विषयः
धृतराष्ट्रं परित्यज्य गतस्य विदुरस्योद्धवेन सह समागमः ।
॥ ३.१.१ ॥
श्री-शुक उवाच—
एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
युद्ध-काले तु विदुरस् तीर्थ-यात्रां गतोऽपि सन् ।
प्राय आस्ते गजपुरे पाण्डवानां व्यपेक्षया ॥ इति स्कान्दे ॥१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-गणेशाय नमः । श्री-गोपाल-कृष्णाय नमः ।
तृतीये तु त्रयस्त्रिंशद्-अध्यायैः सर्ग-वर्णनम् ।
ईशेक्षया गुण-क्षोभात् सर्गो ब्रह्माणाद् असम्भवः ॥
तत्र तु प्रथमेऽध्याये बन्धून् हित्वा गतायुषः ।
निर्गतस्योद्धवेनादौ सम्वादः क्षत्तुर् उच्यते ॥
भगवद् ब्रह्म-संप्रोक्तं सङ्क्षेप्त वर्णितं पुरा ।
प्राह भागवतं शेष-प्रोक्तं विस्तरतः पुनः ॥
द्वेधा हि श्रीमद्-भागवत-सम्प्रदाय-प्रवृत्तिः । एकतः सङ्क्षेपतः श्री-नारायण-ब्रह्म-नारदादि-द्वारेण, अन्यतस् तु विस्तरतः शेष-सनत्-कुमार-साङ्ख्यायनादि-द्वारेण । तत्र द्वितीये श्री-नारायण-ब्रह्म-संवादेन सङ्क्षेपतोऽहम् एवासम् इत्य्-आदि चतुः-श्लोक्या श्री-भागवतं निरूपितम् । तद् एव ब्रह्म-नारद-संवादेन दश-लक्षणतया किञ्चिद् विस्तरेणोक्तम् । तद् एव शेषोक्तम् अतिविस्तरतो वक्तुं तृतीयाद्य्-आरम्भः ।
तत्र तृतीये प्रथमं क्षत्तुर् मैत्रेय-सङ्गमश् चतुर्भिर् अध्यायैः, ततोऽष्टभिः स-विसर्गः सर्ग-प्रपञ्चः । ततो विसर्ग-प्रस्तावेन सप्तभिर् वराहावतारः । तत एकेन विसर्ग-समाहारः। तत्-प्रसङ्गेन चतुर्भिः कपिलावतारः। ततो नवभिः कपिलाख्यानम् ।इति त्रयस्त्रिंशताध्यायैस् तृतीय-स्कन्ध-प्रवृत्तिः । तत्र द्वितीय-स्कन्धान्ते—
परिमाणं च कालस्य कल्प-लक्षण-विग्रहम् ।
यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पम् अथो शृणु ॥[भा।पु। २.१०.४७]
इति प्रतिज्ञातम् अर्थं विस्तरेण निरूपयितुम् इतिहासं प्रस्तौति भगवान् शुकः, एवम् इति द्वाभ्याम् । ऋद्धिमत् सर्व-सम्पद्भिः सम्पूर्णम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।1
तृतीय-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
प्रणम्य श्री-गुरुं भूयः श्रीकृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तं उपाश्रये ॥
गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
त्र्यधिक-त्रिंशद्-अध्याय्या तृतीये सर्ग उच्यते ।
तत्त्वैः समष्टि-सृष्टिर् यः प्रधानात् पुरुषेक्षितात् ॥
प्रदर्श्य भगवद्-ब्रह्म-नारदाद्यैः प्रवर्तितम् ।
[सरण्भावं]{।मर्क्} शेष-कुमाराद्यैश् च दर्श्यते ॥
विदुरोद्धव-संवादश् चतुर्भिः पुनर् अष्टभिः ।
स-विसर्गः सर्ग-विधिः सप्तभिः क्रोड-कीर्तनम् ॥
ततो विसर्ग-सङ्क्षेप एकेन कपिलोदयः ।
चतुर्भिर् नवभिश् चेति तृतीय-स्कन्ध-सङ्ग्रहः ॥
तत्र तु प्रथम्ऽदृशयतिए क्षत्ता हित्वाग्रजं गतः ।
तीर्थं तत्र श्रुतानिष्टोऽपृच्छन् मिलितं उद्धवम् ॥
पूर्व-स्कन्धेऽष्टमेऽध्याये राज्ञां कृतेषु बहुषु प्रश्नेषु द्वि-त्र-प्रश्नानां उत्तरं दत्त्वा महा-मुनिर् मनसि पराममर्श—यथानेन राज्ञां सम्प्रत्य् अहं पृष्टस् तथैव पूर्वं विदुरेणापि मैत्रेयः पृष्ट इति । ततश् च तत्-प्रस्तावेनैवोत्थापितेन राज्ञः सर्व-प्रश्नोत्तरं दास्यामीति निश्चित्याह—एवम् इति । ऋद्धिमत् सर्व-सम्पद्भिः पूर्णम् ॥१॥
———————————————————————————————————————
॥ ३.१.२ ॥
यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः ।
पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं चातिश्लाघ्यं त्यागानर्हम् इत्य् आह—यद् वै प्रसिद्धं गृहं वः पाण्डवानां मन्त्र-कृद् दौत्य-कर्ता सन्न् अयं श्री-कृष्णः । बुद्धि-सन्निधानाद् अयम् इति निर्देशः । पौरवेन्द्रो दुर्योधनस् तस्य गृहं हित्वानाहूत एव प्रविवेश । तत्र हेतुः—आत्म-सात्-कृतम् आत्मीयत्वेन गृहीतम् ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : “**यद् वा अयम्” इत्य् अत्र “यद्-आश्रयम्” इति चित्सुखः ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तस्य तद्-गृहं तज्-जिगमिषितेभ्यस् तीर्थेभ्यः सर्वेभ्योऽप्य् अतिश्रेष्ठं त्यागानर्हम् । तद् अपि भ्रातृ-दत्तेन सन्तापेनैव तत्याजेत्य् आह—यद् इति । वै निश्चितम् । यद् गृहं वः पाण्डवानां मन्त्र-कृत् दूत्य-कर्ता सन् अयं ।श्रीकृतः बुद्धि-सन्निधानाद् अयम् इति निर्देशः । पौरवेन्द्रस् तदा दुर्योधनोऽनाहूत एव प्रविवेश । तत्र हेतुः—आत्म-सात्-कृतम् आत्मीयत्वेन स्वीकृतम् ॥२॥
———————————————————————————————————————
॥ ३.१.३ ॥
राजोवाच—
कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः ।
कदा वा सहसंवाद एतद् वर्णय नः प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुत्र सङ्गम आस बभूव ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र शौनकवद् राजापि तत्-कथाया उत्कण्ठया तां विशेषतः पृच्छति—कुत्रेति । कुत्र कदा सङ्गम आस आसीत्, संवादो वा । तत्र कुत्रेति कस्मिन् स्थाने विषये वेति गम्यम् । एतद् इति तद् एतत् त्रयम् इत्य् अर्थः ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आस बभूव ॥३॥
———————————————————————————————————————
॥ ३.१.४ ॥
न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः ।
तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वरीयसि श्रेष्ठे । अल्पस्यार्थस्योदयो यस्मात् तथाभूतो न भवति । साधु-वादेन सताम् अनुमोदनेनोपबृंहितः संवर्धितः । यद्वा, साधोर् मैत्रेयस्य वादेनोत्तरेण श्लाघित इत्य् अर्थः ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरीयसि श्रेष्ठे । अल्पस्यार्थस्योदयो यस्मात् तथाभूतो न भवति । साधु-वादेन भवताम् अनुमोदनेनोपबृंहितः संवर्धितः । यद्वा, साधोर् मैत्रेयस्य वादेनोत्तरेण श्लाघित इत्य् अर्थः ॥४॥
———————————————————————————————————————
॥ ३.१.५ ॥
सूत उवाच—
स एवम् ऋषि-वर्योऽयं पृष्टो राज्ञा परीक्षिता ।
प्रत्याह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति ॥
न कतमेनापि व्याख्यातम्।
———————————————————————————————————————
॥ ३.१.६ ॥
श्री-शुक उवाच—
यदा तु राजा स्व-सुतान् असाधून्
पुष्णन् न धर्मेण विनष्ट-दृष्टिः ।
भ्रातुर् यविष्ठस्य सुतान् विबन्धून्
प्रवेश्य लाक्षा-भवने ददाह ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यदा यदाह तदा केशाभिमर्शः प्राप्त इति यदा-शब्दो हेत्व्-अर्थः । यदा तदा इति हेत्व्-अर्थे कालार्थे च भण्यते इत्य् अभिधाने ॥६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्यागानर्हस्यापि गृहस्य त्यागे हेतुत्वेन कौरवापराधान् आह—यदेत्य् एकादशभिः । एतेषां च तदा स क्षत्ता अयाद् इत्य् एकादशे क्रिया-सम्बन्धः । यविष्ठस्य कनिष्ठस्य पाण्डोः । विबन्धून् पितृ-हीनान् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदेत्य् आदीनां तदा स क्षत्ता अयाद् इत्य् एकादशस्थया क्रियया सम्बन्धः । विनष्टे दृष्टी नेत्रे दृष्टिर् ज्ञांनं च यस्य । यविष्ठस्य कनिष्ठस्य पाण्डोः । विबन्धून् पितृ-हीनान् ॥६॥
———————————————————————————————————————
॥ ३.१.७ ॥
यदा सभायां कुरु-देव-देव्याः
