०९ ब्रह्मणे वर-प्रदानम्

विषयः

ब्रह्म-कृता भगवत्-स्तुतिः, भगवतो ब्रह्मणे वर-प्रदानं च ।

॥ ३.९.१ ॥

ब्रह्मोवाच—

ज्ञातोऽसि मेऽद्य सुचिरान् ननु देह-भाजां

न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् ।

नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं

माया-गुण-व्यतिकराद् यद् उरुर् विभासि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वतो नास्ति तद्-अधीन-विद्यमानम् अप्य् अशुद्धम् । यच् च स्व-नानात्वं तद् अपि स्थान-भेदाद् असद् एव भाति ।

एकोऽपि स्थान-नानात्वान् नानेव हरिर् ईयते । > सर्वान्तर्यामिणस् तस्य न भेदो विद्यते क्वचित् ॥ इति > ब्रह्म-वैवर्ते ॥१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :

नवमे तपसा तुष्तं दृष्ट्वा नारायणं त्व् अजः ।

अस्तौद् एकार्णवे सीदन् लोक-सर्ग-चिकीर्षया ॥

भगवज्-ज्ञानेनात्मनः कृतार्थताम् आविष्कुर्वन्न् अज्ञांश् च शोचन्न् आह—ज्ञातोऽसीति । सुचिराद् बहु-कालोपासनेनाद्य मे मया ज्ञातोऽसि । नन्व् अहो देह-भाजाम् एतद् अवद्यं दोषः । किं तत् ? यद् भगवतस् तव गतिस् तत्त्वं न ज्ञायत इति । यतस् त्वम् एव ज्ञातुं योग्यः सत्यत्वान् नान्यद् असत्यत्वाद् इत्य् आह । त्वत् त्वत्तोऽन्यन् नास्ति । यद् अप्य् अस्तीति प्रतिभाति तद् अपि शुद्धं सत्यं न भवति । कथम् असतः प्रतीतः ? तत्राह—यद् यतो माया-गुण-क्षोभात् त्वम् एवोरुर् बहु-रूपो विभासि ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञातोऽसीति । अज्ञाने का हानिः ? तत्राह—देहेति । गतिः स्वरूप-तच्-छक्त्य्-आदि-रूपा स्थितिः । ननु तादृश-मद्-गतेर् अन्यच् च प्रतीयते ? तत्राह—तादृशात् त्वत् त्वत्तोऽन्यत् तत्त्वं नास्तीति । यद् वा, अस्ति, तद् अपि न शुद्धं, किन्तु त्वम् एव शुद्धं तत्त्वम् इत्य् अर्थः । तत्रोभयत्रापि हेतुः—मायेति । अनन्त-वैभव-मय्या अन्तरङ्गया शक्त्या स्वतः शुद्ध एव त्वं जगद्-रूपेण यद् उरुर् विभासि, तत् खलु बहिरङ्गाया मायाख्यायाः प्रधान-रूपायाः स्वीय-द्रव्य-शक्तेर् गुणानां व्यतिकरात् परिणामाद् एव भासीति, न तत्र शुद्धत्वम् इति भावः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

गर्भोद-शायिनं स्वान्तर्-यामिनं नवमे विधिः ।

स्तुत्वा तस्य कृपा-वृष्ट्या सामर्थ्यं प्राप सृष्टये ॥

भगवत्-कृपा-लब्धं तदीय-साक्षात्कारैक-कारणं भगवज्-ज्ञानम् एव भवेद् इति प्रदर्शयन् आह—ज्ञातोऽसीति । मे मया अद्य त्वं ज्ञातोऽसि सुचिरात् बहु-कालं त्वदीय-ध्यानं कुर्वतापीत्य् अर्थः । ईदृश-सौन्दर्यस्य तव मया कदाप्य् अध्यानात् ध्यान-दशायां भगवन्तम् अहं ज्ञात्वैव ध्येयामीति । हन्त हन्त वृथैव ज्ञानाभिमानः कृतः । तथा ध्यात-रूप एव प्रभुर् मे दर्शनं ददात्व् इत्य् आशंसापि वृथैव कृतेति ध्वनिः, यत ईदृश-सौन्दर्यस्य लेशोऽपि महा-मरकत-नीलोत्पल-नवनीरदादिषु नास्तीति तथा-रूपतया त्वं ध्यातोऽपीदृश-रूपतया प्रत्यक्षोऽभूर् इति तव कृपाया माहात्म्यम् अनिर्वाच्यम् इत्य् अनुध्वनिः ।

स्वयं तन्-माधुर्यास्वादनम् अनुभूय तद्-अननुभविनोऽपरान् शोचति । देह-भाजां प्राणिनाम् इत्य् एवावद्यं दोषः । किं तत् ? भगवतस् तव गतिस् तत्त्वं न ज्ञायते, ईदृश-सौन्दर्य-माधुर्यादिकं नानुभूयते देह-भाजाम् इति देह-धारणस्य त्वद्-भजनम् एव फलं, यस्माद् एवैतादृशं स्वरूपम् अनुभवितुं शक्यत इति भावः ।

ननु विचित्रे जगत्य् अन्यद् अपि किम् ईदृशम् अतिमधुरम् अनुभवनीयं वस्तु नास्ति, यतोऽस्याज्ञाने देहिनाम् अवद्यं ब्रवीषीति ? तत्राह—त्वत्तोऽन्यन् नास्ति यत् किल ज्ञानार्थम् उपादेयम् इत्य् अर्थः । भगवन्न् इति भगवत्त्वा त्व् अन्यत्र नास्त्य् एवेति भग-शब्द-वाच्य-निखिलाप्राकृत-सौन्दर्य-कीर्त्य्-आदीनि विना नैव नेत्र-कर्णादि-भोग्यं वस्त्व् अस्तीति भावः ।

ननु सर्वेन्द्रिय-भोग्यं स्वर्ग-सुखम् एवास्ति ? तत्राह—अपि तन् न शुद्धम् इति । तद् अपि नश्वरत्वादिभिर् अनित्यं परिणाम-विरसं परिमितम् अतिनिकृष्टम् अपि न शुद्धम् अपवित्रं कामि-काक-सङ्घास्वाद्यं, न तु निष्किञ्चन-हंस-परिषद्-दृश्यम् अपीत्य् अर्थः ।

किं च, तच् चापि त्वन्-माया-शक्ति-कार्यत्वान् न त्वत्तोऽन्यद् इत्य् आह—माया-गुणानां व्यतिकरात् परिणामात् उरुः स्वर्ग-पारमेष्ठ्य-सार्वभौमादि-रूपः ॥१॥

———————————————————————————————————————

॥ ३.९.२ ॥

रूपं यद् एतद् अवबोध-रसोदयेन

शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय ।

आदौ गृहीतम् अवतार-शतैक-बीजं

यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यन् नाभि-पद्म-भवनाद् अहम् अविरासां, यच् चेदं भगवत्-स्वरूपम् आनन्द्-मात्रं पश्यामि, यच् चाश्रितोऽस्मि, अतः परं नास्ति । अतो न ज्ञायत इति अवद्यम् इत्य् उत्तमापेक्षया । अनादि-गृहीतम् एव गृह्यते ।

यद् दिव्यं हरे रूपं क्षीर-सागर-मध्यगम् । > ज्ञानानन्दैक-मात्रं च न ततः परमं क्वचित् । > अनादि-नित्याद् अव्यक्तात् तस्माज् जज्ञे चतुर्मुखः ॥ इत्य् अध्यात्मे ।

भूतेन्द्रियाणाम् आत्मकम् । यच् चाप्नोतीत्य् आदेः ॥२-३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्वम् अपि सम्यक् न जानासि यत् त्वया दृष्टं रूपम् एतद् अपि गुणात्मकम् एव, निर्गुणं ब्रह्मैव तु सत्यं ? तत्राह—रूपम् इति द्वाभ्याम् । अवबोध-रसोदयेनचिच्-छक्त्य्-आविर्भावेन शश्वन्सदा निवृत्तम्तमो यस्मात्, तस्य तव यद् एतद् रूपं त्वयैव स्वातन्त्र्येण सताम् उपासकानाम् अनुग्रहाय गृहीतम् आविष्कृतम् । अवतार-शतस्य शुद्ध-सत्त्वात्मकस्य यद् एकं बीजं मूलम्, तत्-प्रदर्शनार्थं गुणावतार-बीजत्वं दर्शयति—यन्-नाभीति ॥२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ज्ञातोऽसीत्य्-आदि पूर्व-श्लोकेन । ननु ज्ञातोऽसीति कथम् उच्यते ? यद् दृष्टम् इदं नैतन् मम स्वरूपं, अतः परं तु तद् इत्य् आह—रूपम् इत्य्-आदि । अवबोधो ज्ञानं यस्मात् स तथा, स चासौ रसः प्रेमानन्दश् चेति तस्योदयो यस्मात् तथा । यत् येन त्वया श्री-कृष्णेनावतार-शतैक-बीजं श्री-नारायणाख्यम् एतद्-रूपं गृहीतम् । किम्-अर्थं ? सद्-अनुग्रहाय सतां भक्तानाम् अनुग्रहार्थम् । सत्सु कथं तत्राह—शश्वन् निवृत्त-तमसश् चामी । अथवा शश्वन्-निवृत्त-तमसो हेतोस् तेषां तमस अन्ध एव नास्ति । किं तद्-रूपं ? यन् नाभि-पद्माद् इत्य्-आदि । अत एतद्-रूपं गृहीत्वा त्वं भगवान् श्री-कृष्ण इति ज्ञात एवासीति पूर्वोक्ति-निश्चयः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : रूपम् इति युग्मकम् । आदौ गुणावतारादीनाम् अग्रतः । गृहीतम् उपात्तं सताम् आभिमुख्येनानीतं प्रकटितम् इत्य् अर्थः, अविश्वं [भा।पु। ३.९.३] इति वक्ष्यमाणात् सृज्यत्वे विश्वान्तर्-भावापातात्, अवबोध-रसोदयेन नित्य-निवृत्त-सर्व-प्रकृति-गुणस्य जीववत् तद्-ग्रहणायोगात्। क्वाहं तमो-महद्-अहं [भा।पु। १०.१४.११] इत्य्-आदिष्व् इव तमो ह्य् अत्र प्रकृतिः, अवबोधस्य सर्वतश् छेदकत्वात् । तत्रावतार-शतैक-बीजत्वे स्वानुभवेन दिग्-दर्शनम् आह—यन् नाभीति । सृष्टेः प्रथमत्वाद् आत्मनस् तथोक्तिः ॥२॥ [भगवत्-सन्दर्भ ३९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् इदम् अपि मदीयं रूपम् अद्यतनम् एव । अद्यतनत्वे चानित्यम् एवात्र अद्य ज्ञातोऽसीति त्वद्-उक्तिर् एव प्रमाणम् इति परिहासम् आशङ्क्याह—रूपम् इति । अवबोध-रसः स्वरूप-भूता चिच्-छक्तिस् तद्-उदयेन हेतुना । शश्वत् सनातनम् एव निवृत्तं तमो माया यस्मात् तस्य तव । अत्र शश्वद् इत्य् उक्तेर् गृहीतम् आविष्कृतमिति स्वामि-चरणाः । सताम् आभिमुख्येनानीतम् इति सन्दर्भः । गृहीता मायया गुणा इतिवद् अभेदेऽपि भेद-बुद्ध्येत्य् एके, अवबोध-रसेन कर्त्रा गृहीतम् इत्य् अपरे ॥२॥

———————————————————————————————————————

॥ ३.९.३ ॥

नातः परं परम यद् भवतः स्वरूपम्

आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः ।

पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन्

भूतेन्द्रियात्मकम् अदस्1 त उपाश्रितोऽस्मि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे परम! अविद्ध-वर्चः अनावृत-प्रकाशम्, अतोऽविकल्पं निर्भेदम्, अत एव्आनन्द-मात्रम् । एवम्-भूतं यद् भवतः स्वरूपं, तद्अतो रूपात् परं भिन्नं न पश्यामि, किन्त्व् इदम् एव2 तत् । अतः कारणात् ते तव अद इदं रूपम् आश्रितोऽस्मि । योग्यत्वाद् अपीत्य् आह । एकम् उपास्येषु मुख्यं, यद् विश्व-सृजम् । अत एव अविश्वं विश्वस्माद् अन्यत् । किं च, भूतेन्द्रियात्मकं भूतानाम् इन्द्रियाणां चात्मानं कारणम् इत्य् अर्थः ॥३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु मयेदं रूपं गृहीतं, तस्माद् रूपात् परोऽहम्, तर्हि मत्तोऽपि परम् अन्यद् इत्य् अनवस्था प्रसज्जेतेत्य् आह—नातः परम् इत्य्-आदि । अतः श्री-नारायणात् ॥। श्री-कृष्णाद् भवतः परं स्वरूपं नास्ति । स्वरूपस्य विशेषणानि—आनन्द-मात्रम् इत्य्-आदि । अतः श्री-कृष्ण ते स्वरूपम् एव ॥। विश्व-सृजं विश्वं श्री-नारायण-रूपं तस्य सृक् स्रष्टृ पुं-लिङ्गम् आर्षम् । ॥। विशेर् औणादिको वः । भूतेन्द्रियात्मकं भूतेन्द्रियाणां नियामकम् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् खल्व् अतः परं भवतः स्वरूपं पूर्ण-भगवद्-आदि-रूपं, तत् तु न पश्यामि, किन्त्व् अदो रूपम् उपाश्रितोऽस्मि । तत्-स्वरूपं विशिनष्टि—आनन्द-मात्र आनन्दो ब्रह्म [तै।उ। ३.६.१] इत्य् उक्तं ब्रह्म च मात्रा निर्विशेष-चिद्-रूपोऽंशो यस्य । न विद्यते विविधः कल्पः सृष्ट्य्-आदि-कल्पना यत्र । भगवद्-आदि-रूपस्य3 महा-वैकुण्ठ-स्थितस्य सृष्ट्य्-आदि-कर्मण्य् उदासीनत्वात्, पुरुषस्यैव तत्र प्रवृत्तत्वात् । तद् उक्तं—काल-वृत्त्या तु मायायां [भा।पु। ३.५.२६] इत्य्-आदि, विष्णोस् तु त्रीणि रूपाणि इत्य्-आदि च । अविद्धं मायया न भिन्नं वर्चस् तेजः शक्तिर् यस्य तादृशम् । अदो रूपं विशिनष्टि—विश्व-सृजम् इत्य्-आदिना । भूतानाम् इन्द्रियाणां चात्मा प्रधानाख्यं स्वरूपं यत्र, यद् आश्रित्यैव विश्व-कारणं प्रधानम् अपि प्रवर्तत इत्य् अर्थः ॥३॥ [भगवत्-सन्दर्भ ३९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु निर्विशेषं ब्रह्मैव सर्वादिमं केचिद् व्याचक्षते, न तु स-विशेषम् इति । तत्राह—नात इति । हे परम ! यद् भवतः स्वरूपम् अविकल्पं निर्विशेषम् आनन्द-मात्रं ब्रह्म, तद् अदो-रूपात् परं न पश्यामि, किन्त्व् इदम् एव तन्, न तु तद् एवेदम् इत्य् अर्थः । हे अविद्ध-वर्चः ! अविद्धं काल-देशाद्य्-अपरिच्छिन्नं वर्चस् तेजो यस्येति सर्व-व्यापकं तत्-तेज एव तद् ब्रह्मेति भावः । यद् उक्तं हरि-वंशे अर्जुनं प्रति भगवता—

