विषयः
ईश-शक्ति-प्रवेशेन स्थूल-भूतानां जगन्-निर्माण-शक्तित्व-प्रदर्शन-पूर्वकं विराड्-विग्रहोत्पत्ति-कथनम्
॥ ३.६.१ ॥
ऋषिर् उवाच—
इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः ।
प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
शक्यत्वाच् छक्तयो विष्णोर् महद्-आद्या रमा तथा ।
स्वरूप-शक्तिः शक्तित्वात् मुख्य-शक्तित्वात् मुख्य-शक्तिर् हि सा यतः ॥ इति ब्रह्म-तर्के ।
समेत्यासतीनाम् असमेतानां प्रसुप्त-लोक-तन्त्राणाम् अनाविर्भूत-लोक-सृष्टि-शक्तीनाम् ।
तनुते येन कार्यं तं तन्त्रं साधनम् उच्यते ।
कारणानां स्व-शक्तिर् वा प्रधानं साधनं यतः ॥ इति ब्रह्म-तर्के ॥१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षष्ठे तैर् ईश्वराविष्टैः सृष्टिम् आह विराट्-तनोः ।
अधिदैवादि-भेदं च तत्रैव भगवत्-कृतम् ॥
स्व-शक्तीनां महद्-आदीनाम् असमेत्यामिलित्वा सतीनां स्थितानाम् । प्रसुप्तं लोक-तन्त्रं विश्व-रचना यासाम् । यद् वा, प्रसुप्त-जीवोपकरणानां गतिं स्थितिं दृष्ट्वा आविशद् इत्य् उत्तरेणान्वयः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षष्ठे विराड् अभूत् तत्त्वैर् अन्तर्यामि-प्रवेशतः ।
अधिभूतादि-भेदश् तस्य देहे प्रपञ्चितः ॥
स्व-शक्त्-कार्यत्वात् स्व-शक्तीनां महद्-आदीनाम् असमेत्यामिलित्वा सतीनां स्थितानाम् । प्रसुप्तं लोक-तन्त्रं विश्व-निर्माण-क्रिया यासां तासां गतिं दृशा दृष्ट्वा ॥१॥
———————————————————————————————————————
॥ ३.६.२ ॥
काल-संज्ञां तदा देवीं बिभ्रच् छक्तिम् उरुक्रमः ।
त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
शब्दाद्या नभ-आद्याश् च मनो-युक्तेन्द्रियाणि च ।
अहङ्कारो महांश् चैव त्रयोविंशतिको गणः ॥
देवतेन्द्रियोर् ऐक्यान् न पृथग्-गणनं तयोः ।
प्रकृतिस् तु चतुर्विंशा पञ्च-विंशा हरिः स्वयम् ॥
यदा जडांश-स्वीकारो जीवस् तत्-पञ्च-विंशकाः ।
षड्-विंशको महा-विष्णुः श्रिया वा सप्त-विंशकाः ॥ इति तत्त्व-निर्णये ।
त्रयोविंशति-तत्त्वानि प्राविशत् रमया सह ।
कालाख्यया स्वयं विष्णुः शक्यत्वात् शक्ति-रूपया ॥
सर्व-चेष्टक-रूपेण स्व-सामर्थ्येन केशवः ।
तानि भिन्नानि तत्त्वानि योजयामास चांशतः ॥ इति च ॥२॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : कालेन संज्ञा उद्बोधो यस्याः, कालयति क्षोभयति स्व-कार्याणीति वा काल-संज्ञा प्रकृतिस् तां शक्तिम् । प्रकृत्या सह प्रवेशात् त्रयो-विंशति-तत्त्वानाम् इत्य् उक्तम् । अन्तर्यामितया प्राविशत् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कालयति सर्वं मेलयतीति कालः । कालो वृत्ति-विशेषः । काल एवं संज्ञा यस्यास् ताम् । त्रयोविंशति-तत्त्वानाम् इति । महद्-आदीनाम् एव परस्पर-मेलनात् प्रकृतेस् तु सर्वानुगतेः ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालेनैव संज्ञा महद्-आद्या विविधा यस्या सा काल-संज्ञा प्रकृतिः तां बिभ्रत् सन् आविशत् । प्रथमं संहनन-कारिण्या शक्त्यैव ततो वर्ष-सहस्रान्ते अन्तर्यामितयेत्य् अर्थः । प्रकृत्या सह प्रवेशात् त्रयोविंशतीत्य् उक्तं महद् अहङ्कारः पञ्च-तन्मात्रानि पञ्च-महा-भूतानि एकादशेन्द्रियाणीति त्रयोविंशतिः । यद् उक्तं—
मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त ।
षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ [साङ्ख्य-कारिका ३]इति ।
तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६] इति श्रुतेः ॥२॥
———————————————————————————————————————
॥ ३.६.३ ॥
सोऽनुप्रविष्टो भगवांश् चेष्टा-रूपेण तं गणम् ।
भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मात्राभिः अंशैः ॥३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : चेष्टा-रूपेण क्रिया-शक्त्या । कर्म तेषां क्रियां जीवानाम् अदृष्टं वा ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : चेष्टा-रूपेण पूर्वोक्तेन कालाख्येनैव कारण-भूतेन । योऽयं कालस् तस्य तेऽव्यक्त-बन्धो चेष्टाम् आहुर् इत्य् उक्तेः ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चेष्टा-रूपेण क्रिया-शक्त्या कर्म तेषां क्रियां जीवानाम् अदृष्टं वा ॥३॥
———————————————————————————————————————
