०७ निर्गुण-सगुणत्वे

विषयः

निर्गुणस्य भगवतो गुण-क्रियादि-सङ्गः कथम् इति प्रश्नस्य मैत्रेय-द्वारा समाधानं श्रुत्वा
विदुरस्य पुनर् विविधाः प्रश्नाः ।

॥ ३.७.१ ॥

श्री-शुक उवाच—

एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः ।

प्रीणयन्न् इव भारत्या विदुरः प्रत्यभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्तमे संशय-च्छेदि प्रतिनन्द्य मुनेर् वचः ।

पुनः क्षत्त्रा कृता नाना प्रश्नाः सम्यग् उदीरिताः ॥

अथ ते भगवल्-लीला योग-मायोपबृंहिताः[भा।पु। ३.५.२२] इत्य्-आदिना माया-गुणैर् लीलया भगवान् सृष्ट्य्-आदि करोतीत्य् एवं ब्रुवाणं मैत्रेयं भारत्या प्रार्थना-रूपया प्रीणयन्न् इवेत्य् अभिप्रायाज्ञानेनाक्षेपात् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : इवेति वाक्यालङ्कारे ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्तमे भगवज्-जीव-गतान्यत् संशय-च्छिदा ।

भक्ति-जिज्ञासयान्योऽपि क्षत्तुः प्रश्नाः प्रकीर्तिताः ॥

एवं—

सा वा एतस्य सन्द्रष्टुः शक्तिः सद्-असद्-आत्मिका ।

माया-नाम महा-भाग ययेदं निर्ममे विभुः ।

काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।

पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भा।पु। ३.५.२५-२६]

इत्य्-आदि ब्रुवाणं भारत्या ब्रह्मंस् त्वया संसार-कूपाद् उद्धृत एवाहम् इति मधुरया वाचा प्रीणयन् इवेति विदुर-मनो-गताक्षेपस्य सहसैव मैत्रेयेणावगतत्वान् मैत्रेयं प्रीणयितुम् अशक्नुवन्न् इत्य् अर्थः ॥१॥

———————————————————————————————————————

॥ ३.७.२ ॥

विदुर उवाच—

ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः ।

लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्विकारस्य क्रिया, निर्गुणस्य च गुणाः कथम् ? लीलयेत्य् उक्तिः प्रयोजनाभावं परिहरति, न वस्तु-विरोधम् इति भावः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ स्वाभाविक-माया-शक्त्या परमेश्वरो विश्व-सृष्ट्य्-आदिकं करोति, जीवश् च तत्र मुह्यतीत्य् उक्तम् । तत्र सन्देहं प्रश्नोत्तराभ्यां परिहरति—ब्रह्मन्न् इत्य्-आदिना । हे ब्रह्मन् ! चिन्-मात्रस्य चिन्मात्र-स्वरूपस्य स्वतः स्वरूप-शक्त्या भगवतः श्री-वैकुण्ठादि-गत-तादृशैश्वर्यादि-युक्तस्य, अत एव निर्गुणस्य प्राकृत-गुणास्पृष्टस्य तत एव अविकारिणस् तादृक्-स्वरूप-शक्ति-विलास-भूतानां क्रियाणाम् अनन्तानाम् अपि सदोदित-वरानन्त-विध-प्रकाशे तस्मिन् नित्य-सिद्धत्वात् तत्-तत्-क्रियाविर्भाव-कर्तुस् तस्यावस्थान्तर-प्राप्तत्वाभावात् प्राकृत-कर्तुर् इव न विकारापत्तिर् इति ।

निर्विकारस्य च कथं सत्त्वादयः प्राकृत-गुणाः ?कथं वा तद्-आसङ्ग-हेतुकाः स्थित्य्-आदयः क्रियाश् च युज्येरन् ? ततश् च चिन्-मात्र-वस्तु-विरोधाद् एव ते च ताश् च न युज्यन्ते । भगवत्त्वे तु स्वैर-चेष्टयापि न युज्येरन् इत्य् आह—लीलया वापि इति । अत्राविकारित्व-निर्गुणत्वाभ्यां सह चिन्-मात्र-भगवत्त्वं चेत्य् उभयम् अपि स्वीकृत्यैव पूर्व-पक्षिणा पृष्टम् ।

ततश् च तस्य चिन्मात्र-स्वरूपस्य भवतु भगवत्त्वं, तन्-मात्रेऽस्माकं न सन्देहः, किन्तु तस्य कथम् इतर-गुणादि-स्वीकारो युज्यते ? इत्य् एव पृच्छ्यते इति वाक्यार्थः ॥२॥ [परमात्म-सन्दर्भ ८५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिन्-मात्रस्य गुणाः सत्त्वादयः क्रियाः सृष्ट्य्-आदयश् च कथं ? अत्र चिद्-रूपस्य चिन्मयस्येत्य्-आदिकम् अप्रयुज्य चिन्-मात्रस्येत्य् अवधारण-वाचि-मात्र-शब्द-प्रयोगाद् अचिद्-गन्धस्यापि तत्र राहित्यं बोधितं । ततश् च सा वा एतस्येत्य् अनेन सत्त्वादि-गुण-मय्या मायाया भगवच्-छक्तित्वेनोक्तत्वाच् छक्तेश् च स्व-भिन्नत्वासम्भवात् । वस्तुतो गुणास् तदीया एवेति, तस्य चिन्मात्रत्वे कथं सत्त्वादि-जड-गुणवत्त्वं ? सत्त्वादि-जड-गुणवत्त्वे च कथं चिन्-मात्रत्वम् ? इत्य् आक्षेप एकः । तथा विकारो हि काल-हेतुको गुण-धर्म एवेति तस्य तु चिन्मात्रत्वाद् एवाविकारित्वे कथं विकार-व्यञ्जक-क्रियावत्त्वं ?क्रियावत्त्वे च कथम् अविकारित्वम्? इति द्वितीयः ।

नन्व् एवम् असम्भवन्तोऽपि गुणाः क्रियाश् च तस्य स्वैर-लीलत्वात् सम्भवेयुः ? तत्राह—लीलया वेति नहि लीलयेत्य् उक्त्या विरोधः परिहर्तुं शक्यते, तस्य तादृश-लीलत्वे गुणवत्त्वस्य दुष्परिहरत्वाद् इति भावः । अत्र भगवत इति विशेष्यं भगवान् एव चिन्-मात्रा, न तु भग इति वाच्यं, यतो भगस्यापि भगवत्त्वम् अप्राकृतत्वं विष्णु-पुराणे दृष्टं, यथा—

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।

भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इति ।

अत एव देह-देहि-विभागोऽयं नेश्वरे विद्यते क्वचिद् इत्य् उक्तम्, अत एव भग-शब्द-वाच्यानां षड्-ऐश्वर्याणाम् अपि चिन्-मात्रत्वम् एव, न तु सत्त्वादि-गुण-परिणामत्वम् इति भगवत्त्वं स्वरूप-लक्षणम् एव । भगवत्त्वस्य मायिकत्वे तटस्थ-लक्षणत्वम् इति व्याचक्षाणा भ्रान्ता एव । इन्द्रस्य मायेयम् इति इन्द्रो मायया वृषभो भवतीत्य् उक्ते इन्द्रस्य वृष-रूपत्वम् एव स्व-माया-कृतं प्रतीयते, न त्व् इन्द्रत्वं यथा तथैव सेयं भगवतो मायेति भगवान् एव मायया विश्वं भवतीत्य् उक्त्या भगवतो विश्व-रूपत्वम् एव मायिकं स्यान्, न तु भगवत्त्वम् इति युक्तेश् च ॥२॥

———————————————————————————————————————

॥ ३.७.३ ॥

क्रीडायां उद्यमोऽर्भस्य कामश् चिक्रीडिषान्यतः ।

स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्भकवल् लीलापि न युज्यते वैषम्याद् इत्य् आह—उद्यमयति प्रवर्तयतीत्य् उद्यमः। अर्भकस्य क्रीडायां प्रवृत्ति-हेतुः कामोऽस्ति । अन्यतस् तु वस्त्व्-अन्तरेण बालान्तर-प्रवर्तनेन वा तस्य क्रीडेच्छा भवति । ईश्वरस्य तु स्वतस् तृप्तस्य कथं कामः ? अन्यतः सदा निवृत्तस्य चासङ्गाद् अद्वितीयस्य कथम् अन्यतश् चिक्रीडिषा ? इत्य् अर्थः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (परमात्म-सन्दर्भ ८६) : ततश् चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश् च न सम्भवन्त्य् एवेति द्विगुणीभूयैव प्रश्नः । किं चार्भक-लीलापि न युज्यते, वैषम्यात् इत्य् आह1—क्रीडायाम् इति ।

उद्यमयति प्रवर्तयति इत्य् उद्यमःअर्भकस्य क्रीडायां प्रवृत्ति-हेतुः कामोऽस्ति । अन्यतस् तु वस्त्व्-अन्तरेण बालान्तर-प्रवर्तनेन वा तस्य क्रीडेच्छा भवति । भगवतस् तु स्वतः स्वेनात्मना स्वरूप-वैभवेन च तृप्तस्य अत एव अन्यतःसदा निवृत्तस्यकथम् अन्यतो जीवाज् जगतश् च निमित्तात् चिक्रीडिषा इति । न च तस्य ते गुणास् ताः क्रियाश् च न विद्यन्ते इत्य् अपलपनीयम् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च चिन्-मात्रत्वे भगवत्त्वे2 च तस्य तुच्छा गुणाः क्रियाश् च न सम्भवन्त्य् एवेति द्विगुणी-भूयैव प्रश्नः । लीलया वापि कथं युज्येरन् ? इति विशदयति—क्रीडायाम् इति ।

