विषयः
विदुर-प्रश्नम् अनुसृत्य मैत्रेय-द्वारा सृष्टि-क्रम-वर्णनं, तत्र महद्-आदि-तत्त्वानाम् उत्पत्तिः, तत्त्वात्मक-देवैः कृतं भगवत्-स्तवनं च ।
॥ ३.५.१ ॥
श्री-शुक उवाच—
द्वारि द्यु-नद्या ऋषभः कुरूणां
मैत्रेयम् आसीनम् अगाध-बोधम् ।
क्षत्तोपसृत्याच्युत-भाव-सिद्धः
पप्रच्छ सौशील्य-गुणाभितृप्तः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
उक्तश् चतुर्भिर् अध्यायैः क्षत्तुर् मैत्रेय-सङ्गमः ।
संवादस् तु तयोः स्कन्ध- द्वयेनाथ निगद्यते ॥
द्यु-नद्या गङ्गाया द्वारि हरिद्वारे आसीनं न तु कर्म-व्यग्रम् । तत्र हेतुः—अगाधोऽपरिच्छिन्नो बोधो यस्येति । मैत्रेयस्य सौशील्यम् आर्जवादि, गुणाश् च करुणादयस् तैर् अभितृप्तः । पाठान्तरे क्षत्तुः सौशील्यादिभिर् अभितृप्तं सन्तुष्टं मैत्रेयम् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सौशील्यं सुस्वभावः तत्-प्रधाना गुणास् तैस् तृप्तो मानादीच्छा-रहितः पाठान्तरे क्षत्तुः सौशील्यादिभिर् अभितृप्तं सन्तुष्टं मैत्रेयम् ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चमे जगतः सृष्ट्य्-आद्य् अपृच्छत् सुख-दुःखिनः ।
क्षत्त्रा प्रत्याह मैत्रेयः सर्गं तत्त्वैः स्तवं हरेः ॥
भङ्ग्या चतुर्भिर् अध्यायैर् आश्रयस्याङ्गिनः स्थितिम् ।
उक्त्वा तद्-अङ्गेषूक्तोऽपि सर्गः स व्यासम् उच्यते ॥
द्यु-नद्या गङ्गायाः द्वारि हरिद्वारे आसीनं, न तु कार्य-व्यग्र्यम् । प्रथमान्त-पाठे—मैत्रेयस्य सौशील्य-गुणैः सन्तुष्टः, द्वितीयान्त-पाठे—विदुरस्य ॥१॥
———————————————————————————————————————
॥ ३.५.२ ॥
विदुर उवाच—
सुखाय कर्माणि करोति लोको
न तैः सुखं वान्यद्-उपारमं वा ।
विन्देत भूयस् तत एव दुःखं
यद् अत्र युक्तं भगवान् वदेन् नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रश्नान् एवाह—सुखायेति पञ्च-दशभिः । तैः कर्मभिः । सुखं वान्यस्य सुःखस्योपशमं वेत्य् अर्थः । अथवान्यद् वा न विन्देत । किं तत् ? इत्य् अपेक्षायां तस्यैव निर्देशः । उपारमं वेति । ततस् तैः कर्मभिर् भूयः पुनः पुनर् दुःखम् एव विन्देत । अत्रैवं विधे संसारे नोऽस्माकं यद् युक्तं कर्तुं योग्यं तत्-सर्व-ज्ञो भगवान् वदेन् निरूपयतु ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र यद्यपि विदुरः श्री-भगवद्-इष्ट-ज्ञानं श्रोतुम् अभीष्टवान् पृष्टवांश् च श्रीमद्-उद्धवं प्रति पूर्वं श्रीमद्-उद्धवेन च श्री-मैत्रेयं प्रति प्रष्टुं श्री-भगवद्-आज्ञानुसारेणोपदिष्टः । तथापि तं प्रति तम् अनुपृष्टवांस् तत् खलु श्रीमद्-उद्धव-विषयक-प्रश्नानन्तरं जातेन दैन्य्स्वभावेनैव । दैन्यं च श्री-भगवता स्व-प्रतिनिधि-रूपोद्धव-द्वारानुपदेशेनात्मनि नातियोग्यता-मननात् श्रीब्-हगवांस् तु तस्य श्रीमद्-उद्धवाच् चतुःश्लोकी-मट्रेण मनः-प्रकाशाभावं तथा बहूंश् च प्रष्टव्यान् अर्थान् विज्ञाय तावत् संवाद-निर्विण्णेन तेन तन् नोपदिदेश, किन्तु तत्र योग्येन मैत्रेयेणैवेति । तस्माद् आत्मनि तज्-ज्ञान-योग्यत्वापादन-साधनायैव स निवेदयति सुखायेति त्रिभिः । तत्रात्मनः साधारण्याय । लोक-मात्रस्य दौस्थ्यं प्रथमेन तादृशं विनान्याश्रय-राहित्यं द्वितीयेन । अभीष्ट-प्रार्थनं तृतीयेन ज्ञेयम् ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र भगवद्-उपदिष्टं रहस्यं ज्ञानम् उद्धवात् प्राप्य स्वस्य तत्रायोग्यतां मत्वा अतिनिर्विण्ण एव विदुरो मनसि पराममर्श । तस्यानुरक्तस्य मुनेर् मुकुन्दः पर्मोद-भारानतकन्धरस्य । आशृण्वतो माम् अनुराग-हास-समीक्षया विश्रमयन्न् उवाचेत्य् उद्धवोक्तेः । परमान्तरङ्ग-स्व-भक्त-चूडामणिम् उद्धवम् एव भगवान् रहस्यं स्व-ज्ञानम् उपदिदेश, न तु शृण्वन्तम् अपि । मैवम् । तद् अहं तज्-ज्ञानार्थम् इमम् अजानन्तं महानुभावं प्रथमं न प्रार्थ्र्थयिष्यन् किन्तु स्व-जिज्ञास्सितम् एव यत् किञ्चित् पृच्छामि । यदि च तद् अयं जानाति तदा भो विदुर त्वद्-अर्थं भगवताहम् आदिष्टो भगवत्-प्रोक्तं तस्याजत्व-जन्मवत्त्वादि-विरोध-परिहारकम् अतिरहस्य-ज्ञानं त्वं गृहाणेति स्वयम् एव वक्ष्यतीत्य् अत आह सुखायेत्य् आदि । तैः कर्मभिः सुखं वा अन्यत् दुःखोपशमनं वा उपरमं वैराग्यं वा न विन्देत । किन्तु भूयो भूयः कृतेभ्यस् तेभ्यः कर्मभ्यो दुःखम् एव । अत्र प्रश्ने यद् युक्तं तद् उत्तरं नो अस्मान् वदतु भवान् ॥२॥
———————————————————————————————————————
॥ ३.५.३ ॥
जनस्य कृष्णाद् विमुखस्य दैवाद्
अधर्म-शीलस्य सुदुःखितस्य ।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दैवात् प्राचीन-कर्मणो निमित्त-भूतात् कृष्णाद् विमुखस्यातोऽधर्म-शीलस्यातः सुदुःखितस्य जनस्यानुग्रहाय भव्यानि मङ्गलानि भूतानि चरन्ति । भवन्तः परोपकार-स्वभावा एवेत्य् अर्थः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : जनस्येति । दैवात् प्राचीन-कर्मणो हेतोस् तद्-आवेशाद् अधर्म-शीलस्य भगवद्-धर्म-रहितस्येत्य् अर्थः ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-भूतानुग्राहका भवद्-विधा महा-भागवता एव तत्त्वं जानन्तीत्य् आह—भव्यानि भूतानि मङ्गल-रूपा भक्ताः ॥३॥
———————————————————————————————————————
॥ ३.५.४ ॥
तत् साधु-वर्यादिश वर्त्म शं नः
संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्ति-पूते
ज्ञानं स-तत्त्वाधिगमं पुराणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मात् हे साधु-वर्य, शं सुख-रूपं वर्त्म न आदिश कथय । येन वर्त्मना संराधितो हृदि-स्थितः सन् । स-तत्त्वाधिगम आत्मापारोक्ष्यं तत्-सहितम् । पुराणम् अनादि-वेद-प्रमाणकम् ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् साध्व् इति भक्ति-पूते प्रेम-विमले । सत्त्वं ज्ञानं तच् च ब्रह्म-भगवत्-परमात्मेत्य् आविर्भावम् ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शं सुख-रूपं वर्त्म भजन-मार्गं नोऽस्मान् आदिश । स प्रसिद्धो भगवान् । तत्त्वस्य—वदन्ति तत् तत्त्वविदः [भा।पु। १.२.११] इत्य् अनेनोक्तस्य ब्रह्म-परमात्म-भगवत्-स्वरूपस्याधिगमो यस्मात् तज्-ज्ञानं यच्छति । यद् उक्तं—
तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया । > पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ [भा।पु। > १.२.१२] इति ।
पुराणं पुरातनं न मीमांसादिकम् इवार्वाचीनम् ॥४॥
———————————————————————————————————————
॥ ३.५.५ ॥
करोति कर्माणि कृतावतारो
यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः ।
यथा ससर्जाग्र इदं निरीहः
संस्थाप्य वृत्तिं जगतो विधत्ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : करोति कर्माणीत्य्-आदीनां वर्णयेति पञ्चम-श्लोके क्रिया-संबन्धः । यथा येन प्रकारेण पुरुष-रूपेण कृतावतारः सन् त्र्य्-अधीशः त्रि-गुण-माया-नियन्ता, अतः स्व-तन्त्र एव, यानि कर्माणि करोति । कर्माण्य् एव विशेषतः पृच्छति—यथेत्य्-आदिना । निरीहो निष्क्रियो निःस्पृहो वा संस्थाप्य सु-स्थितं कृत्वा । वृत्तिं जीविकाम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र बहुषु साधनेषु सत्सु निज-हृद्यं निवेदयति—करोतीत्य् आदिभिः। टीकायां यथेत्य्-आदिनेति । उभयत्रापि यथा-शब्दस्य सम्बन्धात् पूर्वम् अपि योजितम् ॥५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : करोति कर्माणीत्य्-आदीनां वर्णयेति पञ्चम-श्लोकस्थेनान्वयः । त्र्यधीशः पुरुष-त्रयेशः कृष्णः कर्माणि गोवर्धनोद्धरणादीनी । त्रि-गुण-मायाधिष्ठाता महा-विष्णुश् च यथा इदम् अग्रे पूर्व-महा-कल्पान्ते संस्थाप्य संहृत्य पुनर् एतन्-महा-कल्पादौ ससर्ज, सृष्ट्वा च वृत्तिं जीविकांपालनम् इत्य् अर्थः ॥५॥
———————————————————————————————————————
॥ ३.५.६ ॥
यथा पुनः स्वे ख इदं निवेश्य
शेते गुहायां स निवृत्त-वृत्तिः ।
योगेश्वराधीश्वर एक एतद्
अनुप्रविष्टो बहुधा यथासीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वे स्वीये स्वे हृदयाकाशे निवेश्य स्थापयित्वा । निवृत्ता वृत्तयो यस्य । गुहायां योग-मायायाम् । बहुधा ब्रह्मादि-रूपेण ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वे स्वस्वरूपे खे आकाशे आकाशस् तल्-लिङ्गाद् इत्य्-आदि-न्यायेन ब्रह्म-खे निवेश्य विलाप्य गुहायां कस्मिंश्चित् सर्वागोचर-प्रदेशे तत्-तादात्म्येन तिष्ठति महत् स्रष्टृ-पुरुष इति शेषः ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा पुनश् च स्वे स्वीये हृदयाकाशे निवेश्य स्थापयित्वा गुहायां सर्वागम्यत्वाद् विरजायां नद्याम् इत्य् अर्थः । निवृत्त-माया-गुण-वृत्तिः । पुनश् च एतज् जगत् सृष्ट्वानुप्रविष्टः । बहुधा देव-मनुष्यादि-रूपो यथासीद् इति सृष्ट्यादि-प्रश्न-पौनःपुन्यं प्रति महा-कल्प-गता सृष्ट्य्-आदि-लीला एक-रूपा भिन्न-रूपा वेति जिज्ञासया ॥६॥
