०४ यदु-वंश-संहार-कथनम्

विषयः

यदु-वंश-संहार-कथनम्,
स्व-पदारोहणात् प्राग्-उद्धवायोपदिष्टस्य ज्ञानस्योपलब्धये विदुरस्य मैत्रेय-सन्निधौ गमनम् ।

॥ ३.४.१ ॥

उद्धव उवाच—

अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।

तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्थे बन्धु-निधनं श्रुत्वात्म-ज्ञान-लब्धये ।

उद्धवस्योपदेशेन क्षता मैत्रेयम् आगमत् ॥

तैर् ब्राह्मणैर् अनुज्ञाताःवारुणीं पैष्ठीं मदिराम् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तयोपलक्षण-भूतया भगवतैव विभ्रंशितं ज्ञानं येषां ते ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अप्राकट्यं हरेः श्रुत्वा स्व-कुलस्योद्धवाच् छ्वसन् ।

चतुर्थे स्वोपदेशार्थं मैत्रेयं विदुरोऽन्वगात् ॥

तैर् ब्राह्मणैस् तेन कृष्णेन वा अनुज्ञाता मर्म परस्परम् इति शेषः ॥१॥

———————————————————————————————————————

॥ ३.४.२ ॥

तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् ।

निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वारुण्य् एव मैत्रेयं तस्य दोषेण निम्लोचति अस्तं गच्छति सति । मर्दनं कदनम् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ३.४.३ ॥

भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः ।

सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्ममायायाः आत्म-सामर्थ्यस्य गतिं पूर्वम् एवावलोक्य ।

ज्ञात्वा कतिपयैर् वर्षैः पुर्वम् एव जनार्दनः ।

मौषलं ज्ञान-सम्पत्त्या उद्धवं बदरीं नय ॥

स ज्ञानं तत्र विस्तीर्य पुनर् द्वारवतीं ययौ ।

पूर्वम् एवोपदिष्टोऽपि हरिणा ज्ञानम् उद्धवः ॥

स्वर्गारोहण-काले तु पुनः पप्रच्छ केशवम् ।

पुनः श्रुत्वा बदर्यां तु वर्ष-त्रयम् उवास ह ॥

ज्ञानं संस्थाप्य पश्चाच् च स्वेच्छया स्वर्गतः प्रभुः ॥ इति गारुडे ॥३-४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसृत्य सरस्वत्याम् आचम्य ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वात्म-माययेतीन्द्रजालवद् एव मौषल-लीला व्यञ्जिता ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु वात्सल्य-पारावारो भगवान् कृत-चर-पुत्र-पौत्रादि-परम-पालनः प्रद्युम्नादि-वधं कथं साक्षात् दृष्टवान् इत्य् आह—भगवान् इति । मायाया गतिं चेष्टां प्रद्युम्नाद्या यादवाः परस्पर-वधेन सद्य एव नाशं प्रापुर् इति सर्व-लोक-प्रत्यायन-रूपां स्वात्मेति—नहि मदीया माया तम् अपि सा मोहयेद् इत्य् अर्थः । मायायाः स्वाश्रया-व्यामोहन-स्वभावत्वात् । ततश् च भगवता त्व् एवं विलोकितं नित्य-भूता लीला-परिकराः प्रद्युम्नादयो यादवा द्वारकायाम् एव स्थितास् तत्-तत्-प्रविष्ट-चरा देवास् तु तत्-तद्-अङ्गेभ्यः पृथक् कृतास् तत्-तद्-रूपेण प्रभा-समानीता भुक्त्वा पीत्वा स्व-लब्धानिज्ञाः सुखेन दिवं ययुर् इति । अत एव पूर्व-पद्ये तद्-अनुज्ञाता इति दिवं गन्तुम् इत्य् एव तत्त्वम् । अत्र राम-प्रद्युम्नानिरुद्धानां भगवद्-व्यूहत्वात् एते हि यादवाः सर्वे मद्-गणा एव भामिनि सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिन इति यथा सौमित्रि-भरतो यथा सङ्कर्षणादयः, तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया इत्य्-आदि पाद्मोक्तेः । देवानां च हितार्थाय वयं प्राप्ता मनुष्यताम् इति हरिवंशे अक्रूरोक्तेश् च । यादवानां नित्य-लीला-परिकरत्वात् तेषु शास्त्रादिषु प्रविष्टानां गुहादीनां देवानाम् अप्य् अधिकार-मध्य एव नाशानर्हात् मौषल-लीलेयं मायिक्य् एव । मायिक्य् अपि सर्व-मायिक-सृष्ट्य्-अभावेऽपि श्री-कृष्ण-लीलान्तर्वर्तित्वाद् अचिन्त्य-योग-मायानुमोदिता नित्यैव ज्ञेया ॥३॥

———————————————————————————————————————

॥ ३.४.४ ॥

अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह ।

बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहं चोक्तः पूर्वम् एव द्वारकायाम् ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बदरीं त्वं प्रयाहीति । अत्र कारणम् अस्माल् लोकाद् उपरते [भा।पु। ३.४.३०] इत्य्-आदि वक्ष्यति ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं चोक्तः पूर्वम् एव द्वारकायाम्, अहं चेति प्रकाश-भेदेन स्व-सङ्गे अहं रक्षित इदम् उक्तश् चेति सरस्वत्या च-कारं प्रयोजित उद्धवः । तत्र हेतुः—प्रथमे पक्षे प्रपन्नस्य मम आर्तिं स्व-विरह-पीडां हरतीति तेन, द्वितीये अस्माल् लोकाद् उपरत इति वक्ष्यमाण-युक्त्या प्रपन्नानां बदर्य्-आश्रम-वासिनां स्वांश-नर-नारायणादीनाम् आर्तिं स्व-चरितं भक्ति-ज्ञान-वैराग्यादि-श्रवणोत्कण्ठा-रूपां हरतीति तेन ॥४॥

———————————————————————————————————————

॥ ३.४.५ ॥

तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम ।

पृष्ठतोऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् अभिप्रेतं कुल-संहारादिकम् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-अभिप्रेतं याहीति ब्रुवन्न् अपि प्रभुर् मां प्रायो न त्यक्ष्यतीति वा कुल-संहारादिकं वा ॥५॥

———————————————————————————————————————

॥ ३.४.६ ॥

अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् ।

श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत-केतं कृतावासम् । अकेतनम् अनाश्रयम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अद्राक्षम् इति त्रिकम् ॥६-८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केतनम् आश्रयो न विद्यते यस्य तम् । प्राकृताप्राकृत-वस्तूनां वस्तुतस् तद्-आश्रितत्वाद् इति भावः ॥६॥

———————————————————————————————————————

॥ ३.४.७ ॥

श्यामावदातं विरजं प्रशान्तारुण-लोचनम् ।

दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विरजं विरजसं शुद्ध-सत्त्व-मयम् । विदितं लक्षितम् । कौशं कौशेयम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***

———————————————————————————————————————

॥ ३.४.८ ॥

वाम उराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् ।

अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधिश्रित्योपरि स्थापयित्वा । अपाश्रितः पृष्ठतोऽवष्टब्धोऽर्भको बालः कोमलोऽश्वत्थो येन तम् । त्यक्तं पिप्पलं विषय-सुखं येन तम् । तथाप्य् अकृशम् आनन्द-पूर्णम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधिश्रित्योपरि स्थापयित्वा । अपाश्रितः पृष्ठतोऽवष्टब्धोऽश्वत्थ्-पातो येन तम् । न श्वस् तिष्ठतीत्य् अश्वत्थः भूर्-आदिपं च पाद-विभूतिर् अस्थिरा मायिका सा पृष्ठी-कृतेत्य् अतः परं प्रपञ्चिका लोका मां न पश्यन्त्व् इत्य् आशयेन अर्भक-पदेन सर्व-ब्रह्माण्डेषु मध्ये अस्य ब्रह्माण्डास्यातिक्षुद्रत्वं व्यञ्जितम् । त्यक्तं पिप्पलं समाप्तीकृतैतद्-ब्रह्माण्ड-विलासं पिप्पल-शब्देन श्रुत्या विषय-सुखोक्तेः ॥८॥

———————————————————————————————————————

॥ ३.४.९ ॥

तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा ।

लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वैपायनः सुहृत् सखा च यस्य स स्व-गुरु-पुत्रत्वात्, पराशर-शिष्यो मैत्रेय इत्य् अर्थः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यदृच्छया—केनापि भाग्योदयेन । द्वैपायन-सुहृत्-सखेति ट-ज-भाव आर्षः ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वैपायनो व्यासः स्व-गुरु-पुत्रत्वात् सुहृत् सखा च यस्य सः । मैत्रेयः पराशरस्य शिष्य इत्य् अर्थः । यदृच्छया अकस्माद् एव ॥९॥