॥ ३.६.४ ॥
प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः ।
प्रेरितोऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मात्राभिः अंशैः ॥४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रबुद्धं कर्म क्रिया-शक्तिर् यस्य स त्रयो-विंशतेर् गणः दैवेनेश्वरेण प्रेरितः । मात्राभिर् अंशैः । अधिपूरुषं विराड्-देहम् ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अधिपूरुषं ब्रह्माण्ड-रूपं, क्वाहं तमो-महद्-अहङ्-ख-चराग्नि-वार्-भूः इत्य् आद्य् उक्तेः ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रबुद्धं कर्म क्रिया-शक्तिर् यस्य सः । दैवेनेश्वरेण । मात्राभिर् अंशैः । अधिपूरुषं विराड्-देहम् ॥४॥
———————————————————————————————————————
॥ ३.६.५ ॥
परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः ।
चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जननम् एवाह—परेणेश्वरेण । विश्व-सृजां सत्त्वानां गणः । मात्रया चुक्षोभ परिणतो न सर्वात्मना । यस्मिल् लोकाः स्थिताः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनन-प्रकारम् आह—विश्व-सृजां तत्त्वानां गणः स्वस्मिन् परेण परमेश्वरेण मात्रया अंशेन विशता सता अन्योन्यम् आसाद्य प्रधान-गुण-भावं प्राप्य चुक्षोभ गर्भ-रूपेण परिणतोऽभूत् ॥५॥
———————————————————————————————————————
॥ ३.६.६ ॥
हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् ।
आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स पुरुषोऽधिपुरुष इत्य् उक्तः । आण्ड-कोशे ब्रह्माण्ड-मध्ये । सर्वैः सत्त्वैर् अनुशायिभिर् जीवैः सहितः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : हिरण्मयो ब्रह्माण्डः, तस्मिन् स्थितो हिरण्यगर्भः । अप्सु इति पूर्वं जलेनान्तः पूर्णत्वात् ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स समष्टि-विराट् हिरण्मयः चतुर्दश-भुवनात्मक अण्ड-कोष या आपः गर्भोदकानि, तासु । यद् वा, अप्सु योऽण्ड-कोषः, तस्मिन् सर्व-सत्त्वैर् अनुशायिभिर् जीवैर् उपबृंहितो विस्तृतः ॥६॥
———————————————————————————————————————
॥ ३.६.७ ॥
स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् ।
विबभाजात्मनात्मानम् एकधा दशधा त्रिधा ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : ईश्वरो दैवम् उद्दिष्टं सर्वस्यापि प्रभुत्वतः इति च । आत्म-शक्तिः प्रकृतिः ॥७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : गर्भः कार्य-रूपो विराट् । देव-शक्तिर् ज्ञान-शक्तिस् तयैकधा हृदयावच्छिन्न-चैतन्य-रूपेण । कर्म-शक्तिः क्रिया-शक्तिस् तया दशधा प्राण-रूपेण प्राणादयः पञ्च—नागः कूर्मश् च कृकलो देवदत्तो धनञ्जयः इत्य् एते पञ्च । एवं वृत्ति-भेदेन दश-विधः प्राणः । आत्म-शक्तिर् भोक्तृ-शक्तिस् तयाध्यात्माधिभेदेन त्रिधात्मानं विभक्तं कृतवान् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स वै इति दैव-कर्मात्म-शक्तिमान् इत्य् अत्र दैव-शक्त्या कर्म-शक्त्या आत्म-शक्त्या च युक्त इत्य् अर्थः ॥७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ तस्य मुखाद्य्-अङ्ग-सिद्ध्य्-अर्थं प्रथमं त्रि-शक्तित्वम् आह—विश्व-सृजां महद्-आदीनां गर्भः कार्य-रूपानन्द् । दैव-कर्मात्म-शक्तिमान् जीव-प्राणाध्यात्मादि-शक्ति-युक्तः । आत्मनैवात्मानं विबभाज विभक्तं कृतवान् । एकधा जीव-शक्त्या दशधा प्राण-शक्त्या त्रिधा अधात्मादि-शक्त्या ॥७॥
———————————————————————————————————————
॥ ३.६.८ ॥
एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः ।
आद्योऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पुरुषेणात्म-भूतेन इति योऽण्डम् असृजत् । स एव इत्य् उक्तः ।
आद्योऽवतारो विष्णोस् पुरुषो नाम कीर्तितः ।
असृजत् स महत्-तत्त्वं स एवान्तं समाविशत् ।
स ब्रह्मणो हृदि-स्थत्वाद् धृदयं चेति कीर्त्यते ॥ इति च ॥८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं विभाग-सामर्थ्याय तस्योत्कर्षम् आह—एष हीति । अशेष-सत्त्वानां प्राणिनाम् आत्मा । व्यष्टीनां तद्-अंशत्वात् । अंशो जीवः । अवतारत्वोक्तिस् तस्मिन् नारायणाविर्भावाभिप्रायेण ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमात्मोपासकानां चित्त-शुद्धार्थं प्रथम-मयम् एवोपास्य इत्य् आह—एष हीति । अशेष-सत्त्वानां प्राणिनाम् आत्मा, व्यष्टीनां तद्-अंशत्वात् । अवतार इति योगिनां तद्-अन्तर्यामिना सह तस्यैक्य-भावनया भूत-ग्रामो देव-मनुष्यादि-समूहः ॥८॥