———————————————————————————————————————
॥ ३.५.७ ॥
क्रीडन् विधत्ते द्विज-गो-सुराणां
क्षेमाय कर्माण्य् अवतार-भेदैः ।
मनो न तृप्यत्य् अपि शृण्वतां नः
सुश्लोक-मौलेश् चरितामृतानि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्स्याद्य्-अवतार-भेदैः क्रीडन् यानि यथा कर्माणि विधत्ते । पुनर् विशेषं प्रष्टुम् औत्सुक्यम् आविष्करोति—मन इति । सु-श्लोकाः पुण्य-कीर्तयः, तेषां मौलिर् इवाधिक्येनोपरि-विराजमानः, तस्येत्य् अर्थः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवतार-भेदैर् मत्स्य-कूर्मादिभिः ॥७॥
———————————————————————————————————————
॥ ३.५.८ ॥
यैस् तत्त्व-भेदैर् अधिलोक-नाथो
लोकान् अलोकान् सह लोकपालान् ।
अचीकॢपद् यत्र हि सर्व-सत्त्व-
निकाय-भेदोऽधिकृतः प्रतीतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अधिलोक-नाथो लोकनाथाधिपतिः । अलोकान् लोकालोक-पर्वताद् बहिर्-भागान् । अचीकॢपत् कल्पयाम् आस । यत्र येषु सर्वाणि यानि सत्त्वानि, तेषां निकायाः, तेषां भेदोऽधिकृतस् तत्-तत्-कर्माधिकारी आश्रित इति वा ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्त्व-भेदैर् वैराज-पादादिभिः पृथिव्याद्यैर् लोकान् पातालादीन् अलोकान् लोकालोक-पर्वताद् बहिर्-भागान् अचीकॢपत् कल्पयामास, यत्र येषु सर्व-प्राणि-निकायानां भेदो नाना-विशेषोऽधिकृतः भक्ति-ज्ञान-योग-कर्माद्य्-अधिकारी भवेत् । प्रतीतः ख्यातोऽबाधितश् च ॥८॥
———————————————————————————————————————
॥ ३.५.९ ॥
येन प्रजानाम् उत आत्म-कर्म-
रूपाभिधानां च भिदां व्यधत्त ।
नारायणो विश्वसृग् आत्म-योनिर्
एतच् च नो वर्णय विप्र-वर्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उतापि च येन प्रकारेण जीवानाम् आत्मा स्वभावस् तत्-कृतं कर्म तत्-कृतं रूपं तत्-कृता अभिधास् तासां भेदं कृतवान् । विश्व-स्रष्टा स्वयम् आत्म-योनिः स्वतः सिद्धः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत अपि च, येन प्रकारेण जीवानाम् आत्मा स्वभावः, तद्-अनुसृतं कर्म, कर्मानुसृतं रूपं, रूपानुसृता अभिधा, तासां भेदं कृतवान्, नारायण एव विश्व-सृग्-विश्व-सृष्ट्य्-अर्थम् आत्म-योनिर् ब्रह्मा सन्न् इत्य् अर्थः ॥९॥
———————————————————————————————————————
॥ ३.५.१० ॥
परावरेषां भगवन् व्रतानि
श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् ।
अतृप्नुम क्षुल्ल-सुखावहानां
तेषाम् ऋते कृष्ण-कथामृतौघात् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : ऋते अवगमे, ऋ गतौ इति धातोः तेषां तात्पर्यावगमे कृष्ण-कष्टमृतौघ एवासौ यतः ॥१०॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु महाभारते त्वया सर्वं श्रुतम् एव, किं पुनः प्रश्नैः ? तत्राह—परे त्रैवर्णिका अवरे शूद्रादयः, तेषां व्रतानि धर्माः । मे मया । अभीक्ष्णं पुनः पुनः । तेषां श्रवणेनातृप्नुम तृप्ताः स्म । तेषां तुच्छ-सुखावहत्वात् । यस् तु तत्र कृष्ण-कथामृतौघः सूचितस् तस्माद् ऋते । तत्र त्व् अलं-बुद्धिर् नास्तीत्य् अर्थः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एतत् सर्वं महाभारते त्वया श्रुतम् एव, तत्राह—परे देवाद्या अवरे पश्वाद्यास् तेषां व्रतानि स्वभावास् तेषां तैर् अतृप्नुम तृप्ताः स्मः, नाग्निस् तृप्यति काष्ठानाम् इतिवत् षष्ठी । क्षुल्लं तुच्छं किन्तु यस् तत्र कृष्ण-कष्टमृतौघस् तस्माद् ऋते । तेन यद् यन् मया पृच्छ्यते, तत् तत् सर्वं कृष्ण-कष्टमृत-सम्पृक्तम् एव त्वया वक्तव्यम् इति भावः ॥१०॥
———————————————————————————————————————
॥ ३.५.११ ॥
कस् तृप्नुयात् तीर्थ-पदोऽभिधानात्
सत्रेषु वः सूरिभिर् ईड्यमानात् ।
यः कर्ण-नाडीं पुरुषस्य यातो
भव-प्रदां गेह-रतिं छिनत्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुः—क इति । तीर्थ-पदः कृष्णस्य । अभिधानात् कथामृतौघात् । सत्रेषु समाजेषु । सूरिभिर् नारदादिभिः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कृष्ण-कथापि त्वया बहुश एव श्रुता, तत्राह—क इति । अभिधानात् नामत एव किम् उत कथाभ्यः । यद् वा, अभिधानात् कथन-मात्रात् ल्यब्-लोपे पञ्चमीयम् ॥११॥
———————————————————————————————————————
॥ ३.५.१२ ॥
मुनिर् विवक्षुर् भगवद्-गुणानां
सखापि ते भारतम् आह कृष्णः ।
यस्मिन् नृणां ग्राम्य-सुखानुवादैर्
मतिर् गृहीता नु हरेः कथायाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महाभारतस्याप्य् अत्रैव तात्पर्यम् इत्य् आह—मुनिः कृष्णो वेद-व्यासो भगवद्-गुणान् मोक्ष-धर्मान्ते नारायणीयाख्याने वक्तुम् इच्छुः सन् । अर्थ-कामादि-वर्णनं तु हरि-कथायां मति-प्रवेशार्थम् एवेत्य् आह—यस्मिन्न् इति । नृणां मतिर् ग्राम्य-सुखानुवादैर् द्वार-भूतैर् नु निश्चितं हरेः कथायां गृहीता नीता । तद् उक्तम् इतिहास-समुच्चये—
कामिनो वर्णयन् कामान् लोभं लुब्धस्य वर्णयन् । > नरः किं फलम् आप्नोति कूपेऽन्धम् इव पातयन् । > लोक-चित्तावतारार्थं वर्णयित्वात्र तेन तौ । > इतिहासैः पवित्रार्थैः पुनर् अत्रैव निन्दितौ । > अन्यथा घोर-संसार-बन्ध-हेतू जनस्य तौ । > वर्णयेत् स कथं विद्वान् महा-कारुणिको मुनिः ॥ इति ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुनिर् विवक्षुर् इति । यस्मिन् ग्राम्य-सुखानुवाद-प्राये । कौरवादीनां कथायां श्री-कृष्ण-कथानुगतौ । तद् एतद् विदुरस्य श्री-व्यासाच् छ्रवणं च तीर्थाटन-समय एव ज्ञेयम् ॥१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महाभारतस्यापि वस्तुतस् तत्रैव तात्पर्यम् इत्य् आह—मुनिः कृष्णो वेद-व्यासः । गुणानाम् इति द्वितीयायां षष्ठी । यद् वा, उत्कर्षम् इत्य् आक्षेप-लभ्यं, यस्मिन् भारते ग्राम्य-सुखानुवादैः अर्थ-काम-कथानुकथनैर् नृणां विषय-लुब्धानाम् अपि मतिर् गृहीता व्यासेन स्व-हस्त-वशीकृता किम्-अर्थं हरेः कथायां भगवद्-गीता-नारायणीयोपाख्यानादिषु प्रवेशयितुम् इत्य् आक्षेप-गम्यम् । अन्यथा परमार्थ-कष्टम् अशृण्वन्तस् ते तत्-समीपम् एव नैवायास्यन् । तद् उक्तम् इतिहास-समुच्चये—
कामिनो वर्णयन् कामान् लोभं लुब्धस्य वर्णयन् । > नरः किं फलम् आप्नोति कूपेऽन्धम् इव पातयन् ॥ > लोक-चित्तावतारार्थं वर्णयित्वात्र तेन तौ । > इतिहासैः पवित्रार्थैः पुनर् अत्रैव निन्दितौ ॥ > अन्यथा घोर-संसार-बन्ध-हेतू जनस्य तौ । > वर्णयेत् स कथं विद्वान् महा-कारुणिको मुनिः ॥ इति ॥१२॥
———————————————————————————————————————
॥ ३.५.१३ ॥
सा श्रद्दधानस्य विवर्धमाना
विरक्तिम् अन्यत्र करोति पुंसः ।
हरेः पदानुस्मृति-निर्वृतस्य
समस्त-दुःखाप्ययम् आशु धत्ते ॥
मध्वः: हरेः कथायां विवर्धमाना मतिः ॥१३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-हरि-कथायां मति-प्रवेशस्य फलम् आह—सा कथा मतिर् वा । अन्यत्र ग्राम्य-सुखे । ततः किम् ? अत आह—हरेर् इति ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सा हरेः कथा । समस्तेति श्री-हरि-साक्षात्कारेणेति भावः ॥१३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरि-कथायां मति-प्रवेशस्य फलम् अधिकारि-भेदेनाह—सा हरि-कथा श्रद्दधानस्य हरि-कथायाम् एव परम-पुरुषार्थ-बुद्ध्या विश्वसतः शुद्ध-भक्तस्येत्य् अर्थः । अन्यत्र धर्मार्थ-काम-मोक्षेषु ।
ननु कथं मोक्षेऽपि विरक्तिं चेत् करोति, ततः कथं निर्वृतिः संसार-दुःख-नाशो वा ? तत्राह—हरेः पदयोर् अनुस्मृतिः प्रतिक्षणम् एव माधुर्यानुभूतिस् तयैव निर्वृतस्य लब्ध-परमानन्दस्य पुंसः समस्त-दुःखो यः संसारस् तस्यापि अप्ययं नाशं, तत्रापि आशु शीघ्रम् एव ॥१३॥
———————————————————————————————————————
॥ ३.५.१४ ॥
ताञ् छोच्य-शोच्यान् अविदोऽनुशोचे
हरेः कथायां विमुखान् अघेन ।
क्षिणोति देवोऽनिमिषस् तु येषाम्
