विषयः
विष्णोर् नाभि-कमलाद् ब्रह्मोत्पत्ति-वर्णनम् ।
॥ ३.८.१ ॥
मैत्रेय उवाच—
सत्-सेवनीयो बत पूरु-वंशो
यल् लोक-पालो भगवत्-प्रधानः ।
बभूविथेहाजित-कीर्ति-मालां
पदे पदे नूतनयस्य् अभीक्ष्णम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टमे समभूद् ब्रह्मा नाभेस् तु जल-शायिनः ।
तम् अजानञ् जले बिभ्यत् तपसापोषयद् विभुम् ॥
श्रोतारम् अभिनन्दति । सतां सेवितुं योग्यः । बत अहो । यत् यस्माद् इहास्मिन् वंशे लोक-पालो धर्म-राजस् त्वं बभूविथ जातोऽसि । कथं-भूतः ? भगवान् एव प्रधान-भूतो यस्य सः । अत्र हेतुः—अजितेति । प्रतिक्षणं नूतनयसि नवीनां करोषि ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं द्वितीय-स्कन्धान्ते पाद्मं कल्पम् अथो शृण्व् इति । यद् उक्तं तद्-अवतारणार्थं चतुः-श्लोकी-महिम-गर्भितम् एतावन्तं ग्रन्थम् उक्त्वा तम् एवाह—सोऽहम् इत्य्-आदिना । भागवतं सङ्कर्षणादि-वर्तितं तद् भागवत-विशेषम् इत्य् अर्थः ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्टमे श्री-हरेर् नाभि-पद्मोद्भूतश् चतुर्मुखः ।
अन्वेषणाद् विरम्याप्त-समाधिस् तम् अवैक्षत ॥
भो विदुर ! तां चापि युष्मच्-चरण-सेवयाहं पराणुदे इत्य्-आदिना स्वतो ज्ञानं कुतः पुंसाम् इत्य्-आदिना च त्वं मत्-सङ्गं प्रार्थयसे । मन्-मते तु साक्षात् तव सङ्गः परम-दुर्लभः केन महा-सुकृति-चूडामणिना लभ्यताम् । त्वत्-प्रसङ्गानुप्रसङ्गवत्य् अपि जने सेव्यमाने हरौ भक्तिः स्याद् इति विदुरं स्तुवन्न् अभिनन्दति । बत अहो । तयास्माज् जन्मार्थम् अङ्गीकृतः । पूरु-वंशोऽपि सतां सेवितुं योग्यः कृतः यद् यत्र त्वं बभूविथ जातोऽसि । कथं-भूतः ? ब्रह्म-परमात्म-भगवत्सु मत-भेदेनोपास्य-स्वरूपेषु त्रिषु मध्ये भगवान् एव प्रधान-भूतो यस्य सः । इह भगवद्-उपासकेष्व् अपि मध्ये अजित-कीर्ति-मालाम् अभीक्ष्णं प्रतिक्षणम् एव नूतनयसि कीर्ति-मालाम् इमां स्व-रसना-सूच्या केवलं ग्रथ्नाम्य् एव । त्वं पुनर् एनाम् अतिस्निग्धानुरागि-स्व-कर्ण-मनः-सम्पुष्टान्तर् निधाय नित्य-नवीनी-करोषीति त्वन्-माहात्म्यम् अनिर्वाच्यम् एवेति भावः ॥१॥
———————————————————————————————————————
॥ ३.८.२ ॥
सोऽहं नृणां क्षुल्ल-सुखाय दुःखं
महद् गतानां विरमाय तस्य ।
प्रवर्तये भागवतं पुराणं
यद् आह साक्षाद् भगवान् ऋषिभ्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अल्प-सुखाय महद्-दुःखं प्राप्तानां तस्य दुःखस्य विरमाय प्रवर्तये प्रारभे ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्य꣡तम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्-सर्व-प्रश्नोत्तराणि श्री-भागवते पुराण एवोपलभ्यन्त इति तद्-भाग्य-विशेषम् एव त्वां श्रावयामीत्य् आह—स प्रसिद्धः पराशर-शिष्योऽहं क्षुल्ल-सुखाय तुच्छ-विषय-सुखार्थं दुःखं नरकादि तस्य दुःखस्य । एतेन सुखाय कर्माणि करोति लोक इत्य् अत्र यद् अत्र युक्तं भगवान् वदेन् न इति त्वद्-आदिमे प्रश्नोऽप्य् एतद् एव युक्तम् उत्तरं भवतीत्य् उक्तम् ॥२॥
———————————————————————————————————————
॥ ३.८.३ ॥
आसीनम् उर्व्यां भगवन्तम् आद्यं
सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् ।
विवित्सवस् तत्त्वम् अतः परस्य
कुमार-मुख्या मुनयोऽन्वपृच्छन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कोऽसौ भगवान् ? केभ्यश् च ऋषिभ्य आह ? कथं च त्वया प्राप्तं ? इत्य् अपेक्षायाम् आह—आसीनम् इति सप्तभिः । उर्व्यां पाताल-तले अकुण्ठ-सत्त्वम् अप्रतिहत-ज्ञानम् । अतः सङ्कर्षणात् परस्य श्री-वासुदेवस्य ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आसीनम् इति चतुष्कम् । किरीटेति सङ्कर्षणम् इत्य् अस्य विशेषणम् ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोऽसौ भगवान् ? केभ्य ऋषिभ्य आह ? कथं त्वया प्राप्तं ? इत्य् अपेक्षायाम् आह—आसीनम् इति सप्तभिः । उर्व्यां पाताल-तले अकुण्ठ-सत्त्वं शुद्ध-सत्त्व-स्वरूपम् अप्रतिहत-ज्ञानं वा । अतः सङ्कर्षणात् परस्य श्री-वासुदेवस्य ॥३॥
———————————————————————————————————————
॥ ३.८.४ ॥
स्वम् एव धिष्ण्यं बहु मानयन्तं
यद् वासुदेवाभिधम् आमनन्ति ।
प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद्
उन्मीलयन्तं विबुधोदयाय ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आधार आश्रयो धिष्ण्यं निधानं चाभिधीयते इत्य् अभिधानम् ॥४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एव विशिनष्टि—स्वम् एव धिष्ण्यं स्वीयम् आश्रयं वासुदेव-संज्ञं परमानन्द-रूपं ध्यान-पथेऽनुभूय बहु मानयन्तं सर्वोत्कर्षेण पूजयन्तम् । प्रत्यग्-धृतम् अन्तर्-मुखी-कृतं नेत्राम्बुज-मुकुलं किञ्चिद् उन्मीलयन्तम् । कृपावलोकेन सनत्-कुमारादीनाम् अभ्युदयार्थम् ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एव विशिनष्टि—स्वम् एव धिष्ण्यं स्वीयम् आश्रय-तत्त्वं बहुम् आनयन्तं सर्वोत्कर्षेण पूजयन्तं तद् एव किं ? तत्राह—यद् इति । प्रत्यग्-धृतम् अन्तर्-मुखी-कृतम् इति, तद् वासुदेव-स्वरूपानन्दानुभवार्थम् इत्य् अर्थः । तद् अपि ईषद् इति विबुधानां सनत्-कुमारादीनाम् अभ्युदयार्थम् ॥४॥
———————————————————————————————————————
॥ ३.८.५ ॥
स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर्
उपस्पृशन्तश् चरणोपधानम् ।
पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः
स-प्रेम नाना-बलिभिर् वरार्थाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुनीनां विशेषणं सार्धेन । स्वर्धुन्या उदकेनार्द्रैर् इति । श्री-भागवत-श्रवणार्थं सत्य-लोकात् पातालं प्रत्यवतरन्तो निरन्तरं गङ्गा-मध्यत एवावतीर्णा इति भावः । चरणाव् उपधीयेते । यस्मिन् पद्मे । तद् उपस्पृशन्तो नमन्तः । कथं-भूतं ? तद् आह—यत् पद्मं प्रेम-सहितं यथा भवत्य् एवं नानोपहारैः पूजयन्ति । वरार्थाः पतिकामाः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनीन् विशिनष्टि—सार्धेन । स्वर्धुन्य्-उदार्द्रैर् इति श्री-भागवत-श्रवणार्थं सत्य-लोकात् पातालं प्रत्यवतरन्तो निरन्तरं गङ्गा-मध्यत एवावतीर्णा इति भावः । उपधानम् उपबर्हम् । वरार्थाः पति-कामाः ॥५॥
———————————————————————————————————————
॥ ३.८.६ ॥
मुहुर् गृणन्तो वचसानुराग-
स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः ।
किरीट-साहस्र-मणि-प्रवेक-
प्रद्योतितोद्दाम-फणा-सहस्रम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतानि कर्माणि गृणन्तः । केन ? अनुरागेण स्खलन्ति पदानि यस्मिन्, तेन वचसा। तानि जानन्तीति तज्-ज्ञाः । सहस्रम् एव साहस्रं किरीटानां साहस्रे ये मणि-प्रवेका रत्नोत्तमाः, तैः प्रद्योतितम् उद्दाम-फणानां सहस्रं यस्य तम् अपृच्छन्न् इति पूर्वेणान्वयः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृतानि कर्माणि गृणन्तः । केन ? अनुरागेण स्खलन्ति पदानि यस्मिन्, तेन वचसा। तानि जानन्तीति तज्-ज्ञा इति स्वामि-चरणाः । कृतानि लीलाः सहस्रम् एव साहस्रं, तत्र मणि-प्रवेकैः रत्न-मुख्यैः, मुख्य-वर्य-वरेण्याश् च प्रवेकानुत्तमोत्तमा इत्य् अमरः । अपृच्छन्न् इति पूर्वेणान्वयः ॥६॥
———————————————————————————————————————
॥ ३.८.७ ॥
प्रोक्तं किलैतद् भगवत्तमेन
निवृत्ति-धर्माभिरताय तेन ।
सनत्-कुमाराय स चाह पृष्टः
साङ्ख्यायनायाङ्ग धृत-व्रताय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन सङ्कर्षणेन सनत्-कुमाराय प्रोक्तम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन सङ्कर्षणेन सनत्-कुमाराय भगवत्तमेनेति स्वार्थे तमप् । यद् वा, जगद्-उत्पत्त्य्-आदि-ज्ञानवत्सु भगवत्सु श्रेष्ठेन ॥७॥
———————————————————————————————————————
॥ ३.८.८ ॥
साङ्ख्यायनः पारमहंस्य-मुख्यो
विवक्षमाणो भगवद्-विभूतीः ।
जगाद सोऽस्मद्-गुरवेऽन्विताय
पराशरायाथ बृहस्पतेश् च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पारमहंस्ये धर्मे मुख्यः । विवक्षमाण इत्य् आत्मनेपदं, ब्रूञ्-आदेशस्य वचेर् उभयपदित्वात् । अन्वितायानुगताय ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृहस्पतेर् बृहस्पतये ॥८॥
———————————————————————————————————————
॥ ३.८.९ ॥
प्रोवाच मह्यं स दयालुर् उक्तो
मुनिः पुलस्त्येन पुराणम् आद्यम् ।
सोऽहं तवैतत् कथयामि वत्स
श्रद्धालवे नित्यम् अनुव्रताय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुलस्त्येनोक्त इत्य् अत्रैवम् आख्यायिका । पितरं राक्षस-भक्षितं श्रुत्वा पराशरो राक्षस-सत्रे प्रवृत्तो वसिष्ठ-वचनान् निवृत्तस् ततः पुलस्त्येन स्व-सन्तति-रक्षणात् तुष्टेन वरो दत्तः पुराण-प्रवक्ता भविष्यसीति ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सपराशरः पुलस्त्येनोक्त इत्य् अत्रेयं कथा पितरं राक्षस-भक्षितं श्रुत्वा पराशरो राक्षस-सत्रे प्रवृत्तो वशिष्ठ-वचनान् निवृत्तस् ततः पुलस्त्येन स्व-सन्तति-रक्षणात् तुष्टेन वरो दत्तः पुराण-प्रवक्ता भवेति ॥९॥
———————————————————————————————————————
॥ ३.८.१० ॥
उदाप्लुतं विश्वम् इदं तदासीद्
यन् निद्रयामीलित-दृङ् न्यमीलयत् ।
अहीन्द्र-तल्पेऽधिशयान एकः
कृत-क्षणः स्वात्म-रतौ निरीहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं सङ्कर्षणात् संप्रदाय-प्रवृत्तिं प्रदर्श्य विभूति-कथनाय पद्मोद्भवं वक्तुम् आह—उदाप्लुतम् एकार्णवोदके निमग्नं यद् यदा आसीत् तदा अम्ईलित-दृग् अतिरोहित-चिच्-छक्तिर् एव श्री-नारायणो नेत्रे निमीलितवान् इत्य् अर्थः । माया-विनोदं परित्यज्य स्वात्म-रतौ स्वरूपानन्द एव कृतोत्सवः । अत एव निरीहो निष्क्रियः सन् ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं श्री-भागवतस्य सङ्कर्षणात् संप्रदाय-प्रवृत्तिं प्रदर्श्य तत्-कष्टम् आरभते । उदाप्लुतम् एकार्णवोदक-निमग्नम् एव तदा आसीत् । कदा ? यद् यदा नैमित्तिक-प्रलये अमीलित-दृग् अतिरोहित-चिच्-छक्तिर् एव गर्भोदशायी श्री-नारायणो नेत्रे निमीलितवान् इत्य् अर्थः । तल्पे इत्य् आर्षम् । आत्मभिः स्वरूप-शक्तिभिः सह रतौ रमणे कृतोत्सवः । निरीहस् त्यक्त-मायेक्षणः ॥१०॥
———————————————————————————————————————
॥ ३.८.११ ॥
सोऽन्तः शरीरेऽर्पित-भूत-सूक्ष्मः
कालात्मिकां शक्तिम् उदीरयाणः ।
उवास तस्मिन् सलिले पदे स्वे
