०२ कृष्ण-बाल-लीला-वर्णनम्

विषयः

प्रभु-विरह-विषण्णेनोद्धवेन संक्षेपतः श्री-कृष्ण-बाल-लीला-वर्णनम् ।

॥ ३.२.१ ॥

श्री-शुक उवाच—

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।

प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वितीये कृष्ण-विश्लेषाद् अनुशोचन् नथोद्धनः ।

क्षत्त्रे बाल-चरित्राणि कृष्णस्यावर्णयच्छ्वसन् ॥

तद् एवं प्रियवार्तां पृष्टस्योद्धवस्य श्री-कृष्ण-विरहौत्कण्ठ्यावेशेन प्रतिवचनासामर्थ्यम् आह षड्भिः—इतीति । स्मारित ईश्वरो यस्य ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : स्मारितेति स्मरण-विशेषं गमयति ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वितीये प्रेम-वैक्लव्य-रोदन-स्नपिताननः ।

व्रज-लीलां समासेन रासान्तां उद्धवोऽवदत् ॥

श्री-कृष्ण-विश्लेष-विवृद्ध-प्रेम-मूर्च्छितस्योद्धवस्य प्रतिवचनासामर्थ्यं वदन् काम् अपि दशां दर्शयति—विदूरस्योच्चैः प्रश्नेभ्यो मूर्च्छा-भङ्गेन स्मारित ईश्वरो यस्य सः ॥१॥

———————————————————————————————————————

॥ ३.२.२ ॥

यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः ।

तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव कैमुत्य-न्यायेन प्रपञ्चयति—य इति द्वाभ्याम् । यः पञ्च-वर्षोऽपि बाल-लीलयेति कृष्णं कञ्चित् परिकल्प्य कल्पितैर् एव साधनैः परिचर्यां कुर्वन् प्रातर्-भोजनार्थं मात्रा प्रर्थितोऽपि तद् भोजनं नैच्छत् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : य इति युग्मकम् ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य प्राक्तनीं भक्तिं दर्शयति—बाल-लीलयेति पञ्चालिकाभिः खेलन्न् एव काम् अपि पञ्चालिकां कृष्णं परिकल्प्य कल्पितैर् एवोपचारैः परिचर्यां कुर्वन् मात्रा प्रातर्-भोजनार्थं प्रार्थितोऽपि सम्प्रत्य् अपि मे भगवत्-परिचर्या न निर्व्यूढेति तद्-भोजनं नैच्छत् ॥२॥

———————————————————————————————————————

॥ ३.२.३ ॥

स कथं सेवया तस्य कालेन जरसं गतः ।

पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जरसं वृद्धत्वं गतः प्राप्तः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्य पञ्चालिका-रूपस्य जरसं जरां कृत-चिर-सेवित्वम् इत्य् अर्थः । प्रवयसोऽप्य् आसन् युवानोऽतिबलौजस इत्य् अनेन विरोधात् ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य सेवया हेतुना सेवा-प्रभावेणेत्य् अर्थः । काले समयेऽपि जरसं वृद्धत्वं न गतः । यद् वा, काले या सेवा यस्मिन् काले या समुचिता सेवा तया । कालेनेति तृतीयान्ततया व्याख्यानं त्व् असङ्गतं, तत्र प्रवयसोऽप्य् आसन् युवानोऽतिबलौजस इत्य् अनेन विरोधात् ॥३॥

———————————————————————————————————————

॥ ३.२.४ ॥

स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् ।

तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णाङ्घ्रि-सुधया साधु निर्वृतः । तस्याम् एव तीव्रेण विवशत्वापादकेन भक्ति-योगेन भृशं निमग्नश् च ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हि कथं प्रत्युक्तवान् ? उच्यते—श्री-भगवतैव स्व-नित्य-लीलाया मनसि दर्शनेन सान्त्वनाद् इत्य् आह— इति त्रिभिः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पादयोर् अनुस्मरणं विवृणोति—स इति । विदुर-प्रश्नैर् उद्धवस्य मूर्च्छा-भङ्गे सति, "हन्त हन्त तेन प्रभुणाहं विरहितोऽस्मि" ति श्री-कृष्णाङ्घ्र्याः स्मरणेन साक्षात्-कारे सति प्राप्ता या सौन्दर्य-सुधा, तया आस्वाद्यमानया मुहूर्तं घटिका-द्वय-पर्यन्तं तूष्णीं स्थितोऽभूत्, ततश् च तीव्रेण कृष्ण-विश्लेष-विवृद्धेन भक्ति-योगेन प्रेम्णा आस्वादन-भूम्ना तस्याम् एव सुधायां निमग्नः विस्मृत-कृष्ण-विश्लेष-दुःखः सन् साधु यथा स्यात्, तथा निर्वृतोऽभूत् ॥४॥

———————————————————————————————————————

॥ ३.२.५ ॥

पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः ।

पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुलकैर् उद्भिन्नान्य् उज्जृम्भितानि सर्वाण्य् अङ्गानि यस्य । मीलन्त्या दृशा शुचोऽश्रूणि मुञ्चन्तेन विदुरेण पूर्णार्थः कृतार्थो लक्षितः । यतो भगवति यः स्नेहः, तस्य प्रसरः पूरः, तस्मिन् संप्लुतो निमग्नः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्वृत्यानुभावं दर्शयति—पुलकैर् उद्भिन्नानि अङ्कुरितानि सर्वाण्य् अङ्गानि इति उद्भिदस् तरु-गुल्माद्या इति स्तम्भश् च व्यञ्जितः । मीलन्त्या दृशा शुचः अश्रूणि मुञ्चन्, तेन विदुरेण पूर्णार्थः कृतार्थो लक्षितः अनुभावैर् अनुमितेन प्रेम्णेत्य् अर्थः । यतः प्रेम्ण एव भगवति स्नेहश् चित्त-द्रवस् तस्य प्रसरः पुरस् तस्मिन् सम्प्लुतः निमग्नः । प्रथमं प्रेम्णि निमग्नः, ततस् तद्-द्वितीय-कक्षायां स्नेहे निमग्न इत्य् अर्थः ॥५॥

———————————————————————————————————————

॥ ३.२.६ ॥

शनकैर् भगवल्-लोकान् नृ-लोकं पुनर् आगतः ।

विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवान् एव लोकः, तस्मात् । नृ-लोकं देहानुसन्धानम् । उत्स्मयन् यदु-कुल-संहारादि-भगवच्-चातुर्य-स्मरणेन विस्मयं प्राप्नुवन् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवल्-लोकात् नित्य-लीला-मय-द्वारकाख्यात् । नृ-लोकं बहिर्-दृश्यमानं विदुरादि-मयं मनुष्य-लोकम् आगतः अनुसन्दधानः । उत्स्मयन् तद्-अनुभवेनोच्चैर् आनन्दित इत्य् अर्थाह् ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च भगवल्-लोकात् स्व-प्रेमोद्रेकेण प्रापितान् नित्य-लीला-मय-द्वारकाख्यात् नृ-लोकं विदुर-प्रेम्णा आकृष्यमाणः सन्न् आगतःपुनर् इति द्वितीय-मूर्च्छा-भङ्गे सतीत्य् अर्थः । उत्स्मयन् भू-भार-हरणादि-चातुर्य-स्मरणेन विस्मयं प्राप्नुवन् । यद् वा, भो उद्धव ! विदुरं प्रत्युत्तरेण समाधाय पुनर् अत्रागच्छेति भगवद्-आश्वासनेनोत्कृष्टं स्मितं कुर्वन् ॥६॥