———————————————————————————————————————
॥ ३.६.९ ॥
साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा ।
विराट् प्राणो दश-विध एकधा हृदयेन च ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : प्राणादि-पञ्चकं चैव तथा नागादि-पञ्चकम् ।
स-नाग-कूर्म-कृकल-देवदत्त-धनञ्जयाः ।
एवं तु दशधा प्राणः अध्यात्मादि-त्रिधाखिला ॥ इति च व्योम-संहितायाम् ।
प्राणः प्रथमजो यस् तु प्रधानो वायुर् ईरितः ।
त्वग्-आत्माद्यास् तु तत्-पुत्रा द्विधाभूतम् उदाहृतम् ॥ इति तत्त्व-निर्णये ॥९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व-श्लोकार्थं विवृणोति । साध्यात्मः अध्यात्मानीन्द्रियाणि तत् सहितः । विराड् इति सर्वत्र ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र देवस्य ईश्वरस्य जीव-रूपा चिच्-छक्तिः तया हृदय-स्थया एकधा ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकधा दशधा त्रिधेति पूर्व-श्लोकोक्तं व्युत्क्रमेण विवृणोति—साध्यात्मः आध्यात्मानीन्द्रियाणि तत्-सहितः । अधिदैवानीन्द्रियाणां देवताः । अधिभूतानि अधिष्ठानानि विषयाश् च ।
प्राणोऽपानः समानश् च उदानो व्यान एव च ।
नागः कूर्मश् च कृकलो देवदत्तो धनञ्जयः ॥
इति वृत्ति-भेदेन दशविधः प्राण इति दशविधेनानेन विराड् एव दशविध इत्य् अर्थः । तत्र प्राणः प्राक्-क्रमणो नासाग्र-वर्ती । अपानोऽवाक्-क्रमणः पाय्व्-आदि-स्थान-वर्ती । समानो भुक्त-पीतान्नादि-समीकरणः शरीर-मध्य-वर्ती । उदान उत्क्रमणः कण्ठ-स्थान-वर्ती । नागः उद्गीरण-करः । कूर्मः उन्मीलन-करः । कृकरः क्षुधा-करः । देवदत्तो जृम्भा-करः । धनञ्जयः पोषण-करः । हृदयेन हृदयावच्छिन्नेन चैतन्येन जीवेन ॥९॥
———————————————————————————————————————
॥ ३.६.१० ॥
स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः ।
विराजम् अतपत् स्वेन तेजसैषां विवृत्तये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अध्यात्मादि-भेदं प्रपञ्चयितुम् आह—स्मरन्न् इति । विज्ञापितं यावद् बलिं तेऽज हराम [भा।पु। ३.५.४८] इत्य्-आदि । स्वेन तेजसा चिच्-छक्त्या । अतपत् एवं करिष्यामीत्य् आलोचितवान् । यस्य ज्ञान-मयं तपः इति श्रुतेः । विवृत्तये विविध-वृत्ति-लाभाय ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु विराट् पुरुषस्येदृशी शक्तिश् चेद् ईश्वर-प्रवेशेन किं तत्राह स्मरन्न् इति । अधोक्षजांशः पुरुषः । कारणानुग्रहेणैव कार्य-शक्तिर् उद्धवतीति भावः । अत एतद् अनन्तरम् एव स वै विश्व-सृजाम् इत्य्-आद्य्-उक्तं ज्ञेयम् । अतपत् स्वेन तेजसा प्रकाशयितुम् इष्टवान् ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्यात्मादि-भेदं प्रपञ्चयितुम् अन्तर्यामि-रूपेण प्रविष्टस्येश्वरस्य किम् अपि कृत्यम् आह—स्मरन्न् इति । विज्ञापितं यावद् बलिं तेऽज हराम [भा।पु। ३.५.४८] इत्य्-आदि । स्वेन तेजसा चिच्-छक्त्या । अतपत् प्रकाशयामास । एषां विश्व-सृजां विवृत्तये विविध-वृत्ति-लाभाय चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् इत्य्-आदि-श्रुतेः । कारण-शक्तिर् एव कार्येषूद्भवतीति भावः ॥१०॥
———————————————————————————————————————
॥ ३.६.११ ॥
अथ तस्याभितप्तस्य कतिधायतनानि ह ।
निरभिद्यन्त देवानां तानि मे गदतः शृणु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मत्तः शृणु ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य समष्टि-विराजः अभितप्तस्य परमेश्वरेण प्रकाशितस्य आयतनानि स्थान-भेदाः निरभिद्यन्त पृथग् भुवन् । मे मत्तः ॥११॥
———————————————————————————————————————
॥ ३.६.१२ ॥
तस्याग्निर् आस्यं निर्भिन्नं लोक-पालोऽविशत् पदम् ।
