विषयः
मथुरायां द्वारकायां च सम्पन्नानां श्री-कृष्ण-लीलानां वर्णनम्, यदूनां प्रभास-क्षेत्र-गमनं च ।
॥ ३.३.१ ॥
उद्धव उवाच—
ततः स आगत्य पुरं स्व-पित्रोश्
चिकीर्षया शं बलदेव-संयुतः ।
निपात्य तुङ्गाद् रिपु-यूथ-नाथं
हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
तृतीये मथुराम् एत्य व्रजात् कंस-वधादिकम् ।
यत् क्र्तं द्वारकायां च कृष्णेन तद् अवर्णयत् ॥
शम् इत्य् अव्ययम् । पित्रोः सुखस्य चिकीर्षयेत्य् अर्थः । तुङ्गाद् राज-मञ्चात् । रिपु-यूथानां नाथं कंसम् । व्यसोर् अपि विकर्षणं पित्रोः सुखार्थम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : उद्धव उवाचेति । रास-लीला-वर्णनारम्भे प्रेम-वैवश्याद् अध्याय-समाप्तिः । पश्चात् कथम् अपि बहिर् अनुसन्धाने सतीति ज्ञेयम् । तत इति प्रियादि प्रिय-जन-पीडकत्वाद् देवादीनां प्रीति-विषयकत्वाच् च विकर्षणम् ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
तृतीये मथुरा-द्वारवत्योः कंस-वधादिकाः ।
लीलाः कुरूणां निधनम् अपि सङ्क्षिप्य वर्णितम् ॥
शम् इत्य् अव्ययं सुख-वाचकं पित्रोः सुखस्य चिकीर्षयेत्य् अर्थः । तुङ्गान् मञ्चात् । हतं प्राप्ताघातं ततो व्यसुं प्राप्त-मृत्युम् अपि व्यकर्षद् इति तन्-मरण-सम्भावयतां बिभ्यतां पित्रादीनां मूर्च्छितत्व-भान-निरासार्थम् ॥१॥
———————————————————————————————————————
॥ ३.३.२ ॥
सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् ।
तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म वेदम् । स-विस्तरं षड्-अङ्गादि-सहितम् । पञ्च-जनोदर-विदारण-द्वारा पुत्रम् आनीयेत्य् अर्थः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पञ्चजनोदरं प्राप्य मृतं यम-लोकाद् आनीय प्रादाद् इति बोद्धव्यम् ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म वेदं स-विस्तरं षड्-अङ्गादि-सहितम् । पञ्च-जनोदरं विदार्येति ल्यब्-लोपेन पञ्चमी, यम-लोकाद् आनीयेति शेषः ॥२॥
———————————————————————————————————————
॥ ३.३.३ ॥
समाहुता भीष्मक-कन्यया ये
श्रियः सवर्णेन बुभूषयैषाम् ।
गान्धर्व-वृत्त्या मिषतां स्व-भागं
जह्रे पदं मूर्ध्नि दधत् सुपर्णः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : भीष्मक-कन्याया अर्थे स्व-वर्ण-मात्रतयाहूताः ।
एषां श्रियो जिहीर्षयाह्वान-बुद्धिर् भगवता कृता ।
सुपर्णः सुपरानन्दात् काकुत्स्थो वाचि संस्थितेः ॥ इति पाद्मे ॥३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : भीष्मक-कन्यया रुक्मिण्या ये राजानः समाहूताः । ह्रस्वत्वम् आर्षम् । “समाहृता” इति पाठे आकृष्टा इत्य् अर्थः । केन साधनेन ? श्रियो लक्ष्म्याः स-वर्णेन समानेन रूपेण । यद्यपि तया केवलं श्री-कृष्ण एवाहूतो न सर्वे, तथापि तस्या लावण्यं तेषाम् आगमने हेतुर् इति तयैवाहूता इत्य् उच्यते । एषां मिषतां पश्यतां मूर्ध्नि पदं दधत् । तया सह गान्धर्व-वृत्त्या परस्पर-समय-रूपया बुभूषया भवितुम् इच्छया जहार । कथं-भूतां ? स्व-भागं लक्ष्म्यं शत्वात् । तया स्वात्मनोऽर्पितत्वाच् च । सुपर्णः सुपतनः । यद् वा, सुपर्ण इव स्व-भागं सुधाम् इत्य् अर्थः । यद् वा, श्रियो रुक्मिण्याः समानं वर्ण-द्वयं वाचकं यस्य स श्रियः स-वर्णो रुक्मी, तेन समाहूताः शिशुपालादयः । किम्-अर्थं ? भीष्मक-कन्यया सह तेषां बुभूषया भूतिर् भवत्व् इत्य् एतद् अर्थम् । तत्र शिशुपालस्याह्वानं वरत्वेन बुभूषया, जरासन्धादीनां