केशाभिमर्शं सुत-कर्म गर्ह्यम् ।
न वारयामास नृपः स्नुषायाः
स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुरु-देवस्य युधिष्ठिरस्य देव्या द्रौपद्या आत्मनः स्नुषायाः स्वीयैर् अस्रैर् अश्रुभिः स्व-कुच-कुङ्कुमानि रिपु-स्त्रीणां वा तद्-भर्तृ-वधेन हरन्त्याः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुरु-देव-देव्या द्रौपद्याः कुच-कुङ्कुमानि स्वस्य रिपु-स्त्रीणां वा तद्-भर्तृ-वधेन हरन्त्या इति चतुर्थातिशयोक्तिर् उत्प्रेक्षा च व्यञ्जिता ॥७॥
———————————————————————————————————————
॥ ३.१.८ ॥
द्यूते त्व् अधर्मेण जितस्य साधोः
सत्यावलम्बस्य वनं गतस्य ।
न याचतोऽदात् समयेन दायं
तमो-जुषाणो यद् अजात-शत्रोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यावलम्बस्य सत्याश्रयस्य वनात् प्रत्यागतस्य समयेन पूर्व-कृतेन दायम् अंशं याचमानस्य यद् यदा नादान् न ददौ । तमो मोहं जुषाणः [पुत्रं सेवमानः, अविवेकं वा]2 ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वनात् प्रत्यागतस्य समयेन पूर्व-कृतेन दायं भागं याचमानस्य यद् यदा ॥८॥
———————————————————————————————————————
॥ ३.१.९ ॥
यदा च पार्थ-प्रहितः सभायां
जगद्-गुरुर् यानि जगाद कृष्णः ।
न तानि पुंसाम् अमृतायनानि
राजोरु मेने क्षत-पुण्य-लेशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यानि वचनानि पुंसां भीष्मादीनाम् अमृतायनान्य् अमृत-स्रावीणि राजा धृतराष्ट्रो दुर्योधनो वा उरु बहु न मेने । क्षतो नष्टः पुण्य-लेशो यस्य सः । न सुख-कीर्ति-धर्मादि-हेतुः, किन्तु राज्य-प्राप्ति-मात्र-हेतुः पुण्य-लेश एवासीत् । तस्यापि नष्टत्वाद् अनादृतवान् इत्य् अर्थः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यदेति । “अमृतायनानि” इत्य् अत्र “अमृतावहानि” इति । “क्षत” इत्य् अत्र “हृत” इति चित्सुखः ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुंसां तद्-भाव्करण् भीष्मादीनाम्, राजा धृतराष्ट्रो दुर्योधनो वा उरु बहु न मेने । तत्र हेतुः—क्षतेति । न सुख-कीर्ति-धर्मादि-करः, किन्तु राज्य-प्रापको यः पुण्य-लेश एवासीत्, तस्यापि नष्टत्वाद् इत्य् अर्थः ॥९॥
———————————————————————————————————————
॥ ३.१.१० ॥
यदोपहूतो भवनं प्रविष्टो
मन्त्राय पृष्टः किल पूर्वजेन ।
अथाह तन् मन्त्र-दृशां वरीयान्
यन् मन्त्रिणो वैदुरिकं वदन्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं विदुरस्यैव कृतं पराभवं दर्शयति—यदा इत्य्-आदि-षड्भिः । यदा पूर्वजेन धृतराष्ट्रेण मन्त्राय च उपहूतोऽन्तर्-गृहं प्रविष्टो मन्त्रं पृष्टः सन्न्, अथानन्तरं तद् आह । किं मन्त्रिणोऽद्यापि यद् वैदुरिकं विदुर-वाक्यम् इति प्रसिद्धं वदन्ति ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं विदुरस्यैव पराभवं तत्-कृतं दर्शयतिषड्भिः । अथानन्तरं विदूरस् तद् आह—किं मन्त्रिणोऽद्यापि यद् वैदुरिकं विदुर-वाक्यम् इति प्रसिद्धं वदन्ति ॥१०॥
———————————————————————————————————————
॥ ३.१.११ ॥
अजात-शत्रोः प्रतियच्छ दायं
तितिक्षतो दुर्विषहं तवागः ।
सहानुजो यत्र वृकोदराहिः
श्वसन् रुषा यत् त्वम् अलं बिभेषि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—अजात-शत्रोर् इति त्रिभिः । तव आगोऽपराधं सहमानस्य दायं प्रतियच्छ देहि । यत्रापराधेऽनुजैः सह वर्तमानो वृकोदर-रूपोऽहिः क्रोधेन श्वसन् वर्तते । यद् यस्मात् त्वम् अलम् अत्यर्थं बिभेषि ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवाह—अजातेति यत् यत्र आगसि वृकोदर-रूपोऽहिः क्रोधेन श्वसन् वर्तते । यद् यस्मात् त्वम् अलम् अत्यर्थं बिभेषि ॥११॥
———————————————————————————————————————
॥ ३.१.१२ ॥
पार्थांस् तु देवो भगवान् मुकुन्दो
गृहीतवान् स-क्षिति-देव-देवः ।
आस्ते स्व-पुर्यां यदु-देव-देवो
विनिर्जिताशेष-नृ-देव-देवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मम तादृशाः पुत्रा बहवः सन्तीति गर्वं मा कृथा इत्य् आह—पार्थांस् तु मुकुन्द आत्मीयत्वेन गृहीतवान् । स च देवस् तत्रापि भगवान् न तु प्राकृतः । किं च, सह क्षिति-देवैर् विप्रैर् देवैश् चेन्द्रादिभिर् वर्तमानः । यतोऽसौ तत्रैव विप्रा देवाश् चेत्य् अर्थः । स च स्व-पुर्याम् एव सुखम् आस्ते, न त्व् अन्यत्र गतः । किं च, यदु-देवानां देवः पूज्यः । यतोऽसौ तत्रैव सर्वे राजानः । अतः पार्थानां दायं देहीति ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्प्रति त्व् अन्यद् अप्य् अद्भुतं तेषां महा-बलाधिक्यं शृण्व् इत्य् आह पार्थांस् त्व् इति । आत्मीयत्वेन गृहीतवान् । स च देवः, तत्रापि भगवान् क्षिति-देवैर् विप्रैर् देवैश् च सहितः। तत्-पक्ष एव विप्रा देवाश् चेति भावः । तत्रापि स्व-पूर्याम् एवास्ते, न त्व् अन्यत्र गतः । यदु-देवा यदु-प्रवरा देवा बलिष्ठा यस्मात् सः । यत्रासौ तत्रैव यदु-प्रवीरा इत्य् अर्थः । किं च, तस्यैव बलं शृण्व् इत्य् आह विनिर्जिता अशेषा नृ-देवाः कंस-जरासन्धादयो देवाश् च बाल्यम् आरभ्यैव ब्रह्मेन्द्र-वरुण-रुद्रादयो येन सः । अतः पार्थानां दायं देहि यद्य् आत्मनो भद्रम् इच्छसीति भावः ॥१२॥
———————————————————————————————————————
॥ ३.१.१३ ॥
स एष दोषः पुरुष-द्विड् आस्ते
गृहान् प्रविष्टो यम् अपत्य-मत्या ।
पुष्णासि कृष्णाद् विमुखो गत-श्रीस्
त्यजाश्व् अशैवं कुल-कौशलाय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्योधनस् तन् न मन्यत इति चेद् अत आह—स एष मूर्तो दोष एव गृहान् प्रविष्ट आस्ते । दोषत्वे हेतुः--पुरुष-द्विट् श्री-कृष्ण-द्वेष्टा । कोऽसौ ? यं त्वम् अपत्य-मत्या पुष्णासि न त्व् अपत्यम् असौ । न पतत्य् अस्माद् इति ह्य् अपत्यं प्राहुः । गता श्रीर् यस्मात् स त्वम् इत्य् आक्रोशति । अत एनम् अशैवम् अमङ्गलम् आशु त्यज । कथं पुत्रस् त्याज्यः ? तत्राह—कुलस्य कौशलाय, त्यजेद् एकं कुलस्यार्थे3 [हितोपदेश १.१४३] इति हि न्यायः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्-पुत्रो दुर्योधनोऽत्र विप्रतिपत्स्यते इति चेत्, तत्राह—स एष इति । त्वत्-कोटि-जन्म-कृत-दुष्कृत-फल-भूत इत्य् अर्थः । दोषो मूर्त एव यतः पुरुषं परमेश्वरं द्वेष्टि, तत्रापि तव गृहान् बाह्यान् अभ्यन्तरान् मनो-बुद्ध्य्-आदि-रूपान् अपि प्रविष्ट एव आस्ते, तत्रापि त्वं तं पुष्णासि, तत्राप्य् अपत्य-मत्या न ह्य् असाव् अपत्यं न पतत्य् अस्माद् इत्य् अपत्यम् इति निरुक्तेः । अत एव न त्वम् अनुमीयसे कृष्णाद् विमुखः गत-श्रीर् इति लक्ष्मीस् तव गृहेभ्यो निःसृत्य गतेति जानीहि ।
ननु तर्हि कोऽत्र प्रतीकारः ? तत्राह—आशु शीघ्रम् अशैव्यम् अमङ्गलम् एनं त्यज । मया पित्रा पुत्रस्य त्यागे मत्-कुले कलङ्कः स्यात् ? तत्राह—कुलस्यैव कौशलाय कुशलाय त्यजेद् एकं कुलस्यार्थे इति न्यायात् । अन्यथा कुलम् एव सर्वं ते नङ्क्ष्यतीति भावः ॥१३॥
———————————————————————————————————————
॥ ३.१.१४ ॥
इत्य् ऊचिवांस् तत्र सुयोधनेन
प्रवृद्ध-कोप-स्फुरिताधरेण ।
असत्-कृतः सत्-स्पृहणीय-शीलः