आयुर् वृथा-वाद-गति-स्मृतीनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतायां कथायां ये न रमन्ते, तान् शोचति । शोच्या ये, तेषाम् अपि शोच्यांश् च । तत्राविदो भारत-तात्पर्यान् अभिज्ञान् शोच्यान् । ये तु ज्ञात्वापि हरेः कथायां विमुखाः, तांस् तेषाम् अपि शोच्यान् इति योज्यम् । अनिमिषः कालो येषाम् आयुः क्षिपति । अत्रैव हेतुः—वृथैव वाद-गति-स्मृतयो वाग्-देह-मनो-व्यापारा येषाम् ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र त्रिविधा एव जना दृश्यन्ते, केचिद् आवेशेन हरि-कथायां श्रोतारः केचिद् अनावेशेन केचित् तु विमुखा एवेति । तत्रावेशिनाम् अनावेशिनः शोच्याः । विमुखास् त्व् अनावेशिनाम् अपीति पर्यालोच्याह—तान् इति । स्पष्टम् एव ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र हरि-कथायां त्रिविधा जनाः सम्भवन्ति—श्रद्दधाना अश्रद्दधाना विमुखाश् च । श्री-भागवत-मते भक्तौ परम-पुरुषार्थत्वेन विश्वसन्तः श्रद्दधाना उच्यन्ते—
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । > मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा।पु। > ११.२०.९]
जात-श्रद्धो मत्-कथासु [भा।पु। ११.२०.२७] इत्य् आदौ, तथा प्रतिपादयिष्यमाणत्वात् । पुरुषार्थ-साधन-मात्रत्वेनैव विश्वसन्तोऽश्रद्दधानाः । भक्त्या विनैव पुरुषार्थान् सिषाधयिषवो विमुखाः, तत्र प्रथमान् साभिनन्दनम् उक्त्वा द्वितीयान् उल्लङ्घ्य तृतीयान् शोचति—शुद्ध-भक्तैर् ये शोच्याः स्वर्ग-मोक्षादि-साधन-रतास् तैर् अपि भक्ति-रहित-कर्म-ज्ञान-योगादि-मतोऽनुशोचामि । तत्र हेतुः—अविदः शास्त्रान्य् अधीत्याधीत्यापि तत्-तात्पर्यम् अविदुषः, यतो हरेर् इत्य्-आदि । अघेन प्राचीनार्वाचीन-महापराधेनैव हेतुनेत्य् अर्थः । अनिमिषः कालः । ननु तेऽपि स्व-स्व-मत-स्थापने नाना-वाद-नाना-गति-नाना-स्मृत्य्-आदिमन्तः सभायां प्रगल्भन्ते, तत्र स-धिक्-कारम् आह—वृथेत्य् आदि ॥१४॥
———————————————————————————————————————
॥ ३.५.१५ ॥
तद् अस्य कौषारव शर्म-दातुर्
हरेः कथाम् एव कथासु सारम् ।
उद्धृत्य पुष्पेभ्य इवार्त-बन्धो
शिवाय नः कीर्तय तीर्थ-कीर्तेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्माद् धे कौपारव ! अस्य विश्वस्य शिवाय कथासु सार-भूतां हरेः कथाम् एवोद्धृत्य नः कीर्तय । यथा पुष्पेभ्यो मधु मधुप उद्धरति तद्वद् उद्धृत्य ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मात् हे कौशारव ॥१५॥
———————————————————————————————————————
॥ ३.५.१६ ॥
स विश्व-जन्म-स्थिति-संयमार्थे
कृतावतारः प्रगृहीत-शक्तिः ।
चकार कर्माण्य् अतिपूरुषाणि
यानीश्वरः कीर्तय तानि मह्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विशेषतः श्री-कृष्ण-कथा कथनीयेत्य् आशयेनाह—स इति । यो विश्व-सर्गाद्य्-अर्थं पूर्वं गृहीत-शक्तिः स एव पुरुषेषु कृतावतारः सन् पुरुषान् अतिक्रम्य वर्तमानानि यानि चकार तानि विस्तराद् वद ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र विशेषतः श्री-कृष्ण-कथानुरक्तत्वेऽपि विरह-दुःख-वृद्धि-भयात् सामान्यत एव पृच्छति—स विश्वेति । अत एव श्री-मैत्रेयोऽपि तत्-कथां न प्रस्तुतवान् इति ज्ञेयम् । कुतः ? सम्प्रत्य् अवतारो येन सः श्री-कृष्णो जन्माद्य्-अर्थ-प्रगृहीत-शक्ति-त्रयः सन् यानि चकारेति योज्यम् ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो निराकाङ्क्षत्वार्थम् उक्त-लक्षणानां मत्-प्रश्नानाम् उत्तरं सङ्क्षेपेणोक्त्वा मधुरेण समापयेद् इति न्यायेन शृङ्खलावतार-कथैव विस्तार्य कीर्तनीयेत्य् आह—स इति । कृताः पूर्वं पुरुषादयोऽवतारा येन स मह्यं मां प्रसादयितुम् ॥१६॥
———————————————————————————————————————
॥ ३.५.१७ ॥
श्री-शुक उवाच—
स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः ।
पुंसां निःश्रेयसार्थेन तम् आह बहु मानयन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुंसां निःश्रेयसम् एवार्थः प्रयोजनं तेन हेतुना पृष्टः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुंसां सर्वेषाम् एव पुरुषाणां यन् निःश्रेयसं मङ्गलं भक्ति-रूपं, तद् एवार्थः पुरुषार्थो यस्य तेन ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षत्त्रा कीदृशेन ? पुंसां कलौ जनिष्यमाणानां निःश्रेयसं निस्तार एवार्थो यस्य तेन तस्य श्री-कृष्ण-पार्षदत्वेन कृतार्थत्वाद् एवेति भावः ॥१७॥
———————————————————————————————————————
॥ ३.५.१८ ॥
मैत्रेय उवाच—
साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता ।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : बहु-मानम् एवाह—साध्व् इति पञ्चभिः । अधोक्षजे एवात्मा मनो यस्य तस्यात्मनः स्वस्य कीर्तिं च प्रसङ्गाद् वितन्वता ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधोक्षज एव आत्मा मनो यस्य आत्मनः स्वस्य ॥१८॥
———————————————————————————————————————
॥ ३.५.१९ ॥
नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे ।
गृहीतोऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिर् यद् गृहीतः एतच् चित्रं न भवति । कुतः ? बादरायण-वीर्यजो धृतराष्ट्रोऽपि भवति, सत्यम्, परन्तु त्वयि ततो विशेष इत्य् आह—गृहीत इति ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वय्य् एतन् नाश्चर्यं, यतो बादरायणस्य वीर्याज् जातः, यतश् च गृहीत इत्य्-आदि ॥१९॥
———————————————————————————————————————
॥ ३.५.२० ॥
माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः ।
भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि कथं शूद्रत्वं ? कथं च लोकानुग्राहकत्वं ? तत्राह—माण्डव्य-शापाद् इति । भ्रातुर् विचित्रवीर्यस्य क्षेत्रे क्षेत्रत्वेन स्वीकृतायां भुजिष्यायां दास्यां यम एव त्वं जातोऽसि ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न त्वं प्राकृतो लोकस् त्वाम् अहं परिचिनोम्य् एवेत्य् आह—माण्डव्येति । भ्रातुर् विचित्रवीर्यस्य क्षेत्रे क्षेत्रत्वेनन् स्वीकृतायां भुजिष्यायां दास्याम् ॥२०॥
———————————————————————————————————————
॥ ३.५.२१ ॥
भवान् भगवतो नित्यं सम्मतः सानुगस्य ह ।
यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, भवान् इति । कुतः ? यस्य तव ज्ञानोपदेशाय माम् आदिष्टवान् । च-कारात् स्वयम् अपि स्मृत्यैवोपदिष्टवान् इति ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सानुगस्येह यज् ज्ञानोपदेशाय च माम् आदिशद् भगवान् अज इति सम्बन्धोक्ति-पाठः ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं ममत्वेन त्वम् अधिकृत-भक्त एव, किन्तु भगवन्-नित्य-पार्षदोऽपि प्रकारान्तरे भवसीत्य् आह—भवान् इति । मा मां व्रजन् वैकुण्ठं गच्छन् ॥२१॥
———————————————————————————————————————
॥ ३.५.२२ ॥
अथ ते भगवल्-लीला योग-मायोरुबृंहिताः ।
विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्व-स्थित्य्-आदयोऽर्था विषया यासां ताः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रथमं यथा ससर्जाग्र इदं निरीह इति तत्-प्रश्नस्योत्तरत्वेन पुरुषावतार-लीलां वच्मीत्य् आह—योगमाया स्वरूप-शक्ति-वृत्ति-विशेषः तया उपबृंहिताः स्वांश-माया-द्वारा विस्तारिताः विश्व-स्थित्य्-आदयः अर्था विषया यासां ताः । माया-शक्तेर् योगमायांश-भूतत्वस्य नारद-पञ्चरात्रे दृष्टत्वात् ॥२२॥
———————————————————————————————————————
॥ ३.५.२३ ॥
भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः ।
आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः ॥**1
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मनां विभुर् जीवाधिपतिः ॥२३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र सृष्टि-लीलां वर्णयितुं ततः पूर्वावस्थाम् आह—इदं विश्वम् अग्रे सृष्टेः पूर्वं परमात्मा भगवान् एक एव आस आसीत् । आत्मनां जीवानाम् आत्मा स्वरूपं विभुः स्वामी च । नान्यद् द्रष्टृ-दृश्यात्मकं किञ्चिद् आसीत् ।