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आयतनान्य् एवाह—तस्याग्निर् इत्य्-आदि चतुर्दशभिः । आस्यं निर्भिन्नं पृथग्-जातम्। पदं स्व-स्थानम् । स्वांशेन स्व-शक्त्या वाचा सह अविशत् । असौ जीवः । वक्तव्यं प्रतिपद्यते—शब्दम् उच्चारयतीत्य् अर्थः । सर्वत्र यन् निर्भिन्नं तद् अधिष्ठानम् । अग्न्य्-आदि-प्रथमान्तम् अधिदैवम् । वाग्-आदीन्द्रियम् तृतीयान्तम् अध्यात्मम् । प्रतिपत्तव्यम् अधिभूतम् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्भिन्नं पृथग्-जातम् आस्यं पदं स्व-स्थानं वाचा वाग्-इन्द्रियेण सह अग्निर् अविशत् । स्वांशेन स्वेन एकांशेन यया वाचैव असौ जीवः विराट् वक्तव्यं प्रतिपद्यते शब्दम् उच्चारयतीत्य् अर्थः । एवं सर्वत्र यन् निर्भिन्नं द्वितीयान्तं तद् अधिभूतम् अधिष्ठानम् । यद् अग्न्य्-आदि-प्रथमान्तं तद् अधिदैवम् । यद् वाग्-आदि-तृतीयान्तं तद् अध्यात्मम् । यत् पुनर् द्वितीयान्तं क्वचित् षष्ठ्य्-अन्तं तद् अधिभूतं विषयः ॥१२॥
———————————————————————————————————————
॥ ३.६.१३ ॥
निर्भिन्नं तालु वरुणो लोक-पालोऽविशद् धरेः ।
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् विराजः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेः हरित्वेन ध्येयस्य विराजः ॥१३॥
———————————————————————————————————————
॥ ३.६.१४ ॥
निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् ।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो घ्राणात् ॥१४॥
———————————————————————————————————————
॥ ३.६.१५ ॥
निर्भिन्ने अक्षिणी त्वष्टा लोक-पालोऽविशद् विभोः ।
चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वष्टा आदित्यः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वष्टा सूर्यः ॥१५॥
———————————————————————————————————————
॥ ३.६.१६ ॥
निर्भिन्नान्य् अस्य चर्माणि लोक-पालोऽनिलोऽविशत् ।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राणेनेति । प्राण-वद् देह-व्यापिना त्वग्-इन्द्रियेणेत्य् अर्थः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : चर्माणीति चर्मोपलक्षिता त्वग् इत्य् अर्थः इति द्वितीय-स्कन्धे टीकास्य वर्तते । प्राणेनेन्द्रियेणात्र तु त्वग्-रूपेणेत्य् अर्थः ॥१६॥
———————————————————————————————————————
॥ ३.६.१७ ॥
कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः ।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शब्दस्य सिद्धिं ज्ञानम् ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिद्धिं ज्ञानम् ॥१७॥
———————————————————————————————————————
॥ ३.६.१८ ॥
त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः ।
अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वचं चर्म । ओषधीर् ओषधयः । त्वग्-इन्द्रियस्यैव स्थान-भेदेन विषय-द्वयं कण्डूः स्पर्शश् च । तत्र चायं नाम-भेदो देवता-भेदश् चेति द्वितीय-स्कन्ध एव व्याख्यातः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वचम् इति । एकस्मिन्न् अपि स्पर्श-ग्राहके भेद-द्वयम् इदं कल्प्यं बहिर्-अधिष्ठानं चर्म इन्द्रियं लोम-देवताश् च ओषध्य्-अधिष्ठात्र्य इत्य् एकः अन्तर्-बहिर्-अधिष्ठानं तु त्वग्-इन्द्रियम् अपि त्वग् इन्द्रियम् अपि त्वग् देवता च वायुर् इत्य् अन्यो भेदः ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ओषधीर् ओषधयः । अत्र त्वच्य् अधिष्ठाने त्वक् रोमाणि चेन्द्रिय-द्वयम् । तत्र त्वग्-इन्द्रिये अनिलो देवता स्पर्शो विषयः । रोमेन्द्रिये ओषध्यो देवताः कण्डु-विषयः ॥१८॥
———————————————————————————————————————
॥ ३.६.१९ ॥
मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् ।
रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कः प्रजा-पतिः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कः प्रजा-पतिः रेतसा रेत उपलक्षितेन उपस्थेन इत्य् अर्थः ॥१९॥
———————————————————————————————————————
॥ ३.६.२० ॥
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विसर्गं मल-मूत्रोत्सर्गम् ॥२०॥
———————————————————————————————————————
॥ ३.६.२१ ॥
हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् ।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्-पतिः स्वर्गस्य पतिः । वार्तया क्रय-विक्रयादि-शक्त्या । वृत्तिं जीविकाम् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वार्तया क्रय-विक्रयादि-शक्त्येति वार्ता बल-शिल्पादि-शब्द-वाच्यम् अध्यात्मम् । वृत्तिं जीविकाम् ॥२१॥
