१० इन्द्रियाद्य्-उत्पत्तिः

विषयः

पुराण-लक्षणानि, विराट्-पुरुष-विग्रहे इन्द्रिय-तद्-अधिष्ठातृ-देवानाम् उत्पत्तिश् च ।

॥ २.१०.१ ॥

श्री-शुक उवाच—

अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः ।

मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :


ततो भागवत-व्याख्या-द्वारैव दशमे स्फुटम् ।

राज-प्रश्नोत्तरं वक्तुम् आरेभे बादरायणिः ॥१॥

दश-लक्षणं पुराणं प्राहेत्य् उक्तम् । तानि दश लक्षानि दर्शयति—अत्रेति । मन्वन्तराणि ईशानुकथाश् चेति द्वन्द्वः । सर्गादयोऽत्र दशार्था लक्ष्यन्ते ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततो राजप्रश्नानन्तरम् १ अत्र श्रीमद्-भागवते ॥१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एव ह्य् आश्रय-संज्ञं महा-पुराण-लक्षण-रूपैः सर्गादिभिर् अर्थैः समष्ट्-निर्देश-द्वारापि लक्ष्यत इत्य् अत्राह द्वाभ्याम्—अत्र सर्गो विसर्गश् चेति । मन्वन्तराणि चेशानुकथाश् च मन्वन्तरेशानुकथाः । अत्र सर्गादयो दशार्था लक्ष्यन्त इत्य् अर्थः ॥१॥ [तत्त्व-सन्दर्भः ५६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **

अत्र सर्ग-विसर्गादि-दशार्थाः सुष्ठु लक्षिताः ।

अध्यात्मादि-विभागश् च दशमे सम्यग् ईरितः ॥

पूर्वाध्यायान्ते दश-लक्षणं पुराणं प्राहेत्य् उक्तम् । तानि दश लक्षानि दर्शयति—अत्रेति । मन्वन्तराणि ईशानुकथाश् चेति द्वन्द्वः ॥१॥

———————————————————————————————————————

॥ २.१०.२ ॥

दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह लक्षणम् ।

वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् एवम् अर्थ-भेदाच् छास्त्र-भेदः स्यात् ? तत्राह । दशमस्याश्रयस्य विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं नवानां लक्षणं स्वरूपम् । एकस्यैव1 प्राधान्यान् नायं दोष इत्य् अर्थः । नन्व् अत्र नैवं प्रतीयतेऽत आह । श्रुतेन श्रुत्यैव स्तुत्य्-आदि-स्थानेष्व् अञ्जसा साक्षाद् वर्णयन्ति । अर्थेन तात्पर्य-वृत्त्या च तत्-तद्-आख्यानेषु ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्विति । विशुद्धिवस्त्वन्तरेणामिश्रितत्वं तदर्थं तत्त्वज्ञानार्थमित्य् अर्थः । वस्त्वन्तरं चात्र सर्गादिनवकपरमेश्वरहेतुकं जीवगतम् एव जीवस्यैव सृज्यत्वपाल्यत्वसंहार्यत्वदर्शनात् ॥ इत्य् अर्थ इति । अत एकस्यैव आश्रमस्य शास्त्रविषयत्वान्नायं दोष इति भावः। महात्मानो मैत्रेयादयः ॥२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र च दशमस्य विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं नवानां लक्षणं स्वरूपं वर्णयन्ति । नन्व् अत्र नैवं प्रतीयते ? अत आह श्रुतेन श्रुत्या कण्ठोक्त्यैव स्तुत्य्-आदि-स्थानेषु, अञ्जसा साक्षाद् वर्णयन्ति । अर्थेन तात्पर्य-वृत्त्या च तत्-तद्-आख्यानेषु ॥२॥ [तत्त्व-सन्दर्भः ५६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् एवम् अर्थ-भेदाच् छास्त्र-भेदः स्यात् ? तत्राह । दशमस्याश्रयस्य विशुद्धिर् वस्त्व्-अन्तरेणामिश्रितत्वं, तद्-अर्थं तत्त्व-ज्ञानार्थम् इत्य् अर्थः । वस्त्व्-अन्तरं चात्र स्वर्गादि-नरकं परमेश्वर-हेतुकं जीव-गतम् एव, जीवस्यैव सृज्यत्व-पाल्यत्व-संहार्यत्व-दर्शनात् । अत एकस्याश्रयस्यैव शास्त्र-विषयत्वान् नायं दोष इत्य् अर्थः । श्रुतेन क्वचित् स्तुत्य्-आदिषु तद्-वाचक-शब्देनैव साक्षाद् वर्णयन्ति । अर्थेन च तात्पर्य-वृत्त्या च तत्-तद्-आख्यानेषु । महात्मानो विदुर-मैत्रेयादयः ॥२॥

———————————————————————————————————————

॥ २.१०.३ ॥

भूत-मात्रेन्द्रिय-धियां जन्म सर्ग उदाहृतः ।

ब्रह्मणो गुण-वैषम्याद् विसर्गः पौरुषः स्मृतः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

महद्-आद्य्-अण्ड-पर्यन्तः सर्गान्ते ब्रह्मणस् तु यः ।

अनुसर्ग इति प्रोक्तः पौरुषेयश् चेति कथ्यते ॥
पञ्च-भूत-समूहेन जातः पुरुष उच्यते ।
बहुत्वात् तत्र भूतानां तावत्त्वात् तत्त्वम् एकजम् ॥ इति व्योम-संहितायाम् ॥३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्गादीनां प्रत्येकं लक्षणम् आह । भूतान्य् आकाशादीनि, मात्राणि च शब्दादीनि, इन्द्रियाणि च, धी-शब्देन महद्-अहंकारौ । गुनानां वैषम्यात् परिणामाद् ब्रह्मणः2 परमेश्वरात् कर्तुर् भूतादीनां यद् विराट्-रूपेण स्वरूपतश् च जन्म स सर्गः । विसर्गम् आह । पुरुषो वैराजस् तत्-कृतः पौरुषश् चराचर-सर्गो विसर्ग इत्य् अर्थः ॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुरुषो ब्रह्मा तत्-कृतश्न्चराचर-सर्ग इति वा जीवानां यथा-योगं भक्ति-मुक्ति-भुक्ति-साधन-बुद्धीन्द्रियादि-प्राप्तिस् तया सृष्टिर् उक्ता ॥३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तम् एव दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां सप्त-श्लोकीम् आह—भूत-मात्रेति । भूतानि खादीनि । मात्राणि च शब्दादीनीन्द्रियाणि च । धी-शब्देन महद्-अहङ्कारौ । गुणानां वैषम्यात् परिणामात् । ब्रह्मणः परमेश्वरात् कर्तृ-भूतादीनां जन्म सर्गः । पुरुषो वैराजो ब्रह्मा, तत्-कृतः पौरुषश् चराचर-सर्गो विसर्ग इत्य् अर्थः ॥३॥ [तत्त्व-सन्दर्भः ५६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्गादीनां प्रत्येकं लक्षणम् आह । ब्रह्मणःपरमेश्वरात् सकाशात्, गुण-वैषम्यं तत्-परिणामः । ततो हेतोर् भूतादीनां स्वरूपतो विराट्-रूपेण च जन्म स सर्गः । धी-शब्देन महद्-अहङ्कारौ । पुरुषो ब्रह्मा । तत्-कृतः चराचर-सर्गो विसर्ग इत्य् अर्थः । जीवानां यथा-योगं भक्ति-मुक्ति-भुक्ति-साधन-बुद्धीन्द्रियादि-प्राप्ति-रूपा सृष्टिर् उक्ता ॥३॥

———————————————————————————————————————

॥ २.१०.४ ॥

स्थितिर् वैकुण्ठ-विजयः पोषणं तद्-अनुग्रहः ।

मन्वन्तराणि सद्-धर्म ऊतयः कर्म-वासनाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्-तन्-मर्यादा-पालनेनोत्कर्षः । स्थितिः स्थानम् । स्व-भक्तेषु तस्यानुग्रहः पोषणम् । तद्-अनुगृहीतानां सतां मन्वन्तराधिपतीनां धर्मः सद्-धर्मः3 । कर्मणां वासनाः, वेञ् तन्तु-सन्ताने । ऊयन्ते कर्मभिः सन्तन्यन्त इत्य् ऊतयः । यद् वा, वृद्ध्य्-अर्थात् संश्लेषार्थाद् वावतेर् धातोर् इदं रूपम् । ऊयन्ते कर्मभिर् बृंह्यन्ते संश्लिष्यन्त इति वा ऊतय इत्य् अर्थः ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतो वैकुण्ठस्य भगवतो विजयः सृष्टिकर्तुर्ब्रह्मणः संहत रुद्राच्चोत्कर्षः। यद् वा, वैकुण्ठो हरिस्तत्कर्तृको जीवदुःखाभिभवः जयतेरभिभवार्थकत्वात् । एवं सृष्ट्यनन्तरं स्थितिरुक्ता स्थितावेव केषुचित्साधकभक्तेषु दैवाद्विकर्मपरेष्वपि तस्यानुग्रहः पोषणं धर्मस्तत्तच्चरिते व्यक्त इति स्थितावेव केषाञ्चित्कर्मिणां सात्त्विकजीवानामाचरणीयो धर्म उक्तः। धातूनामनेकार्थत्वमपेक्ष्याह—यद् वेति । यत् तु क्वचिदवतेरिति पाठस्तन्न सुष्ठु प्रतिभाति । तस्य संप्रसारणभावाद्यकि प्रत्यये ऊयन्त इति न साधुः । किन्त्वव्यन्त इति साधुः । अतो वृद्ध्यार्थात्संश्लेषार्थाद्वा वयत इत्येव पाठः प्रशस्तः । इत्य् अर्थ इति । प्राकृताप्राकृतकर्मोत्था वासनाः शुभा अशुभाश् च भाविनां सुकृतदुष्कृतानां कारणभूताः स्थितावेवोत्कृष्टापकृष्टजीवानां स्वभाव उक्त इति भावः ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्थितिर् इति । वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्-तन्-मर्यादा-पालनेनोत्कर्षः । स्थितिः संस्थानम् । उत्कर्ष-स्थित्योर् भेद उपचारात् । ततः स्थितेषु स्व-भक्तेषु तस्यानुग्रैः पोषणम् । मन्वन्तराणि तत्-तन्-मन्वन्तर-स्थितानां मन्व्-आदीनां तद्-अनुगृहीतानां सतां चरितानि । तान्य् एव धर्मस् तद्-उपासनाख्यः सद्-धर्मः । तत्रैव स्थितौ नाना-कर्म-वासना ऊतयः ॥४॥ [तत्त्व-सन्दर्भः ५६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्थानम् इत्य् अस्य लक्षणं स्थितिः पालनम् । यतो वैकुण्ठस्य भगवतो विजयः सृष्टि-कर्तुर् ब्रह्मणः संहार-कर्तुः शम्भोश् च सकाशाद् उत्कर्षः । स्थितिः स्थानम् । यद् वा, वैकुण्ठो हरिस् तत्-कर्तृको जीव-दुःखाभिभवः, जयतेर् अभिभवार्थकत्वात् । एवं सृष्ट्य्-अन्तरं जीवानां स्थितिर् उक्ता । स्थिताव् एव केषुचित् साधक-भक्तेषु दैवाद् विकर्म-परेष्व् अपि तस्यानुग्रहः पोषणम् । सतां मन्वन्तराधिपतीनां धर्मः, तत्र तत्र तच्-चरिते व्यक्त इति । स्थिताव् एव केषांचित् कर्मिणां सात्त्विक-जीवानाम् आचरणीयो धर्म उक्तः । ऊयन्ते कर्मभिः सन्तन्यन्त इत्य् ऊतयः, कर्म-वासनाः । प्राकृताप्राकृत-कर्मोत्था वासनाः । शुभा अशुभाश् च भाविनां सुकृत-दुष्कृतानां कारण-भूता इति स्थिताव् एवोत्कृष्टापकृष्ट-जीवानां स्वभाव उक्तः ॥४॥

———————————————————————————————————————

॥ २.१०.५ ॥

अवतारानुचरितं हरेश् चास्यानुवर्तिनाम् ।

पुंसाम् ईश-कथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हरेर् अवतारानुचरितम् अस्यानुवर्तिनां च सत्-कथा ईशानुकथाः प्रोक्ता इत्य् अर्थः ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्थिताव् एव हरेर् अवतारानुचरितम् अस्यानुवर्तिनां च कथा ईशानुकथाः प्रोक्ता इत्य् अर्थः ॥४॥ [तत्त्व-सन्दर्भः ५७]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हरेर् अवतारानुचरितं तथा अस्यानुवर्तिनाम् अवतार-परिकर-रूपाणां भक्तानाम् अवतारानुचरितम् ईश-कथा इति । तासां श्रवणीय-कीर्तनीयत्वादिभ्यः स्थिताव् एव केषांचित् साधक-भक्तानां श्रवण-कीर्तनादीनि भक्त्य्-अङ्गान्य् उक्तानि ॥५॥

———————————————————————————————————————

॥ २.१०.६ ॥

निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः ।

मुक्तिर् हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

अनुप्रविश्य परमं जीवस्य शयनं तु यत् ।

सहैव शक्तिभिः स्वीयैर् इच्छाद्यैर् अप्रकाशितैः ।
सन्निरोध इति प्रोक्तो विमुक्तिर् यत्र मोक्षिणाम् ॥ इति नारदीये ॥६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निरोधम् आह । अस्यात्मनो जीवस्य हरेर् योग-निद्राम् अनु पश्चाच् छक्तिभिश् चोपाधिभिः सह शयनं लयो निरोधः । अन्यथा रूपम् अविद्ययाध्यस्तं कर्तृत्वादि हित्वा स्वरूपेण ब्रह्मतया व्यवस्थितिर् मुक्तिः ॥६॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । स्थिताव् एवास्यानुवर्तिनाम् अवतार-परिकर-रूपाणां भक्तानां च चरितम् । ईश-कथास् तासां श्रवणीयत्व-कीर्तनीयत्वादिभ्यः । केषाञ्चित् साधक-भक्तानां श्रवण-कीर्तनादीनि भक्त्य्-अङ्गान्य् उक्तानि ॥५-६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **निरोध इति । स्थित्य्-अनन्तरं चात्मनो जीवस्य शक्तिभिः स्वोपाधिभिः सहास्य हरेर् अनुशयनं, हरि-शयनानुगतत्वेन शयनं निरोध इत्य् अर्थः । तत्र हरेः शयनं प्रपञ्चं प्रति दृष्टि-निमीलनम् । जीवानां शयनं तत्र लय इति ज्ञेयम् । तत्रैव निरोधेऽन्यथारूपम् अविद्याध्यस्तम् अज्ञत्वादिकं हित्वा स्वरूपेण व्यवस्थितिर् मुक्तिर् इति । [तत्त्व-सन्दर्भः ५७]

स्वरूपेण व्यवस्थितिर् नाम स्वरूप-साक्षात्कार उच्यते । तद्-अवस्थान-मात्रस्य संसार-दशायाम् अपि स्थितत्वात् । अन्यथा-रूपत्वस्य च तद्-अज्ञान-मात्रार्थत्वेन तद्-धानौ तद्-अज्ञान4-पर्यवसानात् । स्वरूपं चात्र मुख्यं परमात्म-लक्षणम् एव, रश्मि-परमाणूनां सूर्य इव । स एव हि जीवानां परमोऽंशि-स्वरूपः । यथोक्तं ब्रह्माणं प्रति श्रीमता गर्भोदशायिना—

यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ [भा।पु। ३.९.३३] इति ।

उपेतं युक्तम् इत्य् एवाक्लिष्टोऽर्थ इत्य् अर्थः । रसो वै सः रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति श्रुतेः ॥६॥ [प्रीति-सन्दर्भः १]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आत्मनो जीवस्य हरेर् योग-निद्राम् अनु पश्चात् शक्तिभिः स्वोपाधिभिः सह शयनं निरोध इति स्थित्य्-अनन्तरं महा-प्रलये जीवानां परमेश्वरे लय उक्तः । अन्यथा-रूपं मायिकं स्थूल-सूक्ष्म-रूप-द्वयं हित्वा स्वरूपेण शुद्ध-जीव-स्वरूपेण, केषाञ्चिद् भगवत्-पार्षद-रूपेण च, व्यवस्थितिर् मुक्तिर् इति । सर्गादयो जीव-विषया नवार्था उक्ताः ॥६॥

———————————————————————————————————————

॥ २.१०.७ ॥

आभासश् च निरोधश् च यतोऽस्त्य् अध्यवसीयते ।

स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

सृष्टि-स्थित्य्-अप्ययाभासा यद् बलाद् यत्र च स्थिताः ।

तद् ब्रह्म जगद्-आधारं वासुदेवेति तद् विदुः ॥ इति भागवत-तन्त्रे ॥७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आभासः सृष्टिर् निरोधो लयश् च यतो5 भवत्य् अध्यवसीयते प्रकाशते च स परं ब्रह्मेति परमात्मेति प्रसिद्ध आश्रयः कथ्यते ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सर्गादीनवार्थानुक्त्वा दशममाश्रयमाह—आभास इति । चास्थितिपोषणादयः द्वितीयचान्मुक्तिश् च यतोऽध्यवसीयते निश्चीयते स आश्रयो भगवान्नारायण एव तस्माद् एव सृष्ट्यादिदर्शनात्तस्यैवोपासकभेदेन संज्ञान्तरमाह—परम् इति । अस्य विवृतिरग्रे विधेया । तथाहि—अत्र दशार्थाः प्रथमस्कन्धानुक्रमेण निरूप्यन्ते तथा सामान्यतो लक्षितमप्याश्रयत्वं श्रीकृष्ण एव तु वैशिष्ट्यं तदर्थम् एव ह्यखण्डश्री-भागवतप्रकाशः । अत्र प्रथम-स्कन्धे श्रीशौनकसूतयोः प्रश्नोत्तरे तत्परत्वेनैव प्रतिपादिते तदनुगतावेव प्रथमद्वितीयाध्यायौ तृतीयाध्यायस्तु स्फुट एव पुनर्विशेषतस्तत्प्रस्तावाय चतुर्थाद्यध्यायाः । अत्र तदेकपरयोः श्री-शुकपरीक्षितोः संवादघटना अतो द्वितीय-स्कन्धे च सामान्यतो भगवत्तत्त्वं प्रशंसन्नपि तत्रैव तात्पर्यं वहति यत्र ब्रह्मणश्चतुश्श्लोकीवक्तृश्रीभगवतश् च तात्पर्यं तत्रैव दर्शितं ब्रह्मकल्पकथारम्भस्तु तदर्थ एव तृतीये पाद्मकल्पकथा च गतस्य पूर्वपरार्द्धस्याद्यन्तवर्णने मध्यमानाम् अपि कल्पानां तदनुसारेण ज्ञाने सति दशमैकादशयोः प्रस्ताव्यायास्तत्कथायाः सम्यगवगमात् । एवम् एव गते स्वायंभुवचाक्षुषमन्वन्तरेऽपि तृतीयचतुर्थपञ्चमषष्ठसप्तमेषु निरूपितेऽष्टमे प्राचीनमिश्रवैवस्वतं नवमस्तु तत्प्रादुर्भावास्पदकेवलवैवस्वतान्वय एव द्वादशः खलु समाधिमुद्रामयः तत्र तत्र तत्तदन्यकथा तु तत्पोषिकैव विशेषतस्तत्तदवतारकथेति । तस्मात्सर्गादीनां मध्ये कचिदेकद्वारा क्वचिदनेकद्वारा य आश्रयो निरूप्यते स तु दशमादावीशानुकथाप्रधानतत्तद्वारा सर्वत उत्कृष्य श्रीकृष्णरूपो निरूप्यते इति स्थितम् ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आभासश् चेति । आभासः सृष्टिः । निरोधो लयश् च यतो भवति । अध्यवसीयते प्रकाशते, चोपलभ्यते जीवानां ज्ञानेन्द्रियेषु स ब्रह्मेति परमात्मेति प्रसिद्ध आश्रयः कथ्यते । इति-शब्दः प्रकारार्थः, तेन भगवान् इति च । अस्य विवृतिर् अग्रे विधेया ॥ [तत्त्व-सन्दर्भ ५८]