क्षत्ता स-कर्णानुज-सौबलेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् ऊचिवान् एवं उक्तवान् । असौ क्षत्ता विदुरः सतां स्पृहणीयं शीलं यस्य स कर्ण-दुःशासन-शकुनि-सहितेन दुर्योधनेन असत्-कृतस् तिरस्-कृतः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् ऊचिवान् एवं उक्तवान् । विदुरः सुयोधनेन असत्कृतः तिरस्कृतः कर्ण-दुःशासन-शकुनि-सहितेन ॥१४॥
———————————————————————————————————————
॥ ३.१.१५ ॥
क एनम् अत्रोपजुहाव जिह्मं
दास्याः सुतं यद्-बलिनैव पुष्टः ।
तस्मिन् प्रतीपः परकृत्य आस्ते
निर्वास्यताम् आशु पुराच् छ्वसानः4 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तिरस्कारम् आह—क इति । दासी-सुतो ह्य् अत्राह्वानानर्हः । जिह्मश् च कुटिलः । जिह्मताम् अह—यस्य बलिना अन्नेन पुष्टस् तस्मिन्न् एव प्रतीपः प्रतिकूलः परेषां कार्ये वर्तते । अतः पुरान् निर्वास्यताम् । श्वसानः श्वसन् जीव-मात्र-शेष इत्य् अर्थः । पाठान्तरे श्मशान-वद् अमङ्गलः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तिरस्कारम् एवाह—क एनम् अत्र महाराज-सदसि अजुहावेति आह्वानानर्हम् इति भावः । तत्र हेतुः—दास्याः सुतम् इति जन्मनैव दुष्टम् । जिह्मं कुटिलम् इति । कर्मणापि कौटिल्यम् आह—यद् बलिना यद् दत्तेनान्नेन पुष्टस् तस्मिन्न् एव स्व-स्वामिनि प्रतीपः प्रतिकूलः परेषां शत्रूणां कृत्ये कार्ये वर्तते । अतोऽयम् अत्र स्थितः सर्वम् एवास्मत्-कुलं नाशयितुं यतिष्यत इति भावः । निर्वास्यताम् अयम् इतो निष्काल्यतां यः कोऽत्र मदीयो वर्तते तेनेति भावः । तत्राप्य् आशु मा विलम्बेन तत्रापि श्वसानः श्वास-मात्रावशिष्ट इति स-बहु-वेत्र-प्रहारम् इति भावः । श्मशान इति पाठे श्मशानवद् अमङ्गलोऽयं केनास्मद्-गृह-मध्ये आनीतो यो माम् एवामङ्गलं वक्ति । अत आशु निष्काश्यताम् अन्यथा राज-पुरम् इदं श्मशानम् एव करिष्यतीति भावः ॥१५॥
———————————————————————————————————————
॥ ३.१.१६ ॥
स्वयं धनुर् द्वारि निधाय मायां
भ्रातुः पुरो मर्मसु ताडितोऽपि ।
स इत्थम् अत्युल्बण-कर्ण-बाणैर्
गत-व्यथोऽयाद् उरु मानयानः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्युल्बणैः कर्णयोर् बाणवत् प्रविशद्भिः परुष-वाक्यैर् मर्मसु ताडितोऽपि गत-व्यथः । तत्र हेतुः—मायां उरु बहु मानयन्न् “अहो मायाया माहात्म्यम्” इति ताम् एव तत्र हेतुं मन्यमानस् तन्-निःसारणात् पूर्वं स्वयम् एव अयान् निर्जगाम । किं कृत्वा ? “एते नूनं मरिष्यन्ति, किं धनुषा ?” इति तस्य द्वारि धनुर् निधाय । यद् वा, “भीमादिभिः सङ्गत्यास्माभिर् योत्स्यतीति मा शङ्कीः” इति धनुर्-निधानम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : “स्वयम्” इत्य् अत्र “स्मयन्”5 इति चित्सुखः ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स इत्थम् अत्युल्बण-कर्ण-बाणैः अत्युल्बणैः परुष-वाक्यैर् कर्णयोर् बाणैर् इव प्रविश्य मर्म-स्थानेषु ताडितः । तत्रापि भ्रातुः पुरः, “अरे किम् एवं ब्रूषे ?” इत्य् अप्य् अनुक्तवतः । किं च, ताडितोऽपि गत-व्यथः । “धन्योऽसि अरे दुर्योधन, धन्योऽसि त्वया मम सर्वा अपि व्यथा निर्वापिता यद् इतो निःसार्यमाणस्य दूरे क्वचन तीर्थादिषु निर्विण्णतया स्थास्यतस् त्वज्-जनके ममतां त्यक्तवतो मम का व्यथा ?” इति मनस्य् अनुलप्येति भावः । अयात् निर्जगाम स्वयम् इति दुष्टैर् निःसारणात् स्वयम् एव निःसरणं भद्रम् इति भावः । धनुर्-द्वारि निधाय इति “सम्प्रति सर्वं स्व-गृहादिकम् अपि त्यक्तवतो विविक्ते क्वचिद् उपविश्य कृष्णं भजिष्यतो मम किम् अनेन दुश्चिह्नेन धनुषा ?” इति भावः । यद् वा, “भीमादिभिः सङ्गत्यास्माभिः सह योत्स्यत इति पापोऽयं मा शङ्केत” इति धनुर्-निधानम् । मायां उरु मानयानः मानयन्न् इति माययैवान्धीकृतः पुरः सन्तम् अपि कृष्णं न पश्यति। यद् वा, अहो माया-माहात्म्यं भगवतः कृष्णस्य यद् एवं प्रकारेण मां स्व-भक्तम् इतो निष्काश्य भीमादिभिर् निःसंशयम् एते घातयिष्यन्त इति ॥१६॥
———————————————————————————————————————
॥ ३.१.१७ ॥
स निर्गतः कौरव-पुण्य-लब्धो
गजाह्वयात् तीर्थ-पदः पदानि ।
अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम्
अधिष्ठितो यानि सहस्र-मूर्तिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो निर्गतस्य तीर्थाटन-प्रकारम् आह—स इत्य् अष्टभिः । स गजाह्वयान् निर्गतः संस् तीर्थं पादौ यस्य तस्य हरेः पदानि क्षेत्राणि पुण्य-चिकीर्षयाऽन्वाक्रमत् प्रत्यपद्यत। कौरवाणां पुण्येन लब्ध इति तेषां भाग्यम् एव तेन रूपेण गतम् इति सूचितम् । उर्व्यां सहस्र-मूर्तिर् ब्रह्म-रुद्राद्य्-अनेक-मूर्तिः संस् तीर्थ-पाद्यानि यान्य् अधिष्ठाय स्थितः तानि तानि जगामेत्य् अर्थः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्वाक्रमत् अनुक्रमेण प्राप । पुण्य-चिकीर्षया तद्-दुःसङ्ग-प्रायश्चित्तेच्छया । अतः स-दोषं-मन्यः सहसा श्री-कृष्णम् अपि द्रष्टुं न जगामेति भावः ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुरोस् तद्-वंश्यानां च पुण्येन लब्ध इति तेषां भाग्यम् एव तेन रूपेण गतम् इति सूचितम् । तीर्थं पादौ यस्य तस्य हरेर् इति तच्-चरण-बुद्ध्यैव तादृशानां तीर्थ-दिदृक्षेति सूचितम् । पदानि क्षेत्राणि सहस्र-मूर्तिर् मत्स्य-कूर्माद्य्-अनेक-मूर्तिः सन् यानि यान्य् अधिष्ठाय स्थितः ॥१७॥
———————————————————————————————————————
॥ ३.१.१८ ॥
पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व्
अपङ्क-तोयेषु सरित्-सरःसु ।
अनन्त-लिङ्गैः समलङ्कृतेषु
चचार तीर्थायतनेष्व् अनन्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुण्यानि यान्य् उपवनादीनि तेषु कुञ्जं लतादि-गूढ-स्थानम् । अपङ्कानि तोयानि येषां तेषु सरित्-सरःसु च तीर्थेष्व् आयतनेषु क्षेत्रेषु च । कीदृशेषु ? अनन्तस्य लिङ्गैर् मूर्तिभिः सम्यग् अलङ्कृतेषु । अनन्य एकाकी ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरेषु प्रसिद्धेषु न विद्यते पङ्कं पापं येभ्यस् तेषु पाप-हन्तृषु तोयेषु अनन्यः सर्वत्र श्री-कृष्णैक-दृष्टिः ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्य एकाकी ॥१८॥
———————————————————————————————————————
॥ ३.१.१९ ॥
गां पर्यटन् मेध्य-विविक्त-वृत्तिः
सदाप्लुतोऽधः शयनोऽवधूतः ।
अलक्षितः स्वैर् अवधूत-वेषो
व्रतानि चेरे हरि-तोषणानि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, गां पर्यटन् व्रतानि चेरे आचरत् । मेध्या पवित्रा विविक्तासङ्कीर्णा वृत्तिर् जीविका यस्य । सदाप्लुतः प्रति-तीर्थं स्नातः । अधः शयनं यस्य । अवधूतोऽसंस्कृत-देहः, अवधूत-वेषो वल्कलादि-धारी । अत एव स्वैर् अलक्षितः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विविक्तत्वं परवृत्तिभिर् अमिश्रत्वम् ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गां पृथिवीं मेध्या पवित्रा विविक्ता वृत्तान्तरेणामिश्रिता वृत्ति-जीविका यस्य सः । सदाप्लुतः प्रति-तीर्थं स्नात इतिस्नानेन पावित्र्यं लक्ष्यते । स्नानानन्तरं कदाचिद् अस्पृश्य-स्पर्शे पुनर् अपि स्नातीति सदा भगवन्-मन्त्रादि-स्मरणार्थं पवित्र एव तिष्ठतीत्य् अर्थः । अवधूतोऽसंस्कृत-देहः, अवधूत-वेषो वल्कलादि-धारी, अत एव स्वैर् अलक्षितः ॥१९॥