अविकारित्वादि-तत्-तद्-उत्कर्ष-हीनस्य अर्भकस्यचिक्रीडिषा-रूपः कामः, ताभ्याम् अन्यस्य क्रीडायां उद्यमे हेतुर् भवति । भगवतस् तु स्वेनात्मना3 स्वरूप-वैभवेन च तृप्तस्य, अत एव अन्यतः सदानिवृत्तस्यकथम् असाव् अन्यतो जीवाज् जगतश् च निमित्तात् चिक्रीडिषा सम्भवेत् ? ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, लीलयेत्य् उक्त्या विरोध-परिहारो मास्तु, लीलैव तावद् ईश्वरे हेत्व्-अभावान् न घटत इति स-दृष्टान्तम् आह—क्रीडायाम् इति । उद्यमयति प्रवर्तयतीत्य् उद्यमः काम एव अर्भकस्यस्वाभाविकः क्रीडायां प्रवृत्ति-हेतुर् अस्ति । तथा अन्यतो बालान्तर-प्रवर्तनम् अपि चिक्रीडिषास्ति परमेश्वरस्य आत्मारामत्वात् कथं कामः, ईश्वरान्तराभावात् ? कथम् अन्यतश् चिक्रीडिषा ? इत्य् आह—स्वतस् तृप्तस्येत्य्-आदि । अन्यतो निवृत्तस्य अन्य-रहितस्य ॥३॥

———————————————————————————————————————

॥ ३.७.४ ॥

अस्राक्षीद् भगवान् विश्वं गुण-मय्य् आत्म-मायया ।

तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् चोक्तं स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजे[भा।पु। ३.६.१] इत्य्-आदिनाविद्योपाधेर् जीवस्य भोगार्थम् ईश्वरः सृष्ट्य्-आदि करोतीति । तद् अप्य् आक्षेप्तुम् अनुवदति—

अस्राक्षीद् इति । गुण-मयी आत्मनो जीवस्य कर्तृत्व-भोक्तृत्वादि-मोहोत्पादिका या माया, तया सृष्टवान् । तद् उक्तं प्रथमे—

यया संमोहितो जीव आत्मानं त्रि-गुणात्मकम् ।

परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥ [भा।पु। १.७.५] इत्य्-आदिना ।

अत्र च, अतो भगवतो माया मायिनाम् अपि मोहिनी[भा।पु। ३.६.३९] इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्य् अभितो धारयिष्यति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न च तस्य ते गुणास् ताः क्रियाश् च न विद्यन्त इत्य् अपलपनीयं, तत्रैव प्रसिद्धेर् इत्य् आह—अस्राक्षीद् इति । गुण-मय्या त्रैगुण्य-व्यञ्जिन्या आत्माश्रितया माययासंस्थापयति पालयति प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति ॥४॥ [परमात्म-सन्दर्भ ८७]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च तस्य ते गुणाः क्रियाश् च न सन्तीत्य् अपलपनीयं तथैव प्रसिद्धेर् इत्य् आह—अस्राक्षीद् इति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति ॥४॥

———————————————————————————————————————

॥ ३.७.५ ॥

देशतः कालतो योऽसाव् अवस्थातः स्वतोऽन्यतः ।

अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : दुर्भग-क्लेश-शरीर-स्थत्वात् तस्यापि भाव्यम् । न च तद् युज्यते । सेयं भगवतो माया, अयं हि भगवन्-महिमा । तस्य कार्पण्यं बन्धनादि न युज्यत इति यद् उक्तं तन् न्याय्यम् एव । दुर्भगादि शरीर-स्थस्यापि तद्-दोषास्पर्श एव तन्-महिमेत्य् अर्थः ।

कथं देह-परो देवो लिप्येत स हि बन्धनैः ।

कथं न दुःखी स भवेद् दुःखी चेद् ईश्वरः कुतः ॥

महिमा परमस्यैष यद् देहस्थो न बाध्यते ।

यद् दुःखी न स ईशानो मायेति महिमोच्यते ॥

प्रधानं मय इत्य् आहुः प्राधान्यान् मयता भवेत् ॥ इति भाल्लवेय-श्रुतिः ।

अविलुप्त-बोध-रूपत्वान् नासौ प्रकृति-देहवान् ।

न सृष्ट्य्-आदिकं भ्रान्तिर् भ्रान्ति-वादा हि दानवाः ॥

अतो भ्रान्त्य्-आदि-सम्बन्धो नास्य क्वचन युज्यते ।

भ्रान्त्या जीवस्य संसार ईश-ज्ञानाद् विलीयते ।

भ्रान्तिर् देहाद्य्-अभिमतिर् ईश-ज्ञानाद् विनश्यति ॥ इति ब्रह्माण्डे ॥५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतच् च जीवस्याविद्याश्रयत्वे घटेत, न तु तत् संभवतीत्य् आह—देशत इति । योऽसौ देशादिभिर् अविलुप्तावबोध आत्मा जीवः, ब्रह्म-स्वरूपत्वात् । स कथम् अजयाऽविद्यया युज्येत? तत्र देशतो दीप-प्रभाया इव लोपो नास्ति, सर्व-गतत्वात् । न कालतः, विद्युत इव नित्यत्वात् । नावस्थातः, स्मृतिवद् अविक्रियत्वात् । न स्वतः, स्वप्नवत् सत्यत्वात् । नान्यतः, घटादिवद् अद्वितीयत्वात् । एवम् एतैर् यस्य बोधो न लुप्यते, स कथम् अजया युज्येत ? अजा चात्राविद्यैव, न माया, तस्या अवबोधेन विरोधाभावात् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवस्य कथं माया-मोहितत्वं घटेत ? इत्य् आक्षेपान्तरम् आह—देशत इति । योऽसौ देशादिभिर् अविलुप्तावबोध आत्मा जीवः स कथमजया अविद्यया युज्येत? तत्र देश-व्यवधानतो देश-गत-दोषतो वा चक्षुः प्रकाश इव,कालतो विद्युद् इव,अवस्थातः स्मृतिर् इव, स्वतः शुक्ति-रजतम् इव, अन्यतो घटादि-वस्त्व् इव, न तस्यावबोधो लुप्यते अव्याहत-स्वरूप-भूत-ज्ञानाश्रयत्वाद् एवेत्य् अर्थः ॥५॥ [परमात्म-सन्दर्भ ८७]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवस्य च कथं माया-मोहितत्वं घटेतेत्य् आक्षेपान्तरम् आह—देशत इति । योऽसौ नित्य-ज्ञानत्वात् देशादिभिर् अविलुप्तावबोध आत्मा जीवः, स कथम् अजया अविद्यया युज्येत अजा-योगोत्थस् तस्यावबोध-लोपः कथं स्यात्? इत्य् अर्थः । तत्र देशत उषर-देशत उप्तं बीजम् इव, कालतो विद्युद् इव, अवस्थातः स्मृतिर् इव, स्वतः स्वप्न इव, अन्यतो घटादिर् इव यस्य चिद्-वस्तुत्वाद् अवबोधो न लुप्तो भवितुम् अर्हति, स कथम् अविद्यया विलुप्त-विबोधः क्रियते? इत्य् अर्थः ॥५॥

———————————————————————————————————————

॥ ३.७.६ ॥

भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः ।

अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, ब्रह्म-रूपत्वाद् एव जीवस्य संसारोऽपि न विद्यत इत्य् आक्षिपति । सर्व-क्षेत्रेष्व् अवस्थितो भोक्तापि वस्तुतो भगवान् एव, चिद्-रूपत्वेन तद्-व्यतिरेकाभावात् । एवं च सत्य् अमुष्य जीवस्य दुर्भगत्वम् आनन्दादि-भ्रंशः कर्मभिर् हेतु-भूतैः क्लेशो वा कुतः? कर्म-संबन्धाभावात् । अन्यथेश्वरस्यापि तत्-प्रसङ्गः स्याद् इति भावः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रैव विरोधान्तरम् आह—भगवान् एक एवेति । एष एक एव भगवान् परमात्मापि सर्व-क्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु देहेष्व् अवस्थितः । तत्र सति कथममुष्य जीवस्य दुर्भगत्वं स्वरूप-भूत-ज्ञानादि-लोपः कर्मभिः क्लेशश् च तस्य वा कुतो नास्ति ? न ह्य् एकस्मिन् जलादौ स्थितयोर् वस्तुनोः कस्यचित् तत्-संसर्गः, कस्यचिन् नेति युज्यत इत्य् अर्थः ॥६॥ [परमात्म-सन्दर्भ ८९]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चायम् अन्यायोऽराजक द्वैराज्ययोर् इव सम्भावनीयो यद् अजा निरपराधं जीवं पराभवेद् इत्य् आह—सर्वेषाम् अपि जीवानां क्षेत्रेषु देहेषु भगवान् एव अवस्थितः अन्तर्यामि-रूपेण स्वयम् एव स्थितः, न तु राजेव स्व-राज्येषु स्व-प्रतिनिधि-पुरुष-द्वारेत्य् अर्थः । एक एवेति द्वैराज्य-शङ्कापि परिहृता । अत एव तस्मिन् भगवति सर्व-प्रतिपालके अत्रैव तिष्ठत्य् अपि अमुष्य जीवस्य दुर्भगत्वम् आनन्दादि-भ्रंशो वा कर्मभिर् आविद्यकैः क्लेशो वा कुतः ॥६॥

———————————————————————————————————————

॥ ३.७.७ ॥

एतस्मिन् मे मनो विद्वन् खिद्यते\ऽज्ञान-सङ्कटे ।**

तन् नः पराणुद विभो कश्मलं मानसं महत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञानम् एव सङ्कटं दुर्गं तस्मिन् । तन् मानसं कश्मलं मोहं पराणुद अपाकुरु ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अज्ञानम् एव सङ्कटं दुर्गं तस्मिन् कश्मलं मोहं पराणुद अपाकुरु न इत्य् अस्मदोर् द्वयोश् चेति बहु-वचनम् ॥७॥

———————————————————————————————————————

॥ ३.७.८ ॥

श्री-शुक उवाच—

स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः ।

प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चोदित आक्षिप्तः स्मयन्न् इव प्रौढिम् आविष्कुर्वन्न् इव । वस्तुतस् तु गत-स्मयः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनिर् भगवच्-चित्त इति कथम् अत्र समाधास्य इति मनन-परो भगवन्तं सस्मारेत्य् अर्थः । ततश् च सहसैवोपलब्धार्थः स्मयन्न् इव अहो दुःसमाधाना इमे आक्षेपा इति बहिर् विस्मयं प्राप्नुवन्तस् तु सुसमाधाना एवेमे इति विस्मय-रहित एवेत्य् अर्थः ॥८॥