तत् परं4 परमं ब्रह्म सर्वं विभजते जगत् ॥ > ममैव5 तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [ह।वं। > २.११४.१२] इति ।

ननूभयोर् ऐक्येऽपि त्वं कुत्र रज्यसीति ? तत्राह—अविश्वं विश्वस्माद् अन्यं चिन्-मयम् इत्य् अर्थः । अहं तु विश्वम् एव, यतो भूतेन्द्रियात्मभिर् देहेन्द्रिय-मनोभिः कं सुखं यत् तेनैव मदो गर्वो यस्येति स्वस्य प्राकृतत्वम् उक्तम् ॥३॥

———————————————————————————————————————

॥ ३.९.४ ॥

तद् वा इदं भुवन-मङ्गल मङ्गलाय

ध्याने स्म नो दर्शितं त उपासकानाम् ।

तस्मै नमो भगवतेऽनुविधेम तुभ्यं

योऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवम् अपि सोपाधिकम् एतद् अर्वाचीनम् एवेत्य् आशङ्क्याह तद् वैतद् एवेदं, हे भुवन-मङ्गल! यतस् ते त्वया नोऽस्माकम् उपासकानां मङ्गलाय ध्याने दर्शितम् । न ह्य् अव्यक्त-वर्त्माभिनिवेशित-चित्तानाम् अस्माकं सोपाधिकं दर्शनं दातुं युक्तम् इति भावः । अतस् तुभ्यं नमोऽनुविधेम अनुवृत्त्या करवाम । तर्हि किम् इति केचिन् मां नाद्रियन्ते, तत्राह—योऽनादृत इति । असत्-प्रसङ्गैर् निरीश्वर-कुतर्क-निष्ठैः ॥४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु ॥॥ कथं ज्ञातं ? शेष-शायि-रूपम् एव दृष्टम् इत्य् आशङ्क्याह—तद् वा इदम् इत्य्-आदि । हे भुवन-मङ्गल ! श्री-कृष्ण ! तत् श्री-कृष्णाख्यं धाम इदं प्रायः, वै-शब्दोऽत्र प्रायो-वाची । चतुर्भुजत्वेनैव भेदः, न तु वास्तव-भेदः—इदम् इति ।

किं तत् ? तदा ध्याने नोऽस्माकं मङ्गलाय क्षेमाय यद् दर्शितम्, तद्-दर्शने कारण-भूतस्य तस्य स्फूर्तिर् अजायत इति भावः । अतस् तस्मै भगवते श्री-कृष्णाय नमोऽनुविधेमयस् त्वं नरक-भाग्भिर् असत्-प्रसङ्गैर् अनादृतः । उक्तं च, अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितं [गीता ९.११] इति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तर्ह्य् अदो रूपं प्रकृति-गुण-विशिष्टं ? नेत्य् आह—तद् वा इदम् इति । तद् एवेदम् इत्य् अर्थः । बहु-मूर्त्य्-एक-मूर्तिकं [भा।पु। १०.४०.७] इत्य् अत्राक्रूरोक्त-न्यायेन भिन्नत्वेनाविर्भूतत्वेऽपि तस्माद् अभिन्नत्वात् प्रधानेनाश्रितत्वेऽपि, धाम्ना स्वेन सदा निरस्त-कुहकं [भा।पु। १.१.१] इति न्यायेन तद्-अनासक्तत्वात् ।

तर्हि कथं भवता दृश्यते? तत्राह—ध्यान इति । अस्माकं ध्यान-लक्षणायां भक्ताव् एव स्वातन्त्र्येण दर्शितत्वात् । तर्ह्य् एतद्-रूप-विशेष-दर्शने किं कारणं ? तत्राह—उपासकानाम् । सृष्टि-कामनया तादृशोपासना-कर्तॄणां स्वस्य स-कामत्वेऽपि तादृश-तद्-उपकारानुसन्धानेन प्रत्युपकारासामर्थ्यात् । केवलं नमति—तस्मा इति । तद् एवं स्वेषां स-कामत्वेऽपि कृपा-करत्वं तस्य दर्शयित्वा तद्-बहिर्-मुखान् निन्दति— इति । असन्तोऽत्र तत्-तद्-अज्ञान-कल्पितम् अतिकुतर्केण मन्वाना उच्यन्ते ॥४॥ [भगवत्-सन्दर्भ ३९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु निर्विशेष-स्वरूपं किम् इति नाश्रयसि ? तत्राह—तत् प्रसिद्धम् इदं स-विशेषं स्वरूपं वै निश्चितं चतुर्दश-भुवन-स्थ-जनानां सर्वेषाम् अपि यानि मङ्गलानि धर्मार्थ-काम-मोक्षाः, तेषाम् अपि मङ्गलाय कल्याणार्थम् एतद्-रूपोपासने सत्य् एव धर्मादयः कुशलिनः सार्थका भवन्ति, अन्यथा व्यर्था भवन्तीत्य् अर्थः । निर्विशेष-स्वरूपस् त्व् एवं न भवतीति भावः । तथा नोऽस्माकम् अपि ध्याने इदम् एव दर्शितं, न तु तद् इति, ततः कृपालुत्वाधिक्यम् अपि । तस्मात् तस्मै स-विशेष-स्वरूपाय चिन्मय-गुण-समुद्राय तुभ्यं नम एव केवलं विधेम करवाम । परिचर्यां पुनः काम् अहं कर्तुं शक्नोमीति भावः ।

नन्व् इदं रूपं न सच्-चिद्-आनन्द-मयं, किन्तु माया-मयम् इति ब्रुवाणाः केचिन् मां वस्तुतो नाद्रियन्ते ? तत्राह—योऽनादृत इति । नरक-भाग्भिर् इति ते नरक एव निपतिष्यन्तीत्य् अर्थः । असन् मिथ्यैवेदं सर्वम् इति प्रसङ्गवद्भिर् असाधु-सङ्गिभिर् इति वा ॥४॥

———————————————————————————————————————

॥ ३.९.५ ॥

ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं

जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् ।

भक्त्या गृहीत-चरणः परया च तेषां

नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

हृदि व्यक्तं तु यद् रूपं हरेर् गन्धः स उच्यते ।

उत्तमानां तु पादेन सर्वं रूपं तु भण्यते । > गन्ध-गन्धवतोर् यस्मान् न भेदः क्वचनेष्यते ॥ इति ब्रह्म-तर्के > ॥५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदरेण तु त्वां भजन्तः कृतार्था इत्य् आह—ये त्व् इति । श्रुतिर् वेदः, स एव वातः, तेन नीतं प्रापितम् । नापैषि नापयासि । ये त्वत्-कथा-श्रवणम् अत्यादरेण कुर्वन्ति, तेषां हृदि नित्यं प्रकाशसे इत्य् अर्थः ॥५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु ॥॥ श्री-कृष्णाख्यं रूपं परात् परं सर्व-कारण-कारणम् एवास्ति, भवते तेन किं भवतु ? सिसृक्षोः सर्व-लोक-बीजम् इदम् एव नारायणाख्यं मद्-धामैवोपास्यम् इत्य् आशङ्क्याह—ये त्व् इत्य्-आदि ।

ये तु मद्-विधस् त्वदीयौ तव श्री-कृष्णस्य सम्बन्धिनौ यौ चरणाम्बुज-कोशौ, तयोर् गन्धं जिघ्रन्त्य् आस्वादयन्ति । कैः ? कर्ण-विवरैः । कथं-भूतं ? श्रुति-वात-नीतं श्रुतय एव वाताः, तैर् नीतम् । तास् तु गन्धम् एव तयोर् जानन्ति, न तु तत्त्वतो जानन्ति । स्व-पुंसां हृदयाम्बुरुहान् नापैषि, स्वयम् एव त्वं नापयासि, गृहीत-चरणश् चेत् । अतस् त्वद्-वार्ता-श्रवणे सति त्वां विस्मर्तुं केऽपि न शक्नुवन्ति, किं पुनर् अहम् । अतः मेऽन्य उपास्योऽस्तु ? ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव स्थापयन्—ये तु शुद्ध-भक्ताः, तेषां त्वच्-चरणारविन्दम् एव पुरुषार्थः स्यात्, यतस् त्वम् अपि तांस् तथा मन्यसे । इत्य् आह—ये त्व् इति । तु-शब्देनात्रैव परम-सम्मतत्वं स्थापितम् । नापैषि नापगन्तुम् इच्छसीत्य् अर्थः । अत्र परम-साधनं च—त्वदीयेत्य् आदिनेति ॥५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शास्त्रेषु निर्विशेष-स्वरूपोपासका ज्ञानिन उच्यन्ते, स-विशेष-स्वरूपोपासकास् तु भक्ताः । तेषाम् उभयेषां मध्ये भक्ता एव कृतार्थाः प्रियाश् चेत्य् आह द्वाभ्यां—ये त्व् इति । श्रुतिर् वेदः श्रवण-भक्तिर् वा वातः, तेन नीतं प्रापितं । ततश् च ते चरणाम्बुज-सौरभ्य-लोभिनो भृङ्गा इव चरणाम्बुजम् एव परम-पुरुषार्थत्वेन गृह्णन्तीत्य् आह—भक्त्या परया प्रेम-लक्षणया नापैषीति, ते यथा तव चरणाम्बुज एव लोभिनस् तन् न त्यजन्ति, तथा त्वम् अपि तेषां प्रेम-माधुर्यवति हृदयाम्बुज एव लोभी तन् न त्यजसीति परस्पर-वशीकारः सूचितः ॥५॥

———————————————————————————————————————

॥ ३.९.६ ॥

तावद् भयं द्रविण-देह-सुहृन्-निमित्तं

शोकः स्पृहा परिभवो विपुलश् च लोभः ।

तावन् ममेत्य्-असद्-अवग्रह आर्ति-मूलं

यावन् न तेऽङ्घ्रिम् अभयं प्रवृणीत लोकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किं ? अत आह—तावद् इति । द्रविणादौ विद्यमाने भयं, गते शोकः, पुनश् च स्पृहा, ततः परिभवः, तथापि विपुलो लोभस् तृष्णा, पुनः कथञ्चित् प्राप्ते ममेत्य्-असद्-आग्रहःआर्ति-मूलं भय-शोकादेः कारणम् । न प्रवृणीत नाश्रयेत् । त्वत्-पादाश्रयण-मात्रेण भयादि-निवृत्तिः, किं पुनस् त्वत्-प्रकाशे सतीति भावः ॥६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ——————————————————————————————————————— त्वम् एव भजनीय इत्य् आह—तावद् भयम् इत्य्-आदि । यावत् ते तवाङ्घ्रिं लोको न प्रकर्षेण सर्व-परित्यागेन वृणीते, तावद् भयादिकं सर्वम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु द्रविणादि-निमित्ते भयादौ सति कथम् एतादृश-मन्-माधुर्यासक्तिः स्यात् ? तत्राह—तावद् इति । न प्रवृणीत शरण-मात्रत्वेन नाश्रयेत ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तेऽपि स्त्री-पुत्र-द्रविणादिमन्तश् चेत् संसारिण एव ? इति तत्र नहि नहीति स्व-रसना-दंशम् आह—तावद् इति । द्रविणाद्य्-आसक्ति-हेतुकं भयं संसार इत्य् अर्थः । तस्यैव प्रपञ्चं शोक इत्य्-आदि तावद् एव, यावत् तवाङ्घ्रिं प्रभुत्वादि-भावेन न प्रवृणीत । प्रकर्षेण वरणे सति त्वय्य् आसक्त्या द्रविणाद्य्-आसक्तिर् निवर्तत इति भावः ।

यदि च द्रविणादाव् आसक्तोऽपि कश्चिद् भक्तो भवेत्, तदापि नैव चिन्तेत्य् आह—ममेत्य् असद्-आग्रहस् तावद् एव आर्ति-मूलं संसार-कारणं यावद् इति । तवाङ्घ्रेः सेव्यत्वेन वरण-मात्र एव द्रविणासक्त्य्-आदेर् उत्खात-दंष्ट्रोरग-दंशस्येव नार्ति-मूलत्वम् इत्य् अग्रे च वक्ष्यते—तावद् रागादयः स्तेना इत्य् अत्र यावत् कृष्ण न ते जना [भा।पु। १०.१४.३६] इति ।

तावच्-छब्दस्य द्वि-पाठ-बलाद् व्याख्यातम् । एवं च, "ये तु त्वदीय" इत्य् अनेन रतिमन्तः, "तावद् भयम्" इत्य् अर्धेनानर्थ-निवृत्तिमन्तः, "तावन् मम" इत्य् अर्धेनानिवृत्तानर्थास् त्रिविधा अपि भक्ता न संसारिण इत्य् उक्तम् ॥६ ॥

———————————————————————————————————————

॥ ३.९.७ ॥

दैवेन ते हत-धियो भवतः प्रसङ्गात्

सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये ।

कुर्वन्ति काम-सुख-लेश-लवाय दीना

लोभाभिभूत-मनसोऽकुशलानि शश्वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ये निष्कामा अपि सन्तस् त्वां नाद्रियन्ते, ते नरक-भाज इत्य् उक्तं । ये तु त्वत्-कथा-श्रवणादि-विमुखाः सन्तः काम्य-कर्म-परास् तेऽतिमन्दा इत्य् आह—दैवेन ते हत-धियो नष्ट-मतयः । प्रसङ्गाच् छ्रवण-कीर्तनादि-रूपात् सर्व-दुःख-निवर्तकाद् विमुखानीन्द्रियाणि येषाम् । अकुशलान्य् अक्षेम-कराणि ॥७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इत्य् अविज्ञाय ये त्वां विना देव्वतान्तरोपासनं काम्य-कर्मादिकं वा कुर्वते, ते त्व् अतिमन्दा इत्य् आह—दैवेन ते इत्य्-आदि ॥७॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी, ह।भ।वि। १०.४६६) : वैमुख्य-दोषं लिखति—दैवेनेति द्वाभ्याम् । प्रसङ्गात् श्रवण-कीर्तनादि-रूपात् कथाया वा, सर्वाण्य् अशुभान्य् अमङ्गलानि दुःखानि वा उपशमयतीति तथा तस्मात् । विमुखानि अश्रद्धया निवृत्तानीन्द्रियाणि येषां ते । विमुखेन्द्रियत्वं तत्-फलं तद्-धेतुं वा अभिव्यञ्जयति—कुर्वन्तीति । अकुशलान्य् अक्षेम-कराणि कर्माणि ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं चेत् सर्व एव सुधियो भूत्वा मच्-चरणम् आश्रयिष्यन्ते । तर्हि के संसारिणो भविष्यन्ति ? तत्राह—दैवेन त्वद्-अपराधोत्थ-दुरदृष्टेन अकुशलानि काम्यानि निषिद्धानि च कर्माणि ॥७॥