———————————————————————————————————————

॥ ३.४.१० ॥

तस्यानुरक्तस्य मुनेर् मुकुन्दः

प्रमोद-भावानत-कन्धरस्य ।

आशृण्वतो माम् अनुराग-हास-

समीक्षया विश्रमयन्न् उवाच ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रमोदेन भावेन चानता कन्धरा यस्य । पठान्तरे प्रमोदस्य भारेण । अनुरागेण सह हासो यस्यां तया समीक्षया विश्रमयन् विगत-श्रमं कुर्वन् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य तथाभूतस्याशृण्वतोऽपि माम् एवोवाचेति । ततोऽपि स्वस्यानुग्राह्यत्वं व्यञ्जितम् । तथा च वक्ष्यते स्वयं भगवता अस्माल् लोकाद् उपरते [भा।पु। ३.४.३०] इत्य्-आदि द्वाभ्याम् । अत एव षष्ठी । अत एव तस्याशृण्वत इति तद्-वचने किञ्चिद् गोपन-मुद्रा च दर्शिता ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यानुरक्तेत्य् आदि-विशेषण-विशिष्टस्यापि माम् एवोवाचेति तस्माद् अपि स्वस्य प्रेमास्पदत्वाधिक्यं व्यञ्जितम्, अत एव शष्ठी । अनुरागस्य हासः प्रकाशो यस्यां तया समीक्षया अनुराग-हासाभ्यां युक्तया वा विश्रमयन् मां विगत-विरह-श्रमं कुर्वन् ॥१०॥

———————————————————————————————————————

॥ ३.४.११ ॥

श्री-भगवान् उवाच—

वेदाहम् अन्तर् मनसीप्सितं ते

ददामि यत् तद् दुरवापम् अन्यैः ।

सत्रे पुरा विश्व-सृजां वसूनां

मत्-सिद्धि-कामेन वसो त्वयेष्टः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे उद्धव, ते मनसीप्सितम् अहम् अन्तः-स्थितो वेद वेद्मि । दाने हेतुः—विश्व-सृजां वसूनां च मिलितानां सत्रे । हे वसो ! इति पुरा पूर्व-जन्मनि त्वं वसुर् अभूः, तदा मत्-प्राप्ति-कामेन त्वयाहम् इष्टः । अतस् तत्-साधनं ददामि दास्यामि । अन्यैर् मत्-पराङ्मुखैर् दुष्प्रापम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव नित्य-पार्षदत्वेऽप्य् एकांशेन वसुत्वम् उद्भाव्यादिष्टम् ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेद वेद्मि । यद् अन्यैर् दुरापं तद् ददामि । दाने हेतुः—विश्व-सृजां वसूनां च मिलितानां सत्रे ।हे वसो इति पूर्व-जन्मनि त्वं वसुर् अभूः, तदा मत्-प्राप्ति-कामेन त्वयाहम् इष्टः इति नित्य-लीला-परिकरे उद्धवे वसोः प्रवेशात्, नित्य-सिद्धस्याप्य् उद्धवस्य साधन-सिद्धत्वम् एव मैत्रेयम् उद्धवं च ज्ञापयामास । नित्य-लीलाया रहस्यत्व-रक्षणार्थं, केचित् तु लीला-परिकर उद्धवो द्वारकायाम् एव स्थितः वसु-रूप उद्धवोऽयम् इत्य् आहुः ॥११॥

———————————————————————————————————————

॥ ३.४.१२ ॥

स एष साधो चरमो भवानाम्

आसादितस् ते मद्-अनुग्रहो यत् ।

यन् मां नृ-लोकान् रह उत्सृजन्तं

दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य भाग्यम् अभिनन्दति । स एष भवो जन्म ते भवानां मध्ये चरमः । यद्य् अस्मिन् मद्-अनुग्रह आसादितो लब्धः । यत् पुनर् मां रह एकान्ते विशदानुवृत्त्या एकान्त-भक्त्या ददृश्वान् दृष्टवान् असि एतद् दिष्ट्या भद्रं जातम् इत्य् अर्थः । नृ-लोकान् नृ-शब्देन जीवास् तेषां लोकान् उत्सृजन्तं वैकुण्ठं गच्छन्तम् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भवानां वस्व्-आदि-रूपेणापि लोक-सङ्ग्रहार्थं बहूनाम् अवताराणां चरमः परम-काष्ठाम् आपन्नस् तद्-अंशि-रूप इत्य् अर्थः । विशदानुवृत्त्या शुद्ध-भावतयानुगमनेन यद् दृष्टवांस् तद् दिष्ट्या भद्रम् एव कृतम् ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् आश्वासयति—स इति । भवानां जन्मनां मध्ये एष भवश् चरमः शेषः । यद् यस्मिन्न् आसादितः प्राप्तः । यत् पुनर् मां रह एकान्ते विशदानुवृत्त्या एकान्त-भक्त्या ददृश्वान् दृष्टवान् असि एतद्-दिष्ट्या भद्रं जातम् इत्य् अर्थः । नृ-लोकान् नृ-शब्देन जीवास् तेषां लोकान् उत्सृज्य तं वैकुण्ठं गच्छन्तम् इत्य् अर्थः ॥१२॥

———————————————————————————————————————

॥ ३.४.१३ ॥

पुरा मया प्रोक्तम् अजाय नाभ्ये

पद्मे निषण्णाय ममादि-सर्गे ।

ज्ञानं परं मन्-महिमावभासं

यत् सूरयो भागवतं वदन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ददामीति यद् उक्तं, तद् एव निर्दिशति । पुरा पूर्वस्मिन् पाद्मे कल्पे । आदि-सर्गे सर्गोपक्रमे । मम महिमा लीला अवभास्यते येन तत् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरा मयेति । पुरा ब्राह्मे कल्पे, द्वितीय-स्कन्धे ब्रह्म-कल्प-कथनात्। ज्ञानं परं चतुः-श्लोकी-रूपम् । मन्-महिमावभासम् इति तस्य निर्विशेष-प्रतिपादकत्वं नाङ्गीकृतम् ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ददामीति यत् प्रतिश्रुतं तन् निर्दिशति—पुरेति । आदि-सर्गे ब्राह्म-कल्पे । मम महिमा लीला अवभास्यते येन तद् इति स्वामि-चरणाः, महिमा माहात्म्यम् इत्य् अन्ये । भागवतं चतुः-श्लोकी-रूपम् ॥१३॥

———————————————————————————————————————

॥ ३.४.१४ ॥

इत्य् आदृतोक्तः परमस्य पुंसः

प्रतिक्षणानुग्रह-भाजनोऽहम् ।

स्नेहोत्थ-रोमा स्खलिताक्षरस् तं

मुञ्चञ् छुचः प्राञ्जलिर् आबभाषे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवम् आदृतश् चासाव् उक्तश् चाहम् । प्रतीक्षणं कृपावलोक एवानुग्रहस् तस्य भाजनः पात्र-भूतः । पाठान्तरे प्रतिक्षणम् अनुग्रहस्य पात्रम् इति । शुचोऽश्रूणि मुञ्चन्न् आवभाषे उक्तवान् असि ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एवाह—इतीत्य् आदि । [श्रीमद्-उद्धव-वचनम् इतीत्य् आदि लोक-भावनाव् इत्य् अन्तम् ।] ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् अहम् आदृत उक्तश् च । प्रतीक्षणं मन्त्रणादिषु उद्धवं विना एतत् कोऽपि न जानाति, स आगच्छतु, तत इदं भविष्यतीत्य्-आदि-प्रतीक्षा । ह्रस्व-मध्य-पाठे प्रतिक्षणं क्षणे क्षणे योऽनुग्रहस् तस्य पात्रं शुचः अश्रूणि ॥१४॥