तथा हि अत्र दशार्थाः प्रथम-स्कन्धानुक्रमेण निरूप्यन्ते यथा, सामान्यतो लक्षितस्याप्य् आश्रयत्वं6 श्री-कृष्णे एव तु वैशिष्ट्यं, तद्-अर्थम् एव ह्य् अखण्ड-श्री-भागवत-प्रकाशः । तत्र प्रथम-स्कन्धे श्री-शौनक-सूतयोः प्रश्नोत्तरे तत्त्वेनैव प्रतिपादिते तद्-अनुगताव् एव प्रथम-द्वितीयाध्यायौ तृतीयाध्यायस् तु स्फुट एव पुनर्-विशेषतस् तत्-प्रस्तावाय चतुर्थाद्यध्यायाः तत्र तद्-एक-परयोः श्री-शुक-परीक्षितोः संवाद-घटना । अतो द्वितीय-स्कन्धश् च सामान्य-भगवत्-तत्त्वं प्रशंसन्न् अपि तत्रैव तात्पर्यं वहति । यत्र ब्रह्मणश् चतुःश्लोकी-वक्तृ-श्री-भगवतश् च तात्पर्यं च तत्रैव दर्शितम् । ब्राह्म-कल्प-कथारम्भश् च तद्-अर्थ एव, तृतीये पाद्म-कल्प-कथा च । गतस्य पूर्व-परार्धस्याद्य्-अन्त-वर्णने मध्यमानाम् अपि कल्पानां तद्-अनुसारेण ज्ञाने सति दशमैकादशयोः प्रस्ताव्यायास् तत्-कथायाः सम्यग्-अवगमात् । एवम् एव गते स्वायम्भुव-चाक्षुष-मन्वन्तरे अपि तृतीय-चतुर्थ-पञ्चम-षष्ठ-सप्तमेषु । निरूपिते अष्टमे प्राचीन-मिश्र-वैवस्वतम् । नवमस् तु तत्-प्रादुर्भावास्पद-केवल-वैवस्वतान्वय एव द्वादशः खलु समाधि-मुद्रा-मयः । तत्र तत्र तत्-तद्-अन्य-कथा तु तत्-पोषिकैव । विशेषतस् तु तत्-तद्-अवतार-कथेति । तस्मात् सर्गादीनां मध्ये क्वचिद् एक-द्वारा क्वचिद् अनेक-द्वारा य आश्रयो निरूप्यते, स तु दशमादाव् ईशानुकथा-प्रधान-तत्-तद्-द्वारा सर्वत उत्कृष्य श्री-कृष्ण-रूपो निरूप्यते इति स्थितम् ॥७॥7

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्गादीनां नवानां लक्षणेनैव तद्-विषयीभूतान् सर्वान् लक्षयित्वा, एकस्याश्रयस्य लक्षणेन परमेश्वरं लक्षयति—आभासः सर्गः । च-कारात् स्थिति-पोषणादयः । निरोधश् चेति च-शब्दान् मुक्तिश् च । यत एवाध्यवसीयते निश्चीयते स आश्रयो भगवन्-नारायण एव, तस्माद् एव सृष्ट्य्-आदि-दर्शनात् । तस्यैवोपासक-भेदेन संज्ञान्तरम् आह—परम् इति ॥७॥

———————————————————————————————————————

॥ २.१०.८ ॥

योऽध्यात्मिकोऽयं पुरुषः सोऽसाव् एवाधिदैविकः ।

यस् तत्रोभय-विच्छेदः पुरुषो ह्य् आधिभौतिकः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आश्रय-स्वरूपम् अपरोक्षानुभवेन स्पष्टं दर्शयितुम् अध्यात्मादि-विभागम् आह । योऽयम् आध्यात्मिकः पुरुषश् चक्षुर्-आदि-करणाभिमानी द्रष्टा जीवः स एवाधिदैविकश् चक्षुर्-आद्य्-अधिष्ठाता सूर्यादिः । तत्रैकस्मिन्न् एवोभयो द्वि-रूपो विच्छेदो8 यस्मात् स आधिभौतिकश् चक्षुर्-गोलकाद्य्-उपलक्षितो दृश्यो देहः पुरुष इति पुरुषस्य जीवस्योपाधिह् । स वा एष पुरुषोऽन्न-रस-मयः [तै।उ। २.१] इत्य्-आदि-श्रुतेः ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्रेत्यस्य विवरणमेकस्मिन्निति । तैत्तिरीयश्रुतौ देहेऽपि पुरुषपदप्रयोगो दृश्यते तथा हि स वा इत्य्-आदिस्पष्टार्था श्रुतिः । अत्र सन्दर्भः । अथ स्वयं भगवल्लक्षणपरमरूपं तदेवाश्रयं स्तोतुं स्थितौ च तत्राश्रयस्वरूपमपरोक्षानुभवेन व्यष्टिद्वारा दर्शयितुं तदंशभूतस्य पुरुषस्य वैभवं तादृशत्वेन दर्शयन्नध्यात्मादिविभागमाह । देहसृष्टेः पूर्वं करणानामधिष्ठानाभावेनाक्षमतया करणप्रकाशकर्तृत्वाभिमानितत्सहाययोर् अपि तयोवृत्तिभेदानुदयेन जीवत्वमात्राविशेषात् । ततश्चोभयः करणाभिमानितदधिष्ठातृरूपद्विरूपो विच्छेदो यस्माद् इति सर्वमन्यत्स्वामिवत् । चक्रवर्तिना त्वस्यावतरणिका प्रकारान्तरेणोक्ता । तथाहि अथ विष्ठभ्याहम् इदं कृत्स्नमेकांशेन स्थितो जगत् इत्य्-उक्तेः प्रतिदेहमेवान्तर्यामिरूपेण स्थितं तदेवाश्रयरूपमध्यात्मादिभ्यो विभागेन स्पष्टं दर्शयितुमाह द्वाभ्याम् । उभयो गोलकरूपः शब्दस्पर्शादिरूपश् च विच्छेदो यस्य सः पुरुषस्य जीवस्योपाधित्वात्सर्वत्र पुरुषपदप्रयोग इति विशेषः ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ स्वयं भगवल्-लक्षण-परम-रूपं तद् एवाश्रयं स्तोतुं स्थितौ च तत्राश्रय-स्वरूपम् अपरोक्षानुभवेन व्यष्टि-द्वारापि स्पष्टं दर्शयितुं तद्-अंश-भूतस्य पुरुषस्य वैभवं तादृशत्वेन दर्शयन् अध्यात्मादि-विभागम् आह—योऽध्यात्मिकोऽयम् इति द्वभ्याम् ।

योऽयम् आध्यात्मिकः पुरुषश् चक्षुर्-आदि-करणाभिमानी द्रष्टा जीवः । स एवाधिदैविकश् चक्षुर्-आद्य्-अधिष्ठाता सूर्यादिः । देह-सृष्टेः पूर्वं करणानाम् अधिष्ठानाभावेनाक्षमतया करण-प्रकाश-कर्तृत्वाभिमानि-तत्-सहाययोर् उभयोर् अपि तयोर् वृत्ति-भेदानुदयेन जीवत्व-मात्राविशेषात् । ततश् चोभयः करणाभिमानि-तद्-अधिष्ठातृ-देवता-रूपो द्विरूपो विच्छेदो यस्मात् । स आधिभौतिकश् चक्षुर्-गोलकाद्य्-उपलक्षितो दृश्यो देहः पुरुष इति पुरुषस्य जीवस्योपाधिः । स वा एष पुरुषोऽन्न-रस-मयः [तै।उ। २.१.३] इत्य् आदि श्रुतेः ॥८॥ [तत्त्व-सन्दर्भः ५९]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य् उक्तेः प्रतिदेहम् एवान्तर्यामि-रूपेण स्थितं तद् एवाश्रय-रूपम् अध्यात्मादिभ्यो विभागेन स्पष्टं दर्शयितुम् आह द्वाभ्याम् । योऽध्यात्मिकोऽयम् इति सर्वं विनयादित्वात् स्वार्थे ठक् । योऽयम् अध्यात्मिकः पुरुषः, यद् इदम् अध्यात्मकं चक्षुर्-आदि-करणम् इत्य् अर्थः । स एवाधिदैविकश् चक्षुर्-आद्य्-अधिष्ठाता सूर्यादिर् इन्द्रिय-तद्-अधिष्ठात्रोर् उभयोर् एव सूर्याद्य्-अंशत्वेनैक-रूपाद् इत्य् अर्थः । तत्र तत्त्वेषु मध्ये उभय अध्यात्माधिदैव-रूपो विच्छेदो विभागो यस्मिन् सः । आधिभौतिकश् चक्षुर्-गोलकाद्य्-उपलक्षितो दृश्यो देहः । यद् वा, उभयः गोलक-रूपः शब्द-स्पर्शादि-रूपश् च विच्छेदो भेदो यस्य सः । पुरुषस्य जीवस्योपाधित्वात् सर्वत्र पुरुष-पद-प्रयोगः । स वा एष पुरुषोऽन्न-रस-मयः [तै।उ। २.१] इत्य्-आदि-श्रुतेः ॥८॥

———————————————————————————————————————

॥ २.१०.९ ॥

एकम् एकतराभावे यदा नोपलभामहे ।

त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सुप्ताव् अपि यः सर्वं वेत्ति जीवानां स परः । स्वप्नेन शारीरम् अभिप्रहत्या सुप्तः सुप्तान् अभिचाकशीति श्रुतेः । सुष्ठ्व्-आश्रयाणाम् अप्य् आश्रयः ॥९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एकम् एकतराभाव इत्य् एतेषाम् अन्योन्य-सापेक्ष-सिद्धित्वेनानात्मत्वं9 दर्शयति। तथाहि । दृश्यं विना तत्-प्रतीत्य्-अनुमेयं10 करणं न सिध्यति, नापि द्रष्टा, न च तद् विना11 करण-प्रवृत्त्य्-अनुमेयस् तद्-अधिष्ठाता सूर्यादिः, न च तं विना कारणं प्रवर्तते, न च तद् विना दृश्यम् इत्य् एवम् एकतरस्याभावे एकं नोपलभामहे । तत्र तदा तत् त्रितयम्12 आलोचनात्मकेन प्रत्ययेन यो वेद साक्षितया पश्यति स परमात्मा आश्रयः । तेषाम् अपि परस्परम् आश्रयत्वम् अस्त्य् एवेति तद्-व्यवच्छेदार्थं विशेषणम् । स्वाश्रयोऽनन्याश्रयः स चासावन्येषाम् आश्रयश् चेति । तथा च भगवान् वक्ष्यति—

दृग्-रूपम् आर्कं वपुर् अत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यद् एषाम् अपरो य आद्यः
स्वयानुभूत्याखिल-सिद्ध-सिद्धिः॥ [भा।पु। ११.२२.३१] इति ।

एतेनैव व्यभिचारित्वात् तेषां मायामयत्वम् अप्य् उक्तम् । अत एव –

पुरुषावयवैर् लोकाः सपालाः पूर्व-कल्पिताः ।
लोकैर् अमुष्यावयवाः सपालैः [भा।पु। २.१.१०]

इत्य् अनेनोक्तो विरोधोऽपि परिहृतः ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतेनैव श्लोकेन तेषामध्यात्मादीनां परस्परं व्यभिचारवत्त्वात् । अत एव मायामयत्वाद् एव विरोधो हि परमार्थयोस्तेजस्तिमिरयोरिव भवति न तु वन्ध्यात्मजशशशृङ्गयोरपरमार्थयोरपीति । अत्र सन्दर्भः । अत्रांशांशिनो शुद्धजीवपरमामनोरभेदांशस्वीकारणवाश्रय उक्तः । अतः परोऽपि मनुतेऽनर्थम् इति ।

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चत ॥ इति ।

शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः इत्य्-आद्य्-उक्तस्य साक्षि-संज्ञिनः शुद्धजीवस्याश्रयत्वं नाशङ्कनीयम् । अथ वा नन्वाध्यात्मिकादीनामन्याश्रयत्वमस्त्येव । सत्यम्, तथापि परस्पराश्रयित्वान्न तत्राश्रयता कैवल्यम् इति । ते त्वाश्रयशब्देन मुख्यतया नोच्यन्ते तत्राह—एकम् इति । तर्हि साक्षिण एवास्तामाश्रयत्वं तत्राह—त्रितयम् इति । स आत्मना साक्षी जीवः यः स्वाश्रयोऽनन्याश्रयः परमात्मा स एवाश्रयो यस्य स तथाभूत इति वक्ष्यते च सर्वं पुमान्वेद गुणांश् च तज्ज्ञो न वेद सर्वज्ञमनन्तमीड्यम् इति तस्मादाभास इत्य्-आदिनोक्तः । परमात्मैवाश्रय इति सर्वमेतत्त्रितयं पुमाञ्जीवो वेदेति तत्रार्थः । तथा चाध्यात्मादीनां परस्पराश्रयाणां जीव आश्रयः परमात्माश्रयः परमात्मनश् च परमात्मैवाश्रय इत्याश्रयत्त्वं परमात्मैव तथा विष्टभ्याहम् इदं कृत्स्नम् इत्याद्युक्तेः स्वः कृष्ण एवाश्रयो यस्य स परमात्मेति व्याख्याने श्रीकृष्णस्य मुख्यमाश्रयत्वं तदंशत्वात्परमात्मनश् च निर्विशेषस्वरूपत्वाद्ब्रह्मणश्चेत्येकमाश्रयतत्त्वमुपासकस्य भेदात् त्रिधा भासत इति ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एकम् एकतराभाव इत्य् एषाम् अन्योन्य-सापेक्ष-सिद्धत्वे नानाश्रयत्वं दर्शयति । तथा हि दृश्यं विना तत्-प्रतीत्य्-अनुमेयं करणं न सिध्यति । नापि द्रष्टा न च तद् विना करण-प्रवृत्त्य्-अनुमेयस् तद्-अधिष्ठाता सूर्यादिः । न च तं विना करणं प्रवर्तते । न च तद् विना दृश्यम् इत्य् एकतरस्याभाव एकं नोपलभामहे । तत्र तदा तत् त्रितयम् आलोचनात्मकेन प्रत्ययेन । यो वेद साक्षितया पश्यति स परमात्मा आश्रयः । तेषाम् अपि परस्परम् आश्रयत्वम् अस्तीति तद्-व्यवच्छेदार्थं विशेषणं स्वाश्रयोऽनन्याश्रयः । स चासाव् अन्येषाम् आश्रयश् चेति । तत्रांशांशिनोः शुद्ध-जीव-परमात्मनोर् अभेदांश-स्वीकारेणैवाश्रय उक्तः । अतः परोऽपि मनुतेऽनर्थं [भा।पु। १.७.५] इति ।

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः ॥ [भा।पु। ११.१३.२७] इति ।

शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [भा।पु। ५.११.१२] इत्य् आद्य् उक्तस्य साक्षि-संज्ञिनः शुद्ध-जीवस्याश्रयत्वं नाशङ्कनीयम् । अथवा, नन्व् आध्यात्मिकादीनाम् अन्याश्रयत्वम् अस्त्य् एव ? सत्यम् । तथापि परस्पराश्रयित्वान् न तत्र तदाश्रयता-कैवल्यम् इति ते त्व् आश्रय-शब्देन मुख्यतया नोच्यन्त इत्य् आह—एकम् इति । तर्हि साक्षिण एवास्ताम् आश्रयत्वम् । तत्राह —त्रितयम् इति । स आत्मा साक्षी जीवः, यः स्वाश्रयोऽनन्याश्रयः परमात्मा, स एवाश्रयो यस्य तथाभूत इति । वक्ष्यते च हंस-गुह्य-स्तवे, सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति । तस्मात् आभासश् च [भा।पु। २.१०.७] इत्य् आदिनोक्तः परमात्मैवाश्रय इति ॥९॥ [तत्त्व-सन्दर्भः ६०]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एकम् एकतराभाव इत्य् एतेषाम् अन्योन्य-सापेक्ष-सिद्धित्वेनानात्मत्वं दर्शयति। तथा हि, दृश्यं विना तत्-प्रतीत्य्-अनुमेयंकरणं न सिध्यति, नापि द्रष्टा, न च तद् विनाकरण-प्रवृत्त्य्-अनुमेयस् तद्-अधिष्ठाता सूर्यादिः, न च तं विना कारणं प्रवर्तते, न च तद् विना दृश्यम् इत्य् एवम् एकतरस्याभावे यदा एकं नोपलभामहे । तत्र तदा तत् त्रितयं यो वेद स तन्-निरपेक्ष-सिद्धिः । आत्मा जीवः । यद् उक्तं—

देहोऽसवोऽक्षा मनवो भूत-मात्राम्
आत्मानम् अन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ [भा।पु। ६.४.२५] इति ।

