०९ चतुःश्लोक-भागवतम्

विषयः

शुकस्य प्रतिवचनम्—ब्रह्मणो वैकुण्ठ-धाम-दर्शनम्, तत्राभ्यर्थ्यमानेन भगवता ब्रह्मणे चतुःश्लोक-भागवतोपदेशदानम् ।

॥ २.९.१ ॥

श्री-शुक उवाच

आत्म-मायाम् ऋते राजन् परस्यानुभवात्मनः ।
न घटेतार्थ-सम्बन्धः स्वप्न-द्रष्टुर् इवाञ्जसा ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **परस्य अर्थ-व्यतिरिक्तस्य । यद् अधातुम् अत इत्य् अस्य ह्य् उत्तरम् ।

अशरीरस्य जीवस्य शरीरो-कारणम् ।
ईश्वरेच्छा प्राथमिका तां विना न हि किंचन ॥१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **

राज-प्रश्नोत्तरं वक्ष्यन् ब्रह्मणे हरिणोदितम् ।
कथयाम् आस नवमे शुको भागवतं पुनः ॥

तत्र यत् तावद् उक्तं यद् अधातुमतः[भा।पु। २.८.६] इत्य् अनेन जीवस्य कथं देह-सम्बन्ध इति तत्रोत्तरम् आह । आत्मनो हरेर् मायाम् अन्तरेणानुभव-रूपस्यात्मनोरथेन दृश्येन देहादिना सम्बन्धोऽञ्जसा तत्त्वतो न घटेत । अत्र हेतुः—परस्येति । स्वप्न-द्रष्टुर् यथा स्वप्न-देह-सम्बन्धो न घटते तद्वत् ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र प्रश्नकदम्बे अन्तरेण विना अनुभवरूपस्य ज्ञानरूपस्यात्मनो जीवस्य । अत्र देहासम्बन्धे परस्य प्रकृत्यादिसङ्गरहितस्य स्वप्नदेहसम्बन्धो यथा निद्रारूपां मायां विना न घटते तथाशरीरस्य जीवस्य शरीरसम्बन्धो भगवदिच्छारूपमायाकार्यसत्त्वोदयगुणमयीं प्रकृति विना न घटते इति भावः ॥१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अनुभव-रूपस्यापि जीवस्य यथा संमोहितो जीव आत्मानं [भा।पु। १.७.५] इत्य्-आद्य्-अनुसारेण मोहाद्य्-अनुपपत्तेः स्वरूप-शक्त्या अनुभवित्वम् अपि सभ्यत इत्य् अभिप्रेत्य सिद्धान्तयति—आत्म-मायाम् इति । केवलानुभवत्वे माया-सम्बन्धो न स्यात्, स्वप्न-द्रष्टृ-दृष्टान्तश् च न घटत इत्य् अपि ज्ञेयम् ॥१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **

प्रश्नस्य प्रथमस्योक्त्वा द्वितीयस्योत्तरं वदन् ।

चतुःश्लोकीं भागवत-प्रवृत्तिं नवमेऽतनोत् ॥

यत् पृष्टं यद् अधातुम् अत [भा।पु। २.८.६] इत्य् अनेन जीवस्य देह-सम्बन्धो निर्हेतुकः स-हेतुको वा ? तत्रोत्तरम् आह आत्मनो हरेर् मायाम् अनाद्य्-अविद्या-शक्तिम् अन्तरेण अर्थैर् देहेन्द्रियादिभिः सम्बन्धो जीवस्य न घटते । यथा स्वप्न-द्रष्टुर् अज्ञानम् ऋते स्वाप्निक-देह-सम्बन्धो न घटते । यतोऽनुभवात्मनो ज्ञान-मयस्य, तथा देहादिभ्यः परस्य मायया त्व् अचिन्त्य-शक्त्या दुर्घटनापटीयस्या, देह-सम्बन्धो घटत इत्य् अर्थः ॥१॥

———————————————————————————————————————

॥ २.९.२ ॥

बहु-रूप इवाभाति मायया बहु-रूपया ।
रममाणो गुणेष्व् अस्या ममाहम् इति मन्यते ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

द्वितीया प्रकृतिः प्रोक्ता तद्-रूपा हि गुणास् त्रयः ।

तेषां सम्पातजो भावो ममाहम् इति या मतिः ॥
देहात् परस्य देहित्वम् अहं-भावम् ऋते कृतः ।
यथा रजस्-तमो-भावैर् विना स्वप्नो न जायते ॥
निद्रा-कामाद्य्-अभावेन तद्वद् देहः क्व तान् विना ।
तस्मात् प्रकृत्यैव पुमान् मानुषादि-विकारया ।
मानुषादिर् इवाभाति नित्य-चैतन्य-रूपवान् ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संसारोऽपि माययैवेत्य् आह । बहु-रूपो बाल-युवादि-रूपो देव-नरादि-रूपश् चाभाति । गुणेषु देहादिषु ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मायया तत्तदेहाध्यासेन तत्तद्देहिनमात्मानं मन्येत वस्तुतस्तथात्वाभावात् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं यादृच्छिक्या अविद्या-शक्त्यैव देह-सम्बन्धे सति जीवः कीदृशः स्यात् ? इत्य् अपेक्षायाम् आह । बहु-रूपः बाल-युवादि-रूपो देव-नरादि-रूपश् च इवेति जीवस्य चित्-कण-रूपत्वान् न तत्त्वत इत्य् अर्थः । बहु-रूपया जीवस्य बहु-रूपत्व-हेतुत्वाद् बहु-वृत्तिकया । यद् उक्तं—या या क्षेत्रज्ञ-शक्तिः सा तारतम्येन वर्तते इति ॥२ ॥

———————————————————————————————————————

॥ २.९.३ ॥

यर्हि वाव महिम्नि स्वे परस्मिन् काल-माययोः ।
रमेत गत-सम्मोहस् त्यक्त्वोदास्ते तदोभयम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यदा स्वरूपं जानाति काल-प्रकृति-वर्जितम् ।