———————————————————————————————————————

॥ ३.४.१५ ॥

को न्व् ईश ते पाद-सरोज-भाजां

सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह ।

तथापि नाहं प्रवृणोमि भूमन्

भवत्-पदाम्भोज-निषेवणोत्सुकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न हि स्वाज्ञान-निवृत्ति-मात्र-कामोऽहं, किन्तु त्वन्-निषेवणोत्सुकस् त्वयि चाघटमानाचरणं दृष्ट्वा मे मोहो भवति, अतस् त्वं तत्त्व-ज्ञानं देहीति प्रार्थयितुम् आह—को न्व् इति । चतुर्षु धर्मादिषु तथापि, हे भूमन् ! भवत्-पदाम्भोज-निषेवणोत्सुकोऽहम्, तान् न प्रवृणोमि ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तदैव निवेदयति—को न्व् इति ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भगवन् प्रभो ! किङ्करं मां संसारान् मोचयितुं सारूप्यादिकं वा ग्राहयितुं स्व-ज्ञानं व्याजिहीर्षसि चेद् अलं तेनेत्य् आह—को न्व् इति । चतुर्षु धर्मादिषु मध्ये पाद-सरोजं भजतां को नु दुर्लभ इति स-कामानाम् अपि विनापि ज्ञानं पाद-भजनेनैव मोक्षादि-फल-सिद्धिः स्याद् इति भावः । अहं तु तथापि स्वत एव प्राप्तान् अपि तान् अर्थान् वृणोमि । तत्र हेतुः—भवद् इति । अतो ज्ञानेन मम किं कार्यम् ? इति भावः ॥१५॥

———————————————————————————————————————

॥ ३.४.१६ ॥

कर्माण्य् अनीहस्य भवोऽभवस्य ते

दुर्गाश्रयोऽथारि-भयात् पलायनम् ।

कालात्मनो यत् प्रमदायुताश्रमः

स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अघटमानाचरणं दर्शयति । कर्माण्य् अनीहस्य निःस्पृहस्य निष्क्रियस्य वा । अभवस्य अजन्मनः भवो जन्म । कालात्मनस् तव अरि-भयाद् दुर्गाश्रयः पलायनं च। स्वात्मनि रतिर् यस्य तस्य बह्वीभिः स्त्रीभिर् गृहस्थाश्रम इति यद् इहास्मिन् विषये विदुषाम् अपि धीः संशयेन खिद्यति ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवं चेत् तर्हि कथं किम् अपि ज्ञातुम् इष्टं वर्तते ? यद् एव मया व्यञ्जितं वेदाहम् अन्तर्-मनसीप्सितं ते [भा।पु। ३.४.११] इत्य् अनेन ? सत्यम् । किन्तु नात्मार्थम्—यस्यां लीलायां पृच्छा, तस्यास् तव भक्त-कृपा-वैभवमयत्वेन ज्ञातत्वात् । तथापि मैत्रेय-साक्षिकेण तद्-वचनेनान्यांस् तथा सुष्ठु प्रत्यापयितुम् एव मम तथेप्सति विज्ञापयन्न् आह—कर्माणीति त्रिभिः । विदाम् एतादृशानां सर्व-ज्ञानाम् अपि ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्माकं दासानां पुनस् तद्-रूप-गुण-लीला एव दर्शन-स्मरणाद्यैः परमानन्द-हेतुस् तासाम् अपि ज्ञानेनातीवाग्रहः । यत् किंचिज् ज्ञानस्य सत्त्वात् सामस्त्येन ज्ञानासम्भवाच् च । किन्तु तत्र लीलाः काश्चन काश्चन युक्त्या विरुद्ध्यन्ते, तत्रैव मे जिज्ञासितं वर्तत इत्य् आह द्वाभ्याम् । अनीहस्य निष्क्रियस्य कर्माणि गोवर्धनोद्धरणादीनि, न तु विश्व-सृष्ट्य्-आदीनि । तेषां हि माया-गुण-कृतानां त्वय्य् आरोपितत्वेन, स्वरूपतस् तावकत्वाभावात् निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इति श्रुत्य्-उक्तेन निष्क्रियत्वेन न विरोधः । गोवर्धनोद्धरणादीनां कर्मणां तु त्वया स्वरूपेणैव कृतत्वात्, तेषां निष्क्रियत्वेन विरोध एवेति मम संशयः । यद् वा, नराकृतेः पर-ब्रह्मणस् तव नराकृतित्वे अप्राकृतानन्त-कर्मवत्त्वम् । ब्रह्मत्वे प्राकृताप्राकृत-कर्म-राहित्यं, तत्रैव ब्रह्म-पदस्य रूढेः । न च निर्विशेष-स्वरूपम् एव ब्रह्म स-विशेष-स्वरूपो भगवान् इति स्वरूप-भेदाद् व्यवस्थेयम् इति वाच्यम् । स्वरूप-द्वयाभावाद् इति षष्ठोक्तेः संशय एव यतस् तथा । अभवस्याजन्मनो जन्म । कालात्मनस् तव जरासन्धाद्य्-अरि-भयात् पलायनं समुद्र-दुर्गाश्रयश् च । स्वात्मन्य् एव रतिर् यस्य तस्यापि प्रमदानाम् अयुतेन सहाश्रमो गृहाश्रमः गृहाश्रम-प्रयुक्त-देव-पित्रादि-योगे स्वात्मारामस्य तव रतिः । रुक्मिण्य्-आदि-प्रमदाभिः रमणे तु तवात्मारामता नापगच्छेत् तासाम् आत्म-भूतत्वाद् इत्य् अहं जानाम्य् एव । अत एव मया आश्रम-शब्दः प्रयुक्तः । इह अस्मिन् विरोधे विदां विदुषाम् अपि धीः समाधानादर्शनात् खिद्यति ।

न च निष्क्रियत्वाजडत्व-कालात्मत्वात्मारामत्वादीनाम् एव सत्यत्वं स-क्रियत्व-जन्मवत्त्व-भीतत्व-गृहाश्रमवत्त्वानाम् अनुकरण-मात्रत्वम् इति वाच्यम् । तथात्वे विदुषां धीर् अत्र खिद्यतीति नोक्तं स्यात्, स-क्रियत्वादीनानुकरणान्य् एव न तु वास्तवानीति ज्ञाने कुतः खेदः? तथैवाक्रियत्वादिभिः प्राकृत-क्रियादय एव निषिध्यन्ते न त्व् अप्राकृत-क्रियादय इति ज्ञाने कुतः खेदः । तथैव ब्रह्मत्व-भगवत्त्वाभ्याम् एवाक्रियत्व-सक्रियत्वादीन्य् अनुकरण-मात्राणीति ब्रुवाणा अक्रियत्वम् अप्राकृत-क्रियत्वम् अभवत्वम् अप्राकृत-जन्मवत्त्वम् इति च ब्रुवाणा ब्रह्मत्व-भगवत्त्वाभ्याम् एवाक्रियत्व-सक्रियत्वादि-व्यवस्थेति ब्रुवाणा अखिद्यद्-बुद्धय एवाविद्वांस इति ध्वनिः । यद् उक्तं स्वयं भगवता—न मे विदुः सुर-गणाः प्रभवं न महर्षयः [गीता १०.२] इति सुर-गणा ब्रह्माद्या अपि महर्षयो व्यासाद्या अपि मे प्रकृष्टं भवं जन्म न विदुर् इति तत्रार्थः । भीष्मेणाप्य् उक्तम्—

न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् ।

यद् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ [भा।पु। १.९.१६] इति ॥१६ ॥

———————————————————————————————————————

॥ ३.४.१७ ॥

मन्त्रेषु मां वा उपहूय यत् त्वम्

अकुण्ठिताखण्ड-सदात्म-बोधः ।

पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्

तन् नो मनो मोहयतीव देव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मन्त्रेषु च प्रस्तुतेषु च सत्स्य् माम् आहूय वै अहो पृच्छेर् अपृच्छः । अकुण्ठितः कालादिना अखण्डः सन्ततः सदात्मा संशयादि-रहितो बोधो विद्या-शक्तिर् यस्य । मुग्धवद् अज्ञवत् । अप्रमत्तोऽवहितः सन् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मोहयतीत्वेति वस्तुतः स्वस्य मोहाभावात् ॥१७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्त्रेषु जरासन्ध-वध-राजसूयाद्य्-अर्थ-गमन-विचारादिषु प्रस्तुतेषु मां वै निश्चितम् उपहूय यत् पृच्छेर् उद्धव त्वम् “अत्र किं कर्तव्यं, तद् ब्रूहि” इत्य् अपृच्छः। अकुण्ठितः कलादिना अखण्डः परिपूर्णः सदा सार्वदिक एव आत्मनो बोधः संविच्-छक्तिर् यस्य सः । मुग्ध इव यथान्यो मुग्धो जनः पृच्छति तथेत्य् अर्थः । किं च, अप्रमत्तः कार्यान्तर-व्यावृत्त्यापि रहितत्वाद् इति भावः । तत् तव युगपद् एव मौग्ध्यं सार्वज्ञ्यं च मोहयतीव मोहयत्य् एव । अत्र मुग्ध इव त्वं न तु मुग्ध इति तथा मोहयतीव न तु मोहयतीति व्याख्यायां सङ्गत्य्-अभावात् इति सङ्गतेषु वाक्येषु मध्येऽस्योत्थापनं व्यर्थं स्याद् इत्य् अतस् तथा न व्याख्येयम् ॥१७॥