सर्वम् एतत् त्रितयं पुमान् जीवो वेदेति तत्रार्थः । तथैव—

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः ॥ [भा।पु। ११.१३.२७] इति ।

स कीदृशः ? स्वयम् एवाश्रयो यस्य सः । अयम् अर्थः—अध्यात्मादीनां परस्पराश्रयाणां जीव आश्रयः । जीवस्य परमात्मा आश्रयः । परमात्मानः परमात्माइवाश्रय इत्य् आश्रय-तत्त्वं परमात्माइव । तथा—विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य्-उक्तेः स्वं कृष्ण एवाश्रयो यस्य स परमात्मेति व्याख्याने, श्री-कृष्णस्य मुख्यम् आश्रयत्वं तद्-अंशत्वात् परमात्मानश् च निर्विशेष-स्वरूपत्वाद् ब्रह्मणश् चेत्य् एकम् आश्रय-तत्त्वम् उपासक-भेदात् त्रिधा भाषत इति ॥९॥

———————————————————————————————————————

॥ २.१०.१० ॥

पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः ।

आत्मनोऽयनम् अन्विच्छन्न् अपोऽस्राक्षीच् छुचिः शुचीः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विनिर्गतः प्रकाशितः ।

अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः ।
सोऽपोऽसृजत् ततो नारा नरो नाशात् परो यतः ॥ इति नारायणाध्यात्मे ॥१०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उक्तम् एवाध्यात्मादि-विभागं प्रपञ्चयन् –

यद् उताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथासीत् तद्-उपाख्यास्ये [भा।पु। २.९.४५]

इति यत् प्रतिज्ञातं तद् उत्पत्ति-प्रकारम् आह—पुरुष इत्य्-आदिना । पुरुषो वैराजोऽण्दं विनिर्भिद्य पृथक् कृत्य विनिर्गतः, पृथक् स्थित इत्य् अर्थः । अयनं स्थानम् अन्विच्छन् विमृशन् । यतः शुचिः स्वयम् । अतः शुचीः शुद्धा अपो गर्भोदक-संज्ञा अस्राक्षीत् ससर्ज ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । पृथस्थितिर् एव निर्गमपदार्थ इति भावः । अत्र विश्वनाथः—एवं दशभिर्महापुराणलक्षणैर्जीवेश्वरविभागं निरूप्य जीवानामीश्वरभक्त्यैव निस्तारमभिव्यञ्ज्य यदुताहं त्वया दृष्टो वैराजात्पुरुषादिदम् । यथासीत्तदुपाख्यास्ये इति प्रतिज्ञातमर्थं वक्तुं कथां प्रस्तौति—पुरुषोण्डम् इति । ननु कथं मुहुर् अपि वैराजस्याध्यात्मादिकथैव प्रपञ्च्यते । भगवतोऽतिमधुरलीलावताररूपगुणादिकथाः किमल्पीयस्यो दृष्टाः सत्यन्ताः कथा आस्वादनीयत्वेन केषु खलूपदेष्टव्याः ये तद्भक्तिसिद्धा नित्यसिद्धा वा महानुभावास्ते तत्सौन्दर्यामृतसिन्धौ स्वत एवाविरामं खेलन्त्येव । ये पुनरन्ये विषयानन्दतल्पे निद्रान्ति ये च कुकर्मफलदुःखतरङ्गे मूर्च्छन्ति ते ततः प्रबोधयितुमेवाशक्याः कथं भगवल्लीला उपदेश्यन्तां यदुपदेशाद् एव ते साधकभक्ता भवेयुरिति महाकारुणिकः पुराणचूडामणिरयं ताः स्वतः प्रबोधयितुं भङ्ग्या किम् अपि मुहुर् अपि यतते स्म । तत्र यथा वह्निना तप्तमङ्गं वह्निनैवोपशाम्यति यथा च भूताविष्टो भूतमन्त्रेणैव प्रबुध्यते तथैव जीवानां मायानिद्रावेशो मायाकथयैवापयाति यदुक्तं—

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।
शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति ॥ इति ।

किं च, । यद्यपि भागवतकृपालब्धभगवल्लीलामृतवृष्ट्यैव मायासुखनिद्राणोऽपि कर्मदुःखमूर्च्छितोऽपि जागर्ति अस्यति जीवति नृत्यत्यानन्देन माद्यति च तदपि तादृशमहत्कृपा यैरवलभ्यते तैर् एव कृतार्थीभूयते, न तु सवेरेवातोध्यात्मकथया मुहुः श्रुतया लब्धसंसारतितीर्षाणां गुरुपादाश्रयेण प्रोद्भूतयत्नानां निकृष्टजीवानाम् अपि निस्तारो भवत्वित्येतदर्थमेवाध्यात्मकथापौनःपुन्यं भगवद्भक्तानामास्तिक्यवतां तु सर्वम् एव श्री-भागवतममृतमिवास्वाद्यम् एव । अपि च । शास्त्रस्यास्य न केवलं भगवन्तमेवाधिकृत्य प्रवृत्तिर् अपि तु तन्निर्विशेषस्वरूपतदंशभूतौ ब्रह्मपरमात्मानावपि । तद् उक्तं शास्त्रारम्भे एक ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इति । ब्रह्मपरमात्मोपासकानामध्यात्मादिकथाभ्यास उपयुक्त एव । किं च, शास्त्रस्यास्य महिन्ना ब्रह्मपरमात्मोपासकानाम् अपि भक्तिप्रवर्तितत्वात् । अतः फलदशायाम् अपि आत्मारामाश् च मुनयः इत्यादेः प्रायो भक्तिर् एव वरीवर्तीति तेन तत्साधनं तत्फलं च शुद्धभक्तैर् अपि न कटाक्षणीयम् अपि त्वनुमोदनीयम् एव । तस्माद्यथा ब्रह्मत्वपरमात्मत्वमत्स्यकूर्माद्यनेकाववतारत्वधर्मज्ञानबलैश्वर्यरूपगुणलीलामाधुर्यपरिपूर्णः श्रीकृष्णः सर्वविधभक्तैर् एव परिचर्यते । एवम् एव ब्रह्मत्वपरमात्मत्वमत्स्यकूर्माद्यवतारावतारितत्तत्सर्वमूलभूतश्रीकृष्णतदीयरूपगुणलीलामाधुर्येश्वर्यतत्प्राप्तिसाधनभक्तिप्रेमधर्मज्ञानयोगवैराग्याद्यखिलतत्त्वप्रदर्शको ग्रन्थोऽयम् अपि स्वरूपभूत इति सर्वं समञ्जसम् । सन्दर्भः। अथ स्वयं भगवल्लक्षणपरमरूपं तदेवाश्रयं स्थातुं तदंशभूतस्य पुरुषस्य वैभवं तादृशत्वेन दर्शयति यदासौ विनिर्गत आद्योऽवतारः पुरुषः परस्य इत्य्-उक्तरीत्या श्रीभगवत आविर्भूतस्तदा त्वण्डमात्मनि लीनं तत्समूहं विनिर्भिधात्मनः पृथक्कुर्मारभ्येत्यर्थः । अथवाण्डं निजाविर्भावस्थानं श्रीभगवन्तं विनिर्भिद्य ततः पृथग्भूत्वा विनिर्गतः अपस्तत्पयन्तानि तत्त्वानीत्य् अर्थः । पृथिव्यपि तदन्तर्भूतत्वेन ज्ञेयेत्याह ॥१०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ स्वयं-भगवल्-लक्षण-परम-रूपं तद् एवाश्रयं स्तोतुं तद्-अंश-भूतस्य पुरुषस्य वैभवं तादृशत्वेन दर्शयति—पुरुष इति । यदासौ विनिर्गतः आद्योऽवतारः परस्य [भा।पु। २.६.४२] इत्य्-आद्य्-उक्त-रीत्य श्री-भगवत आविर्भूतः । तदा त्व् अण्डम् आत्मनि लीनं तत्त्व-समूहं13विनिर्भिद्य आत्मनः पृथक् कर्तुम् आरभ्येत्य् अर्थः। अथवा, अण्डं निजाविर्भाव-स्थानं श्री-भगवन्तं, विनिर्भिद्य ततः पृथग् भूत्वा विनिर्गतः सन्, अपस् तत्-पर्यन्तानि तत्त्वानीत्य् अर्थः । पृथिव्य् अपि तद्-अन्तर्-भूतत्वेन ज्ञेया ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं दशभिर् महा-पुराणस्य लक्षणैर् जीवेश्वर-विभागं निरूप्य, जीवानाम् ईश्वर-भक्त्यैव निस्तारम् अभिव्यज्य,

यद् उताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथासीत् तद्-उपाख्यास्ये [भा।पु। २.९.४५]

इति यत् प्रतिज्ञातम् अर्थं वक्तुं कथां प्रस्तौति—पुरुषोऽण्डम् इत्य् आदि ।

ननु कथं मुहुर् अपि वैराजस्याध्यात्मादि-कथैव प्रपञ्च्यते भगवतोऽतिमधुर-लीलावतार-रूप-गुणादि-कथाः किम् अस्वीयस्यो दृष्टाः ? सत्यम् । ताः कथा आस्वादनीयत्वेन तेषु खलूपदेष्टव्याः ? ये तद्-भक्ति-सिद्धा नित्य-सिद्धा वा महानुभावास् ते तत्-सौन्दर्यामृत-लीलामृत-सिन्दौ स्वत एवाविरामं खेलन्त्य् एव । ये पुनर् अन्ये विषयानन्द-तल्पे निद्रान्ति, ये च कर्म-फल-दुःख-तरङ्गे मूर्च्छन्ति, ते ततः प्रबोधयितुम् एवाशक्याः कथं भगवल्-लीला उपदेश्यन्ताम् ? यद्-उपदेशाद् एव ते साधक-भक्ता भवेयुर् इति महा-कारुणिकः पुराण-चूडामणिर् अयं तांस् ततः प्रबोधयितुं भङ्ग्या किम् अपि मुहुर् अपि यतते स्म । तत्र यथा वह्निना तप्तम् अङ्गं वह्निनैवोपशाम्यति, यथा च भूताविष्टो भूत-मन्त्रेणैव प्रबुध्यते, तथैव जीवानां माया-निद्रावेशो माया-कथयैवापयाति । यद् उक्तं—

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।
शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति ॥ [भा।पु। २.७.५३] इति ।

किं च, यद्यपि भागवत-कृपा-लब्ध-भगवल्-लीलामृत-वृष्ट्यैव माया-सुख-निद्राणोऽपि कर्म-दुःख-मूर्च्छितोऽपि जागर्ति, स्तिम्यति जीवति नृत्यत्य् आनन्देन माद्यति च, तद् अपि तादृश-महत्-कृपा यैर् एव लभ्यते, तैर् एव कृतार्थीभूयते, न तु सर्वैर् एव । अतोऽध्यात्म-कथया मुहुः श्रुतया लब्ध-संसार-तितीर्षाणां गुरु-पादाश्रयेण प्रोद्भूत-यत्नानां निकृष्ट-जीवानाम् अपि निस्तारो भवतु इत्य् एतद्-अर्थम् एवाध्यात्म-कथा-पौनःपुन्यम् । भगवद्-भक्तानाम् आस्तिक्यवतां तु सर्वम् एव श्री-भागवतम् अमृतम् इवास्वाद्यम् एव ।

अपि च, शास्त्रस्यास्य न केवलं भगवन्तम् एवाधिकृत्य प्रवृत्तिः, अपि तु तन्-निर्विशेष-स्वरूप-तद्-अंश-भूतौ ब्रह्म-परमात्मनोर् अपि । यद् उक्तं शास्त्रारम्भ एव—ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते [भा।पु। १.२.११] इति ब्रह्म-परमोपासकानाम् अध्यात्मादि-कथाभ्यास उपयुक्त एव । किं च, शास्त्रस्यास्य महिम्ना ब्रह्म-परमात्मोपासकानाम् अपि भक्ति-प्रवर्तितत्वात् । अतः फल-दशायाम् अपि, आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य् आदेः प्रायो भक्तिर् एव वरीवर्तीति, ते तत्-साधनं तत्-फलं च शुद्ध-भक्तैर् अपि न कटाक्षणीयम्, अपि त्व् अनुमोदनीयम् एव ।

तस्माद् यथा ब्रह्मत्व-परमात्मत्व-मत्स्य-कूर्माद्य्-अनेकावतारत्व-धर्म-ज्ञान-बलैश्वर्य-रूप-गुण-लीला-माधुर्य-परिपूर्णः श्री-कृष्णः सर्व-विध-भक्तैर् एव परिचर्यते, एवम् एव ब्रह्म-परमात्म-मत्स्य-कूर्माद्य्-अवतारावतारि-तत्-तत्-सर्व-मूल-भूत-श्री-कृष्ण-तदीय-गुण-लीला-माधुर्यैश्वर्य-तत्-प्राप्ति-साधन-भक्ति-प्रेम-धर्म-ज्ञान-योग-वैराग्याद्य्-अखिल-तत्त्व-प्रदर्शको ग्रन्थोऽयम् अपि तत्-स्वरूप-भूत इति सर्वं समञ्जसम् ।

पुरुषः प्रकृतीक्षण-कर्ता अण्डं सृष्ट्वा यदा विनिर्भिद्य स्वरूप-भूताद् आत्मनः सकाशात् पृथक्-कृत्य विनिर्गतो बहिः स्थितः, तदा आत्मनः स्वस्य अयनं शयन-स्थानं तस्मिन्न् एव ब्रह्माण्डे अन्विच्छन् तपो गर्भोद-संज्ञो अस्राक्षीत् । शुचिः स्वयम् अतः शुचीः शुद्धाः, न तु क्षीरोदादि-तुल्या इत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ २.१०.११ ॥

तास्व् अवात्सीत् स्व-सृष्टासु सहस्रं परिवत्सरान् ।

तेन नारायणो नाम यद् आपः पुरुषोद्भवाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्सु वासं नारायण-नाम-निरुक्त्या14 स्पष्टयति । तेन अप्सु वासेन । यद् यस्मात् पुरुषो नरः, तस्माद् उद्भवो यासां, ता नारा आपोऽयनम् अस्येति नारायण इत्य् अर्थः । तद् उक्तम्—

आपो नारा इति प्रोक्ता आपो वै नर-सूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ इति ॥११॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । नारेषु स्थितत्वान् नारायण इति भावः । अत्र प्रमाणम् आह—तद् उक्तम् इति । नरस्य भगवतः सूनवः पुत्राः, ता आपः पूर्वं प्रलये यतोऽयनं वास-स्थानं, तेन हेतुनेति स्मृत्य्-अर्थः ॥११॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं ब्रह्माण्डं कर्तुम् आरभ्यापि शयन-लीलार्थं कञ्चित् कालं स्थगित-चेष्ट आसीद् इत्य् आह—तास्व् अवात्सीद् इति ॥११॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अप्सु वासं नारायण-नाम-निरुक्त्या स्पष्टयति । तेन अप्सु वासेन नारायण इति नाम अभूत् । कुतः ? यद् यस्माद् आपः पुरुषाद् उद्भवन्ति इति ता इति । नरः पुरुषः, तस्माज् जाता नारा आपोऽयनं यस्य स नारायण इति नाम । तद् उक्तम्—

आपो नारा इति प्रोक्ता आपो वै नर-सूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ इति ॥११॥
———————————————————————————————————————

॥ २.१०.१२ ॥

द्रव्यं कर्म च कालश् च स्वभावो जीव एव च ।

यद्-अनुग्रहतः सन्ति न सन्ति यद्-उपेक्षया ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य प्रभावम् आह । द्रव्यम् उपादानम् । कर्मादीनि निमित्तानि । जीवो भोक्ता । यस्यानुग्रहात् सन्ति, कार्य-क्षमा भवन्तीत्य् अर्थः ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य समष्टिविराडन्तर्यामिणः उपादाः पृथिव्यादि जीवो हिरण्यगर्भः अनुग्रहादन्वयात् । इत्य् अर्थ इति । इति न हि परमात्मानं विना जीवो वा तिष्ठेद् इति भावः ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च सर्वं तद् व्यर्थम् एवसीद् इत्य् आह—द्रव्यम् इति ॥१२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य समष्टि-विराड्-अन्तर्यामिणः प्रभावम् आह—द्रव्यम् उपादानं पृथिव्य्-आदिकम् । कर्मादीनि निमित्तानि । जीवो हिरण्यगर्भो भोक्ता । यस्यानुग्रहात् यद्-अन्वयात् । न हि परमात्मना विना जीवो देहो वा तिष्ठेत्, स्व-कार्य-क्षमो वा भवेत् ॥१२॥