———————————————————————————————————————

॥ ३.९.८ ॥

क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः

शीतोष्ण-वात-वरषैर् इतरेतराच् च ।

कामाग्निनाच्युत-रुषा च सुदुर्भरेण

सम्पश्यतो मन उरुक्रम सीदते मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अकुशलत्वम् एव दर्शयति । क्षुच् च तृट् च त्रि-धातवश् च वात-पित्त-श्लेष्माणः, तैः । इमाः प्रजाः सुदुर्भरेण दुःसहेन कामाग्निनाच्युतया रुषाऽविच्छिन्न-क्रोधेन च पीड्यमानाः सम्पश्यतो मे मनः सीदति ॥८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ततस् तान् अवलोक्य ममातिपीडा भविष्यतीत्य् आह—क्षुत्-तृड् इत्य्-आदि । इमाः प्रजाः । वस्तुतस् तु तदानीम् एकार्णवे प्रजा एव न सन्ति——————————————————————————————————————— सृष्टवत् प्रतीते [?] त्वद्-अभक्तानां प्रजानां स्रष्टुर् मम मनः सीदत्य् एव, तदैवं क्रियताम्—याः प्रजाः स्रक्ष्यामि, ता एव त्वद्-भक्ता भविष्यन्ति ——————————————————————————————————————— ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये चान्ये पश्व्-आदि-तुल्याः स्वीय-हिताहितं किम् अपि न जानन्ति, तांस् तु शोचाम्य् एव । इत्य् आह—क्षुच् च तृट् च त्रि-धातवो वात-पित्त-श्लेष्माणः, तैर् इमाः प्रजा इतरेतराच् च स्व-पुत्र-कलत्रादिष्व् अपि परस्परतोऽर्द्यमानाः कामाग्निना अच्युतया अनवच्छिन्नया रुषा । सुदुर्भरेणेति द्वयोर् एव विशेषणम् । अर्द्यमानाः प्रजाः पश्यतो मम मनः सीदति । हन्त हन्त कथं आसां निस्तारो भवितेत्य् अवसीदति ॥८॥

———————————————————————————————————————

॥ ३.९.९ ॥

यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ-

माया-बलं भगवतो जन ईश पश्येत् ।

तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत

व्यर्थापि दुःख-निवहं वहती क्रियार्था ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : माया-बलं भगवद्-इच्छा-बलम् । ज्ञेयत्वं दुर्गटस्यापि घटनाधिक-शक्तिता।

अभेद ईश्वरेणापि सृष्ट्य्-आदाव् अन्तरङ्गता । > उच्यते यस्याः सा माया हरेर् इच्छाथ वा बलम् ॥ > भगवत्-तन्त्रता यस्यास् तद्-भार्यात्वं सुरूपता । > उच्येत माया सा तु श्रीर् दोष-युक्ता जडा स्मृता ॥ > परिणामिनी यस्यास् तु दोषाश् चेतनता तथा । > शैवलीनाम् असौ माया जगद्-बन्धात्मिका सदा ॥ इति ब्रह्म-तर्के । > ध्याये मंस्ये तथा पश्ये शृणोमीति विभक्तता । > जीवस्था तु हरेर् इच्छा बलाद् इन्द्रिय-भुक्तयः ॥ इति षाड्गुण्ये ।

इन्द्रियाणां भोगार्थम् । व्यर्थापि यज्ञादि-क्रियार्था ॥९ ॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं-भूतायाः संसृतेर् अपरमार्थत्वात् किम्-अर्थं विषादः क्रियते ? तत्राह—यावद् इति । आत्मन इदं पृथक्त्वं देहादि-भावम् । भगवतस् तवेन्द्रियार्थ-रूपा या माया तया बलम् आधिक्यं यस्य तत् । न प्रतिसङ्क्रमेत नोपरमेत । दुःख-समूहं प्रापयन्ती । क्रियाणाम् अर्थः फलं यस्याम् । "पृथक्त्वम् इदम्" इति पाठे इदं देहादि त्वद् इति त्वत्तः पृथक् पश्येद् यावत्, तावद् व्यर्थापि नोपरमेत ॥९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथं विषादः क्रियताम् ? तासां शनैर् भद्रं भविष्यति, नैवम् इत्य् आह—यावद् इत्य्-आदि ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् च त्वत्तः स्वातन्त्र्याभिमानेनैव जीवानां स्याद् इत्य् अभिप्रेत्याह—यावद् इति । भगवतः सकाशात् आत्मनः पृथक्त्वं स्वातन्त्र्यं यावत् पश्येत् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवम्भूतायाः संसृतेर् अवस्तु-भूतत्वाद् अनया कथम् अवसीदसि ? इति तत्राह—यावद् इति । यावद् आत्मनो जीवस्य इदं पृथक्त्वं देहादि-भावं पश्येत् अनुभवेत् । भगवत इन्द्रियार्थ-रूपाया मायाया बलं यत्र तत् तावत् संसृतिर् व्यर्थाप्य् अवस्तु-भूतापि न प्रतिसङ्क्रमेत नोपरमेत । दुःख-निवहं प्रापयन्ति यतः क्रियाणां कर्मणाम् अर्थः फलं यतः सा ॥९॥

———————————————————————————————————————

॥ ३.९.१० ॥

अह्न्य् आपृतार्त6-करणा निशि निःशयाना

नाना-मनोरथ-धिया क्षण-भग्न-निद्राः ।

दैवाहतार्थ-रचना ऋषयोऽपि देव

युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अर्थैर् अध्याहृतानि करणानि येषाम् । अज्ञानं तु निशा प्रोक्ता दिवाज्ञानम् उदीर्यते इति स्कान्दे ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : भवत्व् एवम् अविवेकिनां, विवेकिनस् तु मुक्ता एवेति किं तेषां भक्त्या कृत्यम् ? अत आह—अह्नि आपृतानि व्यापृतानि च तान्य् आर्तानि क्लिष्टानि करणानि इन्द्रियाणि येषां, रात्रौ विषय-सुख-लवोऽपि नास्ति, यतो निशि निःशयानाः स्वप्न-दर्शनेन च क्षणे भग्न-निद्रा दैवेन आहताः सर्वतः प्रतिहता अर्थ-रचना अर्थोद्यमा येषाम् ॥१०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : अस्तु तावत् सा मान ——————————————————————————————————————— भविष्यन्ति । इत्य् आह—अह्न्य् आपृतार्त-करणेत्य्-आदि। देव ! ऋषयोऽपि युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति \॥॥ ॥१०॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी, ह।भ।वि। १०.३०४) : विवेकिनोऽप्य् अभक्ताश् चेत् सदा संसार-दुःखाद्य्-अनुभवन्त्य् एवेत्य् आह—अह्नीति । दिवसे आपृतानि च तानि अर्तानि च क्लिष्टानि करणानि इन्द्रियाणि येषाम् । रात्राव् अपि सुख-लवो नास्ति, यतो निःशयानाः स्वप्न-दर्शनेन च क्षणे क्षणे भग्न-निद्राः, दैवेन आहताः सर्वतः प्रतिहताः अर्थ-रचनाः अर्थोद्यमा येषाम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव तत्-तन्-मार्ग-सिद्ध-मुनीनाम् अप्य् अनादर इत्य् आह—अह्न्य् आपृतार्त-करणा इत्य्-आदि । स्वभावात् युष्मद्-भजन-विमुखाः संसारिणो भवन्ति । किं बहुना तत्-तन्-मार्ग-सिद्धा मुनयोऽपि युष्मत्-प्रसङ्ग-विमुखाश् चेद् इह जगति तद्वद् एव संसरन्ति । अथवा, मुनयोऽपि त्वद्-विमुखाश् चेत् तर्हि संसरन्त्य् एव । कथंभूताः सन्तः संसरन्ति ? तत्राह—अह्न्य् आपृतेत्य्-आदि, आरुह्य कृच्छ्रेण परं पदं [भा।पु। १०.२.३२] इत्य् आदेः । अत उक्तं श्री-यमेन—

धर्मं तु साक्षाद् भगवत्-प्रणीतं > न वै विदुर् ऋषयो नापि देवाः । > न सिद्ध-मुख्या असुरा मनुष्याः > कुतो नु विद्याधर-चारणादयः ॥ > स्वयम्भूर् नारदः शम्भुः कुमारः कपिलो मनुः । > प्रह्लादो जनको भीष्मो बलिर् वैयासकिर् वयम् ॥ > द्वादशैते विजानीमो धर्मं भागवतं भटाः । > गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतम् अश्नुते ॥ > एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । > भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ [भा।पु। > ६.१.१९-२२] इत्य्-आदि ।

एते धर्म-प्रवर्तका विजानीम एव , न तु स्व-स्मृत्य्-आदिषु प्रायेणोपदिशाम इत्य् अर्थः । यतो गुह्यम् अप्रकाश्यं, दुर्बोधम् अन्यैस् तथा ग्रहीतुम् अशक्यं च । गुह्यत्वे हेतुः—यं ज्ञात्वामृतम् अश्नुते[२१] इति । अत एव वक्ष्यते च—प्रायेण वेद तद् इदं न महाजनोऽयं [भा।पु। ६.३.२५] इत्य्-आदि । अत्र महाजनो द्वादशेभ्यस् तद्-अनुगृहीत-सम्प्रदायिभ्यश् चान्यो महा-गुण-युक्तोऽपीत्य् अर्थः । तस्मात् साधूक्तम्—अह्न्य् आप्ऋतार्त- इत्य्-आदि। अत्र विशेषो श्री-भक्ति-सन्दर्भे दृश्यः ॥१०॥ [भक्ति-सन्दर्भः ११३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चाज्ञान-कल्पितायाः संसृतेर् ज्ञानेनैवोपराम इति वाच्यं, यतो ज्ञानिनोऽपि भक्ति-रहिताः संसरन्तीत्य् आह—अह्न्येति युष्मत्-प्रसङ्ग-विमुखा ऋषयो ज्ञानिनोऽपि एवं-भूताः सन्तः संसरन्तीत्य् अन्वयः । मुनय इति च पाठः । कथं-भूताः ? अह्नि आपृतानि नाना-व्यापार-युक्तानि आर्तानि च करणानि इन्द्रियाणि येषां तथा-भूता दैवेन आहता अर्थ-रचना भोग्य-वस्तु-प्रतिपादनानि येषां ते । एवं च दैवेनते [भा।पु। ३.९.७] इत्य् अनेन कर्मिणः, क्षुत्-तृड् [भा।पु। ३.९.८] इत्य्-आदिना मूढाः, अह्न्य् आपृता [भा।पु। ३.९.१०] इत्य् अनेन ज्ञानिन इति त्रिविधाः संसारिण उक्ताः ॥१०॥

———————————————————————————————————————

॥ ३.९.११ ॥

त्वं भक्ति7-योग-परिभावित-हृत्-सरोज

आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् ।

यद्-यद्-धिया त उरुगाय विभावयन्ति

तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्-तद्-वपुस् तेषां प्रणयसे । यादृशो भावितस् त्व् ईशस् तादृशो जीव आभवेत् इति तन्त्र-सारे । तं यथा यथोपासते तद् एव भवतीति च ॥११॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् अभक्तानां संसारम् अनिवृत्तिम् उक्त्वा, भक्तानां तन्-निवृत्तिम् आह—त्वम् इति । भक्ति-योगेन शोधिते हृत्-सरोजे आस्से तिष्ठसि । श्रुतेन श्रवणेनेक्षितः पन्था यस्य। किं च, श्रवणं विनापि त्वद्-भक्ता मनसा यद् यत् तव वपूर् रूपं स्वेच्छया ध्यायन्ति, तत् तत् प्रणयसे प्रकटयसि । सतां भक्तानाम् अनुग्रहाय ॥११॥

———————————————————————————————————————

कैवल्य-दीपिका: नन्व् ईदृशम् एव चेद् विष्णु-रूपं तत् कथम् अन्यथा तत्र तत्रोपवर्ण्यते ? इति तत्राह—नेदृग् एवेच्छा-रूपत्वात् इति । अत्र हेतुम् आह—इच्छैव रूपं यस्य स तथा । तस्य भावस् तस्मात् । भक्तेच्छैव चतुर्भुजाद्य्-आकारेण परिणमतीत्य् अर्थः । अत्रैव मूलं योजयति—त्वं भाव- इति । हे उरुगाय विष्णो ! त्वं भाव-योगेन परिभाविते विशोधिते हृत्-सरोजे आस्से अभिव्यक्तः सन्न् अवतिष्ठसे । तत्र हेतुः—श्रुतेन शास्त्रेण ईक्षितो निर्ज्ञातः पन्था स्वरूप-स्थितिर् यस्य स तथा । वेदोऽत्र प्रमाणम् इत्य् अर्थः । अतस् ते भक्ता यद् यद् वपुः स्व-धिया विभावयन्ति चिन्तयन्ति, तत् तत् प्रणयसे प्रकटयसि । व्यापकत्वेन हृदय-स्थोऽपि भक्तैर् येन केनाप्य् आकारेण विषयीकृतस् तद्-अनुग्रहाय प्रकटोऽसीति भावः ॥११॥ [मु।फ। २.६]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ——————————————————————————————————————— इत्य् आह—त्वम् इत्य्-आदि । भक्ति-योग-परिभावित-हृत्-सरोजे ——————————————————————————————————————— । अयम् अर्थः— ——————————————————————————————————————— यादृशं भावयन्ति तथा ——————————————————————————————————————— प्रकटयसि । यां यां लीलां ध्यायन्ति, तां तां लीलां प्रणयसे प्रकटीकरोषि । ——————————————————————————————————————— तत्-तद्-वपुः श्री-कृष्ण-रूप एव सन् कुत्रचिद् बाल्य-लीलां कुत्रचित् किशोर-लीलाम् इत्य्-आदि तेनैव वपुषा तां तां लीलां प्रकटयसि । स्वयम् अकृत एव यद् यत् पापं प्रतिजहि, जगन्नाथ, नम्रस्य तन् मे इति वीप्सयोपात्तस्य यच्-छब्दस्य केवलेनैव\॥॥ स्मरण्हानम्, सतां भक्तानाम् अनुग्रहाय । अथवा सम्बोधनं हे सद्-अनुग्रहाय ! सद्-अनुग्रह एव अयः शुभावहो विधिर् यस्य ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (भगवत्-सन्दर्भः) : तद् एवं श्री-ब्रह्मणापि सर्व-रूप-सद्-भावाभिप्रायेणैवोक्तम्—त्वम् इत्य्-आदि । प्रणयसे प्रकर्षेण नयसि प्रकटयसि । श्रुतेक्सित-पथ इत्य् अनेन कल्पनाया निरस्तत्वात् ॥११॥ (भगवत्-सन्दर्भ ४०)

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्तानां तु त्वं वश एवेत्य् अपरं किं वक्तव्यं ? इत्य् आह—त्वम् इति । भक्ति-योगोऽत्र प्रेमा । परिभावितत्वं योग्यताम् आपादितत्वम् । श्रुतं भगवत्-प्रतिपादक-वेद-वैदिक-शास्त्र-विचार-श्रवणम् । तर्हि मद्-रूप-विशेषाविर्भावे किं कारणं ? तत्राह—यद् यद् इति । धिया श्रुतेनैव लब्धेन बुद्धि-विशेषेण । ते पूर्वोक्ताः श्रुतेक्षित-तत्-पथः पुमांसो यद् यद् विभावयन्ति, तत् तद् वपुः प्रणयसे प्रकर्षेण तत्-समीपे नयसि प्रकटयसीत्य् अर्थः ।