तद् विवाहोत्सवेन । शेषं पूर्ववत् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भीष्मक-कन्याया या बुभूषा तयेति व्यधिकरण एव तृतीया-द्वयं स्वभागं श्री-रुक्मिणी-रूपं जहार ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भीष्मक-कन्ययेति षष्ठ्य्-अर्थे तृतीया । भीष्मक-कन्याया रुक्मिण्याः श्रियः साक्षाल्-लक्ष्म्याः समानौ वर्णौ द्वौ रुक्मीति अक्षर-द्वयं वाचकं यस्य तेन रुक्मिणा ये राजानः समाहृता ह्रस्वत्वम् आर्षम् । “समाहृता” इति पाठे समानीता इत्य् अर्थः । एषां राज्ञां मूर्ध्नि पदं दधत् सुपर्णो गरुडः सुधाम् इव स्व-भागं रुक्मिणीं जह्रे । एषां कीदृशानां गान्धर्वे विवाहे या वृत्तिस् तया शिशुपालस्य वरत्वेन अन्येषां वर-यात्रत्वेन यद् वरणं तेनेत्य् अर्थः । बुभूषया अहं वर इति वयं वर-यात्रा इति भवितुम् इच्छया मिषतां कदाचित् कृष्ण आगत्य कन्याम् अपहरेद् इत्य् अत इतस् ततः स-चकितं पश्यताम् ॥३॥
———————————————————————————————————————
॥ ३.३.४ ॥
ककुद्मिनोऽविद्ध-नसो दमित्वा
स्वयंवरे नाग्नजितीम् उवाह ।
तद्-भग्नमानान् अपि गृध्यतोऽज्ञान्
जघ्नेऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ककुद्मतो वृषभान् अविद्ध-नासिकान् । विद्ध-नासिकान् कृत्वेति वा । तैर् वृषभैस् तद् दमनेन च भग्नो मानो येषां तथापि तान् गृध्यतः कामयमानान्, अत एवाज्ञान् शस्त्र-भृतो राज्ञस् तच् छस्त्रैर् अक्षत एव जघान ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वेषाम् अर्जुनादीनां शस्त्रैर् जघ्ने । तेषु स्व-प्रभावावेशात् स्वयम् एव जघानेत्य् अर्थाह् । गाण्डीवी कालयामासेति श्री-दशम-संवादायेत्थं व्याख्यायते ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ककुद्मिनो वृषभान् अविद्ध-नासिकान् एव दमित्वा तैर् वृषैः पराभूतत्वेन भग्नो मानो येषां तान् । तद् अपि गृध्यतः कन्याम् अभिकाङ्क्षतः, अत एव अज्ञान् राज्ञः स्व-शस्त्रैर् जघ्ने, तेषां शस्त्रैर् भृतः पूर्ण आच्छन्नोऽप्य् अक्षतः ॥४॥
———————————————————————————————————————
॥ ३.३.५ ॥
प्रियं प्रभुर् ग्राम्य इव प्रियाया
विधित्सुर् आर्च्छद् द्युतरुं यद्-अर्थे ।
वज्र्य् आद्रवत् तं स-गणो रुषान्धः
क्रीडा-मृगो नूनम् अयं वधूनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदादित्याः कुण्डले दातुं स्वर्गं गतः, तदा प्रभुः स्वतन्त्रोऽपि ग्राम्यः स्त्री-परतन्त्र इव प्रियायाः सत्यभामायाः प्रियं विधातुम् इच्छुर् द्युतरुं पारिजातम् आनीतवान् । यद्-अर्थे यन्-निमित्तं तं कृष्णं वज्री स्त्री-प्रेरितो योद्धुम् अन्वधावत् । स्व-कार्य-साधकेन तेन युद्धोद्यमस् तस्यायुक्त एवेत्य् आह—क्रीडा-मृग इति । अयं वज्री ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : ग्राम्यः कामीवद् दृश्यमानोऽपि वस्तुतः प्रियायाः प्रेमवत्याः प्रियं प्रेम्णेप्सितं यत् तद् विधित्सुर् यद्-अर्थे द्युतरुम् आर्च्छत् वज्री त्व् आत्मानुसारेण तम् अन्यथा मत्वैवाद्रवत् अन्यथा मननम् एवाह अयं कृष्णो वधूनां सौन्दर्य-मात्र-लोभेन स्वीकृतानां कामिनीनां नूनं क्रीडा-मृगः काम-वश इति ॥५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्राम्यः कामीव दृश्यमानोऽपि वस्तुतस् तु प्रियायाः प्रेमवत्याः प्रियं प्रेम-वशत्वेन प्रीतिं विधित्सुः द्युतरुं पारिजातम् आर्च्छत् आहृतवान् यद्-अर्थे वज्री वज्र-सहित एव तम् आद्रवत् आ ईषत् योद्धुम् आगतवान् । तत्र हेतुः—अन्ध इति । तत्रापि हेतुः—वधूनां शच्य्-आदीनां क्रीडा-मृग इति । यथा आत्मवन् मन्यते जगद् इति न्यायेन वधूनां सत्यभामादीनाम् अयं क्रीडा-मृग इति निन्दन्न् एवाद्रवद् इत्य् अर्थः ॥५॥