———————————————————————————————————————

॥ २.१०.१३ ॥

एको नानात्वम् अन्विच्छन् योग-तल्पात् समुत्थितः ।

वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

तत्-तन्-नियामकत्वेन बहुत्वं प्राप्तुम् ईश्वरः ।

अण्डं स्व-वीर्यं तत्-स्थः सन् कामाद् अन्तस् त्रिधा व्यधात् ॥ इति च ॥१३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **योग एव तल्पं शय्या तस्मात् । वीर्यं गर्भ-रूपं15 देहम् । हिरण्मयम् इव प्रकाश-बहुलम् ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समष्टि-विराड् एव कथम् अभूद् इत्य् अपेक्षायाम् आह—एकः प्रलये स्वांशाजीवानात्मनि विलाप्यैकत्वेन स्थितः अनु अनन्तरं सृष्टिकाले एकोऽहं बहुस्याम् इति श्रुतेर्नानात्वमिच्छंस्तानेव जीवानात्मनः सकाशाद्विभक्तान् कुर्वन् योगः स्वमहिमस्थितिलक्षण एव तल्पं शय्या तस्मान्महाप्रलये रात्रिस्थानीये शयित्वा सृष्टिकाले प्रातरुत्थितः सन् देवो दीव्यन् पुरुषः मायया स्वशक्त्या महत्तत्त्वादीनि कारणानि सृष्ट्वा तैः कार्यभूतं वीर्यं हिरण्मयं कनकवर्णं प्रकाशबहुलं ब्रह्माण्डं सावरणमसृजद् इति महासमष्टिसृष्टिः ततश् च तेषाम् एव महत्तत्वादीनां किञ्चित्किञ्चिदंशैर्भगवच्छक्त्यैव परस्परं मिलितैः समष्टिविराट्पञ्चाशत्कोटियोजनपरिमिताण्डकटाहमध्यगः सृष्टोभूत् । तदैवादिषुरुषस्तदेवाण्डकटाहं प्रविश्य तदर्द्धं स्वसृष्टजलेनापूर्य तत्रस्थं समष्टिविराजं खजठरमध्यगतं कृत्वा सहस्त्रवर्षाणि तस्मिन् गर्भोद एव सुष्वाप तदन्ते योगतल्पात्समुस्थितः सन् हिरण्मयं वीर्यं समष्टिविराजं त्रिधा व्यसृजत् ॥१३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एक इति सार्धम् । तत्र महा-समष्टि-व्यष्टि-जीवानां त्रयाणां तद्-उपाधीनां च सृष्टि-प्रक्रियाम् अभेद-प्रायतया विवरीतुम् आह—एक इति । एकः प्रलये स्वांशान् जीवान् आत्मनि विलाप्यैकत्वेन स्थितः, संप्रति तु तत्-तत्-स्वांशान् आविर्भाव्य नानात्वम् अन्विच्छन् योग-निद्रा-स्थानात् समुत्थितः । ततश् च वीर्यं ब्रह्माण्ड-समूहोत्पादनार्थम् अंशतो विभक्तीकृतं तत्त्व-समुदाय-रूपं ब्रह्माण्ड-समूह-बीजम् ॥१३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **समष्टि-विराड् एव कथम् अभूत् ? इत्य् आकाङ्क्षायाम् आह—एकः प्रलये स्वांशान् जीवान् आत्मनि विलाप्य एकत्वेन स्थितः । अनु अनन्तरं, सृष्टि-काले । नानात्वम् इच्छन्, तान् एव जीवान् आत्मनः सकाशाद् विभक्तान् कुर्वन् । योग एव तल्पं शय्या तस्माद् इति महा-प्रलये रात्रि-स्थानीये शयित्वा, सृष्टि-काले प्रातर् उत्थितः सन्, देवो दिव्यान् पुरुषः । मायया स्व-शक्त्या । महत्-तत्त्वादीनि कारणानि सृष्ट्वा, तैः कार्य-भूतं वीर्यं हिरण्मयं कनक-वर्णं, प्रकाश-बहुलं ब्रह्माण्डं सावरणम् असृजद् इति महा-समष्टि-सृष्टिः । ततश् च तेषाम् एव महत्-तत्त्वादीनां किञ्चित्-किञ्चिद्-अंशैर् भगवच्-छक्त्यैव परस्पर-मिलितैः समष्टि-विराट् पञ्चाशत्-कोटि-योजन-परिमिताण्ड-कटाह-मध्य-गतः सृष्टोऽभूत् । तदैवादि-पुरुषस् तद् एवाण्ड-कटाहं प्रविश्य, तद्-अर्धं स्व-सृष्ट-जलेनापूर्य, तत्रस्थं समष्टि-विराजं स्व-जठर-मध्य-गतं कृत्वा सहस्र-वर्षाणि तस्मिन् गर्भोद एव सुष्वाप । तद्-अन्ते योग-तल्पात् समुत्थितः हिरण्मयं वीर्यं समष्टि-विराजं त्रिधा व्यसृजत् । त्रिधैव किम् ? तत्राह—अधिदैवम् इत्य् आदि । एष एव समष्टिस् तस्य नाभि-द्वारात् कर्मल-नालात्मको भविष्यति । स एव पुनश् चतुर्दश-लोकात्मको विराज-संज्ञः स्थूलो भावी । सूक्ष्मस् तु हिरण्यगर्भः समष्टि-जीवः, वैराज एव विसर्गाद्य्-अर्थं चतुर्मुखो भावीति ब्रह्मणस् त्रैविध्यम् । अथ प्रकृतम् अनुसरामः ॥१३॥

———————————————————————————————————————

॥ २.१०.१४ ॥

अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः ।

अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्यैव प्रपञ्चः अथेत्य् आदिना ॥१४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **त्रिधैव किं तत्राह—अधिदैवमित्य्-आदि । एष एव समष्टिस्तस्य नाभिद्वाराकमलनालात्मको भविष्यति । स एव पुनश्चतुर्दशलोकात्मको वैराजसंज्ञः स्थूलो भावी सूक्ष्मं तु हिरण्यगर्भः समष्टिजीवो वैराज एव विसर्गाद्यर्थं चतुर्मुखो भावीति ब्रह्मणस्त्रैविध्यम् । अथ प्रकृतमनुसरामः अथ इति । आधिदैवादिकाद्युक्त्वा त्रिविधादन्यदिदं त्रिविधमित्य् अर्थः ॥१४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथेत्य् अर्धकम् ॥१४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथेति अधिदैवाइकाद् उक्ता त्रिविधाद् अन्यद् इदं त्रिविधम् इत्य् अर्थः ॥१४॥

———————————————————————————————————————

॥ २.१०.१५ ॥

अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः ।

ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्तः शरीरे य आकाशस् तस्मात् क्रिया-शक्त्या तत्र विविधं चेष्टमानस्य सतः । ओज इन्द्रिय-शक्तिः । सहो मनः-शक्तिः । बलं देह-शक्तिः । ततः शक्त्य्-आत्मकात् सूक्ष्माद् रूपात् प्राणः सूत्राख्यः । महान् मुख्यः । असुः प्राणः सर्वेषाम् ॥१५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **असुर्जीवनव्यञ्जकः ॥१५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ त्रिधात्वं विवरीतुं प्रथमं प्राणं विवृणोति—अन्तर् इति द्वाभ्याम् । अन्तः शरीरे तस्यैव गर्भी-भूतस्य महा-समष्टि-रूपस्य पुरुषस्याभ्यन्तरे य आकाशस् तस्मात् प्राणो जज्ञे स्पष्टी-बभूव । ततो विचेष्टमानस्य सतः ओजः सहो बलं च जज्ञे इत्य् अन्वयाह् ॥१५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्तः शरीरे य आकाशस् तस्मात् क्रिया-शक्त्या तत्र विविधं चेष्टमानस्य पुरुषस्य समष्टि-विराजः । ओज इन्द्रिय-शक्तिः । सहो मनः-शक्तिः । बलं देह-शक्तिः । ततस् त्रिविध-शक्त्य्-आत्मकात् सूक्ष्माद् रूपात् । प्राणः सूत्राख्यः । महान् श्रेष्ठः । अनुजीवन-व्यञ्जकः ॥१५॥

———————————————————————————————————————

॥ २.१०.१६ ॥

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्व-जन्तुषु ।

अपानन्तम् अपानन्ति नर-देवम् इवानुगाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **महत्त्वं दर्शयति । प्राणा इन्द्रियाणि यं प्राणन्तं चेष्टां कुर्वन्तम् अनु पश्चात् प्राणन्ति चेष्टां कुर्वन्ति । अपानन्तं चेष्टां त्यजन्तम् अनु अपानन्ति चेष्टां त्यजन्ति । राजानम् अनु भृत्या इव ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जीवनव्यञ्जकत्वेन महत्त्वं दर्शयति अन्विति ॥१६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अन्व् इति । प्राणा व्यष्टि-गता वायवः । मुख्य-प्राण-शक्त्येव व्यष्टि-प्राण-शक्तिर् इत्य् एवात्र विवक्षितम् । अविवक्षित-वाच्यार्थ-ध्वनित्वात् ॥१६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **जीवन-व्यञ्जकत्वेन महत्त्वं दर्शयति—अन्व् इति । प्राणा इन्द्रियाणि । यं प्राणन्तं चेष्टां कुर्वन्तं तम् अनु पश्चात् प्राणन्ति चेष्टां कुर्वन्ति । अपानन्तं चेष्टां त्यजन्तम् अनु अपानन्ति । राजानम् अनु भृत्या इव ॥१६॥

———————————————————————————————————————

॥ २.१०.१७ ॥

प्राणेनाक्षिपता क्षुत् तृड् अन्तरा जायते विभोः16** ।**

पिपासतो जक्षतश् च प्राङ् मुखं निरभिद्यत ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्षिपता चालयता17 निमित्तेन क्षुत्-तृडादिकम् । प्रभोर् इति विराड्-जीवाभेदेन उपासनार्थम् उक्तम् । आजायते स्म । ततो जक्षतः, भक्षयितुम् इच्छत इत्य् अर्थः । प्राक् प्रथमम् । निरभिद्यत विभक्तम् अभूत् ॥१७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पिपासतो जक्षतश्चेत्यनेन सुप्ततद्वासनामात्रमुच्यते यदेव स्वभावरूपं स तत्तत्कार्यं सम्पादयतीत्येवमुत्तरत्रापि ज्ञेयम् । मुखम् इति । व्यष्टिमुखम् एव तन्मुखत्वेनोपदिश्यते तत्तत्समुदा यकारणमात्ररूपत्वात्तन्मुखस्य, एवमुत्तरत्रापि एकत्वं समूहापेक्षया एकोपलक्षणत्वेन वा ज्ञेयम् । अन्तरा उदरमध्ये प्रभोर्वैराजस्य ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पिपासतो यक्षतश् चेत्य् अनेन सुप्त-तत्-तद्-वासना-मात्रम् उच्यते, यद् एव स्वभाव-रूपं सत् तत्-तत्-कार्यं सम्पादयतीति । एवम् उत्तरत्रापि ज्ञेयम् । मुखम् इति व्यष्टि-मुखम् एव तन्-मुखत्वेनोपदिश्यते तत् समुदाय-कारण-मात्र-रूपत्वात् तन्-मुखस्य । एवम् उत्तरत्रापि । एकत्वम् अत्र समूहापेक्षया एकोपलक्षणत्वेन वा ज्ञेयम् ॥१७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **क्षिपता चालयता निमित्तेन क्षुत्-तृडादिकं जायते स्म । प्रभोर् इत्य् उपासनार्थम् । तत्र समष्टौ परमेश्वरत्वारोपः । ततो जक्षतः, भक्षयितुम् इच्छत इत्य् अर्थः । प्राक् प्रथमम् । निरभिद्यत विभक्तम् अभूत् ॥१७॥

———————————————————————————————————————

॥ २.१०.१८ ॥

मुखतस् तालु निर्भिन्नं जिह्वा तत्रोपजायते ।

ततो नाना-रसो जज्ञे जिह्वया योऽधिगम्यते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ताल्व् अधिष्ठानम्, जिह्वेन्द्रियम्, नाना-रसो विषयः, वरुणश् च देवता ज्ञातव्या । एवं सर्वत्राधिष्ठानम् इन्द्रियं देवता विषय इत्य् एतच् चतुष्टयम् अनुक्तम् अप्य् ऊह्यम् ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पूर्वमुपक्रान्तमधिदैवादित्रैविध्यं विवृणोति मुखत इति । मुखतः मुखोत्पत्तेरनन्तरमित्यर्थः। तत्राधिष्ठानविषयावधिभूतमिन्द्रियमध्यात्मं देवताधिदैवम् इति सर्वत्र चातुर्विध्येऽपि त्रैविध्यम् एव द्रष्टव्यम् । तत्र तालुनि । ततो जिह्नोत्पत्तेरनन्तरम् । यो नाना रसः । यद् वा, मुखत इति सप्तम्यर्थे तसिः मुखे तालु निर्भिन्नमित्य् अर्थः ॥१८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त्रिधात्वं विवृण्वंस् तद् उपलक्ष्य चतुर्धात्वम् अपि दर्शयति—मुखत इति । ततो नाना-रसो जज्ञे इति तु समष्टेर् एव धर्मः ॥१८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पूर्वम् उपक्रान्तम् अधिदैवादि-त्रैविध्यं विवृणोति—मुखतः मुखोत्पत्त्य्-अनन्तरम् इत्य् अर्थः । ताल्व् अधिष्ठानम् । जिह्वा इन्द्रियम् । नाना-रसो विषयः । वरुणश् च देवता ज्ञातव्या । तत्राधिष्ठान-विषयावधि-भूतं, इन्द्रियम् अध्यात्मम् । देवता अधिदैवम् इति सर्वत्र चातुर्विध्येऽपि त्रैविध्यम् एव द्रष्टव्यम् ॥१८॥

———————————————————————————————————————

॥ २.१०.१९-२० ॥

विवक्षोर् मुखतो भूम्नो वह्निर् वाग् व्याहृतं तयोः18** । \

जले वै तस्य**19** सुचिरं निरोधः**20** समजायत ॥१९॥**

नासिके निरभिद्येतां दोधूयति नभस्वति ।

तत्र वायुर् गन्ध-वहो घ्राणो नसि जिघृक्षतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विवक्षोर् वक्तुम् इच्छोः मुखत एव । वह्निर् देवता, वाग् इन्द्रियम्, व्याहृतं भाषणम् । तयोर् इतीन्द्रिय-देवताधीन त्व् अं कर्मणो21 दर्शयति ॥१९॥

नभस्वति प्राण-वायौ दोधूयति दोधूयमानेऽत्यन्तं प्रचलति सति । तत्र नासिकायां वायुर् देवता गन्धं वहतीति तथा । अनेन गन्धो विषयो दर्शितः । घ्राण इन्द्रियम् । जिघृक्षतो गन्धं ग्रहीतुम् इच्छतः ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भून्न इति । भगवदभेदापेक्षयोक्तम् । तस्य विराजः यदा जले विराजो निरोधोऽजायत तदा श्वासचलनं विना निर्वाह इति श्वासचलनमार्गभूते नासिके अभूताम् इति भावः । तयोर् वह्निवाचोः सम्बन्धि तदधीनं व्याहृतमित्य् अर्थः । कर्मणो व्याहृतस्येति स्वामिपदविवृतिः। यद् वा, तस्य व्याहृतस्य ॥१९-२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विवक्षोर् इत्य् अर्धकम् । जले वा इति सार्धकम् ॥१९-२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मुखतो मुखेऽधिष्ठाने । वह्निर् देवता, वाग् इन्द्रियम्, व्याहृतं भाषणं विषयः । तयोर् इन्द्रिय-देवतयोर् आधीनम् इत्य् अर्थः ॥१९॥

यदा जले विराजो विरोधोऽजायत, तदा श्वास-चलनं विना न निर्वाह इति श्वास-मार्ग-भूते नासिके अधिष्ठानम् । तत्र नभस्वति प्राण-वायौ । दोधूयमानेऽत्यन्तं चलति सति । वायुर् देवता, गन्धं वहतीति तथा । अनेन गन्धो विषयो दर्शितः । घ्राण इन्द्रियम् । जिघृक्षतो गन्धं ग्रहीतुम् इच्छतः ॥२०॥

———————————————————————————————————————

॥ २.१०.२१ ॥

यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः ।

निर्भिन्ने ह्य् अक्षिणी तस्य ज्योतिश् चक्षुर् गुण-ग्रहः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निरालोकं प्रकाश-शून्यम्22 आसीद् इति शेषः । निर्मक्षिकम् इतिवद् अव्ययीभावः । तदा आत्मानं देहं च-काराद् अन्यच् च वस्तु दिदृक्षतः । अक्षिणी स्थानम्, ज्योतिर् आदित्यो देवता, चक्षुर् इन्द्रियम्, ततो गुणस्य रूपस्य ग्रहो ग्रहणम् । अनेन रूपं विषयो दर्शितः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यदा आत्मा स्वस्मिन् निरालोकं निर्मक्षिकम् इतिवद् अव्ययी-भावः, आलोक्य-भाव आसीद् इत्य् अर्थः । आत्मानं स्वम् अन्यच् च वस्तु दिदृक्षतः, अक्षिणी अधिष्ठानं, ज्योतिर् आदित्यो देवता, चक्षुर् इन्द्रियं, ततो गुणस्य रूपस्य ग्रहणम् । अनेन रूपं विषयो दर्शितः ॥२१॥

———————————————————————————————————————

॥ २.१०.२२ ॥

बोध्यमानस्य ऋषिभिर् आत्मनस् तज् जिघृक्षतः ।

कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुण-ग्रहः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋसिभिर् वेदैर्23 बोध्यमानस्य । तद् आत्मनः प्रबोधनं ग्रहीतुम् इच्छतः । ततो गुण-ग्रहः शब्दस्य ग्रहणम् ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततस् तेन चक्षुषा अनेन गुणग्रह इति वचनेन ॥२१-२२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **बोध्येति स्वस्य बोध्यमानता-ज्ञानम् अन्तः समान्वयाकारेण स्फुरणं च परा-पश्यन्ती-मध्यमाख्य-वेद-द्वारा परमात्मनैवेति ज्ञेयम् ॥२२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऋसिभिर् वेदैर् बोध्यमानस्य आत्मनः तत्-प्रबोधनं ग्रहीतुम् इच्छतः । ततो गुण-ग्रहः शब्द-ग्रहणम् ॥२२॥

———————————————————————————————————————

॥ २.१०.२३ ॥

वस्तुनो मृदु-काठिन्य- लघु-गुर्व्-ओष्ण-शीतताम् ।

जिघृक्षतस् त्वङ् निर्भिन्ना तस्यां रोम-मही-रुहाः ।

तत्र चान्तर् बहिर् वातस् त्वचा लब्ध-गुणो वृतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मृदुत्वं च काठिन्यं च लघुत्वं च गुरुत्वं च आ उष्णत्वम् ईषद् उष्णत्वं च शीततां चेत्य् अर्थः । यद्यप्य् अत्युष्णत्वम् अपीन्द्रिय-विषय एव तथापि तस्य जिघृक्षाभावाद् ओष्णत्वम् इत्य् उक्तम् । गुर्वुष्णेति पाठे षण्-आदेशश् छान्दसः । वस्तुन एतान् धर्मान् जिघृक्षतस् त्वङ् निर्भिन्ना । त्वग्-इन्द्रियाधिष्ठानं चर्म जातम् इत्य् अर्थः । तस्यां रोमाणीन्द्रियं, मही-रुहाश् च देवता जाताः । वस्तुनि हस्तेनातोलिते लघुत्व-गुरुत्वयोर् ज्ञानात् तयोर् अपि त्वग्-इन्द्रिय-विषयत्वम् इति पौराणिकाः । तत्र त्वच्य् अन्तर् बहिश् च वातो वृत आवृत्य स्थितः । कर्तरि निष्ठा । कथम्भूतः ? त्वचा लब्धो गुणः स्पर्शो येन । अयम् अर्थः—त्वग्-इन्द्रियम् एव बहिः कण्डूति-सहितं स्पर्शं गृह्णल् लोम-शब्देनोच्यते, तत्र मही-रुहाणां देवत्वम्, अन्तर् बहिश् च स्पर्शं गृह्णत् तद् एव त्वक्-शब्देनोच्यते, तत्र वातो देवता । तथा च तृतीये वक्ष्यति—