———————————————————————————————————————
॥ ३.६.२२ ॥
पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् ।
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ३.६.२३ ॥
बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् ।
बोधेनांशेन बोद्धव्यं प्रतिपत्तिर् यतो भवेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुद्धिं बुद्ध्य्-आस्पदं गोलकं हृदयैक-देशम् । वाग्-ईशो ब्रह्मा बोधेन बुद्ध्या । श्लोकोऽयम् असर्व-सम्मतः ॥२३॥
———————————————————————————————————————
॥ ३.६.२४ ॥
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् ।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विक्रियां सङ्कल्पादि-रूपाम् ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विक्रियां सङ्कल्पादि-रूपाम् ॥२४॥
———————————————————————————————————————
॥ ३.६.२५ ॥
आत्मानं चास्य निर्भिन्नम् अभिमानोऽविशत् पदम् ।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानम् अहङ्कारम् । अभिमन्यतेऽनेनेत्य् अभिमानो रुद्रः । कर्मणाऽहं वृत्त्या । कर्तव्यम् इति क्रियाम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानम् अहम्-भावास्पदं कर्मणा अहम्-भवेनेन्द्रियेण ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानम् अहङ्कारास्पदं गोलकं हृदयैक-देशम् । अभिमन्यतेऽनेनेति अभिमानो रुद्रः । कर्मणाहङ्कारेण कर्तव्यम् अभिमन्तव्यम् ॥२५॥
———————————————————————————————————————
॥ ३.६.२६ ॥
सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् ।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्त्वम् इति बुद्धि-चित्तयोर् अभेदेन निर्देशः । महान् इति ब्रह्मा । चित्तेन चेतनया ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्त्वं चित्तास्पदं गोलकं चित्तेनेन्द्रियेण विज्ञानं सामान्यतो ज्ञेयम्, तच् च बुद्धेर् अप्य् उपलक्षणं क्वचित् तु पादाव् अस्येत्य् अनन्तरं बुद्धिं चास्येत्य् आदिकम् अपि पद्यं पृथग् अस्ति ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वं चित्तास्पदं गोलकं हृदयैक-देशं महान् विष्णुः विज्ञानं चेतनाम् ॥२६॥
———————————————————————————————————————
॥ ३.६.२७ ॥
शीर्ष्णोऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत ।
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रि-लोकोत्पत्तिम् आह—शीर्ष्ण इति । वृत्तयः परिणामाः ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : शीर्ष्ण इति अस्य विराजः शीर्ष्णो द्युलोक-कारणांशात् । एवम् अन्यत्रापि ज्ञेयं भूवर्-लोकः ॥२७॥
———————————————————————————————————————
॥ ३.६.२८ ॥
आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।
धरां रजः-स्वभावेन पणयो ये च तान् अनु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव प्रपञ्चयति द्वाभ्याम् । आत्यन्तिकेनोर्जितेन । “पण व्यवहारे” । पणन्ते यागादिना व्यवहरन्तीति पणयो मनुष्याः, तान् अनु एतद्-उपकरण-भूता ये गवादयस् तेऽपि धरां प्रपेदिरे ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्यन्तिकेनोर्जितेन । पणन्ते यागादिना व्यवहरन्तीति पणयो मनुष्याः पण-व्यवहारे । तान् अनुवर्तन्ते ये तद्-उपकरण-भूता ये गवादयस् तेऽपि धरां प्रपेदिरे ॥२८॥
———————————————————————————————————————
॥ ३.६.२९ ॥
तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः ।
उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तृतीयं तमस् तदीयेन तामसेन । उभयोर् द्याव् आ-पृथिव्योर् अन्तरं मध्यं व्योमान्तरिक्षं, तद् एव भगवतो नाभिस् ताम् आश्रिता रुद्र-पार्षदां रुद्रस्य पार्षदानां भूतादीनां गणाः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तृतीयं तमस् तदीयेन तामसेनेत्य् अर्थः । ये रुद्र-पार्षदां भूतादीनां गणास् ते भगवतो विराजो नाभिम् आश्रिता इत्य् अन्वयः । नाभिर् एव का ? तत्राह—उभयोर् द्याव् आपृथिवोर् अन्तरज्ं मध्यं व्योम आकाशं भुवर्-लोकम् ॥२९॥