———————————————————————————————————————

॥ ३.७.९ ॥

मैत्रेय उवाच

सेयं भगवतो माया यन् नयेन विरुध्यते ।

ईश्वरस्य विमुक्तस्य कार्पण्यं उत बन्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतोऽचिन्त्य-शक्तेर् ईश्वरस्य सेयं माया नयेन तर्केण विरुध्यत इति यत् । तर्कं विरोधम् एवानुवदति—विमुक्तस्य एव पुंसोऽविद्या-बन्धनं कार्पण्यं चेति ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र केवलं चिन्-मात्रत्वं जीवेऽपि न सम्भवतीति भगवत्त्वम् एवाङ्गीकृत्य श्री-मैत्रेय उवाच—सेयम् इति । यया विश्व-सृष्ट्य्-आदिकं भवति, सेयंभगवतोऽचिन्त्य-स्वरूप-शक्तेर् मायाख्या शक्तिः, यत् या नयेन तर्केण विरुध्यते तर्कातीततया सेयम् अप्य् अचिन्त्येत्य् अर्थः । यद्यप्य् एवं द्वयोर् अप्य् अचिन्त्यत्वं, तथापि भगवतो मायेत्य् अनेन व्यक्तत्वात् स्वरूप-शक्तेर् अन्तरङ्गत्वाद् बहिरङ्गाया मायाया गुणैः सत्त्वादिभिस् तत्-कार्यैः स्थापनादिभिश् च नासौ स्पृश्यत इत्य् अर्थः ।

तन्त्रेण चायम् अर्थः—यत् यथा मायया येन भगवता सह न विरुद्ध्यते, नासौ विरोध-विषयी-क्रियत इति । यत् या येन भगवता न विरुध्यते, न सर्वथा निर्विषयीक्रियत इति च ।4

एवम् एव षष्ठे नवमाध्याये—

दुरवबोध इव तवायं विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन सगुणम् अगुणः सृजसि पासि हरसि ॥ [भा।पु। ६.९.३४]


तद् एतद्-अर्थस्यानुकूलो\ऽयम् अपि शब्द-ध्वनि-लम्भितो\ऽर्थ-विशेषः
स्फुरति---यथा नयेन तर्केण विरुध्यत इति । यत् सेयं
भगवतो माया इति । यद् यया मायया येन भगवता सह न
विरुध्यते, नासौ विरोध-विषयी-क्रियत इति । यद् वा, येन
भगवता न विरुध्यते, न सर्वथा निर्विषयीक्रियत इति च । इति

इति गद्येन तस्य स-गुण-कर्तृत्वं विरुध्य, पुनः—

अथ तत्र भवान् किं देवदत्तवद् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्व-कृत-कुशलाकुशलं फलं उपाददात्य् आहो स्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उदास्त इति ह वाव न विदामः ॥ [भा।पु। ६.९.३५]

इति गद्येनान्तर्यामितया गुण-विसर्ग-पतितत्वेन जीववद् भोक्तृत्व-योगं सम्भाव्य,

न हि विरोध उभयं भगवत्य् अपरिमित-गुण-गण ईश्वरेऽनवगाह्य-माहात्म्ये ऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलिलान्तःकरणाश्रय-दुरवग्रह-वादिनां विवादानवसर उपरत-समस्त-मायामये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् ॥ [भा।पु। ६.९.३६]

इति गद्येन तत्र तत्रावितर्क्य-शक्तित्वम् एव सिद्धान्ते योजितम् । तत्र तत्रावितर्क्य-शक्तित्वेन सिद्धान्ते योजितम् ।

तत्र स्वरूप-शक्तेर् अवितर्क्यत्वं भगवति [भा।पु। ६.९.३६] इत्य्-आदिभिर् विशेषणैर् मायायाश् च आत्म-मायाम् इत्यनेन दर्शितम् । तत्र स्वरूप-द्वयाभावात् [भा।पु। ६.९.३५] इत्य् अस्य तथाप्य् अचिन्त्य-शक्त्या तत्-कर्तृत्वं तद्-अन्तः-पातित्वं च विद्यते इत्य् अर्थः ।

सम-विषम-मतीनाम् [भा।पु। ६.९.३७]5 इति तु गद्यं तथाप्य् उच्चावच-बुद्धीनां तथा स्फुरसीति प्रतिपत्त्य्-अर्थं ज्ञेयम् ।

दुरवबोध इव [भा।पु। ६.९.३४] इति प्राक्तन-गद्ये त्व् अशरीर इति शरीर-चेष्टां विना,अशरण इति भूम्य्-आद्य्-आश्रयं विना इत्य् अर्थः । अथ तत्र इत्य्-आदौ स्वकृतेऽपि तस्यापि हेतु-कर्तृत्वाद् योजनीयम् । तस्माद् अत्रापि स्वरूप-शक्तेर् एव प्राधान्यं दर्शितम् ।

अथ तत्र इत्य् आदौ स्व-कृतेति तस्यापि हेतु-कर्तृत्वं योजनीयं, तस्माद् अत्रापि स्वरूप-शक्तेर् एव प्राबल्यं6 दर्शितम्, अत एव ऋतेऽर्थं यत् प्रतीयेत[भा।पु। २.९.३३] इत्य् आदौ मायाया आभास-स्थानीयत्वं प्रदर्श्य, तद्-अस्पृश्यत्वम् एव भगवतो दर्शितम् । त्वम् आद्यः पुरुषः साक्षाद् [भा।पु। १.७.२३] इत्य् आदौ, माया व्युदस्य चिच्-छक्त्या इत्य् अनेन च तथा ज्ञापितम् । माया परैत्याभिमुखे च विलज्जामाना[भा।पु। २.७.४७] इत्य् अनेन च ।

तद् एवं भगवति तद्-विरोधं परिहृत्य जीवेऽप्य् अविद्या-सम्बन्धम् अतर्क्यत्वेन दर्शिततया तन् माययैव समादधाति । ईश्वरस्य इति यद् इत्य् अनेनैव सम्बध्यते । अर्थ-वशाद् अत्र च तृतीयया परिणम्यते । यत् यथा ईश्वरस्य स्वरूप-ज्ञानादिभिः समर्थस्य, अत एव विमुक्तस्य [जीवस्य7] कार्पण्यं तत्-तत्-प्रकाश-तिरोभावः, तथा बन्धनं दर्शित-गुण-मय-जाल-प्रवेशश् च भवतीति । तद् उक्तं—तत्-सङ्ग-भ्रंशितैश्वर्यं [भा।पु। ६.५.१५] इति ।

तद् एवं सर्वम् अभिप्रेत्य श्रुतयोऽप्य् आहुः—स यद् अजया त्व् अजां [भा।पु। १०.८७.३८] इत्य्-आदाव् अपेत-भग इति च ।

अत्र मूल-पद्ये भगवतो मायेत्य् अनेन भगवत्त्वं मायिकम्8 इत्य् आयातम् । इन्द्रस्य मायेत्य् अत्र यथेन्द्रत्वम् एवं पूर्वत्रापि ज्ञेयम् ॥९॥ [परमात्म-सन्दर्भ २५, ९०]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा प्रसिद्धेयं भगवतो\ऽचिन्त्यैश्वर्यस्य माया यत् या नयेन तर्केण विरुद्ध्यते अतर्क्येत्य् अर्थः । स्वयम् अचिद्-रूपापि चिन्-मात्रस्य अत्व एव शक्तिर् अतस् तदीयाः सत्त्वादयो\ऽपि भगवत एव गुणा उच्यन्ते । तद् अपि भगवान् स्वरूपतो निर्गुण एव । यथा ज्योतिर्-मात्रस्यापि सूर्यस्य मेघान्धकार-हिमादयो ज्योतिः प्रतिकूला अपि तस्यैव भवन्ति । यथैव सूर्यात् प्रभवन्ति[भा।पु। ४.३१.१५] इत्य् अनन्तरं, यथा नभस्य् अभ्र-तमः-प्रकाशा[भा।पु। ४.३१.१७] इति चतुर्थे । प्राणादिभिः स्व-विभवैर् उपगूढम् अन्यो मन्येत सूर्यम् इव मेघ-हिमोपरागैर् इति श्री-दशमे च श्री-नारदोक्तेर् दृष्टान्तेऽप्य् अत्रातर्क्यतैव । एवम् एव स्वरूपतो निर्विकारस्यैव भगवतः शक्त्या माययैव विश्व-सृष्ट्य्-आदि-क्रियाः शक्ति-शक्तिमतोर् अभेदात् । यद् उक्तं भगवता—

प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।

सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। ११.२४.१९] इति ।

तद् एवम् ईश्वर-गतं संशयं छित्त्वा देशतः कालत [३.७.६] इत्य्-आदिनोक्तं जीव-गतम् अपि संशयं छिन्नत्ति—ईश्वरस्येति सार्ध-द्वयेन । ईश्वरस्य स्वरूप-ज्ञानानन्दाद्य्-अनुभव-समर्थस्यापि जीवस्य दुर्भगत्वादि-कार्पण्यं तथा विमुक्तस्यापि बन्धनं यत् सेयं माया माया-वृत्तिर् अविद्या । अविद्या-निबन्धनम् एवैतद् द्वयम् इत्य् अर्थः