** वासुदेव-प्रसादेन तदा मुक्तो भवत्य् असौ ॥ **इति भविष्य-पुराणे ॥३ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत एव भक्ति-योगेन तन्-निरासे सति मोक्षोऽपि घटत इत्य् आह—यर्हीति । वाव-शब्द एवार्थे । स्व एव महिम्नि यदा रमेत । तद् एवाह । काल-माययोः पुरुष-प्रकृत्योः परस्मिन् । तदोभयम् अहं ममेति च त्यक्त्वा उदास्ते पूर्ण-रूपेणावतिष्ठते । तद् उक्तम्—

ययासंमोहितो जीव आत्मानं त्रि-गुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥ इति [भा।पु। १.७.५-६] ॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत एव बहुरूपाहं ममत्वादेर्मायिकत्वाद् एव महिम्नि ब्रह्मभावे अत्र मानमाह—तद् उक्तम् इति । श्लोकाविमौ प्रथम-स्कन्धे व्याख्यातौ ॥३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्वे महिम्नि स्वस्य महिम-हेताव् इत्य् अर्थः । काल-माययोर् अपि परस्मिन् तत्-तद्-आदि-सर्वाश्रय-तत्त्वे इत्य् अर्थः । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [गीता ७.१५] इति श्री-गीतातः । प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् [भा।पु। ५.५.६] इति श्री-ऋषभदेव-वाक्याच् च । उभयं मायां देहादि-रूपम् अर्थं च ॥३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं च यादृच्छिक्या माययैव जीवस्य संसारो यथा, तथैव यादृच्छिक्या भक्त्यैव जात-प्रेम्ना जीवस्य संसारान् निस्तार इत्य् आह यर्हीति । वाव-शब्द एवार्थे । यर्ह्य् एव । स्वे स्वीये महिम्नि रमेत इति । वस्तुतः खलु स्वीये देहादिके ममतास्पदे रमणं त्यक्त्वा यथार्थत एव स्वीये ममतास्पदे वस्तुनीत्य् अर्थः । महिम्नि महिमातिशयत्वात् महिमरूपे एवेत्य् अर्थः । काल-माययोः परस्मिन् काल-कृत-विकार-रहिते मायाकृत-महद्-आदि-तत्त्व-रहिते च स्वरूपे रमेत आसज्जेत । तच् च न यत्र कालः इति, न यत्र माया इत्य् आदि-वक्ष्यमाण-वाक्य-दृष्ट्या भगवतो धाम-श्री-विग्रह-पार्षदादिकं ज्ञेयम् । रमणस्य भक्त्य्-अविना-भावित्वात् यदृच्छया प्राप्तया भक्त्येति लभ्यते । तदा उभयं कालं तत उदास्ते अनासक्तो भवति । यद् उक्तं—

यया सम्मोहितो जीव आत्मानं त्रि-गुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजनतो विद्वांश् चक्रे सात्वत-संहिताम् ॥ [भा।पु। १.७.५-६] इति ॥३ ॥

———————————————————————————————————————

॥ २.९.४ ॥

आत्म-तत्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् ।
ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रतादृतः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : यतो भगवद्-उक्तं प्रमाणम्, अतस् तद् उक्तं पुराणं त्वत्-प्रश्नानाम् उत्तरत्वेन वक्ष्ये ॥४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यच् चोक्तं परमेश्वरस्यापि देह-सम्बन्धाविशेषात् कथं तद्-भक्त्या मोक्षः स्याद् इति, आसीद् यद्-उदरात् पद्मं [भा।पु। २.८.७] इत्य्-आदिना ? तत्राह—आत्मनो जीवस्य तत्त्व-विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं तद् भवत्य् एव । किं तत् ? यत् तप-आदिना1 भजनं भगवान् ब्रह्मणे आह । किं कुर्वन् ? ऋतं सत्यं विद्धनं रूपं दर्शयन् । दर्शने हेतुः—अव्यलीकेन व्रतेन तपसा आदृतः सेवितः सन् । अयं भावः—जीवस्याविद्यया मिथ्या-रूप-देह-सम्बन्धः, ईश्वरस्य तु योगमायया चिद्-घन-लीला-विग्रहाविर्भाव इति महान् विशेषः। अतस् तद्-भजनान् मोक्षोपपत्तिर् इति ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अव्यलीकेन निष्कपटेन अत्राशयमाह—अयं भाव इति । अतो योगमायाविलसच्चिद्धनविग्रहवत्त्वात् ॥४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भजनम् एव केनोपदिष्टं यत् कृत्वा जीवस् तरिष्यति ? इत्य् आह—आत्म-तत्त्व-विशुद्ध्य्-अर्थं भगवान् सर्वेश्वर आत्मनो जीवस्य तद्-अंशत्वं तत्त्वं तेन या विशुद्धिस् तद्-अर्थं यद् आह—तपेत्य्-आदि यद् अवादीत्, तद् एव भजनम् । किं कुर्वन्न् आह? ऋतं सत्यं सद्-आनन्द-घन-विग्रहं दर्शयन्, रूप्यत इति रूपं श्री-विग्रहम् । तस्मै एतादृशं प्रसादं कुतः कृतवान् ? तद् आह—अव्यलीक-व्रतादृतोऽव्यलीकेन व्रतेन तप-आदिना भजनेनादृतः ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद् एव च स्वे महिम्नि रमणम् ऋतं परम-ब्रह्म-लक्षण-रूपं श्री-विग्रहाकार-तत्त्वं दर्शयन् साक्षात्-कारयन्न् एव ब्रह्मणे ब्रह्माणं प्रत्य् आह चतुः-श्लोक्योपदिष्टवान्, शब्देनानुभवेन च यत् प्रकाशितवान् इत्य् अर्थः । किम्-अर्थम् ? आत्मनो जीवस्य तत्त्व-निर्णयार्थम् । तद्-द्वारा जीवान्तरम् अपि बोधयितुम् इत्य् अर्थः । यद् वा, आत्मनः स्वस्य श्री-भगवतो यत् तत्त्वं याथार्थ्यम् । तस्य तादृश-प्रसादे हेतुम् आह—अव्यलीकेति । एतेन भगवद्-विग्रह-गतः प्रश्नश् चोत्तरयति ॥४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु काल-माययोः परं तद् एव किं यत्र रमेत ? तत्राह । आत्म-तत्त्वस्य स्वीय-तत्त्वस्य विशुद्धिर् ज्ञानं, तद्-अर्थं दशमस्य विशुद्ध्य्-अर्थम् [भा।पु। २.१०.२] इतिवत् । यद् वा, आत्मनो जीवस्य तत्त्वानां चित्तादीनां विशुद्ध्य्-अर्थम् । यत् ऋतं सत्यं चिद्-घनं रूपं दर्शयन् आह चतुः-श्लोकी-भागवतम् उपदिदेश । तत्र हेतुः—अव्यलीकेन व्रतेन निष्कपटया भक्त्या आदृतः । यच्-छब्दस्योत्तर-वाक्य-गतत्वान् न तत्-पदापेक्षा । अयं भावः—जीवस्याविद्यया आविद्यक-देह-सम्बन्धः । ईश्वरस्य तु योग-मायया चिद्-घन-लीला-विग्रहाविर्भाव इति महान् विशेष उक्तः इति श्री-स्वामि-चरणाः । एवं च आसीद् यद्-उदरात् पद्मं [भा।पु। २.८.७] इत्य्-आदिना जीव-देहाद् ईश्वर-देहस्य कोऽपि विशेष इति द्वितीय-प्रश्नस्योत्तरम् उक्तम् ॥४॥