कारणात्मना सत्त्वेऽपि पृथक् प्रतीत्य्-अभावाद् इत्य् आह—नाना-मत्य्-उपलक्षणो नाना-द्रष्टृ-दृश्यादि-मतिभिर् नोपलक्ष्यत इति तथा। यद् वा, अ-कार-प्रश्लेषं विनैवायम् अर्थः । यः सृष्टौ नाना-मतिभिर् उपलक्ष्यते, स तदैक एवासीद् इति । कुतः ? आत्मेच्छा माया तस्या अनुगतौ लये सति । यद् वा, आत्मन एकाकित्वेनावस्थानेच्छायाम् अनुवृत्तायाम् इत्य् अर्थः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तत्-प्रार्थित-लीला-कथां कथयन्न् एव श्रीमद्-भगवद्-आदिष्ट-चतुः-श्लोकी-ज्ञानं विवृत्याह—भगवान् इत्य्-आदि, अशेष-सङ्क्लेश-शमं विधत्ते[भा।पु। ३.७.१४] इत्य्-आद्य्-अन्तेन ग्रन्थेन । अथ कथा-क्रमानुरोधेन चतुर्णाम् अर्था विपर्ययेण वक्तव्याः । तत्र, अहम् एवासम् एवाग्रे नान्यद् यत् सद् असत् परं [भा।पु। २.९.३२] इत्य् अर्धस्यार्थं सृष्टि-लीलोपक्रमेण दर्शयति—भगवान् इति द्वाभ्याम् ।
इदं विश्वं पुरुषादि-पार्थिव-पर्यन्तं तदानीम् एकाकिना स्थितेन भगवता सहैकी-भूयासीद् इत्य् अर्थः। आत्मनां शुद्ध-जीवानाम् अपि रश्मि-स्थानीयानाम् आत्मा मण्डल-स्थानीयं परम-स्वरूपम् । न च तस्याप्य् अन्यत् तद् अस्ति, यत आत्मा स्वयं सिद्ध-स्वरूप इत्य् अर्थः । इति तत्र स्वांशानाम् अप्य् अंशित्वं दर्शितम् । ब्रह्माभिन्नत्वं च । कदा ? आत्मेच्छा तस्य सृष्ट्य्-आदीच्छा, तस्यानुगतौ लीनतायां सत्याम् इत्य् अर्थः
ननु वैकुण्ठादि-बहु-वैभवेऽपि सति कथम् एक एवासीत् ? तत्राह—वैकुण्ठादि नाना-मत्यापि स एवैक उपलक्षित इति । सेना-समेतत्वेऽपि राजासौ प्रयातीतिवत् ॥२३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सृष्टि-लीलां वर्णयितुं ततः पूर्वावस्थाम् आह—इदं विश्वम् अग्रे सृष्टेः पूर्वं भगवान् षड्-ऐश्वर्य-पूर्ण एक एव आस आसीत् । भगवति लीनत्वेन भगवतोऽधिष्ठान-कारणत्वाद् इत्य् एके । भगवच्-छक्ति-कार्यत्वाद् इत्य् अन्ये । यद् वा, इदम् अग्रे इत्य् एक-पद्येन अस्याः सृष्टेः पूर्वम् इत्य् अर्थः
तथा स एव योग-मार्गेणोपास्य आत्मनां जीवानाम् आत्मा अन्तर्यामी, तथा स एव ज्ञान-मार्गेणोपास्यः सर्व-व्यापको ब्रह्मेत्य् अर्थः । एवम् उपासकानां भक्त-योगि-ज्ञानिनां मत-भेदान् नाना-मतिभिर् उपलक्षणं यस्य सः । तथैव श्रुतयोऽपि, यथा—वासुदेवो वा इदम् अग्र आसीन्, न ब्रह्मा, न च शङ्कर इति । एको नारायण एवासीन् न ब्रह्मा नेशान इति । आत्मैवम् अग्र आसीद् इति । सद् एवासीद् इत्य् आद्याः ।
ननु सृष्टेः पूर्वम् अपि कं समयम् आरभ्य स एक आस ? इत्य् अपेक्षायाम् आह—आत्मनां जीवानां तथा इच्छायाः सिसृक्षायाश् च अनुगतौ लये सति प्राचीन-प्राकृतिक-प्रलयम् आरभ्येत्य् अर्थः ॥२३॥
———————————————————————————————————————
॥ ३.५.२४ ॥
स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एक-राट् ।
मेनेऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
परमात्मा यतो जीवं मेनेऽसन्तम् अशक्तितः ।
असन्न-सावतो नित्यं सत्य-ज्ञानो यतो हरिः ॥ इत्य् आग्नेये ।
शक्यत्वात् शक्तयो भार्याः शक्तिं सामर्थ्यम् उच्यते इति ब्रह्म-तर्के ।
सुप्तिस् तु प्रकृतेः प्रोक्ता अतीव भगवद्-रतिः ।
अनास्थान्यत्र च प्रोक्ता विष्णोत्तम्श् चक्षुर् निमीलनम् ॥ इति व्योम-संहितायाम् ॥२४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रथमं मायोद्भव-प्रकारम् आह द्वाभ्याम् । स वै एष द्रष्टा सन् दृश्य नापश्यत् । यत एक-राट् एक एव तदा प्रकाशते । आत्मानम् असन्तम् इव मेने । दृश्याभावे द्रष्टृत्वाभावात् । तदाह—सुप्ता मायाद्याः शक्तयो यस्य सः । न त्व् असन्तम् एव मेने । यतोऽसुप्ता दृक् चिच्-छक्तिर् यस्येति ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : दृश्यं विश्वं नापश्यत् । तद्-दर्शनाभावाद् एव तल्-लीनम् आसीद् इत्य् अर्थः । तथात्मानम् आत्मांशं पुरुषम् अपि असन्तम् इव मेने भेदेन नापश्यद् इत्य् अर्थः । शक्तिर् माया । दृक् चिच्-छक्तिः स्वरूप-भूतान्तरङ्ग-शक्तिर् इत्य् अर्थः । एक-राट् सर्वाधिकारी ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स वै निश्चितं द्रष्टा प्रकृती-क्षण-कर्ता पुरुषः तदा सृष्ट्य्-आरम्भ-काले दृश्यं सृष्ट्य्-अर्थं द्रष्टव्यं प्रधानं नापश्यत् । ततश् चात्मानं स्वं विराजन्तम् अपि असन्तम् इव मेने, गृहिणीं विना गृहस्थ इवेति काव्य-रीत्य्-उक्तेः । यद् वा, उत्पत्स्यमानम् आत्मानं समष्टि-विराजं स्वस्मिन् सूक्ष्म-रूपेण सन्तम् अप्य् असन्तम् एव मेने । प्रकृतीक्षणं विना तस्य प्राकट्यासम्भवाद् इति भावः ।
ननु दृष्ट्यैव भोग्या सा कान्ता माया तस्य तदा कीदृश्यासीत् ? तत्राह—सुप्ता स्वापवती शक्तिर् माया यस्य सः । न हि स्वापवती कान्ता सम्भुज्यत इति भावः । किं च तस्यानन्दार्थम् अन्याः सुभगा बह्व्य एव कान्ता जाग्रत्य एव वर्तन्त इत्य् आह—असुप्ता दृशश् चिच्-छक्ति-वृत्तयो लक्ष्म्य्-आद्या यस्य सः । तद् अपि विश्व-सृष्ट्य्-आद्य्-अर्थं बहिरङ्गा दुर्भगापि या सा माया-शक्तिस् तदानीम् अपेक्षितव्यैवेति भावः ॥२४॥
———————————————————————————————————————
॥ ३.५.२५ ॥
सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका ।
माया नाम महा-भाग ययेदं निर्ममे विभुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सा वै दृअष्टृ-दृश्यानुसन्धान-रूपा ।सद्दृश्यम्,असद् अदृश्यम् । आत्मा स्वरूपम् । सद्-असतोर् आत्मा यस्याः, तद्-उभयानुसन्धान-रूपत्वात् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पश्चाद् अहं यद् एतच् च[भा।पु। २.९.३६] इत्य् अस्यार्थं कथयन् सृष्ट्य्-उपयुक्तं बहिरङ्ग-शक्त्य्-अन्तरम् आहंसीत । शक्तित्वेन निमित्त-रूपत्वं सद्-असद्-आत्मकत्वेनोपादान-रूपत्वं चांशतो व्यञ्जितम् ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तद्-इच्छया सा माया-शक्तिस् तदा जजगारेत्य् आह—सा प्रसिद्धा वै निश्चितं सद्-असद्-आत्मिका कार्य-कारण-रूपा इदं विश्वं विभुः परमेश्वरः ॥२५॥
———————————————————————————————————————
॥ ३.५.२६ ॥
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥**2
श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-वृत्त्या काल-शक्त्या गुण-मय्यां क्षुभित-गुणायाम् । अधोक्षजः परमात्मा। आत्मांश-भूतेन पुरुषेण प्रकृत्य्-अधिष्ठातृ-रूपेण वीर्यं चिद्-आभासम् आधत्त । वीर्यवांश् चिच्-छक्ति-युक्तः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सृष्टिम् आह—काल-वृत्त्येति । भगवान् एक आसेदम् [भा।पु। ३.५.२३] इति प्राक्तनानन्तर-ग्रन्थाद् अधोक्षजो भगवान् पुरुषेण प्रकृति-द्रष्ट्र्-आत्म-भूतेन स्वांशेन द्वार-भूतेन कालो वृत्तिर् यस्यास् तया मायया निमित्त-भूतया गुण-मय्यां मायायाम् अव्यक्ते वीर्यं जीवाख्यम् आधत्त, हन्तेमास् तिस्रो देवता [छा।उ। ६.३.२] इत्य्-आदि-श्रुतेः ॥२६॥ [परमात्म-सन्दर्भ ५८]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माया-भर्तुर् आदि-पुरुषस्याप्य् अंशी महा-वैकुण्ठ-नाथो भगवान् एव सर्व-कारण-कारणम् आश्रय-तत्त्वम् इति दर्शयन् सर्गारम्भम् आह—कालस्य वृत्त्या प्राथमिक्या महा-पुरुष-निःश्वास-रेचन-प्रथमेक्षणेनेत्य् अर्थः । अधोक्षजो महा-वैकुण्ठ-नाथो भगवान् आत्म-भूतेन स्वांश-रूपेण मात्रात्माधिष्ठात्रा आदि-पुरुषेण द्वारा मायां दूराद् ईक्षणेनैव संभुक्तायां वीर्यं चिद्-आभासाख्यं जीव-शक्तिम् आधत्त । मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहं [गीता १४.२] इत्य् अत्र गर्भं चिद्-आभासं दधामि । प्रलये मयि लीनं सन्तम् अविद्या-काम-कर्मानुशयवन्तं क्षेत्र-ज्ञं सृष्टि-समये भोग्येन क्षेत्रेण संयोजयामीत्य् अर्थः इति स्वामि-चरणा मधुसूदन-सरस्वती-पादाश् च । माया-शक्ति-जीव-शक्त्योर् मेलनेनैव जगद्-उत्पत्ति-सम्भवात् । मया क्षेत्रज्ञ-शक्तिः सा तारतम्येन वर्तत इति वैष्णवोक्तेर् माया-शक्तौ जीव-शक्तेः प्रवेशनान् माया-शक्त्य्-अधीनां जीव-शक्तिं चकारेति वाक्यार्थः । किं च, शक्तेर् आनन्त्यात् मायायाम् अप्रविष्टा अप्य् अनन्ता एव तस्य जीवा विष्वक्सेनादि-नामानो व्यक्ता अव्यक्ताश् च नित्य-सिद्धाः सन्तीत्य् आह—वीर्यवान् इति । स्त्रियाम् आहिताद् वीर्याद् अधिक-प्रमाणम् एव वीर्यं पुंसि तिष्ठतीति लोकेष्व् अपि प्रसिद्धेः ॥२६॥
———————————————————————————————————————
॥ ३.५.२७ ॥
ततोऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् ।
विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-प्रेरिताद् अव्यक्तान् मायातः । तत्त्व-पदं परित्यज्य महतो लक्षणम्, अतः पुंलिङ्ग-निर्देशो विज्ञानात्मेति । सत्त्व-प्रधानत्वात् स्व-देह-स्थं विश्वम् उच्छून-बीज-गतम् अङ्कुरादि-रूपं वृक्षम् इव व्यञ्जन् व्यञ्जयन् प्रकाशयन् । यतोऽसौ तमो नुदतीति तमो-नुदः । तद् उक्तं सात्वत-तन्त्रे—