———————————————————————————————————————

॥ ३.४.१८ ॥

ज्ञानं परं स्वात्म-रहः-प्रकाशं

प्रोवाच कस्मै भगवान् समग्रम् ।

अपि क्षमं नो ग्रहणाय भर्तर्

वदाञ्जसा यद् वृजिनं तरेम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वात्मनस् तव रहो रहस्यं तत्त्वं तस्य प्रकाशकम् । कस्मै ब्रह्मणे । सर्वनामत्वम् आर्षम् । नोऽस्माकं ग्रहणायापि क्षमं यदि योग्यं, तर्हि वद । भर्तः स्वामिन्, यद् यतो वृजिनं सम्षार-दुःखम् अञ्जसानायासेन तरिष्यामः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माज् ज्ञानं परम् इति । वृजिनं विदाम् अपि तथा त्वयि सन्देहेन जातं निज-दुःखम् । भवत्-पदाम्भोज-निषेवनोत्सुकानाम् अस्माकम् अन्य-दुःखास्पृष्टत्वाद् इति भावः । [स्वात्म-रहः-प्रकाशाम् इत्य् अत्र यथा-पदम् अग्रे २५-पद्यं, १२.८.४९तम-पद्यं च द्रष्टव्यम् । ] ॥१८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एतद्-आदि-संशयापनोदनम् एव ज्ञानम् इच्छामीत्य् आह—ज्ञानम् इति स्वात्मनस् तव रहः सर्वागम्यं रहस्यं यन् मम जिज्ञास्यं तस्य प्रकाशो यत्र तज्-ज्ञानं, न तु त्वया दातुं प्रतिश्रुतं तन्-महिमावभासम् इत्य् अर्थः । कस्मै भवान् प्रोवाच चेद् वद । यद् वा, कस्मै भगवान् प्रोवाच अपि तु न कस्मा अपीत्य् अर्थः । तद् अपि यद्य् एवं माम् अनुकम्पसे तदा हे भर्तर् वद । तच् च नो ग्रहणाय क्षमम् अस्माकं शुद्ध-दास्यवतां ग्रहीतुं यदि योग्यं स्यात्, किं वा, योग्यत्वेऽपि यदि शक्यं स्यात् तदा वद, न चेन् मा वदेति भावः । यतो ज्ञानाद् वृजिनम् उक्त-लक्षणं मज्-जिज्ञास्यं सम्प्रत्य् उपस्थितं यदु-कुल-संहार-त्वद्-देहान्तर्धानादिकं च दुःख-सिन्धुम् ॥१८॥

———————————————————————————————————————

॥ ३.४.१९ ॥

इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः ।

आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आवेदितो हार्दो हृदि-स्थितोऽभिप्रायो येन तस्मै ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : परमां स्थितिं चतुःश्लोकी-प्रोक्ताम् । तादृश-रूपत्वेऽपि रहस्याख्य-प्रेम-वशतामय-लीला-मयीम् ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं न तु मैत्रेयायापीत्य् अर्थः । आत्मनः स्वस्य स्थितिं व्यवस्थितिं लीलाया मर्यादां च द्वारकादि-धामसु नित्य-निवासं च, किन्तु या स्थितिः शुकदेवेन न निर्वृता नाप्य् उद्धवेन विदुरायान्यस्मै कस्मैचिद् अपीत्य् अतः सिद्धान्त-विशेषालाभात् निष्क्रियत्व-सक्रियत्वादीनाम् अचिन्त्य-शक्ति-सिद्धत्वम् एवाहुर् एके । यथोक्तं भागवतामृते कर्माण्य् अनीहस्य [भा।पु। ३.४.१६] इति पद्यम् अधिकृत्य,

तत् तन् न वास्तवं चेत् स्याद् विद्यां बुद्धि-भ्रमस् तदा ।

न स्याद् एवेत्य् अचिन्त्यैव शक्ति-लीलासु कारणम् ॥ [ल।भा। १.५.११९] इति ॥१९॥

———————————————————————————————————————

॥ ३.४.२० ॥

स एवम् आराधित-पाद-तीर्थाद्

अधीत-तत्त्वात्म-विबोध-मार्गः ।

प्रणम्य पादौ परिवृत्य देवम्

इहागतोऽहं विरहातुरात्मा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आराधित-पादो भगवान् स एव तीर्थं गुरुस् तस्माद् अधीतोऽधिगतस् तत्त्वात्म-विबोधस्य परमार्थात्म-ज्ञानस्य मार्गो येन सोऽहम् । देवं परिवृत्य प्रदक्षिणी-कृत्य॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अधीतो ज्ञातस् तत्त्वेन याथार्थ्येनात्माभीष्ट-विज्ञानस्य मार्गश् चतुः-श्लोकी-रूपो येन सः । तस्य च भगवत्-प्रेम-वशत्व-प्रतिपादकत्वाद् विरहातुर् आत्मेव सन्न् इहागतोऽहम् इत्य् अनेन च तस्य रुक्ष-ज्ञान-तात्पर्यत्वं स्वत एव खण्डितम् ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स उद्धवोऽहम् आराधित-पादो भगवान् स एव तीर्थः गुरुस् तस्माद् अधीत-तत्त्व-रूपस्य आत्म-विबोधस्य ज्ञान-मार्गो येन सः । परिवृत्य परिक्रम्य ततः परं भगवता किं कृतं तन् मया न दृष्टम् इति भावः ॥२०॥

———————————————————————————————————————

॥ ३.४.२१ ॥

सोऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो ।

गमिष्ये दयितं तस्य बदर्य्-आश्रम-मण्डलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्त दर्शनेनाह्लादो वियोगेनार्तिश् च ताभ्यां युतो बदर्य्-आश्रम-स्थानं गमिष्यामि ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विरहातुरात्मा चेत् तर्हि कथं चलितुं गदितुं वा शक्नोषि ? तत्राह—सोऽहम् इति । दर्शनाह्लादः शनकैर् भगवल्-लोकात् इत्य् अनुसारेण । वियोगार्ति-युतस् तु, नृलोकं पुनर् आगतः इत्य् अनुसारेण । ततो वियोगेऽपि मध्ये मध्ये स्व-साक्षात्कारासमर्थः सन् । तस्य दयितं मां प्रस्थापयितुं वाञ्छितं बदर्य्-आश्रमम् अपि गमिष्यामीत्य् अर्थः ॥२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वं तद्-विरह-व्यथयापि कथं जीवसीति ? तत्राह—क्षणे क्षणे तद्-दर्शनेनाह्लादस् तद्-वियोगेनार्तिश् च ताभ्यां युतः । बदर्याश्रमम् इति तत्रैव गन्तुं भगवद्-आदेशात् ॥२१॥

———————————————————————————————————————

॥ ३.४.२२ ॥

यत्र नारायणो देवो नरश् च भगवान् ऋषिः ।

मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृदु परोपद्रव-शून्यम् । तीव्रं दुश्चरम् । दीर्घम् आकल्पान्तम् । तेपाते तपश् चरत इत्य् अर्थः । लोक-भावनौ लोकानुग्रह-कारकौ ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रैव तद्-अंशः साक्षान्-नारायण आस्त इत्य् आह—येत्रेति । मृदु सर्व-लोक-सुखदं तीव्रं सर्व-लोकैर् दुश्चरं दीर्घं बहु-काल-व्यापि, लोकानां भावनौ उत्पादकौ पालकौ वा ॥२२॥

———————————————————————————————————————

॥ ३.४.२३ ॥

श्री-शुक उवाच—

इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् ।

ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञानेन विवेकेन ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुहृदां वधं दुःसहम् अपि उद्धवात् सकाशात् इत्य् एवं प्रकारकम् उपाकर्णेत्य् अन्वयः । ज्ञानेन कृष्ण-द्युमणि निम्लोचे इत्य् आद्य् उद्धवोक्ति-तात्पर्य-पर्यालोचन-जनितेन ॥२३॥