———————————————————————————————————————
॥ ३.३.६ ॥
सुतं मृधे खं वपुषा ग्रसन्तं
दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
आमन्त्रितस् तत्-तनयाय शेषं
दत्त्वा तद्-अन्तः-पुरम् आविवेश ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुनाभेन चक्रेणोन्मथितः सुतं भौमं दृष्ट्वा तस्य मात्रा धरित्र्या भूम्या आमन्त्रितः प्रार्थितः संस् तस्य तनयाय भगदत्ताय दृत-शेषं राज्यं दत्त्वा ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुतं नरकासुरं सुनाभेनोन्मथितं हतं दृष्ट्वा धरित्र्याः तन्-मात्रा आमन्त्रितः निवेदितः तत्-तनयाय भग-दत्ताय । अत्र शुद्ध-माता-पितृकस्यापि तस्य बाणासुर-सङ्गाद् एव कुबुद्धिर् इति असाधु-सङ्ग-महिम-प्रस्तावे पुराणान्तर-कथा ज्ञेया॥६॥
———————————————————————————————————————
॥ ३.३.७ ॥
तत्राहृतास् ता नर-देव-कन्याः
कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् ।
उत्थाय सद्यो जगृहुः प्रहर्ष-
व्रीडानुराग-प्रहितावलोकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रान्तः-पुरे कुजेन भौमेन या आहृतास् ताः, प्रहर्षश् च व्रीडा चानुरागश् च तैः प्रहिताः प्रेरिता येऽवलोकास् तैर् जगृहुः स्वीकृतवत्यः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रान्तः-पुरे कुजेन नरकासुरेण । प्रहर्षश् च व्रीडा चानुरागश् च तैः प्रहिताः प्रेरिता येऽवलोकास् तैर् जगृहुः, ममायम् एव वर इति प्रत्येकं स्वीचक्रुः ॥७॥
———————————————————————————————————————
॥ ३.३.८ ॥
आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् ।
स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आसां योषितां पाणींस् तत्-तद्-अनुरूपः सन् सविधं विवाहोचित-प्रकार-सहितं यथा भवति ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-मायया अचिन्त्य-चिच्-छक्त्या स-विधिम् इति पुण्यारण्यः ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-विधं विवाहोचित-प्रकार-सहितं स्व-मायया योग-मायया सुष्ठु अमाययेति ॥८॥
———————————————————————————————————————
॥ ३.३.९ ॥
तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः ।
एकैकस्यां दश दश प्रकृतेर् विबुभूषया ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : उत्तमैः सर्वतः साम्यं किञ्चित् साम्यम् उदीर्यते इत्य् आग्नेये ॥९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वतः सर्वैर् गुणैः स्व-तुल्यानि । प्रकृतेर् मायाया विविधं भवनं विस्तारस् तद्-इच्छया । यद् वा, प्रकृतेर् हितोर् विविधं भवितुम् इच्छया ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रकृते स्वरूपस्यैव वैभवेच्छया, प्रकृतिश् च स्वरूपं च स्वभावश्च इत्य् अमरः । व्याख्यातं च टीका-कृद्भिः पञ्चमे प्रकृतिं भजस्व [भा।पु। ५.१.१९] इत्य् अत्र प्रकृतिं स्वरूपम् इति ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृतेः स्व-स्वभावस्य विबुभूषया विभवेच्छया आत्म-तुल्यानीत्य् उक्तेः । प्रकृतिं च स्वरूपं च स्वभावश् च इत्य् अमरः ॥९॥
———————————————————————————————————————
॥ ३.३.१० ॥
काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् ।
अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कालः कालयवनः । रुन्धत आवृण्वतः । मुचुकुन्द-भीमादिभिर् निमित्त-मात्रैः स्वयम् एवाजीघनद् घातितवान् । तेन च स्व-पुंसां तेजः प्रभावं कीर्तिं वा दत्तवान् ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वयम् इति साक्षाद् एव कुत्रचित् तु तत्र तत्रावेशेनेत्य् अर्थः ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालः कालयवनः । अनीकैः सैन्यैः रुन्धत आवृण्वतः । मुचुकुन्द-भीमादिभिर् निमित्त-मात्रैः स्वयम् एवाजीघनद् घातितवान् । तेन च तेषां स्व-पुंसां तेजः प्रभावं कीर्तिं वा दत्तवान् ॥१०॥
———————————————————————————————————————
॥ ३.३.११ ॥
शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च ।
अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शम्बर-द्विविद-बल्वलान् अन्यान् अपि कांश्चित् प्रद्युम्न-रामादिभिर् घातयद् अघातयत् । “घातयन्” इति वा पाठः । दन्तवक्त्रादीन् स्वयम् अवधीत् ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : शम्बरम् इति युग्मकम् । शम्बरादीन् अघातयत् बाणादीन् अवधीद् इति यथा-यथं योज्यम् ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ तद्-अनन्तरं कांश् च नृपान् घातयद् इत्य् अडागम् आभाव आर्षः । “घातयन्” इति पाठे बभूवेति शेषः ॥११॥
———————————————————————————————————————
॥ ३.३.१२ ॥
अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् ।
चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नृपान् घातयद् इत्य् अनुषङ्गः । कथं-भूतान् ? कुरुक्षेत्रम् आपततां गच्छतां येषां बलैः सैन्यैर् भूः सर्वापि चचाल चकम्पे ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पतितान् इति स्वयं पृथ्वी-भार-भूतत्वेन कांश्चित् तत्-पक्ष-गामित्वेन च कांश्चिद् रक्षणीयेभ्यश् च्युतान् इत्य् अर्थः ॥१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कांश् च कीदृशान् ते तव भ्रातृ-पुत्राणां युधिष्ठिरादीनां दुर्योधनादीनां च पक्षयोः पतितान् प्राप्तान् कुरुक्षेत्रम् आपतताम् आगच्छतां येषां बलैः सैन्यैः भूः सर्वापि चचाल चकम्पे ॥१२॥
———————————————————————————————————————
॥ ३.३.१३ ॥
स कर्ण-दुःशासन-सौबलानां
कुमन्त्र-पाकेन हत-श्रियायुषम् ।
सुयोधनं सानुचरं शयानं
भग्नोरुं उर्व्यां न ननन्द पश्यन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स कृष्णः । हता श्रीर् आयुश् च यस्य । भग्नाव् ऊरू यस्य तम् उर्व्यां शयानं पश्यन्न् अपि न ननन्द सन्तोषं न प्राप ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स कृष्णः पश्यन्न् अपि न ननन्द ॥१३॥
———————————————————————————————————————
॥ ३.३.१४ ॥
कियान् भुवोऽयं क्षपितोरु-भारो
यद् द्रोण-भीष्मार्जुन-भीम-मूलैः ।
अष्टादशाक्षौहिणिको मद्-अंशैर्
आस्ते बलं दुर्विषहं यदूनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनभिनन्दन-प्रकारम् एवाह—कियान् इति । द्रोणदिभिर् मूलैः कारण-भूतैः । यद् इति यः अष्टादशाक्षौहिणी-युक्तः । ह्रस्वत्वमार्षम् । क्षपितो य हरुर् भारो भुवः अयं कियान् । अत्य्-अल्प इत्य् अर्थः । यस्मान् मद्-अंशैः प्रद्युम्नादिभिर् हेतु-भूतैर् दुर्विषहं बलम् आस्ते ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आस्ते बलम् इत्य् अस्यायं भावः । भू-भारस् तावद् व्यक्ति-बाहुल्येन न