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । > प्रथमं महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् । > तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ इति ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् इति विज्ञानात्मकोऽपि पदार्थः समभवत्, तद् एव नाम्ना महत् तत्त्वम् इति । तमो-नुदः प्रलय-गताज्ञान-ध्वंस-कर्ता ॥२७॥ [परमात्म-सन्दर्भ ५८]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषाधिष्ठानेन लब्ध-चेतनाया मायायां तस्यास् त्रयोविंशतौ भागेषु कार्य-कारण-भावेनोत्पत्स्यमानेषु प्रथमं महत्-तत्त्वस्य जन्माह—तत इति । अव्यक्तात् मायातः कीदृशात् काल-चोदितात् तद्-उत्पत्त्य्-उचित-काल-प्रापित-विकृतेः । तत्त्व-पदं परित्यज्य महतो लक्षणम् आह—विज्ञानात्मा स महान् सत्त्वांश-प्राधान्येन विशिष्ट-ज्ञान-स्वरूपः सर्व-देहेषु चित्त-रूपेण योऽंशेन वर्तत इत्य् अर्थः । स्व-देह-स्थं विश्वम् उच्छून-बीज-गताङ्कुरादि-रूपं वृक्षम् इव व्यञ्जयन् प्रकाशयन् यतोऽसौ तमो-नुदः प्रलय-गताज्ञान-ध्वंस-कर्ता ततो रजोऽंश-प्राधान्ये सति क्रिया-शक्त्या महत्-तत्त्व-भेदः सूत्र-तत्त्वम् अभूद् इत्य् अपि ज्ञेयम् ॥२७॥
———————————————————————————————————————
॥ ३.५.२८ ॥
सोऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः ।
आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : अंशो जीवः ।
काल-जीव-गुणादीनाम् अभिमानी चतुर्मुखः । > सर्व-जीवाभिमानित्वाद् अंश इत्य् एव चोच्यते ॥ इति ब्राह्मे ॥२८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहङ्कारोत्पत्तिम् आह सार्धाभ्याम्, सोऽपीति । अंशश् चिद्-आभासो निमित्तं, गुणा उपादानं, कालः क्षोभकः, तद्-आत्मा तद्-अधीनः भगवान् सर्वाध्यक्षस् तद्-दृष्टि-गोचरः सन् स्वयम् आत्मानं व्यकरोत् रूपान्तरम् अनयत् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सोऽपीति । भगवान् एतद्-अंशः पुरुष आत्मा विज्ञानात्मैव सिसृक्षयेत्य् औपचारिकम् एव । नदी कूलं पिपतिषतीतिवत् ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमोऽंश-प्राधान्ये सत्य् अहङ्कारोत्पत्तिम् आह—सोऽपि महान् अंशः पुरुषः वीर्यं जीव-शक्तिः गुणाः प्रकृत्य्-अंशाः सत्त्वाद्याः कालश् च तद्-उत्पत्त्य्-उपयोगी तैर् एव कारणैर् आत्मा स्वरूपं यस्य सः । भगवतो दृष्टिर् इच्छा तद्-विषयी-भूतः सन् आत्मानं स्व्ग् व्यकरोत् रूपान्तरम् अनयति । कीदृशः ? विश्वस्यास्य जनिष्यमाणस्य आत्मा आश्रयः । सिसृक्षया अहङ्कार-सृष्टीच्छया ॥२८॥
———————————————————————————————————————
॥ ३.५.२९ ॥
महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत ।
कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहङ्कारस्य लक्षणम् आह—कार्यम् अधिभूतम्, कारणम् अध्यात्मम्, कर्तृ अधिदैवं, तेषाम् आत्मा आश्रयः । अत्र हेतुः, भूतेन्द्रिय-मनो-मयस् तद्-विकारवान् । मन इति देवानाम् अप्य् उपलक्षणम् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : महत्-तत्त्वाद् इत्य् अर्धकम् ।*।*२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विकुर्वाणात् विक्रियमाणात् । अहङ्कारस्य लक्षणम् आह—कार्यम् अधिभूतं कारणम् अध्यात्मं कर्तृ अधिदैवं तेषाम् आत्मा आश्रयः । तत्र हेतुः—भूतेन्द्रिय-मनोमयः तद्-विकारवान् मन इति देवानाम् अप्य् उपलक्षणम् ॥२९॥
———————————————————————————————————————
॥ ३.५.३० ॥
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ।
अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् ।
वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव विभागतः प्रपञ्चयति—वैकारिक इत्य्-आदिना । वैकारिकः सात्त्विकः, तैजसो राजसः । देवाश् च वैकारिकाः, सात्त्विकाहङ्कार-कार्य-भूता इत्य् अर्थः । यतो येभ्य इन्द्रियाधिष्ठातृभ्यो देवेभ्यो हेतु-भोऽर्थाभिव्यञ्जनं शब्दादि-प्रकाशो भवति ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव विभज्य वक्तुम् आह—वैकारिकः सात्त्विकः, तैजसः राजसः । ये देवा दिग्-आद्य्-अन्तोऽपि वैकारिकाः वैकारिक-जन्याः यतो येभ्यो देवेभ्य इन्द्रियाधिष्ठातृभ्योऽर्थाभिव्यञ्जनं शब्दादि-प्रकाशो भवति ॥३०॥
———————————————————————————————————————
॥ ३.५.३१ ॥
तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च ।
तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तैजसान्य् एवेत्य् अन्वयः । ज्ञान-मयानां सात्त्विकत्व-शङ्का मा भूद् इत्य् एव-कारः। तामसो भूत-सूक्ष्मस्य शब्दस्यादिः कारणम् । यतः शब्दात् खम् आकाशो भवति । आत्मनो लिङ्गं स्व-गुण-शब्द-रूपेण प्रकाशकं हृदयाकाशतया वा । यद् वा, लिङ्गं शरीरम् आकाश-शरीरं ब्रह्म इति श्रुतेः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तैजसानीति । आत्मनः परमात्मनः । तस्य लिङ्गं बोधकं—तस्माद् वा एतस्माद् आत्मनः आकाशः सम्भूतः इत्य् अस्याः श्रुतेस् तद्-वारा तद्-बाधकत्वात् ।*।*३१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियाणि तैजसान्य् एवेत्य् अन्वयः । ज्ञानेन्द्रियाणां ज्ञान-मयानां सात्त्विकत्वाशङ्क्य माभूद् इत्य् एव-कारः । तामसो भूत-सूक्ष्मस्य शब्दस्यादिः कारणम् । यतः शब्दात् खम् आकाशो भवति । आत्मनः परमेश्वरस्य लिङ्गं स्व-गुण-शब्द-रूपेण प्रकाशकम् । यद् वा, तस्माद् वा एतस्माद् आत्मनः आकाशः सम्भूत इति श्रुतेर् आत्म-कार्यत्वाद् आत्म-ज्ञापकम् ॥३१॥ (३१-३२)
———————————————————————————————————————
॥ ३.५.३२ ॥
काल-मायांश-योगेन भगवद्-वीक्षितं नभः ।
नभसोऽनुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नभसः स्वस्माद् अनुसृतम् उद्भूतं स्पर्शं विकुर्वद् रूपान्तरं नयद् अनिलं वायुम् । एव सर्वत्र तन्-मात्र-द्वारा भूतोत्पत्तिर् इति ज्ञातव्यम् ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्पर्शं स्पर्शात्मकं भूत-सूक्ष्म-रूपं वायुम् इत्य् अर्थः । एवम् उत्तरत्रापि ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नभः कर्तृ नभसः स्वस्माद् अनुसृतम् उद्भूतं स्पर्शं विकुर्वत् रूपान्तरं प्रापयत् सत् अनिलं निर्ममे । एवं सर्वत्र तन्-मात्र-द्वारा भूतोत्पत्तिर् इति ज्ञेयम् ॥३२॥ (३३)
———————————————————————————————————————
॥ ३.५.३३ ॥
अनिलोऽपि विकुर्वाणो नभसोरु-बलान्वितः ।
ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नभसा सहितः स्वयं चोरु-बलान्वितः ततो ज्योतिस् तेजः । लोचनं प्रकाशकम् ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नभसा सहितः स्वयं चोरु-बलान्वितः, रूप-तन्-मात्रात् ज्योतिर् अभूत्, लोकस्य लोचनं प्रकाशकम् ॥३३॥ (३४)
———————————————————————————————————————
॥ ३.५.३४ ॥
अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् ।
आधत्ताम्भो रस-मयं काल-मायांश-योगतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रस-मयं रस-गुणम् अन्तः आधत्त असृजत् ॥३४॥ (३५)
———————————————————————————————————————
॥ ३.५.३५ ॥
ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् ।
महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संसृष्टं संयुक्तम् ॥३५॥ (३६)
———————————————————————————————————————
॥ ३.५.३६ ॥
भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् ।
तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे भव्य विदुर । पाठान्तरे भाव्यं कार्यम् । यद् यद् अवरम् अवरं कार्यं तेषां कार्याणां परैः कारणैर् अनुसंसर्गाद् यथा-सङ्ख्यं यथाक्रमम् उत्तरोत्तरम् अधिकान् गुणान् विदुः । तथाहि नभसः शब्द एव गुणोऽन्यान्वयाभावात् । वायोस् तु स्पर्श आकाशान्वयाच् छब्दश् च । एवं तैजसस् तौ च रूपं च । अम्भसस् तानि रसश् च । मह्याः सर्वे ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं पाद-त्रयार्थो दर्शितः, योऽवशिष्येत सोऽस्म्य् अहम् इति तु भगवान् एक आसेदं [भा।पु। ३.५.२३] इत्य् अनेनैव दर्शितः । एवं प्रथम-श्लोकार्थ-ज्ञानं दर्शयित्वा द्वितीय-श्लोकार्थं विज्ञानं वक्ष्यमाणतया त्यक्त्वा परात् परोऽप्य् असौ भक्ति-वशः स्याद् इति रहस्य-तत्-साधन-ज्ञापक-तृतीय-चतुर्थ-श्लोकार्थं दर्शयति—एते देवा इत्य्-आदिना इति तासां स्व-शक्तीनाम् इत्य्-आद्य्-अन्तेन ग्रन्थेन । विष्णोः कला विभूतयः कालादयो लिङ्गं च शरीरं सहायत्वेन विद्यन्ते येषां ते, अत एव प्राञ्जलयः प्रोचुर् इति ॥३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संसृष्टं संयुक्तम् ॥३६॥