———————————————————————————————————————

॥ ३.२.७ ॥

उद्धव उवाच—

कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह ।

किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्ण-विरहेण सन्तप्यमानः प्रत्याह—श्री-कृष्ण एव द्यु-मणिः सूर्यस् तस्य निम्लोचेऽस्तमये सत्य-जगरेण काल-महा-सर्पेण गीर्णेषु निगिलितेषु त्वत्-पृष्टानां बन्धूनां किं नु कुशलं ब्रूयाम् ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोक-व्याकुलं विदुरम् आश्वासयितुं प्रथमम् एव सिद्धान्तं ब्रुवन् स्व-बहिर्-वृत्त्या तद्-विरह-सन्तापं लोकानां दुरवस्थानं चावेदयति । कृष्ण एव द्युमणिः सूर्यस् तस्य निम्लोचे अस्तमये सति अजगरेण महा-सर्प-रूप-शोकान्धकारेण गीर्णेषु निर्गिलितेषु गृहेषु नोऽस्माकं त्वत्-पृष्टानां बन्धूनां किं कुशलं ब्रूयां ? अत्र ज्योतिश्चक्रे स्थितस्यैव द्युमणेर् अश्वरथ-सारथ्यादि-परिकर-विशिष्टस्य यस्मिन् वर्षे अस्तमयो दृश्यते तद् अन्येषु वर्षेषु तदैवोदय-पूर्वाह्न-मध्याह्नादयो दृश्यन्ते यथा, तथैव गोकुल-मथुरा-द्वारका-स्थस्य स-परिकरस्य तत्-तल्-लीलामृत-मज्जित-जगज्-जनस्यैव कृष्णस्य यस्मिन् ब्रह्माण्डेऽन्तर्धानं दृश्यते, तदैवान्येषु ब्रह्माण्डेषु जन्मोत्सव-रासोत्सव-कंस-वध-रुक्मिण्य्-आदि-परिणयोत्सवाद्या लीला दृश्यन्ते । ज्योतिश्चक्रे सूर्यस्योदय-पूर्वाह्नाद्याः प्रतीयमानत्वाद् अवास्तवाः । कृष्णस्य तु जन्माद्यास् तत्र तत्र नित्यत्वाद् वास्तवा एवेति विशेषः । सर्वासां लीलानां नित्यत्वं प्रथम-स्कन्धे दर्शितम् । दशमे च पुनः स-प्रमाणकं दर्शयिष्यते च । यथा सूर्यास्तमय-सम्बन्धिनि वर्षे अन्धकारेण ग्रस्यमाने कमलानि म्लायन्ति चक्रवाका विलपन्ति, चौर-दस्यु-राक्षस-प्रेताद्या हृष्यन्ति, तथैव श्री-कृष्णान्तर्धान-सम्बन्धिनि ब्रह्माण्डे दुःखाजगर-ग्रस्ते साधवो म्लायन्ति, कृष्णानुरागिणो विलपन्ति, धर्म-सेतवो भिद्यन्ते, अधार्मिका भगवद्-बहिर्मुखा हृष्यन्तीत्य् उद्धवेन गीर्णेष्व् इत्य्-आदिना सूचितम् ॥७॥

———————————————————————————————————————

॥ ३.२.८ ॥

दुर्भगो बत लोकोऽयं यदवो नितराम् अपि ।

ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुशोचन्न् आह—दुर्भगो भाग्य-हीनः । ये सह संवसन्तोऽपि “श्री-हरिर् अयम्” इति न विदुः । यथा क्षीर-समुद्रे जातम् उडुपं चन्द्रं तदा तत्रत्या मीनाः केवलं कमनीयः कश्चिज् जल-चर इत्य् एवं विदुः, न त्व् अमृत-मय इति तद्वत् । यद् वा, जले प्रतिबिम्बितं चन्द्रं यथेति ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (कृष्ण-सन्दर्भः, १२८) : अत एवान्तर्हिते भगवति श्रीमद्-उद्धवस्य विदुर् इति वर्तमान-प्रत्यय-निर्देश-वाक्येन तदानीम् अन्तर्हितस्यापि तद्-वर्गस्य इव श्री-भगवतैव सह संवासो व्यज्यते, यथा—दुर्भग इति । अयं मम हृदये स्फुरन् द्वारका-वासी लोकःये संवसन्तः सह वसन्तोऽपि न विदुर् न जानन्ति । अहं तु संवास-भाग्य-हीनो न जानामीति नाश्चर्यम् इति भावः । अत्र तदानीं यदि संवासो नाभविष्यत् तदा “नावेदिषुर्” इत्य् एवावक्ष्यद् इति ज्ञेयम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दुर्भग इति । अयं मम हृदये स्फुरन् द्वारका-वासी लोकःदुर्भगो भाग्य-हीनः । ये संवसन्तः सह वसन्तोऽपि न विदुर् न जानन्ति, अहं तु संवास-भाग्य-हीनो न जानामीति नाश्चर्यम् इति भावः । अत्र तदानीं यदि संवासो नाभविष्यत्, तदा “नावेदिषुर्” इत्य् एवावक्ष्यद् इति ज्ञेयम् । किं च, हरिः सर्व-मनोहरत्वेन ज्ञात अपि, तं नाविदुः, स्वयं भगवत्त्वेन न जानन्ति । तत्र दृष्टान्तः—मीना इवोडुपम् इति । स्व-कला-वर्धनार्थं प्रभासे समुद्र-मग्नं तं मीना यथा केवलं मधुरोज्ज्वलत्वेनैव विदुः, न तु देवोत्तमत्वेन, तद्वद् इत्य् अर्थः ॥८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तद्-विना-भूतानाम् उत्तम-लोकानां दुरवस्थां दर्शयित्वा तद्-विरहोद्रेकेणाकस्मात् स्फुरितं तदीय-महैश्वर्य-ज्ञानं स्वस्मिन् नालक्ष्य तद्-विना-भूतानां तल्-लीला-परिकराणां तादृश-महैश्वर्य-स्फूर्तिम् आलक्ष्य प्रेम-विभ्रमस्य केनापि वैचित्र्येणैव तान् निन्दति—दुर्भग इति । अयं मम हृदये स्फुरन् द्वारका-वासी लोकः । दुर्भगो भाग्य-हीनः । तत्रापि यदवस् तद्-अतिसमीप-सम्बन्धिनो नितरां दुर्भगाःये संवसन्तः सह वसन्तोऽपि हरिं स्व-माधुर्येण तत्-तन्-मनो हरन्तं न विदुर् न जानन्ति। अहं तु संवास-भाग्य-हीनत्वात् ज्ञात्वाप्य् अतिदुर्भग इति भावः । यथा क्षीर-समुद्रे जातम् उडुपं तत्रस्थं चन्द्रं तत्रत्या मीनाः केवलम् अतिकमनीय आस्माकीनः कश्चिज् जलचर इत्य् एव विदुः, न तु देवता-रूपः सुधांशु-निशापतिर् इति, तद्वत् यदवः कृष्णस्य माधुर्यम् एव जानन्ति, न त्व् ऐश्वर्यम् इति दुःखेन तान् दुर्भगान् एव ब्रवीमीति भावः ।

वस्तुतस् तु दुर्ज्ञेयो भगो माहात्म्यं यस्य सः, ऐश्वर्य-ज्ञान-निष्ठेभ्योऽपि माधुर्य-ज्ञान-निष्ठानाम् उत्कर्षस्य दशमे व्याख्यास्यमानत्वात् । अत्र न विदुर् इति वर्तमान-निर्देशेन द्वारका-वासिनां यदूनां च भगवन्-नित्य-सङ्गित्व-ज्ञापनाय—भो विदुर ! त्वत्-पृष्ट-कुशला यादवादयः सम्प्रति श्री-भगवता सहैव सुखेनैव खेलन्ति । केवलं प्रष्टा त्वं पृष्टश् चाहम् इत्य् आवाम् एवावां शोचाव इति भावः । अत्र यदि तदानीं कृष्णेन सह तेषां संवासो नाभविष्यत्, तदा “नावेदिषुर् ये वसन्त” इत्य् एवावक्ष्यद् इति ज्ञेयम् ॥८॥

———————————————————————————————————————

॥ ३.२.९ ॥

इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः ।

सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भाग्य-हीनत्वाद् एव न विदुः, न तु ज्ञान-सामग्र्य्-अभावाद् इत्य् आह—इङ्गितं चित्त-स्थं जानन्तीति । तथा पुरु अतिशयेन प्रौढा निपुणाः । एकस्मिन्न् एव स्थाने आरमन्तीति तथा । एवं-भूता अपि भूतानाम् आवासम् ईश्वरं सन्तं सात्वताम् ऋषभं सात्वत-श्रेष्ठम् अमन्यन्त ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् अधुनापि न जानन्तीति कथं जानासि ? इत्य् आशङ्क्य तत्र हेतुं प्राचीन-निजानुभवम् आह—इङ्गितज्ञा इति । सात्वतां स्वेषाम् एव ऋषभं नित्य-कुल-पतित्वे वर्तमानं स्वयं भगवन्तम् अपि भ्ऊतावासं तद्-अंश-रूपं भूतान्तर्यामिणम् एव अमंसत इति, एको देव इत्य् आदौ सर्व-भूताधिवास[श्वे।उ। ६.११]1इत्य् अन्तर्यामीति श्रुतेः । उक्तं च वृष्णीनां पर-देवतेति[भा।पु। १०.४३.१७] इति ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु शुद्ध-प्रेमैक-माधुर्य-भुजो गोकुल-वासिन इव द्वारका-वासिनो न खल्व् ऐश्वर्य-ज्ञान-शून्या भवन्ति । तत् कथं न विदुर् इति ब्रवीषि ? तत्राह—इङ्गितज्ञा इति तदीय-चित्त-स्थम् अपि वस्तु जानन्ति, किं पुनः शरीर-स्थं सौन्दर्य-लावण्यादिकम् । तत्र हेतुः—पुरु**-**प्रौढा अतिसूक्ष्म-बुद्धयः । तद् अप्य् ऐश्वर्य-ज्ञानाभावम् आह—एकस्मिन्न् एवासन-शयनादौ आरमन्ते । सात्वतां स्वेषाम् एव ऋषभं नित्य-कुल-पतित्वेन वर्तमानं कृष्णं भूतावासं सर्व-भूतेष्व् आवसन्तम् अन्तर्यामिणम् एव **अमंसत,**एको देव इत्य्-आदौ सर्व-भूताधिवास[श्वे।उ। ६.११] इत्य् अन्तर्यामि-श्रुतेः । न तु स्वयं भगवत्त्वेन साक्षान्-नारायणस्याप्य् अंशिनम् इत्य् अतस् “ते हरिं न विदुर्” इत्य् अहम् एवोचम् । इह जगति समुचितं जानन्तोऽजानन्तश् च न निन्द्यन्ते । निन्द्यन्ते तु तन्-मध्य-वर्तिनोऽर्धम् अर्धं जानन्तु इति भावः ॥९॥