स्यात्, पर्वत-समुद्रादीनां तत्र प्राचुर्यात् । किन्त्व् अधार्मिक-प्राचुर्येणैव तत्र भारः स्यात् । तत्रास्तां तावत् प्रद्युम्नादि-मद्-अंशानां यदु-मात्राणां परम-धार्मिकत्वम् एवोक्तम् । ब्रह्मण्यानां वदान्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् इत्य् आदौ । शय्यासनाटनालाप-क्रीडा-स्नानाशनादिषु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतस इत्य् आदौ तस्मड् यद् अत्र दुर्विषहत्वेन भारत्वम् उच्यते तत् खलु तांस् त्यक्त्वा केवलस्य ममान्तर्धाने तेषां मद्-वियोगेन पीडार्तानां परार्ध-सङ्ख्यानां सङ्गात् पृथिवीयं पीडिता स्याद् इतीत्य् एव गम्यते ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र हेतुः—कियान् इति । यतो द्रोणादिभिर्मूलैः कारण-भूतैर् अष्टादशाक्षौहिणी-भरः भुवो भारः उरुर् यथा स्यात् तथा क्षपितः अयं कियान् अत्यल्प इत्य् अर्थः । सन्धिर् आर्षः । समास-व्याख्यायां विधेयांशा-विमर्शः सोढव्यः । यस्मान् मद्-अंशैः प्रद्युम्नादिभिर् हेतु-भूतैर् दुर्विषहं बलम् आस्ते ।
ननु भू-भारस् तावद् व्यक्ति-बाहुल्येन न स्यात् पर्वत-समुद्रादीनां, तत्र प्राचुर्यात् किन्त्व् धार्मिक-प्राचुर्येणैव ते चाधार्मिका भगवता संहृता एव, न च यदु-कुलस्याधार्मिकत्वं वाच्यं भगवत्-परिकर-रूपत्वात् । ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् । शय्यासनाटनालाप-क्रीडा-स्नानाशनादिषु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतस इत्य्-आद्य्-उक्तिभ्यश् च । अत्रोच्यते—भारो हि द्विविधो भवति—दुःख-रूपः सुख-रूपश् च । प्रथमो दुःसहः, द्वितीयस् तु सुसह एव, यथा युवत्या स्व-रमणस्य भारः । यथा च वत्सलया मात्रा स्व-पोतस्य क्रोडे कृतस्य भारः । यथा च वणिजा शिरसि धृतस्य स्व-धनस्य भारः । किं चाल्प-बलेन जनेन स्वस्माद् अतिबहुलः सुख-रूपोऽपि भारो वोढुं न शक्यते । यथा परम-धार्मिकस्य महा-भागवतस्य तपो-बलाधिक्यम् आविष्कुर्वतो ध्रुवस्यापि भारः पृथिव्याः । यद् उक्तं—
यदैक-पादेन स पार्थिवार्भकस्
तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही ।
ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता
तरीव सव्येतरतः पदे पदे ॥ [भा।पु। ४.८.७९] इति ।
यदा च भगवतापि स्व-बलम् आविष्क्रियते तदा तस्य परमानन्द-रूपस्यापि भारो न वोढुं शक्यते । यथा भीष्म-स्तुतौ धृत-रथ-चरणोऽभ्ययाच् चलद्गुर् [भा।पु। १.९.३७] इति । नृसिंहाविर्भावे च—प्रोत्सर्पत क्ष्मा च पदाभिपीडिता [भा।पु। ७.८.३४] इति । अतोऽत्र यद्यपि यदु-कुलस्य भारः पृथिवा भारत्वेन नाभिमन्यते यथा सुकुमार्यापि स्त्रिया बहु-स्वर्ण-रत्नत्वाद्य्-आभरण-भारस् तद् अपि प्रेमवता तत्-कान्तेन तद्-अङ्गेभ्यः कश्चन कश्चनोत्सेवादाव् आगन्तुक एवाभरण-भारो निष्काश्यते स्थाप्यते च सर्वदोपयोगी तथैव अंशावतरण-समये नित्य-परिकर-रूपेषु यादवादिषु ये देवादयोऽंशाः परविष्टास् त एव द्वारकातो निष्क्रमय्य प्रभासे उपसंहृताः ॥१४॥
———————————————————————————————————————
॥ ३.३.१५ ॥
मिथो यदैषां भविता विवादो
मध्व्-आमदाताम्र-विलोचनानाम् ।
नैषां वधोपाय इयान् अतो\ऽन्यो