यथानलो दारुणि रुद्ध-वीर्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-शक्तेः प्रेरणं पुनः सृष्ट्य्-अवसरे प्रबोधनार्थम् । स्वे पदेऽधिष्ठाने। बहिर्-वृत्त्य्-अभावे दृष्टान्तः, यथानल इति ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ विभूति-कथनाय तद् एव पुराणं प्रवर्तयति । उदाप्लुतम् इत्य्-आदिना विश्वम् अत्र लोक-त्रयं सोऽन्तर् इति । भूत-सूक्ष्म इत्य् अत्र । विलीन-पार्थिवांश-तन्मात्र-सहितानि त्रैलोक्य-गत-जीवानां लिङ्ग-शरीराण्य् एव ज्ञेयानि । यान्य् एव समष्टि-लिङ्ग-शरीरम् इत्य् उच्यते, त्रिलोकाद् बहिर्-जलादीनां विद्यमानत्वात् । तेषाम् अन्तः-शरीरेऽर्पणार्थम् एव कालात्मिकाम् इत्य्-आदि-जल-स्तम्भन-शक्त्या जलाभ्यन्तरे शयितत्वाद् बहिः-स्थितानां महर्-लोकादि-वासिनां दृष्ट्य-विषयत्वात् तस्माद् युगान्त-श्वसनावघूर्ण-जलोर्मि-चक्रात् सलिलाद् विरूढम् । अपाश्रितः कञ्जम् इति वक्ष्यमाणाच् चानल-दृष्टान्तः सङ्गमनीयः ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्रैलोक्य-गतानां जीवानां तदा का वार्ता ? इत्य् अत आह—अन्तः-शरीरे श्रीव-शरीर-मध्य एव अर्पितानि भूत-सूक्ष्माणि त्रैलोक्य-गत-देव-मनुष्यादि-सूक्ष्म-शरीराणि येन सः । केन प्रकारेण ? इत्य् अत आह—कालात्मिकां काल-रूपां स्व-शक्तिम् उदीरयन् प्रेरयन् तद्-इच्छा-वशात् प्रलयारम्भ-कालेनैव त्रिलोक-स्थानां सर्वेषां स्थूल-शरीराणि ध्वंसयित्वा लिङ्ग-शरीराणि भगवद्-अन्तः-शरीरे अर्पितानि यान्य् एव समष्टि-लिङ्ग-शरीरम् आहुर् इत्य् अर्थः । एवं-भूतः स स्वे पदे पाताल-तले स्व-स्थाने सलिले एकार्णवोदक-प्लुतेऽपि जल-स्तम्भन-शक्त्या उवास । ततश् च महर्-लोकादि-वासिनां दृष्ट्य्-अविषयत्वे तस्य दृष्टान्तः यथानल इति ॥११॥
———————————————————————————————————————
॥ ३.८.१२ ॥
चतुर्-युगानां च सहस्रम् अप्सु
स्वपन् स्वयोदीरितया स्व-शक्त्या ।
कालाख्ययासादित-कर्म-तन्त्रो
लोकान् अपीतान्1 ददृशे स्व-देहे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वया चिच्-छक्त्या सह वर्तमान एव योग-निद्रया स्वपन् पूर्वम् एव बोधनार्थं नियुक्तया स्व-काल-शक्त्या आसादितं प्रापितं कर्म-तन्त्रं क्रियाकलापो यस्य सः । अपीतान् लीनान् ददर्श ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वप्नानन्तरं चासादितं जीवेषु संयोजितं कर्म-तन्त्रं येन सः ॥१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कियन्तं कालं स विशश्रमेत्य् आह—चतुर् इति । स्वया चिच्-छक्त्या जाग्रत्या सह जाग्रद् अपि स्वपन् माया-शक्त्या शयितया सह शयान एवेत्य् अर्थः । ततश् च प्रलयावसान-समये स्व-शक्त्या कालाख्यया आसादितं भोगाद्य्-अर्थं संयोजितं स्वान्तः-स्थित-जीवेषु प्रति स्व-कर्म-तन्त्रं येन सः । ततश् च लोकान् अपि ब्रह्मादि-स्थावरास् तान् अपि इत्यान् सूक्ष्म-रूपेण स्वस्मिन् प्राप्तान् ददृशे स्व-शरीरान् निष्क्रियम् अयितुम् इति भावः ॥१२॥
———————————————————————————————————————
॥ ३.८.१३ ॥
तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर्
अन्तर्-गतोऽर्थो रजसा तनीयान् ।
गुणेन कालानुगतेन विद्धः
सूष्यंस् तदाभिद्यत नाभि-देशात् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : उदकं वायुना शुष्कं भिन्नं पद्मम् अभूद् धरेः इति पाद्मे ॥१४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोक-सृष्ट्य्-अर्थम् अर्थ-सूक्ष्मेऽभिनिविष्टा दृष्टिर् यस्य । कालानुसारिणा रजो-गुणेन विद्धः स-क्षोभितः सन् तनीयान् अतिसूक्ष्मोऽर्थः सूष्यन् प्रसोष्यन्न् उद्भविष्यन् नाभि-देशाद् उद्भूत इत्य् अर्थः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सूष्यन् स्व-कार्यं जनयिष्यन् अभिद्यत उद्भूतः प्रवृद्ध इत्य् अर्थः ॥१३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्त-पोष-न्यायेनाह—तस्य नारायणस्य अर्थ-सूक्ष्मेषु सर्व-जीव-लिङ्ग-देहेषु अभिनिविष्टा निष्कासनेच्छया प्रविष्टा दृष्टिर् यस्य तस्य तद्-अन्तर्-गत एवार्थः । प्राकृत-पदार्थ-विशेषः तनीयान् अतिसूक्ष्मोऽपि कालानुसारिणा रजसा गुणेन विद्धः सङ्क्षोभितस् ततश् च सुष्यन् प्रसोष्यन् नाभि-देशाद् उदभिद्यत ऊर्ध्वम् उपससर्प ॥१३॥
———————————————————————————————————————
॥ ३.८.१४ ॥
स पद्म-कोशः सहसोदतिष्ठत्
कालेन कर्म-प्रतिबोधनेन ।
स्व-रोचिषा तत् सलिलं विशालं
विद्योतयन्न् अर्क इवात्म-योनिः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मा विष्णुर् अस्य योनिः ॥१४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : स तनीयान् अर्थः पद्म-कोशः सन्न् उदतिष्ठत् । कर्माणि जीवादृष्टानि प्रतिप्रबोधयति यः कालस् तेन । आत्मा श्री-विष्णुर् योनिर् यस्य ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पद्म-कोषोऽयं नारायण-नाभि-कमलाद् अन्य एव जातः प्राकृतार्थ-मयत्वात् ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स चार्थः कालेन पद्म-कोषः सन्न् उदतिष्ठत् प्रलय-महार्णव-जलाद् अप्य् ऊर्ध्व-प्रदेशे तस्थौ कर्माणि जीवादृष्टानि प्रतिबोधयतीति तेन आत्मा श्री-विष्णुर् योनिर् यस्य स अर्क इवेति स्व-प्रभयैव स व्यकशद् इति तत्-प्रकाशनार्थम् अर्कान्तरापेक्षा नास्तीति भावः ॥१४॥
———————————————————————————————————————
॥ ३.८.१५ ॥
तल्-लोक-पद्मं स उ एव विष्णुः
प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पद्म-संस्थात् हरेस् तत्र ब्रह्माजनि चतुर्मुख इति च । सर्व-गुणावभासं पृथिव्य्-आत्मकम् ।
पृथिव्यां हि सर्वे शब्दादयो गुणावभासन्ते ।