———————————————————————————————————————

॥ ३.४.२४ ॥

स तं महा-भागवतं व्रजन्तं कौरवर्षभः ।

विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्रम्भाद् विश्वासात् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्रम्भात् प्रणयात् । विस्रम्भः प्रणयेऽपि च इत्य् अमरः ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्रम्भाद् विश्वासात् स्वतोऽतिकनिष्ठ्हम् अपि कृष्ण-परिग्रहे कृष्णं परिग्रहीतुं वशीकर्तुं मुख्यं स्वतोऽतिश्रेष्ठम् । अतः कनिष्ठा अपि भक्त्य्-उद्रेकवन्तो ज्येष्ठैर् अपि गुरुः कर्तव्य इत्य् अत्र । विदुर-वाक्यम् एव प्रमाणम् इति बोधितम् ॥२४॥

———————————————————————————————————————

॥ ३.४.२५ ॥

विदुर उवाच—

ज्ञानं परं स्वात्म-रहः-प्रकाशं

यद् आह योगेश्वर ईश्वरस् ते ।

वक्तुं भवान् नोऽर्हति यद् धि विष्णोर्

भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्माद् विष्णोर् भृत्याः स्व-भृत्य-प्रयोजन-साधकाः सन्तश् चरन्ति । न हि कृतार्थानाम् अन्यत् कृत्यम् अस्तीत्य् अर्थः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् एव ज्ञानम् । सोऽसाधारणो यो भृत्यार्थः । भवत्-पदाम्भोज-निषेवणोसुकः [भा।पु। ३.४.१५] इत्य् उक्तानुसारेण सेवा-रूपस् तत्-कारिणो विष्णोर् भृत्याश् चरन्त्य् अनुतिष्ठन्तीति तस्य ज्ञानस्य भक्तिमयत्वं व्यक्तम् । अत एवास्मिन् वाक्ये पूर्वोक्त-श्रीमद्-उद्धव-वाक्ये च रहः-शब्दश् चतुः-श्लोकी-पठित-रहस्य-शब्देन समानार्थतया निर्दिष्टः । अतः श्री-भगवद्-वाक्ये, मन्-महिमावभासं [भा।पु। ३.४.१३] इति महिम-शब्दस्यापि तत्-पर्यन्ततायाम् एव तात्पर्यम् । अतस् तथाभूतोऽपि प्रेम-वश एवाहं तथा तथा नर-लीलादाव् आविष्टो भवामीति श्री-भगवता सिद्धान्तितम् अपि, परम-स्थिति-शब्दस्याप्य् अत्रैव तात्पर्यात् ॥२५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नोऽस्मभ्यम् इत्य् अस्मदोर् द्वयोश् चेत्य् एकत्वेऽपि द्वित्वेऽपि बहुत्वम् । यद् यस्माद् विष्णोर् भृत्या वैष्णवाः स्व-भृत्यानाम् अर्थं भक्त्य्-उपदेश-रूपं कुर्वाणाः कृपया अज्ञ-लोकानां गुरवो भवन्त एव भ्रमन्ति । अतस् तत्-सेवकाभिमानिने मह्यं भगवज्-ज्ञानम् उपदिशेत्य् अर्थः ॥२५॥

———————————————————————————————————————

॥ ३.४.२६ ॥

उद्धव उवाच—

ननु ते तत्त्व-संराध्य ऋषिः कौषारवोऽन्तिके ।

साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्वाय संराध्य इति । अयं भावः—भगवतैव स्मरण-मात्रेण तवापि तत्त्वम् उपदिष्ट-प्रायम् । अथ केवलम् असम्भावनादि-निवृत्तये ज्ञानी कश्चिद् आराध्यः । स च तवाराध्यो मैत्रेयो न त्व् अहम् । ममान्तिक एव त्वद्-उपदेशे तस्यादिष्टत्वाद् इति ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदम् अभ्यर्हणीयं कथम् अहं शिष्यीकुर्याम् इति स्वगतं ब्रुवन्, अये-महाभाग, यद् भगवन्-मुखाद् अवगतं तस्य तदीय-यादवादीनां च देह-त्यागं विनैव स्व-स्व-धाम-स्थितत्वं तत् तन् मयोक्तम् एव । किन्तु, तदीय जन्म-कर्माद्य्-अशेष-विशेष-तत्त्वानि जिज्ञाससे चेत्, तर्हि ऋषिर् मैत्रेय एव गुरुः कर्तव्य इत्य् आह—नन्व् इति । ननु निश्चितम् एव । तस्य भावस् तत्त्वं तेन स्व-भृत्यार्थ-कृतत्वेन गुरुत्वेनेति यावत्, संराध्य आराध्य मैत्रेय एव, न त्व् अहं, यतस् त्वद्-उपदेशार्थं, ममान्तिके भगवता साक्षात् स आदिष्ट एव ॥२६॥

———————————————————————————————————————

॥ ३.४.२७ ॥

श्री-शुक उवाच—

इति सह विदुरेण विश्व-मूर्तेर्

गुण-कथया सुधया प्लावितोरुतापः ।

क्षणम् इव पुलिने यमस्वसुस् तां

समुषित औपगविर् निशां ततोऽगात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्व-मूर्तेः सर्वतः साक्षाद् इव स्फुरतोऽत एव विरहेऽपि गुण-कथयेत्य् आदि ॥२७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां निशां क्षणम् इव समुषितः औपगविः औपगवस्यापत्यम् उद्धवः ततः प्रातर् अगात् ॥२७॥

———————————————————————————————————————

॥ ३.४.२८ ॥

राजोवाच—

निधनम् उपगतेषु वृष्णि-भोजेष्व्

अधिरथ-यूथप-यूथपेषु मुख्यः ।

स तु कथम् अवशिष्ट उद्धवो यद्

धरिर् अपि तत्यज आकृतिं त्र्यधीशः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आकृतिं पृथिवीम् । शरीरम् आकृतिर् देहः कुः पृथिवी मही तथा इत्य् अभिधानम् ॥२८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-शापेननिधनं प्राप्तेषु यद्य् अस्मात् त्रयाणां ब्रह्मादीनाम् ईशो हरिर् अप्य् आकृतिंमनुष्याकारं त्यक्तवान् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : निधनं नितरां धन-स्वरूपं श्री-कृष्ण-नित्य-लीला-धाम । उप समीपतो व्यवधानं विनैव गतेषु । स तु कथम् अवशिष्टः । एक एव प्रपञ्चे स्थितः । यत् यस्मात् त्रयाणां ब्रह्मादीनां महत्-स्रष्ट्र्-आदीनां वाधीशो हरिर् आकृतिं वीराड् आकारं त्यक्तवान् । मर्त्य-लोकं जिहासता [भा।पु। ३.४.२६] इति, अस्माल् लोकाद् उपरते [भा।पु। ३.४.२८] इति पूर्वापरानुरोधात् ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निधनं नाशं यद् यस्मात् त्र्यधीशो हरिर् अपि, आ सम्यक्-प्रकारेण कृतिं चेष्टां लीलां तत्याज समाप्तीचकारेति प्रकटोऽर्थः । वस्तुतस् तु नितरां धनं सर्वस्वं कृष्णं प्रपञ्चागोचरी-भूतम् अपि उपगतेषु निकट-प्राप्तेषु वृष्ण्य्-आदिषु, स तु उद्धवः कथम् अवशिष्टः, तदीय-विरह-सन्तापम् उपलब्धुम् एकांशेनापि प्रकटतया स्थित्य्-अनौचित्याद् इति भावः । न च स वृष्ण्य्-आदिष्व् अप्रसिद्धो मन्तव्यः, यतः अधिरथेत्य् आदि ।

ननु बदरीं त्वं प्रयाहीति भगवद्-आज्ञां कथम् अन्यथा कुर्यात् ? तत्राह—यस्य हरिः सर्व-दुःख-हर्तापि प्रभुः आकृतिम् इङ्गितम् अपि तत्याज—आकारस् त्व् इङ्ग इङ्गितम् इत्य् अमरः । व्रज-देवीषु तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीर् [भा।पु। १०.२९.२२] इतिवद् आज्ञा-दान-समये यदि किम् अपीङ्गितम् अकरिष्यत् तदा महा-सुबुद्धिर् असाव् उद्धवो बदरिकाश्रमं नागमिष्यत् तत्-समीप एवास्थास्यद् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