———————————————————————————————————————
॥ ३.१.२० ॥
इत्थं व्रजन् भारतम् एव वर्षं
कालेन यावद् गतवान् प्रभासम् ।
तावच् छशास क्षितिम् एक चक्राम्
एकातपत्राम् अजितेन पार्थः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकस्यैव चक्रं सैन्यं यस्याम् । एकम् एव राज-चिह्नं श्वेतातपत्रं यस्यां ताम् । अजितेन श्री-कृष्णेन सहायेन ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भारतम् एव वर्षम् इति तन्-मध्य-वर्ति कुमारिका-खण्डम् एव ज्ञेयं विष्णु-पुराणानुसारेणान्यत्रागम्यत्वात् ॥२०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकस्यैव चक्रं सैन्यं यस्याम् । एकम् एव राज-चिह्नं श्वेतातपत्रं यस्यां ताम् । अजितेन श्री-कृष्णेन सहायेन हेतुना पार्थो युधिष्ठिरः ॥२०॥
———————————————————————————————————————
॥ ३.१.२१ ॥
तत्राथ शुश्राव सुहृद्-विनष्टिं
वनं यथा वेणुज-वह्नि-संश्रयम् ।
संस्पर्धया दग्धम् अथानुशोचन्
सरस्वतीं प्रत्यग् इयाय तूष्णीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रभासे परस्पर-स्पर्धया निमित्त-भूतया सुहृदां कौरवाणां विनष्टिं विनाशम् अशृणोत् । परस्पर-नाशे दृष्टान्तः—वेणुजं वह्निं संश्रयते यद् वनं, तद् यथा दग्धं भवति, तथा । प्रत्यगुद्गमाभिमुखम् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुहृद्-विनष्टिम् इति । यादवानां विनष्टिम् इत्य् एव ज्ञेयम् । नातिविलम्बाद् एवोद्धवेन मिलनात् ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रभासे सुहृदां कौरवाणां विनष्टिं विनाशम्, दुर्योधनादिषु सौहार्दाभावाद् अनतिविलम्बे एवोद्धव-मिलनाच् च सुहृदां यादवानाम् इति केचिद् व्याचक्षते । वनं यथा दग्धं भवतीत्य् अन्वयः । प्रत्यक् प्रतीचीं पश्चिम-वाहिनीम् इत्य् अर्थः ॥२१॥
———————————————————————————————————————
॥ ३.१.२२ ॥
तस्यां त्रितस्योशनसो मनोश् च
पृथोर् अथाग्नेर् असितस्य वायोः ।
तीर्थं सुदासस्य गवां गुहस्य
यच् छ्राद्ध-देवस्य स आसिषेवे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रितादीनाम् एकादश-तीर्थानि तत्-तन्-नाम्ना प्रसिद्धान्य् आसेवितवान् ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
॥ ३.१.२३ ॥
अन्यानि चेह द्विज-देव-देवैः
कृतानि नानायतनानि विष्णोः ।
प्रत्यङ्ग6-मुख्याङ्कित-मन्दिराणि
यद्-दर्शनात् कृष्णम् अनुस्मरन्ति ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रत्यङ्क-मुख्यो विष्णुः, ब्रह्मा प्रत्यङ्कवान् विष्णुः सम्यग्-लक्षणवत्तमः इति तन्त्र-मालायाम् ॥२३॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विज-देवैर् ऋषिभिर् देवैश् च कृतानि । अङ्गम् अङ्गं प्रति वर्तन्ते इति प्रत्यङ्गान्य् आयुधानि तेषु मुख्यं चक्रं तेनाङ्कितानि मूर्धन्य-हेम-कुम्भेषु चिह्नितानि मन्दिराणि, येषु तानि नाना-विधानि विष्णोर् आयतनानि क्षेत्राणि तीर्थानि चासिषेवे । येषां चक्राङ्कित-मन्दिर-वतां दर्शनाच् छ्री-कृष्ण-स्मरणं भवति ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्विज-देवैर् ऋषिभिर् देवैश् अङ्गम् अङ्गं प्रति वर्तन्ते इति प्रत्यङ्गान्य् आयुधानि। तेषु मुख्यं चक्रं तेनाङ्कितानि मन्दिराणि, येषु तानि ॥२३॥
———————————————————————————————————————
॥ ३.१.२४ ॥
ततस् त्व् अतिव्रज्य सुराष्ट्रम् ऋद्धं
सौवीर-मत्स्यान् कुरु-जाङ्गलांश् च ।
कालेन तावद् यमुनां उपेत्य
तत्रोद्धवं भागवतं ददर्श ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिव्रज्य अतिक्रम्य । यावद् उद्धवः प्राप्तः, तावत् स्वयम् अपि यमुनां उपेत्य ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावद् इति वाक्यालङ्कारे सम्भ्रमे वा ॥२४॥
———————————————————————————————————————
॥ ३.१.२५ ॥
स वासुदेवानुचरं प्रशान्तं
बृहस्पतेः प्राक्-तनयं7 प्रतीतम् ।
आलिङ्ग्य गाढं प्रणयेन भद्रं
स्वानाम् अपृच्छद् भगवत्-प्रजानाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स विदुरः । प्राक्-तनयं पूर्व-शिष्यं नीति-शास्त्रे । पाठान्तरे प्राप्तो नयो नीति-शास्त्रं येन तम् । प्रतीतं प्रख्यातम् । स्वानां ज्ञातीनां भद्रम् अपृच्छत् । प्रश्ने हेतुः—भगवतः प्रजानां पोष्याणाम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुहृद्-विनष्टेः श्रुतत्वेऽपि स्वानां भद्रम् अपृच्छद् इति । शोकावेश-स्वभावोऽयम् । स्वेषां परमात्मीयानाम् ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राक्-तनयं पूर्व-शिष्यं नीति-शास्त्रे । प्राप्त-नयम् इति वा पाठः । प्रतीतं ख्यातम्, तत्र विदुर-कर्तृकालिङ्गनेऽपि उद्धवस्य नमस्काराभावः प्रेम-मूर्च्छयैव ज्ञेयः ॥२५॥
———————————————————————————————————————
॥ ३.१.२६ ॥
कच्चित् पुराणौ पुरुषौ स्व-नाभ्य-
पाद्मानुवृत्त्येह किलावतीर्णौ ।
आसात उर्व्याः कुशलं विधाय
कृत-क्षणौ कुशलं शूर-गेहे ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
पद्मो ब्रह्मा समुद्दिष्टः पद्मा श्रीर् अपि चोच्यते इति ब्राह्मे ।
लोकानां सुख-कर्तृत्वम् अपेक्ष्य कुशलं विभोः ।
पृच्छ्यते सततानन्दात् कथं तस्यैव पृच्छ्यते ॥ इति पाद्मे ॥२६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं तावद् राम-कृष्णयोः कुशलं पृच्छति । कच्चिद् इति प्रश्ने । स्व-नाभौ भवः स्व-नाभ्यः पाद्मो ब्रह्मा, तस्य अनुवृत्त्या प्रार्थनयेह अवतीर्णौ कुशलम् आसाते वर्तते। कृत-क्षणौ दत्तावसरौ सर्वेषां कृतोत्सवाव् इति वा । तयोर् नित्य-कुशलत्वेऽप्य् उक्त-विशेषण-विशिष्टौ शूरसेनस्य गृहे कच्चिद् आसाते ? इति प्रश्नः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-नाभ्येति । स्वीयस्य गर्भोद-शायिनो नाभौ भवः स्व-नाभ्यः निज-शासनार्हणम् इतिवत् व्यख्यातम् । कुशलं लोकानां मङ्गलं यस्मात् तद् यथा स्यात् ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्-प्रकट-स्थित्यैव तत्-प्रजानां भद्रम् इति भगवत्-सुख-स्थितिं पृच्छति—कच्चिद् इति । प्रश्ने स्व-नाभौ भवः स्वनाभ्यः पाद्मो ब्रह्मा कृत-क्षणौ कृतोत्सवौ, तयोर् नित्य-कुशलिनोर् अपि कुशल-प्रश्नः प्रेम्णैव ज्ञेयः ॥२६॥
———————————————————————————————————————
॥ ३.१.२७ ॥
कच्चित् कुरूणां परमः सुहृन् नो
भामः स आस्ते सुखम् अङ्ग शौरिः ।
यो वै स्वसॄणां पितृवद् ददाति
वरान् वदान्यो वर-तर्पणेन ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : वर-तर्पणेन भर्तृ-तर्पणेन ॥२७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदूनां कुशलं पृच्छति नवभिः । भामः पूज्यः । शौरिर् वसुदेवः । यद् वा, भामो भगिनी-भर्ता । कुन्ती वसुदेवस्य भगिनी । अतो देवकी पाण्डोर् भगिनीति लोक-व्यवहारः। वरान् अर्थान् । वदान्योऽत्युदारः । वराणां तत्-पतीनां तर्पणेन सन्तर्पणेन सह ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भामो भगिनी-भर्ता, पौरवी रोहिण्योः पतित्वात् । स्वसॄणाम् इति कुन्ती-स्नेह-तात्पर्याद् उक्तम् ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भामो भगिनी-भर्ता । वसुदेव-भार्यायाः पौरव्या विदुरादीनां भगिनीत्वात् शौरिर् वसुदेवः । स्वसॄणाम् इति कुन्त्याः स्नेहातिशयो ध्वन्यते । अन्यासु स्वसृषु तथाभावादृष्टेः । वरान् अभीप्सितान् अर्थान् वराणां तत्-पतीनां तर्पणेन सन्तोषणेन सह ॥२७॥