———————————————————————————————————————
॥ ३.५.३८ ॥
देवा ऊचुः—
नमाम ते देव पदारविन्दं
प्रपन्न-तापोपशमातपत्रम् ।
यन्-मूल-केता यतयोऽञ्जसोरु-
संसार-दुःखं बहिर् उत्क्षिपन्ति ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : काल-मायांश-लिङ्गिनः । तन्-निमित्त-शरीराः हिरण्य-गर्भस्यैव कालाभिमानी-जीवाभिमानौ इति द्विविधं रूपम् । काल-जीवाभिमानी रूप-द्वन्द्वी चतुर्मुखः ॥ इति पाद्मे ॥३८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथः स्पर्धिष्णवो देवान् अमिलन्तः परस्परम् । विश्व-कर्मण्य् अनीशाना निर्विण्णा हरिम् ईडिरे—नमामेति । प्रपन्नानां तापोपशमे । आतपत्रं छत्रम् । तत्र हेतुः—यस्य पादारविन्दस्य मूलं तलं केत आश्रयो येषां ते । संसार-दुःखं बहिर् दूरत उत्क्षिपन्ति परित्यजन्ति । पान्थाः स्व-गृहं प्राप्य मार्ग-श्रमम् इव ॥३८॥
———————————————————————————————————————
सनातन गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४] यतयो\ऽपि यस्य पदारविन्दस्य मूलं तलं केत आश्रयो येषां, तथा-भूता एव सन्तः महद् अपि संसार-दुःखम् अञ्जसा अनायासेनैव बहिर् उत्क्षिपन्तीति । यद् वा, ये श्री-भगवच्-चरणारविन्दाश्रयाः, ते यतय एव नोच्यन्ते, किन्तु परम-भक्ता एव, सर्व-परित्यागेन तच्-चरणारविन्दाश्रयणात् केवलं गृहादि-परित्याग-निष्ठार्थम् एव सन्न्यास-ग्रहणात् वेश-मात्रेण यति-सादृश्यं तेषाम् । ये तु आत्मानम् एव श्री-भगवन्तं श्री-नारायणं मन्वाना आत्म-व्यतिरिक्त-दृष्टं श्रुतं सर्वम् एव मन्-माया-कल्पितं मय्य् एवाध्यस्तम् इत्य्-आदि मायावादानुसारेणाद्वैत-बोध-मात्र-परास्त एवाद्वैत-पर-वेदान्त-सिद्धान्त-मते यतयो\ऽभिधीयन्ते । त एव हि सच्-छब्द-वाच्येभ्यो भक्तेभ्यो भिन्ना अक्षीण-पापा विषय-राग-वासितान्तःकरणा अज्ञा अपि पण्डित-मानिनो दैत्य-प्रकृतयः । तान् प्रत्य् एवेमानि वचनानि श्रूयन्ते ।
तत्र दशम-स्कन्धे देव-स्तुतौ—
ये\ऽन्ये\ऽरविन्दाक्ष विमुक्त-मानिनस् > त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः । > आरुह्य कृच्छ्रेण परं पदं ततः > पतन्त्य् अधो\ऽनादृत-युष्मद्-अङ्घ्रयः ॥ [भा।पु। १०.२.३२] इति ।
श्रुति-स्तुतौ च—
यदि न समुद्धरन्ति यतयो हृदि-काम-जटा > दुरधिगमो\ऽसतां हृदि गतो\ऽस्मृत-कण्ठ-मणिः । > असु-तृप् योगिनाम् उभयतोऽप्य् असुखं भगवन्न् > अपगतान्तकाद् अनधिरूढ-पदाद् भवतः ॥ [भा।पु। १०.८७.३९] इति > ।
वाशिष्ठे च—
अज्ञस्यार्ध-प्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । > महा-नरक-जालेषु तेनैव विनियोजितः ॥ इति ।
ब्रह्म-वैवर्ते च—
विषय-स्नेह-संयुक्तो ब्रह्माहम् इति यो वदेत् । > कल्प-कोटि-सहस्राणि नरके स तु पच्यते ॥ इति ।
पुराणान्तरे च—
संसार-सुख-संयुक्तं ब्रह्माहम् इति वादिनम् । > कर्म-ब्रह्म-परिभ्रष्टं तं त्यजेद् अन्त्यजं यथा ॥ इति > ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आतपत्रं छत्रम् । यस्य पादारविन्दस्य मूलं तलं केत आश्रयो येषां तथा-भूता एव यतयो नान्ये अञ्जसा शीघ्रम् एव उरु समूलम् एव संसार-दुःखं स्व-गात्र-लग्नं जलौकसम् इव बलेन निष्कास्य बहिर् दूरत एव उच्चीकृत्य क्षिपन्ति यथा पुनः स्व-समीपं नायाति अत्र अञ्जसेति उर्व् इति बहिर् इत्य् उत्क्षिपन्तीति पदैस् तद् अनाश्रित-यतयो विलम्बेनैव नापि स-मूलं, तथा क्षिपन्ति यथा तान् पुनः संसारो ग्रसतीति लभ्यते । यद्यपि तदानीं यतयो न वर्तन्ते स्म, तद् अपि सर्व-शास्त्र-सिद्धान्त-विज्ञतयैव तत्त्व-वेदास् त्रिकाल-ज्ञास् तथा प्राहुर् इति ज्ञेयम् ॥३८॥ (३९)
———————————————————————————————————————
॥ ३.५.३९ ॥
धातर् यद् अस्मिन् भव ईश जीवास्
ताप-त्रयेणाभिहता न शर्म ।
आत्मन् लभन्ते भगवंस् तवाङ्घ्रि-
च्छायां स-विद्याम् अत आश्रयेम ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ब्रह्म-विद्या हरेश् छाया तद्-अंशो हि सुरेष्व् अपि ।
सर्व-विद्या श्रेयः प्रोक्ता प्रधानांशश् चतुर्मुखः ॥ इति ब्राह्मे > ॥३९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रमं विनिवेदयन्त आहुः । हे धातः पितः, यत् यस्माद् भवे संसारे । आत्मन्न् आत्मनि । संबोधनं वा । शर्म सुखम् । “ऋते” यद् इति पाठे यत् पाद-भजनं विना शर्म न लभन्ते । ननु ज्ञानाद् अज्ञान-कृतस् तापो निवर्तते, किं मद्-अङ्घ्रि-च्छायाश्रयणेन तत्राहुः । स-विद्यां तद्-आश्रयणम् एव विद्या-प्रापकम् इत्य् अर्थः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अज्ञान-मूलकं संसार-दुःखं ज्ञानेनैवोपशाम्येद् इति ज्ञानिनां किं भक्त्येति तत्राहुः ऋते इति । यत्-पाद-भजनं विना अस्मिन् भवे संसारे आत्मन् स्वस्मिन्, सम्बोधनं वा, शर्म न लभन्ते । तत्र हेतुः—स-विद्यां विद्यया सह वर्तमानाम् । तवाङ्घ्रि-च्छायायाम् एव विद्या वर्तते नान्यत्रेति । भक्त्या विना ज्ञानम् एव न सिद्ध्यतीति ते मिथ्या-ज्ञानिन इति भावः ॥३९॥ (४०)
———————————————————————————————————————
॥ ३.५.४० ॥
मार्गन्ति यत् ते मुख-पद्म-नीडैश्
छन्दः-सुपर्णैर् ऋषयो विविक्ते ।
यस्याघ-मर्षोद-सरिद्-वरायाः
पदं पदं तीर्थ-पदः प्रपन्नाः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : द्यु-सरितो धरायाश् च ॥४०॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञातस्याश्रयणायोगात् तज्-ज्ञान-साधनम् आहुः । मार्गन्ति अन्वेषयन्ति यत् तत् तीर्थ-पदस् तव पदं वयं प्रपन्नाः । कैर् मार्गन्ति ? छन्दः-सुपर्णैर् वेद-पक्षिभिः । तवैव मुख-पद्मं नीडं येषाम् । यथा पक्षिणो नीडाद् उद्गताः, ततस् ततः परिभ्रम्य पुनस् तत्रैव विशन्ति, तथा वेदा अपि त्वत्त उद्गतास् त्वय्य् एव पर्यवस्यन्ति । अतो वेदानाश्रित्य त्वत्-पदं मृगयन्त इति । विविक्ते असङ्गे मनसि । किं च, अघ-मर्षम् अघ-नाशक-मुदम् उदकं यासां सरितां तासु वराया गङ्गायाः पदम् उद्गम-स्थानम् । अतो गङ्गाम् अनुसेवमाना अपि तद् उद्गम-स्थानं त्वत्-पदं प्राप्नुवन्तीत्य् अर्थः ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मार्गन्तीति यस्य यत्-पदं मार्गन्ति, तस्य ते तत्-पदं वयं प्रपन्ना इति योज्यम् । नीड-मार्गिणोऽपि पद-स्थानीयं वृक्ष-मूलम् एव प्रपद्यन्त इति भावः ॥४०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अज्ञान-मूलकं संसार-दुःखं ज्ञानेनैवोपशाम्येद् इति ज्ञानिनां किं भक्त्येति तत्राहुः ऋते3 इति । यत्-पाद-भजनं विना अस्मिन् भवे संसारे आत्मन् स्वस्मिन्, सम्बोधनं वा, शर्म न लभन्ते । तत्र हेतुः स-विद्यां विद्यया सह वर्तमानम् । तवाङ्घ्रि-च्छायायाम् एव विद्या वर्तते नान्यत्रेति । भक्त्या विना ज्ञानम् एव न सिद्ध्यतीति ते मिथ्या-ज्ञानिन इति भावः ॥४०॥ (४१)
———————————————————————————————————————
॥ ३.५.४१ ॥
यच् छ्रद्धया श्रुतवत्या च भक्त्या
सम्मृज्यमाने हृदयेऽवधाय ।
ज्ञानेन वैराग्य-बलेन धीरा
व्रजेम तत् तेऽङ्घ्रि-सरोज-पीठम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विषयाकृष्ट-चित्तानां कुतस् तद्-अन्वेषणं ? तत्राहुः—यद्-धृदयेऽवधाय ध्यात्वा, वैराग्यं बलं यस्य तेन ज्ञानेन धीरा भवन्ति । स-रागे चित्ते ध्यानम् एव कुतः ? तत्राहुः—श्रद्धया श्रवण-पूर्विकया भक्त्या च संमृज्यमाने संशोध्यमाने ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रद्धया श्रवणादरेण ॥४१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तेभ्योऽपि केवल-भक्ति-मात्राश्रयिणः श्रेष्ठा इत्य् आहुः—यत् तव पदं श्रुतं गुरु-मुखोपदिष्टं भजन-वर्त्म वर्तते यस्यां तया भक्त्या स्व-हृदय एवावधाय अनुभूय लब्धेन ज्ञानेन तन्-माधुर्यास्वाद-रूपेण कीदृशेन वैराग्यस्य सर्वत्र वैतृष्णस्य बलं यस्मात् तेन धीरा भवन्ति, अङ्के चेन् मधु विन्देत किम्-अर्थं पर्वतं व्रजेद् इति न्यायेन पूर्वम् इव वेदाद्य्-अन्वेषण-श्रमवन्तो न भवन्ति ॥४१॥ (४२)
———————————————————————————————————————
॥ ३.५.४२ ॥
विश्वस्य जन्म-स्थिति-संयमार्थे
कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यद् ईश