तस्यासन-विधानार्थं पृथिवी पद्मम् उच्यते ॥ इति मोक्ष-धर्मे ॥१५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तल्-लोकात्मकं पद्मं सर्वान् गुणान् जीव-भोग्यान् अर्थान् अवभासयतीति तथा । तद् यस्माज् जातं स एव विष्णुः । उ इति संबोधने । प्रावीविशत् प्रकर्षेणालुप्त-शक्तिर् एवान्तर्यामितया विवेश । तस्मिन् विष्णुनाधिष्ठिते पद्मे विधाता ब्रह्माभूत् । कथं भूतः ? स्वयम् एव वेद-मयो, न त्व् अध्ययनेन प्राप्त-वेदः । कोऽसौ ? अदृष्ट-पितृत्वेन यं स्वयम्-भुवं वदन्ति सः । प्राक्-कल्पान्ते नारायणेन सह निद्रयैकी-भूत आसीत् तस्मिंश् च प्रबुद्धे, तत एव पाद्मे कल्पे पद्म-द्वारेणाभिव्यक्तिं प्राप्त इत्य् अर्थः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तल्-लोकेति । स गर्भोदक-शाय्य् एव विष्णु-रूपः सन् ॥१५॥
परमात्म-सन्दर्भः: अस्यार्थः—तल्-लोकात्मकं पद्मम् । सर्व-गुणान् जीव-भोग्यान् अर्थान् अवभासयतीति तथा। तत् यस्माज् जातं श्री-नारायणाख्यः पुरुष एव विष्णु-संज्ञः सन् स्थापन-रूपान्तर्यामितायै प्रावीविशत् प्रकर्षेनालुप्त-शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्री-विष्णुना लब्ध-स्थितौ पद्मं पुनः सृष्ट्य्-अर्थं स्वयम् एव ब्रह्माभूत् स्थितस्यैव मृद्-आदेर् घटादितया सृष्टेः । अत एव स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञा[भा।पु। १.२.२३] इत्य् अन्यत्रापि ॥१५॥ [परमात्म-सन्दर्भः ८]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तल्-लोक-पद्मं लोकात्मकं विराजम् इत्य् अर्थः । उ इति संबोधने । स एव प्रलयारम्भे यस्योदरम् एव वैराजः सूक्ष्म-रूपेण प्राविशत् । प्रलयान्ते च ततः पद्म-रूपेणाविर्भूतः वैराजः स एव गर्भोदशायी विष्णुः प्रावीविशत्, स्वार्थे निच्, अन्तर्यामित्वेन प्रविवेश । पद्मं कीदृशं ? सर्वेषां गुणानां गुण-कार्याणां जीव-भोग्यानां स्वर्ग-नरकादीनाम् अवभासः प्रकाशो यत्र तत् । तस्मिन् पद्मे विधाता ब्रह्मा अभूत् । कोऽसौ ? अदृष्ट-पितृकत्वेन यं स्वयम्-भुवं वदन्ति सः । प्राक्-कल्पान्ते नारायणेन सह निद्रयैकी-भूत आसीत् । तस्मिन् प्रबुद्धे, अत एव पद्म-द्वारेणाभिव्यक्त इत्य् अर्थः । अत्र स्थूलो वैराजः सूक्ष्मो हिरण्यगर्भः सृष्ट्य्-आदि-कर्ता चतुर्मुख इति ब्रह्मण एव त्ररूप्यं ज्ञेयम् ॥१५॥
———————————————————————————————————————
॥ ३.८.१६ ॥
तस्यां स चाम्भो-रुह-कर्णिकायाम्
अवस्थितो लोकम् अपश्यमानः ।
परिक्रमन् व्योम्नि विवृत्त-नेत्रश्
चत्वारि लेभेऽनुदिशं मुखानि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स च तस्मिन् कल्पे चतुर्-मुखोऽभूद् इत्य् आह—तस्याम् इति । परिक्रमंस् तत्र-स्थ एव ग्रीवां चालयन् लोक-निरीक्षणार्थं विवृत्ते विचलिते नेत्रे यस्य ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रैव परिक्रमन् भ्रमन् विवृत्त-नेत्रः श्वसन् युगपत् चतुर्-दिशो दर्शनोत्कण्ठया चत्वारि मुखानि लेभे ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिक्रमन् तत्रस्थ एव लोक-निरीक्षणार्थं ग्रीवां चालयन् युगपद् एव दिक्-चतुष्टये व्योम्नि निर्जनत्वाद् आकाश-मात्रे विवृत्त-नेत्रः, निक्षिप्त-दृष्टिः चतुर्दिक्षु चत्वारि मुखानि लेभे ॥१६॥
———————————————————————————————————————
॥ ३.८.१७ ॥
तस्माद् युगान्त-श्वसनावघूर्ण-
जलोर्मि-चक्रात् सलिलाद् विरूढम् ।
उपाश्रितः कञ्जम् उ लोक-तत्त्वं
नात्मानम् अद्धाविदद् आदि-देवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य च श्री-नारायणोपासनयैवाविर्भूत-ज्ञान-क्रिया-शक्तेर् लोक-कर्तृत्वं न स्वत इति वक्तुं प्रथमं तस्य विमोहम् आह—तस्मात् सलिलाद् विरूढम् उद्गतं कञ्जम् उपाश्रियोऽपि साकल्येन तत् कञ्जं लोक-तत्त्वं चात्मानं च साक्षान् न ज्ञातवान् । उ इति विस्मये। कथं-भूतात् ? युगान्त-श्वसनः प्रलय-वायुस् तेनावघूर्णं तत्र तत्र प्रकम्पितं यस्मात् सर्वत ऊर्मि-चक्रं यस्मिन् ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सलिलाद् विरूढम् इति । श्री-नारायण-शयनावकाशस्योपर्य् अप्य् अनावृतत्वात् ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-दत्तयैव शक्त्या ब्रह्मणः सृष्ट्य्-आदि-शक्तिर् न स्वत इति लोकेषु ज्ञापयितुं पूर्वाभ्यस्त-सृष्ट्य्-आदि-शिल्पस्यापि ब्रह्मणो विमोहनम् आह, तस्मात् सलिलात् विरूढम् उद्गत कञ्जम् अपाश्रितः सन् । उ इति विस्मये लोकानां तत्त्वम् आत्म-तत्त्वं च न विवेद सलिलात् कथं-भूतात् युगान्तेत्य् आदि युगान्त-श्वसनः प्रलय-वायुः ॥१७॥
———————————————————————————————————————
॥ ३.८.१८ ॥
क एष योऽसाव् अहम् अब्ज-पृष्ठ
एतत् कुतो वाब्जम् अनन्यद् अप्सु ।
अस्ति ह्य् अधस्ताद् इह किञ्चनैतद्
अधिष्ठितं यत्र सता नु भाव्यम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रधान-वाचकस् त्व् एकश् चानन्यः केवलं स्वयम् इति ब्राह्मे । सता ब्रह्मणा । स ब्रह्माचिन्तयत् । कुतोऽनु पद्मं ब्रह्मणः स्याद् इति इति मैत्रायण-श्रुतिः ॥१८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविदुषस् तस्य वितर्कम् आह—योऽसाव् अहम् अब्ज-पृष्ठे एष कः ? अनन्यद् एकम् एवैतद् अब्जं कुतो वा जातं ? यत्रैतद् अधिष्ठितं तेनाधस्तात् सता वर्तमानेन नु निश्चितं भाव्यम् । स इत्थम् उद्वीक्ष्येत्य् उत्तरेणान्वयः । तथा च श्रुतिः—सोऽपश्यत् पुष्कर-पर्णे तिष्ठन् सोऽमन्यत अस्ति चैतद् यस्मिन्न् इदम् अधितिष्ठति इति ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : क एष इति युग्मकम् ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविदुषस् तस्य तर्कम् आह योऽसाव् अहम् अब्ज-पृष्ठे एष कः कुतः कस्माद् वा उत्थितम् एतद् अब्जम् अनन्यद् एकम् एव । किं च, हि निश्चितं, इह अधस्तात् किञ्चन वस्तु अस्ति, यत्र एतत् पद्मम् अधिष्ठितम् । अत एव सता सुधिया मया अनुभाव्यं तद् अनुभवितुम् अर्हः सन्, सुधीः कोविदो बुध इत्य् अमरः । स इत्थम् उद्वीक्ष्येत्य् उत्तरेणान्वयः । तथा च श्रुतिः—सोऽपश्यत् पुष्कर-पर्णे तिष्ठन् सोऽमन्यत अस्ति चैतद् यस्मिन्न् इदम् अधितिष्ठति इति ॥१८॥