———————————————————————————————————————
॥ ३.१.२८ ॥
कच्चिद् वरूथाधिपतिर् यदूनां
प्रद्युम्न आस्ते सुखम् अङ्ग वीरः ।
यं रुक्मिणी भगवतोऽभिलेभे
आराध्य विप्रान् स्मरम् आदि-सर्गे ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आधिर् मनो वरूथं च आत्मा स्वम् इति चोच्यते इत्य् अभिधाने ॥२८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : वरूथाधिपतिः सेनानीः । आदि-सर्गे पूर्व-जन्मनि स्मरं कामं सन्तम् अभिलेभे पुत्रं लब्धवती ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्मरं श्री-भगवद्-व्यूह-रूपम् । श्री-कृष्ण-सन्दर्भे8 तथा निर्णीय व्याख्यातत्वात् ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र प्रश्ने तेनातिवैक्लव्यात् क्रमो नानुसृतः । वरूथाधिपतिः सेनानीः । आदि-सर्गे पूर्व-जन्मनि स्मरं कन्दर्पम् इति कन्दर्पस्य देवत्वात् प्रद्युम्नस्य नरत्वात् तथा-भूतत्वे उत्कर्ष-द्योतना । वस्तुतः सिद्धान्ते तु कन्दर्पस् तद्-विभूति-विशेष एव । एवम् अग्रेऽपि तद्-अंश-विभूतयोऽपि सर्वत्र तल्-लीला-कथासु तादात्म्येनैवोच्यन्ते । यथा देवकी-वसुदेवाव् अपि पृश्नि-सुतपसाव् उक्तौ स्वयं भगवतैव—त्वम् एव पूर्व-सर्गेऽभूः पृश्निः स्वायम्भुवे सति [भा।पु। १०.३.३२] इत्य्-आदिना सर्वत्र नर-लीलता-पुष्ट्या चमत्कार एव कारणं ज्ञेयम्, यथात्रैव “आराध्य विप्रान्” इति, जाम्बवती व्रताढ्य [भा।पु। ३.१.३०] इति रुक्मिणी जाम्बवत्य्-आदीनां भगवत्-स्वरूप-शक्तीनाम् अपि तत्-तद्-अर्थे तत्-तत्-साधनम् अपि ॥२८॥
———————————————————————————————————————
॥ ३.१.२९ ॥
कच्चित् सुखं सात्वत-वृष्णि-भोज-
दाशार्हकाणाम् अधिपः स आस्ते ।
यम् अभ्यषिञ्चच् छतपत्र-नेत्रो
नृपासनाशां परिहृत्य दूरात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सात्वतादीनाम् अधिप उग्रसेनः । शतपत्र-नेत्रः श्री-कृष्णः । नृपासनाशां राज्याभिलाषं परिहृत्य प्राण-भयेन दूरात् स्थितम् इत्य् अर्थः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नृपासनाशां तद्-दिशम् अपि परिहृत्येत्य् अस्य । शतपत्र-नेत्र एव वा कर्ता ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधिप उग्रसेनः । यं उग्रसेनं नृपासनाशां राज्याभिलाषं परिहृत्य प्राण-भयेन दूरात् स्थितम् इत्य् अर्थः । शतपत्र-नेत्रः श्री-कृष्णः ॥२९॥
———————————————————————————————————————
॥ ३.१.३० ॥
कच्चिद् धरेः सौम्य सुतः सदृक्ष
आस्तेऽग्रणी रथिनां साधु साम्बः ।
असूत यं जाम्बवती व्रताढ्या
देवं गुहं योऽम्बिकया धृतोऽग्रे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे साउम्य । हरेः सुतस् तेन सदृक्षः सदृशः साधु सुखम् आस्ते । गुहं स्वामि-कार्तिकेयम् । अग्रे पूर्व-जन्मनि यो भवान्या गर्भे धृतस् तम् ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : साम्बस्य गुहत्वं प्रद्युम्नवद् एव ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदृक्षः सदृशः । गुहं कार्तिकेयम् । अंशांशिनोर् ऐक्यात् रुद्रस्य भगवद्-अंशत्वात् तत्-पुत्रस्य कार्त्तिकेयस्यापि भगवत्-पुत्रांशत्वं युक्त्या ज्ञेयम् । यद् वा, परावरेशो महद्-अंश-युक्त इत्य्-आदि वक्ष्यमाण-युक्त्या अवतार-काले श्री-कृष्णे नारायण-प्रवेशे सति नारायण एव वसुदेव-गृहेऽवतीर्ण इति प्रतीतिर् इव साम्बे गुह-प्रवेशात् प्रद्युम्ने काम-प्रवेशात् उद्धवादिष्व् अपि वस्व्-आदेः प्रवेशात् तथा तथोक्तिर् नानुपपन्ना ॥३०॥
———————————————————————————————————————
॥ ३.१.३१ ॥
क्षेमं स कच्चिद् युयुधान आस्ते
यः फाल्गुनाल् लब्ध-धनू-रहस्यः ।
लेभेऽञ्जसाधोक्षज-सेवयैव
गतिं तदीयां यतिभिर् दुरापाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युयुधानः सात्यकिः । क्षेमं कुशलम् आस्ते । फाल्गुनाद् अर्जुनाल् लब्धं धनुषो रहस्यं येन । तदीयाम् अधोक्षज-सम्बन्धिनीम् ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तदीयां गतिं परमान्तरङ्गाम् ॥३१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युयुधानः सात्यकिः । फाल्गुनाद् अर्जुनात् ॥३१॥
———————————————————————————————————————
॥ ३.१.३२ ॥
कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते
श्वफल्क-पुत्रो भगवत्-प्रपन्नः ।
यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व्
अचेष्टत प्रेम-विभिन्न-धैर्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्वफल्क-पुत्रोऽक्रूरः । बुधो विद्वान् । अतो भगवन्तं प्रपन्नोऽनुसृतः । अत एव अनमीवो निष्पापः, भक्तौ लिङ्गम् । योऽचेष्टत व्यलुठत् । प्रेम्णा विभिन्नं विदीर्णं धैर्यं यस्य सः । स्वस्ति क्षेमम् आस्ते ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अक्रूरस्य सर्वदा परम-भक्तिमत्त्वेऽपि यः कृष्णेति काल-देशादि-वैशिष्ट्येन चमत्कारित्वाद् युक्तम् ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनमीवो निष्पापः श्वफल्क-पुत्रोऽक्रूरोऽचेष्टत नन्द-ग्राम-प्रवेशे व्यलुठत् ॥३२॥
———————————————————————————————————————
॥ ३.१.३३ ॥
कच्चिच् छिवं देवक-भोज-पुत्र्या
विष्णु-प्रजाया इव देव-मातुः ।
या वै स्व-गर्भेण दधार देवं
त्रयी यथा यज्ञ-वितानम् अर्थम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवक-नामा यो भोजस् तस्य पुत्र्या देवक्याः । विष्णुः प्रजा पुत्रो यस्यास् तस्याः देव-मातुर् अदितेर् इव । कच्चिच् छिवम् । यज्ञ-वितान-रूपम् अर्थं त्रयी यथा प्रकाशकतया बिभर्ति तथा दधार ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : देव-मातुर् इवेति दृष्टान्तत्वं तद्-इतराभावेन ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवक-नामा यो भोजस् तस्य पुत्र्या देवक्याः । विष्णुः प्रजा अपत्यं यस्यास् तस्याः देव-मातुर् अदितेर् इव ॥३३॥
———————————————————————————————————————
॥ ३.१.३४ ॥
अपिस्विद् आस्ते भगवान् सुखं वो
यः सात्वतां काम-दुघोऽनिरुद्धः ।
यम् आमनन्ति स्म हि शब्द-योनिं
मनो-मयं सत्त्व-तुरीय-तत्त्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सात्वतानां उपासकानां कामान् दोग्धि पूरयतीति काम-दुघः । भगवत्त्वे हेतुः—यं शब्दस्य शास्त्रस्य योनिं कारणम् आमनन्ति वेदाः । कुतः ? मनो-मयं मनसः प्रवर्तकम् । तत् कुतः ? सत्त्वस्यान्तः-करणस्य चतुर्-विधस्य तुरीयं तत्त्वं चतुर्थम् अधिदैवम् । चित्ताहङ्कार-बुद्धि-मनसाम् अन्तः-करण-भेदानां क्रमेण वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धा ह्य् अधिष्ठातारः । मनसश् च शब्द-योनित्वं प्रसिद्धम्—मनः पूर्व-रूपम् । वाग् उत्तर-रूपम् इति । तथा अन्योऽन्तर आत्मा मनो-मयःइति प्रस्तुत्य तस्य यजुर् एव शिरः । ऋग् दक्षिणः पक्षः । सामोत्तरः पक्षः[तै।उ। २.१] इत्य्-आदि-श्रुतेः । तथा च शिक्षायां—
आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्तेवि वक्षया ।
मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् ।
मारुतस् तूरसि चरन् मन्द्रं जनयति स्वरम् ॥ इत्य्-आदि ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् अनिरुद्धस्यापि साक्षाच्-चतुर्व्यूहत्वे लिङ्गम् आह—अपि स्विद् इति । शब्द-योनिं निश्वास-व्यञ्जित-वेद-वृन्दम् । एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः [बृ।आ।उ। २.४.१०] इत्य्-आदि-श्रुतेः । मनो-मयं चित्ते वासुदेववन् मनस्य् उपास्यम् । सत्त्वं शुद्ध-सत्त्वात्मकः श्री-वासुदेवादि-रूपो भगवान् तत्र तुरीयं रूपम् । अतो बाण-युद्धादौ बन्धनानुकरणादिकम् आत्मेच्छा-मयी लीलैव, श्री-रामचन्द्रादिवत् । अस्य पाद्म-बृहत्-सहस्र-नाम्नि माहात्म्य-नामानि चैतानि—
अनिरुद्धो बृहद्-ब्रह्म प्राद्युम्निर्9 विश्व-मोहनः ।
चतुर्-आत्मा चतुर्-वर्णश् चतुर्-युग-विधायकः ॥
चतुर्-भेदैक-विश्वात्मा सर्वोत्कृष्टांश-कोटि-सूः ।
आश्रयात्मा——————————————————————————————————————— ॥ इति ।
अतः श्री-कृष्ण-व्यूहत्वेन महानिरुद्धत्वाद् अस्यैवाविर्भाव-विशेषः प्रलयार्णवादि-धामा पुरुष इति ज्ञेयम् । अत एवाभेदेन जगृहे पौरुषं रूपं भगवान् [भा।पु। १.३.१] इत्य्-आद्य्-उक्तं मूल-सङ्कर्षणाद्य्-अंशैर् एव हीतर-सङ्कर्षणाद्य्-अवस्था-त्रयं पुरुषं प्रकाशयतीति । तथैवाभेदेन विष्णु-धर्मोत्तरेऽपीदं उक्तम् । तत्र श्री-वज्र-प्रश्नः—
कस् त्व् असौ बाल-रूपेण कल्पान्तेषु पुनः पुनः ।
दृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥
श्री-मार्कण्डेयोत्तरं च—
भूयो भूयस् त्व् असौ दृष्टो मया देवो जगत्-पतिः ।
कल्प-क्षयेण विज्ञातः स माया-मोहितेन वै ॥
कल्प-क्षये व्यतीते तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥ इति । [१.७९.१-३]
भीष्म-पर्वणि दुर्योधनं प्रति भीष्म-शिक्षायां श्री-कृष्णस्यावतारारम्भे गन्ध-मादनम् आगतस्य ब्रह्मणस् तद्-आविर्भावं मनसि पश्यतस् तु बालस्य तद् इदं वचनम्—
सृष्ट्वा सङ्कर्षणं देवं स्वयम् आत्मानम् आत्मना ।
कृष्ण त्वम् आत्मनास्राक्षीः प्रद्युम्नं चात्म-सम्भवम् ॥
प्रद्युम्नाच् चानिरुद्धं त्वं यं विदुर् विष्णुम् अव्ययम् ।
अनिरुद्धोऽसृजन् मां वै ब्रह्माणं लोक-धारिणम् ॥
वासुदेव-मयः सोऽहं त्वयैवास्मि विनिर्मितः ॥ [म।भा। ६.६१.६५-६७]
अत एव च पूर्वम् अपि च जगृहे पौरुषं रूपं [भा।पु। १.३.१] इत्य् अत्र श्री-कृष्णस्य अनिरुद्धावतारान्तः-पातित्वं न व्याख्यातम्। अत एव विशेषः कृष्ण-सन्दर्भेऽस्ति ॥३४॥ [श्री-कृष्ण-सन्दर्भ ८९]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सात्वतानां यादव-विशेषाणां भाव्करण् वा । शब्द-योनिं निश्वास-व्यञ्जित-वेद-वृन्दं—एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः [बृ।आ।उ। २.४.१०] इत्य्-आदि-श्रुतेः । मनो मयते इति मनो-मयं मनसः प्रवर्तकम् । तथा सत्त्वस्य शुद्ध-सत्त्व-रूपस्य चतुर्-व्यूहस्य तुरीयं चतुर्थं तत्त्वं तद् अप्य् अस्य बाण-युद्धादौ बन्धनादिकम् अचिन्त्यात्मेच्छा-मयी लीलैव, श्री-रामचन्द्रादिवत् । अत्रास्य चतुर्व्यूहत्वे प्रमाणं विष्णु-धर्मोत्तरे वज्र-प्रश्ने मार्कण्डेयोत्तरं, यथा—
भूयो भूयस् त्व् असौ दृष्टो मया देवो जगत्-पतिः ।
कल्प-क्षयेण विज्ञातः स माया-मोहितेन वै ॥
कल्प-क्षये व्यतीते तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥ [१.७९.१-३] इति ।
भीष्म-पर्वणि दुर्योधनं प्रति भीष्म-शिक्षायां श्री-कृष्णस्यावतारारम्भे गन्ध-मादनम् आगतस्य ब्रह्मणस् तद्-आविर्भावं मनसि पश्यतः स्तुवानस्य तद् इदं ब्रह्म-वचनम्—
सृष्ट्वा सङ्कर्षणं देवं स्वयम् आत्मानम् आत्मना ।
कृष्ण त्वम् आत्मनास्राक्षीः प्रद्युम्नं चात्म-सम्भवम् ॥
प्रद्युम्नाच् चानिरुद्धं त्वं यं विदुर् विष्णुम् अव्ययम् ।
अनिरुद्धोऽसृजन् मां वै ब्रह्माणं लोक-धारिणम् ॥
वासुदेव-मयः सोऽहं त्वयैवास्मि विनिर्मितः ॥ [म।भा। ६.६१.६५-६७] इति ॥३४॥
———————————————————————————————————————
॥ ३.१.३५ ॥
अपिस्विद् अन्ये च निजात्म-दैवम्
अनन्य-वृत्त्या समनुव्रता ये ।
हृदीक-सत्यात्मज-चारुदेष्ण-
गदादयः स्वस्ति चरन्ति सौम्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि स्वित् किं स्वित् । अन्ये च स्वस्ति चरन्ति । निजस्य देहादि-व्यतिरिक्तस्यात्मनो दैवं श्री-कृष्णम् अनन्य-वृत्त्यैकान्त-भक्ति-भवेन ये सम्यग् अनुव्रताः अनुसृताः । हृदीकश् च सत्यभामाया आत्मजश् च चारुदेष्णश् च गदश् चादिर् येषां तेऽपि ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : निजस्य आत्मीयस्य आत्मनश् च दैवं श्री-कृष्णम् ॥३५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निजस्यात्मनो दैवं मूर्तं भाग्यम् इव श्री-कृष्णं सम्यग् अनुव्रताः अनुसृताः ॥३५॥
———————————————————————————————————————
॥ ३.१.३६ ॥
अपि स्व-दोर्भ्यां विजयाच्युताभ्यां
धर्मेण धर्मः परिपाति सेतुम् ।
दुर्योधनोऽतप्यत यत्-सभायां
साम्राज्य-लक्ष्म्या विजयानुवृत्त्या ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं कुरून् पृच्छति षड्भिः । अपि किम् । स्व-दोर्भ्यां स्व-बाहुवद् वर्तमानाभ्यां विजयाच्युताभ्याम् अर्जुन-कृष्णाभ्यां धर्म-मार्गेण धर्मो युधिष्ठिरः सेतुं धर्म-मर्यादां परिपाति । यस्य सभायां विजयानुवृत्त्या जय-परम्परया, अर्जुनस्य सेवयेति वा । एवं-भूतं यस्यैश्वर्यम् इत्य् अर्थः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अपि स्वदोर्भ्याम् इत्य्-आदिकं श्री-भगवद्-अन्तर्धानेन तेषां प्राकट्यासम्भवात् ॥३६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं कुरून् पृच्छति षड्भिः । अपि किम् । दोस्-तुल्याभ्याम् अर्जुन-कृष्णाभ्यां धर्मो युधिष्ठिरः सेतुं धर्म-मर्यादां सम्राज्यं सम्पत्त्या कीदृश्या विजयस्य सर्वोत्कर्षस्य अनुवृत्तिर् यस्यां तया ॥३६॥
———————————————————————————————————————
॥ ३.१.३७ ॥
किं वा कृताघेष्व् अघम् अत्यमर्षी
भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् ।
यस्याङ्घ्रि-पातं रण-भूर् न सेहे
मार्गं गदायाश् चरतो विचित्रम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अघं व्यमुञ्चत् पुनर् अपराध-बुद्धिं हित्वा आस्ते ॥३७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृताघेषु कृतापराधेषु कुरुषु स्व-कर्तृकम् अघं दीर्घतमं बहु-कालानुचिन्तितम् अहिवद् अत्यमर्षी भीमः किं व्यमुञ्चन् नो वा ? गदाया विचित्रं विविधं मार्गं चरतः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अघं क्रोधजं व्यसनम् । अंहो दुःख-व्यसनेष्व् अघम् इत्य् अमरः यस्याङ्घ्रीत्य् अनुमानेनैवोक्तम् ॥३७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृताघेषु कुरुषु स्व-कर्तृकम् अघं विषम् इव वध-हेतुं बहु-कालानुचिन्तितं किं व्यमुञ्चन् नो वा ? ॥३७॥
———————————————————————————————————————
॥ ३.१.३८ ॥