———————————————————————————————————————

॥ २.९.५ ॥

स आदि-देवो जगतां परो गुरुः

स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत ।

तां नाध्यगच्छद् दृशम् अत्र सम्मतां

प्रपञ्च-निर्माण-विधिर् यया भवेत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवद्-भजनाद् एव तत्त्व-ज्ञानम् इत्य् एतत् प्रपञ्चयिष्यन् ब्रह्मणोऽपि तत्त्व-ज्ञानं तत्-प्रसादाद् एवेति दर्शयितुम् इतिहासम् आह—स इत्य्-आदिना । परो गुरुर् भक्ति-रहस्योपदेष्टा । स्वधिष्ण्यं पद्मम् आस्थाय अधिष्ठाय । तस्याधिष्ठानान्वेषणाय पूर्वं जले निमग्नः परावृत्य, स्वधिष्ण्ये स्थित्वेत्य् अर्थः । ऐक्षत तत् कथं स्रष्टव्यम् इत्य् आलोचितनान् । तां दृशं प्रज्ञाम् अत्र सृष्टि-विषये संमताम् अव्यभिचारिणीम् । विधिः प्रकारः॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य पद्मस्याधिष्ठानमाश्रयस्तस्यान्वेषणं मार्गणं तस्मै । इत्य् अर्थ इति । यदाधिष्ठानं नातव्रंस्तदा परवृत्येति भासः ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं विवरितुं तद्-दर्शन-प्रकारम् आह—स इत्य्-आदिभिः ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न केवलं भगवद्-रूपम् एव काम-मायातीतम् । अपि तु तल्-लोकं तद्-भक्ताश् च काल-मायातीता इति दर्शयितुं चतुःश्लोकीं भागवत-कथां प्रस्तौति—स आदीति । परो गुरुर् भक्ति-रहस्योपदेष्टा । स्वधिष्ण्यं पद्मम् । आस्थाय अधिष्ठाय । तस्याधिष्ठानान्वेषणाय पूर्वं जले निमग्नः । पश्चात् परावृत्य स्वधिष्ण्ये स्थित्वेत्य् अर्थः। **ऐक्षत **तत् कथं स्रष्टव्यम् इत्य् आलोचितवान् । तां दृशं प्रज्ञाम् । अत्र सृष्टि-विषये । **विधिः **प्रकारः ॥५॥

———————————————————————————————————————

॥ २.९.६ ॥

स चिन्तयन् द्व्य्-अक्षरम् एकदाम्भस्य्

उपाशृणोद् द्विर्-गदितं वचो विभुः ।

स्पर्शेषु यत् षोडशम् एकविंशं

निष्किं च, नानां नृप यद् धनं विदुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सृष्टिं चिन्तयन् कदाचित् द्व्य्-अक्षरं वचोऽम्भसि उपाशृणोत् उप समीपे श्रुतवान् । ते अक्षरे दर्शयति । कादयो मावसानाः स्पर्शाः तेषु यत् षोडशं त-कारो यच् चैकविंशं प-कारः वचसो निर्देशार्थं तद् अर्थम् आह । हे नृप, निष्किंचनानां त्यक्त-धनानां धनं यद् विदुः, येन तपोधना इति प्रसिद्धाः, तच् च द्विर्-गदितं तप तपेति । लोण्मध्य-पुरुषैकवचनम् । तस्य वीप्सां सादर-विधि-रूपाम् अशृणोद् इत्य् अर्थः ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे नृपेति । नृपाणां तु पालनम् एव धर्मस्तत् तु ब्राह्मणानाम् एवेति भावः । इत्य् अर्थ इति । द्विरुच्चरणं हि तपसो वैदिकत्वज्ञापनार्थम् एव वैदिका हि मन्त्रोच्चारणे प्रथमपदं द्विरुच्चरन्ति सहस्रशीर्षा सहस्रशीर्षा पुरुष इतिवद् इति भावः ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स चिन्तयन्निति च कामः कृष्णायेत्यडिना श्री-कृष्णाष्टादशाक्षरमुपदिश्य तप त्वं तप एतेन तव सिद्धिर्भविष्यतीत्यनेन वाक्येन ब्रह्मसंहितायामेतदभिसन्धिश् च दर्शितः निष्किं च, नानां निष्कामभक्तानां यत् तदाराधनलक्षणं तप एव धनं विदुः ।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सृष्टिं विचिन्तयन् कदाचिद् द्व्य्-अक्षरं वचः । द्विर्-गदितं द्विर्-उक्तम् । अम्भसि उप समीपे श्रुतवान् । मत्रम् इव तद् द्व्यक्षरम् उद्धरति । स्पर्शेषु कादयो मावसानाः स्पर्शाः । तेषु यत् षोडशं त-कारः । यच् चैकविंशं प-कारः । तेन तपेति लोट्-मध्यम-पुरुषैक-वचनम् । तच् च द्विरुक्तं तप तपेति । धनम् इति यत एव ब्राह्मणास् तपोधना उच्यन्ते ॥६॥