मय्य् उद्यते\ऽन्तर्दधते स्वयं स्म ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न चात्रान्य उपायः प्रभवति, किन्तु मधुना य आमदः सर्वतो मदस् तेनाताम्र-विलोचनानाम् एषां विवादो यदा भविष्यति, तदा इयान् एवैषां वधोपायः अतोऽन्यो नास्ति । एकात्मानोऽपि मय्य् उद्यते सति स्वयम् एव विवादेनान्तर्दधीरन्न् इत्य् अर्थः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः १२७) : अतस् तेषां श्री-भगवद्वद् अन्तर्धानम् एव, न त्व् अन्यद् अस्तीति श्री-भगवद्-अभिप्राय-कथनेनाप्य् आह—मिथ इति । एषां यदूनां यदा मिथो विवादस् तदाप्य् एषां पृथिवी-परित्याजने वध-रूप उपायो न विद्यते, किम् उतान्येन विवादे स न स्याद् इति । तर्हि तेषां ममाभिलषिते पृथिवी-परित्याजने कतम उपायो भवेत् ? तत्र पुनः परामृशति—अतो वधाद् अन्य एव इयान् एतावान् एव उपायो वर्तते । कोऽसौ ? मयि उद्यते ममेच्छया एते स्वयम् अन्तर्दधत इति यः । स्मेति निश्चये । यद् वा, वधस्योपायो न विद्यत इत्य् एवं व्याख्याय अतो वधोपायाद् अन्य इयान् वधोपाय-तुल्य उपायो विद्यते इति व्याख्येयम् । अन्यत् समानम् ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रान्येषाम् इव नैषां संहारः सम्भवति, किन्तु प्रकारान्तरेणैवेति स्वगतम् आह—मिथ इति । मधुना य आ सम्यक् मदः, तेन आताम्र-नेत्राणां विवादः, तदाप्य् एषां वध-रूप उपायो न भवति, किन्तु अतो वधात् अन्य एव इयान् वध-सदृशो, न तु वध इत्य् अर्थः । तेन लोका वस्तुतस् त्व् अवधम् एव परस्पर-वधं द्रक्ष्यन्तीत्य् अर्थः । वास्तवं वस्तुतस् तु स्पष्टम् आह—मयि उद्यते इमान् उपसंजिहीर्ष्यौ सति स्वयम् एव इमे अन्तर्दधते अन्तर्धास्यन्ते । स्मेति निश्चये ॥१५॥ [भागवतस्य ११.३०.१२-टीकापि द्रष्टव्या]
———————————————————————————————————————
॥ ३.३.१६ ॥
एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् ।
नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं श्लोक-द्वयेनोक्तं क्रमेण सञ्चिन्त्य स्व-राज्ये स्थापयित्वा ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं धृतः स्थापितः पुनर् धृतो रक्षितः ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थाप्य स्थापयित्वा ॥१६॥
———————————————————————————————————————
॥ ३.३.१७ ॥
उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना ।
स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धृतो रक्षितः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धृत आहितः । धृतो रक्षितः ॥१७॥
———————————————————————————————————————
॥ ३.३.१८ ॥
अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः ।
सो\ऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुजैः सह ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रेमे विरराज ॥१८॥
———————————————————————————————————————
॥ ३.३.१९ ॥
भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः ।
कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : केवलं भगवज्-ज्ञानं साङ्ख्यम् इत्य् अभिधीयते इत्य् अध्यात्मे ॥१९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : साङ्ख्यं प्रकृति-पुरुष-विवेकम् ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् अपि इति कृत-कृत्यतायां जातायां वैराग्य-लीला प्रकाशितेत्य् अर्थाह् ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चम-षष्ठे ऐश्वर्ये द्योतयति—भगवान् अपि विश्वस्यान्तर्यामीव असक्तः । लोक-वेद इति लोक-वेदयोर् अनिषिद्धान् एव कामान् सुख-रूपान् इन्द्रादिभिर् उपायनत्वेन प्रेषितान् सिषेवे बुभुजे । अत्र असक्त इति वैराग्यं साङ्ख्यम् इति ज्ञेयम् ॥१९॥
———————————————————————————————————————
