।
हंस-सारस-चक्राह्व- काकोलूकादयः खगाः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गौर् अजो महिषः कृष्णं शूकरो गवयो रुरुः ।

अव्य्-उष्ट्रौ च खराश्वौ च तथैवाश्वतरोपरः ॥ > गौरश् च शरभश् चैव चमरी श्व-शृगालकौ । > वृको व्याघ्रश् च मार्जारो हरिश् च शश-शल्पकौ ॥ > कपिर् गजश् च गोधाद्या जलजाः पक्षिणस् तथा ॥ इति ब्रह्माण्डे ।

कूर्मो जलजत्वेनाष्टाविंशस् त्व् अन्तर्भूतोऽपि पञ्च-नखत्व-प्रदर्शनार्थं पृथग्-उक्तः ।

तत्-तद्-आकार-संयुक्तान् सृज्यान् स्रष्टारम् एव च । > यः सदा संस्मरेद् योगी न स भूयोऽभिजायते ॥

इति स्कान्द-वचनात् प्रसिद्धानाम् अपि द्विशफादीनां स्मरण-विधानार्थ-मुक्तिः ॥

उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् । > अप्रसिद्ध-ज्ञापनार्थं द्विधा शास्त्र-वचः स्मृतम् ॥ इति षाड्गुण्ये > । > वल्गुरो नृत्य-पक्षी च सललुकश् च कथ्यते इत्य् अभिधाने । > अष्टाविंशत् प्रधानास् तु तिरश्चां यास् तु जातयः । > यो यस्य सदृशस् त्व् अन्यः तन्त्रान्तर्-गतो भवेत् ॥ > जलजान्तर्गताः सर्पाः कीटाद्या याश् च जातयः । > तेषां जल-प्रधानत्वाच् छरीरस्य तु सर्वशः ॥ इति > सत्य-संहितायाम् ॥२२-२५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अष्टा-विंशति-भेदान् एवाह—गवादय उष्ट्रान्ता द्वि-शफा द्वि-खुरा नव ॥२१॥

स्वरादय एक-शफाः षत् । अष्टा-विंशति-भेदान् एवाह—गवादय उष्ट्रान्ता द्वि-शफा द्वि-खुरा नव ।श्वादयो गोधान्ताः पञ्च-नखा द्वादश । एवम् एते भू-चराः सप्त-विंशतिः । मकरादयो जल-चराः। कङ्कादयश् च स्व-गा अभूचरत्वेनैकी-कृत्य गृहीताः । तद् एवम् अष्टा-विंशति-भेदा भवन्ति । तेषु कृष्ण-रुरु-गौरा मृग-विशेषाः । अन्येषाम् अपि तिर्यक् प्राणिनां यथा-यथम् एतेष्व् एवान्तर् भावः ॥२२-२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गवादय उष्ट्रान्ता द्वि-शफा द्वि-खुरा नव । अविर् मेषः । खरादयश् चमर्यस् ताः, एकशफा षट् । श्वादयो गोधास् ताः पञ्चनखाः द्वादश । एवम् एते स्थल-चराः सप्तविंशतिः । मकरादयो जल-चराः । कङ्कादयः स्थल-चराः । हंसादयः पुनर्-जलचराः । काकादयः पुनः स्थल-चरा इति । एते मकरादय एकविधत्वेनैव व्युपदिष्टाः । तद् एवम् अष्टाविंशति-भेदा गवादयस् तेषु रुरु-कृष्ण-गौरा मृग-विशेषाः । अन्येषाम् अपि तिर्यक्-प्राणिनां यथायथम् एतेष्व् अन्तर्भावः ॥२२-२५॥

———————————————————————————————————————

॥ ३.१०.२६ ॥

अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् ।
रजोऽधिकाः कर्म-परा दुःखे च सुख-मानिनः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

रजो-निष्ठा तमो-निष्ठा द्वेधार्वाक्-स्रोतसः स्मृताः ।

असुराद्यास् तमो-निष्ठा मानुषास् तु रजोऽधिकाः ॥ इति व्योम-संहितायाम् > ॥२६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अध आहार-सञ्चारो यस्य सोऽर्वाक्-स्रोतः । ह्रस्वत्वम् आर्षम् । नृणां सर्गो नृणां लक्षणम् । रजोऽधिकं येषु ते ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्वाग् अध आहार-सञ्चारो यस्य सोऽर्वाक्-स्रोतः । ह्रस्वत्वम् आर्षम् । नृणां लक्षणम् । रज इत्य्-आदि ॥२३-२६॥