॥ ३.४.२९ ॥

श्री-शुक उवाच—

ब्रह्म-शापापदेशेन कालेनामोघ-वाञ्छितः ।

संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

पृथिवी-लोक-सन्त्यागो देह-त्यागो हरेः स्मृतः ।

नित्यानन्द-स्वरूपत्वाद् अन्यन् नैवापलभ्यते ॥

दर्शयेज् जन-मोहाय सदृशीं मृतकाकृतिम् ।

मटवद् भगवान् विष्णुः पर-ज्ञानाकृतिः स्वयम् ॥ इति स्कान्दे ।

राजन् परस्य तनुभृज् जननाप्ययेहा

माया विडम्बनम् अवैहि यथा नटस्य ॥ इति च ॥२९॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-शापः अपदेशो मिषं यस्य तेन कालेन स्व-शक्ति-रूपेण । अमोघं वाञ्छितं यस्य । न ह्य् अत्र शापः प्रभुः, किन्तु भगवद्-इच्छैवेत्य् अर्थः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं त्यक्ष्यन् देहम् इति च ज्ञेयम् । देहं विराड्-आकारम् । पूर्वोक्त-हेतुत्वात् । एतच् च श्री-कृष्ण-सन्दर्भस्य त्रिनवतितम-वाक्य-प्रघट्ट-दृष्ट्या विचार्यम् । तथा हि—तद् एवं यद्यपि भगवतः श्री-कृष्णस्य स्वयं-भगवत्त्वे सुष्ःतु निर्धारिते नित्यम् एव तद्-रूपत्वेनावस्थितिर् अपि स्वयम् एव सिद्धा । तथापि मन्द-धियां भ्रान्ति-हानार्थम् इदं विव्रियते । तत्र तावद् आराधना-वाक्येनैव सा सिध्यति । आराध्यस्याभावे आराधनानोदनाया विप्रलिप्सा-जन्यत्वापत्तेः । तच् च परमाप्ते शास्त्रे न सम्भवति । सम्भवे च पुरुषार्थाभावात् शास्त्रानर्थक्यम् ।

आरोपश् च परिच्छिन्न-गुण-रूप एव वस्तुनि, कल्प्यते नानन्त-गुण-रूपे । श्री-स्वामि-चरणैर् अपीदम् एव पुष्टम् एकादशान्ते धारणा-ध्यान-मङ्गलं [भा।पु। ११.३१.६] इत्य् अत्र,धारणाया ध्यानस्य च मङ्गलं शोभनं, विषयम् इतरथा तयोर् निर्विषयत्वं स्यात् । दृश्यते चाद्यापि तद्-उपासकानां साक्षात्कारस् तत्-फलस्-प्राप्तिश् चेति भावः इत्य् एषा । श्रूयते चैवं पञ्चमे नवसु वर्षेषु तत्-तद्-अवतारोपासनादि । यथोक्तं—नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते [भा।पु। ५.१७.१४] इति ।

सन्निधानं चेदं साक्षाद्-रूपेण श्री-प्रद्युम्नादौ गति-विलासादेर् वर्णितत्वात् । तत्र चात्मना स्वयम् एवेत्य् उक्तम् । तथा नित्यत्व एव शालग्राम-शिलादिषु नरसिंहत्वादि-भेदश् च संगच्छते । तत्-तद्-अवतार-सान्निध्याद् एव हि तत्-तद्-भेदः । तथा श्री-कृष्णम् अधिकृत्यापि गीतं श्री-कृष्ण-सहस्र-नाम-प्रारम्भे श्री-विष्णु-धर्मोत्तरे—

तस्य हृष्टाशयः स्तुत्या विष्णुर् गोपाङ्गनावृतः ।

तापिञ्छ-श्यामलं रूपं पिञ्छोत्तंसम् अदर्शयत् ॥ इति ।

अग्रे च तद्-वाक्यम्—

माम् अवेहि महाभाग कृष्णं कृत्य-विदां वर ।

पुरस्कृतोऽस्मि त्वद्-भक्त्या पूर्णाः सन्तु मनोरथाः ॥ इति ।

तथा पाद्मे निर्माण-खण्डे—पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् इति श्री-भगवद्-वाक्यानन्तरं ब्रह्म-वाक्यम्—

ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।

गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥

कदम्ब-मूल आसीनं पीत-वाससम् अद्भुतम् ।

वनं वृन्दावनं नाम नव-पल्लव-मण्डितम् ॥ इत्य्-आदि ।

त्रैलोक्य-संमोहन-तन्त्रे श्रीमद्-अष्टादशाक्षर-जप-प्रसङ्गे—

अहर्-निशं जपेद् यस् तु मन्त्री नियत-मानसः ।

स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।

गौतमीये च सद्-आचार-प्रसङ्गे—

अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।

स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।

श्री-गोपाल-तापनी-श्रुतिश् चैवम्—तद् उ होवाच ब्रह्मणोऽसाव् अन्वरतं मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२९] इति । सिद्ध-निर्देशोऽपि श्रूयते यथा वन्दे वृन्दावनासीनम् इन्दिरानन्द-मन्दिरं [ना।पु। १.१.१] इति बृहन्-नारदीयारम्भे मङ्गलाचरणम् ।

गृहं सन्तिष्ठते यस्य माहात्म्यं दैत्य-नायक ।

द्वारकायाः समुद्भूतं सान्निध्यं केशवस्य च ।

रुक्मिणी-सहितः कृष्णो नित्यं निवसते गृहे ॥

इति स्कान्दे द्वारका-माहात्म्ये बलिं प्रति श्री-प्रह्लाद-वाक्यम् ।

व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन् मम ।

गृहाणार्घ्यं मया दत्तं दनुजेन्द्र-निषूदन ॥ [प।पु। ६.९३.२४]

इति पाद्म-कार्त्तिक-माहात्म्ये तत्-प्रातः-स्नानार्घ्य-मन्त्रश् च ।

एवं च श्रीमद्-अष्टादशाक्षरादयो मन्त्रास् तत्-तत्-परिकरादि-विशिष्टतयिवाराध्यत्वेन सिद्ध-निर्देशम् एव कुर्वन्ति । तद्-आवरणादि-पूजा-मन्त्राश् च । किं बहुना ? कर्म-विपाक-प्रायश्चित्त-शास्त्रेऽपि तथा श्रूयते । यद् आह बोधायनः—होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य्-आद्य् अनन्तरं—

गोविन्द गोपीजन-वल्लभेश

कंसासुरघ्न त्रिदशेन्द्र-वन्द्य ।

गोदान-तृप्तः कुरु मे दयालो

अंशो-विनाशं क्षपितारि-वर्ग ॥ इति ।

अन्यत्र च यथा—

गोविन्द गोपीजन-वल्लभेश

विध्वस्त-कंस त्रिदशेन्द्र-वन्द्य ।

गोवर्धनादि-प्रवरैक-हस्त

संरक्षिताशेष-गव-प्रवीण ।

गो-नेत्र-वेणु-क्षपण प्रभूतं

आन्ध्यं तथोग्रं तिमिरं क्षिपांशु ॥ इति ।

स्पष्टं च तथात्वं श्री-गोपाल-तापन्यां—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं तोषयामि [गो।ता।उ। १.३७] इति ।

अत एव पुरस्कृतोऽस्मि त्वद्-भक्त्या इत्य् एवोक्तम् इति । अलं चैवां-विध-प्रमाण-सङ्ग्रह-प्रपञ्चेन । यतश् चिच्-छक्त्य्-एक-व्यञ्जितानां तत्-परिच्छदादीनाम् अपि तथा नित्यावस्थितित्वेनाविर्भाव-तिरोभावाव् एव द्वितीय-सन्दर्भे1 साधितौ स्तः । सर्वथोत्पत्ति-नाशौ तु निषिद्धौ । ततस् तद्-अवताराणां किम् उत, स्वयं भगवतो वा तस्य किम् उततराम् इति । तथा च व्याख्यातं जगृहे पौरुषं रूपं [भा।पु। १.३.१] इत्य् अत्र तत्त्व-वाद-गुरुभिः—व्यक्त्य्-अपेक्षया जगृहे । तथा च तन्त्र-भागवते—

अहेयम् अनुपादेयं यद् रूपं नित्यम् अव्ययम् ।

स एवापेक्ष्य-रूपाणां व्यक्तिम् एव जनार्दनः ॥

अगृह्णाद् व्यसृजच् चेति राम-कृष्णादिकां तनुम् ।

पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥

तमसा ह्य् उपगूढस्य यत् तमः-पानम् ईशितुः ।

एतत् पुरुष-रूपस्य ग्रहणं समुदीर्यते ॥

कृष्ण-रामादि-रूपाणां लोके व्यक्ति-व्यपेक्षया ॥ इति ।

एवम् एव प्रथमे द्वादशाध्याये विधूय [भा।पु। १.१२.११] इत्य्-आदि-पद्ये स्वामिभिर् अपि व्याख्यातम्—यत्र दृष्टस् तत्रैवान्तर्-हितः, न त्व् अन्यत्र गतः । यतो विभुः सर्व-गतःइत्य् एषा ।