———————————————————————————————————————

॥ ३.२.१० ॥

देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः ।

भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ये यादवा देवस्य मायया स्पृष्टा व्याप्ता यादवोऽयम् अस्मद्-बन्धुर् इति वदन्ति, ये च शिशुपालादयोऽसद् एवान्यद् वैरम् आश्रिता निन्दन्ति, तेषां वाक्यैर् आत्मनि हराव् उप्तात्मनो निक्षिप्त-चित्तस्य मादृशस्य बुद्धिर् न भ्राम्यते मोहं न प्राप्यते । अन्ये तु मूढा एवेत्य् अर्थः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देवस्येति । ये च यादवेभ्योऽन्यो विराड् अविदुषां [भा।पु। १०.४३.१७] इत्य्-आद्य्-उक्त-प्रकारेण परम-विद्वांषस् ते त्व् अन्यद् असत् परमोत्कृष्ट-भौतिक-देहोऽसाव् इति मन्यन्त2 इत्य् अर्थः ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं च मर्त्य-लोक-वर्तिनः साधवस् तद्-विरह-दुःखिनः, ये च यादवाद्यास् तन्-नित्य-सङ्गिनः संयोग-सुखिनः, ते द्वय एव भक्तिमत्त्वात् धन्या एव । अन्ये त्व् अभक्ता नारकिन एवेत्य् आह—देवस्य मायया ये स्पृष्टा विद्वन्-मानिनस् तत्रापि ये च अन्यत्-पिष्ट-सिद्धान्ताद् अपरम् अतिदुष्ट-मतम् आसुरम् आश्रितास् तेषां वाक्यैः कृष्णः शरीरं परित्यज्य वैकुण्ठं गत इति तथा कृष्णो धृतराष्ट्र-जरासन्धादि-महा-महाराज-द्रोह-धर्म-जनित्वेन ब्रह्म-शापेन सकुल एवं नाशं प्राप्त इति निन्दाभाषितैर् हरौ आत्मनि परमात्मनि उप्तात्मनो निक्षिप्त-चित्तस्य भक्त-जनस्य धीर् न भ्राम्यति, किन्तु तन्-माधुर्य एव निमज्जति, येषां भ्राम्यति तैर् अप्य् अलं नारकिभिर् इति भावः ॥१०॥

———————————————————————————————————————

॥ ३.२.११ ॥

प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् ।

आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कोऽसौ हरिः ? इत्य् अपेक्षायाम् आह—प्रदर्श्येति । न तप्तं तपो यैर् अतोऽवितृप्ता दृशो येषां तेषां स्व-बिम्बं श्री मूर्तिम् एतावन्तं कालं दर्शयित्वा योऽन्तर्हितवान् लोकस्य लोचनम् आदायाच्छिद्य, तादृशस्यान्यस्य विलोकनीयस्याभावात् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा तथापि सर्वाकर्षणम् एव तद्-रूपम् इत्य् आह प्रदर्श्येति । चक्षुषश् चक्षुर् [केन।उ। १.२] इति श्रुत्य्-उक्त-दिशा । लोक-लोचन-रूपं स्व-बिम्बं स्व-मूर्तिम् आदाय गृहीत्वा । तथोक्तं मौसले पर्वणि—

कृत्वा भारावतरणं पृथिव्याः पृथु-लोचनः ।

मोचयित्वा तनुं कृष्णः प्राप्तः स्व-स्थानम् उत्तमम् ॥3[म। १६.९.२९] इति ।


अत्र “मोचयित्वा” भारावतरणात् त्याजयित्वा, न तु मुक्त्वेत्य् अर्थः ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् भक्तानां मतम् एव वास्तवं भवेत् । तद् एव किं ? इत्य् अपेक्षायाम् आह—प्रदर्श्येति । अवितृप्त-दृशां नृणाम् इत्य् अनादरे षष्ठी । यस् तु स्व-बिम्बं स्वीयं श्री-विग्रहं नॄन् प्रदर्श्य तन्-माधुर्यम् आस्वादयितुम् आरब्धवत एव तान् अवितृप्त-दृशोऽनादृत्य स्व-बिम्बं पुनर् आदाय तद्-दृग्भ्य आच्छिद्य नीत्वा अन्तरधात् शीघ्रं तिरोबभूव । अत्र यत्-पदस्योत्तर-वाक्यार्थ-गतत्वेन न तत्-पदापेक्षा । “साधु चन्द्रमसि पुष्करैः कृतं मीलितं यद् अभिरामताधिक” इतिवत् । तिरोधानाकरणे अतिलोभिनस् ते पुनर् अपि निर्भरम् आस्वादयिष्यन्तीति बुद्ध्यैवेत्य् उत्प्रेक्षा ध्वनिता ।

ननु तर्हि दत्तापहारी सोऽभूत्, तत्राह—लोकानां लोचनानि स्थितानि यत्रेति लोचनान्य् अपहर्तुम् एव नृभ्यः स्व-बिम्बं दत्तं, न तु तत् तस्य परमार्थ-दानं, किन्तु चौरस्येवेति पुनर् अप्य् उत्प्रेक्षा । ततश् च कृष्णेन पृथिव्याम् अवतीर्य सर्व-चक्षुर् हरणाल् लोका अन्धीकृता एव, न तु पालिता इति व्याज-स्तुतिः ।

ननु स्व-बिम्ब-माधुर्यस्यानन्त्यात् चिरायापि पायने तस्य का हानिर् अभविष्यत् ? तत्र तस्य कृपा-सिन्धोः को दोषः ? किन्तु लोकानाम् एव भाग्याभाव इत्य् आह—अतप्त-तपसाम् इति लोक-रीत्यैवोक्तिः । वस्तुतस् तु अतप्त-तपसां किन्तु प्राप्त-तत्-कृपा-भराणाम् इत्य् अर्थः । न ह्य् एतादृशम् अनुरागित्वापादनम् एव मुख्य-प्रयोजनं च ध्वनितं, अस्मिन्न् अभ्युदिते जातु न तृपित्र् दर्शनादिष्व् इत्य् उज्ज्वल-नीलमण्य्-उक्तेर् [उ।नी। १४.७९] अतृप्त-नेत्रत्वं स्नेह-लक्षणं तृष्णाधिक्याद् अनुराग-लक्षणं वा ज्ञेयम् । तथा स्व-बिम्बम् आदायैव अन्तरधात् ।

ननु परित्यज्य इति शरीर-परित्याग-वादिनः पराहताः । तथा यन् मर्त्य-लीलौपयिकं [भा।पु। ३.२.१२] इति, यद् धर्म-सूनोर् [भा।पु। ३.२.१३] इत्य् उत्तर-श्लोकेषु स्व-बिम्बस्यैव विशेषण-दानान् मानुषं बिम्बं परिहाय दिव्यं स्व-बिम्बम् आदायागाद् इति विरुद्धं व्याचक्षाणपि पराहताः । तथा प्रदर्श्येति अन्तरधाद् इति, न तु पश्यति स्मेति प्रदर्शने अन्तर्धाने च तस्येच्छैव कारणम् इति कर्माधीनत्व-विवादिनोऽपि पराहताः । तस्माद् देवस्य मायया स्पृष्टा [भा।पु। ३.२.१०] इति पूर्व-श्लोकोक्तानाम् असतां मतं दूषयितुं प्रवृत्तस्योद्धवस्यैवेयं वाणी प्रमाणीकर्तव्या, न त्व् एतत्-प्रतिकूलानां वाक्यानां कोटीर् अपीत्य् एतद्-वाक्यं कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति वाक्यवद् एव मन्तव्यम् इति शास्त्रस्यास्य स्व-रसो रसनीयः ॥११॥

———————————————————————————————————————

॥ ३.२.१२ ॥

यन् मर्त्य-लीलौपयिकं स्व-योग-

माया-बलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः

परं पदं भूषण-भूषणाङ्गम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव बिम्बं वर्णयति त्रिभिः । यन् मर्त्य-लीलास्व् औपयिकं योग्यम् । स्वस्यापि विस्मय-जनकम् । यतः सौभग-र्द्धेः सौभाग्यातिशयस्य परं पदं परा काष्ठा । भूषणानां भूषणान्य् अङ्गानि यस्मिन् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र हराव् उप्तात्मनां निश्चयम् आह—यन् मर्त्येति । स्व-योगमाया-बलं स्व-चिच्-छक्तेर् वीर्यम् । एतादृश-सौभाग्यस्यापि प्रकाशिकेयं भवतीत्य् एवं-विधं दर्शयता आविष्कृतम् । सकल-स्व-वैभव-विद्वद्-गण-विस्मापनाय इति भावः । न केवलम् एतावत् तस्यैव रूपान्तरे तादृशत्वाननुभवात् । तत्रापि प्रतिक्षणम् अप्य् अपूर्व-प्रकाशात् स्वस्यापि विस्मापनम् । यतः सौभग-र्द्धेः परं पदं परा प्रतिष्ठा ।