———————————————————————————————————————
॥ ३.८.१९ ॥
स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल-
नाडीभिर् अन्तर्-जलम् आविवेश ।
नार्वाग्-गतस् तत्-खर-नाल-नाल-
नाभिं विचिन्वंस् तद् अविन्दताजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य च बहिर्-मुख-प्रवृत्त्या महतापि कालेन तद् अप्राप्तिम् आह—स इति द्वाभ्याम् । तस्याब्जसय यन् नालं तस्य नाडीभिर् अन्तश् छिद्रैः । तस्य स्वर-नालस्य पद्मस्य यन् नालं तस्य नाभिम् अधिष्ठानं विचिन्वन्न् अर्वाग्-गतोऽपि तत् तदा नाविन्दत ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-इच्छां विना साभिमान-पुरुष-प्रयत्नो वैफल्यायैव स्याद् इति प्रदर्शयन्न् आह—स इति नालीभिर् नाडी-च्छिद्रैः तस्य खर-नालस्य पद्मस्य यन् नालं तस्य नाभिम् अधिष्ठानं श्री-नारायण-नाभि-पद्मम् अर्वाग्-गतोऽपि तन्-निकट-गतोऽपि न अविन्दन् न प्राप । भक्त्या विना तत्-प्राप्तेर् दुर्घटत्वाद् इति भावः ॥१९॥
———————————————————————————————————————
॥ ३.८.२० ॥
तमस्य् अपारे विदुरात्म-सर्गं
विचिन्वतोऽभूत् सुमहांस् त्रि-णेमिः ।
यो देह-भाजां भयम् ईरयाणः
परिक्षिणोत्य् आयुर् अजस्य हेतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे विदुर, आत्म-सर्गं स्व-कारणम् । त्रिणेमिः कालः । अजस्य विष्णोर् हेतिः सुदर्शन-रूपं शस्त्रम् । देह-भाजां नराणां भयम् उत्पादयन्न् इति संवत्सर-शतम् इत्य् उक्तं भवति ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-स्वर्गं स्व-कारणं त्रि-नेमिः कालः । यः कालः देह-भाजं नराणां भयं मृत्यु-सन्निधिम् ईरयन् कथयन् आयुः परिक्षिणोतीति संवत्सर-शतात्मक इत्य् अर्थः । अजस्य विष्णोर् हेतिः सुदर्शन-शस्त्रांश-स्वरूपः ॥२०॥
———————————————————————————————————————
॥ ३.८.२१ ॥
ततो निवृत्तोऽप्रतिलब्ध-कामः
स्व-धिष्ण्यम् आसाद्य पुनः स देवः ।
शनैर् जित-श्वास-निवृत्त-चित्तो
न्यषीदद् आरूढ-समाधि-योगः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तर्-मुखतया तु भगवन्तं दृष्टवान् इत्य् आह द्वाभ्याम् । ततोऽन्वेषणान् निवृत्तः । न प्रतिलब्धः कामो मनो-रथो येन । स्व-धिष्ण्यं पद्मम् । जितेन श्वासेन निवृत्तं संयतं चित्तं यस्य, अत एवारूढ आश्रितः समाधि-योगो येन तथा-भूतः सन् न्यषीदद् उपविवेश ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आरूढ-समाधि-योग इति यत् किम् अपि सर्व-कारणं वस्तु स्यात्, तन्-मय्य् आविर्भवत्व् इत्य् आशा-पूर्विका सामान्याकारेणैव तद्-अनन्य-वृत्तिता समाधि-योगोऽत्र ज्ञेयः, विशेषाकाराज्ञानात् ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्यक्त-स्वाभिमानस्य तस्य तद्-इच्छया तद्-ध्यानेन तत्-प्राप्तिम् आह—तत अन्वेषणात् । स्व-धिष्ण्यं पद्मं निवृत्त-चित्तः संयत-मनाः न्यषीदत् उपविवेश । समाधिर् भगवद्-ध्यानोत्थं चित्तैकाग्र्यम् ॥२१॥
———————————————————————————————————————
॥ ३.८.२२ ॥
कालेन सोऽजः पुरुषायुषाभि-
प्रवृत्त-योगेन विरूढ-बोधः ।
स्वयं तद् अन्तर्-हृदयेऽवभातम्
अपश्यतापश्यत यन् न पूर्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषायुषा संवत्सर-शतेन कालेन अभिप्रवृत्तः सुनिष्पन्नो योगः, तेन विरूढ उत्पन्नो बोधो यस्य । यत् पूर्वं विचिन्वन्न् अपि नापश्यत्, तत् स्वयम् एव अन्तर्-हृदये ऽवभातम् अपश्यत् ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (परमात्म-सन्दर्भः ३): द्वितीयस्य [पुरुषस्य वर्णनं] यथा—अयं गर्भोदक-स्थः सहस्र-शीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर-शतेन । योगो भक्ति-योगः । एतद् अग्रेऽप्य् अव्यक्त-मूलम्2 [भा।पु। ३.८.२९] इत्य् अत्र अव्यक्तं प्रधानं मूलम् अधो-भागो यस्येत्य् अर्थः । भुवनाङ्घ्रिपेन्द्रम् [भा।पु।३.८.२९] इति । भुवनानि चतुर्दश तद्-रूपा अङ्घ्रिपाः, तेषाम् इन्द्रं तन्-नियन्तृत्वेन वर्तमानम् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषायुषा वर्ष-शतेनेति श्री-मैत्रेयो वर्तमान-कलि-युगापेक्षया प्राहेति ज्ञेयम् । वस्तुतस् तूत्तर-ग्रन्थे भूयस् त्वं तप आतिष्ठ [भा।पु। ३.९.३०] इत्य्-आदि श्री-भगवद्-वाक्यानन्तरं दशमाध्याये विरिञ्चोऽपि तथा चक्रे, दिव्यं वर्ष-शतं तपः [भा।पु। ३.१०.४] इत्य् उक्त्या एतद् एव ज्ञेयम् । यत् तु द्वितीये दिव्यं सहस्राब्दं [भा।पु। २.९.८] इत्य्-आद्य्-उक्तं, तद् ब्राह्म-कल्प-गतं ज्ञेयम् ॥२२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषायुषा संवत्सर-शतात्मक-कालेनेति । मैत्रेयो वर्तमान-कलि-युगापेक्षया प्राहेति ज्ञेयम् । अभिप्रवृत्त-योगेन पाक-दशा-प्राप्त-भगवद्-ध्यानेन, ध्याने स्म नो दर्शितं त उपासकानाम् [भा।पु। ३.९.४] इत्य् उपरिष्टाद् उक्तेः । यत् स्वास्पद-कमलाधिष्ठानं पूर्वं विचिन्वन्न् अपि नापश्यत् । तत् स्वयम् एवान्तर्-हृदयेऽवभातम् अपश्यत् ॥२२॥