अयम् अर्थः—अजया जीवस्य कथं ज्ञान-लोप इति त्वयोच्यते । स च ज्ञान-लोपो यदि सत्यः स्यात्, तदा सा अजा स्व-शक्तिर् अपि भगवता दण्ड्या स्यात्, किन्तु स नैव सत्यः यथा हृदि स्थितम् अपि रत्न-पदकं विस्मृत्य जनेन नास्ति पदकम् इति खिद्यते । यथा चान्येन कृतम् अपि चौर्यं विभ्रान्ति-वशान् मयैव हृतम् इत्य् अभिमन्यते, तद्-अनन्तरं च राजकीय-पुरुष-दत्तं तत्-फलं दुःखम् अपि भुज्यत एव, तथैवानाद्य्-अविद्या-सङ्ग-वशात् जीवेन स्व-ज्ञानानन्दं विस्मृत्य देहाभिमान-प्राप्तं देह-धर्मं दुर्भगत्वादिकं च प्राप्य यदि क्लिश्यति, तर्हि कस्मै दोषो देय इति । अत्र तत्-सङ्ग-भ्रंशितैश्वर्यं संसरन्तं कुभार्यवद् इत्य्-आदि दृष्टेः किञ्चिद् ऐश्वर्य-सम्भवात् जीवोऽपीश्वर-शब्देनोक्तः ।

केचित् पुनर् एवं व्याचक्षन्ते—देशतः कालत इत्य्-आद्य् अविलुप्तावबोध आत्मा परमात्म शुद्ध-चैतन्य-रूपः स कथम् अविद्यया युज्यत इति पर-मतम् आश्रित्य पूर्व-पक्षिणः प्रश्नस्योत्तरम् आह—सेयम् इति । इयम् एव भगवतो माया भवेत् । माया-मोहितत्वं विना ईदृशः प्रश्नो न घटत इत्य् अर्थः । यद् यस्मात् नयेन नीत्या विरुद्ध्यते । नीति-विरोधम् एवाह—ईश्वरस्य परमात्मनोऽपि माया-मोहितत्वेन जीवत्वे सति कार्पण्यं बन्धनं च न ह्य् एकम् एव शुद्ध-चैतन्यं मायया मोहितं सद् एव जीव इति तदैव अमोहितं सद् एव परमात्मेति वक्तुं युज्यते । न हि स्व-मायया स्वयं मोहितश् चामोहितश् च युगपद् एव कोऽपि भवतीति परम एवानयः । तस्मात् यैर् एवं पृच्छ्यते कष्ट-सृष्ट्या समाधीयते च, त एव माया-मोहिता ज्ञेया इति । वस्तुतस् तु परमात्म-जीवात्मनौ सूर्य-तत्-किरणाव् इव जात्यैव मिथो विलक्षणौ चैतन्य-चैतन्य-कणौ भवत इति सिद्धान्तः । छाया-किरणौ यथा सूर्यत एव भवतः, अथापि सूर्य-तुल्य-कणौ सूर्यान् न भिद्येते बध्येते च, तथैव माया-शक्ति-जीव-शक्ती परमेश्वराद् उद्भूते अप्य् अनादी अभिन्ने अपि स्वरूपतो भिन्ने एव । तथा च वैद्यके—पुंसोऽस्ति प्रकृतिर् नित्या प्रतिच्छायेव भास्वत इति । तथा च श्रुतिः—यथाग्नेः विस्फुलिङ्गा व्युच्चरन्ति [बृ।आ।उ। २.१.२०] इत्य् एवम् एवात्मन इति जीवस्य शक्तित्वम् ।

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।

जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥ [गीता ७.५] इति श्री-गीता-सूक्तम् ॥९॥

———————————————————————————————————————

॥ ३.७.१० ॥

यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः ।

प्रतीयत उपद्रष्टुः स्व-शिरश्-छेदनादिकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रोदाहरणम् आह—यत् यथा अर्थेन शिरश्-छेदादिना विनाप्य् उपद्रष्टुः स्वप्न-साक्षिणो ममेदं शिरश् छिन्नम् इत्य् आत्म-विपर्ययः केवलं मृषैव प्रतीयते, तद्वत् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनर् अपि जीवस्य वस्तुतः तत्-तद्-अवस्थत्वाभावेऽपि भगवन्-माययैव तत्-तत्-प्रतीतिर् इति स-दृष्टान्तम् उपपादयति—यद् अर्थेन विनामुष्येति । यद्यस्या मायाया हेतोर् अर्थेन विना अपि । यद्यपि तस्य काल-त्रयम् अपि सोऽर्थो नास्ति, तथाप्य् आत्म-विपर्यय आत्म-विस्मृति-पूर्वक-पराभिमानेनाहम् एव तद्-धर्मीत्य् एवं-रूपो यः सोऽर्थः स्यात् । उपद्रष्टुर् जीवस्य । तृतीयार्थे षष्ठी । स्वप्नावस्थायां जीवेन स्व-शिरश्-छेदनादिकोऽतीवासम्भवोऽर्थः प्रतीयते । न हि तस्य शिरश् छिन्नं, न तु वा स्व-शिरश् छेदं कोऽपि पश्येत्, किन्तु भगवन्-मायैवान्यत्र-सिद्धं तद्-रूपम् अर्थं तस्मिन्न् आरोपयतीति, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे।सू। ३.२.३] इति न्यायेन ॥१०॥ [परमात्म-सन्दर्भ ३१, ९२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र भगवतः पृष्ठ-स्थितया अनाद्य्-अविद्यया तमः-स्वरूपया अनादि-वैमुख्य-रूप-भगवत्-पृष्ठ-स्थानां जीवानां ज्ञानं यल् लुप्यते, तस्य न वस्तुत्वं, कारणं नापि प्रयोजनं किम् अप्य् अस्ति तमसः स्वभाव एवायं यत् क्षीण-तेजस्विनस् तेजस् तेन लुप्यते इत्य् आह—यद् अर्थेनेति । यद् यतः अर्थेन वस्तुना कारणेन प्रयोजनेन च विनैवामुष्य पुंसो जीवस्य आत्म-विपर्ययो ज्ञानानन्द-भ्रंशः प्रतीयते

अर्थो विषयार्थनयोर् धन-कारण-वस्तुषु ।

अभिधेये च शब्दानां निवृत्तौ च प्रयोजने ॥ इति मेदिनी ।

अत्र दृष्टान्तः—द्रष्टुः स्वप्न-साक्षिणः उप समीपे ममेदं शिरश् छिन्नम् इति शिरसः सत्त्वेऽपि शिरसोऽभावः स्वप्न-दशायां प्रतीयते, तथैव वस्तुतो ज्ञानानन्दादि-भ्रंशाभावेऽप्य् अविद्या-दशायां तद्-भ्रंशः प्रतीयते । तमसापि तैजसस्य स्वर्ण-रूप्यादेस् तेजो नलुप्यते, किन्तु आव्रियते मात्रं, तथा बलवत्-तेजसा पद्मरागादिना तमोऽपि लुप्यते यथा तथा भक्त-जीवेनाविद्यापि भिद्यत इति ज्ञेयम् ।

द्वितीय-व्याख्यायां तु तस्माद् ईश्वरस्य पूर्ण-सच्-चिद्-आनन्दस्य परमात्मः सर्वज्ञस्य सर्व-व्यापकस्याविद्या-बन्धाशङ्कापि दोष एव । स एवाविद्याया जीवात्म स एवाविद्यापगमे परमात्मेति सिद्धान्तोऽपि बहिर्-मुखतैव । किन्त्व् ईश्वर-चैतन्याज् जातस्यैव विलक्षणस्य चित्-कणस्यासर्वज्ञस्य तदीय-तटस्थ-शक्तेर् जीवस्यैवाविद्यया बन्धः स चाप्य् अवस्तु-भूत एवेत्य् आह—यद् अर्थेनेति । पूर्ववद् एव व्याख्या अमुष्य पुंसो जीवस्यैव न त्व् अन्यस्यास्मद्-अनुभूत-चरस्य परमात्मनो हरेर् इत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ ३.७.११ ॥

यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः ।

दृश्यतेऽसन्न् अपि द्रष्टुर् आत्मनोऽनात्मनो गुणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हीश्वरस्यापि किं न प्रतीयेत ? तत्राह—यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधिकृतः कम्पादि-धर्मो दृश्यते, न त्व् आकाशे स्थितस्य, तथा अन्आत्मनो देहादेर् धर्मोऽसन्न् अपि तद्-अभिमानिनो द्रष्टुर् आत्मनो जीवस्यैव, न त्व् ईश्वरस्येत्य् अर्थः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव शुद्धस्यापि सतो जीवस्यौपाधिकेनैव रूपेणोपाधि-धर्मापत्तिर् इति दृष्टान्तान्तरेणोपपादयति—यथा जले इति ।

यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधि-कृतः **कम्पादि-**धर्मो दृश्यते न त्व् आकाश-स्थितस्य, तद्वद् अनात्मनः प्रकृत-रूपोपाधेर् धर्मः आत्मन शुद्धस्य असन्न् अपि "अहम् एव सोऽयम्" इत्य् आवेशान् माययोपाधि-तादात्म्यापन्नस्याहङ्कार-भावस्य प्रतिबिम्ब-स्थानीयस्य तस्य द्रष्टुर् आध्यात्मिकाद्य्-अवस्थस्यैव यद्यपि स्यात्, तथापि शुद्धोऽसौ तद्-अभेदाभिमानेन तं पश्यतीति तस्यैव स्याद् इत्य्9 अर्थः। तद् उक्तम् एकादशे श्री-भगवता—

नृत्यतो गायतः पश्यन् यथैवानुकरोति ताम् ।

एवं बुद्धि-गुणान् पश्यन्ननीहोऽप्य् अनुकार्यते ॥[भा।पु। ११.२२.५३] इति ।

तथैवोक्तम्—शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः[भा।पु। ५.११.१२]इति । वि-शब्दस्य चात्र तद्-आवेश एव तात्पर्यं, तस्माद् भगवतोऽचिन्त्य-स्वरूपान्तरङ्ग-महा-प्रबल-शक्तित्वाद् बहिरङ्गया प्रबलयाप्य् अचिन्त्ययापि माययापि न स्पृष्टिः । जीवस्य तु तया स्पृष्टिर् इति सिद्धान्तितम् ॥११॥ [परमात्म-सन्दर्भ ९२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ज्ञानानन्दाद्य्-आवरणं जीवस्य भवतु नाम । राग-द्वेष-शोक-मोह-कामोदयो धर्मास् तेन कुतो लब्धाः ? तत्राह—यथेति । अनात्मनोऽन्तः-करणस्यैव गुणः शोक-मोहादि द्रष्टुर् आत्मनो जीवस्य असन् तत्र न सम्भवन्न् अपि दृश्यते, तत्र लिङ्ग-देहाध्यासात् प्रतीयते इत्य् अर्थः ।