ननु, ईश्वरोऽहं कथम् एवं तेषां वशः स्यां ? तत्राह—सद्-अनुग्रहाय । सत्सु तेष्व् अनुग्रह एव तव वशत्वे कारणम्, नान्यद् इति भावः । ननु, श्रुत-मात्रेण मम कथं बहूनां रूपाणां ज्ञानं स्यात् ? तद्-अभावे च कथम् एकतर-तन्-निष्ठा स्यात् ? तत्राह—हे उरुगायेति । वेदेन त्वम् उरुधैव गीयस इति स्व-स्व-मत्य्-अनुसारेण सा स्याद् इति भावः ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तास् तु ज्ञानं विनापि संसारं निस्तरन्तीति किं वक्तव्यम्, यतो भक्त्या त्वाम् अप्य् अधीनीकुर्वन्तीत्य् आह—भक्ति-योगेन परि सर्वतो-भावेन भाविते वासिते भावितं वासित त्रिष्व् इत्य् अमरः । यद् वा, हे भक्ति-योग-परिभावित ! भक्ति-योगेनैव परि सर्वतो-भावेन भावितः प्रकटी-कृतो भवतेर् न्यस्तान् निष्ठया भक्ति-योग एव त्वत्-प्रकटीभवनस्य प्रयोजकः स्याद् इत्य् अर्थः । अत एव तेषां हृत्-सरोजे आस्से उपविश्य तिष्ठसि, न ततो निःसरसि नापैषि नाथ [भा।पु। ३.९.५] इति पूर्वोक्तेः । आदौ गुरु-मुखात् श्रुतः, पश्चाद् ईक्षितः साक्षात्-कृतश् च पन्था यस्य सः । येन पथा त्वं हृत्-सरोजम् आयातोऽसि तं पन्थानं साधन-भक्ति-प्रकारं, अत एव सुष्ठु परिचिन्वन्तीति ध्वनिः । अतो यस्य त्वत्-प्राप्तीच्छा वर्तते, स तत एव पन्थानं परिचिनोत्व् इत्य् अनुध्वनिः ।

किं च, श्रवणं विनापि त्वद्-भक्ता मनसा यद् यद् वपुः रूपं स्वेच्छया ध्यायन्ति, तत् तत् प्रणयसे प्रकटयसि इतिस्वामि-चरणाः । यद् वा, ते साधक-भक्ताः स्व-स्व-भावानुरूपं यद्-यद्-धिया भावयन्ति, तत् तद् एव वपुस् तेषां सिद्ध-देहं प्रणयसे प्रकर्षेण तान् प्रापयसि । अहो ते स्व-भक्त-पारवश्यम् इति भावः ॥११॥

———————————————————————————————————————

॥ ३.९.१२ ॥

नातिप्रसीदति तथोपचितोपचारैर्

आराधितः सुर-गणैर् हृदि बद्ध-कामैः ।

यत् सर्व-भूत-दययासद्-अलभ्ययैको

नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सर्व-भूत-दययासुर-गणैर् हृद्य् आराधितस् त्वं बद्ध-कामैर् जनैर् उपचितोपचारैर् नातिप्रसीदसि


आराधितो यो ब्रह्माद्यैर् भक्ति-ज्ञान-दयादिभिः । > किं तस्य कामुक-जन-कृतया परिचर्यया ॥ इति सत्य-संहितायाम् > ॥१२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तानां च निष्कामानां त्वम् अति-सुलभो नेतरेषाम् इत्य् आह, नेति । उपचितैर् ऊर्जितैर् उपचारैः पुष्पोपहारादिभिः । यद् यथा असताम् अभक्तानाम् अलभ्यया सर्व-भूत-दयया । प्रसादे हेतुः, एक इत्य्-आदि ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नातीति । भवान् इति शेषः । ततश् च यद् यथा सर्व-भूत-दयया साधारणैर् अपि जनैर् आराधितो भवान् अतिप्रसीदति । कुतः ? तत्राह—एक एव भवान् नाना-जनेषु सुहृच् चान्तरात्मा च सावधानश् चेति । सुर-गणैः कथं-भूतैः ? हृदि बद्ध-कामत्वात् तत्र तत्र स्पर्धासूया-युक्तैर् इत्य् अर्थः । तस्माद् भवत्-प्रीत्य्-अर्थं सर्व-भूत-दया-मय्य् एव भक्तिः कर्तव्येति भावः ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेष्व् अपि निष्काम-भक्तानाम् एवातिश्रेष्ठं न तु स-कामानाम् इत्य् आह—नातिप्रसीदति भवान् इति शेषः । सकामानां स्वार्थ-परत्वाद् एव सर्व-भूतेषु दयाया अभावम् एवातिप्रसादाभावे हेतुं व्यञ्जयन् निष्कामानां तु परार्थ-परत्वात् सर्व-भूत-दया साहजिकीत्य् अतिप्रसादोऽपि साहजिक इत्य् आह यद् यथा सर्व-भूत-दयया अतिप्रसीदति । असताम् अलभ्यया दयया अतिप्रसादे हेतुः एक एव भवान् नाना-जनेष्व् अवहितः कृतावधानः। यतः, सुहृत् हैतैषी ।

नन्व् एवं चेद् अहम् एव स्वयं कृपया तान् कथं नोद्धरामि ? तत्राह अन्तरात्मा त्वं स्व-भक्त एवैतत् यशो-दानार्थं जगद्-उद्धारिणीं स्व-कृपा-शक्तिं तेषु निधाय सर्वत्रान्तर्यामि-स्वरूपेण स्वयम् औदास्यम् एवावलम्बसे इत्य् अर्थः । एवं च सुहृद्-अन्तरात्मेति पदाभ्यां क्रमेण नैर्घृण्य-वैषम्य-दोषौ परमेश्वरस्य पराहतौ भक्त-वात्सल्यं च द्योतितम् । न चैवं सर्व-मुक्ति-प्रसङ्गः इति वाच्यं सर्व-भूत-दययेत्य् अत्र छत्रिणो गच्छन्तीतिवत् सर्व-शब्दस्य प्राचुर्य-मात्रार्थ-परत्वेनाभिधानात् भगवद्-भक्त-कृपाया अपि प्रायः खल्व् असार्वत्रिकत्व-दर्शनात् ।

यद् वा, भक्तेन सर्व-भूतेष्व् एव दया कार्यैव तद् अपि न सर्व-मुक्तिर् द्रष्टव्या । नहि सर्वत्रैवोप्तान्य् अपि बीजान्य् उषर-क्षारादि-भूमिष्व् अपि प्ररोहन्तीति नारदादीनाम् अपि दक्षादिषु कृपायाः फलवत्त्वादृष्टेः ॥१२॥

———————————————————————————————————————

॥ ३.९.१३ ॥

पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर्

दानेन चोग्र-तपसा परिचर्यया च ।

आराधनं भगवतस् तव सत्-क्रियार्थो

धर्मोऽर्पितः कर्हिचिद् म्रियते न यत्र ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतः स-कामानां भवान् नातिप्रसीदत्य् अतः काम-प्राप्तिः क्रियाणाम् उत्तमं फलं न भवति, किन्तु त्वत्-प्रीणनम् एव । काम-संयोगस् त्व् अवान्तर-फलेन प्ररोचनार्थम् इत्य् आह, पुंसाम् इति । भगवतस् तवाराधनम् एव संश् चासौ क्रियार्थश् च श्रेष्ठं क्रिया-फलम् । श्रेष्ठत्वे हेतुः, यत्र त्वय्य् अर्पितो धर्मो न कदाचिद् ध्रियते न नश्यति, कामार्थस् तु धर्मः कामं दत्त्वा नश्यतीत्य् अर्थः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आस्तां तावत् पूजादौ निष्कामत्वं विविध-कर्मादाव् अपि तद् एवोत्तमम् इत्य् आह—पुंसाम् इति । आराधनं प्रीणनम् । न म्रियते सदा त्वत्-प्रीतिं ददद् एव तिष्ठतीत्य् अर्थः ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तौ यतो निष्कामाः श्रेष्ठाः, अतः केवल-भक्त्य्-अशक्त्याव् अपि प्रधानी-भूता लौकिक-वैदिक-कर्मार्पण-रूपापि भक्तिर् निष्कामैव कार्येत्य् आह—पुंसाम् इति । विविध-कर्मभिर् लौकिकैः अध्वराद्यैर् वैदिकैश् च त्वद्-अर्पितैर् आराधनं यत् करोषि यद् अश्नासि [गीता ९.२७] भगवता शिक्षितम् इत्य् अर्थः । अत्र लौकिक-वैदिक-निखिल-कर्मार्पणं गुणी-भूतायां वैदिकस्यैव, न तु लौकिकस्य केवलायां लौकिकस्य तथा श्रवण-कीर्तनादेश् च अर्पितस्यैव कारणम् इति भेदो द्रष्टव्यः । सत्-क्रियार्थस् तद् एव सत्-कर्माणां फलं कुतः ? यत्र त्वय्य् अर्पितो धर्मः कर्हिचिद् अपि न म्रियते, न नश्यति, किन्त्व् आराधन-रूपेण परिणमति । कामार्थस् तु धर्मः कामं दत्त्वा नश्यतीत्य् अर्थः ॥१३॥

———————————————————————————————————————

॥ ३.९.१४ ॥

शश्वत् स्वरूप-महसैव निपीत-भेद-

मोहाय बोध-धिषणाय नमः परस्मै ।

विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला-

रासाय ते नम इदं चकृमेश्वराय ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ईशस्यापूर्णताज्ञानं विष्णोर् अन्यस्य चेशता भेदस् तस्यावतारेषु जीवस्येशत्वम् एव च ।

तथा जीवत्वम् ईशस्य जडाभेदस् तयोर् अपि । > भेद-मोह इति प्रोक्तः स सदा न हरौ क्वचित् । > अन्येषां तत्-प्रसादेन शनैर् याति सताम् अपि ॥ इति स्कान्धे > ॥१४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वाम् एव वयं नता इत्य् आह—शश्वत् सर्वदा स्वरूप-चैतन्येनैव निरस्त-भेद-भ्रमाय । पुनश् च बोध एव धिषणा विद्या-शक्तिर् यस्य । यद् वा, धिषणम् आश्रयः । अत एव परस्मै । अत्र हेतुः—विश्वोद्भवादि-निमित्तं या माया तस्या लीला विलासस् तया रासः क्रीडा यस्य । ते तुभ्यम् इदं नमो नमनं चकृम कृतवन्तो वयम् ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : शश्वद् इति । स्वरूप-महसा स्वरूप-शक्त्या तद्-वैलक्षण्येनैव निपीतो दूरीकृतो जीवादिभिः सह तव भेदे मोहस् तैः सह भेदो न सम्भवतीति भ्रमो येन त्वया तस्मै । तद् वैलक्षण्येन तेभ्यो भिन्नतया निश्चितायेत्य् अर्थः । अत एव बोध-धिषणाय, न तु जीववत् कदाचिद् अबोधेनापि युक्तायेत्य् अर्थः ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उपासनां द्विविधां भक्तानां निरूप्य पूर्वोक्त-लक्षणं ज्ञानि-भक्तयोर् उपास्यं स्वरूप-द्वयं प्रणमति सर्वदा स्वरूप-चैतन्येनैव अगस्त्येनैव निपीतो भेदो मोह-समुद्रो यतस् तस्मै बोधस्य स्वरूपानुभवस्य हेतुर् धिषणा बुद्धिर् यतस् तस्मै निर्विशेष-स्वरूपाय नमश् चकृम करवाम, तथा विश्वोद्भवादि-निमित्तं या माया तस्मिन्न् अपि लीलया अवलोकन-रूपया रासः सम्भोगो यस्य तस्मै स-विशेष-स्वरूपाय । यद् वा, हे निमित्त-कारण-रूप-लीलया रासो गोपी-जन-सङ्गतो लास्य-विशेषो यस्य तस्मै । परार्धान्ते सोऽबुध्यत गोप-वेशो मे पुरस्ताद् आविर्बभूवेति श्रुतेः । काम-दुघाङ्घ्रि-पद्मं प्रदर्शयन्तम् इति पूर्वोक्तेश् च स-विशेष-स्वरूपेष्व् अपि मध्ये श्री-कृष्ण-स्वरूपस्यैव परम-परिपूर्णत्वात् परमाश्रयत्वं ज्ञापितम् ॥१४॥

———————————————————————————————————————

॥ ३.९.१५ ॥

यस्यावतार-गुण-कर्म-विडम्बनानि

नामानि येऽसु-विगमे विवशा गृणन्ति ।

तेऽनैक-जन्म-शमलं सहसैव हित्वा

संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भक्ति-विवशाः—

ये भक्ति-विवशा विष्णोर् नाम-मात्रैक-जल्पकाः । > तेऽपि मुक्तिं व्रजन्त्य् आशु किम् उत ध्यायिनः सदा ॥ इति > व्योम-संहितायाम् ॥१५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाम-ग्रहण-मात्रतः कैवल्य-प्रदत्वेनैश्वर्यं व्यञ्जयन् नमस्करोति—यस्येति । अवतारादीनां विडम्बनम् अनुकरणम् अस्ति येषु । तत्रावतार-विडम्बनानि देवकी-नन्दन इत्य्-आदीनि । गुण-विडम्बनानि सर्व-ज्ञो भक्त-वत्सल इत्य्-आदीनि । कर्म-विडम्बनानि गोवर्धनोद्धरणः कंसारातिर् इत्य्-आदीनि । असु-विगमेऽपि विवशा अपि गृणन्त्य् उच्चारयन्ति केवलम् । शमलं पापम् । अपावृतं निरस्तावरणम् । ऋतं ब्रह्म प्राप्नुवन्ति ॥१५॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी, ह।भ।वि। ११.४२६) : अवतारादीनां विडम्बनम् अनुकरणम् अवलम्बनं वास्ति येषु । तत्रावतार-विडम्बनानि देवकी-नन्दन इत्य्-आदीनि । गुण-विडम्बनानि सर्व-ज्ञो भक्त-वत्सल इत्य्-आदीनि । कर्म-विडम्बनानि गोवर्धनोद्धरणः कंस-निषूदन इत्य्-आदीनि । असु-विगमेऽपि विवशा अपि गृणन्त्य् उच्चारयन्ति केवलम् । शमलं पापम् । अपावृतं निरस्तावरणम् । ऋतं ब्रह्म । सहसा सद्य एव प्राप्नुवन्ति, जीवन्-मुक्ता भवन्तीत्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्यावतारेति । असु-विगमेऽपीति । तदानीन्तन-तन्मात्रत्वम् अशुद्ध-वर्णत्वं च व्यञ्जितम् । विवशा इति । तद्-इच्छां विना केनचित् काराणान्तरेणापीत्य् अर्थः । वशः कान्ताव् इत्य् अमरः । तादृश-शक्तित्वे हेतुम् आह—अवतारेति । अवतारादि-सदृशानि तत्-तत्-तुल्य-शक्तीनीत्य् अर्थः । तत्रावतार-विडम्बनानि नृसिंहेत्य् आदीनि गुण-विडम्बनानि भक्त-वत्सलेत्य् आदीनि । कर्म-विडम्बनानि गोवर्धन-धरेत्य्-आदीनि । ऋतं सच्चिदानन्द-रूपं श्री-भगवन्तम् एव । आत्म-तात्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् । ब्रह्मणे दर्शयन् रूपम् इत्य् उक्तेः ॥१५॥ [भक्ति-सन्दर्भ १५२]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्त-लक्षणोपास्योपासना-ज्ञान-गन्धम् अपि विना नामाभास-मात्रत एव पशु-तुल्येभ्योऽपि जनेभ्यः स्व-पद-दायित्वेन परम-कृपैश्वर्यम् आचक्षाणः स-विशेष-स्वरूप एव स्व-प्रपत्तिं विज्ञापयति यस्येति । अवतारादि-सदृशानि तत्-तुल्य शक्तीनीति सन्दर्भः । यद् वा, अवतारादीनां विडम्बनं नटादिष्व् अनुकरणम् अपि यैस् तानि । यद् वा, अवतारादि-विडम्बनानि स्व-भ्रातृ-पुत्रादि-जीव-विशेष-वाचकत्वाद् अवताराद्य्-अननुरूपाणीत्य् अर्थः । तत्र कृष्णोऽयं रामोऽयं नारायणोऽयम् इत्य् आदीन्य् अवतार-विडम्बनानि दयालुर् दीन-बन्धुर् दामोदर इत्य् आदीनि कर्म-विडम्बनानि नामानि ये जना अजामिलादय इव प्राण-विगमे विवशा अपि गृणन्ति केवलम् उच्चारयन्ति । शमलं पापम् अपावृतं निरस्तावरणम् ऋतं सच्-चिद्-आनन्द-स्वरूपं भगवन्तम् आत्म-तात्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् । ब्रह्मणे दर्शयन् रूपम् इत्य् अत्र तथैव व्याख्यानात् ॥१५॥