कच्चिद् यशोधा रथ-यूथपानां
गाण्डीव-धन्वोपरतारिर् आस्ते ।
अलक्षितो यच्-छर-कूट-गूढो
माया-किरातो गिरिशस् तुतोष ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रथ-यूथपानां मध्ये यशो-धाः कीर्ति-धारी । यद् वा, स्वीयानां तेषां कीर्ति-प्रदः उपरता अरयो यस्मात् । यस्य शर-कूटेन बाण-समूहेन गूढ आच्छन्नः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रथ-यूथपानां मध्ये यशो-धाः कीर्ति-धारी उपरतिर् विनष्ट-शत्रुः सन्न् आस्ते यच् छर-समूहेन गूढ आच्छन्नः ॥३८॥
———————————————————————————————————————
॥ ३.१.३९ ॥
यमाव् उतस्वित् तनयौ पृथायाः
पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव ।
रेमात उद्दाय मृधे स्व-रिक्थं
परात् सुपर्णाव् इव वज्रि-वक्त्रात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत स्वित् किं स्वित् । यमौ नकुल-सहदेवौ । रेमाते क्रीडाते इत्य् अर्थः । माद्र्याः सुताव् अपि पृथायास् तनयौ पृथायाः पुत्रैर् वृतौ सुपर्णाव् इव रेमाते । किं कृत्वा ? परात् दुर्योधनात् स्व-रिक्थं स्वीयं राज्यं उद्दाय आच्छिद्य । वज्रि-वक्त्राद् इन्द्रस्य मुखात् स्व-रिक्थम् अमृतं गरुड इवेति । यद् वा, सुपर्णाव् इव इति । यदि द्वौ गरुडाव् अमृतम् आनयेतां तर्हि तद्वत् । अक्षिणीव इति मणीवादि-गणत्वात् सन्धिः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : उद्दाय इत्यस्य कर्तारः पार्थाः एव वा । तथा हि यौ पार्थैर् वृत्तौ पाल्यमानौ सन्तौ स्वच्छन्द-विहारित्वेन सुपर्णाव् इव रेमाते । किं कृत्वा ? वृत्तौ परात् स्व-रिक्थं उद्द्आय । कस्माद् इव ? वज्रिणो व्रज्र-हस्तस्य मुखाद् इवेत्य् अभूतोपमा । “उद्दाय” इत्य् अत्र “उद्धृत्य” इति पुण्यारण्य-पाठान्तरम् ॥३९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यमौ नकुल-सहदेवौ माद्र्याः सुताव् अपि पृथाया एवपक्ष्मभी रक्षिते अक्षिणी इव पार्थैर् वृतौ । अक्षिणीवेति मणीवादिः । परात् शत्रोर् दुर्योधनात् सकाशात् मृधे युद्धे स्व-रिक्थं राज्यं उद्दायआच्छिद्य रेमाते । कस्मात् ? किम् आच्छिद्य ? काव् इव ? वज्रि-वक्त्राद् इन्द्रस्य मुखात् रिक्थम् अमृतम् आच्छिद्य द्वौ सुपर्णाव् इव । उद्दायेत्य् अस्य कर्तार एव पार्थो एव वा । तथा हि—पार्थैर् वृतौ पाल्यमानौ रेमाते । किं कृत्वा ? वृतौ परात् स्व-रिक्थम् आदाय कस्माद् इव वज्रिणो वज्र-हस्तस्य मुखाद् इव । सुपर्णाव् इवेत्य् अभूतोपमेयम् ॥३९॥
———————————————————————————————————————
॥ ३.१.४० ॥
अहो पृथापि ध्रियतेऽर्भकार्थे
राजर्षि-वर्येण विनापि तेन ।
यस् त्व् एक-वीरोऽधिरथो विजिग्ये
धनुर् द्वितीयः ककुभश् चतस्रः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथायाः किं नु कुशलं पृच्छेयम्, यतस् तस्याः पाण्डुना विना प्राण-धारणम् एवाश्चर्यम् इत्य् आह—अहो इति । ध्रियते जीवति । न चात्याश्चर्यम् । यतोऽर्भकार्थे ध्रियते न भोगार्थम् । तथापि त्वाश्चर्यम् एवेत्य् आह—तेन तथा-भूतेन विना । तद् एवाह—यस् त्व् इति । धनुर् एव द्वितीयं सहायो यस्य ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वान् एव तान् युगपत् पृच्छन् कुन्तीम् अपि शोचति—अहो इति । तेषाम् अपि परम-सद्-गुणानाम् अर्भकाणाम् अर्थे इत्य् अर्थः । ततश् च तेषाम् एव कुशलेन, तस्याश् च कुशलं स्याद् इति तद् एव वदेति भावः ॥४०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो आश्चर्यम् अत्र कुशल-प्रश्ने मया पृथापि ध्रियते इति तस्या अपि कुशलं ब्रूहीति भावः । ननु किम् एवं ब्रूषे ? तत्राह—राजर्षि-वर्येण पाण्डुना स्व-पतिना विनापि अर्भकार्थे युधिष्ठिरादि-बालक-पालनार्थम् एव स्थिता यदि युधिष्ठिरादयोऽर्भका नाभविष्यंस् तदा सा अमरिष्यद् एवेति भावः । यः पाण्डुर् एको निःसहाय एव वीरो धनुर् एव द्वितीयं यस्य सः ॥४०॥
———————————————————————————————————————
॥ ३.१.४१ ॥
सौम्यानुशोचे तम् अधः-पतन्तं
भ्रात्रे परेताय विदुद्रुहे यः ।
निर्यापितो येन सुहृत् स्व-पुर्या
अहं स्व-पुत्रान् समनुव्रतेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथा अर्भकार्थे जीवतीति युक्तम् एवेत्य् आह—हे सौम्य, तं धृतराष्ट्रं जिवन् तम् अनुशोचामि । तत् किं ? अधः-पतन्तम् । तत्र हेतुः, परेताय मृताय भ्रात्रे पाण्डवे तत्-पुत्र-द्रोहेण यो विदुद्रुहे द्रोहं कृतवान् । किं च, जीवतोऽपि भ्रातुर् ममापकृतवान् इत्य् आह—येन सुहृद् भ्राताहं स्व-पुर्याः सकाशान् निर्यापितो विवासितः ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् अजीवन्तं पाण्डुं न शोचामि सद्-गत्य्-अर्हत्वात्, धृतराष्ट्रं तु जीवन्तम् अपि तद्-वैपरीत्याच् छोचाम्य् एवेत्य् आह—सोम्येति ॥४१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धृतराष्ट्रस्यान्धस्य तु कुशलं नैव पृच्छामि, किन्तु तम् अधः-पतन्तम् अनुशोचे—हे सौम्य उद्धव ! यः परेताय मृतायापि भ्रात्रे तत्-पुत्र-द्रोहेण विदुद्रुहे द्रोहं कृतवान् मह्यम् अपरस्मै भ्रात्रे जीवतेऽपि विदुद्रुहे इत्य् आह—निर्यापित इति सुहृत् तस्य हित-कार्य् अपि ॥४१॥
———————————————————————————————————————
॥ ३.१.४२ ॥
सोऽहं हरेर् मर्त्य-विडम्बनेन
दृशो नृणां चालयतो विधातुः ।
नान्योपलक्ष्यः पदवीं प्रसादाच्
चरामि पश्यन् गत-विस्मयोऽत्र ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो स्वलु विस्मयो जानतोऽपि तस्यैवं दुश्चेष्टितं, यतस् त्वं साधुर् अपि दुःखं प्रापितोऽसीत्य् अत आह—सोऽहं हरेः प्रसादात् तस्य पदवीं माहात्म्यं पश्यन् गत-विस्मयोऽत्र भूतले नान्योपलक्ष्यो गूढः सन् सुखं विचरामि । कथं-भूतस्य ? मर्त्य-विडम्बनेनैश्वर्याच् छादकेन मानुष्यानुकरणेन नृणां दृशश् चित्त-वृत्तीश् चालयतो भ्रामयतः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अहं तु तत्-सङ्ग्य् अपि भगवत्-प्रसादान्न तादृशाज्ञानवान् । अतस् तत्-सङ्गं त्यक्त्वा तद्-वार्ता-श्रवणेऽपि निर्विण्णः सन् लोकेष्व् आत्मानं गोपयंश् चरामीत्य् आह सोऽहम् इति । गत-विस्मयः गत-सन्देहः । अथ विदुरस्य श्री-कृष्णे परम-परायणस्यापि व्यवहार-मात्र-दृष्ट्या श्री-कृष्ण-परित्यागेन यावज्-जीवं दूर-गमनम् इदं श्री-कृष्णेनैव कारितम् इति लक्ष्यते तच् च धृतराष्ट्रादि-व्यवहारावेश-परित्याजनाय स्वैक-मात्र-वेशाय च पश्चात्-तापं सम्पादयितुम् इति । अतः पूर्वं यो विदुराभिप्रायो व्याख्यातः सोऽपि तद्-इच्छयैव जात इति ज्ञेयम् ॥४२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, मयि तस्य द्रोहो न ममापकारकोऽभूत्, प्रत्युत परमोपकारक एवाभूद् इत्य् आह—सोऽहम् इति । मर्त्यानां धृतराष्ट्रादीनां स्व-प्रसादालम्भनाद् विडम्बनेन वञ्चनेन नृणां तत्-सदृशानाम् अन्येषाम् अपि प्राकृतानां दृशोर् बुद्धि-वृत्तीश् चालयतो भ्रमयतो हरेः प्रसादात् तत्-पदवीं, तस्य चरण-विन्यास-वर्त्म चरणौ च पश्यन्, भक्त-वत्सलस्य भगवतः कियद् एतद् आश्चर्यं ? इति गत-विस्मयः क्वाप्य् एतद्-रहस्यानुद्घाटनाद् अनेनोपलक्ष्यः सन् अत्र तीर्थेष्व् एव चरामि । अत्र दुर्योधन-निःसारितस्य खेद-समुद्रे निमज्जितो विदुरस्य प्रत्यक्षीभूय भगवता तस्मिन्न् एव काले एवं उक्तं—भो मत्-परम-भक्त विदुर ! मद्-विरहम् अनुस्मृत्य किम् इत्य् एवं खिद्यसे? यत्र यत्र त्वं यियाससि, तत्र तत्रैव तीर्थे तद्-अग्रे चलन्तं त्वया सह कृत-संवादम् एव मां पश्यन्न् एव यास्यसीति भगवद्-वरोऽनुमीयते, अत एव दुर्योधन-वधानन्तरम् अपि युधिष्ठिर-राज्य-प्राप्ताव् अपि भगवद्-दर्शनानन्द-निर्वृतेनैव विदुरेण नायातम्, अन्यथा अवश्यम् आयास्यतैव । किं च, मौषल-लीलान्तेऽन्तर्दधता भगवता विदुर-नेत्राद् अप्य् अन्तर्हितम् । अत एव तद्-अवधि उद्धव-दर्शन-पर्यन्तं विदुरस्य वैकल्यम् ॥४२॥