———————————————————————————————————————
॥ ३.८.२३ ॥
मृणाल-गौरायत-शेष-भोग-
पर्यङ्क एकं पुरुषं शयानम् ।
फणातपत्रायुत-मूर्ध-रत्न-
द्युभिर् हत-ध्वान्त-युगान्त-तोये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् अपश्यत् तद् वर्णयति—मृणालेति नवभिः । नवस्व् अप्य् अपश्यद् इत्य् अस्यैवानुषङ्गः । मृणालवद् गौरश् चासाव् आयतश् च यः शेषस् तस्य भोगो देहः स एव पर्यङ्कस् तस्मिन् । कुत्र स्थिते ? पर्यङ्के फणातपत्रैर् आयुताः सर्वतो युक्ता ये मूर्धानस् तेषां रत्नानि किरीट-स्थानि तेषां द्युभिः प्रभाभिर् हत-ध्वान्ते युगान्त-तोये ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एव वस्तु वर्णयति नवभिः । फणा एव आतपत्रायुतानि तेषु मूर्ध-रत्नानां शिरस्थ-मणीनां द्युभिः कान्तिभिर् हत-ध्वान्ते प्रलय-जले ॥२३॥
———————————————————————————————————————
॥ ३.८.२४ ॥
प्रेक्षां क्षिपन्तं हरितोपलाद्रेः
सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः ।
रत्नोदधारौषधि-सौमनस्य
वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं-भूतं पुरुषं ? हरितोपलाद्रेर् मरकत-शिला-मय-पर्वतस्य प्रेक्षां शोभां क्षिपन्तं स्व-लावण्यातिशयेन तिरस्कुर्वन्तम् । सन्ध्याभ्रं नीवी-परिधानं यस्य तस्य शोभां पीताम्बरेण क्षिपन्तम् । उरु-रुक्म-मूर्ध्नोऽनेक-स्वर्ण-शिखरस्य तस्य स्व-किरीटैः । रत्नानि च उदधाराश् च ओषधयश् च सौमनस्यानि च, पुष्प-समूहाः सुमनस एव वा तेषां वन-स्रजो वन-माला यस्य, वेणव एव भूजा यस्य, अङ्घ्रि-पा एवाङ्घ्रयो यस्य स चासौ स च तस्य । अयम् अर्थः, यदि तस्मिन् माला इव स्थिता रत्नादयो भवन्ति, वेणवश् च भूजा इव, वृक्षाश् च पादा इव तर्हि तस्य शोभां स्वीय-रत्न-मुक्ता-तुलसी-पुष्प-दामभिर् भुजैर् अङ्घ्रिभिश् च क्षिपन्तम् इति ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरितोपलाद्रेर् मरकत-शिला-मय-पर्वतस्य प्रेक्षाम् उत्प्रेक्षां क्षिपन्तं किम् अयं मरकत-मणि-मयः पर्वत इति वा उत्प्रेक्षा ताम् अपि स्व-लावण्यातिशयेन तिरस्कुर्वन्तं निरुपमम् इत्य् अर्थः । कथं-भूतस्य? । सन्ध्याभ्राणि नीवीव नितम्बे यस्य तस्योत्प्रेक्षां स्वीय-पीताम्बरेण क्षिपन्तम् इत्य् अर्थः । उरु-रुक्माणि किरीटानीव मूर्धसु शिखरेषु यस्य तस्येति स्वीय-किरीतैः । रत्नानाम् उपधाराणाम् ओषधीनां सौमनस्यानां पुष्प-समूहानां वन-स्रजो वन-माला यस्येति स्वीय-रत्न-माला मुक्ता-माला तुलसी-माला पुष्प-मालाभिः, वन-स्रक्-शब्देन माला-मात्रोक्तेः । यद् वा, रत्नादिभिर् वन-स्रग् यस्येत्य् उभयत्रैकैव वन-माला व्याख्येया । पत्र-पुष्प-मयी-माला वन-माला पदावधीति वन-माला-लक्षणे रत्न-मुक्तादेर् अप्य् उपलक्षणं ज्ञेयम् । उपरिस्था वेणवो भुजा इव । अधस्था अङ्घ्रिपा अङ्घ्रय इव यस्य तस्येति स्वीय-भुज-पादैः ॥२४॥
———————————————————————————————————————
॥ ३.८.२५ ॥
आयामतो विस्तरतः स्व-मान-
देहेन लोक-त्रय-सङ्ग्रहेण ।
विचित्र-दिव्याभरणांशुकानां
कृत-श्रियापाश्रित-वेष-देहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, आयामतो दैर्घ्येण विस्तरतश् च स्व-मान-देहेन मीयतेऽनेनेति मानम् उपमा शोभनश् चासाव् अमानो निरुपमो देहस् तेन । यद् वा, सुष्ठु अमानोऽपरिच्छिन्नस् तेन । यद् वा, ताभ्यां स्वानुरूप-प्रमाणेन, अत एव लोक-त्रयं सङ्गृह्यते यस्मिंस् तथा । विचित्राणि नाना-विधानि दिव्यान्य् अपूर्वाणि चाभरणान्य् अंशुकानि च तेषां कृता आसमन्ताच् छ्रीः शोभा येन, तेन देहेन विशिष्टम् । एवं स्वत एवातिरम्यत्वेऽप्य् अपाश्रित-वेषः स्वीकृतालङ्कारो देहो यस्य तम् अपश्यत् । यद् वा, केन प्रेक्षां क्षिपन्तम् इत्य् अपेक्षायाम् एवं-भूतेन देहेनेति संबन्धः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, आयामतो दैर्घ्येण विस्तरतोन् विस्तारेण च स्व-मानः स्वानुरूप-प्रमाणो यो देहस्थेन विशिष्टं श्लेषेण सुष्ठु अमानोऽपरिच्छिन्नस् तेन अपरिच्छेदम् एव स्पष्टयति लोक-त्रय-सङ्ग्रहेण त्रैलोक्य-व्यापिना विचित्राणि दिव्यान्य् अलौकिकानि आभरणान्य् अंशुकानि च तेषाम् अपि कृता श्रीः शोभा येन तेन । तथा अपाशित-वेशदा ईहा इच्छा यस्य तम् । यदैव यं यं वेषम् इच्छति तदैव सत्य-सङ्कल्पत्वात् तं प्राप्नोतीत्य् अर्थः ॥२५॥
———————————————————————————————————————
॥ ३.८.२६ ॥
पुंसां स्व-कामाय विविक्त-मार्गैर्
अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् ।
प्रदर्शयन्तं कृपया नखेन्दु-
मयूख-भिन्नाङ्गुलि-चारु-पत्रम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : भिन्नम् अन्येभ्यो विलक्षणम् ॥२६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वाभिलषित-फलाय विविक्तैः शुद्धैर् वेदोक्तैर् मार्गैर् अभ्यर्चतां पुंसां काम-दुघम् अङ्घ्रि-पद्मं प्रदर्शयन्तं, किञ्चिद् उन्नमय्य समर्पयन्तम् । नखा एव इन्दवः, तेषां मयूखा रश्मयः, तैर् भिन्नाः सम्भिन्ना अङ्गुलय एव चारूणि पत्राणि यस्य, तत् ॥२६॥
———————————————————————————————————————