स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तानुग्रहं स्मरन्त आहुः—विश्वस्येति ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : खपुंसामधीनमन्येषां स्मृतमभयं प्रयच्छति ।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृश्या भक्तेः सुगमत्वार्थं तस्य भक्तानुग्रहं स्मरन्त आहुः—विश्वस्येति ॥४२॥ (४३)
———————————————————————————————————————
॥ ३.५.४३ ॥
यत् सानुबन्धेऽसति देह-गेहे
ममाहम् इत्य् ऊढ-दुराग्रहाणाम् ।
पुंसां सुदूरं वसतोऽपि पुर्यां
भजेम तत् ते भगवन् पदाब्जम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तर्यामितया नित्यं सन्निहितेऽनर्थकं व्रजनम् इत्य् आशङ्क्याहुः—यद् इति । सानुबन्धे सोपकरणे । असति तुच्छे । पुर्यां स्व-देह एव वसतोऽपि । यत् सुदूरं दुष्प्रापम् ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वतस् त्व् अन्येषां निकटम् अपि सुदूरम् इत्य् आहुः यद् इति ॥४३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि दुर्जीवैर् भक्तिर् दुर्लभ्येत्य् आहुः—यद् इति । पुर्यां मथुरा-द्वारकादौ प्रकटाप्रकट-प्रकाशाभ्यां सदा वसतोऽपि देहेऽन्तर्यामि-रूपेण वा ॥४३॥ (४४)
———————————————————————————————————————
॥ ३.५.४४ ॥
तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये
पराहृतान्तर्4-मनसः परेश ।
अथो न पश्यन्त्य् उरुगाय नूनं
ये ते पद-न्यास-विलास-लक्ष्याः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि हृदि-स्थस्यापि पदाब्जं केषाञ्चित् सुदूरं, तर्ह्य् अन्येषाम् अपि तथैव स्याद् अविशेषाद् इत्य् आशङ्क्याहुः—तान् इति । असद्-वृत्तिभिर् बहिर्-मुखैर् अक्षिभिर् इन्द्रियैः पराहृतं दूरम् अपहृतम् अन्तः-स्थं मनो येषां ते । अथो अत एव ते नूनं तान् न पश्यन्ति। वै प्रसिद्धम् । कुतः पुनस् तेषां तत्-सङ्गः स्यात् ? कान् ? ते तव पद-न्यासो गमनं, तस्य विलासो विभ्रमस्, तस्य लक्ष्मीः शोभा, तस्या ये, त्वल्-लीला-कथादिभिः शोभमानांस् त्वद्-भक्तान् इत्य् अर्थः ।
“पथ” इति “लक्ष्या” इति च पाठे त्वत्-पद-न्यास-विलासो लक्ष्यो येषां तान् । पथस् त्वन्-मार्ग-भूतान् सतो मार्गान् वा श्रवणादीन् न पश्यन्तीत्य् अर्थः। यद् वा, ये एवं-भूता भागवतास् ते तान् उन्मत्तान् नूनं नैव पश्यन्तीत्य् अन्वयः । सत्-सङ्गाभावेन हरि-कथा-श्रवणाभावाद् धृदि स्थितम् अपि तेषां सुदूरम् इति भावः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् येषु स्व-पुंसां कृपा स्यात्, तेषाम् एव तत्-स्मरण-विषयः स्यात् । सा च कृपा न सर्वत्र स्यात् । तद् एवं यद् अत्र नोपलभ्यते सत्-सङ्गः, तत्राप्य् आधुनिकः प्राक्तनो वा पारम्परिको वानुमेय एव । तत्र कृत-श्री-नारदादि-दर्शनादेर् अपि देवतादेः श्री-नलकूबरादिवत् तादृशत्व-प्राप्तिर् न श्रूयत इत्य् अत एवं विवेचनीयम् । यद्यप्य् अपराध-सद्भावो वर्तते पुरुषे, तदा तद्-दोषेण सत्सु निरादराणां साधारण-मुन्य्-आदि-दृष्टीनां च तद्-दोष-शान्त्य्-अर्थं सत्-सङ्गस्य भगवत्-साम्मुख्य-कारणत्वे तत्-कृपा-साहाय्यम् अपेक्ष्यते । निरपराधत्वे सति सत्-सङ्गेनैव जात-परमोत्तम-दृष्टीनां तु तेषां तेषु मनोऽवधानाभावेऽपि सत्-सङ्ग-मात्रं तत्-कारणम् इति । अतः सापराधान् एवाधिकृत्योक्तं—तान् इति ।
ते तव पद-न्यास-विलास-लक्ष्म्याः सम्बन्धिनो ये भक्ता इत्य् अर्थः । ते तान् नूनं प्रायो न पश्यन्ति, न कृपा-दृष्टि-विषयी-कुर्वन्तीत्य् अर्थः । कान् ? येऽसद्-वृत्तिभिः सापराध-चेष्टैर् अक्षिभिर् इन्द्रियैः पराकृतान्तर्-मनसो दूरीकृतान्तर्-मुख-चित्त-वृत्तयो बहिर्-मुखा इत्य् एवं व्याख्यानम् अप्य् अत्रानुसन्धेयम् । अत्र साधारणासद्-वृत्तित्वं न गृह्यते, सर्वस्य तत्-कृपायाः प्राक् तथा-भूतत्वात् । जनस्य कृष्णाद्विमुखस्य दैवाद् [भा।पु। ३.५.३] इत्य्-आदिक-विषयं स्याद् इति । तस्माद् अनपराध-सद्-वृत्तौ तेषां कृपा प्रवर्तत एव । कथञ्चिद् अपराधाभावेन तद्-अप्रवृत्ताव् अपि सङ्ग-मात्रेणैव तेषां सन्-मतिः स्यात् । यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति तस्यैव तन्मतिः स्यात् नान्यस्य नलकूबरादिवत् साधऋअणा देवतावच्चेति ।
यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति, तस्यैव तन्-मतिः स्याय्, नान्यस्य, नलकूवरादिवत् साधारण-देवतावच् चेति ॥४४॥ [भक्ति-सन्दर्भः १७९]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु जगत्य् अस्मिन् इतस् ततश् चरतां साधूनां बहुत्वात् तेषां सङ्गं कृत्वा तत्-प्रसाद-सुलभतां शुद्धां भक्तिं ते कथं न कुर्वन्ति ? इति तत्राहुः—तान् इति । असद्-वृत्तिभिर् बहिर्मुखैर् इन्द्रियैः पराहृतं दूरम् अपहृतम् अन्तःस्थं मनो येषां ते, अथो अत एव तान् वै निश्चितं न पश्यन्ति कुतस् तेषां तत्-सङ्गः । तान् कान् ? ते तव पद-न्यासो गमनं तस्य विलासो विभ्रमस् तस्य लक्ष्मीः सम्पत्तिस् तस्याः सम्बन्धिनो ये तान् त्वल्-लीला-कथा-विलास-स्मरण-कीर्तनादिभिः पूर्णान् परम-कृतार्थांस् त्व् अभक्तान् इत्य् अर्थः ।
पथ इति लक्ष्म्या इति पाठे त्वत्-पद-न्यास-विलासो लक्ष्म्या येषां ते ये तान् पथः तन्-मार्ग-भूतान् साधून् न पश्यन्तीत्य् अर्थः । यद् वा, ये एवं-भूता भागवतास् ते तान् उन्मत्तान् सापराधान् नैव पश्यन्तीत्य् अन्वयः ॥४४॥
———————————————————————————————————————
॥ ३.५.४५ ॥
पानेन ते देव कथा-सुधायाः
प्रवृद्ध-भक्त्या विशदाशया ये ।
वैराग्य-सारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव स्फुटयन्ति—पानेनेति द्वाभ्याम् । वैराग्यं सारो बलं यस्य बोधस्य तं लब्ध्वा । अन्वीयुः प्राप्नुयुः । अकुण्ठ-धिष्ण्यं वैकुण्ठ-लोकम् ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-कथायां सत्यां तु परम-फल-प्राप्तिं क्रमाद् आहुः—पानेनेति । विशदाशयाः प्रोज्झित-कैतवाः सेवैक-पुरुषार्थाः अकुण्ठ-धिष्ण्यं वैकुण्ठ-लोकम् इति टीका॥४५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्ता यथा साधन-दशाम् आरभ्यैव परम-सुखिनस् तथा ज्ञानिनः । साधन-दशाम् आरभ्यैव परम-दुःखिन इति भक्ति-ज्ञानयोर् एतावद् एवान्तरम् इत्य् आहुर् द्वाभ्याम् । पानेनेति ।विशेषस्य सारो ब्रह्म-सायुज्योपर्य् अपि बलं यस्मात् तथा-भूतं बोधं प्रवृद्ध-भक्त्य्-उत्थं भगवन्-माधुर्यानुभवं प्राप्य । अकुण्ठ-धिष्ण्यं वैकुण्ठ-लोकम् इति स्वामि-चरणाः ॥४६॥
———————————————————————————————————————
॥ ३.५.४६ ॥
तथापरे चात्म-समाधि-योग-
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वाम् एव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान् न तु सेवया ते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : वायोश् च प्रकृतेर् विष्णोर् जयो भक्त्यैव नान्यथा इति दत्तात्रेय-योगे ॥४६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनि समाधिर् मनः-स्थैर्यं स एव योग उपायः, तस्य बलेन । ज्ञान-योगतः श्रमेण मोक्षः सत्-सङ्गतस् त्वत्-कथा-श्रवणादिना त्व् अनायासेनैव । अहं ममताविष्टानां तु न कथञ्चिद् इति भावः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ये तु ज्ञानि-सङ्गिनस् तेषां साधन-साध्ययोः कनिष्ठत्वम् आह—तथेति । अपरे मोक्ष-मात्र-कामाः तन्-मात्र-पुरुषार्थेऽपि तेषां श्रमः स्यात् । ये तु सेवैक-पुरुषार्थास् तेषां सेवया श्रमो न स्यात्, सदैव सेवा-परमानन्दम् अनुभवताम् आनुषङ्गिकतया मोक्षश् च स्याद् इत्य् अर्थः ॥४६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनि समाधिर् मनः-स्थैर्यं, स एव योग उपायः, तस्य बलेन ज्ञान-योगत इत्य् अर्थः । यद् वा, अष्टाङ्ग-योगतः त्वां पुरुषं विशन्ति त्वयि सायुज्यं प्राप्नुवन्तीत्य् अर्थः । किन्तु तेषां श्रमः स्याद् इति तेषां भक्ति-राहित्ये—श्रेयः-सृतिं भक्तिम् उदस्य ते विभोक्लिश्यन्ति[भा।पु। १०.१४.४] इत्य् आदेः, पुरेह भूमन् बहवोऽपि योगिनः [भा।पु। १०.१४.५] इत्य् आदेश् च, भक्तिं विना वास्तवं ज्ञानम् एव न स्यात्, कुतो मुक्तिर् इति ते परम-दुःखिन एव । यद् उक्तं,
तेषाम् असौ क्लेशल एव शिष्यते > नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भा।पु। १०.१४.४] इति ।
ज्ञानाङ्ग-भक्ति-साहित्ये तु सायुज्यं प्राप्नुवन्त्य् एव, किन्तु साधन-दशायां चित्तैकाग्र्यार्थम् उपायान्वेषणानुष्ठानादिषु श्रमः स्पष्ट एव साध्य-दशायां त्वद्-वशीकार-कारणं प्रेमाणं प्राप्नुवद्भिस् त्वद्-भक्तैः परित्यक्तस्य त्वत्-प्रवेशस्य ग्रहणम् एव निष्कर्षः । स च दुःखम् एवेति भक्तानां मते तद् अपि ते दुःखिन एवेत्य् अर्थः ।