———————————————————————————————————————
॥ ३.६.३० ॥
मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।
यस् तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ब्रह्माभिमानी तु भृगुर् अजनि ब्रह्मणो मुखात् ।
क्षत्राभिमानी तु मनु-ब्रह्म-बाह्वोर् अजायत ॥
ऊर्वोर् विड्-अभिमानी च वास्तुः पादात् कृतिस् तथा ।
एते पूर्वं हरेर् जाता ब्रह्मणस् तद्-अनन्तरम् ।
एवं रुद्राच् च वायोश् च तद्-अन्त-स्थ-हरेर् यतः ॥ इति षाड्गुण्ये ॥३०॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवर्तत प्रवृत्तम् । ब्रह्म वेदः । यस् तून्मुखत्वान् मुखोद्भवत्वाद् वर्णानां मुख्यः मुखम् इव प्रथमो गुरुश् च अभूत् सोऽपि मुखतोऽवर्ततेत्य् अनुषङ्गः । अध्यापनादिना ब्राह्मणस्य वेदो वृत्तिः । तया वृत्त्या सह ब्राह्मणो मुखतो जात इत्य् अर्थः । एवम् उत्तरत्र वर्ण-त्रयेऽपि ज्ञातव्यम् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चातुर्वर्ण्योत्पत्तिम् आह । ब्रह्म वेदः । पुरुषस्य परमेश्वरेणैक्यात् तस्य मुखतोऽवर्तत अभूत्, यस् तून्मुखत्वाद् वेदोन्मुखत्वाद् धेतोर् वर्णानां मुख्यो गुरुश् च अभूत् ब्राह्मणः सोऽपि मुखतोऽवर्ततेत्य् अनुषङ्गः ॥३०॥
———————————————————————————————————————
॥ ३.६.३१ ॥
बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः ।
यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षत्रं पालन-रूपा वृत्तिस् तत् क्षत्रम् अनुव्रतोऽनुसृतः क्षत्रियोऽपि बाहुभ्योऽवर्तत इत्य् अर्थः । तद्-अनुव्रतत्वम् एवाह—य इति । पौरुषः पुरुषस्य विष्णोर् अंशः । कण्टकाश् चोरादयस् तेभ्यो यत् क्षतम् उपद्रवस् तस्मात् त्रायते रक्षति ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षत्रं पालन-शक्तिः तद्-अनुव्रतस् तद्-उन्मुखः क्षत्रियोऽपि बाहुभ्योऽवर्तत इत्य् अर्थः । कण्टकाश् चोरादयस् तेभ्यो यत् क्षतम् उपद्रवस् तस्मात् त्रायते रक्षति, यतः पौरुषं पुरुषस्यायं तदीय-पालन-शक्तिमत्त्वाद् इत्य् अर्थः ॥३१॥
———————————————————————————————————————
॥ ३.६.३२ ॥
विशोऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः ।
वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विशः कृष्य्-आदि-व्यवसायाः । लोकस्य वृत्ति-करीर् जीविका-हेतवः । तस्य विभोर् उर्वोः प्रवृत्ताः । तद्-उद्भव उरुजो वार्तां जीविकां यः स्व-वृत्त्या संपादितवान् ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशः कृष्य्-आदि-व्यवसायाः । उर्वोः उरुभ्यां लोकानां वृत्ति-करीर् जीविका-हेतवः । वैश्योऽपि तद्-उद्भव उरु-भवः । वार्तां जीविकां यः स्व-वृत्त्या समवर्तयत् संपादितवान् ॥३२॥
———————————————————————————————————————
॥ ३.६.३३ ॥
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये ।
तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यां निमित्त-भूतायाम् । यस्य वृत्त्या हरिः स्वयम् एव तुष्यति ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पद्भ्याम् इति । यद्-वृत्त्या शुश्रषा-रूपया ब्राह्मणादिना सर्वेणापि स्वस्मिन् कृतय हरिर् अपि तुष्यतीति तद्-वृत्तेर् महिमा दर्शितः । त्यक्त्वा स्व-धर्मं [भा।पु। १.५.१७] इत्य् आदौ न केवलेन स्व-धर्मेण, भगवत्-तोषानङ्गीकारात् ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुश्रूषा परिचर्या कर्मणो वर्णाश्रम-धर्मस्य सिद्धये शुश्रूषां विना कर्म-मात्रस्यैव सिद्धिर् न भवतीति सा शूद्रस्य वृत्तिर् भवन्त्य् अपि वस्तुतः सार्ववर्णिक्य् एवेति भावस् तस्यां विषये शूद्रो जातः, पद्भ्याम् इति शेषः । यद्-वृत्त्या हरिस् तुष्यतीति वेदादिभ्योऽपि शुश्रूषाया उत्कर्षः सूचितः ॥३३॥
———————————————————————————————————————
॥ ३.६.३४ ॥
एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् ।
श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रथम-जातैः सर्वैर् एतैस् तु स्व-स्व-धर्मः हरि-यजन-रूपतयैव भावित इति तदानीन्तनानां वैशिष्ट्यम् अभिप्रेत्याह—एत इति । अत्र यद् इति । विराजो हरि-शक्तित एव तच्-छक्तेः अतो हरि-भजने एव तद्-अभेदोक्तेस् तात्पर्यम् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् यस्माज् जाताः गुरुत्वाज् जनकत्वाद् वृत्ति-प्रदत्वाच् च हरेर् आराधनं तेषां परो धर्म इत्य् अर्थः ॥३४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सह-वृत्तिभिर् इति हरि-यजने जीविकार्थं चिन्ता न कार्येति भावः ॥३४॥