———————————————————————————————————————

॥ ३.९.१६ ॥

यो वा अहं च गिरिशश् च विभुः स्वयं च

स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् ।

भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस्

तस्मै नमो भगवते भुवन-द्रुमाय ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ब्रह्मादि-भावो विष्णोस् तु तन्-नियामकता भवेत् ।

मत्स्यादि-तावत्-स्वभावो नान्यथा क्वचिद् इष्यते ॥ इति वामने । > अनन्तासन-वैकुण्ठ-क्षीराब्धि-स्थो हरिस् त्रिपात् ॥ इति च > ॥१६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र गुणावतार-कर्माणि दर्शयन् प्रणमति—यो वै एकस् त्रि-पात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य । प्रत्येकं च उरवः प्ररोहाः शाखोपशाखा मरीच्य्-आदि-मन्व्-आदि-रूपा यस्य तथा-भूतः सन् ववृधे, तस्मै भुवनाकाराय द्रुमाय नमः । किं कृत्वा ववृधे ? आत्मा स्वयम् एव मूलम् अधिष्ठानं यस्य, तत्-प्रधानं भित्त्वा गुण-त्रय-रूपेण विभज्य । त्रि-पात् त्वम् एवाह । अहं ब्रह्मा, गिरिशश् च, स्वयं विभुर् विष्णुश् चेति स्थित्य्-उद्भव-प्रलय-हेतवो ये वयम् । त्रि-पाद् भूत्वा यो ववृधे इत्य् अर्थः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (परमात्म-सन्दर्भः) : टीका च—यो वै एकस् त्रिपात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य् एषा । वृक्ष-रूपत्वेन तद्-वर्णनाद् एषां स्कन्धत्वम् ॥१६॥ (परमाम-सन्दर्भ ९)

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् अहम् एक एव प्रपद्ये, अपि तु महद्-आदीनां सर्वेषाम् एव त्वत्त उद्भूतत्वात् त्वत्-प्रपत्तिर् उचितैवेत्य् अभिव्यञ्जयन् नमस्यति । यो वै एकः त्रिपात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य उरवो मरीच्य्-आदि-मन्व्-आदयः प्ररोहाह् शाखोपशाखा यस्य तथा-भूतः सन् ववृधे । किं कृत्वा ? आत्म-मूलम् आत्म-कारणकं प्रधानं भित्त्वा गुण-त्रय-रूपेण विभज्य त्रिपात्त्वम् एव । अहम् इत्य्-आदयः स्थित्य्-आदि-हेतव इति यथा-सम्भव-निर्देशः । अत्र विभुर् विष्णुः स्वयं चेति विष्णौ स्वयं-पद-प्रयोगात् ब्रह्म-गिरिशयोर् इव विष्णोर् नास्ति गुण-निबन्धनः स्वतो भेद इति ज्ञापितम् । यद् वा, य एव अहम्-आदयः य एव आत्मनः स्वस्यापि मूलं कारणम् । तथा य एव भित्त्वा स्व-शक्ति-कृतं भेदं प्राप्य त्रिपात् प्रथमं त्रिलोक-रूपः, तत उरु-प्ररोहः चतुर्दश-लोक-रूपः, तस्मै भुवनाकाराय द्रुमाय नम इति विश्व-रूपत्वम् उक्तम् ॥१६॥

———————————————————————————————————————

॥ ३.९.१७ ॥

लोको विकर्म-निरतः कुशले प्रमत्तः

कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे ।

यस् तावद् अस्य बलवान् इह जीविताशां

सद्यश् छिनत्त्य् अनिमिषाय नमोऽस्तु तस्मै ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नित्य-ज्ञान-दृशा नित्यं लव-कालम् अपीश्वरः ।

पश्येत् तात्कालिकं चैव तस्माद् अनिमिषो हरिः । > कालस्यानिमिषत्वं च लवादेर् नित्य-वीक्षणात् ॥ इति तन्त्र-सारे > ॥१७॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं गुणावतार-कर्म-विडम्बनम् उक्त्वा तस्यैव तत् कालाख्यं रूपं तत् कर्म च दर्शयन् प्रणमति—लोक इति द्वाभ्याम् । विकर्म-निरतो विरुद्ध-कर्म-निष्ठः कुशले हिते स्वे आत्मीये त्वद्-उदिते त्वयैव साक्षाद्-उक्ते भवद्-अर्चन-रूपे कर्मणि । उक्तं हि गीतासु,

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । > यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७]इति > ।

तस्मिन् प्रमत्तोऽदत्त-चित्तो यावद् वर्तते तावद् अस्य लोकस्य । अनिमिषाय कालाय ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विकर्म भगवद्-बहिर्-मुखं कर्म । अर्चनं पञ्चरात्राद्य्-उक्तं पञ्चरात्रस्य कृत्स्नस्य वक्ता8 तु भगवान् स्वयं [म।भा। १२.३३७.६२] इति मोक्ष-धर्मात् ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्व-रूपत्वम् उक्तम् अथ विश्व-निमिषं तु काल-रूपत्वेन प्रणमति लोको मनुष्यादिः कुशले कर्मणि प्रमत्तः अकृतावधानः । कुशलं कर्मैव किं ? तत्राह—भवद्-अर्चने ।

ननु स्व-धर्मेण तम् अभ्यर्च्येत्य् उक्तेः ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् इत्य् उक्तेश् च कर्म-ज्ञान-योगाभ्याम् अपि भगवद्-अर्चनम् एव स्याद् इति केचिद् व्याचक्षते, तत्राह—त्वद्-उदिते त्वयैव मद्-अर्चनम् इदम् एवेति साक्षाद्-उक्तेः । ये वै भगवता प्रोक्ता उपाया आत्म-लब्धये [भा।पु। ११.२.३४] इत्य् एकादशात् । पञ्चरात्रस्य कृत्स्नस्य वक्ता9 तु भगवान् स्वयं [म।भा। १२.३३७.६२] इति मोक्ष-धर्माच् च स्वे स्वीये स्व-कर्तव्य इत्य् अर्थः । तद् एवं त्वद्-भक्त-लोकेभ्योऽन्येष्व् एव कालस्याधिकार इति द्योतितम् । अस्य अभक्त्-लोकस्य जीवितस्याप्य् आशां किम् उत भोगादि-वाञ्छाम् इत्य् अर्थः । अनिमिषाय कालाय ॥१७॥

———————————————————————————————————————

॥ ३.९.१८ ॥

यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम्

अध्यासितः सकल-लोक-नमस्कृतं यत् ।

तेपे तपो बहु-सवोऽवरुरुत्समानस्

तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां तावल् लोकस्य कथा, यस्मात् कालाख्यात् त्वत्तो यद् द्वि-परार्धावस्थायि धिष्ण्यं स्थानं, तद्-आरूढोऽपि बिभेमि, भीतश् च संस् त्वाम् एवावरुरुत्समानः प्राप्तुम् इच्छंस् तपस् तप्तवान् । कथं-भूतः ? बहु-सवो बहवः सवा यागाः संवत्सरा वा यस्य। बहून् यागान् कृत्वापि बहून् संवत्सरान् वा तपस् तप्तवान् इत्य् अर्थः । अधिमखाय मखाधिष्ठात्रे ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तस्य काल-बलवत्त्वस्य सीमाम् आह—यस्मात् कालात् अहं ब्रह्मा द्विपरार्धावस्थायि धिष्न्यं स्थानं सत्य-लोकम् अध्यासितोऽपि बिभेमि तथा अवरुरुत्समानः अवरोद्धुं कालं वशीकर्तुम् इच्छन् बहु-सवः बहवः सवा यज्ञा यस्य तथा-भूतः सन् तपश् चाहं तेपे । तद् अपि बिभेमीत्य् अर्थः ।

ननु काल-वशीकारार्थं बहु-यज्ञ-प्रवृत्तौ तव कदा का युक्तिर् आसीत् ? तत्राह—अधिमखाय मखानाम् अधिष्ठात्रे तुभ्यं नमः । मखानाम् अधिष्ठातुस् तव मखैर् एव यजनेन कालो मे वशीभवत्व् इति बुद्ध्येत्य् अर्थः । प्रत्युत कालेनैवाहं वशीकृतः सम्प्रत्य् अपि बिभेमि, अतस् तव शुद्ध-भक्तिं विना कालो न जेयो भवतीत्य् अद्य ज्ञात-तत्त्वोऽतः परं शुद्धाम् एव भक्तिं करवानीति ध्वनिः ॥१८॥

———————————————————————————————————————

॥ ३.९.१९ ॥

तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व्

आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः ।

रेमे निरस्त-विषयोऽप्य् अवरुद्ध-देहस्

तस्मै नमो भगवते पुरुषोत्तमाय ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनिरस्त-रतिर् नित्य-रतिः ॥१९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं तत्-तत्-काल-भावि-लीलावतार-कर्माणि दर्शयन्न् आह—तिर्यग्-आदिषु जीव-योनिषु स्वेच्छया स्वीकृत-मूर्तिः सन्, स्व-कृत-धर्म-मर्यादा-पालनेच्छया रेमे । वस्तुतः स्वानन्दानुभवेनैव निरस्त-विषय-सुखोऽपि योऽपि एव पुरुषोत्तमः तत्-तद्-उपाधि-धर्मासंस्पर्शात् । तद् उक्तं गीतासु—

यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमाह् । > अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति > ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निरस्ता विषया जीव-गोचरा अर्थाः प्राकृता यस्मात् । आत्मेच्छया भक्त-पिपालयिषया अवरुद्ध-देहः प्रकटित-मूर्तिः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं जगद्-रूपत्वेन तन्-नियन्तृ-काल-रूपत्वेन च प्रणम्येदानीं परमोपास्य-सच्-चिद्-आनन्द-स्वरूपत्वेन प्रणमति । तिर्यग्-आदिषु स्वेच्छयैव अवतीर्ण इति शेषः । स्व-कृत-सेतु-परीप्सया रेमे आत्मारामत्वात् त्यक्त-विषय-सुखोऽपि—

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । > तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [गीता ९.२६] इति > ।

स्व-कृत-मर्यादा-पालनाय स्व-भक्तोपनीत-स्रक्-चन्दन-गन्ध-पुष्प-शय्याद्य्-उपभोग्येष्व् एव रेमे, नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना [भा।पु। ९.४.६४] इत्य् आत्मारामत्वेऽप्य् अपूर्ण-काम इवेति भावः । स्रग्-आदीनां प्राकृत-विषयत्वेऽपि भगवद्-अर्थ-विनियुक्तत्वे सति तत्-क्षण एवाप्राकृतत्वं स्याद् इत्य् एकादशे व्यक्तीभविष्यति [भा।पु। ११.२५.२७-२९] । अवरुद्ध-देहः भागुरि-मते अवेत्य् अ-कार-लोपे विभुत्वाद् अनावृत-देहः सच्-चिद्-आनन्द-शरीर एवेत्य् अर्थः ।

यद् वा, आत्म-कृत-सेतोः स्व-भक्त-वश्यत्व-रूप-मर्यादायाः परि सर्वतो-भावेनेप्सया प्राप्तीच्छया श्री-यशोदया दाम्नेवान्यैर् अपि भक्तैः प्रणय-रसनया अवरुद्ध-देहः । अतः सर्वोत्कर्षात् महत्-स्रष्टाद्य्-अर्यामि-पुरुषेभ्योऽप्य् उत्तमायेति कृष्णावतार एव तात्पर्यम् । यद् उक्तं—

यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमाह् । > अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति > ॥१९॥

———————————————————————————————————————

॥ ३.९.२० ॥

योऽविद्ययानुपहतोऽपि दशार्ध-वृत्त्या

निद्राम् उवाह जठरी-कृत-लोक-यात्रः ।

अन्तर्-जलेऽहि-कशिपु-स्पर्शानुकूलां

भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं दृश्यमानाम् एक मूर्तिं प्रणमति—योऽविद्ययेति द्वाभ्याम् । दशार्धाः पञ्च वृत्तयो यस्यास् तयाविद्यया निद्रा-हेतु-भूतयानभिभूतोऽपि योग-निद्राम् उवाह । तस्मै ते नम इत्य् उत्तरेणान्वयः । जठरी-कृता उदरे प्रविलापिता लोक-यात्रा लोक-स्थितिर् येन । अहिर् एव कशिपुः शय्या । तस्याः स्पर्शोऽनुकूलो यस्यास् तां निद्राम् । भीमानां ऊर्मीणां माला विद्यन्ते यस्मिन्न् अन्तर्-जले निद्राणस्याविवेकिनो जनस्य निद्रा-सुखम् ईदृग् इति विवृण्वन् प्रदर्शयन्, उपहसन्न् इत्य् अर्थः । अत एवान्तर्-जलादि-विशेषणानि । यद् वा, पूर्व-कल्पे श्रान्तस्य जनस्य विश्राम-सुखं विवृण्वन् स्फारयन् । तदा तु परोपकाराय स्वयं दुःसहम् अपि दुःखं सोढव्यम् इति द्योतनार्थं विशेषणानि ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्यावतारिणः पुरुषोत्तमस्यैव दृष्टां लीलाम् अनुमोदते—य इति । जनस्य यन् निद्रा-सुखं, तद् एव लीलया स्वस्मिन् प्रकटयन् तत्रान्य-दुर्गमास्पदत्वं सुख-स्पर्श-शय्यत्वं च तत्-सौकर्य-हेतुम् आह—अन्तर्-जल इत्य्-आदिना ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं दृश्यमानं निजोपास्यां मूर्तिं प्रणमति द्वाभ्याम् । दशार्धाः पञ्च-वृत्तयो यस्यास् तया अविद्यया निद्रा-हेतु-भूतया अनभिभूतोऽपि निद्राम् उवाह । तस्माद् इयं ते स्वरूप-शक्ति-मय्य् एव निद्रेति भावः । जठरीकृता उदरे प्रविलापिता लोक-यात्रा लोक-परम्परा यस्य सः । अहिर् एव कशिपुः शय्या तस्य स्पर्शोऽनुकूलो यस्यास् ताम् । भीमोर्मि-मालिनि प्रलय-समुद्रे जनस्य प्राकृत-लोकस्यापि । जल-मध्य-स्थ-कोमल-शय्या-शायिनः सुखं भवतीति विवृण्वन् लोकवल् लील एव त्वं भवसीति भावः । यद् वा, प्रलय-कालेऽपि जन-मात्र-भयदे समुद्रेऽपि सर्प-शय्यायाम् अपि सुखेन त्व्ग् निद्रासीति सर्व-काल-सर्व-देश-सर्व-सङ्ग-निर्भयस् त्वम् एव नान्य इति भावः । सुखं विवृण्वन्न् इति काल-देश-सङ्गतो भय-युक्तोऽपि निद्रालुर् हि जनः सुखम् एव निद्रातीति ॥२०॥