उपाधि-धर्मस्योपहित-वृत्तित्वेन प्रतीतौ दृष्टान्तः—यथा जले इति । तत्-कृतः जलोपाधि-कृतः कम्पादिश् चन्द्रस्य प्रतीयते, वस्तुतस् तु न स चन्द्रस्य किन्तु जलस्यैवायम् अर्थः । जले यश् चन्द्रो दृश्यते, स हि चन्द्र-मण्डलस्य किरण-पुञ्ज एव, न तु चन्द्रः । तथा हि चन्द्र-सूर्यादि-किरणः जल-स्थल-वृक्ष-भित्ति-पाषाणादिषु प्रसर्पन्न् अपि तेषु मध्ये यत् स्वच्छं तत्र लोकैः, स प्रतिबिम्बतयोच्यते । चन्द्रो हि मुख-नासिका-हस्त-पादादि-भूषण-वाहनादि-परिकर-विशिष्टत्वेनैव तत्रत्य-जनैर् अनुभूयते ।

स हि भगवद्-दृष्टान्तः । स एव स्व-स्वरूप-भूत-किरण-पुञ्ज-व्याप्तस् तु किञ्चिद् अन्तिक-स्थैः किञ्चिद् दूर-स्थैश् च किञ्चिद् विशेषत्वेन चानुभूयमानः ।

क्रमेण परमात्म-दृष्टान्तो ब्रह्म-दृष्टान्तश् च ज्ञेयः । तद्-बहिर्-भूत-किरण-पुञ्जस् तु मण्डलाकार-समष्टि-जीव-दृष्टान्तः । तत्-प्रतिबिम्बो यो जले दृश्यते, स प्रतिबिम्बत्वेन प्रतीयते मात्रं, न तु वस्तुतः प्रतिबिम्बस् तत्र जलेऽपि किरण-पुञ्जस्य सत्यस्यैव दृश्यमानत्वात् । अतः स एव जलोपाधि-वर्ती जल-धर्मैः कम्पादिभिर् यथान्वितः, तथैवान्तः-करण-धर्मैः शोक-मोहादिभिर् अन्वितो जीवस् तद्-अध्यासात् तद् इतस् ततः प्रसृमराः किरणास् तु व्यष्टि-जीव-दृष्टान्ता ज्ञेया इति ॥११॥

———————————————————————————————————————

॥ ३.७.१२ ॥

स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया ।

भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तन्-निवृत्त्य्-उपायम् आह—स वै अनात्मनो गुणो निवृत्ति-धर्मेण वासुदेवस्यानुकम्पा तया च तस्मिन् भक्ति-योगस् तेन तिरोधत्तेऽदृश्यो भवति । शनैर् इत्य् अनेन साधनानुसारेणेत्य् उक्तम् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स वै इति निवृत्ति-धर्मेण निष्काम-स्वभावेन भक्ति-योगेन या वासुदेवानुकम्पा तया शनैस् तद्-अनुकम्पा-तारतम्येन तिरोधत्ते ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि जीवस्य कथं निस्तारः ? तत्राह—अनात्मनो गुणः निवृत्त-धर्मेण निवृत्ति-धर्म-जन्येन भक्ति-मिश्र-ज्ञानेनेत्य् अर्थः । तथा स्व-भक्त-द्वारया वासुदेवानुकम्पया उद्भूतेन भगवद्-भक्ति-योगेन तिरोधत्ते । तन्-निवृत्त्य्-उपायो हि ज्ञानं वा भवतिर् वा भवेद् इति वाक्यार्थः । शनैर् इति साधनानुसारेणानर्थ-निवृत्ति-तारतम्येनेत्य् अर्थः ॥१२॥।

———————————————————————————————————————

॥ ३.७.१३ ॥

यदेन्द्रियोपरामोऽथ द्रष्ट्र् आत्मनि परे हरौ ।

विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : इन्द्रियोपरामाख्यः पुरुषार्थो मुक्तिः ॥१३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि सर्वानर्थ-निवृत्तिः कदेत्य् अपेक्षायाम् आह—यदेन्द्रियाणां उपरामो नैश्चल्यम् । क्व ? द्रष्टुर् आत्मन्य् अन्तर्यामि-रूपे । अथानन्तरम् एव । कृत्स्न-क्लेश-विलय-मात्रे दृष्टान्तः संसुप्तस्येवेति । न तु पुनर् उत्थाने ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि सर्वानर्थ-निवृत्तिः कदेत्य् अपेक्षायाम् आह—यदेति । तत्र ज्ञान-मते इन्द्रियाणां मनो-वृत्तीनां उपरामो लयः । सुषुप्ति-व्यावृत्त्य्-अर्थम् आह—द्रष्टुर् आत्मन्य् अन्तर्यामिणि परे ब्रह्मणि हरौ भगवति वा ज्ञानाङ्ग-भूतया भक्त्या अनुभूयमाने सतीति शेषः । कृत्स्न-क्लेश-विलय-मात्रे दृष्टान्तः । संसुप्तस्य सुषुप्तिं प्राप्तस्य यथा धन-पुत्रादि-नाश-दुःखानि लीयन्ते । अथ भक्ति-मते हरौ स्व-सौन्दर्यादिभिर् मनो-हारिणि यदा इन्द्रियाणां चक्षुः-श्रोत्रादीनां उपरामो नैश्चल्यं भगवत्-सम्बन्धि सौन्दर्य-सौरभ्य-सौकुमार्य-माधुर्य-वैदग्ध्येष्व् एव चक्षुः-श्रोत्र-घ्राण-त्वग्-जिह्वा-मनांसि सर्वथा निमज्जन्ति । न पुनः प्राकृत-रूप-शब्दाद्य्-आस्वादं जिघृक्षन्ति । हरौ कथम्-भूते द्रष्टात्मनि द्रष्टृ-स्वरूपे स्वीय-भक्तं कृपा-कटाक्ष-विषयं कुर्वन्तीत्य् अर्थः । परे परमेश्वरे प्रकृतेः परत्रेति वा । क्लेशाभाव-मात्रे दृष्टान्तः । संसुप्तस्य न तु स्वपतः सुप्तोत्थितस्येत्य् अर्थः । तस्य यथा स्वप्न-दृष्टाः स्व-शिरश्-छेदनादि-क्लेशा लीयन्त इति ॥१३॥

———————————————————————————————————————

॥ ३.७.१४ ॥

अशेष-सङ्क्लेश-शमं विधत्ते

गुणानुवाद-श्रवणं मुरारेः ।

किं वा पुनस् तच्-चरणारविन्द-

पराग-सेवा-रतिर् आत्म-लब्धा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-योगेन क्लेश-निवृत्तिं दर्शयति, अशेषेति । गुणानाम् अनुवादश् च श्रवणं च । आत्मनि मनसि लब्धा श्रवण-कीर्तनापेक्षया स-प्रेम-ध्याने किं पुनर् न्यायोक्तिः ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अशेषेति । अत्र ब्रह्मन्न्[भा।पु। ३.७.२-३] इत्य्-आदि-द्वये प्रथम-प्रश्नाभिप्रायोऽयम् । तत्त्व-देवता-प्रार्थने भवता यद् व्यञ्जितं भक्ति-वशता-मय-लीलाया भगवान् षृष्ट्य्-आदौ प्रवर्तत इति, तद् अप्य् अघटमानं, वस्तु-विरोधात् स्वभाव-विरोधाच् चेति । देशत[भा।पु। ३.७.५-६] इत्य्-आदि-द्वये तु तत्-प्रस्तावत्वेन प्रश्नान्तरं ज्ञेयम् । अथोत्तरम्—उपदेष्टव्यावशिष्ट-विज्ञान-रूप-चतुः-श्लोकी द्वितीय-श्लोकार्थानुसारेणैव । तत्र सेयम् इत्य् अत्र भगवत[भा।पु। ३.७.९] इत्य् अनेनाचिन्त्य-शक्तित्वम् एव सिद्धान्तः । अत्र भक्त्य्-आख्य-शक्तेर् अपि तादृश-सामर्थ्यं व्यञ्जितम् । यतः पुनश् च स वै निवृत्ति-धर्मेण [भा।पु। ३.७.१२] इत्य्-आदिभिः स-साधनं रहस्यं उपदिष्टं यत्रैव कुतः पुनर् अत्यन्तिमार्धे कैमुत्येन तत्-सेवा-रतेः फलम् अशेष-सङ्क्लेश-शमन-मात्रं न भवति, किन्तु पूर्वोक्त-रीत्या श्री-भगवद्-वशी-करणम् एवेति च द्योतितम् ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अविद्योपशमार्थ-मुक्तयोर् ज्ञान-भक्ति-योगयोर् मध्ये कतरस्य श्रैष्ठ्यं ? तत्र भक्तिर् एव श्रेष्ठेत्य् आह—अशेषेति । किं वेति किं पुनर् इत्य् अर्थः । सेवायां रतिर् अत्यासक्तिर् इत्य् अर्थः । आत्म-लब्धा स्वेनैव स्वस्मिन् वा प्राप्तेति रतेः स्व-प्रकाशत्वेनाजन्यत्वं व्यञ्जितम् । साधन-भक्तिर् एवाविद्यां उपशमयति किं पुनस् तत्-साध्या रतिर् इति रतेर् मुख्यं फलम् अविद्योपशमो न भवति, किन्तु भगवद्-वशीकार इति भावः ॥१४॥