तथा माध्व-भाष्य-प्रमाणिता श्रुतिश् च—वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं, मत्स्यः कूर्मो वराहो नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किर् अहं, शतधाहं सहस्रधाहम् इतोऽहम् अनन्तोऽहं, नैवैते जायन्ते नैते म्रियन्ते । नैषाम् अज्ञान-बन्धो न मुक्तिः सर्व एव ह्य् एते पूर्णा अजरा अमृताः परमाः परमानन्दाः इति चतुर्वेद-शिखायाम् ।

तथा च श्री-नृसिंह-पुराणे—युगे युगे विष्णुर् अनादि-मूर्तिम् आस्थाय विश्वं परिपाति दुष्टहा इति । तथा च नृसिंह-तापन्यां तद्-भाष्य-कृद्भिर् व्याख्यातम्—एतन् नृसिंह-विग्रहं नित्यमिति । श्रुतिश् च सेयम्, ऋतं सत्यं परं ब्रह्म पुरुषं नृ-केशरि-विग्रहं [नृ।ता।उ। १.६] इति ।

एवं च ब्राह्म-पाद्मोत्तर-खण्डादाव् अपि श्री-मत्स्य-देवादीनां च पृथक् पृथग् वैकुण्ठादि-लोकाः श्रूयन्ते । एवम् एव जलेषु मां रक्षतु मत्स्य-मूर्तिः [भा।पु। ६.८.१३] इति नारायण-वर्माद्य्-उक्तम् अपि सङ्गच्छते ।

तस्मात् स्वयं भगवति श्री-कृष्णेऽप्य् अन्यथासम्भावनम् अनादि-पाप-विक्षेप एव हेतुः । तद् एवम् अभिप्रेत्य तान् दुर्बुद्धीन् अपि बोधयितुं तस्य स्वोपास्यत्वं प्रतिपादयन्न् आह पतिर् गतिश् चान्धक-वृष्णि-सात्वतां प्रसीदतां मे भगवान् सतां पतिः [भा।पु। २.४.२०] इति । अत्र विशेष-जिज्ञासा चेत् श्री-कृष्ण-सन्दर्भो (९३) दृश्यः ॥२९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्युत्तरम् आह—ब्रह्म-शापापदेशः प्रपञ्चागोचरी-करणे मिषं तेन स्व-कुलं संहृत्य अचिन्तयत् । कालेनापि अमोघं व्यर्थीकर्तुम् अशक्यं वाञ्छितम् इच्छा यस्य सः । स्फीतं स्व-मर्यादातोऽप्य् अतिविस्तृतं देहं त्यक्ष्यन् अचिन्तयत् । तद्-देहस्य सच्-चिद्-आनन्द-रूपत्वेन विभुत्वेऽपि स्वरूपानिबन्धनं प्रापञ्चिक-लोक-चक्षुर्-गोचरी-भूतत्वम् एव स्फीतत्वम् । तत्र स-विशेषणे हि विधि-निषेधौ विशेषणम् उपसङ्क्रामतः, सति विशेष्य-बाधे इति न्यायेन त्याग-क्रिया विशेषण एवान्वेति, न तु विशेष्ये, यथा चैत्रो राजा भवति, देहं पुष्टम् असौ चकार, इयं साध्वी स्त्री नष्टाभवद् इति । अत्र त्याग-क्रियाया देहेऽन्वय-बाधो भगवद्-देहस्य सच्-चिद्-आनन्द-रूपत्वेन नित्यत्वात् । तथा हि, महा-वाराहे—

सर्वे नित्याः शाश्वताश् च देहान्तस्य परात्मनः ।

हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥

परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ॥ इति ।

तथा माध्व-भाष्य-प्रमाणिता श्रुतिश् च—वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किर् अहं शतधाहं सहस्रधाहम् इतोऽहम् अनन्तोऽहं नैवैते जायन्ते नैते म्रियन्ते । नैषाम् अज्ञान-बन्धो न मुक्तिः सर्व एव ह्य् एते पूर्णा अजरा अमृताः परमा परमानन्दा इति ।

गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं तोषयामि [गो।ता।उ। १.३७] इति गोपाल-तापनी । ऋतं सत्यं परं ब्रह्म पुरुषं नृ-केशरि-विग्रहं [नृ।ता।उ। १.६] इति नृसिंह-तापनी च । तथात्रैव कृष्न-द्युमनि-निम्लोचे[भा।पु। ३.२.७] इति । आदायान्तरधाद् यस् तु स्व-बिम्बं लोक-लोचनं [भा।पु। ३.२.११] इति । व्रज-पुर-वनितानां वर्धयन् कामदेवं [भा।पु। १०.९०.४८] इत्य्-आदि-श्रुति-स्मृति-वाक्यानि बहून्य् एव द्रष्टव्यानि ।

अत्र प्रकटार्थेन देह-त्यागम् अवगमय्य पूर्वापर-वाक्य-विरोधम् अनवधाप्य च आसुर-प्रकृतय एव प्रेम-भक्त्य्-अमृताद् वञ्चिताः श्री-भागवतस्य मोहनीत्वे व्याख्यातत्वात् व्याख्यास्यमानत्वाच् च । नूनम् इति पाठे—स्वांश-रूपं नारायणाभिधम् अवतार-काले स्वस्मिन् वैकुण्ठाद् आगत्य मिलितं, सम्प्रति पुनर् वैकुण्ठे प्रस्थापयितुं स्व-देहाद् विभज्य त्यक्ष्यन् आगतेभ्यो ब्रह्मादिभ्यः पालनार्थं दास्यन् त्जजेर् दानार्थत्वात् । देहं विराड्-आकारं पृथ्वीम् इति सन्दर्भः ॥२९॥

———————————————————————————————————————

॥ ३.४.३० ॥

अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् ।

अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मय्य् उपरते सति ज्ञानम् अर्हति ज्ञान-योग्यो भवति ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहं श्री-कृष्ण-रूप आश्रयो यस्येति ज्ञानस्यापि वैशिष्ट्यम् उक्तम् । आत्मा अहम् एव परम-पुरुषार्थत्वेन विद्यते येषां तेषाम् आत्मवतां श्रेष्ठः ॥३०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मात् प्रापञ्चिकिकाल् लोकाद् उपरते स्वीय-रूप-गुण-लीला-माधुर्य-वृष्टिभ्यो विरते सति अहम् एवाश्रयो यस्य तत् अहं यज् जानामि तद् उद्धवोऽपि ज्ञात्म् अर्हतीत्य् अर्थः । मां दिदृक्षून् यन् मुखाज् ज्ञानं जिज्ञासून् वदरिकाश्रम-वासिनो मुनीन् मत्-प्रतिमूर्तित्वेन ज्ञानं ग्राहयितुम् इति भावः । आत्मा अहम् एव स्वामित्वेन वर्ते येषां तेषाम् आत्मवतां वरः श्रेष्ठः ॥३०॥