———————————————————————————————————————

॥ ३.९.२१ ॥

यन्-नाभि-पद्म-भवनाद् अहम् आसम् ईड्य

लोक-त्रयोपकरणो यद्-अनुग्रहेण ।

तस्मै नमस् त उदर-स्थ-भवाय योग-

निद्रावसान-विकसन्-नलिनेक्षणाय ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यस्य नाभि-पद्मम् एव भवनं तस्मात् । लोक-त्रयम् उपकरणं यस्य । यद् वा, लोक-त्रयस्य सृष्ट्य्-आदि-द्वारेणोपकरोतीति तथा तादृशोऽहं यद्-अनुग्रहेणासम्, उदरे स्थितो भवः संसार-प्रपञ्चो यस्य । योग-निद्रावसाने किञ्चिद् विकसन्-नलिनवद् ईक्षणं यस्य ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसम् अभूवं लोक-त्रयम् एव उपकरणम् आज्ञा-कारि यस्य सः । यद् वा, सृष्ट्य्-आदि-द्वारा लोक-त्रयस्योपकारी । उदरे स्थितो भवः संसार-।प्रपञ्चो यस्य तस्मै । योग-निद्रावसाने सम्प्रति रात्र्य्-अन्त इव विकसन्-नलिनम् इव ईक्षणं यस्य तस्मै । तेन हे मत्-प्रभो कृपा-पारावार जागृहि जागृहि किङ्करोऽहं मङ्गलारात्रिकं करवाणीति भावः ॥२१॥

———————————————————————————————————————

॥ ३.९.२२ ॥

सोऽयं समस्त-जगतां सुहृद् एक आत्मा

सत्त्वेन यन् मृडयते भगवान् भगेन ।

तेनैव मे दृशम् अनुस्पृशताद् यथाहं

स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियोऽसौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्व-सामर्थ्यां स्व-कर्माणि रमया सह केशवः ।

कुरुते स्वयम् एवैषा कानिचित् पुरुषोत्तमः ॥ इति नारदीये । > आत्म-शब्दस्य मुखार्थो विष्णुर् एकः सनातनः । > सन्देह-देह-मनसो बुद्धि-जीवाः स्वयं तथा ॥ > ब्रह्माप्य् अमुख्याः क्रमश उत्कर्षो ह्य् आत्मता भवेत् ॥ इति > प्रकाश-संहितायाम् ॥२२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स्तुत्वा प्रार्थयते—सोऽयम् इति चतुर्भिः । यद्य् एन सत्त्वेन ज्ञानेन भगेनैश्वर्येण च मृडयते सुखयति विश्वम् । दृशं प्रज्ञाम् अनुस्पृशताद् योजयतु, यथाहं स्रष्टुं क्षमो भविष्यामि । यतः प्रणत-प्रियोऽसाव् अहं च प्रणतो न चान्यः प्रार्थनीयोऽस्ति । यतो भगवान् । स एव समस्त-जगतां सुहृद् यतोऽसाव् एकोऽनुस्यूत आत्मान्तर्यामी ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं स्तुत्वा प्रार्थयते सोऽयम् इति चतुर्भिः । समस्त-जगतां प्राकृताप्राकृतानां सुहृत् पालकः आत्मा निरुपाधि-प्रेमास्पदम् । एवं-भूतस्यान्यस्याभावाद् एकः । यद् यस्मात् सत्त्वेन गुणेन पालन-लक्षणेन समस्त-जगत्य् एव प्राकृतानि मृडयते सुखयति । भगेन स्वीय-षड्-ऐश्वर्येण अप्राकृतान् भक्त-जनान् अपि मृडयते । तस्मात् तेनैव सत्त्वेन किञ्चिन्-मात्रेण भगेन च मे मम दृशं प्रज्ञां प्राकृतीं भक्तिमत्त्वाद् अंशेनाप्राकृतीं च अनुस्पृशतु पालयतु, यथाहं स्रक्ष्यामि प्राकृतान् मरीच्य्-आदीन् स्रष्टुम् अप्राकृतान् नारदादींश् चाविर्भावयितुं ज्ञास्यामि यतोऽसौ प्रभुः प्रणति-मात्रे कृतेऽपि प्रियः ॥२२॥

———————————————————————————————————————

॥ ३.९.२३ ॥

एष प्रपन्न-वरदो10 रमयात्म-शक्त्या

यद् यत् करिष्यति गृहीत-गुणावतारः ।

तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो

युञ्जीत कर्म-शमलं च यथा विजह्याम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-शक्त्या रमया सह यद् यत् कर्म करिष्यतिस्व-विक्रमं स्वस्य विष्णोर् एव विक्रमः प्रभावो यस्मिन्, तद् इदं विश्वं तद्-आज्ञया सृजतोऽपि मे चेतः स एव युञ्जीत प्रवर्तयतु । कर्म आसक्तिं तत्-कृतं शमलं च वैषम्यादि-पापं यथा विजह्यां त्यक्ष्यामि ॥२३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : यथा-पूर्वं स्रक्ष्यामि, तथापि कर्मणो विक्षेपकत्वात्, खेद-भीत्या मया तव लीला-योग्यं यथा कथञ्चित् स्रष्टुं शक्यते, तथा वरं प्रयच्छेत्य् आशयेनाह—एष इत्य्-आदि । हे श्री-कृष्ण ! एष नारायण इदं विश्वं सृजतो मम चेतो युञ्जीत चेतः प्रयोजयतु। तत्र प्रकारं वदति—प्रसन्न-वरदो भवान् श्री-कृष्ण आत्म-शक्त्या स्व-स्वरूपया शक्त्या रमया, रमयति इति रमा आनन्दिनी शक्तिः, तया सह गृहीतो गुण-मयो जगन्-मङ्गल-गुणात्मकोऽवतारो भू-तलावरोहणं येन तथा सन्, यद् यत् करिष्यति भवान्, मथुरा-वृन्दावनादौ--यां यां लीलाम् आचरिष्यति, तस्मिन् स्व-विक्रमं क्रिया-सामर्थ्यम् अपि युञ्जीत

अयं भावः—यद्यपि तद्-आज्ञयैव स्रक्ष्यामि, तथापि रजो-गुणात्मकत्वात् सृष्टि-कर्मणो बिभेमि । तल्-लीला तत्र भविष्यतीति मे सार्थकः श्रमो भविता । अतो यथा तत्र मम शिल्प-कौशलं भवति, तथा युञ्जीत, तथा सामर्थ्यं ददतु । कर्म-शमलंयथा जह्यात्, तथा युञ्जीत ॥२३॥

एष प्रपन्न-वरदो11 रमयात्म-शक्त्या

यद् यत् करिष्यति गृहीत-गुणावतारः ।

तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो

युञ्जीत कर्म-शमलं च यथा विजह्याम् ॥

जीव-गोस्वामी (क्रम-सन्दर्भः) : एष इति । रमया इति—रमाख्यया स्वरूप-शक्त्या, न तु माया-शक्त्या हेतुना गृहीत-गुणावतारः, गृहीता गुणा भक्त-वात्सल्यादयो येषु, तादृशा अवतारा यस्य सः । स्व-विक्रमम् इति त्वद्-विक्रम-मयत्वम् एव विश्वं स्यात्, ततस् त्वच्-छक्त्यैव मया तत् कर्तुं शक्यम् । ततस् तथा तत्-प्रार्थनं च मम युक्तम् एवेति भावः ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनश् च रजो-गुण-मय्या सृष्टेर् बिभ्यत् स्वीय-भक्तेर् अभ्युदयं प्रार्थयते । एष भवान् प्रपन्नाय मह्यम् एतद्-वरदोऽस्त्व् इत्य् अर्थः । रमया स्वरूप-भूतया, न तु माययेत्य् अर्थः । अतो गृहीत-गुणा अवतारा यस्य सः । तस्मिन् धरोद्धरणादौ कर्मणि मम चेतो युञ्जीत प्रवर्तयतु । मम कथं-भूतस्य ? स्व-विक्रमं स्वस्य स्व-प्रभोर् विक्रमः प्रभावो यस्मिन्, तद् इदं विश्वं सृजतोऽपि तेन सृष्टौ मम चेतो नासज्जतु, किन्तु तल्-लीला-कथायाम् एवेत्य् अर्थः । कर्म-शमलं सृष्ट्य्-उत्थं वैषम्यादि-पापं त्यक्ष्यामि ॥२३॥

———————————————————————————————————————

॥ ३.९.२४ ॥

नाभि-ह्रदाद् इह सतोऽम्भसि यस्य पुंसो

विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः ।

रूपं विचित्रम् इदम् अस्य विवृण्वतो मे

मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अम्भसि सतो यस्य नाभि-ह्रदाद् इह आसम्विज्ञाने शक्तिर् यस्य महत्-तत्त्वात्मकस्य चित्तस्य तद्-अभिमानी, अस्य रूपम् इदं विस्तारयतो मे निगमस्य अवयव-भूतानां गिरां विसर्ग उच्चारणं मा रीरिषीष्ट । हलान्तं ब्रह्म-वर्चसम् इति न्यायेन मा लुप्यताम् इत्य् अर्थः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इदं महा-पातकात्मक-पर्यन्तं सृजतो मम वेदोच्चारण-रूपं ब्रह्म-तेजो मा लुप्यताम् । यथा साधारण-ब्राह्मणानां हेलया ब्रह्म-तेज इत्य् अर्थः । मा रीरिषीष्टेति रिष् हिंसायाम् इत्य् अस्य यड्-लुग्-अन्त-लिडि कर्म-कर्तरि रूपं छण्दसम् ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, भगवंस् तवैश्वर्य-सिन्धोः कण-मात्रेऽप्य् अस्मिन् मम यत् प्रवेशस् तं खलुइ वेदाभ्यास-प्रसादाद् एव । यद् उक्तं, वेदश् चक्षुस् तवेश्वर [११.२०.४] इति सम्प्रति तु सृष्ट्य्-अर्थ-कवि-विध-व्यापारवत्त्वेनानध्यवसायात् तस्य वेदस्य विस्मृतिर् मे सम्भविष्यति, सा मा भूद् इति प्रार्थयते—नाभीति ।

यस्याम्भसि सतः पुंसस् तव नाभि-ह्रदाद् अहम् आसं विज्ञान-शक्तिः विज्ञान-मय-पुरुषः समष्टि-जीव-रूपः बुद्धि-तत्त्वाधिष्ठाता वा अस्य परमेश्वरस्य रूपम् इदं विश्वं विस्तारयतो मम निगमस्य अवयव-भूतानां गिरां विसर्गः ऋग्-आदि-भेद-प्रपञ्चः मा रीरिषीष्ट मा अतिशयेन लुप्यतां, मायया विस्मृतो भवत्व् इत्य् अर्थः । रिष् हिंसायाम् इत्य् अस्य यङ्-लुग्-अन्त-लिङि कर्म-कर्तरि रूपं छान्दसम् ॥२४॥

———————————————————————————————————————

॥ ३.९.२५ ॥

सोऽसाव् अदभ्र-करुणो भगवान् विवृद्ध-

प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् ।

उत्थाय विश्व-विजयाय च नो विषादं

माध्व्या गिरापनयतात् पुरुषः पुराणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विवृद्ध-प्रेम्णा स्मितेन विजृम्भयन् । विश्वस्य विजयायोद्भवाय । -काराद् अस्मद्-अनुग्रहाय च उत्थाय ॥२५॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): [हरि-भक्ति-विलास १६.३२८]: अदभ्र-करुणः महा-दयालुः । अतः विवृद्ध-प्रेम्णा यत् स्मितं तेन, विजृम्भन् विजृम्भयन् उन्मीलयन्, विश्वस्य विजयाय उद्भवाय । यद् वा, निज-भक्ति-प्रचारणेन विश्व-वशीकरणाय । यद् वा, जगन्-महोत्सवाय । -शब्दाद् विशेषतोऽनुग्रहाय चेति । नोऽस्माकं भक्तानां विषादं प्रलयात् चिर-वाग्-अमृत-पानाभावतो वा शोक-दुःखं माध्व्या मधुरया गिरा अपनयतात् । श्लोकश् चायं शिष्टाचारानुसारेणात्र लिखितः । किन्त्व् अन्येऽपि यथेष्टं पठनीयाः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, प्रभोः कृपा-कटाक्ष-कृपा-निदेशाभ्याम् एव दासस्य निःसंशय आनन्दो भवेद् इति ताव् एव प्रार्थयते—सोऽसाव् इति । विजृम्भन् विजृम्भयन् नोऽस्माकं विश्वस्मिन् सर्वत्रैव विजयाय सृष्ट्य्-आदिषु पराभवाभावाय -कारात् पूर्वोक्त-वाञ्छित-सिद्धये च । माध्व्या माधुर्य-मय्या "विश्वं सृज" इति निदेश-मय्या गिरा ॥२५॥

———————————————————————————————————————

॥ ३.९.२६ ॥

मैत्रेय उवाच—

स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः ।
यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्य संभवो यस्मात् तम् । तपः शारीरम्, विद्या उपासना, समाधिर् ऐकाग्र्यम्, तैर् निशाम्य दृष्ट्वा यथा-शक्ति स्तुत्वा श्रान्तवद् विरराम ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्य सम्भवो यस्मात् तं तपः शारीरं विद्या, आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति [भा।पु। ११.२९.६] इति रीत्या आकस्मिक-स्फूर्ति-प्राप्त-तन्-मन्त्रोपासना । समाधिश् चित्तैकाग्र्येण ध्यानं तैर् निशाम्य दृष्ट्वा यथा-शक्ति स्तुत्वा कृपा-कटाक्षस्यानुपलम्भात् खिन्न इव विरराम ॥२६॥