॥ ३.३.२०-२१ ॥
स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥
इमं लोकम् अमुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्निग्धो यः स्मित-सहितोऽवलोकस् तेन । पीयूष-कल्पया सुधा-तुल्यया । पाठान्तरे सुधा-प्रवाह-रूपया । आत्मना देहेन ॥२०॥ क्षणदया रात्र्या, दत्तः क्षणोऽवसर उत्सवो वा, यासां स्त्रीणां तासु क्षणं सौहृदं यस्य सः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र क्रमम् आह त्रिभिः । स्निग्ध- इति युग्मकम् ॥२०॥ रजन्या दत्तावसर-स्त्रीणां क्षणम् उत्सव-रूपं सौहृदं यस्य ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माया-शक्ति-विलास एव तस्यानासक्तिश् चिच्-छक्ति-विलासे त्व् आसक्तिर् एवेत्य् आह—स्निग्ध- इति । क्रमेण अवलोक-वचन-लीला-रूपैश् चतुर्भिर् माधुर्यैः इमं लोकं मर्त्य-लोक-स्थं स्व-भक्तम् अमुं देव-लोक-स्थं तेष्व् अपि मध्ये यदून् नितरां यदुष्व् अपि मध्ये स्त्रीषु रेमे इत्य् आसक्त्य्-आधिक्यं क्षणदया रजन्या दत्तः क्षणोऽवसरो यासां तथा-भूतासु स्त्रीषु क्षणेन रत्योत्सवेन सौहृदं यस्य सः । पट्ट-महिषीणां स्वरूप-भूतत्वाच् चिच्-छक्तित्वम् । स्कान्द-प्रभास-खण्डे शिव-गौरी-संवादे गोप्य्-आदि-माहात्म्ये दृष्टम् ।
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
लक्षम् एकं तथा षष्ठिर् एते कृष्ण-सुताः प्रिये ॥ इत्य् उपक्रम्य,
हंस एव मतः कृष्णः परमात्मा जनार्दनः ।
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ॥
चन्द्र-रूपी मतः कृष्णः कला-रूपास् तु ताः स्मृताः ॥ इति ।
अत्र विशेषो दशमे प्रपञ्चयिष्यते ॥२०-२१॥
———————————————————————————————————————
॥ ३.३.२२ ॥
तस्यैवं रममाणस्य संवत्सर-गणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सर्वदापि विरक्तः सन् भासयीत विरागिवत् ।
कादाचित्कः कुतस् तस्य लोक-शिक्षार्थम् इष्यते ॥ इति पाद्मे ।
तेनापि विरागः प्रदर्शितम् ॥२२॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृह-मेधेषु गृह-धर्मेषु । योगेषु काम-भोगोपायेषु । विराग औदासीन्यं जातम् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गृह-मेधेषु गार्हस्थ्योचित-धर्मानुष्ठानेषु वैराग्यम् औदासीन्यम् ॥२२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृह-मेधेषु योगेषु रजो-गुण-मय-कर्म-मार्गेषु तद्-उपलक्षित-कर्मि-जनोपनीत-भोग्य-वस्तुषु च विराग औदासीन्यं सम्यग् अजायत इति सर्व-कालम् एव स आसीद् एव, तदानीं त्व् अतिस्पष्टी-बभूवेत्य् अर्थः । गुणेष्व् असङ्गो वैराग्यम् इति वैराग्यस्य लक्षणाद् गुणातीतेषु शुद्ध-सत्त्व-मयेषु रुक्मिण्य्-आदि-विलासेषु वैराग्यं न व्याख्येयम् ॥२२॥
———————————————————————————————————————
॥ ३.३.२३ ॥
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।
को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अतः कोऽन्यो विश्रम्भं कुर्यात् ॥२३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा स्वाधीनेष्व् अपि भगवतो विरागः, तदा दैवाधीनेषु को विस्रम्भेत विश्वासं प्रीतिं वा कुर्यात् ? योगेन चेद् योगेश्वरं श्री-कृष्णम् अनुव्रतः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सा च वैराग्य-लीलैतद् बोधयितुम् इत्य् आह—दैव- इति ॥२३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा च वैराग्य-लीला एतद् बोधयितुम् इत्य् आह—यदा स्वाधीनेष्व् अपि भगवतो विरागः, तदा दैवाधीनेषु को विश्रम्भेत विश्वासं प्रीतिं कुर्वीत ? योगेन चेत् योगेश्वरं भगवन्तम् अनुव्रतः स्यात् ॥२३॥