———————————————————————————————————————
॥ ३.१.४३ ॥
नूनं नृपाणां त्रि-मदोत्पथानां
महीं मुहुश् चालयतां चमूभिः ।
वधात् प्रपन्नार्ति-जिहीर्षयेशो\ऽप्य्
उपैक्षताघं भगवान् कुरूणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु हरेः किम् एवं लीलया, येन स्व-भक्तानां वन-वासादि-क्लेशा भवन्ति, स्वस्य च दौत्ये बन्धनोद्यमादि-पराभवः, तद् वरं तेषाम् अपराधानन्तरम् एव हननं नापराधोपेक्षेत्य् अत आह—नूनं निश्चितं त्रिभिर् मदैर् उत्पथानां उद्वृत्तानां वधाद् धेतोः प्रपन्नानाम् आर्ति-जिहीर्षयेशोऽघ-समय एव हन्तुं समर्थोऽपि कुरूणाम् अघं उपैक्षत । तदानीम् एव तेषां वधे सर्व-दुष्ट-राज-वधो न स्याद् इत्य् आशयेनेत्य् अर्थः ।
विद्या-मदो धन-मदस् तथैवाभिजनो मदः ।
एते मदा मदान्धानां त एव हि सतां दमाः ॥ इति त्रयो मदाः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भगवतः किम् एवं लीलाया येन स्व-भक्तानां वन-वासादि-क्लेशो भवन्ति । स्वस्य च दौत्ये बन्धनोद्यमादि-पराभवः तद्-उत्तरं तेषाम् अपराधानन्तरम् एव हननं नापराधोपेक्षेत्य् अत आह—नूनम् इति । त्रिभिर् मदैर् उत्पथानाम् असद्-वृत्तानां वधाद् एव प्रपन्नानाम् आर्ति-जिहीर्षया ईशः अघ-समये हन्तुं समर्थोऽपि कुरूणाम् अघं उपैक्षत । तदानीम् एव तेषां वधे सर्व-दुष्ट-राजन्य-वधो न स्याद् इत्य् आशयेनेत्य् अर्थः ।
विद्या-मदो धन-मदस् तथैवाभिजनो मदः ।
एते मदा मदान्धानां त एव हि सतां दमाः ॥ इति त्रयो मदाः ॥४३॥
———————————————————————————————————————
॥ ३.१.४४ ॥
अजस्य जन्मोत्पथ-नाशनाय
कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् ।
नन्व् अन्यथा कोऽर्हति देह-योगं
परो गुणानामुत कर्म-तन्त्रम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : न देह-योगो हि जनिर् विष्णोर् व्यक्तिर् जनिः स्मृता इत्य् आग्नेये । हरिः कर्ताप्य् अकर्तेति फलाभावेन भण्यते इति ॥४४॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-दुर्वृत्त-वधाद्य्-अर्थम् एव भगवतो जन्म-कर्माणि नान्यथेति कैमुत्य-न्यायेनाह—अजस्यापि जन्म, अकर्तुर् अपि कर्माणि**,** पुंसां ग्रहणाय कर्मसु प्रवृत्तये । अन्यथा न चेद् एव, तर्हि भगवतो जन्मादि-कथा तावद् आस्ताम् । को वान्योऽपि गुणानां परो गुणातीतो देह-योगं कर्म-विस्तारं वाऽर्हतीति ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अजस्य जन्मेत्य् आविर्भाव-मात्रं तद् इत्य् अर्थः । अकर्तुः कर्माणीति स्वैर-लीला इत्य् अर्थः । पुंसां सर्वेषां ग्रहणाय स्वस्मिन् मनस आकर्षणाय । यथोक्तं पञ्चमे—यल्-लीलां मृग-पतिर् आददेऽनवद्याम् आदातुं स्व-जन-मनांस्य् उदार-वीर्य[भा।पु। ५.२५.१०] इति । अतो देह-योगम् इति पितृत्वेन स्वीय-क्रियमाणानां देहेष्व् आविर्भाव-मात्रम् इत्य् अर्थः । गुणानां परः कः पार्षदादिर् अपि ॥४४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु चिद्-घनानन्द-रूपस्य भगवतः किम् एवं प्राकृत-लोक-भद्राभद्र-मध्य-वर्तित्वेन ? सत्यम् । स्व-भक्तेषु वात्सल्यम् अन्यत्र सर्वत्रापि हितैषित्वम् इति द्वाव् एव तत्र हेतुः इत्य् आह—अजस्य जीववन् मायाधीनतया जन्मादि-विकार-रहितस्यापि जन्म योग-मायया भक्त-प्रेमाधीनतया जन्मादि-विलासवत्त्वम्उत्पथ्आनां सन्-मार्ग-च्छिद्यम् असुराणां नाशनाय स्व-कर्तृक-नाशनेन तेषां मोक्ष-दानाय, अकर्तुः नास्य कर्मणि जन्मादाव् इत्य्-उक्त-दिशा सत्त्वादि-गुण-निबन्धन-कर्तृत्व-रहितस्यापि कर्माणि चिद्-आनन्द-मयानि गोवर्धनोद्धरणादीनि । पुंसां स्व-भक्तानां सर्वत्र स्वर्ग-मोक्षादि-सुखेष्व् अपि विरक्तानां ग्रहणाय आस्वादनीयत्वेन स्वीकाराय ।
यद् वा, पुंसां मुक्त-मुमुक्षु-सांसारिकाणां जीवानां ग्रहणाय स्वस्मिन्न् आकर्षणाय निवृत्त-तर्षैर् उपगीयमानाद्[भा।पु। १०.१.४] इत्य्-आदेः । न त्व् अन्यथा जीवानां स्व-कर्माधीनम् एव यथा जन्म कर्म न तथा इत्य् अर्थः । कर्माधीन-जन्म-कर्मवत्त्वे देहेनापि तस्य सम्बन्धः कर्माधीन एव स्यात् । स च देह-योगो गुणातीत-भक्ति-सिद्ध-जीवस्यापि नास्ति किं पुनः साक्षात् परमेश्वरस्य तस्येत्य् आह—गुणानां परः गुणेभ्यः पृथग्-भूतः सन्न् अपि कः खलु जीवोऽपि कर्म-तन्त्रं कर्माधीनं देह-योगम् अर्हति, अपि तु न कोऽपि । अत्र कर्म-तन्त्रं देह-योगं नार्हतीत्य् उक्ते अकर्म-तन्त्रं देह-योगम् अर्हतीत्य् अर्थो लभ्यते । तस्य परमेश्वरस्य तु मायया सहयोगासम्भवात् तद्-देहस्य चिद्-आनन्द-घनत्वं स्वत एवायातम् ॥४४॥
———————————————————————————————————————
॥ ३.१.४५ ॥
तस्य प्रपन्नाखिल-लोकपानाम्
अवस्थितानाम् अनुशासने स्वे ।
अर्थाय जातस्य यदुष्व् अजस्य
वार्तां सखे कीर्तय तीर्थ-कीर्तेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् एवं-भूताचिन्त्य-माया-विनोदस्य कथां कथयेत्य् आह—तस्य प्रपन्ना येऽस्विल-लोक-पालास् तेषाम् अन्येषां च स्वीयेऽनुशासने स्थितानाम् अर्थाय यदुषु जातस्य । तीर्थं संसार-तारिणी कीर्तिर् यस्येति ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : हन्त हन्त सा दुर्वार्ता मया प्रभासे श्रुतैव तदाप्य् उत्तरम् अददानेऽपि त्वयि प्रत्यवयवं यत् स्पृष्टं तत् खलु विलपितम् एव । तस्माज् जन्मादि-लीलाम् एव तद्-विस्मरणाय श्रोतुम् इच्छामीत्य् आह—तस्येति ॥४५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तस्य चिद्-घनानन्द-रूपाणि जन्म-कर्माण्य् एव कथयेत्य् आशयेनाह—तस्य प्रपन्ना येऽखिल-लोक-पालास् तेषाम् अन्येषां च स्वीये अनुशासने स्थितानाम् अर्थाय प्रयोजनाय । तीर्थं परम-पावनी संसार-तारिणी च कीर्तिर् यस्य तस्य । सर्वेषु तीर्थेषु प्रायः कृत-मज्जन एवास्मि । सम्प्रति त्वं तेषां साफल्यं उपादाय कृष्णस्य कीर्ति-तीर्थामृते मां निमज्जयेति भावः ॥४५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
तृतीये प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां
तृतीय-स्कन्धे विदुरोद्धव-संवादे
प्रथमोऽध्यायः ।
॥३.१॥
———————————————————————————————————————
(३.२)
-
श्री-श्री-राधा-कृष्णाभ्यां नमः (ख), श्री-कृष्णाय नमः (घ)। ↩︎
-
“पुत्रम्॥।वा” इति क्वाचित्कः पाठः । ↩︎
-
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ↩︎
-
श्मशान इति पाठान्तरः। ↩︎
-
स्मयद् इति पाठान्तरः। ↩︎
-
प्रत्यङ्क- इति मध्व-पाठः। ↩︎
-
प्राप्त-नयम् इति वा पाठः। ↩︎
-
८७-८८-अनुच्छेदयोः। ↩︎
-
प्राद्युम्निर् इति पाठान्तरः क-पुस्तके। ↩︎