———————————————————————————————————————

॥ ३.९.२७-२८ ॥

अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः ।
विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा ॥**

लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः ।
तम् आहागाधया वाचा कश्मलं शमयन्न् इव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो लोक-संस्थान-विज्ञाने परिखिद्यतो ब्रह्मणोऽभिप्रेतम् आलक्ष्य तम् आह इति द्वयोर् अन्वयः । तेन प्रलयोदकेन विषण्ण-चेतसम् ॥२७॥ कश्मलं मोहम् । इवेति समस्त-मोहा-शमनं दर्शयति ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कल्प-व्यतिकराम्भसा प्रलय-काल-मिलितागन्तुक-जलेन हेतुना विषण्ण-चेतसः, तथा आत्मनः स्वस्य लोकानां देव-तिर्यग्-आदीनां संस्थानं समुचित-स्वभावतया निर्माण-स्थापनादि-परिपाटी तद्-विज्ञाने खिद्यतो ब्रह्मणोऽभिप्रेतम् अन्वीक्ष्य ज्ञात्वा तम् आह इत्य् अन्वयः । कश्मलं मोहं शमयन्न् इवेति ॥२८॥

———————————————————————————————————————

॥ ३.९.२९ ॥

श्री-भगवान् उवाच—

मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह ।
तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रार्थनम् अपि मत्-प्रेरणम् एव ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वेद-गर्भ ! तन्द्रीं विषाद-कृतम् आलस्यं मा गाः । तेनैव मे दृशम् अनुस्पृशतात् [३.९.२२] इत्य्-आदि यत् प्रार्थयते, तद् अग्रे पूर्वम् एव संपादितम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समस्त-मोहोपशमनं दर्शयति । तन्द्रीम् अज्ञानं मा गाःवेद-गर्भ ! इति न हि सर्व-वेद-विज्ञस्याज्ञानम् उचितम् इति भावः । ननु स्वस्य सृष्टि-सामर्थ्ये संशयानोऽस्मि । तत्राह—सर्ग इति । उद्यमो निष्फलो भावीत्य् अपि मा शङ्किष्ठा इत्य् आह—तन् मया इति तेनैव मे दृशम् अनुस्पृशतात् [३.९.२२] इति यन् मां प्रार्थयते ॥२९॥

———————————————————————————————————————

॥ ३.९.३० ॥

भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् ।
ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : तप आलोचनं प्रोक्तं विद्या निष्ठा प्रकीर्तिता इति च ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि कथम् अहं न जानामि ? इत्य् अत आह—भूय इति ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भूय इति । तपः प्राणायामादि ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् इदानीम् उद्यमेन किं भविष्यति मे ? मया सृज्यास् ते भूर्-आदयो लोका एव न दृश्यन्ते इत्य् अत आह—भूय इति । तपश् चित्तैकाग्र्यं, विद्यां मन्त्रोपासनाम् अन्तर्-हृदि हृदय एव बहिः-स्थिताम् अपि लोकान् भूर्-आदीन् तत्र-स्थान् मनुष्यादींश् च अपावृतान् जलावरण-शून्यान् द्रक्ष्यसि । ततश् च मयैव यथा-स्थिततया दर्शयिष्यमाणांस् तान् स्व-हृदय एव दृष्ट्वा आदर्श-दर्शी लेखक इव सुखेनैव बहिः स्रक्ष्यसीति ॥३०॥

———————————————————————————————————————

॥ ३.९.३१ ॥

तत आत्मनि लोके च भक्ति-युक्तः समाहितः ।
द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

देहे देहे हरिस् तस्मिन् लोकाः सर्वे प्रतिष्ठिताः ।

अङ्गुष्ठ-मात्रेऽपि परे पर-शक्तिर् यतो विभुः ॥ इति च ।

आत्मनि स्थिते मयि ॥३१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-युक्तः समाहितश् च सन्न् आत्मनि स्वस्मिन् लोकेमां ततं व्याप्य स्थितं द्रष्टासि द्रक्ष्यसि । आत्मनो जीवांश् च ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सृष्ट्य्-आवेश-वशत्वेऽपि त्वाम् अहं न विस्मरेयम् इति यत् प्रार्थितं, तत्राह—ततः सृष्टि-समयेऽपि भक्ति-युक्तः समाहितश् च सन् आत्मनि स्व-मनसि बहिर् लोके च मां द्रष्टासि । तथा मयि लोकान् भूर्-आदीन् आत्मनो जीवांश् च मृद्-भक्षण-लीलायां यशोदेव द्रष्टासि । यद् वा, ततः कृष्णावतारे वत्स-वत्सपालाद्य्-आकारैर् व्यापकं मां मयि लोकान् ब्रह्माण्डानि आत्मनश् चतुर्भुज-मूर्तीः । यद् वा, आत्मनः स्वानि बहून् परमेष्ठिनः द्रक्ष्यसि ॥३१॥

———————————————————————————————————————

॥ ३.९.३२ ॥

यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वत्र मद्-दर्शने मोहो निवर्तत इत्य् आह—यदा त्व् इति । प्रतिचक्षीत पश्येत् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-शमलं च यथा विजयाम् इति यत् प्रार्थितं तत् खल्व् एतादृश्यां दशायां सम्भवेद् इत्य् आह—यदा त्व् इति प्रतिचक्षीति पश्येत् । कश्मलं मोहम् ॥३२॥

———————————————————————————————————————


॥ ३.९.३३ ॥

यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वरूपेण मयोपेतं हृदि-स्थं जीव-रूपं हि परमेश्वर-सहितं भवति ।

त्यक्त्वा देहाद्य्-आत्म-भावं जीव-रूपे हृदि स्थिते । > दृष्ट्वात्म-भावं तं चापि हरि-पादाब्ज-संस्थितम् ॥ > यद् आपश्यत्य् आपरोक्ष्यात् तदा मुक्तिं व्रजत्य् असौ ॥ इति > दत्तात्रेय-योगे ॥३३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा च मिथ्या-ज्ञान-निवृत्तौ मुच्यत इत्य् आह—यदेति । भूतादिभिर् विरहितम् आत्मानं जीवं शुद्ध-त्वं-पदार्थं स्वरूपेण स्वस्य आत्म-भूतेन मया तत्-पदार्थेन उपेतम् एकी-भूतं पश्यन् भवति, तदा स्वाराज्यं मोक्षं प्राप्नोति ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (परमात्म-सन्दर्भ ४३) : अथ भक्तीच्छुं प्रति तयोर् [पुरुषेश्वरयोर्] भेदम् उपदिशति—यदेति । आत्मानं जीवं स्वरूपेण तस्या जीव-शक्तेर् आश्रय-भूतेन शक्तिमता मया उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्य्-आदिकम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः १): उपेतं युक्तम् इत्य् एवाक्लिष्टोऽर्थः । जीव-स्वरूपस्यैव गौणानन्दत्वं दर्शितम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यदेति । भूतादिभिर् विरहितम् आत्मानं जीवं स्वरूपेण तस्य जीव-शक्तेर् आश्रय-भूतेन शक्तिमता मया उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्य्-आदिकम् ॥३३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कस्यां दशायां त्वां प्राप्नुयाद् इत्य् अपेक्षायाम् आह—यदाआत्मानं स्वं भूतादिभी रहितंस्वरूपेणैव, न तु स्वीय-जीवात्मत्वं परित्यज्येत्य् अर्थः । मया सेव्येन परमेश्वरेण सह उप समीप एव इतं सेवार्थं प्राप्तं पश्यन् भवति, तदा [स्वाराज्यम्] स्वेन स्वीयेन प्रभुना सह राजत इति स्वराट् दासस् तस्य भावः कर्म वा दास्यम् ऋच्छति प्राप्नोति।

केचित् पुनर् निर्विशेष-सविशेष-स्वरूपयोर् द्वयोर् एव स्तुतौ प्रक्रान्तत्वात् तद्-उपासकानां ज्ञानिनां भक्तानां च तन्त्रेणैव चरम-दशा-व्यञ्जकतया पद्यम् इदं व्याचक्षते । तथा हि, ज्ञानी आत्मानं शुद्धत्वं पदार्थ-स्वरूपेण मया तत्-पदार्थेन उपेतम् एकीभूतं पश्यन् यदा भवति, तदा स्वाराज्यं मोक्षं प्राप्नोति । तथा भक्तः शान्तादि-पञ्च-विधोऽपि स्वरूपेण शान्तश् चिद्-रूपत्वेन दासो दास्य-रूपत्वेन सखा सख्येनैव पित्रादिर् वात्सल्येन प्रिया प्रेम्णैव उपेतं युक्तम् आत्मानं स्वं तथा मयापि पञ्च-विध-भाव-विषयेण सह साक्षात्-पर-ब्रह्मणा प्रभुना सख्या पुत्रादिना कान्तेन च उपेतम् इति यथा-यथम् एवार्थः । स्वाराज्यं स्वेन चित्-घनाकारेण स्वीयेन प्रभुना सख्या पुत्रादिना कान्तेन च सह राजत इति तस्य भावस् तत्त्वम् ऋच्छति प्राप्नोति ॥३३॥

———————————————————————————————————————

॥ ३.९.३४ ॥

नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः ।
नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो वर्षीयान् वृद्धतरः । अत्यधिकोऽस्तीत्य् अर्थः ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं ज्ञान-भक्ति-रस-तत्त्वम् उपदिश्य त्वयि ममानुग्रहो न केवलम् अद्यतन एव, अपि तु सार्वकालिक एवेत्य् आह—नानेति, वर्षीयान् ज्यायान् ॥३४॥

———————————————————————————————————————

॥ ३.९.३५ ॥

ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः ।
यन् मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुग्रहम् एवाह—ऋषिम् इति चतुर्भिः । यत् यतस् ते मनो मयि निर्बद्धम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ऋषिम् इति । द्वितीय-स्कन्धे पूर्वम् एवम् उक्तम्—

एतन् मतं समातिष्ठ परमेण समाधिना । > भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् ॥ [भा।पु। २.९.३६] > इति ।

अतो न भारती मेऽङ्ग मृषोपलक्ष्यते [भा।पु। २.६.३४] इत्य्-आदिकम् अपि स्वयम् उक्तम् । यस् तु तस्यान्यावेशः क्वचित् श्रूयते, स खलु न स्थिरः स्याद् इति तद्-आभास एव ज्ञेयः । अस्तु दशम-स्कन्धेऽस्य मोहः श्रूयते, स तु न रजसा, किन्तु भगवद्-ऐश्वर्य-विशेष-दर्शनेन तद्-विशेष-दर्शनेच्छया च । अम्भोजन्म-जनिर्[भा।पु। १०.१३.१५] इत्य्-आदेस् तत्रैव श्रवणात् । एवम् एकादशे च हंस-रूपेण सनकादिषु ज्ञान-कथनात् स्व-महिम-प्रकाशनाय ब्रह्म-ज्ञान-वरणं ज्ञेयम् ॥३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं रजो-गुणान् मा भैषीर् इत्य् आह—ऋषिम् इति । दशम-स्कन्धेऽस्य विक्षेपो न रजसा, किन्तु मञ्जु-महिम-दर्शन-सौभाग्यादृष्ट-वशाद् एवेति तत्रैव व्याख्यास्यते ॥३५॥

———————————————————————————————————————

॥ ३.९.३६ ॥

ज्ञातोऽहं भवता त्व् अद्य दुर्विज्ञेयोऽपि देहिनाम् ।
यन् मां त्वं मन्यसेऽयुक्तं भूतेन्द्रिय-गुणात्मभिः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भूतेन्द्रिय-मनो-बुद्धि-त्रि-गुणादिषु सर्वशः ।

युक्तं नियामकतया पश्यन् जानाति केशवम् ॥ इति च ॥३६॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्माद् भूतैर् इन्द्रियैर् गुणैः सत्त्वादिभिर् आत्मनाऽहङ्कारेण चायुक्तं मन्यसे ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञातोऽहम् इति यद् उक्तं, तत् तु ज्ञातोऽसि[भा।पु। ३.९.१] इत्य्-आदि-ब्रह्मोक्त-पद्य-पञ्चकानुसारेण ज्ञेयम् ॥३६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्मात् मां साकारम् अपि भूतादिभिर् अयुक्तं रूपं यद् एतद् अवबोध-रसोदयेनेत्य् आदि ब्रुवाणस् त्वं मन्यसे तस्मान् मयायम् आकारो न भूतानि पृथिव्य्-आदीनि नापीन्द्रियाणि तैजसानि नापि गुण-माया नाप्य् आत्मा जीवः, किन्तु साक्षाद् ब्रह्मैव त्वं जानासीत्य् अर्थः । तेन मद्-रूपस्य सच्-चिद्-आनन्दत्व-मायात्वयोर् मननम् एव मज्-ज्ञानाज्ञानयोर् लिङ्गम् इति भगवद्-अभिप्रायोऽवग्राह्यः ॥३६॥

———————————————————————————————————————

॥ ३.९.३७ ॥

तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितोऽबहिः ।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुभ्यं तव नालेन मार्गेण पुष्करस्य मूलम् अधिष्ठानं सलिले विचिन्वतो मयि विचिकित्सायां भवितव्यम् अस्याश्रयेण, न च दृश्यते । ततोऽस्ति नास्तीति सन्देहे सत्य् आत्मा स्वरूपं मे मया अबहिर् अन्तर्-हृदि दर्शितः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो मद्-रूपस्य मद्-इच्छयैवातर्क्यया दृश्यत्वं, न तु वस्तुतो नेत्रादीन्द्रिय-ग्राह्यत्वम् इत्य् अत्र त्वम् एव प्रमाणम् इत्य् आह—तुभ्यं त्वां कृतार्थी-कर्तुम् आत्मा श्री-विग्रहो मे मया अबहिर् अन्तर्-हृदि । यद् वा, बहिर् अपि दर्शितः—गोप-वेशो मे पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२५] इति श्रुतेः । आत्म-दर्शनस्य देयत्वात् क्रिया-ग्रहणम् अपि कर्तव्यम् इति सम्प्रदाने चतुर्थी वा । कदा ? पुष्करस्य मूलं विचिन्वतस् तव मयि विषये विचिकित्सायाम् अस्याधिष्ठानम् अस्ति नास्ति वेति सन्देहे सतीत्य् अर्थः । अत्र तपसः समाधेश् चानुल्लेखात् ताव् अपि मद्-दर्शनस्य वस्तुतो न हेतुः, किन्तु मद्-इच्छैवेति रहस्यं सिद्धान्तम् अपि ब्रह्माणं ज्ञापयामासेति ज्ञेयम् ॥३७॥