———————————————————————————————————————

॥ ३.१०.२७ ॥

वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम ।
वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : दुःखे च सुख-मानिनो सुराः, सर्वार्थान् विपरीतांश् च बुद्धिः सापार्थ-तामसीति वचनात् । सुखे सुखैक-भावास् तु देवा नैवं तु दानवा इति षाड्गुण्ये ।

कुमारन्तीति कौमारो देवानाम् अन्तजोद्भवः । > वैकारिकाणां जननात् प्राकृतो वैकृतश् च सः । > वैकारिकेष्व् एवान्येषाम् ईषद्-भोगित्व-हेतुतः । > उभयात्मकत्वेनैव प्रोच्यन्तेऽष्ट-गणा अपि ॥ इति च ।

देव-सर्गश् चेति च-कारार्थ उभयात्मकः । वैकारिकस् तु देव-सर्गः प्राकृतत्वेनोक्तः ॥२७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एते त्रयो वैकृता एव न कौमारवद् उभयात्मकाः । देव-स्र्गश् च वैकृत इत्य् अनुषङ्गः । वैकारिकस् तु देव-सर्गः प्राकृतेषु पूर्वम् एव प्रोक्तः । अयं तु ततो न्यूनत्वाद् वैकृतो देव-सर्गत्वात् तद् अन्तर्-भूतश् च । सनत्-कुमारादीनां सर्गस् तु प्राकृतो वैकृतश् च देवत्वेन मनुष्यत्वेन च सृज्य इत्य् अर्थः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यस् तु वैकारिकस् तत्त्व-देवता-रूपः । स तु प्रोक्तः प्राकृतत्वान्, न तु वैकृतोऽत्र प्रोच्यते इत्य् अर्थः । कौमारस् तु उभयात्मक इति तेषां ब्रह्मणो मनस्य् आविर्भूत-मात्रत्वात् तत् सृज्यान्तः-पात-विवक्षया ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एते त्रयो वैकृता एव । देव-सर्गश् च वैकृतः । प्राकृतश् च क इत्य् अपेक्षायाम् आह—यस् तु वैकारिकः वैकारिकाहङ्कार-भवानां देवानां सर्गः प्राकृतेषु प्रोक्तः । पुनस् तेषाम् एव ब्रह्म-सृष्टत्वाद् वैकृतश् च „तथा कौमारः सनत्-कुमारः सनत्-कुमारादीनां सर्गस् तु उभयात्मक इति तेषां भगवद्-ध्यान-जन्यत्वेन मनसान्यांस् ततोऽसृजद् इत्य् अग्रिमोक्तेर् भगवद्-ध्यान-जन्यत्वेन भगवज्-जन्यत्वेन ब्रह्म-जन्यत्वाच् च प्राकृतो वैकृतश् चेत्य् अर्थः ॥२७॥

———————————————————————————————————————

॥ ३.१०.२८-२९ ॥

देव-सर्गश् चाष्ट-विधो विबुधाः पितरोऽसुराः ।
गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः ॥**

भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः ।
दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्रोक्ता अष्ट-विधा देवा विबुधा सर्व एव तु ।