———————————————————————————————————————

॥ २.९.७ ॥

निशम्य तद्-वक्तृ-दिदृक्षया दिशो

विलोक्य तत्रान्यद् अपश्यमानः ।

स्वधिष्ण्यम् आस्थाय विमृश्य तद्-धितं

तपस्य् उपादिष्ट इवादधे मनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं निशम्य तस्य वचसो वक्तुर् दिदृक्षया ततः प्रचलितः सन् दिशो विलोक्य पुनः स्वधिष्ण्यम् आस्थाय केनचित् प्रत्यक्षं नियुक्त इव तच् चात्मनो हितं विमृश्य तपसि मनो धृतवान् इत्य् अर्थः ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः कञ्जदेशात्प्रचलितः प्रचलितुं प्रवृतः स्थानान्तरादर्शनात्पुनस्तत्रैव पद्मे स्थित्वा । इत्य् अर्थ इति । केनचिन्मद्धितैषिणा मह्यं हितमेवोपदिष्टमतस्तप एव करोमीति निश्चयं चकारेति भावः ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **निशम्येति तद्-वक्त्र इति सम्बन्धोक्ति-पाठे तत् वचो निर्गतं यद्-वक्त्रात् तस्य दिदृक्षया इति ॥७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **केनचित् तपसि प्रत्यक्षम् अहम् आदिष्टः प्रत्यक्षम् इव नियुक्त इति तद् एव हितं मत्वा, तस्मिंस् तपस्य् एव मन आदधे ॥७॥

———————————————————————————————————————

॥ २.९.८ ॥

दिव्यं सहस्राब्दम् अमोघ-दर्शनो

जितानिलात्मा विजितोभयेन्द्रियः ।

अतप्यत स्माखिल-लोक-तापनं

तपस् तपीयांस् तपतां समाहितः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तपो ब्रह्म । तपसोऽध्यजायत इति श्रुतेः । अखिल-लोक-प्रकाशनं यत् तद् आलोचयामास । तपतां तपीयान् इत्य् अनेनात्य् उत्तमोत्तमत्वम् उक्तं भवति ।

महान् महीयसाम् आदिं ब्रूयाद् अत्युत्तमोत्तमम् ।
यत्राधिक्यं वदेत् किंचिज् ज्ञेयोऽर्थस् तत्र चाधिकः ॥ इति व्यास-निरुक्तेः ।

तपो-रूपं परं ब्रह्म ब्रह्मार्चित-यद्-अञ्जसा इति षाड्गुण्ये ॥८॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च स ब्रह्माअखिल्आनां लोकानां तापनं प्रकाशकं तपोऽतप्यत स्म कृतवान् । तप तपेत्य् एतस्य वचसोऽर्थे । अमोघं दर्शनं यस्य । जितोऽनिल आत्मा मनश् च येन । विजितान्य् उभयेन्द्रियाणि ज्ञान-कर्मात्मकानि येन तपतां तपश्-चरतां मध्ये तपीयान् अतिशयेन तपस्वी ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततस्तप तपेतिवाक्यश्रवणानन्तरम् । ननु तपः स्वरूपन्तु भगवता नोपदिष्टं स कथं तपः कृतवानिति चेत्तत्राह—अमोघं सर्वथा भगवदिच्छातः सफलं दर्शन ज्ञानं यस्य स तथा परमेश्वरेच्छयैव तपसस्तद् इति कृत्यताया ज्ञानमुपदेशसमकालम् एव जातम् इति भावः । पराञ्चि खानि व्यतृणत्स्वयंभूः इति श्रुतेरुभयेन्द्रियजयस्तस्य स्वाभाविक एव पराञ्चि पराङ्मुखानि खानीन्द्रियाणि व्यवृद्धिसितवान् । विषयेभ्यः परावर्तनमेवेन्न्द्रियाणां हिंसा स एव तज्जय इत्युच्यते । सभाजितः पूजितः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अखिलानां लोकानां तापनं प्रकाशकम् । आविर्भाव-कारणम् इत्य् अर्थः । तपतां मध्ये तपीयान् अतितपस्वी ॥८॥

———————————————————————————————————————

॥ २.९.९ ॥

तस्मै स्व-लोकं भगवान् सभाजितः2

सन्दर्शयाम् आस परं न यत्-परम् ।

व्यपेत-सङ्क्लेश-विमोह-साध्वसं

स्व-दृष्टवद्भिर्3** विबुधैर्**4** अभिष्टुतम्**5** ॥९॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यद् यतः । यत् तद् इत्य् आदयः शब्दाः पञ्चम्य्-अन्ताः प्रकीर्तिताः इति च ॥९ ॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मै ब्रह्मणे स्व-लोकं वैकुण्ठाख्यम् । परं श्रेष्ठम् । **न यत्-परं **यतः परम् उत्कृष्टम् अन्यन् नास्ति । तम् एव लोकम् अनुवर्णयति पञ्चभिः । व्यपेताः संक्लेशादयो यस्मात् । स्व-दृष्टवद्भिः सत्-पुण्यवद्भिः । यद् वा, स्वस्य दृष्टं दर्शनम् अस्ति येषाम्, आत्म-विद्भिर् इत्य् अर्थः ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **व्यपेता नष्टाः सङ्क्लेशा अविद्यारागद्वेषाद्याः । विमोहो मौढ्यमाकुलता वा साध्वसं कालादिभयं स्वो विष्णुः स एव लोक इति पक्षमाश्रित्याह—यति । इत्य् अर्थ इति । आत्मविद्भिर् एव स्वरूपभूतो भगवान्दृश्यते नान्यैरिति भावः॥ स्वलोकं महावैकुण्ठं यद्यतो लोकात्परमन्यद्वैकुण्ठं परं श्रेष्ठं नास्तीति अत्राथैनं गार्गीवाचक्नवी पप्रच्छेत्यादिकोपनिषदुदाहार्यात्र ह्यन्तरिक्षलोकादिप्रजापतिलोकपर्यन्तप्रश्नानामुत्तराणि गार्ग्यं याज्ञवल्क्यो दत्त्वा ब्रह्मलोकादाभ्य भगवल्लोकाद् अप्य् उपरि पृष्टवत्यै तस्यै मातिप्राक्षीरित्य्-आदिना शापं दातुमुद्यतः । सा च तच्छुत्वा ज्ञातविज्ञेयत्वादुपररामेति । यद् वा, यद्यतो वैकुण्ठात्परं ब्रह्माख्यं तत्त्वं परं भिन्नं नास्ति स्वरूपशक्तिविशेषाविष्कारेण मायानावृतं तद् एव तद्रूपमित्य् अर्थः । इदमग्रे व्यक्तीकरिष्यते तादृशत्वे हेतुः व्यपेतेति, स्वदृष्टेति च । स्वदृष्टेति अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् इत्यारभ्य शन्सतो वैष्णवीं श्रियम् इत्यन्तेन तृतीयस्कन्धोक्तेः ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगवद्-आविर्भावम् आह सार्धैर् दशभिः । तस्मा इत्य्-आदि-भगवद्-आज्ञा-पुरस्कारेण श्री-नारायणाह्वय-पुरुष-नाभि-पङ्कजे स्थित्वैव तत्-तोषणैस् तपोभिर् भजते ब्रह्मणे सभाजितस् तेन भजनेन वशीकृतः सन् स्व-लोकं वैकुण्ठ-भूवनोत्तमं भगवान् सम्यग् दर्शयामासयत् यतो वैकुण्ठात् परम् अन्यत् वैकुण्ठ-परं श्रेष्ठं न विद्यते, परम-भगवद्-वैकुण्ठत्वात् ।