त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः ।
अंशेन लोमभिः कण्डूं यैर् असौ प्रतिपद्यते ॥
निर्भिन्नान्यस्य चर्माणि लोक-पालोऽनिलोऽविशत् ।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ [भा।पु। ३.६.१८-१९] इति ।

तत्र चर्माणीति चर्मोपलक्षिता त्वग् इत्य् अर्थः । प्राणेनांशेनेति, प्राण-वायु-व्याप्तेन त्वग्-इन्द्रियेणेत्य् अर्थः । बह्व्-ऋच-श्रुतौ24 त्व् एक एवांशो निर्दिष्टः, त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधि-वनस्पतयः इति ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति ।

ईषदर्थे क्रियायोगे मर्यादाभिविधौ तथा ।
एतमातं डितं विद्याद्वाक्यस्मरणयोरङित् ॥
आकारस्तु निपातोयं डिदङिद्भेदतो द्विधा ।
तत्रापि च डिदाकारः सन्धि प्राप्नोति न त्वङित् ॥

इत्य्-उक्तरत्राकारस्य ङित्त्वात्सन्धिर्जात इति भावः । यणादेश इति । अकः सवर्णे दीर्घः इति दीर्घे प्राप्ते यणादेशोऽत्रार्षः । इत्य् अर्थ इति अत्राधिष्ठेयेनाधिष्टानग्रहणमुपचाराद् इति भावः । निष्ठाक्तप्रत्ययः । अत्राशयं स्फोटयति । अयमर्थ इति । तत्र तृतीयस्कन्धश्लोके इत्य् अर्थ इत्युभयत्रेयं व्याख्येति एक एव त्वद्रूप एवेत्यर्थः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मृदुत्वं काठिन्यं लघुत्वं गुरुत्वम् आ उष्णत्वम् ईषद् उष्णत्वं शीततां ग्रहीतुम् इच्छतः । यद्यप्य् उष्णत्वम् अपीन्द्रिय-विषय एव, तथापि तस्य जिघृक्षाभावाद् ओष्णम् इत्य् उक्तम् । गुर्व्-उष्णेति पाठे षण्-आदेशश् छान्दसः । वस्तुन एतान् धर्मान् जिघृक्षतस् त्वचो निर्भिन्नाः । त्वग्-इन्द्रियाधिष्ठानं चर्म जातम् । वस्तुनि हस्तेनातोलिते लघुत्व-गुरुत्वयोर् ज्ञानात् तयोर् अपि त्वग्-इन्द्रिय-विषयत्वम् इति पौराणिकाः । त्वग् अधिष्ठानं, तत्र त्वच्य् अन्तर् बहिर् वृत आवृत्य स्थितः । वातो देवता । कीदृशः ? त्वचा त्वग्-इन्द्रियेण लब्धो गुणः स्पर्शो येन सः । तथा तस्यां त्वचि अधिष्ठाने, रोम इन्द्रियं, महीरुहा देवताः, कण्डूतयो विषयाश् च ज्ञेयाः । इति त्वचीन्द्रिय-द्वयं तिष्ठति । अयम् अर्थः—त्वग्-इन्द्रियम् एव बहिः कण्डूति-सहितं संस्पर्शं गृह्णत् रोम-शब्देनोच्यते । तत्र मही-रुहाणां देवतात्वं, अन्तर् बहिश् च स्पर्शं गृह्णत् तद् एव त्वक्-शब्देनोच्यते, तत्र वातो देवता । तथा च वक्ष्यति तृतीये—

त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः ।
अंशेन लोमभिः कण्डूं यैर् असौ प्रतिपद्यते ॥
निर्भिन्नान्यस्य चर्माणि लोक-पालोऽनिलोऽविशत् ।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ [भा।पु। ३.६.१८-१९] इति ।

25तत्र चर्माणीति चर्मोपलक्षिता त्वग् इत्य् अर्थः । प्राणेनांशेनेति, प्राण-वायु-व्याप्तेन त्वग्-इन्द्रियेणेत्य् अर्थः । बह्व्-ऋच-श्रुतौत्व् एक एवांशो निर्दिष्टः, त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधि-वनस्पतयः इति ॥२३॥

———————————————————————————————————————

॥ २.१०.२४ ॥

हस्तौ रुरुहतुस् तस्य नाना-कर्म-चिकीर्षया ।

तयोस् तु बलवान् इन्द्र आदानम् उभयाश्रयम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रुरुहतुर् निर्भिन्नौ । बलम् इन्द्रियम्, इन्द्रो देवता, तद्-उभयाश्रयम् आदानं कर्म ॥२४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उभयाश्रयमिन्द्रियदेवताधीनमित्य् अर्थः ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आदानम् आदीयमानं वस्तु विषय इत्य् अर्थः ॥२४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तयोर् हस्तयोर् बलम् इन्द्रियम्, तद्-युक्त इन्द्रो देवता, उभयाश्रयम् इन्द्रिय-देवताधीनम् आदानं विषयः ॥२४॥

———————————————————————————————————————

॥ २.१०.२५ ॥

गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् ।

पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अभिकामिकाम् अभीष्टां हिताम् इत्य् अर्थः । पद्भ्यां सह यज्ञो विष्णुर् एव स्वयं तद्-अधिष्ठातृ-रूपेण स्थितः । कर्मभिर् इति गत्य्-आख्या कर्म-शक्तिर् इन्द्रियम् उक्तम् । हव्यं क्रियत इति गति-प्राप्यं यज्ञार्थं द्रव्यं विषय इत्य् उक्तम् । नृभिर् इति व्यष्टि-जीवेष्व् अपीयम् एव रीतिर् इति दर्शयन्न् अराधिकारित्वं यज्ञादीनां दर्शयति ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यज्ञो विष्णुशक्त्याविष्टो देवताविशेषः । स्वयम् इति तस्याप्यन्यदेवापेक्षया प्राधान्यमाह—गतिं गमनं जिगीषत इति धात्वर्थस्याविवक्षितत्वादिच्छत इत्य् अर्थः । यद्यपि गुणः प्रकृत्यर्थोऽन्यत्र सात् इत्यनुभूतिना सन्नन्ते प्रकृत्यर्थस्यैव प्राधान्यमुक्तं तथाप्यस्य शास्त्रस्य छन्दोरूपत्वात्प्रत्ययार्थस्यापि प्राधान्यमत्र न दोषायेति ॥२५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **गतिम् इति । जिगीषतो वशीकर्तुम् इच्छतः अतः पद्भ्याम् इति पूर्ववत् पञ्चम्य् एव । यज्ञो विष्णु-शक्त्य्-आविष्ट-रूपा काचिद् देवता स्वयम् इति तथापि सर्वतः प्राधान्य-विवक्षया यत्र च सति नृभिः कर्तृभिः कर्मभिः कृत्वा हव्यं क्रियते कर्मभिर् इति बहुत्वं तद्-वृत्ति-भेदापेक्षया हव्यम् इति मुख्यत्वेनोक्तं सर्वम् अप्य् आहवनीयं तु ज्ञेयम्, तद्-अर्थम् एव तत्र तत्र गमनात् ॥२५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गतिं गमनम् । जिगीषत इति धात्व्-अर्थस्याविवक्षितत्वाद् इच्छत इत्य् अर्थः । अभिकामिकाम् अभीष्टाम् । यज्ञो विष्णु-शक्त्य्-आविष्टो देवता, पद्भ्यां पदोः तद्-अधिष्ठातृ-रूपेण स्थित इत्य् अर्थः । कर्मभिर् इति गत्य्-आख्य-कर्म-शक्तिर् इन्द्रियम् उक्तम् । कर्मभिर् इन्द्रियेण हव्यं क्रियत इति हवनीयं द्रव्यं देशान्तर-स्थं गति-प्राप्यं क्रियते इति विषय उक्तः । नृभिर् इति व्यष्टि-जीवेष्व् इयम् एव रीतिः सर्वत्र, तथा सर्व एव विषयाः शास्त्र-विहिता एव ग्राह्या इति बोधितम् ॥२५॥

———————————————————————————————————————

॥ २.१०.२६ ॥

निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः ।

उपस्थ आसीत् कामानां प्रियं तद्-उभयाश्रयम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रजा अपत्यम् आनन्दो रतिर् अमृतं स्वर्गादि तद्-अर्थिनः । शिश्नोऽधिष्ठानम् उपस्थम् इन्द्रियं प्रजापतिश् चासीद् इति ज्ञेयम् । तद्-उभयाश्रयं कामानां सम्बन्धि प्रियं सुखम् ॥२६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रजानन्दामृतानि विषयाः । तत्रानन्द-शब्देन तद्-धेतवः स्त्रिय एव उच्यन्ते । तत्र च स्त्रीणां विषयत्वं साक्षात्त्वेन भोग्यत्वात् अन्ययोस् तु तद्-उत्पाद्यतया भोग-हेतुत्वात् । स्वर्गादिकं च गार्हस्थ्य-धर्म-मय-प्रजा-स्त्री-परिकराद् उत्पाद्यं भवति ॥२६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रजा अपत्यम् । आनन्दो रतिः । अमृतं स्वर्गादि, तद्-अर्थिनः । शिश्नो ‘धिष्ठानम् । उपस्थम् इन्द्रियम् । प्रजापतिर् देवता ज्ञेयः । कामानां श्री-सम्भोगानां सम्बन्धि, प्रियं सुखं विषयः, तद् उभयाश्रयम् इन्द्रिय-देवताधीनम् ॥२६॥

———————————————————————————————————————

॥ २.१०.२७ ॥

उत्सिसृक्षोर् धातु-मलं निरभिद्यत वै गुदम् ।

ततः पायुस् ततो मित्र उत्सर्ग उभयाश्रयः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

मलादिकं कदाचित् तु ब्रह्मा लोकाभिपत्तये ।

आत्मनो निर्ममे कामात् सर्वेषाम् अभवत् ततः ।
वशित्वात् तस्य दिव्यत्वाद् इच्छया भवति प्रभोः ॥ इति च ॥२७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धातु-मलं भुक्तान्नादीनाम् असारांशं त्यक्तुम् इच्छोः । गुद-पायु-मित्रोत्सर्गा अधिष्ठानेन्द्रिय-देवता-विषयाः ॥२७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्रानन्दशब्देन तद्धेतवः स्त्रिय एवोच्यन्ते तत्र च स्त्रीणां विषयत्वं साक्षात्तेन भोग्यत्वात् । अन्ययोस्तु तदुत्पाद्यतया भोगहेतुत्वात् । स्वर्गादिकं च गार्हस्थ्यधर्ममयप्रजास्त्रीपरिकरतदुत्पाद्यं भवति तदुभयाश्रयं कामसुखमिन्द्रियदेवताधीनम् ॥२६-२७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उत्सर्ग उत्सृज्यमानं मलम् ॥२७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धातु-मलं भुक्तान्नादीनाम् असारांशं त्यक्तुम् इच्छोः । गुदम् अधिष्ठानम् । पायुर् इन्द्रियम् । मित्रो देवता । उत्सर्गो विषयः ॥२७॥

———————————————————————————————————————

॥ २.१०.२८ ॥

आसिसृप्सोःपुरः पुर्या नाभि-द्वारम् अपानतः ।

तत्रापानस् ततो मृत्युः पृथक्त्वम् उभयाश्रयम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुर्या देहात् पुरो देहान्तराणि आसिसृप्सोः सर्वतो गन्तुम् इच्छोः । नाभि-द्वारं निरभिद्यतेत्य् अनुषङ्गः । अपानतोऽपगच्छतः । पृथक्त्वं मरणम् । नाभ्य्-आदीन्य् अधिष्ठानादीनि । नाभ्यां हि प्राणापानयोर् बन्ध-विश्लेषे मृत्युर् इति प्रसिद्धम् ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आसिसृप्सोर् अपानत इति । विशेषण-द्वयं क्रियेच्छा-क्रिययोर् भेदेन । पृथक्त्वम् इतीन्द्रिय-देवताश्रयं मरणम् इति शेषः ॥२८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पुर्या देहात् पुरो देहान्तराणि आसिसृप्सोः सर्वतो गन्तुम् इच्छोः । अपानतोऽपान-मार्गेण उपलक्षणम् इदं प्राण-मार्गेण च, प्राणापानयोर् बन्ध-विश्लेषे मृत्युर् इति प्रसिद्धेः । नाभि-द्वारम् अधिष्ठानं, अपान इन्द्रियं, मृत्युर् देवता, पृथक्त्वं मरणं विषयः ॥२८॥

———————————————————————————————————————

॥ २.१०.२९ ॥

आदित्सोर् अन्न-पानानाम् आसन् कुक्ष्य्-अन्त्र-नाडयः ।

नद्यः समुद्राश् च तयोस् तुष्टिः पुष्टिस् तद्-आश्रये ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्न-पानानाम् आदित्सोः संग्रहेच्छोः कुक्षिश् चान्त्राणि च नाड्यश् चासन् । तत्र कुक्षिर् अधिष्ठानम् । अन्त्राण्य् अन्न-संग्रहे करणम् इन्द्रिय-स्थानीयम् । नाड्यस् तु पानं ग्रहे । तयोर् नाड्य्-अन्त्र-वर्गयोः क्रमेण नद्यः समुद्राश् च देवते । तुष्टिर् उदर-भरणं, पुष्टिस् तु रस-परिणामतः स्थौल्यम् । तद्-आश्रये26 तद्-उभय-निमित्ते । तत्रान्न-संग्रहेच्छोः कुक्ष्य्-अन्त्र-समुद्र-तुष्टय इति चतुष्टयम् । पेय-संग्रहेच्छोः कुक्षि-नाडी-नदी-पुष्टय इति विवेकः ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततोऽनन्तरम् । अपानतोऽपानमार्गेण उपलक्षणम् इदं प्राणमार्गेणोत्पन्नस्यापि नाभिद्वारमधिष्ठानमपान इन्द्रियं मृत्युर्देवता मरणं विषयः ॥२८-२९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आदित्सोर् इति । अन्न-पानानि विषयाः पानानि पानीयानि । तुष्टि-पुष्टी द्वे द्वयोर् अपि प्रत्येकं क्रिये ज्ञेये ॥२९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्न-पानानाम् आदित्सोः संग्रहेच्छोः कुक्षिश् चान्त्राणि च नाड्यश् चासन् । तत्र कुक्षिर् अधिष्ठानम् । अन्त्राण्य् अन्न-संग्रहे करणम् इन्द्रिय-स्थानीयम् । नाड्यस् तु पान-सङ्ग्रहे इन्द्रियं, तयोर् नाड्य्-अन्त्र-वर्गयोः क्रमेण नद्यः समुद्राश् च देवते । तुष्टिर् उदर-भरणं, पुष्टिस् तु रस-परिणामतः स्थौल्यम् । क्रमेणैतौ विषयौ, तद्-आश्रयेइन्द्रिय-देवताधीने तुष्टि-पुष्टी ॥२९॥

———————————————————————————————————————

॥ २.१०.३० ॥

निदिध्यासोर् आत्म-मायां हृदयं निरभिद्यत ।

ततो मनश् चन्द्र इति सङ्कल्पः काम एव च ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निदिध्यासोर् नितरां चिन्तयितुम् इच्छोः । कामोऽभिलाषः । हृदय-मनश् चन्द्र-संकल्पा अधिष्ठानादयः ॥३०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मायां मायिकं वस्तु च संकल्पस्तत्तत्पदार्थचिन्तनं कामस्तत्तद्विषयाभिलाषः हृदयमधिष्टानं मन इन्द्रियं चन्द्रो देवता संकल्पो विषयः । तत्र हृदयमेवाधिष्ठानं चित्ताहंकारबुद्धय इतींन्द्रियाणि तद्देवताश् च वासुदेवरुद्रब्रह्माणस्तृतीयस्कन्धाज्ञेयाः । तदेवमष्टादशेन्द्रियाणि प्रसिद्धान्येकादशैव ज्ञेयानि ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **निदिध्यासोर् इति । मनो-जन्मनः पूर्वम् अपीच्छा मनसः कारणावस्थाम् अवलम्ब्य जायते । आत्म-मायाम् आत्म-विषयिकां स-कार्यां मायां विषयोऽत्र आत्म-मायैव, काम-सङ्कल्पौ त्व् इच्छा-क्रिये ॥३०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आत्मनो मायां मायिकं च वस्तु निदिध्यासोश् चिन्तयितुम् इच्छोः । हृदयम् अधिष्ठानं, मन इन्द्रियं, चन्द्रो देवता, सङ्कल्पाभिलाषाद्या विषयाः, अत्र हृदय एवाधिष्ठाने, चिन्ताहङ्कार-बुद्धयः इन्द्रियाणि, तद्-देवताश् च वासुदेव-रुद्र-ब्रह्माणः, देवताः तृतीय-स्कन्धाज् ज्ञेयाः । तद् एवम् अष्टादशेन्द्रियाणि प्रसिद्धान्य् एकादशैव ज्ञेयानि ॥३०॥

———————————————————————————————————————

॥ २.१०.३१ ॥

त्वक्-चर्म-मांस-रुधिर- मेदो-मज्जास्थि-धातवः ।

भूम्य्-अप्-तेजोमयाः सप्त प्राणोव्योमाम्बु-वायुभिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् अधिदैवादि-भेदं विभज्योक्त्वा तद्-अंश-भूतानां धात्व्-आदीनं स्वरूपम् आह—त्वग् इति द्वाभ्याम् । त्वक् स्थूलम् । चर्म तद्-उपरि स्थितं सूक्ष्मम् । त्वग्-आदयोऽस्थ्य्-अन्ता द्वन्द्वैकवद् भावेन निर्दिष्टाः सप्त ये धातवस् ते भूम्य्-अप्-तेजो-मयाः । तेषां च पाञ्च-भौतिकत्वेऽपि वाय्व्-आकाशयोर् आहारादि-रूपेण संवर्धकत्वाभावाद् एवम् उक्तम्27 ॥३१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **व्योमाम्बुभ्यां पुष्टा वायव एव प्राण इत्य् अर्थः । तृतीयाबहुवचनमार्षम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अधिदैवादि-भेदं विभज्योक्त्वा तद्-अंश-भूतानां धात्व्-आदीनं स्वरूपम् आह—त्वग् इति द्वाभ्याम् । त्वक्-चर्मणोः स्थौल्य-सौक्ष्म्याभ्यां भेदः कल्प्यः । त्वग्-आदयोऽस्थ्य्-अन्ता ये सप्त धातवो भूम्य्-अप्-तेजो-मयाः, तेषां च पाञ्च-भौतिकत्वेऽपि वाय्व्-आकाशयोर् आहारादि-रूपेण संवर्धकत्वाभावाद् एवम् उक्तम् । प्राण इति व्योमाम्बुभ्यां पुष्टा वायवः प्राण इत्य् अर्थः । तृतीया-बहु-वचनम् आर्षम् ॥३१॥