पितॄणां शतम् एवात्र असुरास् त्रिंशद् एव च ॥ > गन्धर्वाप्सरसां चैव द्वि-शतं परिकीर्तितम् । > सप्ततिर् यक्ष-रक्षःसु त्रिंशच्-चारण-जातिषु ॥ > शतं सिद्धास् तथान्यासु सप्ततिः सर्व-जातिषु । > ऊर्ध्व-स्रोतस एते वै अन्येऽर्वाक्-स्रोतः स्मृताः ॥ > वैकारिकेषु देवेषु एते वै मुख्य-भोगिनः । > अभोगिनस् तद् अन्ये तु देवा एते ततः स्मृताः ॥ > सर्वज्ञास् ते सहाराध्या भक्तास् तेष्व् अन्तर् एव । > नृत्य-गानादि-कर्तारो वाहनादि कृतस् तथा ॥ > सिद्धासिद्धेति-वक्तारो चाराश् चैषां क्वचित् क्वचित् । > सेवा-करा इति ह्य् एतैर् भेदैर् अष्ट-विधा मताः ॥ > अन्ये च ये तु सर्वज्ञा विबुधास् ते प्रकीर्तिताः । > तथान्ये कर्मभिस् तैस् तैर् अष्ट-भेदान्तरं गताः ॥ इति > तत्त्व-विवेके । > यदि देवादयो दोषाज् जायेरन् मानुषादिषु । > तथापि देवा विज्ञ्येआसुराद्यास् तु तथाध्रुवम् ॥ इति च ॥२८-२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैकृतश् च देव-सर्गोऽष्ट-विधः । तत्र विबुधादयस् त्रयो भेदाः । गन्धर्वाप्सरस एकः । यक्ष-रक्षांस्य् एकः । भूत-प्रेत-पिशाचा एकः । सिद्ध-चारण-विद्याधरा एकः । किन्नरादय एकः । आदि-शब्दात् किंपुरुषाश्व-मुखादयः । एतद् विंशेऽध्याये स्पष्टं भविष्यति ॥२८-२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देव-सर्ग इति सार्धकम् ।*।*२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैकृतस् तु देव-सर्गोऽष्ट-भेदः तत्र विबुधादयस् त्रयो भेदाः गन्धर्वाप्सरस् एकः यक्ष-रक्ष;म्स्य् एकः भूत-प्रेत-पिशाचा एकः सिद्ध-चारण-विद्याधरा एकः किन्नरादयः एक इत्य् अष्टौ भेदाः । आदि-शब्दात् किंपुरुषादयः । विश्व-सृक् परमेश्वरो ब्रह्मा च ॥२८-२९॥

———————————————————————————————————————

॥ ३.१०.३० ॥

अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च ।
एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्म-भूर् हरिः ॥**

सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गुणाप्लुतो हरिर् नित्यं गुणानां मध्यगो यतः ।

अनहं-वेदनात् तस्य गुणासंस्पर्श एव च ॥ इति च । > सृष्ट्वा देवादि देहान् स आत्मानं बहुधाकरोत् । > तन्-नियन्तृतयात्मानं प्रकृतिं देह-भेदतः ॥ इति नारदीये । > कर्ता च करणं चैव कर्म चैव स्वयं हरिः । > आत्मानो बहुधा भावे प्रकृतेस् तु स्वतन्त्रता ॥ इत्य् आग्नेये > ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरिर् एवात्म-भूः सन्न् इत्य् अन्वयः ॥३०॥

———————————————————————————————————————

॥ ३.१०.३१-३२ ॥1

गुण-व्यत्यय एतस्मिन् मायावित्वाद् अधीशितुः ।

न पौर्वापर्यम् इच्छन्ति सृष्टे नद्यां यथा भ्रमे ॥

देवासुरादयो नाम-रूपाभ्यां ये प्रकीर्तिताः ।
अस्मिन् कल्पे त एवासन् क्षत्तर् मन्वन्तरान्तरे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि प्रथमं सृष्टिः प्रलयो वा, तत्राह—गुणेति । गुण-व्यत्यये सर्गे भ्राम्यन् भ्रमण-शीलो भ्रमिर् अविशेषाद् भ्राम्यद् भ्रमिस् तस्य नद्यां भ्रमतो यथा नादिर् नान्तस् तथा सृष्टि-संहारयोर् इत्य् अर्थः । संसारस्यानादित्वम् एक-रूपत्वं चाह—देवासुरादय इति । त एवेति । तन्-नामानस् तद्-रूपाश् चेत्य् अर्थः ॥३१-३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे > तत्त्वाद्य्-उत्पत्ति-क्रमो नाम > दशमोऽध्यायः ।

॥ ३.१० ॥


  1. थेसे त्wओ वेर्सेस् दो नोत् अप्पेअर् तो बे इन् एवेर्य् एदितिओन्, बुत् स्रिधर् हस् च्लेअर्ल्य् चोम्मेन्तेद् ओन् थेम्। ↩︎