———————————————————————————————————————

॥ ३.७.१५ ॥

विदुर उवाच—

सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।

उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तरम् अभिनन्दन्न् आत्मनः कृतार्थताम् आविष्करोति—सञ्छिन्न इति षड्भिः । चिद्-रूपत्वाविशेषेऽपि कथम् ईश्वरस्य जगत्-कर्तृत्वादि, कथं वा जीवस्य संसारः ? इति यः संशयो ममासीत्, स तव सूक्तं सोपपत्तिकं वाक्यम् एवासिः खड्गस् तेन सञ्छिन्नः । अत इदानीं मे मन उभयत्रापीश्वर-स्वातन्त्र्ये जीव-पारतन्त्र्ये च सम्प्रधावति सम्यक् प्रविशति । एवं वाविलुप्तावबोध-रूपस्यात्मनः कथम् अविद्यया बन्धः, कुतो वा तन्-निवृत्तिः ? इति संशयः । उभयत्रेति, बन्धे मोक्षे चेत्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एवाह—सञ्छिन्न इति । उभयत्र ईश्वरे जीवे च । यद् वा, ज्ञान-विज्ञान-रूपे ज्ञाने प्रेमणि तत्-साधन-रूपायां भक्तौ चेत्य् अर्थः । संप्रधावति सम्यक् प्रविशति ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मम मां बोधयितुं तव यत् सूक्तं तद् एवासिः, तेन उभयत्र ईश्वरे जीवे च सम्प्रधावति स-विवेकं प्रविशति ॥१५॥

———————————————————————————————————————

॥ ३.७.१६ ॥

साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः ।

आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वरूप-सामर्थ्याश्रयं यद् व्याहृतम् । अपार्थं निर्मूलं च देअह-सम्बन्धित्वाद् या भाति । विश्व-मूलं ब्रह्म। च यन् मम ज्ञानाद् अबहिर् न भवति । तस्माद् उभयत्र धावति । तस्माद् अन्तरितोऽस्मि । तथापि तां प्रतीतिं पराणुदे ।

आत्मनस् तु गुणाभावं वदतो न त्व् असत्यता ।

अपृष्टस्य दमार्थं च गुणायैव भवत्य् अपि ॥ इति व्यास-स्मृतेः ।

विद्यमानम् अप्य् अनुभवम् अन्यथा वदति विदुरः ।

द्रोण-द्रौणि-कृपाः पार्था भीष्मा विदुर-सञ्जयौ ।

ये चान्ये तत्र देवांशाः सम्यक् तत्त्वापरोक्षिणः ॥ इति स्कान्दे ॥१६-१८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्मात् त्वया साधु व्याहृतम् । किं तत् ? हरेः शक्तिर् या आत्म-माया जीव-विषया माया तद्-अयनं तद्-आश्रयम् एतद् दुर्भगत्वादिकं भातीति । यत् यस्मात् स्व-शिरश् छेदादि-वद् अपार्थम् अवस्तु-भूतं निर्मूलं मूल-शून्यं च । यस्माद् अस्य मूलं विश्वस्य मूलं स्वाज्ञानं बहिर् विना नास्ति ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : संशय-च्छेदने हेतुर् अवधारितार्थम् एवानुवदति—साध्व् इति पञ्चभिः । हरेर् आत्माधीन-मायाया अयनम् अचिन्त्या गतिर् इत्य् एतत् साध्व् एव व्याख्यातम् । यद् यस्माद् बहिर् विना अपार्थम् अवस्तु-भूतं मूल-शून्यं च विश्व-मूलं तद् अध्यास-हेतु-भूतम् अज्ञानं जीवानाम् अपि नास्तीति ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मम सूक्तं त्वया कीदृशम् अवधारितं ? तत्राह—हे ब्रह्मन् ! साध यथा स्यात् तथा त्वया व्याहृतं किं तत् ? हरेर् बहिरङ्गा शक्तिर् या आत्म-माया तद्-आश्रय एवम् एतत् । भगवतो निर्गुणस्यापि गुणवत्त्वं तैर् गुणैः सृष्ट्य्-आदि-कर्तृत्वं चाभाति । अपार्थं निष्प्रयोजनं तस्यात्मारामत्वात् । निर्मूलं निष्कारणं तस्य प्रयोजकान्तराभावाद् अतर्क्यम् एवेतीश्वर-गतं त्वया व्याहृतम् । तथा एतज् जीवस्याविद्या-बन्धनं तद्-उत्थ-दुर्भगत्वादिकं चात्म-मायायनम् एव । निष्प्रयोजन्ं निष्कारणम् अवस्तु चेति जीव-गतं च व्याहृतम् इति । तन्त्रेणेयं विदुरोक्तिः, किं च यद् बहिः याम् आत्म-मायां विना विश्वस्य मूलं कारणं नास्तीति विश्व-स्रष्टृत्वेन भगवतः स-गुणत्वं स-क्रियत्वं च न स्वरूप-सिद्धम् इति भावः ॥१६॥

———————————————————————————————————————

॥ ३.७.१७ ॥

यश् च मूढतमो लोके यश् च बुद्धेः परं गतः ।

ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अल्प-ज्ञत्वात् पूर्वं मम संशयो जात इत्य् आह—यश् चेति । मूढतमो देहाद्य्-आसक्तो यश् च बुद्धेः प्रकृतेः परम् ईश्वरं प्राप्तः, तौ सुखं यथ भवति तथा एधेते जीवत इत्य् अर्थः, संशय-क्लेशाभावात् । यस् तु दुःखानुसन्धानेन प्रपञ्चं जिहासति स्वानन्द-संवेदनाभावाद् धातुं न शक्नोति, स तु क्लिश्यतीत्य् अर्थः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मूढतमः सारासार-विवेक-रहितः सुखम् एधेते संशय-क्लेश-रहितौ भवतः । अन्तरितः संशयितः ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अल्पज्ञत्वाद् एतावद् दिन-पर्यन्तम् अहं सांशयिक-दुःख-निमग्न एवासम् इत्य् आह—मूढतमः पशुर् इव विषयासक्त-बुद्धेः प्रकृतेः परम् ईश्वरं प्राप्तः, तौ सुखं यथ स्याद् एवम् एधेते, संशय-क्लेशाभावाद् विषयानन्देश्वरानन्दाभ्यां वर्धेते । यस् तु दुःखानुसन्धानेन प्रपञ्चं जिहासति, भगवद्-भक्त्य्-अलाभाद् धातुं च न शक्नोति, स त्व् अन्तरितो मध्य-वर्ती आनन्द-द्वयाभावेन संशय-सिन्धु-निमग्नः क्लिश्यति ॥१७॥

———————————————————————————————————————

॥ ३.७.१८ ॥

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः ।

तां चापि युष्मच्-चरण-सेवयाहं पराणुदे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं तु कृतार्थोऽस्मि, यतस् त्वया संशयश् छिन्नः, केवलं बाधितानुवृत्तिर् एवावशिष्टा, सापि युष्मत्-प्रसादान् निवर्तिष्यत इत्य् आह—नात्मनः अनात्मनः प्रपञ्चस्य प्रतीतस्याप्य् अर्थाभावम् अर्थोऽत्र नास्ति, किन्तु प्रतीति-मात्रम् इति । युष्मच्-चरण-सेवया निश्चित्य तां प्रतीतिम् अप्य् अहं पराणुदे, अपनेष्यामीत्य् अर्थः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, सम्प्रत्य् अपि मम क्लेश-शेष् वर्तत इत्य् आह—आत्मनो जीवस्य अर्थाभावं वास्तव-दुर्भगत्वाद्य्-अभावं त्वन्-मुखोदित-सिद्धान्तेन विनिश्चित्यापि न प्रतीतस्याप्य् अर्थाभावस्य ताम् अप्रतीतिम् अहं पराणुदेऽपनेष्यामि ॥१८॥

———————————————————————————————————————

॥ ३.७.१९ ॥

यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।

रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु-द्विषः पादयोः रति-रासः प्रेमोत्सवस् तीव्रो दुर्वारः स्वाभाविकः । व्यसनं संसारम् अर्दयति नाशयतीति तथा ॥१९॥

———————————————————————————————————————

सनातन गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१४] युष्मच्-चरण-सेवया इति पूर्व-श्लोके युष्मद् इति प्रस्तुती-भूतम् अस्ति येषां युष्माकं साधूनां सेवया कूटस्थस्य दुर्ज्ञेयस्यापि, यद् वा, कूटम् अन्नकूटम् इति विख्यातं श्री-गोवर्धनाद्रि-शृङ्गं तद्-वर्तिनो भगवतो मधुद्विषः श्री-कृष्णस्य पादयो रति-रासः प्रेमोत्सवः, यद् वा, रत्या रासः, तेनैव सह रास-क्रीडा भवेत् । तीव्रः दुर्निवारः स्वाभाविको\ऽनवच्छिन्नो वेत्य् अर्थः । व्यसनं संसारम् अशेष-दुःखं वा अर्दयति नाशयतीति तथा सः । यद् वा, पादयोर् व्यसनार्दन इति यथा-स्थितम् एव सम्बन्धः । ततश् च रास-क्रीडाया नृत्य-प्राधान्येन नृत्यस्य च गति-प्राधान्येन पादयोर् व्यसनं दुःखम् अन्य-व्यापार-परतां वा अर्दयतीति । एवं सति च मधुद्विष इति सप्तम्य्-अर्थे षष्ठी ज्ञेयेति ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रपञ्च-प्रतीति-पराणोदन-मात्रं कियत् ? यतः यत्-सेवयेति व्यसनार्दन इत्य् आनुषङ्गिक एवासौ यस्य गुण इत्य् अर्थः ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवज्-जन-सेवायाः किम् अशक्यम् इत्य् आह—यद् इति । भगवतः कूटस्थस्य भगवत्त्वेनैव सर्व-काल-व्यापिन एक-रूपतया तु यः काल-व्यापी स कूटस्थ इत्य् अमरः । मधुद्विषो मधुसूदनस्य मधोर् इव भक्त-संसारस्य नाशयितुं पादयो रत्या भाव-भक्त्या रासो विभावादि-संयोगोत्थः शान्त-दास्यादि-रस-समूहः तीव्रः स्व-माधुर्येण प्राकृताप्राकृत-सर्व-माधुर्योपमर्दी तेनाप्रतीति-परत्वनोदनम् इदं कियन्-मात्रम् इति भावः ॥१९॥