———————————————————————————————————————

॥ २.१०.३२ ॥

गुणात्मकानीन्द्रियाणि भूतादि-प्रभवा गुणाः ।

मनः सर्व-विकारात्मा बुद्धिर् विज्ञान-रूपिणी ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गुणात्मकानि गुणेषु शब्दादिष्व् आत्मा येषाम्, विषयाभिमुख-स्वभावानीत्य् अर्थः । गुणाः शब्दादयः । भूतादिर् अहंकारस् ततः प्रकर्षेण भवन्तीति तथा । अहंकार-कल्पित-शोभन-स्वभावाः, न तु वस्तुतस् तथेत्य् अर्थः । अत्र हेतुः—यतो मन एव सर्व-विकाराणाम् आत्मा28 स्वरूपम् । तामसेष्व् एव विषयेषु संकल्प-विकल्प-मात्रं करोति, न तु हेयोपादेय-विवेकम् । बुद्धिस् तु तथाभूतार्थ-विज्ञान-रूपिणी नतु परमार्थ-ग्राहिणीति वैराग्यार्थम् उक्तम् । अनेनैव बुद्धि-मनसोः स्वरूपं चोक्तम् ॥३२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति वस्तुतः शब्दादीनां बन्धकत्वाच्छोभनता नास्तीति भावः। अत्र गुणानामशोभनत्वे मन एव सर्वविकारान्संजीवयतीति भावः । तामसेष्वेव विषयेषु संकल्पविकल्पं करोति न तु हेयोपादेयविवेकं बुद्धिस् तु तथाभूतार्थविज्ञानरूपिणी न तु परमार्थप्राहिणी अनेन बुद्धिमनसोः स्वरूपं चोक्तम् । सन्दर्भस्तु विकारा हर्षदुःखादयः। विज्ञानं विवेकशक्तिः । बुद्धीद्रियमनःप्राणान् इत्याद्युक्तेः। पारमार्थिक्यपि सा भवतीति ज्ञेयम् ॥३२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रसङ्गाद् इन्द्रियाणां लक्षणम् आह—गुणात्मकानीति । गुणेषु विषयेषु आत्मा स्वभाव औत्पत्तिकः सम्बन्धो येषां विकारा हर्ष-दुःखादयः, विज्ञानं विवेक-शक्तिः, बुद्धीन्द्रिय-मनः-प्राणान् [भा।पु। १०.८७.२] इत्य् आद्य् उक्तेः पारमार्थिक्य् अपि सा भवतीति ज्ञेयम् ॥३२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुणात्मकानि गुणेषु शब्दादिष्व् आत्मा प्रवृत्ति-स्वभावो येषाम्, तानि विषयाभिमुख-स्वभावानीत्य् अर्थः । गुणाः शब्दादयः । भूतादिर् अहंकारः । ततः प्रकर्षेण भवन्तीति तथा । सर्व-विकाराणाम् आत्मा सर्वान् विकारान् मन एव सञ्जीवयतीत्य् अर्थः । विज्ञानं विवेक-शक्तिस् तद्-रूपिणी, अनेन बुद्धि-मनसोः स्वरूपं चोक्तम् ॥३२॥

———————————————————————————————————————

॥ २.१०.३३ ॥

एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया ।

मह्य्-आदिभिश्29** चावरणैर् अष्टभिर् बहिर् आवृतम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

स्थूलं भगवतो रूपं ब्रह्म-देह उदाहृतः ।

तत्-तन्त्रत्वाच् च सूक्ष्मं च शङ्ख-चक्र-गदाधरम् ॥ इति च अध्यात्मे ॥३३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपसंहरति—एतद् इति । प्रकृत्या सहाष्टभिः ॥३३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मह्य्-आदिभिः पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-महद्-अहंकार-प्रकृत्य्-आख्यैः प्रत्येकं दश-दश-गुणोत्तरैः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्थूलं समष्टि-संज्ञं, मह्य्-आदिभिर् इति महा-समष्टि-संज्ञं महा-स्थूलम् ॥३३॥

———————————————————————————————————————

॥ २.१०.३४ ॥

अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् ।

अनादि-मध्य-निधनं नित्यं वाङ्-मनसः परम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **निर्विशेषणं निरतिशयं, अस्य काव्यस्य कवयो न समर्था विशेषण इतिवत् ॥३४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्थूलम् उक्त्वा सूक्ष्मं समष्टि-लिङ्ग-शरीरम् आह । अतः परमस्य कारण-भूतं सूक्ष्मम् अतीन्द्रियम् । यतोऽव्यक्तम्30 । तत् कुतः ? यतो निर्विशेषणम्31 अनादि-मध्य-निधनम् उत्पत्ति-स्थिति-लय-शून्यम् । नित्यं सदैक-रूपम्, अपक्षयादि-शून्यम् इत्य् अर्थः । अत एव वाक् च मनश् चेति द्वन्द्वैक्यम् । तस्मात् परम् ॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतः स्थूलात् । अस्य स्थूलस्य । तदव्यक्तत्वम् । निर्विशेषणं वर्णाकारादिशून्यम् । यदेव स्थूलेन सह व्यष्टिपूत्पत्त्यादियुक्तं न भवतीत्य् आह–अनादीति । अतस्तदपेक्षया नित्यम् अपि निर्विशेषणत्वाद् एव वाङ्ममनसात्परमत एव सूक्ष्मतममत एवं चाव्यक्तं सूक्ष्मतममित्य्-उक्त्या सूक्ष्ममतिसूक्ष्मं चेति द्वितयं लभ्यतेऽत्र सूक्ष्मं लिङ्गशरीरमतिसूक्ष्मं मायारूपं निर्विशेषणमित्य्-आदिभिश्चतुर्भिविशेषणैरुक्तम् ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अतः परम् इति । निर्विशेषणं वर्णाकारादि-शून्यं यद् एव व्यष्टिषु स्थूलेन सहोत्पत्त्य्-आदि-युक्तं न भवतीत्य् आह—अनादीति । अतस् तद्-अपेक्षया नित्यम् अपि निर्विशेषणत्वाद् एव वाङ्-मनसः परम् । अत एव सूक्ष्मतमम् । अत एव चाव्यक्तम् ॥३४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्थूलम् उक्त्वा सूक्ष्मम् आह—अत इति । सूक्ष्मतमम् इत्य् अनेनैव सूक्ष्मम् अतिसूक्ष्मं चेति द्वितीयं लभ्यते, अत्र लिङ्ग-शरीरम् अतिसूक्ष्मं माया-रूपं निर्विशेषणम् इत्य् आदिभिश् चतुर्भिर् विशेषणैर् उक्तम् ॥३४॥

———————————————————————————————————————

॥ २.१०.३५ ॥

अमुनी भगवद्-रूपे मया ते ह्य् अनुवर्णिते ।

उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **माया-सृष्टे जगति, ये अविपश्चितः ॥३५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपासनार्थं भगवत्य् आरोपितं रूप-द्वयम् अपवदति—अमुनी इति । न गृह्णन्ति वस्तुतो नाङ्गीकुर्वन्ति । यतो माया-सृष्टे ॥३५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अमुनि इति द्वि-वचनं स्थूलयोः समष्टि-व्यष्ट्योर्-ऐक्यात् सूक्ष्मयोर् अप्य् ऐक्यात् । न गृह्णन्ति प्राप्यत्वेन न स्वीकुर्वन्ति किन्तूपासनार्थं प्रथम-दशायाम् एव, यतो माया-सृष्टे । तृतीयम् अतिसूक्ष्मं यत् तत् तु कारणं मायैव । किन्तु विपश्चितः शुद्धि-भक्तिमन्तः प्रथम-दशायाम् अपि न एव गृह्णन्ति, किन्तु राम-कृष्ण-नारायण-नृसिंहादि-रूपं शुद्ध-सत्वम् एव साध्य-साधन-दशायां गृह्णन्तीति ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (परमात्म-सन्दर्भः, ५७): **तद् एवं भगवतो रूपम् [भा।पु। ३.२६.५२] इत्य् उक्तेस् तस्यापि प्राग्वद् अप्राकृतत्वम् आपतति, तन्-निषेधायाह—अमुनीति । अमुनी अमू उपासनार्थं भगवत्य् आरोपिते जगद्-आत्मके स्थूल-सूक्ष्माख्ये विराट्-हिरण्यगर्भापर-पर्याये समष्टि-शरीरे ये मया तुभ्यम् अनुवर्णिते ते उभे अपि विपश्चितो न गृह्णन्ति, वस्तुतया नोपासते, किं तर्हि तदीय-बहिरङ्गाधिष्ठानतयैव ? इत्य् अर्थः32 । तद् उक्तं वैष्णवे—

यद् एतद् दृश्यते मूर्तम् एतज् ज्ञानात्मनस् तव ।
भ्रान्ति-ज्ञानेन पश्यन्ति जगद्-रूपम् अयोगिनः ॥ [वि।पु। १.४.३९] इति ।

एतन् मूर्तं जगद् भ्रान्ति-ज्ञानेन एव तव रूपं जानन्तीत्य् अर्थः । श्रुतिश् च—नेदं यद् इदम् उपासते [केन।उ। १.४] इति, यद् इदं जगद् उपासते प्राणिनः, नेदं ब्रह्म इति श्री-रामानुज-भाष्यम् । अत एव न गृह्णन्तीत्य् अत्र हेतुः—माया-सृष्टे, न तु स्वरूप-शक्ति-प्रादुर्भाविते । अनेन चतुर्भुजादि-लक्षणस्य साक्षाद्-रूपस्य मायातीतत्वम् अपि व्यक्तम् । अत्रास्य जगतो मायामयस्य पुरुष-रूपत्वे पुरुष-गुणावताराणां विष्ण्व्-आदीनां सत्त्वादि-मयास् तद्-अंशा रूपाणीति ज्ञेयम् । तान्य् अपेक्ष्य चोक्तं मार्कण्डेये—

विष्णुः शरीर-ग्रहणम् अहम् ईशान एव च ।
कारितास् ते यतोऽतस् त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति ।

शरीर-शब्दस्य तत्-तन्-निज-शरीर-वाचित्वे तु तद्-ग्रहणात् पूर्वं विष्ण्व्-आदि-भेदासम्भवात् तन्-निर्देशानुपपत्तेः ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अमुनी अमू ॥३५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उपासनार्थं भगवत्य् आरोपितं रूप-द्वयम् अपवदति । अमुनीति द्वि-वचनं स्थूलयोः समष्टि-महा-समष्ट्योर् ऐक्यात् सूक्ष्मयोर् अप्य् ऐक्यात् । न गृह्णन्ति प्राप्यत्वेन न स्वीकुर्वन्ति । किन्तु उपासनार्थं प्रथम-दशायाम् एव, यतो माया-सृष्टे । तृतीयम् अतिसूक्ष्मं यत् तत् तु कारणं मायैव । किं च, विपश्चितः शुद्ध-भक्तिमन्तः प्रथम-दशायाम् अपि नैव गृह्णन्ति, किन्तु राम-कृष्ण-नारायण-नृसिंहादि-रूपं शुद्ध-सत्त्वम् एव साधन-साध्य-दशयोर् गृह्णन्ति ॥३५॥

———————————————————————————————————————

॥ २.१०.३६ ॥

स वाच्य-वाचकतया भगवान् ब्रह्म-रूप-धृक् ।

नाम-रूप-क्रिया धत्ते सकर्माकर्मकः परः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

नामैव वाचकत्वेन नाम-रूप-क्रिया अपि ।

वाच्यत्वेन हरिर् देवो नियामयति चैक-राट् ॥ इति च ।
कर्तृत्वात् तु स-कर्मासौ निष्फलत्वाद् अकर्मकः ॥ इति च ॥३६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् रूप-गुण-कर्मकः [भा।पु। २.९.३०] इति यद् उक्तं भगवता ब्रह्माणं प्रति तत् प्रपञ्चयितुं ब्रह्मादि-रूपाणि तत्-कर्माणि चाह—स इत्य्-आदिना इत्थंभावेनेत्य् अतः प्राक्तनेन ग्रन्थेन । स भगवान् ब्रह्म-रूप-धृक् सन् वाच्य-वाचकतया नमानि वाच्यतया रूपाणि क्रियाश् च धत्ते, सृजतीत्य् अर्थः । मायया स-कर्मा स-व्यापारः सन् वस्तुतस् त्व् अकर्मकः ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ व्यष्टीनां स्थिति-संहारान् आह—स इत्य् आरभ्येत्थम् भावेत्य् अन्तेन । स महद्-आदि-स्रष्टा पुरुषः । परः परमेश्वरः । अकर्मकः प्राकृत-क्रिया-हीनोऽपि ब्रह्म-रूप-धृक् सन्, सकर्मा स-व्यापारः, वक्ष्यमाणानां व्यष्टि-जीवानां धत्ते सृजतीत्य् अर्थ इति । धातूनामनेकार्थत्वात् सर्जनेऽपि दधातिः प्रयुक्त इति भावः । अत्र सन्दर्भेण अत एव तत्-सम्बन्धि-सर्वम् अपि भगवद्-रूपत्वेनैव कल्पितम् इत्य् अवतरणिकाम् उक्त्वा यद्-रूप-गुण-कर्मक इत्य् अत्र त्व-प्राकृतानि चतुः-श्लोक्यां श्री-भगवता प्रतिज्ञातानि स्वयम् एव दर्शितानीति व्याख्यातम् एव ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत एतत्-सम्बन्धि सर्वम् अपि भगवद्-रूपत्वेनैव कल्पितम् इत्य् आह—स वाच्येति । यद्-रूप-गुण-कर्मक इत्य् अत्र तु अप्राकृतानि चतुः-श्लोक्यां श्री-भगवता प्रतिज्ञातानि स्वयम् एव दर्शितानीति व्याख्यातम् एव ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ व्यष्टिनां सृष्टि-स्थिति-संहारान् आह—स इत्य्-आदिना इत्थं-भावेत्य् अन्तेन । स महद्-आदि-स्रष्टा पुरुषः । परः परमेश्वरः । अकर्मकः प्राकृत-क्रिया-हीनोऽपि ब्रह्म-रूप-धृक् सन्, सकर्मा स-व्यापारः, वाच्य-वाचकतया वाच्यतया रूपाणि क्रियाश् च, वाचकतया नामानि, वक्ष्यमाणानां व्यष्टि-जीवानां धत्ते सृजति ॥३६॥

———————————————————————————————————————

॥ २.१०.३७-३९ ॥

प्रजा-पतीन् मनून् देवान् ऋषीन् पितृ-गणान् पृथक् ।

सिद्ध-चारण-गन्धर्वान् विद्याध्रासुर-गुह्यकान् ॥

किन्नराप्सरसो नागान् सर्पान् किंपुरुषोरगान्33** ।**

मातृ-रक्षः-पिशाचांश् च प्रेत-भूत-विनायकान् ॥

कूष्माण्डोन्माद-वेतालान् यातुधानान् ग्रहान् अपि ।

खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ।

द्वि-विधाश् चतुर्-विधा येऽन्ये जल-स्थल-नभौकसः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्रजापत्य्-आदीन् धत्ते ॥३७-३९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति—प्रजापतीन्34 इति सार्धैस् त्रिभिः । द्वितीयान्तानां धत्त इत्य् अनेनान्वयः । तत्र प्रजा-पत्य्-आदीनि नामानि तत्-तद्-वाच्यानि रूपाणि तत्-तत्-कर्माणि च ज्ञेयानि पृथक् तत्-तद्-अवान्तर-भेदेन ॥३७-३८॥

गिरीन् इत्य् अस्यानन्तरं नृपेति सम्बोधनम् । द्वि-विधाः स्थावर-जङ्गम-रूपेण । चतुर्-विधाः जरायुजाण्डज-स्वेदजोद्भिज्ज-रूपेण । जल-स्थल-नभांस्य् ओकांसि येषां तान् अपि धत्त इति पूर्वेणान्वयः ॥३९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतद् बहु-रूप-गुण-कर्मकत्वम् । सार्ध-त्रिकस्यान्वयः । प्रजापतीन् दक्षादीन्। मनून् स्वायंभुवादीन् । देवान् इन्द्रादीन् । ऋषीन् मरीच्यादीन् । पितृ-गणान् अर्यमादीन् । सिद्धान् कपिलादीन् । चारणान् सुज्ञादीन् गन्धर्वांश्चित्ररथादीन् । विद्याघ्रान् सुदर्शनादीन् । असुरान् नमुच्यादीन् । गुह्यकान्कामुकादीन् ॥ किन्नरान् मर्कटादीन् । अप्सरसो मञ्जुघोषाद्याः । नाग-सर्पोरगाणाम् अवान्तर-भेदो हि सर्प-सिद्धान्त-ग्रन्थाज्ञेयः । नागाश् शेषाद्याः । सर्पास् तक्षकाद्याः । उरगाः कुण्डधराद्याः । किंपुरुषाः वनचर-पुरुषाद्याः । मातरो ब्राह्यद्याः । रक्षांसि सुमाल्यादीनि । पिशाचा घण्टाकर्णाद्याः । प्रेता दुर्मरणमृताः । भूता भृङ्ग्याद्या रुद्रगणाः । विनायका विघ्न-विशेषाः ॥ कूष्माण्डाः स्वट्बलादयः । उन्मादाः कालकर्गादयः । वेतालाः सुवेगाद्याः शिव-गण-विशेषाः । यातुधाना रक्षोभेदा मृगकर्णाद्याः । ग्रहा बाल-ग्रहाः पूतनाद्या वृद्ध-ग्रहा वैरूप्याद्यास् सूर्याद्या वा । खगा गरुडाद्याः । मृगा हरिणाद्याः पशवो गवाद्याः । वृक्षा अश्वत्थाद्याः । गिरयो मेर्वाद्या ः। सरीसृपाः सहस्र-पादाद्याः । हे नृपेति । राज्ञां हि नृपालन-प्रसङ्गेन सर्वं ज्ञात-प्रायं भवतीति भावः ॥३७-३९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रजापतीन् इति सार्ध-त्रिकम् ॥३७-३९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तान् एव दर्शयति—प्रजापतीनिति । द्वितीयान्तानां धत्त इत्य् अनेनान्वयः । नृपेति सम्बोधनम् । द्वि-विधाः स्थावर-जङ्गम-रूपेण । चतुर्-विधाः जरायुजाण्डज-स्वेदजोद्भिज्ज-रूपेण । त्रिविधाश् च जल-स्थल-नभौको-रूपेण, येऽन्ये तान् अपि धत्त इति पूर्वेणान्वयः ॥३९॥