ननु तस्य भूषणं त्व् अस्ति सौभग-हेतुः ? इत्य् आह—भूषणेति । कीदृशं ? मर्त्य-लीलौपायिकं नराकृतीत्य् अर्थः । तस्मात् सुतरां युक्तं उक्तं श्री-महा-काल-पुराधिपेनापि—द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीताः [भा।पु। १०.८९.५८] इत्य्-आदि । श्री-हरि-वंशे श्री-कृष्ण-वचनेन च—मद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना [ह।वं। २.११४.८] इति ॥१२॥ [प्रीति-सन्दर्भः, ८०]4

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अन्तर्धाय स्व-बिम्बं वैकुण्ठम् एव किं नीतवांस् तत्राह यद् बिम्बं मर्त्य-लीलासु औपयिकमुपयुक्तं कथं वैकुण्ठं यात्व् इति भावः । तेन द्वारकायाम् एव सम्प्रत्य् अपि यथा-पूर्वम् एव तद् वर्तत एव तद्-इच्छाभावाद् अत्रत्या लोकास् तन् न पश्यन्तीति मात्रं विशेष इति भावः । न च मर्त्य-लीलौपयिकत्वेन तस्यापकर्षो मन्तव्यः, प्रत्युत वैकुण्ठ-लीला-स्वरूपेभ्योऽपि परमोत्कर्ष एवेत्य् आह स्व-योग-माया स्वरूप-भूता चिच्-छक्तिस् तस्या बलं सम्पूर्णम् एव सामर्थ्यं दर्शयता दर्शयितुम् इति न च किम् अप्य् ऐश्वर्यं माधुर्यं वा निह्नुत्य स्थापितम्, अपि तु स्व-सर्वस्वम् एवात्र बिम्बे निक्षिप्तम् । नापि वैकुण्ठेऽप्य् एवं बलं दर्शितम् इति भावः । गृहीतम् इति स्थिति-सर्ग-निरोधेषु गृहीता मायया विभोर् इत्य् अत्र मायया गुणा गृहीता इतिवद् अभेदेऽपि भेदोक्तिः । बुद्धिर् हि भगवती अभेदेऽपि भेदं जनयतीति न्यायात् । गृहीतम् आविष्कृतम् इति सन्दर्भः ।

यद् वा, यद् बिम्बं दर्शयता दर्शयितुं स्व-योग-माया-बलं गृहीतं राज-महिषी-विवाहादिषु तथा प्रसिद्धेर् बलम् एव द्योतयति स्वस्य च वैकुण्ठ-स्थस्य श्री-नारायण-स्वरूपस्यापि विस्मापनम् । अहो रूपम् अहो साद्गुण्यम् इति चमत्कार-प्रापकम् अन्यावतार-रूप-गुणादि-दर्शिनां वैकुण्ठीय-पार्षदादीनां का वार्तेति भावः । अत एव सौभग-र्द्धेः सौभाग्य-सम्पत्तेः परं पदं परावधि-स्थानम् । अतो वैकुण्ठ-नाथस्यापि तद्-दर्शनेच्छोद्भवति द्विजात्मजा मे युवयोर् दिदृक्षुणा [भा।पु। १०.८९.५८] इत्य् आदेः । भूषणानाम् अपि भूषणान्य् अङ्गानि यस्येति परम-सौन्दर्यं उक्तम् ॥१२॥

———————————————————————————————————————

॥ ३.२.१३ ॥

यद् धर्म-सूनोर् बत राजसूये

निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः ।

कार्त्स्न्येन चाद्येह गतं विधातुर्

अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥

मध्वः: त्रिलोकस्याज्ञानं व्रत ।

आनन्द-रूपं दृष्ट्वापि लोक-मौक्तिकम् एव तु ।

मन्यते विष्णु-रूपं च अहो भ्रान्तिर् बहु-स्थिता ॥ इति स्कान्दे ॥१३॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : दृशां स्वस्त्य् अयनं परमानन्द-करम् । त्रिभुवन-स्थो लोकः प्राणि-मात्रम् । अद्येदानीम् इह बिम्बे । अर्वाक्-सृताव् अर्वाचीन-संसार-निर्माणे मनुष्य-निर्माणे वा यत् कौशलं नैपुणं तत् कार्त्स्न्येन गतं उपक्षीणं नातः परं तस्य कौशलम् अस्तीत्य् एवं मेने । तन् मूर्तेर् विधातुः सृज्यत्वाभावेऽपि लोक-दृष्टिर् इयं उक्ता ।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : देव-मायास्पृष्टान् आह—यद् धर्मेति ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य सौभग-र्द्धिमत्त्वं त्वयापि साक्षात्कृतम् इति स्मारयति यद्-धर्मेति । त्रिलोकः त्रिभुवन-स्थो लोको ब्रह्मेन्द्रादिर् अपि इति अमन्यत । किं ? अद्य इह जगति विधातुर् अर्वाक्-सृतौ अर्वाचीन-विचित्र-संसार-निर्माणे यत् कौशलं तत् सर्वं गतं उपक्षीणम् एतद् अङ्ग-कान्तौ दृष्टायां विधातृ-सृष्टानां नीलोत्पल-दलिताञ्जनेन्द्रनील-मणि-नीरदानां जुगुप्सा, एतन्-मुखे दृष्टे चन्द्र-पद्मयोर् अपि धिक्-कार इत्य् एवम् ॥१३॥

———————————————————————————————————————

॥ ३.२.१४ ॥

यस्यानुराग-प्लुत-हास-रास-

लीलावलोक-प्रतिलब्ध-मानाः ।

व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त-

धियोऽवतस्थुः किल कृत्य-शेषाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुरागेण प्लुतो व्याप्तो हासो रासो विनोदश् च लीलावलोकश् च तैः स्व-कृत-हासाद्य्-अनन्तरं प्रतिलब्धो मानो याभिस् ताः । दृग्भिः सह अनुप्रवृत्ता गच्छन्तं तम् एवानुगता धियो यासां ताः । कृत्ये शेषो यासां ताः असमापित-कृत्या एव तस्थुः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ प्रेम-विलासयोः परमोत्कर्षम् आह—यस्येति एषु वाक्येषु यच्-छब्दानां पूर्व-वाक्यस्यान्ते पठित्वान् न पूर्वान्वयापेक्षा ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चैवम् अनुरक्तेभ्यस् त्रिलोक-स्थेभ्यो ब्रह्म-रुद्रादिभ्योऽपि व्रज-स्त्रीणाम् अनुरागाधिक्यम्, यतस् तैस् तथा सम्मानितेन कृष्णेनापि ता एव यथा सम्मानिता न तु तथा तेऽपीत्य् आह अनुरागेण प्लुतैर् व्याप्तैर् हासैः । रासो रस-समूहो यत्र तथा-भूतो यो लीलाया अवलोकस् तेन स्व-कृतेन तन्-मान-दानानन्तरं प्रतिलब्धो मान आदरो याभिस् तास् तदैव दृग्भिः सह अनुप्रवृत्त्या गच्छन्तं तम् एवानुगता धियोऽपि यासां ताः । अवतस्थुस् तत्-क्षण एव जाड्योदयात् किम् अपि चेष्टितुं न प्रबभूवुर् इत्य् अर्थः । ततश् च कृत्येषु मार्जन-लेपन-दधि-मथन-परिवेषणादिषु शेषो यासां ताः । तत्-तत्-कृत्य-मध्य एवाकस्मिक-तद्-दर्शन-प्राप्तेर् असमापित-कृत्या एव बभूवुर् इत्य् अर्थः । तेन तस्य स्व-पर्यन्त-सर्व-जगत्सु विस्मापनता व्रज-स्त्रीषु पुनर्-मोहनता च प्रेमाधिक्येनैवाभूद् इति भावः । तद् एवं तद्-बिम्बस्य मर्त्य-लीलौपयिकत्व-प्रपञ्चनेन मर्त्य-लोक-स्थ-गोकुल-मथुरा-द्वारकास्व् एव नित्य-स्थितत्वं द्युमणि-दृष्टान्तेन दर्शनादर्शन-मात्र-विशेषतं च ध्वनित्वम् ॥१४॥