———————————————————————————————————————

॥ ३.७.२० ॥

दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु ।

यत्रोपगीयते नित्यं देव-देवो जनार्दनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो दुर्लभं प्राप्तं मयेत्य् आह—दुरापा दुर्लभा । वैकुण्ठस्य विष्णोस् तल्-लोकस्य वा वर्त्मसु मार्ग-भूतेषु महत्सु । यत्र येषु । महत्-सेवया हरि-कथा-श्रवणं, ततो हरौ प्रेम, तेन च देहाद्य्-अनुसन्धानम् अपि निवर्तत इति तात्पर्यम् ॥२०॥

———————————————————————————————————————

सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.२८८] वैकुण्ठ-वर्त्मसु श्री-भगवतः तल्-लोकस्य वा मार्ग-भूतेषु महत्सु सेवा सङ्गादि-रूपा अल्प-तपसो भाग्य-विशेष-हीनस्य जनस्य दुरापा । यत्र यैर् इत्य् अर्थः । यद् वा, येषु विषयेष्व् अन्यैर् अपि सर्वैर् गीयते, अतस् तेषां सान्निध्य-मात्रेणैव कृतार्थता, न चोपदेशापेक्षापीति भावः । यद् वा, येषु निमित्तेषु यत्-प्राप्त्य्-अर्थम् इत्य् अर्थः । एवं च सत्-सङ्गस्य स्वतः पुरुषार्थता सिद्धैव ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, सेयं महत्-सेवैवातिदुर्लभेत्य् आह—अल्प-तपस इति लोक-रीत्योक्तिर् महत्-सेवायास् तत्-कृपैक-लभ्यत्वेन तपः-फलत्वाभावात् वैकुण्ठस्य वर्त्म-भूतेषु तद्-भक्तेषु नित्यं साधन-साध्यावस्थायाम् ॥२०॥

———————————————————————————————————————

॥ ३.७.२१ ॥

सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् ।

तेभ्यो विराजं उद्धृत्य तम् अनु प्राविशद् विभुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विराजं ब्रह्माणम् । ब्रह्माणं प्राविशद् विष्णुः सहस्राक्षः सहस्र-पात् इति ब्राह्मे ।

अनुप्रविश्य ब्रह्माणं प्राणं दश-विधं तथा ।

इन्द्रियाणीन्द्रियार्थांश् च वर्णांश् चैवासृजत् हरिः ॥ इति गारुडे ॥२१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थान्तरं प्रष्टुं तद् उक्तम् अनुवदति त्रिभिः—सृष्ट्वेति । विकारैर् इन्द्रियादिभिः सहितानि । उद्धृत्य तद् अंशैर् विराजं सृष्ट्वा ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं कृत-कृत्य उल्लासेन पूर्व-श्रुत-लीलावशेषं पृच्छति—सृष्ट्वेति ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं कृत-कृत्य उल्लासेन पूर्व-श्रुत-।लक्षणावशेषं प्रष्टुं तद्-उक्तम् अनुवदति—सृष्ट्वेति ॥२१॥

———————————————————————————————————————

॥ ३.७.२२ ॥

यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् ।

यत्र विश्व इमे लोकाः स-विकाशं त आसते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रविष्टस्य रूपम् आह—यम् इति । विराजं विशिनष्टि—यत्रेति । ते इमे विश्वे सर्वे लोकाः । स-विकाशम् असङ्कोचेन ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यं कारणार्णवे गर्भोदके च शायिनम् ॥२२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यं कारणार्णव-शायिनं विश्वे सर्वे समासते तद्-रोम-बिलेष्व् एव सर्व-ब्रह्माण्डानां सत्त्वात् ॥२२॥

———————————————————————————————————————

॥ ३.७.२३ ॥

यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् ।

त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणादयः पञ्च नागादयः पञ्चेत्य् एवं दश-विधः । इन्द्रियाणि च । अर्थाश् च इन्द्रियाणि चेति पुनर् उक्तिस् तद्-देवता-लक्षणार्था, तत्-सहितः । सर्वोपबृंहकत्वात् प्राणस्य तत्-साहित्यम् । एवं त्रि-वृत् त्रि-विधः प्राणस् त्वयेरित उक्तः । तस्य विभूतीर् ब्रह्माद्या विसर्ग-शब्द-वाच्याः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तद्-उक्तम् अप्य् अनुवदति—यस्मिन् विराड्-रूपे ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यस्मिन् समष्टि-विराजि इन्द्रियार्था विषया इन्द्रियाणि च तैः सहितः । त्रि-वृत् सह-ओजो-बलत्वेन त्रि-विधः । यत एव वर्णाः यद्-विशेषा एव विप्राद्याः । अथ तस्य परमेश्वरस्य विभूतीः प्रजापत्य्-आद्याः ॥२३॥

———————————————————————————————————————

॥ ३.७.२४ ॥

यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः ।

प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र यासु इदं विश्वम् । ततं व्याप्तम् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यत इति नप्तृभिर् दौहित्रैः ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र यासु विभूतिषु नप्तृभिः दौहित्रैः ॥२४॥

———————————————————————————————————————

॥ ३.७.२५ ॥

प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् ।

सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् ।

एतेषाम् अपि वेदांश् च वंशानुचरितानि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल[भा।पु। ३.१.१] इति परीक्षित्-प्रश्नोत्तरतया विदुर-मैत्रेय-संवादः प्रस्तावितः, अतस् तान् एव विदुरेण कृतान् प्रश्नान् आह यावत् समाप्ति । प्रजा-पतीनां पतिर् ब्रह्मेत्य्-आदीनां वर्णयेति वक्ष्यमाणेनान्वयः । चकॢपेऽकल्पयत् । सर्गान् नव-विधान् । अनुसर्गांस् तद्-भेदान् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वितीय-स्कन्धे परीक्षिता पृष्टान्ब् एवार्थानैक-जातीय-हृदयत्वात् विदुरोऽपि पृच्छति यावद्-अध्याय-समाप्ति । प्रजा-पतीनां पतिर् ब्रह्मा सर्गान् दश-विधान् अनुसर्गांस् तद्-भेदान् ॥२५॥

———————————————————————————————————————

॥ ३.७.२६ ॥

उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते ।

तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे मित्राया आत्मज, संस्थां सन्निवेशम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.७.२७ ॥

तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् ।

वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्गाणां संव्यूहं संविभागम् । गार्भ-स्वेद-द्विजोद्भिदाम् । गार्भा जरायुजाः, स्वेदाच् च द्वाभ्यां च जाताः स्वेद-द्विजाः उद्भिदश् च तेषाम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संव्यूहं संविभागम् । गार्भा जरायुजा मनुष्यादयः, स्वेदाच् च अण्डाच् च द्वाभ्यां जाताः स्वेदजाः कृमि-दंशाद्याः, द्विजाः पक्षिणः, उद्भिदस् तरु-गुल्माद्याः, तेषाम् ॥२७॥

———————————————————————————————————————

॥ ३.७.२८ ॥

गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् ।

सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्गादीन् आश्रयं च सृजतः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.७.२९ ॥

वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः ।

ऋषीणां जन्म-कर्माणि वेदस्य च विकर्षणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विकर्षणं विभागः ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : रूपं लिङ्गम्, शीलम् आचारः स्वभावः शमादिः, ततः विकर्षणं विभागम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्गादीन् तेषाम् अप्य् आश्रयं प्रजापत्य्-आदि-रूपं च सृजतः कुर्वतः ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूपं लिङ्गम्, शीलम् आचारः स्वभावः शमादिः, तैर् विकर्षणं विभागम् ॥२९॥

———————————————————————————————————————

॥ ३.७.३० ॥

यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।

नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वितानानि विस्तारान् । नैष्कर्म्यस्य च ज्ञानस्य तद् उपायस्य च साङ्ख्यस्य पथः मार्गान् तन्त्रं चेत्य् अर्थः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : वर्णाश्रम इति सप्तकम् । भगवत्-स्मृतं तन्त्रं पञ्चरात्राख्यम् ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वितानानि विस्तारान् । योगस्याष्टाङ्गस्य पथो मार्गान् नैष्कर्म्यस्य ज्ञानस्य तद्-उपायस्य साङ्ख्यस्य च मार्गान् । भगवत्-स्मृतं तन्त्रं नारद-पञ्चरात्रम् । चार्थे वा-कारः ॥३०॥

———————————————————————————————————————

॥ ३.७.३१ ॥

पाषण्ड-पथ-वैषम्यं प्रतिलोम-निवेशनम् ।

जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाखण्डानां पन्थाः प्रवृत्तिस् तद् एव वैषम्यम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रतिलोम्नां सूतादीनां निवेशनं संस्थापनम् ।**।**३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाषण्ड-पथात् पाषण्ड-मार्गतो हेतोर् यद् वैषम्यं प्रतिलोम्नां सूतादीनां निवेशनं संस्थानम् ॥३१॥

———————————————————————————————————————

॥ ३.७.३२ ॥

धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः ।

वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निमित्तान्य् उपायान् परस्पराविरोधेन ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निमित्तान्य् उपायान् परस्पराविरोधेन वार्तायाः कृषि-वाणिज्यादि-शास्त्रस्य । दण्ड-नीतेर् अर्थ-शास्त्रस्य श्रुतस्य वेद-शास्त्रस्य ॥३२॥

———————————————————————————————————————

॥ ३.७.३३ ॥

श्राद्धस्य च विधिं ब्रह्मन् पित्–णां सर्गम् एव च ।

ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्रहादीनां काल-चक्रे संस्थितिम् ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालावयवे दिन-रात्रि-मास-वर्षादौ संस्थितिं स्थितिम् ॥३३॥