सनातन गोस्वामी (दिग्-दर्षिनी, बृ।भा। २.४.७५) : स्व-कामाय भगवत्-प्राप्तये विविक्त-मार्गैः श्रवणादि-भक्ति-प्रकारैः कृपया प्रदर्शयन्तं, किञ्चिद् उन्नमय समर्पयन्तम् इति । तत्र हेतुः—तस्मिन्न् एवैकस्मिन् पादाम्बुज-युग्मे समर्पण-रूप-तत्-प्रसारेण वा चेतो यस्य तस्य ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-कामाय स्वाभिलषित-फलाय । यद् वा, स्वो भगवान् एव कामस् तस्मै, भगवन्तम् एव प्राप्तुम् इत्य् अर्थः । स्वस्य भगवतः कामाय सेवाभिर् भगवन्तं सुखयितुम् इति वा । विविक्तैर् ज्ञान-कर्माद्य्-अमिश्रत्वेन शुद्धैर् मार्गैर् वैध-रागादिभिर् दास्य-सख्यादि-भाव-मार्गैर् वा काम-दुघं सेवोपयोगि-मनोरथ-पूरकम् अङ्घ्रि-पद्मं सहस्र-पाद-पद्मानां मध्य एव एकं किञ्चिद् उन्नमय्य प्रदर्शयन्तम् । तत्र पाद-पद्मम् इत्य्-उत्तर-श्लोके मुखेनेत्य् एक-वचन-लिङ्गेन भङ्ग्यात्रैव प्रस्तावे पुंसाम् इत्य्-आदि-श्लोक-त्रय्या श्री-कृष्णावतार-दर्शनम् एव ब्रह्मणे दर्शितम्, तद् उ होवाच—ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत गोप-वेशो मे पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२६] इति गोपाल-तापिनी-श्रुतेर् ब्रह्म-संहिता-कथा-दृष्टेश् चेति । तस्यैव मदन-गोपाल-स्वरूपस्य त्रिभङ्ग-मूर्तेर् व्यत्यस्त-पादस्य दक्षिण-चरण-पद्मोन्नमन-दृष्टेर् इति केचिद् आहुः । नखेन्दु-मयूखैर् एव भिन्नाः सम्भिन्ना अङ्गुलय एव चारूणि पत्राणि यस्य तद् इति । पद्मस्यास्य चन्द्र-रश्मि-विकसितत्वाद् अद्भुतत्वम् उक्तम् ॥२६॥
———————————————————————————————————————
॥ ३.८.२७ ॥
मुखेन लोकार्ति-हर-स्मितेन
परिस्फुरत्-कुण्डल-मण्डितेन ।
शोणायितेनाधर-बिम्ब-भासा
प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकार्ति-हरं स्मितं यस्मिंस् तेन । परिस्फुरद्भ्यां कुण्डलाभ्यां मण्डितेन । अधर-बिम्ब-दीप्त्या । शोणवदाचरितेन शोभननासायुक्तेन सु-भ्र्वा शोभनया भ्रुवा च प्रत्यर्हयन्तं पूजकान् प्रति पूजयन्तं संमानयन्तम् ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यर्हयन्तं पूजकांस् तान् प्रतिपूजयन्तं भोगापवर्गादेस् तैर् भक्तैर् अस्वीकारात् तेनैव तत्-सेवा-ऋणं परिशोधयन्तम् इवेत्य् अर्थः । आर्ति-दुःख-मात्रं तद्-दर्शनोत्कण्ठ्य-पीडा वा सुभ्र्वा शोभनया भ्रुवा एकया रमयैव रहस्य-भाव-प्रकाशिकयेति प्रत्यर्हणिया अपि भक्त-विशेषा एव सूचितः ॥२७॥
———————————————————————————————————————
॥ ३.८.२८ ॥
कदम्ब-किञ्जल्क-पिशङ्ग-वाससा
स्वलङ्कृतं मेखलया नितम्बे ।
हारेण चानन्त-धनेन वत्स
श्रीवत्स-वक्षः-स्थल-वल्लभेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कदम्ब-किञ्जल्कवत्-पिशङ्गं यद् वासस् तेन मेखलया च नितम्बे स्व्-अलङ्कृतम् । हे वत्स ! श्रीवत्स-युक्तं यद् वक्षः-स्थलं, तस्य वल्लभेन वक्षस्य् अनर्घ्येण हारेण स्व्-अलङ्कृतम् इत्य् अर्थः ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वत्स ! हे विदुर ! श्रीवत्स-युक्तं यद् वक्षः-स्थलं तस्य वल्लभेन हारेण ॥२८॥
———————————————————————————————————————
॥ ३.८.२९ ॥
परार्ध्य-केयूर-मणि-प्रवेक-
पर्यस्त-दोर्-दण्ड-सहस्र-शाखम् ।
अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम्
अहीन्द्र-भोगैर् अधिवीत-वल्शम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तस्माद् अव्यक्तम् उत्पन्नं त्रि-गुणं द्विज-सत्तमा इति मोक्ष-धर्मे ॥२९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-चन्दन-वृक्ष-रूपकेण निरूपयितुं तं विशिनष्टि । परार्ध्यानि श्रेष्ठानि केयूराण्य् अङ्गदानि मणि-प्रवेकाश् च मण्य्-उत्तमास् तैः पर्यस्ता व्याप्ता दोर्-दण्डा एव सहस्रम् अनन्ताः शाखा यस्य । चन्दन-वृक्षोऽपि केयूरादि-तुल्यैः फल-पुष्पादिभिर् व्याप्त-शाखो भवति । अव्यक्तं प्रधानं मूलम् अधो-भागो यस्य । यद् वा, अव्यक्तं ब्रह्म मूलं यस्य, ब्रह्माभिव्यक्ति-रूपत्वात् । वृक्षस्यापि मूलं न व्यक्तम् । भूवनात्मकम् अङ्घ्रिपेन्द्रम् । अहीन्द्रस्यानन्तस्य भोगैः फणैर् देहावयवैर् वाधिवीताः संवेष्टिताः स्पृष्टा वल्शाः स्कन्धा यस्य,वनस्पते शत-वल्शो विरोह [ऋग्।वे। ३.८.४] इति श्रुतेः । सोऽपि सर्पैर् वेष्टितो भवति ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (परमात्म-सन्दर्भः ३): अव्यक्त-मूलमित्य् अत्र अव्यक्तं प्रधानं मूलम् अधो-भागो यस्येत्य् अर्थः । भुवनाङ्घ्रिपेन्द्रम् इति भुवनानि चतुर्दश तद्-रूपा अङ्घ्रिपाः, तेषाम् इन्द्रं तन्-नियन्तृत्वेन वर्तमानम् इत्य् अर्थः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अव्यक्त-मूलम् इति । न व्यज्यते शास्त्रविद्भिर् न कथ्यते मूलं यस्य तं सर्व-मूलत्वेन मूलान्तरर-हितम् इत्य् अर्थः । अव्यक्तः स्वयं भगवांस् तन्-मूलम् इति वा भूवन-रूपाणाम् अङ्घ्रिपाणाम् इन्द्रम् ईश्वरम् ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-यशः-सौरभ-सुवासित-सर्व-विश्वत्वात् महा-चन्दन-वृक्ष-रूपकेण निरूपयितुं तं विशिनष्टि । पर्यस्ता विश्व-व्यापिनो दोर्-दण्डा एव सहस्रम् अनन्ताः शाख्या यस्य तम् । अव्यक्तं व्यञ्जनयापि कैर् अपि नोक्तं मूलम् अनादित्वात् यस्य तम् । यद् उक्तं—स आत्मा स्वाश्रयाश्रयः इति । वृक्ष-पक्षे स्पष्टम् । भुवनानि चतुर्दश अङ्घ्रिणा एकेनैव पाति रक्षति स चासाव् इन्द्र ऐश्वर्यवांश् चेत्य् एक-पाद-विभूति-पतिम् इत्य् अर्थः । पक्षे, भुवनेषु मध्ये ये अङ्घ्रिपास् तेषाम् इन्द्रम् अहीन्द्रस्यानन्तस्य भोगैः फणैः देहावयवैर् वा अधिवीताः स्पृष्टा वल्शाः स्कन्धा यस्य तं, शत-वल्शो विरोह [ऋग्।वे। ३.८.४] इति श्रुतेः । पक्षे, बहु-सर्प-वेष्टित-स्कन्ध-शाखादिकम् ॥२९॥