———————————————————————————————————————
॥ ३.३.२४ ॥
पुर्यां कदाचित् क्रीडद्भिर् यदु-भोज-कुमारकैः ।
कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शेपुः शापं ददुः । भगवतो मतेऽभिप्राये कोविदाः अभिज्ञाः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवन्-मतं तु विप्र-शाप-व्याजेन मिथो यदैषाम् [३.३.१५] इत्य्-आदिना पूर्वम् उक्तम् । देवः श्री-कृष्णः ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवतो मते अभिप्राये कोविदा इति मुनीनां दोषः परिहृतः । भगवतोऽपि तादृशाभिप्राय-कारणम् एकादशान्ते व्याख्यास्यते ॥२४॥
———————————————————————————————————————
॥ ३.३.२५ ॥
ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः ।
ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
एष्यच् च निश्चितं यत् तद् अतीतत्वेन भण्यते ।
चक्रवत्-परिवृत्तेर् वा दुष्टानां मोहनाय वा ॥ इति स्कान्दे ॥२५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-मोहिता एव वृष्ण्य्-आदयो ययुर् नित्य-भूतास् तु द्वारकायाम् एव प्रापञ्चिक-लोकालक्ष्यतया तस्थुः । देवाश् च ते मोहिताश् चेति वा ॥२५॥
———————————————————————————————————————
॥ ३.३.२६ ॥
तत्र स्नात्वा पितॄन् देवान् ऋषींश् चैव तद्-अम्भसा ।
तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वयः-शीलादि-बहु-गुणोपेता या गावस् ताः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र इति युग्मकम् ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गावो गाः बहु-गुणाः पयह्-शीलादि-मतीः ॥२६॥
———————————————————————————————————————
॥ ३.३.२७ ॥
हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् ।
यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कन्याश् च । वृत्ति-करीं जीविका-पर्याप्ताम् ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : गो-विप्रार्थासव इति परम-धार्मिकत्वम् एव दृढी-कृतं, तेन भगवद्-इच्छयैव तादृश-बुद्धित्वम् आगन्तुकम् इति व्यञ्जितम् । ततश् च तत्र तत्र दण्डश् च लोक-भीषणार्थम् एव, न तु वास्तवम् इति च दर्शितम् ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृत्त-करीं जीविका-पर्याप्ताम् ॥२७॥
———————————————————————————————————————
॥ ३.३.२८ ॥
अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् ।
गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-अर्पणं यथा भवति । गो-विप्रार्था असवो येषाम् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवतेऽर्पणं यत्र तत् यथा स्यात्, तथा गो-विप्रार्था असवो येषां ते इति तेषां धार्मिकत्वं दृढीकृत्य भगवद्-इच्छाधीन-संहारत्वं व्यञ्जितम् । भगवद्-इच्छा च ब्राह्मणा न कोपनीया इति लोक-प्रवर्तना नित्य-भूतेभ्यो यादवेभ्यो देवाद्य्-अंश-विभाजना तेषां तन्-मिषेण स्व-स्व-पद-प्रापणा स्वीय-षष्ठैश्वर्य-द्योतना । स्व-भक्ति-भक्त-धाम-लीला-परिकरादि-माहात्म्य-गोपनेन बहिर्-मुख-लोक-प्रतारणा स्व-भक्त-जनानुराग-विस्तारणाद्या इति ॥२८॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
तृतीयोऽयं तृतीयेऽत्र सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां तृतीय-स्कन्धे
विदुरोद्धव-संवादे
तृतीयोऽध्यायः ।
॥३॥
(३.४)