———————————————————————————————————————

॥ ३.७.३४ ॥

दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् ।

प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ३.७.३५ ॥

येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः ।

सम्प्रसीदति वा येषाम् एतद् आख्याहि मेऽनघ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येन मार्गेण सन्तुष्येत् । येषाम् इति यादृशानाम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं परावरेषां भगवन् व्रतानि श्रुतानीत्य् उक्तेर् व्यास-मुखात् प्रायो ज्ञातानाम् अप्य् एषां ज्ञेय-वस्तु-मात्र एव नैरपेक्षार्थं स्वाभीष्टं विधित्सितं पृच्छति येनेति । वा-शब्दस् त्व् अर्थे सर्वेषां योनिः कारणं जनार्दनः । स-काम-भक्तान् कामान् याचयन्न् अपीत्य् अर्थः । यद् वा, शुद्ध-भक्तान् प्रेमोत्थेनानुतापेन पीडयन् येषां वेति क्रमेण तत्-प्रसादस्य साधनं किं ? तत्राधिकारिणश् च कीदृशास् तन् मे कथयेत्य् अर्थः ॥३५॥

———————————————————————————————————————

॥ ३.७.३६ ॥

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।

अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनापृष्टम् अप्य् अपृष्टम् अपि मद्-योग्यं वक्तव्यम् इति भावः ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वाभीष्टम् अपि प्रष्टव्यम् अहं न जानाम्य् अतस् तत्र भवन्त एव कृपया कथयन्त्व् इत्य् आह—अनुव्रतानाम् इति चतुर्थ्य्-अर्थे षष्ठ्यः ॥३६॥

———————————————————————————————————————

॥ ३.७.३७ ॥

तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः ।

तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिसङ्क्रमः प्रलयः । तत्र प्रलये इमं परमेश्वरं शयानं राजानम् इव चामर-ग्राहिणः के वानुशेरते शयानम् अनु स्वपन्ति ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्त्वानाम् इति । तत्र तेषु प्रलयेषु प्रकृति-पर्यन्तेषु । अनेन पार्षदानां नित्यत्वम् एवाभिप्रेतम् । तद् उक्तं काशी-खण्डे—

न च्यवन्ते हि यद्-भक्ता महत्यां प्रलयापदि ।

अतो\ऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ इति ।

अनुशेरते लीनास् तिष्ठन्ति ॥३७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधन-भक्तिं पृष्ट्वा साध्य-भक्तेर् नित्यत्वे विप्रतिपत्तिं निरस्यन् प्रलयं पृच्छति—तत्त्वानाम् इति । प्रतिसङ्क्रमः प्रलयः । तत्र प्रलये इमं परमेश्वरं शयानं राजानम् इव चामर-ग्राहिणः के उपासीरन् ? के वा अनुशेरते शयानम् अनुस्वपन्तीति श्री-स्वामि-चरणाः । तेन भगवत्-पार्षदानां तद्-भक्तेस् तल्-लोकस्य च नित्यत्वम् अभिप्रेतम् । अत एव न च्यवन्ते च यद्-भक्ता महत्यां प्रलयापदि इति प्रसिद्धं काशी-खण्ड-वचनम् ॥३७॥

———————————————————————————————————————

॥ ३.७.३८ ॥

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।

ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषस्य संस्थणं जीवस्य तत्त्वम् । परमेश्वरस्य स्वरूपम् । येनांशेन तयोर् ऐक्यम् । तथा ज्ञानं च । नैगमम् औपनिषदम् ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपासकस्य पुरुषस्य संस्थानं सम्यक्-प्रकारेण कीदृई स्थितिस् तत्त्वं वा । तथा उपास्यस्य परस्य परमेश्वरस्य च स्वरूपम् । तथा उपासनायाश् च ज्ञानं नैगमं निगमोक्तं यद् गुरु-शिष्ययोः प्रयोजनं मत्तः सकाशात् शिष्योऽयं जानातु गुरुतः सकाशाद् अहं भक्तिं जानीयाम् इत्य् एतल्-लक्षणम् । तस्य निमित्तानि सत्-सङ्गादीनि ॥३८॥

———————————————————————————————————————

॥ ३.७.३९ ॥

निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः ।

स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यानि सूरिभिः प्रोक्तानि तस्य ज्ञानस्य साधनानि तानि च ब्रूहि । गुरुं विनैतन् न भवतीत्य् आह—स्वत इति ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषस्येति सार्धकम् । पुरुषस्य प्रकृत्य्-आदि-द्रष्टुः संस्थानं सहस्र-शीर्षेत्य्-आदि-रूपं ततः परस्य श्री-भगवतश् च ज्ञानं विचार-रूपं स्वत इत्य् अर्धकम् ॥३९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनघ, सूरिभिर् निरपराध-विज्ञ-भक्तैः गुरुं विनैतन् न भवतीत्य् आह—स्वत इति ॥३९॥

———————————————————————————————————————

॥ ३.७.४० ॥

एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया ।

ब्रूहि मेऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे प्रश्नान् मे मित्रत्वात् स्निग्धत्वाद् इत्य् अन्वय-भेदान् न मे पदस्य पौनरुक्त्यम् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि नाना-विधाः प्रश्ना एतावन्तः कथं कृताः ? तत्राह—हरेः कर्म परिचर्यादिकं तस्य विवित्सया प्राप्तीच्छया एव एतान् मम प्रश्नान् ब्रूहि सर्व-जिज्ञासित-सिद्धौ सत्याम् एव भगवत्-परिचर्यायां मनोऽन्य-निरपेक्षम् एकाग्रं भवति । मनस ऐकाग्र्ये सत्य् एव तत्-प्राप्तिर् इति भावः । मे मह्यं मां उद्धर्तुम् इति मे पदस्य पौनरुक्त्यं न शङ्क्यम् । मित्रत्वाद् इति मित्रायाः पुत्रस् त्वम् अपि मित्रम् एव सर्व-जगताम् इति भावः ॥४०॥

———————————————————————————————————————

॥ ३.७.४१ ॥

सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ ।

जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्वोपदेशेन जीवाभय-प्रदानस्य ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवानाम् इतस् ततो भीतानां किं उत संसार-भीतानाम् अभय-प्रदानस्येत्य् अर्थः ॥४१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् इदं मद्-उद्धारार्थम् एव अपि तु भवतोऽपि पुण्य-यशो-लाभार्थम् इत्य् आह—सर्व इति ॥४१॥

———————————————————————————————————————

॥ ३.७.४२ ॥

श्री-शुक उवाच—

स इत्थम् आपृष्ट-पुराण-कल्पः

कुरु-प्रधानेन मुनि-प्रधानः ।

प्रवृद्ध-हर्षो भगवत्-कथायां

सञ्चोदितस् तं प्रहसन्न् इवाह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुराणे कल्पते प्रकाशत इति पुराण-कल्पो बुभुत्सितोऽर्थः, आपृष्टः पुराण-कल्पोऽयं स मुनि-प्रधानः ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : आपृष्टः पुराण-कल्पो यत्र सः ॥४२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुराणेषु पुराण-तात्पर्येषु कल्पते व्याख्यान-समर्थो भवतीति पुराण-कल्पः । आपृष्टश् चासौ पुराण-कल्पश् चेति सः । प्रहसन्न् इवेति, वस्तुतस् तु हर्षोत्थ-स्मित-विशिष्ट इत्य् अर्थः ॥४२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुर-मैत्रेय-संवादे

सप्तमोऽध्यायः ।

॥ ३.७ ॥


(३.८)


  1. लीलया वापि कथं युज्येरन् ? इति विशदयति (झ, जादवपुर)। "लीलया वापि कथं युज्येरन् ? इति विशदयति । किं चार्भक-लीलापि न युज्यते, वैषम्यात् इत्य् आह" इति क्रम-सन्दर्भः। "ततः——————————————————————————————————————— प्रश्नः" इति-वाक्यं क्रम-सन्दर्भे नास्ति। ↩︎

  2. भगवन्-मात्रत्वे (ङ) ↩︎

  3. स्वेनात्म- ↩︎

  4. तन्त्रेण चायम् अर्थः॥।निऋविषयीक्रियत इति च इति टीकांशे इदं पाठान्तरं अधिक-पाठश् च कस्यांश्चित् परमात्म-सन्दर्भस्य करलिप्याम् द्र्श्यते, यथा—

    तत्र केवलं चिन्मात्रत्वं न, तन्त्रेण चायम् अर्थः—सत्यं परमेश्वरे न ते गुणा न च ताः क्रियाः, किन्तु यस्यास्ते गुणास् तद्-अशृअय-बलया, यया च क्रियमाणं कर्म तस्मिन्न् आरोप्यते, सेयं तस्य मायाख्या बहिरङ्गा शक्तिः । तद् उक्तं—ऋते\ऽर्थं यत् प्रतीयेत [भा।पु। २.९.३३] इत्य्-आदि ।

    तद् एव विवृणोति—यन् नयेन इति । यद् इत्य् अवययम् । यद् यया मायया तद्-आश्रितयापि येन भगवता सह न विरुध्यते नासौ विरोध-विषयीक्रियत इत्य् अर्थः । न ह्य् आभास-गतेन कर्बुरत्वादिना चलनादिना वा सूर्य-मण्डलस्य तत्-तद्-योगो विरोद्धुं शक्यते इति भावः । एतेन वैषम्यापातश् च परिहृतः । तद् एतत् सर्वम् अभिप्रेत्य सेयं भगवतो माया इत्य् अनेन इत्थं-भूत-गुणो हरिः [भा।पु। १.७.११] इतिवत् तत्-तत्-स्वभावैवेयम् इति ध्वनितम् ↩︎

  5. सम-विषम-मतीनां मतम् अनुसरसि, यथा रज्जु-खण्डः सर्पादि-धियाम्। ↩︎

  6. प्राधान्यम् इति क्वचित् पाठः। ↩︎

  7. परमात्म-सन्दर्भस्य पाठः। ↩︎

  8. "भगवत्त्वं त्व् अमायिकं" इति, "भगवत्-तत्त्वम् अमायिकं" इति च द्वौ पाठौ परमात्म-सन्दर्भे ड्र्श्येते। ↩︎

  9. "तस्यैव स्याद् इति" इति परमात्म-सन्दर्भे नास्ति। ↩︎