———————————————————————————————————————
॥ ३.६.३५ ॥
एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः ।
कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अधिकत्वाद् देव-शब्दो दैवतेष्व् अधिको यतः ।
दैवं हरिः कर्म-मूलं कृतिर् इत्य् एव भण्यते ।
आप्तत्वाद् आत्म-शब्दश् च श्रीपतित्वाच् च माधवः ॥ इति च ॥३५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : भो क्षत्तः, देव-कर्मात्म-रूपिणः काल-कर्म-स्वभाव-शक्तिमता भगवतो योग-माया-बलेनोज्जृम्भितम् एतद् विराड्-रूपम् उपाकर्तुं साकल्येन निरूपयितुं कः श्रद्दध्याद् इच्छेत । इच्छाप्य् अशक्या निरूपणं तु दूरत इत्य् अर्थः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : योग-मायात्र विश्व-सृष्ट्य्-आदि-शाक्तिः ॥३५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैव-कर्मात्मानः काल-कर्म-स्वभावाः स्वीय-शक्तित्वाद् रूपाणि तद्वतः । योगमाया-बलेन उदयो यस्य तद् एतद् विश्वम् उपाकर्तुं सामस्त्येन निरूपयितुं कः श्रद्दध्यात् इच्छेत् इच्छाप्य् अशक्यो निरूपणं तु दूरत एवेति भावः ॥३५॥
———————————————————————————————————————
॥ ३.६.३६ ॥
तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् ।
कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग विदुर, तथ्आपि हरेः कीर्तिं कीर्तयामि । यथा-श्रुतं गुरु-मुखात् । तद् अपि न सर्वात्मना, किन्तु यथा-मति स्व-मत्य्-अनुसारेण । अन्याभिधा हरि-व्यतिरिक्तार्थाभिधानं तया असतीं मलिनां स्वीयां वाचं सत्-कर्तुं पवित्री-कर्तुम् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कीर्तिं तादृग्-विराट्-सृष्ट्य्-आदि-वर्णन-रूपां गिरं वाग्-इन्द्रियम् ॥३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा-श्रुतं गुरु-मुखात् तथापि यथा-मति स्व-बुद्ध्या यावद्-गृहीतं तावद् एव, न तु यद् यद् एव श्रुतम् इत्य् अर्थः । अन्याभिधा हरि-व्यतिरिक्ता कथा तया असतीं मलिनां स्वीयं वाचं सत्-कर्तुं पवित्रीकर्तुम् ॥३६॥
———————————————————————————————————————
॥ ३.६.३७ ॥
एकान्त-लाभं वचसो नु पुंसां
सुश्लोक-मौलेर् गुण-वादम् आहुः ।
श्रुतेश् च विद्वद्भिर् उपाकृतायां
कथा-सुधायाम् उपसम्प्रयोगम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञात्वापि यथा-मति कीर्तने श्रवणे वा आवश्यकं कैवल्यम् इत्य् आह—एकान्ततो लाभं नु निश्चितम् आहुः । श्रुतेः श्रोत्रस्य । उपाकृतायां निरूपितायाम् । उपसंप्रयोगं सन्निधाव् अर्पणम् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एकान्तेति । कैवल्य-सुखस्याप्य् अतिक्रमाद् इति भावः ॥३७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरि-कष्टमृताब्धेर् अपारत्वात् सामस्त्येन ज्ञानं न कस्याप्य् अतो यत् किञ्चिज् ज्ञाने एव तत्-कीर्तन-श्रवणाभ्यां लोकाः कृतार्थी-भूय तं प्राप्नुवन्तीत्य् आह—गुण-वादं गुण-कीर्तनम् एव एकान्ततो लाभम् आहुर् अन्यत् सर्वं वचसोऽपचयम् एवेत्य् अर्थः । श्रुतेः शोत्रस्यापि उपाकृतायां कीर्तितायाम् उपसम्प्रयोगं सन्निधाव् अर्पणम् ॥३७॥
———————————————————————————————————————
॥ ३.६.३८ ॥
आत्मनोऽवसितो वत्स महिमा कविनादिना ।
संवत्सर-सहस्रान्ते धिया योग-विपक्वया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न चातीव ज्ञाने निर्बन्धः कर्तव्यः, ब्रह्मणोऽपि दुर्ज्ञेयत्वाद् इत्य् आह—आत्मनो हरेर् महिमा योग-विपक्वयापि धिया संवत्सर-सहस्रान्तेऽप्य् आदि-कविना ब्रह्मणापि किम् अवसितः किं ज्ञातः ? इति काकूक्त्या एतावान् इति न ज्ञात एवेत्य् उक्तम् ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मन इति सार्धकं परमात्मनो महिमा अचिन्त्यैश्वर्यादि-रूपः संवत्सर-सहस्रान्ते योग-विपक्वया धियैव वसितः अचिन्त्य-शक्तित्वेनैव निश्चितः ॥३८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चातीव ज्ञाने निर्बन्धः कार्यः, ब्रह्मणोऽपि दुर्ज्ञेयत्वाद् इत्य् आह—आत्मनो हरेर् महिमा योग-विपक्वयापि संवत्सर-सहस्रान्तेऽप्य् आदि-कविना ब्रह्मणापि किम् अवसितः किं ज्ञातः ? इति काकूक्त्या एतावान् इति न ज्ञात एवेत्य् अर्थः । यद् वा, संवत्सर-सहस्रान्त एव महिमा इति अचिन्त्यत्वानन्तत्वाभ्यां दुर्ज्ञेयत्वेन निश्चीयते, तद् एव भगवन्-महिम्नो ज्ञानम् एतावद् इदम् इत्थं-कारेण ज्ञानं तज्-ज्ञानम् एवेति भावः । तथा च श्रुतिः—अयतिषष्ठतं तस्य मतं यस्य न वेद स इति ॥३८॥