———————————————————————————————————————

॥ ३.२.१५ ॥

स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर्

अभ्यर्द्यमानेष्व् अनुकम्पितात्मा ।

परावरेशो महद्-अंश-युक्तो

ह्य् अजोऽपि जातो भगवान् यथाग्निः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूत-बिम्ब-दर्शने कारणम् आह—स्वीयान्य् एव शान्तान्य् अशान्तानि च रूपाणि। तत्र शान्त-रूपेषु इतरैः पीड्यमानेष्व् अनुकम्पितः कृतानुकम्प आत्मा यस्य । अजोऽपि जात आविर्भूतः । महा-भूत-रूपेण नित्य-सिद्ध एवाग्निर् यथा काष्ठेष्व् आविर्भवति, तद्वत् । अजस्य जन्मनि हेतुः—महान् महत्-तत्त्वम् अंशः कार्य-लेशो यस्याव्यक्तस्य तन् महद्-अंशं, तद्-युक्त इति ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुकम्पाम् आह—स्व-शान्तेति । इतरैर् अशान्तैः स्वरूपैः तत्-स्वभावज-रूपैर् इत्य् अर्थाह् । तच् च जन्मनि तत्-तद्-अंशान् आदायैवेत्य् आह महद्-अंश-युक्तः महतः स्वस्यैवांशैर् युक्तः महान्तं विभुम् आत्मानं [क।उ। २.१.४] इत्य्-आदि-श्रुतेः । महद्वच् च [वे।सू। १.४.८] एति न्याय-प्रसिद्धेश् च । महान्तो ये पुरुषादयोऽंशास् तैर् युक्त इति वा लोक-नाथं महद्-भूतम् इतिवद् आत्म-व्यभिचारः । महद्भिर् वंशैश् च युक्त इति वा ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु वैकुण्ठान् नारायण एवागत्य वसुदेव-गृहे अवततारेति क्वचित् पुराण-पुरुषः सित-कृष्ण-केश एवेति, क्वचित् क्षीरोद-नाथ इति, क्वचिन् नर-नारायणाव् इति, क्वचिद् उपेन्द्र इति त्वन्-मुखात् तु द्वारकादि-धाम-स्थो मर्त्य-लीलौपायिकः सर्वोत्कृष्ट इति श्रूयते । अत्र को निश्चयः ? इत्य् अत आह—स्व-शान्तेति स्वीया ये शान्त-रूपा भक्तास् तेषु इतरैः स्वरूपैर् घोरैर् मूढैश् च पीड्यमानेषु सत्सु अनुकम्पितो जातानुकम्प आत्मा मनो यस्य सः । प्रकृतेः परे ये नारायणादि-स्वरूपाः, अवरे ब्रह्मादयश् च तेषाम् ईशः स्वयं भगवान् श्री-कृष्णः महद्-अंश-युक्तः महान् महत्-स्रष्टा पुरुषः, महान्तं विभुम् आत्मानं [क।उ। २.१.४] इत्य्-आदि-श्रुतेः । अंशा मत्स्य-कूर्म-नृहरि-नरनारायण-वामनादयस् तैर् युक्तः सन्, अजोऽपि आत्यन्तिक-कारणत्वाद् अजन्योऽपि प्राकृत-जन्म-रहितोऽपि वा जात आविर्भूतः । महा-भूत-रूपेण नित्य-सिद्ध एवाग्निर् यथा मणि-शिलासु घर्षण-वशाद् आविर्भवति, तद्वत्। तेन मथुरादि-स्वीय-नित्य-धामस्थ एव भगवान् मथुरा-स्थ-वसुदेवोग्रसेनादिषु स्व-भक्तेषु लब्धातिकष्टेषु कृपा-शक्ति-घर्षण-वशेनाविर्भूतो दृश्यो बभूवेत्य् अग्नि-दृष्टान्तः । तथा मथुरोदय-शैले देवक्यां प्राच्यां दिशि उदितः सन् दुष्ट-तमांसि संहृत्य शिष्ट-कमलान्य् अनुरागि-चक्रवाकांश् च तैर् अभ्यर्दितानि सन्तोष्य धर्म-मर्यादाः प्रवर्त्य प्रभासास्त-शैले अस्तं गतः इति द्युमणि-दृष्टान्तश् च परस्परानुकूलः स्व-धाम-स्थं सन्तम् एवाविर्भूतः, तं स्पष्टम् एवाभिदधाति, न तु कुतश्चिद् वैकुण्ठ-नाथो वैकुण्ठात् क्षीरोद-नाथ क्षीरोदात् नर-नारायणाव् उपेन्द्रादयश् च स्व-स्व-धामत आगत्यावततारेति यथा-स्थानं प्रसिद्धिर् अपि महद्-अंश-युक्त इति विशेषणाद् आविर्भाव-समये तैर् वैकुण्ठ-नाथादिभिर् आगत्य परावरेशे कृष्णे संमिलनात् सु-सङ्गतैर् एवेति सर्वं मुनि-वाक्यं च प्रमाणम् ॥१५॥

———————————————————————————————————————

॥ ३.२.१६ ॥

मां खेदयत्य् एतद् अजस्य जन्म-

विडम्बनं यद् वसुदेव-गेहे ।

व्रजे च वासोऽरि-भयाद् इव स्वयं

पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कुतोऽसौ परावराणाम् ईशः पारतन्त्र्य-प्रतीतेः ? तत्राह द्वाभ्याम् । माम् अप्य् एतद् दुर्वितर्क्यं दुर्घटं च खेदयति, तद् एवाह—वसुदेव-गेहे बन्धनागारे यज् जन्मनो विडम्बनम् अनुकरणम्, न तु नृसिंहवद् अकस्माद् आविर्भावः । कंस-भयाद् इव निलीय व्रजे वासश् च । कालयवनादि-रिपु-भयाद् इव पुरान् मथुराया व्यवात्सीद् अपलायत ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो तादृश-महिम्नोऽपि तस्य परम-सौशील्येन स्वजन-सुख-दात्री लोकवल्-लीलेयम् ईक्ष्यतां यत एवास्माकं तद्-वियोग-खेदोऽतिशेते इत्य् आह माम् इति द्वयेन ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सर्व एव सिद्धान्तस् तुभ्यं यथात्म-बोधम् आविष्कृतः किन्तु यन्-मादृशैर् अपि दुर्ज्ञेयं विद्वद्भ्यः पृष्ट्वाप्य् अप्राप्त-तत्त्वं तत्र खेद एव मम पूर्वम् आसीद् इत्य् आह—अजस्येति । एकस्यैवाजत्वं जन्मवत्त्वं च कथं सम्भवेद् इति । किं चात्र जन्मवत्त्वस्यान्करण-मात्रत्वेनावास्तवत्त्वे खेदो न स्याद् इत्य् उभयोर् एव वास्तवत्वम् उद्धवस्य विवक्षितं ज्ञेयम् । तथा वसुदेव-गेहे कंस-कारागारे यज् जन्म एतन् मां खेदयति पूर्वम् अखेदयत्, वर्तमान-सामीप्ये वर्तमानवद् वेति लट् । यतो विडम्बनम् अपकर्ष एव तस्य जन्म-लीला हि माता-पित्रोर् बन्धूनाम् अन्येषां च भक्तानां परमोत्सव-मयी भवितुम् अर्हति परम-स्वतन्त्रेण तेन तथा कथं न कृतेति, तथा व्रजे च वासस् तस्य स्वाभाविकः परम-सुखमय एव, तत्र अरि-भयस्य कारणत्वं कथं ख्यापितं ? इव-कारेण यद्यपि कंसाद् व्रजे स्थितो न बिभेति, तद् अपि तथा पुरान् मथुरातो व्यवात्सीत् । अपरिमित-बलोऽपि कालयवनादि-रिपु-भयात् अपलायत, न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् इति श्री-भीष्मेणाप्य् उक्तम्, किन्तु रहसि मत्-पृष्टेन श्री-भगवतैव प्रबोधितस्य मम सम्प्रत्य् एव खेदोऽपगत इति भावः ॥१६॥

———————————————————————————————————————

॥ ३.२.१७ ॥

दुनोति चेतः स्मरतो ममैतद्

यद् आह पादाव् अभिवन्द्य पित्रोः ।

ताताम्ब कंसाद् उरु-शङ्कितानां

प्रसीदतं नोऽकृत-निष्कृतीनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतच् च हरेश् चरितं स्मरतो मम चेतः कर्म-भूतं दुनोति व्यथयति । तद् एव दर्शयति, यदाहेति । हे तात, हे अम्ब, युवां प्रसीदतं प्रसादं कुरुतम् । न कृता निष्कृतिः शुश्रूषणं यैस् तेषाम् । नोऽस्माकम् इति बहु-वचनं तु रामाद्य्-अभिप्रायम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् एवैतच् चरितं स्मरतो मम चेतः कर्म-भूतं दुनोति स्मेत्य् अर्थः । यद् आहेति माता-पितरौ स्वापराधं क्षमापयति स्म—हे तात, हे अम्ब, युवां नोऽस्मान् प्रसीदतं द्वितीयार्थे षष्ठ्यः । अत्र कंसाद् उरु-शङ्कितानाम् इत्य् अस्य वाक्यस्य सत्यत्वे ईश्वरत्व-व्याभिचारः मिथ्यात्वे ईश्वर-वाक् कथं मिथ्येति पूर्ववत् खेदः । अति-सर्वेश्वरस्याप्य् एवं लोक-रीत्या विनयोऽतिमाधुर्य-पोषकः कथं मया विस्मर्तव्य इति मच्-चेतसि तत्-तच्-चरितं शल्याम् इवाभूद् इत्य् उद्धव-विलापः ॥१७॥