यद् वा, यत् यतो वैकुण्ठात् परं ब्रह्माख्यं तत्त्वं, परं भिन्नं भवति । स्वरूप-शक्ति-विशेषाविष्कारेण मायानवृतं तद् एव तद्-रूपम् इत्य् अर्थः । अग्रे त्व् इदं व्यक्तीकरिष्यते । तादृशत्वे हेतुः—व्यपेतेति स्व-दृष्टेति च । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः, विमोहस् तैर् वैचित्त्यं, साध्वसं भयं, व्यपेतानि सङ्क्लेशादीनि यत्र तम् । स्वस्य दृष्टं दर्शनं तद् विद्यते येषां तैर् आत्म-विद्भिर् अपि अभितः सर्वांशेनैव स्तुतं श्लाघितम् ।

अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् ।
वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् ॥
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ [भा।पु। ३.१६.२७-८]

इति तृतीयात् ॥९॥ (भगवत्-सन्दर्भः ७)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्व-लोकं महा-वैकुण्ठम् । यत्-परं यतोऽन्यत् परं श्रेष्ठं नास्ति । विशेषणैव अपेताः संक्लेशाः । अविद्याऽस्मिता-राग-द्वेषाभिनिवेशाः पञ्च अविद्या-वृत्तयः । तथा विशिष्टो मोहो वैचित्त्यं स चेह भगवत्-स्फूर्त्य्-अभाव एव, साध्वसं तत्-सेवापराध-भयं, तद् अप्य् अपेतं यत्र तम् । विबुधैर् इन्द्रादि-दिक्-पालैः । स्व-दृष्टवद्भिर् इति नित्य-योगे मतुपा प्राकृतेन्द्रादि-व्यावृत्तिः ॥९॥

———————————————————————————————————————

॥ २.९.१० ॥

प्रवर्तते यत्र रजस् तमस् तयोः

सत्त्वं च मिश्रं न च काल-विक्रमः ।

न यत्र माया किम् उतापरे हरेर्

अनुव्रता यत्र सुरासुरार्चिताः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मायातीतत्वात् ॥१०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोस् ताभ्यां मिश्रं सत्त्वं च न प्रवर्तते, किन्तु शुद्धम् एव सत्त्वम् । काल-विक्रमो नाशः । अपरे राग-लोभादयो न सन्तीति, किम् उ वक्तव्यम् । अनुव्रताः पार्षदाः ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ताभ्यां रजस्तमोभ्यामसुरैः प्रह्लादादिभिश्चार्चितः श्लाधिता यद् वा, दुष्टानामसनादसुर्हरिस्तत्र रमन्त इत्यसुराः सुराश् च तेऽसुराश्चेति सुरासुराः महद्वैदेवानामेकमसुरत्वम् इतिश्रुतेः। तैः स्तुत्याः तयोर् मिनं महत्तरं जडं यत्सत्त्वं तदपि न किंत्वन्यदेव सुष्ठु स्थापयिष्यमाणामायातः परा या भगवत्स्वरूपशक्तिस्तस्या वृत्तित्वेन चिद्रूपं शुद्धसत्त्वाख्यं सत्त्वम् इति तदीयप्रकरण एव स्थापयिष्यते तद् एव च यत्र प्रवर्तते तद् उक्तं नारदपञ्चरात्रीयजितन्तस्तोत्रे—

लोकं वैकुण्ठनामानं दिव्यषड्गुणसंयुतम् ।

अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥

पाद्मोत्तरखण्डे तु यद् विभूतिवर्णनानन्तरं—

त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ।
प्रधानपरमव्योम्नोरन्तरेविरजा नदी ।
वेदाङ्गस्वेदजनितैस्तोयैः प्रस्राविता शुभा ।
तस्याः पारे परव्योम त्रिपाद्भूतं सनातनन् ।
अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।

शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥

इत्य्-आदिप्राकृतगुणानां परस्पराव्यभिचारित्वं तूक्तं साङ्ख्यकौमुद्याम् । अन्योन्यमिथुनवृत्तय इति । तट्टीकायाञ्च अन्योन्यसहचरा अविनाभाववृत्तय इति यावत् । भवति चात्रागमः अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । रजसो मिथुनं सत्वम् इत्याधुपक्रम्य नैषामादिश् च संयोगो वोपलभ्यते इति । तस्मादत्र रजसोऽसम्भवादसृज्यत्वं तमसोऽसम्भवादनाश्यत्वं प्राकृतसत्त्वाभावाच् च सच्चिदानन्दरूपत्वं तस्य दर्शितं तत्र हेतुर्न च कालविक्रमः इति । कालविक्रमेण हि सत्त्वादयः प्रकृतिक्षोभात्पृथक् पृथक् क्रियन्ते तस्माद्यत्रासौ षड्भावविकारहेतुः कालविक्रम एव न प्रवर्तते तेषां तत्राभावः सुतराम् एवेति भावः । किं च, तेषां मूल एव कुठार इत्याह—न यत्र मायेति । मायात्र जगत्सृष्ट्यादिहेतुर्भगवच्छक्तिर्न तु कापट्यमात्रं रजआदिनिषेधेनैव तद्वयुदासात् । यथा वा यत्र तयोः सम्बन्धिसत्त्वं प्राकृतं सत्त्वं यत्तदपि न प्रवर्तते मिश्रमपृथग्भूतगुणत्रयं प्रधानं चात एवेशितव्याभावात्कालमाये अपि न स्त इति मायाप्रधानयोर्भेदोऽग्रे विवेचनीयः । कैमुत्येनोक्तमेवार्थं द्रढयति—किमुतापर इति । किञ्चिद्रजस्तमोमिश्रं सत्त्वं नेति व्याख्यातं तु पिष्टपेषणम् एव । सामान्यरजस्तमोनिषेवेनैव तत्प्रतिपत्तेः। ननु गुणाद्यभावान्तिर्विशेष एवासौ लोक इत्याशङ्क्य तत्र विशेषस्तस्याः शुद्धसत्त्वात्मिकायाः स्वरूपशक्तर् एव विलासरूप इति द्योतयंस्तम् एव विशेषं दर्शयति—हरेरिति । सुराः सत्वप्रभावा असुराः रजस्तमःप्रभावास्तैरर्चितास्तेभ्योऽर्हत्तमा इति गुणातीतत्वाद् इति भावः इति सन्दर्भः॥ अवदाता निर्मलाः अवदातः सिते गौरे शुद्धे इति यादवः । इन्द्रनीलमणिवन्निर्मलाः दशदोषविनिमुक्तः श्याम इन्द्रमणिः स्मृतः इत्यभिधानात् सुष्ठु मृदुश् च पेशः स्यात् इति च ॥१०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुनस् तादृशत्वम् एव व्यनक्ति—प्रवर्तते इति । यत्र वैकुण्ठे रजस् तमश् च न प्रवर्तते । तयोर् मिश्रं सहचरं जडं, यतः सत्त्वं तद् अपि न किन्तु अन्यद् एव । यत् सुष्ठु [स्थापयिष्यमाणा या मायातः परा भगवत्-स्वरूप-शक्तिस् तस्य वृत्तित्वेन चिद्-रूपं शुद्ध-सत्त्वाख्यं सत्त्वम् इति तदीय-प्रकरण एव] स्थापयिष्यते । तद् एव च यत्र प्रवर्तत इत्य् अर्थः ।

तथा च नारद-पञ्चरात्रे जितन्ते-स्तोत्रे—

लोकं वैकुण्ठ-नामानं दिव्य-षड्-गुण-संयुतम् ।
अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥

पाद्मोत्तर-खण्डे तु वैकुण्ठ-निरूपणे तस्य सत्त्वस्याप्राकृतत्वं स्फुटम् एव दर्शितम् । यत उक्तं प्रकृति-विभूति-वर्णानान्तरम्—

एवं प्राकृत-रूपाया विभूते रूपम् उत्तमम् ।
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परमं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ इत्य् आदि ॥

प्राकृत-गुणानां परस्पराव्यभिचारित्वं तूक्तं साध्य6-कौमुद्याम् अन्योन्य-मिथुन-वृत्तय इति । तट्-टीकायां च, अन्योन्य-सहचरा अविनाभाव-वृत्तय इति यावत् । भवति चात्रागमः, अन्योन्य-मिथुनाः सर्वे सर्वे सर्वत्र गामिनः । रजसो मिथुनं सत्त्वम् इत्य् आद्य् अपक्रम्य नैषामादिश् च संयोगो वियोगो वोपलभ्यत इति इति ।

तस्माद् अत्र रजसोऽसद्-भावाद् असृज्यत्वं तमसोऽसद्-भावाद् अनाश्यत्वं प्राकृत-सत्त्वाभावाच् च सच्चिदानन्द-रूपत्वं तस्य दर्शितम् । तत्र हेतुः—न च काल-विक्रम इति । काल-विक्रमेण हि प्रकृति-क्षोभात् सत्त्वादयः पृथक् क्रियन्ते । तस्मात् यत्रासौ षड्-भाव-विकार-हेतुः काल-विक्रम एव न प्रवर्तते, तत्र तेषाम् अभावः सुतराम् एवेति भावः ।

किं च, तेषां मूलत एव कुठार इत्य् आह—न यत्र मायेति । मायात्र जगत्-सृष्ट्य्-आदि-हेतुर् भगवच्-छक्तिर् न तु कापट्य-मात्रम्, रज-आदि-निषेधेनैव तद्-व्युदासात् । अथवा, यत्र तयोः सम्बन्धि सत्त्वं प्राकृत-सत्त्वं यत्, तद् अपि न प्रवर्तते । मिश्रम् अपृथग्-भूत-गुण-त्रयं प्रधानं च । अत एवेशितव्याभावात् काल-माये अपि न स्तः इति । अग्रे माया-प्रधानयोर् भेदो विवेचनीयः ।

कैमुत्येनोक्तम् एवार्थं द्रढयति—किम् उतापरे इति । तयोर् विमिश्रं किञ्चिद् रजस्-तमो-मिश्रं सत्त्वं च नेति व्याख्या तु पिष्ट-पेषणम् एव । सामान्यतो रजस्-तमो-निषेधेनैव तत्-प्रतिपत्तेः ।

**[**ननु प्राकृत-सत्त्व-गुणेनैष भवतु किं निजेनेत्य् आह । प्राकृत-गुण-प्रकाशैर् भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः । अथवा तव विज्ञान-रूपम् अज्ञान-भिदाया अपमार्जनं च यन् निजं सत्त्वं तद् यदि न भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान् अनुमीयते त्वन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः । तद् एव स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत इति । अस्वरूप-भूतस्यैव सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि सम्बन्धित्व-मात्रेण वा त्वद् एव प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः । यथा अरुणोदयस्य सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-लिङ्गत्वम् इति तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः ।

तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्ध-सत्त्वं नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः । रजः-सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस् तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च । तद् उक्तम् अपि अगोचरस्य गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः । बहुरूपस्य तिरोहितत्वे रजः । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्-सृष्टि-संहाराः उदासीनत्वादीनि चेति ।

अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पदवैयर्थ्यम् इत्य् अलं तन्-मत-रजो-घट-प्रघट्टनयेति । पाद्मोत्तर-खण्डे तु वैकुण्ठ-निरूपणे तस्य सत्त्वस्याप्राकृतत्वं स्फुटम् एव दर्शितम् । यत उक्तं प्रकृति-विभूति-वर्णनानन्तरम् ।

एवं प्राकृत-रूपाय विभूतेर् रूपम् उत्तमम् ।
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ इत्य्-आदि ।

तद् एतत् समाप्तं प्रासङ्गिकं शुद्ध-सत्त्व-विवेचनम् । अथ “प्रवर्तते” इत्य्-आदि प्रकृतम् एव पद्यं व्याख्यायते । इति भगवत्-सन्दर्भेऽधिकः पाठः ]

ननु गुणाद्य्-अभावान् निर्विशेष एवासौ लोक इत्य् आशङ्क्य तत्र विशेषस् तस्याः शुद्ध-सत्त्वात्मिकायाः स्वरूपानतिरिक्त-शक्तेर् एव विलास-रूप इति द्योतयंस् तम् एव विशेषं दर्शयति—हरेर् इति । सुराः सत्त्व-प्रभवाः, असुराः रजस्-तमः-प्रभवाः, तैर् अर्चिताः । तेभ्योऽर्हत्तमा इत्य् अर्थः । गुणातीतत्वाद् एवेति भावः ॥१०॥ (भगवत्-सन्दर्भ ७)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यत्र वैकुण्ठे रजस्-तमश् च न प्रवर्तते । तेन रजसः प्रवृत्त्य्-अभावाद् असृज्यत्वं तमसः प्रवृत्त्य्-अभावाद् अनाश्यत्वं च तस्योक्तम् । तथा तयोर् मिश्रं जडं यत् सत्त्वं तद् अपि न, इति सत्त्वस्यापि प्रवृत्त्य्-अभावात्, नश्वर-स्वर्गादेः पाल्यत्वम् इव न पाल्यत्वम् । किन्तु शुद्धं सत्त्वं सच्-चिद्-रूपं स्वरूप-शक्ति-सम्बन्धि तन्मयम् इत्य् अर्थः । तथा च नारद-पञ्चरात्रे जितन्ते-स्तोत्रे—

लोकं वैकुण्ठ-नामानं दिव्य-षड्-गुण-संयुतम् ।

अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥ इति ।

पाद्मोत्तर-खण्डे तु—

त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्गस्वेदजनित-तोयैः प्रस्राविता शुभा ॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥

सर्व-वेदमयं शुभ्रं सर्व-प्रलय-वर्जितम् ।

असङ्ख्यम् अजरं सत्यं जाग्रत्-स्वप्नादि-वर्जितम् ॥

न तद् भासयते सूर्यो न शशाङ्को न पावकः ।

यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ॥

नाना-जन-पदाकीर्णं वैकुण्ठं तद् धरेः पदम् ॥ इत्य्-आदि ।

अत एव यत्र काल-विक्रमः षड्भाव-विकार-हेतुर् न प्रवर्तते तस्य गुणेष्व् एव नियतत्वात्। किम् अन्यद् वाच्यम् ? यत्र गुणानां मूलत एव कुठार इत्य् अत आह न यत्र मायेति । मायाट्र जगत्-सृष्ट्य्-आदि-हेतुर् भगवच्-छक्तिर् न तु कापट्य-मात्रम् । रज-आदि-निषेधेनैव तद्-व्युदासात् किम् उतापरे ? माया-सन्ततयो न महद्-आदयः सन्त्व् इति । तत्रत्यानां शरीराणि न तैर् आरब्धानीति ज्ञापितम् । एवं वैकुण्ठम् अनुवर्ण्य तत्रत्यान् भगवतो भक्तान् अनुवर्णयति । अनुव्रता अनुवृत्तिर् एव व्रतं येषां ते पार्षदा यत्र नित्यं भगवन्तम् अनुवर्तन्त इत्य् अर्थः । तेन परस्मिन् काल-माययोर् इति पूर्वम् उक्तो भगवान् इव भगवल्-लोको भगवद्-भक्ताश् च काल-मायातीता इति प्रतिपादितम् । सुरैर् असुरैश् च भक्तैर् अर्चिताः ॥१०॥

———————————————————————————————————————

॥ २.९.११ ॥

श्यामावदाताः शत-पत्र-लोचनाः

पिशङ्ग-वस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्-बाहव उन्मिषन्-मणि-