———————————————————————————————————————
॥ ३.६.३९ ॥
अतो भगवतो माया मायिनाम् अपि मोहिनी ।
यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मा ब्रह्मा न वेद । अहं रुद्रः ।
गुण-पूर्तेर् आत्म-शब्दो ब्रह्मा हीनत्वतो हरः ।
अहं शब्दस् तथाप्य् एतौ न जानीतो हरिं परम् ॥ इति ब्राह्मे ।
भगवतो मायां भगवतो महिमानम् ।
माया तु महिमा प्रोक्ता प्राचुर्ये तु मयट् यतः ॥ इति पाद्मे ।
आत्म-वर्त्मा परमात्म-गतिः ॥३९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् यस्मात् स्वयम् अप्य् आत्मा हरिर् आत्म-वर्त्म स्व-माया-गतिम् एतावद् इति न वेद, अनन्तत्वात् ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतो ये तु चिन्त्यत्वेनैव निश्चिन्वन्ति तेषाम् अन्यान् प्रतिमायिनां मोह-कारिणाम् अपि भगवतो माया मोहिनी भवतीत्य् अर्थः । अतः कारणात् तन्-माया मायिनाम् अपि मोहिनीति सार्धेनान्वयः । भगवत इत्य् अत्र भगवतीति क्वचित् पाठः । अचिन्त्यत्वम् एव दर्शयति यद् इति सार्धकेन । यत् यस्मात् स्वयम् अपि आत्मा वर्त्म-स्वरूपैश्वर्यं न वेद सार्वज्ञेनापि न परिच्छिनत्ति अनन्तत्वात् अतस् तस्मै नम एव केवलम् इत्य् अर्थः ॥३९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् आत्म-तत्त्वं जानन्तोऽन्यान् अपि ज्ञापयन्तो दार्शनिका बहव एव दृश्यन्ते, तत्राह—अत इति । अतः कारणात् तन्-माया मायिनां बोधयितव्येषु स्व-शिष्येषु मायाम् एवार्पयतां तेषाम् अपि मोहिनी निश्चयेनैव मोहिनी मुहुर् अपि संसारेषु पातयितुम् इति भावः । यद् यतः स्वयम् आत्मा परमेश्वरोऽपि आत्म-वर्त्म स्व-स्वरूपं न वेद न जानाति, अपरे वराका किम् उत जानीयुः ? ॥३९॥
———————————————————————————————————————
॥ ३.६.४० ॥
यतोऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह ।
अहं चान्य इमे देवास् तस्मै भगवते नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो दुर्ज्ञेयत्वात् केवलं नमस्करोति—यत इति । यस्य ज्ञानाय प्रवृत्ता वाचोऽपि मनसा सह तम् अप्राप्यैव न्यवर्तन्त दुर्ज्ञेयत्वात् । न केवलं वाङ् मनसी, अहम् अहङ्कारस्याधिष्ठाता रुद्रोऽपि । इमे इन्द्रियाधिष्ठातारो देवा अन्ये च ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् एव विशिनष्टि यत् इति निवर्तन्त इति क्वचित् पाठः ॥४०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो दुर्ज्ञेयत्वम् एव स्थापयन् नमस्करोति । अप्राप्य अन्तम् अलब्ध्वा यतः सकाशान् निवर्तते वाचः समष्टि-व्यष्टीनां सर्वेषाम् अपि वाग्-इन्द्रियाणि मनसा सहेति मनांसि च । यद् वा, ब्रह्मणो मुखान् निर्गताः सर्वे वेदा एव वाचः, तस्यैव मनसा सह, अहम् अहङ्काराधिष्ठाता रुद्रः, इमे देवा बृहस्पत्य्-आदयश् च यतो निवर्तन्ते । कुतः ? अप्राप्य यन्-नाम-रूप-चरित्रादिनां सम्यङ्-माधुर्य-ग्रहणासमर्थ्यात् अपाराणां तेषाम् अन्त-प्राप्त-सामर्थ्याच् चेत्य् अर्थः । श्रुतिर् अप्य् आचष्टे—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१]इति । अत्रापादान-निर्देशे एव वाङ्-मनः-संश्लेष-प्रत्यायको निवृत्तिस् त्व् अनन्तत्वेन प्रमातुम् अशक्यत्वाद् इति ज्ञेयम् । सर्वथैव वाग्-आद्य्-अगम्यत्वं त्व् आत्मनो न व्याख्येयम् । वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५.१५] इति, मनसैवानुद्रष्टव्यम् एतद् अमेयं ध्रुवं, तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्य्-आदि-श्रुति-विरोधापत्तेः ॥४०॥
———————————————————————————————————————
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽध्यायस् तृतीयेऽस्मिन् सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां
तृतीय-स्कन्धे विदुरोद्धव-संवादे
षष्ठोऽध्यायः ।
॥ ३.६ ॥
(३.७)