———————————————————————————————————————

॥ ३.९.३८ ॥

यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् ।
यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे ब्रह्मन् ! चकर्थ कृतवान् असि । मत्-कथैवाभ्युदयस् तेनाङ्कितम् । स एष बन्धाभावो मयि मनो-निर्बन्धो मज्-ज्ञानं मद्-रूपस्य हृदि दर्शनं मत्-स्तुतिस् तपो-निष्ठा चेति यद्य् एष सर्वोऽपि मद्-अनुग्रहः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यच् चेति । तिर्यङ्-मनुष्यत्वेऽप्य् एवं-रूपं मत्-कथा-मात्रम् अभ्युदयः, तत्रापि तद्-अङ्कितं स्तोत्रम् इति वैशिष्ट्यम् । स एष इति । तद् एतत् सर्वं मद्-अनुग्रह-रूपम् इत्य् अर्थः ॥३८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तव मत्-स्तवादयोऽपि मत्-कर्तृकानुग्रहेणैवाभुवन्न् इत्य् आह—यच् चकर्थ अकरोः तत् सर्वं स प्रसिद्ध एष प्रत्यक्षो मद्-अनुग्रह इति एतस्यैव कार्यं तत् तत् प्रतीहीत्य् अर्थः ॥३८॥

———————————————————————————————————————

॥ ३.९.३९ ॥

प्रीतोऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया ।
यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सार्वज्ञ्यादि-गुणैर् युक्तं सत्त्वादि-गुण-वर्जितम् ।

यो जानाति हरिं तस्य प्रीतो भवति केशवः ॥ इति व्योम-संहितायाम् > ॥३९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुण-मयत्वेन प्रतीयमानम् अपि निर्गुणम् एव अनुवर्णयन् ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रीतोऽहम् इति । केचित् प्राकृत-गुण-युक्तत्वेन स्तुवन्ति । केचित् तु तद्-रहितत्वेन । गुण-मयम् अप्राकृतानन्त-गुण-विशिष्टं त्वं तु तद्-रहितं प्राकृत-गुण-प्रचुरं च प्रतिपाद्य माम् अस्तौषीर् इत्य् अर्थः ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, मत्-कृपोत्थयैव भक्त्या पुनर् हम् अतीव प्रीणामीत्य् अद्भुतां मत्-परिपाटीं पश्येत्य् आह—प्रीत इति । लोकानां विजयेच्छया मत्-सृज्यमाना लोका जय-युक्ता भवन्त्व् इतीच्छया गुण-मयं कल्याण-समुद्रं साकारं मां निर्गुणं प्राकृत-सत्त्वादि-गुण-रहितम् अनुवर्णयन् यद् अस्तौषीः । प्रीतोऽहम् अतस् तेषां भद्रम् अस्तु । ये तु गुण-मयं मां श्री-नारायण्ग् सत्त्वादि-गुणवत्त्वेनैव स्तुवन्ति, न तु निर्गुणत्वेन, तेषु न प्रीतोऽस्मीति न तेषां भद्रम् अस्त्व् इति भावः ॥३९॥

———————————————————————————————————————

॥ ३.९.४० ॥

य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अधिकारिक-देवानां स्वाधिकाराधिकाम् इता ।

भवति प्रीतये विष्णोर् भक्त्याद्यैर् अपि यत् सदा ॥ इति च > ॥४०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तव प्रीत इति किं वक्तव्यम् इत्य् आह—य इति ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वयि प्रीत इति किं वक्तव्यम् इत्य् आह—य इति ॥४०॥

———————————————————————————————————————

॥ ३.९.४१ ॥

पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना ।
राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : निःश्रेयसं राज्यम् । मोक्षेऽपि रञ्जनीया मत्-प्रीतिर् एव । मुक्तस्यापि हरेः प्रीतिः सर्वतोऽप्य् अनुरज्यते इति वामने ॥४१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च मत्-प्रीतेर् अप्य् अधिकं किञ्चिद् अस्तीत्य् आह—पूर्तादिभी राद्धं सिद्धं यन् निःश्रेयसं फलं तन् मत्-प्रीतिर् एवेति तत्त्व-विदां मतम् ॥४१॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी): (ह।भ।वि। ११.४७) : न च मत्-प्रीतेर् अधिकं किञ्चिद् अस्तीत्य् आह—पूर्तेनेति । पूर्तादिभी राद्धं सिद्धं यन् निःश्रेयसं फलं, तन् मत्-प्रीतिर् एवेति तत्त्व-विदां मतम् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः ३३) : अत एवान्येषाम् अपि वैदिकानां साधनानां सैव मुख्यं फलम् इति निर्दिशति—पूर्तेनेति । टीका च—न च मत्-प्रीतेर् अप्य् अधिकं किञ्चिद् अस्ति इत्य् आहुः—पूर्तादिभी राद्धं सिद्धं यन् निःश्रेयसं फलम् । तत् मत्-प्रीतेर् एवेति तत्त्व-विदां मतम् ॥ इत्य् एषा ॥ अन्यत् तु फलम् अतत्त्वविदां मतम् इति भावः । तत्र तेषां साधनत्वं च भक्ति-द्वारेति ज्ञेयम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं भक्त-विषयक-स्व-प्रीतिं स्तुत्वा स्व-विषयिकाम् अपि भक्त-प्रीतिं स्तौति—पूर्तेनेति । पूर्तादीना परम्परया साक्षाद् वा या मयि प्रीतिः सैव राद्धं सुविचार-सिद्धं निःश्रेयसं फलम् । यतस् तद् एव तत्त्वविन्-मतम् इति ॥४१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च मत्-प्रीतेर् अभ्यधिकं किञ्चिद् अस्तीत्य् आह—पूर्तादिभिः राद्धं साधितं यन् निःश्रेयसं फलं तत् तत्त्व-विदां मतं मत्-प्रीतिर् एव । मत्-प्रीतिं विना राद्धं निःश्रेयसम् अनिःश्रेयसम् एवेत्य् अतस् तत्त्व-विदो मत्-प्रीत्य्-अर्थम् एव पूर्तादिकं कुर्वन्तीति ते मां प्रीणन्तम् एव कर्तुम् इच्छन्ति, न तु मां स्व-प्रीतेर् विषयं चिकीर्षन्ति । अतस् तया सात्त्विक्या भक्त्या तान् प्रत्य् अहं प्रीतः, तेभ्यो मोक्षं ददामीति भावः ॥४१॥

———————————————————————————————————————

॥ ३.९.४२ ॥

अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि ।
अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्वतोऽपि प्रियो ह्य् आत्मा तस्यापि प्रियतां हरिः ।

आपादयति यत् तस्मात् स्वात्मनोऽपि प्रियो हरिः ॥ इति ब्रह्म-वैवर्ते > ॥४२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुम् आह—अहम् इति । आत्मनाम् अहङ्कारोपाधीनां जीवानाम् आत्मा । अतः प्रेयसाम् अतिप्रियाणाम् अपि मध्ये प्रेष्ठः, प्रियतमः सन् निरवद्यः । यत्-कृते यद्-अर्थम् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः ३४) : अन्यत् तु फलम् अतत्त्व-विदां मतं तत्राह—अहम् इति । आत्मनां रश्मि-स्थानीयानां शुद्ध-जीवानाम् अपि आत्मा मण्डल-स्थानीयः परमात्माहम् । कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भा।पु। १०.१४.५५] इति च वक्ष्यते । अतः प्रेयसाम् आत्मनाम् अपि प्रेष्ठः सन् निरवद्यः । येषाम् आत्मनां कृते देहादिर् अर्थोऽपि प्रियो भवति । कुर्यात् सर्व एव कर्तुम् अर्हतीत्य् अर्थः । अतो मद्-अज्ञान-दोषेणैव न करोतीत्य् भावः ॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव साधयति—अहम् आत्मेति । आत्मनां शुद्ध-जीवानाम् अपि, अतो निरुपाधि-निरवधि-प्रियतमस्य प्रसाद-रूपा प्रीतिर् एव प्रार्थनीयेति भावः ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्गुण-भक्तिमतां तु प्रीतेर् अहं विषय इति व्यञ्जयन् सर्वेषाम् अपि जीवानां वस्तुतः प्रीतेर् अहम् एव विषयी-भवितुं योग्य इत्य् अतः स्वस्मिन् प्रीतिं विधत्ते—अहम् इति । आत्मनां जीवानाम् अहम् आत्मा परमात्म यत्-कृते देहादिः प्रिय इति कलत्र-पुत्रादिषु प्रीतिर् देह-सम्बन्धेन, देहे प्रीतिर् जीवात्म-सम्बन्धेन, जीवात्मनि प्रीतिः परमात्म-सम्बन्धेनेति परमात्मन्य् एव प्रीतिः स्वाभाविकी, जीवात्मादिष्व् औपचारिकीति तेषु क्रमेण प्रियत्व-ह्रासः ।

ननु तर्हि मयि रतिं कुर्याद् इत्य् अस्य वाक्यस्य कथं विधित्वं, रतेः प्राप्तत्वाद् एव यद् उक्तं विधिरत्यन्तम् अप्राप्तौ इति ? उच्यते—मायायां खल्व् अधिकारो जीवात्म-पर्यन्त एव, न तु ततोऽपि परत्र परमात्मनीति माया-बन्ध-पतितानां मनुष्यादीनां मायिकेष्व् एव वस्तुष्व् अनुभवः प्रवर्तते, जीवस्याप्य् आरोपितं मायिकत्वं वर्तत इति । तथापि परमात्मनि तु स्वाभाविक्याः प्रीतेर् वर्तमानत्वेऽप्य् अनुभवाभावाद् अज्ञात-स्व-बहु-वित्तस्य वणिजो दारिद्र्यम् इव तत्र प्रीत्य्-अभाव इति प्रीतिं विधत्ते शास्त्रम् इति ।

किं च, वस्तुतः प्रेष्ठोऽपि परमात्म-ज्ञानिभिः साक्षाद्-अनुभूतोऽपि रत्या विना प्रेमास्पदं न भवति। अतो भक्तानाम् एव सर्व-देश-काल-वर्ती सन् प्रेष्ठो भवति, न तु ज्ञानिनां, यथा शीताद्य्-आर्ति-हरे चक्षुः-प्रकाश-सुख-प्रदेऽपि सूर्ये साक्षाद्-अनुभूतेऽपि केऽपि यत् नानुरज्यन्ति तत्र ममत्वाभाव एव हेतुः । सूर्यश् च तत्-सुख-प्रदोऽपि तेषूदास्त एव । एवं ज्ञानि-जनाः खल्व् अज्ञानतमोऽन्तरि स्वानुभव-सुख-प्रदेऽपि ब्रह्मणि ममत्वाभावान् नानुरज्यन्ति । ब्रह्मापि स्वं निर्विशेषम् एवानुभावयंस् तेषूदास्त एव ।

यदा च सूर्य-भक्तो जनश् चक्सुष्मान् अन्धो वा भक्त्या सन्तोषितं सूर्यम् इहैव कर-चरणादिमन्तं, सहाश्व-रथ-सारथ्य्-आदिकं पश्यति तं स्व-प्रेम-वशं च करोति, तथैव मुक्तो बद्धो वा जीवो भक्त्यैव परमात्मनं स-विशेषम् अनुभवंस् तत्रानुरज्यति, तं च स्व-प्रेम-वशं करोतीत्य् अतः परमात्मनः सर्वतः प्रेष्ठत्वं भक्तानां केवलया प्रधानी-भूतया वा भक्त्यैव । न तु ज्ञानिनां गुणी-भूतया भक्त्येति । अत उक्तं स्वयं परमात्मैव, अतो मयि रतिं कुर्याद् इति विवेचनीयम् ।

यद् वा, रतेः उक्त-युक्तेर् एव हेतोर् मयि रतिं कुर्यात् । यस्या रतेः कृते देहादाव् अप्रीतिम् अतोऽपि विवेकिनो देहादि-प्रियो भवति, देहेन्द्रियादिभिर् एव परिचर्या-कीर्तनादिर् भक्ति-सिद्धिर् इति नैव ते मोक्षाकाङ्क्षिणः स्युर् इति भावः ॥४२॥

———————————————————————————————————————

॥ ३.९.४३ ॥

सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना ।
प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वं कृतार्थ एव तथापि मत्-प्रियार्थं सृष्टिं कुर्व् इत्य् आह, सर्वेति । आत्मा त्वम् इदं त्रैलोक्यं या मय्य् अनुशेरते ताः प्रजाश् च सृज । केन आत्मनैवान्य-निरपेक्षेण । तत्र ज्ञापकापेक्षाभवम् आह, सर्व-वेद-मयेनेति । आत्मा अहं योनिः कारणं यस्येति ज्ञान-क्रिया-शक्त्य्-अतिशयं सूचयति । यथा-पूर्वम् इति तवात् राभ्यासोऽप्य् अस्तीत्य् उक्तम् । मय्य् अनुशेरत इति स्थितानाम् अभिव्यक्ति-मात्रम् एव कर्तव्यम् इत्य् अनायासत्वम् उक्तम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा रीरिषीष्ट निगमस्येति—यत् प्रार्थितं, तत्राह—सर्व-वेद-मयेनेति । वेद्स् त्वया न विस्मर्तव्य इति भावः । इदम् आत्मना अनेनैव देहेन प्रजाः सृज आत्मनाम् आत्मा अहम् एव योनिः कारणं यस्येति तेन । यथा-पूर्व-दिन-सृष्टिं स्मारयति—मय्य् अनुशेरत इति । स्थितानाम् अभिव्यक्ति-मात्रं कर्तव्यम् इत्य् अनायासत्वम् उक्तं, च-काराद् भक्तिं च कुरु ॥४३॥

———————————————————————————————————————

॥ ३.९.४४ ॥

मैत्रेय उवाच—

तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः ।
व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं सृज्यं व्यज्य प्रकाश्य पद्मनाभः श्री-नारायण-रूपेण तिरो-दधेऽश्योऽभवत् ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वेन कञ्जनाभाकारेणैव रूपेणेदं व्यज्य तिरोदधे ॥४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं सृज्यं जगत् व्यज्य प्रकाश्य स्वेन श्री-नारायण-रूपेण । अत्र ब्राह्म्ये कल्पे अहम् एवासम् एवाग्रे इत्य्-आदि चतुः-श्लोकी-भागवतम् इव पाद्मे कल्पे यदा तु सर्व-लोकेष्व् इति यदा रहितम् इति पूर्तेनेति अहम् आत्मा आत्मनाम् इति चतुःश्लोकी-भागवत् इदं भगवान् उपदिदेशेति केचिद् आहुः ॥४४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे > पाद्मोद्भवे ब्रह्म-स्तवो नाम > नवमोऽध्यायः ।

॥ ३.९ ॥


(३.१०)


  1. विस्ह्wअनथ् ब्रेअक्स् थिस् उप् आत्मक-मदस्। ↩︎

  2. एव नोत् इन् र्त्प्। ↩︎

  3. *-आदि-रूप-स्थस्य (ङ-पुस्तके↩︎

  4. पदं इन् ओरिगिनल् ह्व्। थेसे वेर्सेस् अरे १०४.९-१३ इन् थे च्रितिचल् एदितिओन्। ↩︎

  5. माम् एव इन् ओरिगिनल् ह्व्। ↩︎

  6. अध्याहृत- (मध्व) ↩︎

  7. भाव* इन् रमतेज पन्देय एदितिओन्। ↩︎

  8. वेत्ता इत्य् आकरे । ↩︎

  9. वेत्ता इत्य् आकरे । ↩︎

  10. प्रसन्न-वरदो ↩︎

  11. प्रसन्न-वरदो ↩︎