———————————————————————————————————————

॥ ३.४.३१ ॥

नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः ।

अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्तः सकाशाद् ईषद् अपि न्यूनो न भवति । यद्य् अस्माद् गुणैर् विषयैर् न क्षोभितः । मद्-वयुनं मद्-विषयं ज्ञानं लोकस्योपदिशन् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् यस्माद् अतिशयेन मद्-अन्यूनत्वाद् धेतोर् गुणैः सत्त्वादिभिर् नार्दितो न पीडितः, गुणातीत इत्य् अर्थः । यतः प्रभुः सर्वार्थ-समर्थश् च । मद्-वयुनं मद्-विषयं ज्ञानं ग्राहयन्न् इति बदरिकाश्रम-गतांस् तंस् तान् महा-मुनीन् प्रत्य् अपीत्य् अर्थः । तद् इदं ग्राहणं व्यक्तम् अकथयिष्यमाणम् अपि ज्ञेयम् एव । भगवत्-सङ्कल्पस्यान्यथात्वाद्य्-असम्भवात् । यथोक्तं—अमोघ-वाञ्छितः [भा।पु। ३.४.२९] इति ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-प्रतिमूर्तित्वे उद्धवस्य योग्यताम् आह—अण्व् अपि । मत्तः सकाशाद् ईषद् अपि न न्यूनः यद् यस्मात् गुणैः सत्त्वादिभिः । ननु जगत्य् अस्मिन् गुणातीताः परः सहस्रा जीवन्मुक्ता गुणैर् अनर्दिता एव सन्ति । तेन किं तेषां भगवत्-साम्यं ? सत्यं तर्ह्य् एवं व्याख्येयं—गुणैर् अप्राकृतैर् बल-बुद्धि-ज्ञान-वैराग्यादिभिर् नार्दितः, तेषां वेग-धारण-सामर्थ्यम् एव तैर् अनर्दितत्वम् अत्र ज्ञेयम्, यथा कामादि-वेग-धारण-सामर्थ्यम् एव कामाद्य्-अनर्दितत्वम् उच्यते । उद्धवो हि अधिरथ-यूथपेषु मुख्य इत्य् उच्यते । तद् अपि न क्वापि तादृशस्याप्राकृतस्य बलस्याविष्कारः कृत इति बल-वेग-धारणम् एवं बुद्ध्य्-आदीनाम् अपि वेग-धारणं ज्ञेयम् एतद् एवासाधारण्यम् । प्रभुः अहम् इव वशीकृत-मायः इत्य् अर्थः । मद्-वयुनं मज्-ज्ञानम् ॥३१॥

———————————————————————————————————————

॥ ३.४.३२ ॥

एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना ।

बदर्य्-आश्रमम् आसाद्य हरिम् ईजे समाधिना ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

उत्तमैर् अधिकत्वं वा साम्यं वा विजयोऽपि वा ।

उच्यतेऽपि तु नीचानां मोहार्थं वाप्य् उपेक्षया ।

दृष्टानुसाराद् वा मूढः किञ्चित्-साम्येन वा क्वचित् ॥ इति ब्रह्म-तर्के ॥३२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अनेनाभिप्रायेण शब्द-योनिना वेद-कर्त्रा ईजे पूजयामास ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : बदर्य्-आश्रमं प्रति गमनाय भगवद्-आदेशोऽयं श्री-भगवद्-विहार-मयेऽस्मिन् देशे तेन स्थातुम् अशक्यत्वाद् इत्य् अभिप्रायः । समाधिनानन्य-मनो-वृत्त्या । ईजे साक्षाद् इव सिषेवे । तद् इदं तु मैत्रेय-सहिततया साङ्क्षेपेण तद्-ग्रहणानन्तरम् एव ज्ञेयम् इति तस्य धैर्य-कारणं दर्शितम् ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अनेन प्रकारेण त्रिलोक-स्थानां गुरुणा केषांचिद् अवशिष्टानां वदरिकाश्रम-वासिनाम् उद्धव-द्वारापि गुरुणेत्य् अर्थः । श्रुतदेवादि-मिलनार्थं बाणाद्य्-असुर-जयार्थं पारिजातादि-नयनार्थं देवकी-पुत्राद्य्-आनयनार्थं च प्रायो मिथिलादि-समस्त-भूतल-स्वर्ग-वैकुण्ठ-सुतलादीन् गच्छता स्व-दर्शनेन स्व-श्री-मुख-ज्ञानोपदेशेन च तत्रत्यान् कृतार्थयत्य् अपि भगवता बदरिकाश्रमानागमनात् तत्रत्य-ऋषि-जनानाम् अप्य् उत्कण्ठाम् अनुस्मृत्य तत्रोद्धवः प्रस्थापितः क्वचित् कल्पे वदरिकाश्रमोऽपि प्रेषितः । इमं सन्देशं नर-नारायणाभ्यां देहीति सन्देश-विषयीकृत इत्य् अर्थः । स च नोद्धवोऽण्व् अपीति पद्यम् एव शब्द-योनिनां शब्दानां वेद-लक्षणानाम् अपि योनिर् उत्पत्तिर् यत इति वेदेष्व् अप्य् अनुपलभ्य-ज्ञानं भगवान् जानतीति ध्वनिः । तच् चोद्धवे न्यस्तम् इत्य् अनुध्वनिः । उद्धव-मुखान् नर-नारायणौ तद् एव प्राप्स्यत इति प्रत्यनुध्वनिः । सन्देश-पत्री च स्वस्ति श्रीमन्-नर-नारायणौ प्रति विज्ञापनं चेदम् । सपाद-शत-वर्ष-पर्यन्तैव मत्-प्रकट-प्रकाश-गता लीला भवेत् तन्-मर्यादा च । सम्प्रति वृत्तेति द्वारकायां सपरिकरेण मया अन्तर्धीयते प्रभासं च गत्वा अवतारितान् देवादीन् आधिकारिक-भक्तान् प्रति स्वास्पदेषु प्रस्थाप्य ब्रह्म-प्रार्थितेनैकेनांशेन वैकुण्ठे सार्जुनेनांशेनालक्षितं युष्मत्-पदे च गम्यते । किं च, मत्-पूर्ण-स्वरूप-दर्शनस्योत्कण्ठानां युष्माकं कृते मत्-प्रिय-पार्षद-मुख्येऽस्मिन्न् उद्धवे स्व-सारूप्य-साद्गुण्ये अर्पिते यतः नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः । अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु इत्य् एषा । इह वदरिकाश्रमे ॥३२॥

———————————————————————————————————————

॥ ३.४.३३-३५ ॥

विदुरोऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः ।

क्रीडयोपात्त-देहस्य कर्माणि श्लाघितानि च ॥

देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् ।

अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥

आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् ।

ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्येषां पशु-तुल्यानाम् । विक्लवात्मनाम् अधीर-चित्तानाम् ॥ मनसेक्षितं चिन्तितम् ॥३३-३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विदुर इति त्रिकम् । उपादानम् अत्र प्रकटनं प्रापञ्चिक-भक्त-समीपानयनार्थत्वात् ॥३३॥ देह-न्यासम् । अप्रकट-लीलावकाशे धाम्नि स्व-विग्रहस्य विन्यासं प्रवेशनम् इत्य् अर्थः । धीराणां तस्मिन् लुप्त-चित्तानाम् । तद्-रूपत्वेणैव तद्-अवस्थान-निर्णयाद् धैर्य-वर्धनम् । अन्येषां तद्-विपरीत-बुद्धीनां तत्त्वाज्ञानाद् दुर्विभाव्यम् इत्य् अर्थः ॥३४-३५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रीडयैव कर्त्र्या उप आधिक्येन आत्तो गृहीतो देहो यस्य तस्य लीला-शक्तेर् अधीन एव स तस्य देहस् तयैव शक्त्याविर्भाव्यते चान्तर्धाप्यते चेति भावः । तथा एवम् अनेन प्रकारेण तस्य धीराणां यादवादीनाम् अपि देहानां न्यासं द्वारदायाम् अप्रकट-प्रकाशेऽर्पणम् । प्रभासे च पुनस् त्यागं श्रुत्वा कीदृशं धैर्य-वर्धनं तथा श्रुत्वैव विदुरो हृदि धैर्यम् अबध्नाद् इत्य् अर्थः । यद् वा, तद् अपि धैर्य-च्छेदनं वर्ध-च्छेदने । पुनः कीदृशं ? अन्येषाम् अभक्तानां योगिनाम् अपि अतिशयेन दुष्करम् । एकत्र देशे देहस्यान्तर्धानम् अन्यत्र देशे त्यागत्वेन लोके ज्ञापनम् इति योगिभिर् दुष्करम् इत्य् अर्थः । पशूनाम् इति भक्ताभावाद् इति भावः । विक्लवात्मनाम् एवं कर्तुं व्याकुल-मनसाम् आत्मानं स्वम् ॥३३-३५॥

———————————————————————————————————————

॥ ३.४.३६ ॥

कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ ।

प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालिन्द्याः सकाशात् सिद्ध एव विदुरः कतिपयैर् दिनैः स्वः-सरितं गङ्गां प्रापद्यत प्राप्तः ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालिन्द्याः सकाशात् कतिभिर् अहोभिः सिद्धे निष्पण्णे सति भावे क्तः । कतिषु अहःसु वृत्तेषु सत्स्व् इत्य् अर्थः । स्वः-सरितं गङ्गां प्रापद्यत प्राप्तः ॥३६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयेऽत्र चतुर्थोऽपि सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे

विदुरोद्धव-संवादे

चतुर्थोऽध्यायः ।

॥३.४॥


(३.५)


  1. भगवत्-सन्दर्भे ५९-६०। ↩︎