———————————————————————————————————————
॥ ३.८.३० ॥
चराचरौको भगवन्-महीध्रम्
अहीन्द्र-बन्धुं सलिलोपगूढम् ।
किरीट-साहस्र-हिरण्य-शृङ्गम्
आविर्भवत् कौस्तुभ-रत्न-गर्भम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेक्षां क्षिपन्तम् इत्य् अत्रैव पर्वत-रूपकेण निरूपितम् अपि विशेषणान्तरैः पुनर् निरूपयति । भगवान् एव मही-ध्रस्तम् । चराचराणाम् ओकः स्थानम् । सोऽपि तथा । अहीन्द्रस्य बन्धुम् । सोऽप्य् अहीन्द्राणां बन्धुः । सलिलेनोपगूढम् आवृतम् । पर्वतोऽपि मैनाकादिस् तथा । किरीट-साहस्रम् एव हिरण्य-शृङ्गाणि यस्य । सोऽपि मेर्वादिस् तथा । यथा पर्वतस्य गर्भे क्वचिद् रत्नम् आविर्भवति तथा आविर्भवत् स्पष्टं दृश्यमानं कौस्तुभ-रत्नं गर्भे मूर्ति-मध्ये यस्य तम् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चन्दन-वृक्ष-रूपकेण निरूप्य स्वस्य आश्रयोऽपि स्वम् एवेति दर्शयितुं चन्दन-पर्वत-रूपकेणापि निरूपयति । भगवान् एव महीध्रो मलय-गिरिस् तं चराचराणाम् ओक आस्पदम् अहीन्द्रोऽनन्तोऽहीन्द्राः सर्पाधिपाश् च । सलिलेन गर्भोदेन क्षीरोदेन च आलिङ्गितं किरीट-साहस्रम् एव हिरण्य-वर्णानि शृङ्गाणि यस्य तं मलयस्य स्वर्ण-वर्ण-शृङ्गत्वात् कौस्तुभ-रत्नं गर्भे मूर्ति-मध्ये यस्य तं मलयस्य पर्वतत्वेन रत्न-खनिमत्त्वात् ॥३०॥
———————————————————————————————————————
॥ ३.८.३१ ॥
निवीतम् आम्नाय-मधु-व्रत-श्रिया
स्व-कीर्ति-मय्या वन-मालया हरिम् ।
सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः
परिक्रमत्-प्राधनिकैर् दुरासदम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : सूर्येन्दु-वाय्व्-अग्न्य्-आदिभिस् त्रिधाम्नो विष्णोर् अगच्छद्भिः प्राधानिकैः ।
मुक्त-वाय्व्-आदिभिर् विष्णुं वृतं ब्रह्मा ददर्श ।
तद्-अन्य-भावतो नान्यद् अतस् तत् स्रष्टुम् ऐच्छत ॥ इति ब्रह्माण्डे ॥३१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, वन-मालया निवीतं कण्ठ-लम्बिन्या व्याप्तम् । आम्नाया वेदा एव मधु-व्रताः, तैः श्रीर् यस्यास् तया हरिम् इति पर्वतादि-रूपम् अपश्यत्, हरिर् असाव् इति ज्ञातवान् इत्य् अर्थः । सूर्यादिभिर् अगमम् अगम्यम् । स्व-व्यापारैर् आकलयितुम् अशक्यम् इत्य् अर्थः । किं च, त्रिष्व् अपि लोकेषु धाम स्फूर्तिर् येषां तैः । रक्षणार्थं परिक्रमद्भिः परितो धावद्भिः प्राधनिकैः प्रधनं सङ्ग्रामस् तत्-प्रयोजनैः सुदर्शनादिभिर् हेतु-भूतैर् दुरासदं दुष्प्रापम् ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निवीतं युक्तं हरिम् इति पर्वतादि-रूपं पश्यन् हरिर् असाव् इति ज्ञातवान् इत्य् अर्थः । सूर्यादिभिर् अगमं स्व-व्यापारैर् आकलयितुम् अशक्यम् इत्य् अर्थः । त्रिधामभिः सच्चिदानन्द-स्वरूपैः रक्षणार्थं परिक्रामद्भिः परितो धावद्भिः प्राधनिकैः प्रधनं सङ्ग्रामस् तेन दीव्यद्भिः सुदर्शनादिभिर् जय-विजयादि-पार्षदैर् वा हेतु-भूतैर् दुरासदम् अन्यैर् दुष्प्रापम् ॥३१॥
———————————————————————————————————————
॥ ३.८.३२ ॥
तर्ह्य् एव तन्-नाभि-सरः-सरोजम्
आत्मानम् अम्भः श्वसनं वियच् च ।
ददर्श देवो जगतो विधाता
नातः परं लोक-विसर्ग-दृष्टिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि अवं हरिम् अपश्यत् तर्ह्य् एव तदैव लोक-विसर्ग-दृष्टि संस् तस्य नाभि-सरसि सरोजं श्वसनं प्रलय-वायुं वियद् आकाशं च ददर्श ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हीति । अतः परं सृष्ट्य्-उपकरणम् ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्ह्य् एव तन्-नाभि-सरसि सरोजं सरोजे चात्मानम् आत्मनश् चतुर्-दिक्षु अन्तः श्वसनं वियच् चेति भूत-त्रिकं ददर्श । नातः परं पृथिव्य्-आदि । लोकानां विविधे सर्गे दृष्टिश् चिकीर्षा यस्य सः ॥३२॥
———————————————————————————————————————
॥ ३.८.३३ ॥
स कर्म-बीजं रजसोपरक्तः
प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा ।
अस्तौद् विसर्गाभिमुखस् तम् ईड्यम्
अव्यक्त-वर्त्मन्य् अभिवेशितात्मा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म-बीजं लोक-सृष्टेः कारणम् । रजसा उपरक्तो रजो-गुण-युक्तः । अतः प्रजाः स्रष्टुम् इच्छन्न् इयद् एव नाभि-सरोजादि-पञ्चकम् एव । विसर्गेऽप्य् अभिमुख-उदत्त-चित्तः अव्यक्त-वर्त्मनि भगवति निवेशित-चित्तः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स इति । रजसा युक्तः सन् प्रजाः स्रष्टुम् ऐच्छत् । इयत् नाभि-सरोजादि-पञ्चकम् एव लोक-सृष्टेः कारणं दृष्ट्वा विसर्गे दत्त-चित्तोऽपि अव्यक्त-वर्त्मनि भगवति निवेशित-चित्तः सन्न् अस्तौद् इत्य् अर्थः ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-बीजं लोक-सृष्टेः कारणम् । इयद् एव सरोजादि-पञ्चकम् एव विसर्गाभिमुखः विसर्गं कथम् अहं कुर्यां ? इति भावयन् प्रभुम् एवाहं शरणं यामीति विसर्गाभिनिवेशं परित्यज्य अव्यक्त-वर्त्मनि श्री-भगवति अभिनिवेशित आत्मा मनो यस्य सः ॥३३॥
———————————————————————————————————————
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
तृतीय-स्कन्धे अष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे
विदुर-मैत्रेय-संवादे भगवद्-दर्शनम्
अष्टमोऽध्यायः ।
॥ ३.८ ॥
(३.९)