———————————————————————————————————————

॥ ३.२.१८ ॥

को वा अमुष्याङ्घ्रि-सरोज-रेणुं

विस्मर्तुम् ईशीत पुमान् विजिघ्रन् ।

यो विस्फुरद्-भ्रू-विटपेन भूमेर्

भारं कृतान्तेन तिरश्चकार ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्ह्य् अनीश्वर एव किं न स्यात्, तव तु श्रद्धा-मात्रम् एतत् तत्राह त्रिभिः—को वा अङ्घ्रि-सरोजयोर् यो रेणुस् तम् अपि विजिघ्रन् सेवमानः पुमान् विस्मर्तुम् ईशीत शक्नुयात् । विस्फुरन् भ्रू-विटपो भ्रू-लता स एव कृतान्तस् तेन ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च माधुर्यं तस्य परम-प्रभावत्वेऽपि सर्वेषाम् अप्य् आकर्षकम् इत्य् आह—को वेति । माधुर्ये कैमुत्यम् अङ्घ्रीति । तद्-रेणुम् अपीत्य् अर्थः । कीदृशस्यापि तत्राह—य इति । विटपः पल्लवे शिङ्गे विस्तारे स्तम्ब-शाखयोर् इति विश्व-प्रकाशः ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्ह्य् अनीश्वर एव किं न स्यात् ? तव तु श्रद्धा-मात्रम् एव तत्राह त्रिभिः । विस्फुरन् भ्रू-विटपो भ्रू-पल्लवः स एव कृतान्तस् तेन । विटपः पल्लवे शिङ्गे विस्तारे स्तम्ब-शाखयोर् इति विश्वः ॥१८॥

———————————————————————————————————————

॥ ३.२.१९ ॥

दृष्टा भवद्भिर् ननु राजसूये

चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्यग्

योगेन कस् तद्-विरहं सहेत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च तस्येश्वरत्वं साधनीयम्, भवद्भिर् अपि दृष्टत्वाद् इत्य् आह—दृष्टेति । यां सिद्धिं सम्यग् योगेन प्राप्तुम् इच्छन्ति ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कृपाया अत्यमर्यादत्वम् आह—दृष्टेति ॥१९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य परमेश्वरत्वानुभावः कैर् वा न साक्षात् कृत इत्य् आह—दृष्टा इति । द्विषत इति कृपाया अप्य् अपारत्वं यां यस्यै ॥१९॥

———————————————————————————————————————

॥ ३.२.२० ॥

तथैव चान्ये नर-लोक-वीरा

य आहवे कृष्ण-मुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं

पार्थास्त्र-पूतः पदम् आपुर् अस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आहवे युद्धे पार्थस्यास्त्रैः पूताः निष्पापाः सन्तः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवेति पार्थास्त्र-पूतत्वम् अत्र तन्-मुखारविन्द-दर्शन-याथार्थ्य-हेतुः । तद् एतत् तु स्थापितं यथा रहद् भ्रुवोर् भारम् इत्य् आदौ ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वेषवत्सु मोक्ष-दायिनीं कृपाम् उक्त्वा तद् अन्येषु तटस्थेष्व् अपि प्रेम-प्रदायिनीं कृपाम् आह—तथैवेति नेत्रैः पिबन्त इति त एव धन्या वयम् अधन्याः तन्-माधुर्य-पान-तत्-पद-प्राप्तिभ्यां वञ्चिता इति विलाप-ध्वनिः ॥२०॥

———————————————————————————————————————

॥ ३.२.२१ ॥

स्वयं त्व् असाम्यातिशयस् त्र्यधीशः

स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।

बलिं हरद्भिश् चिर-लोक-पालैः

किरीट-कोट्य्-एडित-पाद-पीठः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं परम् ऐश्वर्ये सत्य् अपि यद् उग्रसेनानुवर्तित्वं तत् पुनर् अस्मान् अत्यन्तं व्यथयतीत्य् आह—स्वयं तु य एवं-भूतस् "तस्य तत् कैङ्कर्यं नोऽस्मान् विग्लापयति" इत्य् उत्तरेणान्वयः । न साम्यातिशयौ यस्य, यम् अपेक्ष्यान्यस्य साम्यमतिशयश् च नास्तीत्य् अर्थः । तत्र हेतवः—त्र्य्-अधीशस् त्रयाणां पुरुषाणां लोकानां गुणानां वा ईशः । स्वाराज्य-लक्ष्म्या परमानन्द-स्वरूप-संपत्त्यैव प्राप्त-समस्त-भोगः । बलिं करम् अर्हणं वा हरद्भिः समर्पयद्भिश् चिर-कालीनैर् लोक-पालैः किरीटाग्रेणेडितं स्तुतं पाद-पीठं यस्य । प्रण-मतां किरीट-सङ्घट्टन-ध्वनिर् एव स्तुतित्वेनोत्प्रेक्ष्यते ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (कृष्ण-सन्दर्भः, ७६) : न साम्यातिशयौ यस्य, यम् अपेक्ष्यान्यस्य साम्यम् अतिशयश् च नास्तीत्य् अर्थः । तत्र हेतवः— त्र्य्-अधीशस् त्रिषु सङ्कर्षण-प्रद्युम्नानिरुद्धेष्व् अप्य् अधीशः, सर्वांशित्वात् । अत एव स्वाराज्य-लक्ष्म्या सर्वाधिक-परमानन्द-स्वरूप-सम्पत्त्यैव प्राप्त-समस्त-भोगःबलिं तद्-इच्छानुसरण-रूपम् अर्हणं हरद्भिः समर्पयद्भिश् चिरैर् लोक-पालैर् भगवद्-दृष्ट्य्-अपेक्षया ब्रह्मादयस् तावद् अचिर-लोक-पालाः अनित्यत्वात् । ततश् च चिर-कालीनैर् लोक-पालैर् अनन्त-ब्रह्माण्डान्तर्यामि-पुरुषैः किरीट-कोटि-द्वारा ईडितं स्तुतं पाद-पीठं यस्य सः । अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना परम-श्रेष्ठ इत्य् अर्थः । समस्त-पाद-पाठेऽपि स एवार्थः । श्री-कृष्ण इति कृष्णस् तु भगवान् स्वयम् इतिवत् स्वयं भगवत्ताम् एव व्यनक्ति ॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनर् अलौकिक-लीलायां परम-विनय-गुणत्वम् आह—स्वयं त्व् इत्य्-आदि युग्मकेन । अधीशः त्रयाणां महत्-स्रष्टॄणां ब्रह्माण्ड-स्थित-सर्व-भूत-स्थानाम् ईशः । विष्णोस् तु त्रीणि रूपाणि इत्य्-आदि । चिर-लोक-पालैः अप्राकृत-लोक-पालैः । मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् इति ब्रह्म-संहितातः ।*।*२१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, ब्रह्मादिष्व् आदि-पुरुषादिष्व् अपि तस्य प्रभुत्वं वा क्व उग्रसेने कैङ्कर्यं वा क्वेति भक्त-वश्यत्व-माधुर्यं मया कथं विस्मर्तुं शक्यम् इति विलपति द्वाभ्याम् । न विद्यते साम्यं, किं उतातिशयो यस्य सः । यम् अपेक्ष्यान्यस्य साम्यम् एव नास्ति, किं उतातिशय इत्य् अर्थः । तत्र हेतवः—त्रयाणां महत्-स्रष्ट्र्-आदि-पुरुषाणां तिसृणां चिच्-छक्ति-जीव-शक्ति-माया-शक्तीनां चेशः । स्वैर् अंशैर् भक्तैः शक्तिभिर् लीलाभिर् ऐश्वर्यैर् माधुर्यैश् च राजत इति तस्य भावः स्वाराज्यं, तद् एव लक्ष्मीः, तया हेतुना आप्ताः समस्ताः कामा यं सः । चिर-कालीनैर् लोक-पालैर् अनन्त-कोटि-ब्रह्माण्डेषु सृजद्भिर् ब्रह्मभिः पालयद्भिर् विष्णुभिः संहरद्भिः रुद्रैर् धारयद्भिः शेषैः । किरीटाग्रेण ईडितं स्तुतं पाद-पीठं यस्य सः । प्रणमतां किरीट-सङ्घट्ट-ध्वनिर् एव स्तुतित्वेनोत्प्रेक्ष्यते ॥२१॥

———————————————————————————————————————

॥ ३.२.२२ ॥

तत् तस्य कैङ्कर्यम् अलं भृतान् नो

विग्लापयत्य् अङ्ग यद् उग्रसेनम् ।

तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये

न्यबोधयद् देव निधारयेति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग विदुर ! भृतान् भृत्यान् । उग्रसेने यत् किङ्करत्वं तद् एवाह—परमेष्ठि-धिष्ण्ये राजासने निषण्णम् आसीनं स्वयं तिष्ठन् हे देव, निधारयावधारयेति न्यबोधयद् विज्ञापितवान् ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्ग हे विदुर ! भृतान् भृत्यान् । उग्रसेने यत् किङ्करत्वं तद् एवाह—परमेष्ठि-धिष्ण्ये महाराज-सिंहासने निषण्णम् आसीनं स्वयं तत्-तले तिष्ठन् कस्यापि सहायं कुर्वन्—हे देव महाराजाधिराज ! अस्य त्वदीय-मण्डलेश्वरस्य कृत्यं निर्धारयेति न्यबोधयद् अवधापयामास ॥२२॥