———————————————————————————————————————

॥ २.१०.४०-४१ ॥

कुशलाकुशला मिश्राः कर्मणां गतयस् त्व् इमाः ।

सत्त्वं रजस् तम इति तिस्रः सुर-नृ-नारकाः ॥

तत्राप्य् एकैकशो35** राजन् भिद्यन्ते गतयस् त्रिधा ।**

यदैकैकतरोऽन्याभ्यां स्व-भाव उपहन्यते ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

तामसास् तामसा दैत्याः प्रधाना देव-शत्रवः ।

तामसा राजसास् तेषाम् अनुगास् तेषु सात्त्विकाः ॥
अनाख्यातासुराः प्रोक्ता मानुषा दुष्ट-चारिणः ।
राजसास् तामसाश् चैव मध्या राजस-राजसाः ॥
राजसाः सात्त्विकास् तत्र मानुषेषूत्तमा गणाः ।
देवाः पृथग्-अनाख्याताः स्मृताः सात्त्विक-तामसाः ॥
अतात्त्विकास् तथाख्याताः स्मृताः सात्त्विक-राजसाः ।
सात्त्विकाः सात्त्विकास् तत्र तात्त्विकाः परिकीर्तिताः ॥
तेषां च सात्त्विकाः शेष-गरुत्म-रुद्र-तत्-स्त्रियः ।
ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम् ॥
सात्त्विकेषु त्रिषु यदा त्व् एकस्य प्रतिबाधनम् ।
रजस्-तमोभ्यां विष्णुर् हि तदा प्रादुर्भवत्य् अजः ।
राजसांश् तामसान् हत्वा सात्त्विकान् वधयिष्यति ॥ इति स्कान्दे ॥४०-४१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यच् च राज्ञा पृष्टं यावत्यः कर्म-गतयो यादृशीर् द्विज-सत्तं [भा।पु। २.८.१३]इति तस्यापि प्रसङ्गाद् अनेनैवोत्तरम् आह । कुशला उत्तमाः, अकुशला नीचाः । मिश्रा इति पदान्तरम् । मिश्रा मध्यमाः । कर्मणां पुण्य-पाप-मिश्राणां गतयः फलानि ।

सत्त्वादि-भेदेन कर्म-गति-वैचित्र्यं प्रपञ्चयति—सत्त्वम् इति सार्धेन । सत्त्वादयस् तिस्रो गतयः । सुरादि-शब्दा ऋस्य्-आदीनाम् उपलक्षणार्थाः । अन्याभ्यां गुणाभ्यां स्वभावो गुणः उपहन्यतेऽनुविध्यते36 ॥४०-४१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु कथम् एवं विषयान् सृजति ? तत्राह—इमाः कर्मणां गतयः । कुशलाः पुण्य-फल-रूपाः, अकुशलाः पाप-फल-रूपाः । मिश्रास् तद्-उभय-रूपाः, जीवाः प्रतिस्वकर्मानुरूपाः गतीः प्राप्नुवन्ति, स्रष्टुः को दोष इति भावः । तत्रापि तिसृषु गतिष्व् अपि एकैकशो गतयस्-त्रिधा भिद्यन्ते नव-सङ्ख्याका भवन्ति । अन्याभ्यां स्वभावाभ्यां तथाहि शुद्ध-सत्त्वा रजोमिश्र-सत्त्वा तमोमिश्र-सत्त्वा च एवं शुद्ध-राजसी तमोमिश्र-राजसी सत्त्वमिश्र-राजसी च तथैव शुद्ध-तामसी रजोमिश्रा-तमसी सत्त्वमिश्र-तामसी चेति । यथा रजः-स्वभावोऽपि नरः सत्त्व-स्वभाव-मिश्रणाधिक्याद् ब्राह्मणः, रजोधिक्यात् क्षत्रियः, रजस्तमसोराधिक्याद् वैश्यः, तमोधिक्याच् छूद्र इति ॥४०-४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु कथम् एवं विषयान् सृजति ? तत्राह—इमाः कर्मणां गतयः । कुशलाः पुण्य-फल-रूपाः, अकुशलाः पाप-फल-रूपाः । मिश्रास् तद्-उभय-रूपाः, जीवाः प्रतिस्वकर्मानुरूपाः गतीः प्राप्नुवन्ति, स्रष्टुः को दोष इति भावः । एतेन यावत्यः कर्म-गतयो यादृशीर् द्विज-सत्तं [भा।पु। २.८.१३]इति राज्ञः प्रश्नस्योत्तरं दत्तम् इति ज्ञेयम् । तासां गतीनाम् अपि गुणा एव कारणम् इत्य् आह—सत्त्वम् इति । तिस्रो गतयः क्रमेण सुराद्याः । एकैकशो गतयस् त्रिधा भिद्यन्त इति नव-सङ्ख्या भवन्तीत्य् अर्थः । अन्याभ्यां स्वभावाभ्यां, एकैकाभ्याम् उपहन्यते अनुविध्यते, यथा रजः-स्वभावोऽपि नरः सत्त्व-स्वभाव-मिश्रणाधिक्यात् ब्राह्मणः, तमः-स्वभाव-मिश्रणाधिक्यात् शूद्र इत्य् एवम् ॥४०-४१॥

———————————————————————————————————————

॥ २.१०.४२ ॥

स एवेदं जगद्-धाता37** भगवान् धर्म-रूप-धृक् ।**

पुष्णाति स्थापयन् विश्वं तिर्यङ्-नर-सुरादिभिः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

मत्स्यादि-रूपी पोषयति नृसिंहो रुद्र-संस्थितः ।

विलापयेद् विरिञ्चस्थः सृजते विषयुर् अव्ययः ॥ इति वामने ॥४२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्म-रूपेण स्रष्टृत्वम् उक्त्वा विष्णु-रूपेण पालकत्वम् आह । स एव भगवांस् तिर्यग्-आद्य्-अवतारैर् इदं विश्वं स्थापयन् पालयन् धर्म-रूपेण38 पुष्णाति भोगैः संवर्धयति ॥४२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **जगद्-धर्ता श्री-विष्णु-रूपेण तत्-पालकः सन् धर्म-रूप-धृक् धर्म-स्वरूप-रक्षको भूत्वा तिर्यग्-आद्य्-अनुकर्तृ-रूपैः श्री-मत्स्याद्य्-अवतारैश् च पुष्णाति ॥४२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्मो विष्णुः । धर्म-पदेन धर्मतो रक्षा अधर्मतो नाशः धर्माधर्माभ्यां सृष्टिर् इति द्योतयति, तिर्यग्-आदीनाम् आत्मभिः स्व-दत्तैः स्वभावैर् इति पशु-पक्षिणोऽपि स्व-सुत-मित्र-कलत्रादीन् पालयन्ति ॥४२॥

———————————————————————————————————————

॥ २.१०.४३ ॥

ततः कालाग्नि-रुद्रात्मा यत् सृष्टम् इदम् आत्मनः ।

सन्नियच्छति कालेन39घनानीकम् इवानिलः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रुद्र-रूपेण संहर्तृत्वम् आह—तत इति । आत्मनः सकाशाद् यद् इदं सृष्टं तत् सन्नियच्छति संहरति ॥४३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **धर्मो विष्णुः धर्मो धर्मविद्-उत्तमः इति सहस्रनामसु पठितत्वात् । धर्मतो रक्षाधर्मतो नाशः धर्माधर्माभ्यां सृष्टिर् इति द्योतयति । तिर्यग्-आदीनां स्वभावैर् इति पशु-पक्षिणोऽपि स्वसुत-मित्र-कलनादीन् पालयन्ति ॥४२-४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत इति । आत्मनः सकाशाद् यद् इदं सृष्टं तत् सन्नियच्छति संहरति । घनानीकं मेघ-समूहम् ॥४३॥

———————————————————————————————————————

॥ २.१०.४४ ॥

इत्थम्-भावेन कथितो भगवान् भगवत्तमः ।

नेत्थम्-भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भगवत्तमः ना पुरुषः ॥४४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कर्तृत्वाद्य्-अपवादेन दशमस्य शुद्धिम् आह । इत्थम्-भावेन स्रष्टृत्वादि-रूपेण तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१.३], सोऽकामयत बहु स्यां प्रजायेय [तै।उ। २.६] इत्य्-आदि-श्रुत्या कथितः । सूरयस् तु परं केवलम् एवं-रूपेणैव द्रष्टुं नार्हन्ति ॥४४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सूरयः केचित् शुद्ध-भक्तिमन्तस् तु परं केवलं विश्व-स्रष्टृत्वादि-रूपेण द्रष्टुं नार्हन्ति किन्तु वैकुण्ठादौ स्व-धामनि चिद्-विभूतौ स्व-प्रेयस्य्-आदिभिर् विहरमाणत्वेनैवेत्य् अर्थः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इत्थम्-भावेन स्रष्टृत्वादि-रूपेण, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१.३], सोऽकामयत बहु स्यां प्रजायेय [तै।उ। २.६] इत्य्-आदि-श्रुत्या कथितः । सूरयः केचित् शुद्ध-भक्तिमन्तस् तु परं केवलं विश्व-स्रष्टृत्वादि-रूपेण द्रष्टुं नार्हन्ति किन्तु वैकुण्ठादौ स्व-धामनि चिद्-विभूतौ स्व-प्रेयस्य्-आदिभिर् विहरमाणत्वेनैवेत्य् अर्थः ॥४४॥

———————————————————————————————————————

॥ २.१०.४५ ॥

नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।

कर्तृत्व-प्रतिषेधार्थं माययारोपितं हि तत् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **जन्म-कर्माणि विधीयत इति क्रिया-विशेषणम् ।

प्रतिषेधाय बन्धस्य जीवानां परमेशितुः ।
स्वेच्छयैव तु कर्तृत्वं नित्य-रूढं चिद्-आत्मकम् ॥ इति भविष्य-पुराणे ।

रूपोपरि-भाव इति च धातुः । सुभद्रां रथम् आरोप्येत्य् आदिवच् च । स्वभाविकी ज्ञान-बल-क्रिया च इति च ॥४५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् किम्40 ? यतः अस्य विश्वस्य जन्मादौ कर्मणि परस्येश्वरस्येत्थम्-भावः कर्तृत्वं नास्ति । श्रुत्यापि तात्पर्येण न प्रतिपाद्यते । किन्त्व् अनुविधीयतेऽनूद्यते41 । किम्-अर्थम्? कर्तृत्व42-प्रतिषेधार्थम् । हि यतो माययारोपितं प्रकाशितम् । तथा च श्रुतिः—निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं [श्वे।उ। ६.१९], इन्द्रो मायाभिः पुरु-रूप ईयते इत्य् आद्या ॥४५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किं च, नैतद् भगवतो वस्तुतः कर्मेत्य् आह—अस्य विश्वस्य जन्मादौ जन्म-स्थिति-संहारे कर्मणि परस्य परमेश्वरस्य इत्थम्-भावः कर्तृत्वं नास्ति किं अनुविधीयते श्रुति-स्मृत्य्-आदिषु सर्वत्र वर्ण्यते । किम्-अर्थम् ? कर्तृत्व-प्रतिषेधार्थम् । हि यतो मायया तद् आरोपितं सृष्ट्य्-आदीनां गुण-कार्यत्वात् बहिरङ्गया मायया एव कर्तृत्वं परम-पुरुषे आरोपितम् इति मत्-कृतम् अपीदं मत्-स्वामित्वा तेन परमेश्वरेणैव कृतं, न तु वस्तुतः परमेश्वरः स्व-स्वरूपेण कर्तेत्य् अर्थः । [विश्वनाथः]

अत्र प्रमाणं तथा चेति । इन्द्र आत्मा यद्यपि तत्प्रभावत एव तद्-भवति तथाप्य् अयस्कान्तवत् तत्र तस्य विकारो नास्तीति भावः । अध्यारोपापवादाव् अपि शुद्ध-स्वरूपाव् अगत्यर्थम् एव वर्णितम् इति ज्ञेयम्, अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति श्रुतेः ॥४५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नास्येति । तत्-कर्तृत्वं परस्य नास्ति, किन्तु तत्-कर्तृत्व-प्रतिषेधार्थम् अनूद्यते मात्रं हि । यस्मान् माययेति । यद्यपि तत्-प्रभावत एव तत् तद् भवति तथापि अयस्कान्तवत् तत्र तस्य विकारो नास्तीति भावः ॥४५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, नैतद् भगवतो वस्तुतः कर्मेत्य् आह—अस्य विश्वस्य जन्मादौ जन्म-स्थिति-संहारे कर्मणि परस्य परमेश्वरस्य इत्थम्-भावः कर्तृत्वं न भवति, किन्त्व् अनुविधीयते श्रुति-स्मृत्य्-आदिषु सर्वत्र वर्ण्यते । किम्-अर्थम् ? कर्तृत्व-प्रतिषेधार्थम् । हि यतो मायया तद् आरोपितं सृष्ट्य्-आदीनां गुण-कार्यत्वात् बहिरङ्गया मायया एव कर्तृत्वं परम-पुरुषे आरोपितम् इति मत्-कृतम् अपीदं मत्-स्वामित्वा तेन परमेश्वरेणैव कृतं, न तु वस्तुतः परमेश्वरः स्व-स्वरूपेण कर्तेत्य् अर्थः । तथा च श्रुतिः—निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं [श्वे।उ। ६.१९] इति ॥४५॥

———————————————————————————————————————

॥ २.१०.४६ ॥

अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।

विधिः साधारणो यत्र सर्गाः प्राकृत-वैकृताः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अन्य-कल्पानां साधारणः । यत्रैव प्राकृत-वैकृताः सर्व-सर्गाः । अन्य-ब्रह्म-कल्पानां च साधारणः ॥४६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उक्तम् अर्थम् उपसंहरति—अयं त्व् इति । ब्रह्मणः सम्बन्धी कल्पो महा-कल्पो विकल्पोऽवान्तरस् तत्-सहित उदाहरणत्वेन संक्षेपत उक्तः । कथम्भूतः ? यत्र महा-कल्पे प्राकृता महद्-आदि-सर्गा अवान्तर-कल्पे च वैकृताः । स्थावरा विसर्गा इत्य् अयं विधिह् प्रकारोऽन्यैर् महा-कल्पादिभिः साधारणः ॥४६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **[जीव गोस्वामी] कल्पो ब्रह्म-दिनं, स कल्पो यत्र मनवश् चतुर्दश विशांपते [भा।पु। १२.४.२] इति वक्ष्यमाणत्वात् । कल्प-वर्णना हि स्कान्दे प्रभास-खण्डे—

प्रथमः श्वेत-कल्पश् च द्वितीयो नील-लोहितः ।
वामदेवस् तृतीयस् तु ततो गाथान्तरोऽपरः ।१।
रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः ।
सप्तमोऽथ बृहत्-कल्पः कन्दर्पोऽष्टम उच्यते ।२।
सत्योऽथ नवमः कल्प ईशानो दशमः स्मृतः ।
ध्यान एकादशः प्रोक्तस् तथा सारस्वतोऽपरः ।३।
त्रयोदश उदानस् तु गरुडोऽथ चतुर्दशः ।
कौर्मः पञ्चदशो ज्ञेयः पौर्णमासी प्रजापतेः ।४।
षोडशो नारसिंहस् तु समाधिस् तु ततोऽपरः ।
आग्नेयो विष्णुजः सौरः सोम-कल्पस् ततोऽपरः ।५।
द्वाविंशो भावनः प्रोक्तः सुपुमान् इति चापरः ।
वैकुण्ठश् चार्ष्टिषस् तद्वद् वल्मीकल्पस्43 ततोऽपरः ।६।
सप्तविंशोऽथ वैराजो गौरीकल्पस् ततोऽपरः ।
महेश्वरस् ततः प्रोक्तस् त्रिपुरो यत्र घातितः ।७।
पितृ-कल्पस् तथा चान्ते यः कुहूर् ब्रह्मणः स्मृतः ।
त्रिंशत् कल्पाः समाख्याता ब्रह्मणो दिवसैः सदा ।८।
अतीताश् च भविष्याश् च वाराहो वर्ततेऽधुना ।
प्रतिपद् ब्रह्मणः प्रोक्ता द्वितीयार्द्धस्य साम्प्रतम् ।९।

अत्र श्वेतः श्वेतवाराहः स एव वाराहश् च अयम् एव ब्रह्मोत्पत्तिसमये ब्राह्म उच्यते इति ज्ञेयम् । एवं पितृकल्प एव प्रथमपरार्द्धान्ते पद्मनिर्मितलोकत्वात्पाद्म इत्युच्यते अतः श्री-भागवतस्य सारस्वतकल्पमयत्वं तु प्रायिकम् एव ॥४६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अयं त्व् इति । कल्पो ब्रह्म-दिनम् । स-विकल्पः स-भेदः । अथ कल्प-गणना यथा स्कान्द-प्रभास-खण्डे—

(१) प्रथमः श्वेत-कल्पस् तु (२) द्वितीयो नील-लोहितः ।
(३) वामदेवस् तृतीयस् तु (४) ततो गाथान्तरो परः ॥
(५) रौरवः पञ्चमः प्रोक्तः (६) षष्ठः प्राण इति स्मृतः ।
(७) सप्तमोऽथ बृहत्-कल्पः (८) कन्दर्पोऽष्टम उच्यते ॥
(९) सत्योऽथ नवमः प्रोक्त (१०) ईशानो दशमः स्मृतः ।
(११) ध्यान एकादशः प्रोक्तस् (१२) तथा सारस्वतोऽपरः ॥
(१३) त्रयोदश उदानस् तु (१४) गारुडोऽथ चतुर्दशः ।
(१५) कौर्मः पञ्चदशो ज्ञेयः (१६) पौर्णमासी प्रजापतेः ॥
षोडशो नारसिंहस् तु (१७) समाधिस् तु ततोऽपरः ।
(१८) आग्नेयो (१९) विष्णुजः (२०) सौरः (२१) सोम-कल्पस् ततोऽपरः ॥
(२२) द्वाविंशो भावनः प्रोक्तः (२३) सुपुमान् इति चापरः ।
(२४) वैकुण्ठश् (२५) चार्चिषस् तद्वत् (२६) वल्ली-कल्पस् ततोऽपरः ॥
(२७) सप्तविंशोऽथ वैराजो (२८) गौरी-कल्पस् तथापरः ।
(२९) माहेश्वरस् तथा प्रोक्तस् (३०) त्रिपुरो यत्र घातितः ॥
पितृ-कल्पस् तथा चान्ते यः कुहूर् ब्रह्मणः स्मृतः ।
त्रिंशत् कल्पाः समाख्याता ब्रह्मणो दिवसैः सदा ॥
अतीताश् च भविष्याश् च वाराहो वर्ततेऽधुना ।
प्रतिपद् ब्रह्मणः प्रोक्ता द्वितीयार्धस्य साम्प्रतम् ॥ इति ।