ननु परिचर्यादिभिर् भक्तानाम् अपि श्रमोऽनुमीयते, तत्राहुः—न तु सेवया ते इति । अत्र त एवानुभविनः प्रमाणं यथाश्रमिणोर् अपि स्त्री-पुंसयोर् न श्रमः, किन्तु श्रमाप्राप्त्यैव श्रमस् तथा त्वद्-भक्तानां प्रत्युत सेवया दैवाद् अप्राप्त्यैव मनो दुःख-रूपो महा-श्रमः स्याद् इति भावः । अत्र सेवया त्वां विशन्तीति न योग्जनीयम् अन्वीयुर् अकुण्ठ-धिष्ण्यम् इति पूर्वोक्तेन विरोधात्, न च कुण्ठं धिष्ण्यं यस्य तं त्वाम् अन्वीयुर् इति, तत्रापि व्याख्येयम् । विशेषणस्यापुष्टार्थत्वात् । अन्वीयुर् इति अनुगय्-अर्थक-पदोपन्यासस्यापि वैयर्थ्यम् ॥४६॥
———————————————————————————————————————
॥ ३.५.४७ ॥
तत् ते वयं लोक-सिसृक्षयाद्य
त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म ।
सर्वे वियुक्ताः स्व-विहार-तन्त्रं
न शक्नुमस् तत् प्रतिहर्तवे ते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : त्रिभिर् आत्मभिः काल-मायांशैः ॥४७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं स्तुत्वा प्रार्थयन्ते चतुर्भिः । तत् तस्मात् हे आद्य, ते त्वदीया वयं यस्माल् लोकानां सिसृक्षया त्वयानुसृष्टाः क्रमेणोत्पादिताः । त्रिभिर् आत्मभिः सत्त्वादि-स्वभावैः, अत एव विरुद्ध-स्वभावत्वाद् वियुक्ताः सन्तो यद्-अर्थं सृष्टाः, तत् स्व-विहार-तन्त्रं त्वत्-क्रीडोपकरणं ब्रह्माण्डं, ते तुभ्यं प्रतिहर्तवे प्रतिहर्तुं समर्पयितुं न शक्नुमः, अतस् त्वं नः स्व-चक्षुः परिदेहीति त्रयाणां श्लोकानां चतुर्थेनान्वयः ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्माद् एवं सर्वेषां भवद्-आश्रयेणैवोत्तमत्वं तत् तस्मात् ॥४७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मात् ते तवैव सेवका वयं सेवाम् अप्राप्यैव क्लिश्याम इति भावः । सेवाया अप्राप्तिं विवृण्वन्ति । लोकानां सिसृक्षया त्वया अनुसृष्टाः क्रमेणोत्पादिताः स्म । त्रिभिर् आत्मभिः सत्त्वादि-स्वभावैः, अत एव विरुद्ध-स्वभावत्वात् मिथो व्युक्ताः सन्तः यद्-अर्थं सृष्ट्यस् तत् स्व-विहार-तन्त्रं त्वत्-क्रीडोपकरणं समष्टिं ते तुभ्यं प्रतिहर्तवे प्रतिहर्तुं समर्पयितुं न शक्नुमः ॥४७॥
———————————————————————————————————————
॥ ३.५.४८ ॥
यावद् बलिं ते ञ्ज हराम काले
यथा वयं चान्नम् अदाम यत्र ।
यथोभयेषां त इमे हि लोका
बलिं हरन्तोऽन्नम् अदन्त्य् अनूहाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : असामर्थ्यम् एव प्रपञ्चयितुं कार्यस्यातिवैचित्र्यम् आहुः । भो अज ! काले तत्-तद्-अवसरे बलिं भोगं यावत् साकल्येन ते तुभ्यं हराम समर्पयाम । यथा येन प्रकारेणान्नम् अदाम भक्षयामेत्य् अनेनान्न-मात्रं चास्माकम्, ऐश्वर्येण तु भोगस् तवैवेत्य् उक्तम् । उभयेषां तव चास्माकं च यत्र स्थित्वा इमे जीवा अनूहा अप्रत्यूहा निर्विघ्नाः । यद् वा, अनूहा अवितर्काः, निःसंशया इत्य् अर्थः । तथा च श्रुतिः—ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि यस्मिन् प्रतिष्ठिता अन्नम् अदाम् इति ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र निज-कर्तव्य-सेवा-रूपाश्रयं निवेदयन्ति—यावद् इति । अन्नं यत् किञ्चिद् भगवद्-दत्तं स्व-स्वोपजीव्यम् ॥४८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किं युष्मद्-वाञ्छितं करवाणि तद् ब्रूथेति आहुः—हे अज ! काले समुचित-समये बलिं पूजोपहारं यावत् साकल्येन ते हराम । देव-मनुष्यादि-विविध-पुर-सङ्कुल-समष्टि-व्यष्ट्य्-आत्मक-प्रापञ्चिक-त्वत्-क्रीडोपकरण-वृन्दं निर्माय तुभ्यं यथा समर्पयाम । यथा च वयं त्वन्-माया-शक्ति-वृत्तयोऽन्नम् अदाम । राज्ञा आदिष्टा गृह-निर्मातारो वर्धकयो यथा वेतन-रूपं स्व-स्वोदर-पुरम् अन्नं प्राप्नुवन्तीत्य् अर्थः । यथा च इमे लोका देव-तिर्यग्-आदयस् त्वज्-जीव-शक्ति-वृत्तयस् तद्-अधीनत्वात् । तन्-माया-शक्त्य्-अधीनत्वाच् च । उभयेषां तव चास्माकं च बलिं हरन्तो विविध-याग-योग-ज्ञानादि-रूपम् आराधनं कुर्वन्तोऽन्नम् अदन्ति स्व-स्व-कर्म-फलं प्राप्नुवन्ति अनूहा अवितर्काः प्रभुर् अस्मभ्यं कर्म-फलं दास्यति न दास्यति वेत्य् अभ्यूह-शून्या इति एतद् एवास्मद्-वाञ्छितं सम्पादयेति भावः । तथा च श्रुतिः—ता एनम् अब्रुवन् आयतनं नः प्रजानीहि यस्मिन् प्रतिष्ठिता अन्नम् अदामेति ॥४८॥
———————————————————————————————————————
॥ ३.५.४९ ॥
त्वं नः सुराणाम् असि सान्वयानां
कूट-स्थ आद्यः पुरुषः पुराणः ।
त्वं देव शक्त्यां गुण-कर्म-योनौ
रेतस् त्व् अजायां कविम् आदधे ञ्जः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवश्यं च त्वयाऽस्माकम् एषां च कार्योपाधीनां जीवानां वृत्तिः परिकल्पनीया जनकत्वाद् इत्य् आहुः । नोऽस्माकं सान्वयणां स-कार्याणाम् । यद् वा, अन्वेतीत्य् अन्वयः । कारणं तत्-सहितानां त्वम् एवाद्यः कारणम् । अत्र हेतवः—कूट-स्थोऽविक्रियः, पुरुषोऽधिष्ठाता, पुराणः पुरातनः । एतद् उपपादयन्ति—त्वम् इति । हे देव ! अज एव त्वं गुणानां सात्त्वादीनां कर्मणां जन्मादीनां च योनौ कारण-भूतायां शक्त्यां मायायां प्रथमं रेत आदधे । निहितवान् असीत्य् अर्थः । कीदृशं ? कविं सर्व-ज्ञं महत्-तत्त्व-रूपम् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कविं समष्टि-जीवम् ॥४९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सेव्य-सेवक-लक्षणं सम्बन्धम् उपपादयन्ति—नोऽस्माकं सान्वयानाम् अन्वेतीत्य् अन्वयः कारणं तत्-सहितानां कूटस्थो निर्विकार एवाद्यश् चिन्तामणिर् इव कारणं पुरुषोऽधिष्ठाता पुराणः पुरातनः आदि-शून्य इत्य् अर्थः । यतस् त्वं हे देव शक्त्यां यामायां गुणानां सत्त्वादीनां कर्म महद्-आदिकं यत्र तत्र-भूतायां योनौ रेतः समष्टि-जीव-रूपं कविं विज्ञम् अतोऽस्माकं जीवानां च पितृत्वात् त्वम् एव सेव्य इति भावः ॥४९॥
———————————————————————————————————————
॥ ३.५.५० ॥
ततो वयं मत्-प्रमुखा यद्-अर्थे
बभूविमात्मन् करवाम किं ते ।
त्वं नः स्व-चक्षुः परिदेहि शक्त्या
देव क्रियार्थे यद्-अनुग्रहाणाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मत्-प्रमुखाः महद्-आदयः ॥५०॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा हे आत्मन् देव ! सत्-प्रमुखा महद्-आदयो वयं यद्-अर्थं बभूविम, तत् किं ते कार्यं करवाम ? सृष्टिम् इति चेत् तत्राहुः । तर्हि नोऽस्माकं त्वं स्व-चक्षुः स्वीयं ज्ञानं शक्त्या सह परिदेहि प्रयच्छ । यस्मात् त्वत्त एवानुग्रहो येषां ते यद्-अनुग्रहास् तेषाम् अस्माकम् । क्रियार्थे इयान् एवैतावान् अनुग्रहो येषाम् इत्य् एकं वा पदम् । त्वदीय-ज्ञान-क्रिया-शक्तिभ्याम् एव वयं सृष्टौ क्षमा नान्यथेत्य् अर्थः ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत इति तत्रैषां पृथिवी-न्यायेन तत्त्वाधिष्ठातृ-देवानां भक्तत्वेन स्वयम् एव पुरा शरीर-निर्माणम् ईश्वरेण अन्येषां तु तत्-प्रार्थनयैव भविष्यतीति ज्ञेयम् ॥५०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्-प्रमुखा महद्-आद्या वयं हे आत्मन् किं ते करवाम सृष्टिम् इति चेत् तत्राहुः—तर्हि नोऽस्माकं त्वं स्व-चक्षुः शक्त्या सह परिदेहि वैराज-निर्माणे ज्ञानं देहि शक्तिं च देहीत्य् अर्थः । त्वदीय-ज्ञान-क्रिया-शक्तिभ्याम् एव वयं सृष्टौ क्षमा नान्यथा इति भावः । हे देव अस्माकं क्रिया-रूपेऽर्थे इयान् एवानुग्रहस् त्वया कर्तुम् उचितो येषु तेषां त्वद्-आदिष्टां सेवाम् एव सुखेन करवामेत्य् एतावद् एवास्मद्-वाञ्छितं नान्यद् इति भावः । अत्र तत्त्वाधिष्ठातृ-देवानां भक्तत्वात् स्वयम् एव शरीर-निर्माणम् ईश्वरेण अन्येषां तु तत्-प्रार्थनैवेति सन्दर्भः ॥५०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां तृतीय-स्कन्धे > महद्-आद्य्-उत्पत्तिर् नाम > पञ्चमोऽध्यायः ।
॥ ३.५ ॥
(३.६)
-
भग्स् १०४ (प्१३२); परम्स् ४७ (प्३३), ५० (प्३६), ५८ (प्४४); कृष्णस् १* (प्२); च्च् २.२५.१३३ ↩︎
-
परम्स् ४७ (प्३४), ५८* (प्४३); कृष्णस्। २ (प्२); ब्स्च् ५.७; च्च् २.२०.२७५; ब्सोभ् १.१.२, १.१.५, १.४.१, १.४.३, १.४.७ ↩︎
-
थिस् इस् अन् अल्तेर्नतिवे रेअदिन्ग् फ़ोल्लोwएद् ब्य् विस्ह्wअनथ्। ↩︎
-
पराकृतान्तर् (क्रम-सन्दर्भ) ↩︎