———————————————————————————————————————

॥ ३.२.२३ ॥

अहो बकी यं स्तन-काल-कूटं

जिघांसयापाययद् अप्य् असाध्वी ।

लेभे गतिं धात्र्य्-उचितां ततोऽन्यं

कं वा दयालुं शरणं व्रजेम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अनुवृत्तिः कृपयैवेति सूचयन्न् अपकारिष्व् अपि तस्य कृपालुतां दर्शयन्न् आह—अहो आश्चर्यं कृपालुतायाः । हन्तुम् इच्छयापि स्तनयोः संभृतं काल-कूटं विषं यम् अपाययत् । बकी पूतना असाध्वी दुष्टापि धात्र्या यशोदाया उचितां गतिं लेभे । भक्त-वेष-मात्रेण यः सद्-गतिं दत्तवान् इत्य् अर्थः । ततोऽन्यं कं वा भजेम ॥२३॥

———————————————————————————————————————

सनातन-गोस्वामी : [ह।भ।वि। ११.६७९] इदानीं परम-दुष्टेष्व् अपि परम-कृपां दर्शयन् तस्यैवैकस्य शरण्यतां निर्धारयन् निज-बन्धु-वर्गेण सह स्वयम् अपि तं शरणं गच्छन्न् उपसंहरति । अहो इति आश्चर्ये । हन्तुम् इच्छयापि स्तनयोः सम्भूतं कालकूटं महा-दुर्विषं यम् अपाययत्, बकी पूतना असाध्वी दुष्टापि धात्र्या यशोदाया श्री-यशोदा-धात्रीत्वेन प्रसिद्धायाः श्री-मुखराया वा देवकी-धात्र्या वा कस्याश्चित् उचितां गतिं तस्माद् एव लेभे । भक्त-वेष-मात्रेण यः सद्-गतिं ददाव् इत्य् अर्थः ।

यद् वा, मरण-समये तस्या आर्त-नादम् आकर्ण्य गात्रास्फालनादि-दुःखम् अवलोक्य च केवलं पर-दुःखासहिष्णुतया यस् तादृशीं गतिम् अदाद् इत्य् अर्थः । तत्र च धात्री-गति-दाने स्तन्य-दान-कपटेनापि मातृ-भावानुकरणं च कारणं ऊह्यम् । तच् च तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टिताम् इति श्लोकोक्त्या मातृ-वल् लालनादि-परम-रम्य-चेष्टया व्यञ्जितम् एवास्ति । व्याख्यातं च श्री-स्वामि-पादैः । अहम् अस्य जननी, इयं वेति मोहिते सत्याव् इति । तस्मात् श्री-कृष्णाद् अप्य् अन्यं कं दयालुं शरणं व्रजेम ? सम्भावनायां सप्तमी । वा-शब्दः कटाक्षे । अतोऽन्यं कोऽपि दयालुर् नास्ति, अतस् तम् एव वयं दीनाः शरणं गच्छाम इत्य् अर्थः ।

यद्यपि शरणापत्ति-लिखनं कादाचित्क-कृत्य-लिखनानन्तरम् एवोपपद्यते, सकृद् एव प्रपन्नो यः इत्य्-आदि-वचनतः सकृत्-प्रवृत्त्यैव शरणागतत्व-सिद्धेः, तथापि शरणागतत्वस्य नित्य-भगवत्-स्थानश्रयणादि-लक्षणत्वेन नित्यम् आनुकूल्य-सङ्कल्पादि-लक्षणत्वेन च नित्य-कृत्यान्तर् एव पर्यवसानाद् अत्रैव लिखितम् इति दिक् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भः, ३३७-३३८) : तस्य सर्वावतारावतारिष्व् अप्रकटितं परम-शुभ-स्वभावत्वं च स्मृत्वाह—अहो बकीयम् इति । धात्र्या या उचिता गतिः, ताम् एव । अनेन तत्रापि गोकुल-लीलात्मकस्य श्री-कृष्णस्य भजन-माहात्म्यातिशयो दर्शितः, तथा पूतना लोक-बालघ्नी [भा।पु। १०.६.३५] इत्य्-आदौ च ज्षेयम् । तथा श्री-कृष्ण-सन्दर्भे च, येन येनावतारेण [भा।पु। १०.७.१] इत्य्-आदिकं विवृतम् अस्ति ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो बकीत्य् आदौ पुनर् लौकिक-लीलायां कृपाया अत्यमर्यादत्वम् अन्यत्रावतारादाव् अदर्शनात् । तत्र धात्रीणां किं उ गवो नु मातर [भा।पु। १०.६.३८] इत्य् अनुसारेण तस्मै स्तन्यामृत-दायिनीनां कासाञ्चित् तां गतिम् ॥२३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवतारारम्भत एव परापकारिष्व् अपि कृपा-माधुर्यं स्मरण् विलपति—अहो आश्चर्यम् । बकी पूतनेति मातृ-भावस्य कृत्रिमत्वेऽपि तत्रापि जिघांसयापि काल-कूटम् अपि यम् अपाययत् । ततः सकाशात् धात्र्य्-उचितां—अम्बिका च किलिम्बा च धात्रिके स्तन्य-दातृके इति द्वे कृष्णस्य धात्र्यौ तद्-उचितां गोलोके गतिं लेभे । भक्त-वेश-मात्रेणापि भक्तोचितां रतिं प्राप्नोतीत्य् अत्र भगवता द्विषत्य् अपि पूतना दृष्टान्तीकृता । एवं द्विषताम् अपि मुक्तिर् भक्तिश् च स्याद् इति कृष्णावतारस्यासाधारणो धर्म उक्तः ॥२३॥

———————————————————————————————————————

॥ ३.२.२४ ॥

मन्येऽसुरान् भागवतांस् त्र्यधीशे

संरम्भ-मार्गाभिनिविष्ट-चित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्य-पुत्रम्

अंसे सुनाभायुधम् आपतन्तम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

असुरा अपि ये विष्णुं शङ्ख-चक्र-गदाधरम् ।

भक्ति-पूर्वम् अवेक्षन्ते ज्ञेया भागवता इति ॥

विद्विषन्ति तु ये विष्णुम् ऋषि-पुत्रा अपि स्फुटम् ।

असुरास् तेऽपि विज्ञेया गच्छन्ति च सदा तमः ॥

जीव-द्वय-समायोगाद् धिरण्यक-मुखाः परे ।

भक्ति-द्वेष-युताश् च स्युर् गतिस् तेषां यथा निजम् ॥

कंस-पूतनिकाद्याश् च बान्धवादि-युता यतः ।

जीव-द्वय-समायोगाद् गति-द्वय-जिगीषवः ॥

सर्वथा भक्तितो मुक्तिर् द्वैषात्तम उदीरितम् ।

नियमस् त्व् अनयोर् नित्यां मोहायान्य-वचो भवेत् ॥ इति ब्राह्मे ॥२४॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भागवतान् एव भगवान् अनुगृह्णातीति प्रसिद्धम्, सत्यम्, असुरान् अप्य् अकं भागवतान् एव मन्ये, यतो भागवता इव तेऽपि भगवद्-ध्यानाभिनिवेशेन भगवन्तम् अपरोक्षं पश्यन्तीत्य् आह—संरम्भः क्रोधावेशस् तेन मार्गेणाभिनिविष्टं चित्तं येषां तान् । अत एव ये सङ्ग्रामे तार्क्ष्यः कश्यपस् तस्य पुत्रं गरुडम् अंसे स्कन्धे सुनाभायुधश् चक्रायुधोऽरिर् यस्य तम् अचक्षतापश्यन् । तस्मात् तेष्व् अप्य् अनुग्रहो युक्त एवेत्य् अर्थः । वक्ष्यति च—तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा।पु। ७.१.३०] इति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्ये इति यद्यपि तेषु वस्तुतो भगवतत्त्वं नास्ति तथाप्य् उतप्रेक्षत एवेत्य् अर्थः । ततश् च निज-बहिर्मुखत्वेनैवान्तिम-समये तद्-दर्शनं न प्राप्स्यामीति स्व-निन्दार्थं उक्तम् ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्य इति विलाप एव, न तु सिद्धान्तः । असुरान् भागवतान् मन्य इति अन्तिम-समये भगवत्-साक्षात्-कार-भगवत्-पद-प्राप्तिभ्यां लिङ्गाभ्यां तेनास्मद्-आदीन् बहिर्मुखान् मन्ये, अन्तिम-समये तद्-दर्शनाभाव-तत्-प्राप्त्य्-अभावाभ्याम् इति ध्वनितम् । संरम्भः क्रोधावेशः तार्क्षः कश्यपस् तत्-पुत्रं गरुडम् अचक्षत अपश्यन् । कीदृशः ? अंसे स्कन्धे सुनाभायुधश् चक्रायुधो यस्य तम् आपतन्तं सम्मुखम् आयान्तम् ॥२४॥