अत्र श्वेतः श्वेत-वाराहः स एव वाराहश् च । अयम् एव ब्रह्मोत्पत्ति-समये ब्राह्म उच्यते इति ज्ञेयम् । एवं पितृ-कल्प एव प्रथम-परार्धान्ते पद्म-निर्मित-लोकत्वात् पाद्म उच्यते इति च । अतः श्री-भागवतस्य सारस्वत-कल्प-कथामयत्वं तु प्रायिकम् एव ॥४६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रकरणम् उपसंहरति—ब्रह्मणः सम्बन्धी कल्पः संवत्स्र-शतात्मको ब्रह्मणः परमायु-रूपः । विकल्पोऽवान्तरो ब्रह्म-दिन-रूपः । यत्र महा-कल्पे प्राकृता महद्-आदि-सर्गा अवान्तर-कल्पे च वैकृताः स्थावरादि-सर्गाः इति । अयं विधिः प्रकारः अन्यैर् महा-कल्पादिभिः साधारणः । एवं च, यावान् कल्पो विकल्पो वा [भा।पु। २.८.१२] इत्य् अस्य प्रश्नस्योत्तरं सङ्क्षेपेण दत्तम् ॥४६॥

———————————————————————————————————————

॥ २.१०.४७ ॥

परिमाणं च कालस्य कल्प-लक्षण-विग्रहम् ।

यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पम् अथो शृणु ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वक्ष्यमाणं विस्तरं प्रतिजानीते । परिमाणं स्थूलं सूक्ष्मं च कल्पस्य लक्षणम् इयान् एवं-रूप इति तद्-विग्रहम् अवान्तर-कल्पं मन्वन्तरादि-रूपं विभागं च यथावद् विस्तरेण पुरस्तात् तृतीय-स्कन्धे व्याख्यास्यामि । तत्र पाद्मं कल्पम् अथो इति कार्त्स्न्येन व्याख्यायमानं शृणु ॥४७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विस्तारेण तु, यथा-कालोऽनुमीयते इत्य् अस्य प्रश्नस्योत्तर-मध्य एव तस्य उत्तरं दास्यमानं प्रतिजानीते । परिमाणं कीदृशं कल्पानां लक्षणम् एव विग्रहो वपुर् यस्य तत् । कल्पादि-लक्षणं विना काल-परिमाणं न सिध्यतीत्य् अर्थः । यथा यथावत् । पुरस्तात् तृतीय-स्कन्धे । पाद्म-कल्पं प्रथम-परार्धान्तर्भवं ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विस्तारेण तु, यथा-कालोऽनुमीयते इत्य् अस्य प्रश्नस्योत्तर-मध्य एव तस्य (कल्प-परिमाण-प्रश्नस्य) उत्तरं दास्यमानं प्रतिजानीते । परिमाणं कीदृशं कल्पानां लक्षणम् एव विग्रहो वपुर् यस्य तत् । कल्पादि-लक्षणं विना काल-परिमाणं न सिध्यतीत्य् अर्थः । यथा यथावत् । पुरस्तात् तृतीय-स्कन्धे । पाद्म-कल्पं प्रथम-परार्धान्तर्भवं कल्प-गणना तु स्कान्द-प्रभास-खण्डाज् ज्ञेया, यथा—

प्रथमः श्वेत-कल्पस् तु द्वितीयो नील-लोहितः ।
वामदेवस् तृतीयस् तु ततो गाथान्तरो परः ॥
रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः ।
सप्तमोऽथ बृहत्-कल्पः कन्दर्पोऽष्टम उच्यते ॥
सत्योऽथ नवमः प्रोक्त ईशानो दशमः स्मृतः ।
ध्यान एकादशः प्रोक्तस् तथा सारस्वतोऽपरः ॥
त्रयोदश उदानस् तु गारुडोऽथ चतुर्दशः ।
कौर्मः पञ्चदशो ज्ञेयः पौर्णमासी प्रजापतेः ॥
षोडशो नारसिंहस् तु समाधिस् तु ततोऽपरः ।
आग्नेयो विष्णुजः सौरः सोम-कल्पस् ततोऽप्रः ॥
द्वाविंशो भावनः प्रोक्तः सुपुमान् इति चापरः ।
वैकुण्ठश् चार्चिषस् तद्वत् वल्ली-कल्पस् ततोऽपरः ॥
सप्तविंशोऽथ वैराजो गौरी-कल्पस् तथापरः ।
माहेश्वरस् तथा प्रोक्तस् त्रिपुरो यत्र घातितः ॥
पितृ-कल्पस् तथा चान्ते यः कुहूर् ब्रह्मणः स्मृतः ।
त्रिंशत् कल्पाः समाख्याता ब्रह्मणो दिवसैः सदा ॥
अतीताश् च भविष्याश् च वाराहो वर्ततेऽधुना ।
प्रतिपद् ब्रह्मणः प्रोक्ता द्वितीयार्धस्य साम्प्रतम् ॥ इति ।

तत्र श्वेतः श्वेत-वाराहः, स एव वाराहश् च । अयम् एव ब्रह्मोत्पत्ति-समये ब्राह्म उच्यते । एवं पितृ-कल्प एव प्रथम-परार्धान्ते पद्म-निर्मित-लोकत्वात् पाद्म उच्यते इति च ॥४६॥

———————————————————————————————————————

॥ २.१०.४८-५० ॥

शौनक उवाच—

यद् आह नो भवान् सूत क्षत्ता भागवतोत्तमः ।

चचार तीर्थानि भुवस् त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥

क्षत्तुः कौशारवेस् तस्य संवादोऽध्यात्म-संश्रितः ।

यद् वा, स भगवांस् तस्मै पृष्टस् तत्त्वम् उवाच ह ॥

ब्रूहि नस् तद् इदं सौम्य विदुरस्य विचेष्टितम् ।

बन्धु-त्याग-निमित्तं च तथैवागतवान्44** पुनः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् अर्थं सृष्ट्य्-आदि-निरूपणं तद् एव साक्षाच् छ्रोतु-कामः कथान्तरं पृच्छति—यद् आहेति । क्षत्ता विदुरः । भुवः सम्बन्धीनि तीर्थानि । यद् वा, भुवः क्षेत्राणि चेति ॥ कौषारवेर् मैत्रेयस्य तस्य क्षत्तुश् चाध्यात्म-ज्ञान-संश्रितः संवादः ॥ पुनर् आगतवान् तत्र च निमित्तं ब्रूहि ॥४८-५०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एवं प्रस्तुतम् अपि पाद्म-कल्प-कथनं कथान्तर-श्रवणोत्कण्ठया स्थगितीकृत्य पृच्छति इत्य् आह । यद् अर्थम् इत्य्-आदि यद् आह इति । विदुरस् तीर्थ-यात्रायां मैत्रेयाद् आत्मनो गतिम् [भा।पु। १.१३.१] इत्य्-आदिना, यद् भवान् अवोचद् इत्य् अर्थः । भगवान् सर्वज्ञः । कुत्रेति स्थान-प्रश्नः । यद् वा, पृष्टः । यद् वा, तत्त्वम् उवाचेत्य् उभयत्र यच् छब्दान्वयत्वात् प्रश्नोत्तरयोः प्रश्नौ ॥४८-४९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं प्रस्तुतम् अपि पाद्म-कल्प-कथनं कथान्तर-श्रवणोत्कण्ठ्या स्थगिती-कृत्य पृच्छति—यदाहेति ॥ कुत्रेति स्थान-प्रश्नः तस्य परमादरणीयत्वात् । यद् वा, पृष्टः । यद् वा, तत्त्वम् उवाचेत्य् उभयत्र यच्-छब्दान्वयत्वात् प्रश्नोत्तरयोः प्रश्नौ ॥ हे सौम्येति । श्री-व्यासदेव-कृपया त्वयि सौम्यतास्तीति भावः । तव च पुनर् आगमने ॥४८-५०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं प्रस्तुतम् अपि पाद्म-कल्प-कथनं कथान्तर-श्रवणोत्कण्ठया स्थगितीकृत्य पृच्छति—यद् आह इति । विदुरं तीर्थ-यात्रायां मैत्रेयाद् आत्मनो गतिम् [भा।पु। १.१३.१] इत्य्-आदिना, यद् भवान् अवोचद् इत्य् अर्थः । भगवान् सर्वज्ञः । क्षत्ता विदुरः । कशारवएर् मैत्रेयस्य ॥४८-५०॥

———————————————————————————————————————

॥ २.१०.५१ ॥

सूत उवाच—

राज्ञा परीक्षिता पृष्टो यद् अवोचन् महा-मुनिः ।

तद् वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञा पृष्ट इति । अयम् अर्थह्—यद् यूयं पृच्छथ इदम् एव राजापि शुकं पृष्टवान् । शुकोऽपि विदुर-मैत्रेय-संवादं पुरस्कृत्य ये पूर्वं राज्ञा कृताः प्रश्नास् तद्-अनुसारेण सर्वं पुराणार्थम् अवोचन्तद् एवाहं वोऽभिधास्य्आमि तथैव शृणुतेति ॥५१॥

श्रीमद्-भागवतं येन स्वब्रह्म-मुखतो45 मितम् ।

ब्रह्म-नारदयोः प्रोक्तं तं वन्दे गुरुम् ईश्वरम् ॥१॥

यत् सूत्र-यन्त्रितं विश्वं नरीनर्ति जगन्त्रयम् ।

सन्तस्यम् एव पृच्छन्तु यद् अत्र स्खलितं मम ॥२॥

द्वितीय-स्कन्ध-संबन्धि-पदभावार्थ-दीपिका ।

उद्दीप्यताम् इयं सद्भिर् यथा स्यात् तत्त्व-दीपिका ॥३॥

ईक्षन्ताम् इच्छया सन्तः क्षमन्तां मम साहसम् ।

मया हि स्वीय-बोधाय कृतम् एतन् न सर्वत ॥४॥

वंशीधरः: अत्राशयम् आह—अयम् अर्थ इति ॥५१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथात्र श्री-शुक-प्रतिज्ञात-पाद्म-कल्प-कथने भवद्-अभीष्टं च सम्पत्स्यत इत्य् अभिप्रेत्याह—राज्ञेति । तेनापि श्री-विदुरादि-प्रस्ताव-पूर्वकं श्री-शौनकवत् पुनः प्रश्नः कृतोऽस्ति । श्री-शुकेनापि तथोत्तरितम् अस्तीति बोधितं स-वासनत्वात् । तथा च तृतीये वक्ष्यते—कुत्र क्षत्तुर् भगवतः [भा।पु। ३.१.३] इत्य्-आदिना ॥५१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञा पृष्ट इति । अयम् अर्थः—यद् यूयं पृच्छथ इदम् एव राजापि शुकं पृष्टावान्, शुकोऽपि विदुर् अमैत्रेय-संवादं पुरस्कृत्य ये पूर्वं राज्ञा कृताः प्रश्नास् तद्-अनुसारेण सर्वम् अवोचत् तद् एव वोऽभिधास्ये ॥५१॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वितीये दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

ब्रह्मणश् च तृणस्यापि चेष्टा प्रातिस्विकी यतः ।

स एव भगवान् विश्वं धिन्वन् वृष्ट्यात् कृपामृतम् ॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणेऽष्टादश-साहस्र्यां पारमहंस्यां संहितायां

द्वितीय-स्कन्धे दश-लक्षण-कथनं नाम

दशमोऽध्यायः

॥२.१०॥

॥ द्वितीय-स्कन्धः समाप्तः ॥


  1. एकस्यैवेति दशमस्याश्रयस्यैवेत्य् अर्थः। ↩︎

  2. ब्रह्मणः परमेश्वराद् इति कारण-सृष्टिः, पारमेश्वरी कर्म-सृष्टिस् तु वैरिञ्चीत्य् अर्थः । ↩︎

  3. सद्-धर्म इति । अत्र मन्वन्तराणीति प्रोक्त इत्य् अर्थः । ↩︎

  4. यत इति हेतौ पञ्चमी । ↩︎

  5. यत इति हेतौ पञ्चमी ↩︎

  6. आश्रयत्वस्य (ख-पुस्तके) ↩︎

  7. अस्याध्यायस्य प्रथम-सप्त-श्लोकानाम् १२.७.९-१९ पद्य-जातम् अनुरूपार्थकं द्रष्टव्यम् । ↩︎

  8. विच्छेदो भेदः विभाग इत्य् अर्थः। ↩︎

  9. एषाम् इति । आध्यात्मिकादीनां त्रयाणां मिथः सापेक्षत्वेन सिद्धेस् तेषाम् आश्रयत्वं नास्तीत्य् आचष्टे इत्य् अर्थः। ↩︎

  10. दृश्य-प्रतीत्य् अनुमेयम्। ↩︎

  11. तद् विना करणं विना। ↩︎

  12. तत् त्रितयम् आध्यात्मिकादि-त्रयम्। ↩︎

  13. तत् समूहं (घ) ↩︎

  14. निरुक्त्या प्रकथनेन । व्युत्पत्त्येति यावत्। ↩︎

  15. गर्भ-रूपम् इति । चतुर्-दश-भुवनात्मकं समष्टि-देहम्— अप एव समर्यादौ तासु बीजम् अवासृजत् । तद् अण्डम् अभवद् धैमं सहस्रार्क-समद्युति ॥ इति मनु-वचनात् । ↩︎

  16. प्रभोर् अन्तरा वैराजस्योदर-मध्ये । ↩︎

  17. स्वव्यापारं कुर्वतेत्य् अर्थः। ↩︎

  18. तयोर् वह्नि-वाचोः सम्बन्धि तद्-अधीनं व्याहृतं वग्-व्यापार इत्य् अर्थः । ↩︎

  19. तस्य विराजः । ↩︎

  20. निरोधः प्राण-वायु-निरोधः । ↩︎

  21. कर्मणो व्याहृतस्य। ↩︎

  22. प्रकाशाभाव इत्य् अर्थः। ↩︎

  23. ऋषिभिर् ज्ञान-साधनैर् वेदादिभिर् अग्न्य्-आदिभिर् वा। ↩︎

  24. ऐतरेयोपनिषदीत्य् अर्थः। ↩︎

  25. थिस् सेच्तिओन्, wहिछ् इस् एxअच्त्ल्य् थत् फ़ोउन्द् इन् स्रिधर्, दोएस् नोत् अप्पेअर् तो बे इन् अल्ल् म्Ḥ स्। ↩︎

  26. तद्-आश्रये तद्-उभये इत्य् अत्र समुद्राश्रया तुष्टिःऽ नाडी-नद्य्-आश्रया पुष्टिर् इत्य् अर्थह् । दीपि। ↩︎

  27. भूम्य्-आदि-त्रितय-कार्यम् उक्तम् इत्य् अर्थः ↩︎

  28. सर्वेति काम-क्रोध-लोभ-मोह-शोकादीनाम् इत्य् अर्थः। ↩︎

  29. पृथिव्य्-अप्-तेजोवाय्व्-आकाश-महद्-अहंकारैः प्रकृत्या चेत्य् एवम् अष्टभिः । ↩︎

  30. अव्यक्तम् इति न चक्षुर्-आदिभिर् व्यज्यत इति तथा। ↩︎

  31. सर्व-व्यावर्तक-धर्म-रहितम्। ↩︎

  32. अधिष्ठानतयैव गृह्यत इत्य् अर्थः (ग)। ↩︎

  33. “किंपुरुषान् नरान्” इति पाण्डेय-धृत-पाठान्तरः । ↩︎

  34. प्रजा-पतीन् मरीचि-प्रमुखान् इत्य् अर्थः। ↩︎

  35. तत्रेति यदा एकैकतरः स्वभावो गुणोऽन्याभ्यां गुणाभ्याम् उपहन्यतेऽभिभूयते तत्र तदा एकैकशोऽपि गतयस् त्रिधा भिद्यन्त इत्य् अन्वयः । अत्र त्रिधा भिद्यन्त इत्य् एतद् अपि स्थूल-दृष्ट्यैवोक्तम् । वस्तुतस् तु तत्-तद्-गुण-तारतम्येन तत्-तत्-पुण्य-पाप-तारतम्यानुसारेण नाना-विधा गतयो भवन्तीत्य् अर्थः । दीपि॥ ↩︎

  36. अनुविध्यत इति । यथा मनुष्यानां स्व-भक्तो राजसत्वेऽपि गुणान्तरानुवेधात् सात्त्विकत्वं तामसत्वम् च प्रतीयते । ↩︎

  37. “जगद्-धर्ताऽ इति पाण्डेय-धृत-पाठान्तरः। ↩︎

  38. धर्मो विष्णुस् तद्-रूपेणेति धर्म-रूप-धृग् इत्य् अस्यार्थः । धर्म-रूप-धृक् विष्णु-रूप-धृक् विश्वं मर्यादायां स्थापयन् मत्स्याद्य्-अवतारैः पुष्णाति पालयतीति बाल॥ ↩︎

  39. “तत्-काले” इति पाण्डेय-धृत-पाठान्तरः ↩︎

  40. तत्-पूर्वोक्तं किं, कुतः इत्य् अर्थः । ↩︎

  41. अनूद्यत इति । उक्तस्यार्थस्य पुनः कर्तव्यत्वेनोपादानम् अनुवादः । अप्रसक्तस्य च प्रतिषेधो न सम्भवतीत्य् अतः प्रसक्त-प्रतिषेधार्थम् एवात्रानुवादः क्रियते । अनुवर्ण्यते “अनुवर्त्यते” इति पाठौ । ↩︎

  42. कर्तृत्वेति । अधिष्ठान-ज्ञाने हि तत्रारोपितस्य प्रतिषेध इति भावः । ↩︎

  43. चार्चिषस् तद्वत् वल्ली-कल्पः इति क्रम-सन्दर्भः। ↩︎

  44. यथैवागतवान्” इति क्वचित् पाठह् । ↩︎

  45. स्व-मुखतो ब्रह्म-मुखतश् च स्व-मुखेन ब्रह्मणे ब्रह्म-मुखेन नारदायेत्य् अर्थः । ↩︎