———————————————————————————————————————

॥ ३.२.२५ ॥

वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने ।

चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं तस्यान्तर्धान-प्रकारं वक्तुम् आदित आरभ्य तच् चरितं सङ्क्षेपतः कथयति । वसुदेवस्य भार्यायां जातः । भोजेन्द्रः कंसस् तस्य बन्धनागारे । अस्याः पृथिव्याः शं सुखं स्वयं चिकीऋषुः अजेन ब्रह्मणा च याचितः सन् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदुर-प्रश्न-समाधानार्थं मौषल-लीला अवश्यं वक्तव्येति तां दुःख-मयीं लीलां सुख-मय्या लीलया सहितीकृत्यैव विवक्षुर् आह—वसुदेवस्येति । भोजेन्द्रस्य बन्धनागारे । अस्याः पृथिव्याः शं सुखम् अजेन ब्रह्मणा ॥२५॥

———————————————————————————————————————

॥ ३.२.२६ ॥

ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता ।

एकादश समास् तत्र गूढार्चिः स-बलोऽवसत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पित्रा हेतु-भूतेन नन्द-व्रजम् इतो गतः । समाः संवत्सरान् गूढार्चिर् गुप्त-तेजाः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : एकादशेति । तावतैव पूर्ण-कैशोरत्वात् तथोक्तं—कालेनाल्पेन राजर्षे [भा।पु। १०.८.२६] इत्य्-आदि । क्व चातिसुकुमाराङ्गौ किशोरौ नाप्त-यौवनाव् इत्य्-आदि-बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचिद् इत्य्-आदिभ्यः

गूढार्चिर् इति यथा गूढार्चिः कुत्राप्य् अग्निः प्राप्तं प्राप्तम् इन्धनं दहति । तथा गोप-लीलाया गूढ-प्रभाव एव सन् प्राप्तं प्राप्तम् असुर-वृन्दं दहन्न् इत्य् अर्थः । एकादश-पर्यन्तं गूढार्चिः, ततः परं पञ्चदश-पर्यन्तं प्रकटार्चिर् इति साध्याहारं व्याख्यानं त्व् अघटमानं च एकादशाभ्यन्तरे तत्-तत्-प्रभावस्य मध्ये मध्ये प्रसूतत्वात् । तावतैव पूर्ण-कैशोरत्वात् तथोक्तम् ।*।*२६॥ [कृष्ण-सन्दर्भ १७४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पित्रा हेतुना इतो गतः । एकादश-समाः संवत्सरान् व्याप्यावसत् । तावतैव कालेन बाल्य-पौगण्ड-कैशोर-लीला-सम्पूर्तेः गूढार्चिः प्राकृतैः कंसादिभिर् अलक्षित-तत्त्वः । माधुर्योद्रेकेण गूढैश्वर्य इति वा ॥२६॥

———————————————————————————————————————

॥ ३.२.२७ ॥

परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः ।

यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यहरद् अक्रीडत् । कूजद्भिर् द्विजैः पक्षिभिः सङ्कुलिता व्याप्ता अङ्घ्रि-पा यस्मिन् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कूजद्भिर् द्विजैः सङ्कुलिता व्याप्ता अङ्घ्रि-पा यत्र तस्मिन् ॥२७॥

———————————————————————————————————————

॥ ३.२.२८ ॥

कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।

रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रुदन्न् इवेतीव-शब्दस्य यथा-योगं सर्वत्राप्य् अन्वयः । मुग्धो बालश् च यः सिंहस् तद्वद् अवलोकनं यस्य सः ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : कौमारीम् इति । अत्यन्त-बाल्यत्वद् वत्स-चारणस्य प्राक्तनीयं लीला शोकावेशेन व्यत्यस्य पठिताय एवम्भूतः स परीत इत्य्-आदि योज्यं तत्र रुदन्न् इव हसन्न् इव बाल्य-स्वभावो दर्शितः ॥२८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुदन्न् इवेति । बालानां रोदनं चास्त्रम् इति यथा बाला विनापि रोदन-चिह्नं रोदनं दर्शयन्ति तथैव मातॄणाम् अग्रे अदेय-लोभ्य-वस्तु-प्रार्थना-हठादौ रुदन्न् इव भवति तदैव तत्-प्राप्तौ हसन् । किं च, भीषण-दैत्याद्य्-आगमे मुग्धोऽपि बालोऽपि सिंहो यथा घोर-सत्त्वाय बिभेति, किन्तु स्व-पराक्रमम् एव दृष्ट्या द्योतयति तथा-भूतस्य सिंहस्यैवावलोकनं यस्य सः । परम-वत्सलान् पित्रादीन् व्याकुलयति ॥२८॥

———————————————————————————————————————

॥ ३.२.२९ ॥

स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् ।

चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स एवाधिकं वयः प्राप्तः सन् गोधनं चारयन् । कथां भूतं गोधनं ? लक्ष्म्याः शोभादि-संपदो निकेतनम् । सिता गोवृषा यस्मिन् नाना-वर्णे गो-सङ्घे । रणन् शब्दं कुर्वन् वेणुर् यस्य । अरीरमद् रमयाम् आस ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स एव किञ्चिद् अधिकं वया भवन् वत्स-चारणं समाप्य लक्ष्म्याः शुक्ल-नील-हरित-पीत-धूमल-वर्ण-शोभाया निकेतं गो-धनं चारयन् । सिता गो-वृषा यत्र तत् गोपान् रमयाम् आस ॥२९॥

———————————————————————————————————————

॥ ३.२.३० ॥

प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः ।

लीलया व्यनुदत् तांस् तान् बालः क्रीडनकान् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यनुदज् जघान । क्रीडनकांस् तृणादि-निर्मितान् सिंहादीन् यथा ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यनुदज् जघान । क्रीडनकान् पत्रादि-निर्मितान् सिंहादीन् इव ॥३०॥

———————————————————————————————————————

॥ ३.२.३१ ॥

विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् ।

उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विपन्नान् मृतान् गोपान् गाव इति गाश् चोत्थाप्य तद् एव तोयम् । प्रकृति-स्थितं निर्विषम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विषोदक-पानेन मूर्च्छितान् गोपालान् गाश् चोत्थाप्य प्रकृति-स्थितं निर्विषम् ॥३१॥

———————————————————————————————————————

॥ ३.२.३२ ॥

अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः ।

वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्र-पूजा-भङ्गेन कृता गवां पूजैव गो-सवस् तेन । गोप-राजं नन्दम् । वित्तस्य चेति चकाराद् इन्द्रस्य मान-भङ्गं कुर्वन् उरु-भारस्याति-समृद्धस्य ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गो-सेवेनेन्द्र-मख-भङ्गतः प्रवर्तितेन गवां पूजनेन । च-काराद् इन्द्रस्य च मान-भङ्गं उरु-भारस्य अतिसमृद्धस्य ॥३२॥

———————————————————————————————————————

॥ ३.२.३३ ॥

वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः ।

गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कोपाद् वर्षति । गोत्रः पर्वत एव लीलातपत्रं तेन । हे भद्र ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोपाद् वर्षति सति । गोत्रः पर्वत एव लीलातपत्रं तेन । हे भद्र ॥३३॥

———————————————————————————————————————

॥ ३.२.३४ ॥

शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् ।

गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृष्टं उज्ज्वलम् । स्त्रीणां मण्डलं मण्डयतीति तथा ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रजनी-मुखं प्रदोषं पक्षे शरच्-छशिनो नायकस्य कर-तल-घर्षणैर् मृष्टं प्रस्वेदाद्य्-अपसारणेनोज्ज्वली-कृतं रजन्या नायिकायाः स्वाधीन-भर्तृकाया मुखं मानयन् आभिनन्दयन्न् अहम् अप्य् एवम् एव करोमीति स्त्रीणां मण्डलं रास-सम्भोग-लीलानन्तरं मण्डयति सः ॥३४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीये द्वितीयोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां

तृतीय-स्कन्धे विदूरोद्धव-संवादे

द्वितीयोऽध्यायः

॥ ३.२ ॥


(३.३)


  1. एको देवो सर्व-भूतेषु गूढः

    सर्व-व्यापी सर्व-भूतान्तरात्मा ।

    कर्माध्यक्षः सर्व-भूताधिवासः

    साक्सी चेताः केवलो निर्गुणश् च ॥ ↩︎

  2. मतम् आश्रितवन्तः इति पाठान्तरः (ख)। ↩︎

  3. मोक्षयित्वा जगत् सर्वं गतः स्वस्थानम् उत्तमम् ॥ इति आकरे ↩︎

  4. थे चोम्मेन्तर्य् ओफ़् जिव अत् भक्ति-रसामृत-सिन्धु २.१.२१५ दिफ़्फ़ेर्स् फ़्रोम् थिस्। ↩︎