प्रवेक-निष्काभरणाः सुवर्चसः ।

प्रवाल-वैदूर्य-मृणाल-वर्चसः

परिस्फुरत्-कुण्डल-मौलि-मालिनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्यामाश् च ते अवदाता उज्ज्वलाश् च, पद्म-नेत्राः, पीताम्बराः, सुरुचोऽतिकमनीयाः, सुपेशसोऽतिसुकुमाराः । उन्मिषन्त इव प्रभावन्तो मणि-प्रवेका मण्य्-उत्तमा येषु तानि निष्काणि पदकान्य् आभरणानि च येषां ते । सुवर्चसोऽतितेजस्विनः, प्रवालादिवद् वर्चो वर्णो येषां ते, परितः स्फुरन्ति कुण्डलानि मौलयो मालाश् च सन्ति येषां ते ॥११॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उन्मितषन्त इव चक्षुष्मन्त इव पदकानि वक्षोभूषणानि निष्कोऽस्त्री हेम्नि दीनारे साष्टे कर्षशते पले । वक्षोविभूषणे कर्ष इति कोशात् । अनेन सारूप्यादिभाजो मुक्ता अपि तत्र सन्तीत्युक्तम् । प्रवालादयो मणिभेदाः ॥११॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तान् एव वर्णयति—श्यामावदाता इति । श्यामाश् च अवदाता उज्ज्वलाश् च ते पीत-वस्त्राः सुपेशसोऽतिसुकुमाराः उन्मिषन्त इव प्रभावन्तो मणि-प्रवेका मण्य्-उत्तमा येषु तानि निष्काणि पदकान्य् आभरणानि येषां ते । सुवर्च्चसः तेजस्विनः । प्रवालेति । केऽपि तेभ्यः श्री-भगवत्-सारूपयं लब्धवद्भ्योऽन्ये प्रवालादि-सवर्णाः ॥११॥ (भगवत्-सन्दर्भ ८)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्यामाश् च ये अवदाता उज्ज्वलाश् च ते तथा पद्म-नेत्राः पीताम्बराः सुरुचः अतिकमनीयाः सुपेशसः अतिसुकुमाराः । उन्मिषन्त इव प्रभावन्तो मणि-प्रवेका मण्य्-उत्तमा येषु तानि निष्काणि पदकान्य् आभरणानि येषां ते । सुवर्चसोऽतितेजस्विनः । प्रवालादिवद् वर्चो वर्णो येषाम् । अत्र केऽपि भगवद्-सारूप्यं लब्धवद्भ्योऽन्ये रक्त-पीतादि-वर्णाः सन्तीति सन्दर्भः ।

हरेर् अनुव्रता यत्र श्यामारुण-हरित्-सिताः ।
तत्-तद्-वर्णम् उपास्येशं तत्-सारूप्यम् उपागताः ॥ इति भागवतामृतम् ।

परिस्फुरन्ति कुण्डलानि मौलयो मालाश् च सन्ति येषाम् ॥११॥

———————————————————————————————————————

॥ २.९.१२ ॥

भ्राजिष्णुभिर् यः परितो विराजते

लसद्-विमानावलिभिर् महात्मनाम् ।

विद्योतमानः प्रमदोत्तमाद्युभिः

सविद्युद् अभ्रावलिभिर् यथा नभः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पार्षदान् अनुवर्ण्य पुनर् अपि लोकम् अनुवर्णयति । भ्राजिष्णुभिर् देदीप्यमानाभिः प्रमदोत्तमानां दिवः कान्तयस् ताभिर् विद्योतमानः । सह विद्युद्भिर् वर्तमानाः स-विद्युतस् ताभिर् अभ्रावलिभिः । तत्र विद्युत इव स्त्रियः, अभ्रपङ्क्तय इव विमानानि, नभ इव लोकः7 ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सिंहावलोकन्यायेन पुनर्लोकं वर्णयति भ्राजिष्णुभिरिति ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुनर् अपि लोकं वर्णयति । भ्राजिष्णुभिर् इति ॥१२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पार्षदान् अनुवर्ण्य पुनर् अपि लोकं वर्णयति । भ्राजिष्णुभिर् देदीप्यमानाभिः । प्रमदोत्तमानां दिवः कान्तयस् ताभिः विद्योतमानः । स-विद्युद् इति विद्युत इव स्त्रियः । अभ्र-पङ्क्तय इव विमानानि । नभ इव लोकः ॥१२॥

———————————————————————————————————————

॥ २.९.१३ ॥

श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः

करोति मानं बहुधा विभूतिभिः ।

प्रेङ्खं श्रिता या कुसुमाकरानुगैर्

विगीयमाना प्रिय-कर्म गायती ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्रेङ्खं श्रिता या विभूतयः ॥१३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्रीः सम्पत् । रूपिणी मूर्तिमती । मानं पूजाम् । विभूतिभिर् नाना-विभवैः प्रेङ्खम् आन्दोलं संश्रिता । कुसुमाकरो वसन्तः, तस्यानुगा भ्रमराः, तैर् विविधं गीयमाना । स्वयं तु प्रियस्य हरेः कर्म गायन्तीव भवति ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रेखमान्दोलनम् इति कोशात् । ब्रह्मादय एव भ्रमरीभूता ज्ञेयाः ॥१३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्रीर् यत्रेति । श्रीः स्वरूप-शक्तिः रूपिणी तत्-प्रेयसी-रूपा । मानं पूजाम् । विभूतिभिः रूपिणी तत्-प्रेयसी-रूपा । मानं पूजाम् । विभूतिभिः स्व-सखी-रूपाभिः । प्रेङ्खम् आन्दोलनं श्रिता विलासेन । कुसुमाकारो वसन्तः, तद्-अनुगा भ्रमराः, तैर् विविधं गीयमाना । स्वयं प्रियस्य हरेः कर्म गायन्ती भवति ॥१३॥ (भक्ति-सन्दर्भः ८)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र तत्-प्रेयसीम् अनुवर्णयति—श्रीर् अन्तरङ्गा भगवतः स्वरूप-शक्तिः । रूपिणी सौन्दर्यवती । मानं पूजाम् । विभूतिभिः स्व-सखी-रूपाभिः । प्रेङ्खम् आन्दोलनम् । विलासेन श्रिता कुसुमाकरो वसन्तः, तस्यानुगा भ्रमराः, तैर् विविधं गीयमाना । स्वयं तु प्रियस्य हरेः कर्म गायन्ती भवति ॥१३॥

———————————————————————————————————————

॥ २.९.१४ ॥

ददर्श तत्राखिल-सात्वतां पतिं

श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् ।

सुनन्द-नन्द-प्रबलार्हणादिभिः

स्व-पार्षदाग्रैः परिसेवितं विभुम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सत्त्वं तु शोभन त्व् अं स्यात् तद्-युक्ताः सात्वता मताः इत्य् अध्यात्मे ॥१४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **य एवम्भूतो लोकस् तत्र तस्मिन् ॥१४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र वैकुण्ठे ॥१४॥

———————————————————————————————————————

**जीव-गोस्वामी (भगवत्-सन्दर्भः) : **अखिल-सात्वतां सर्वेषां सात्वतानां यादव-वीराणां पतिः,

श्रियः पतिर् यज्ञ-पतिः प्रजापतिर्
धियां पतिर् लोक-पतिर् धरापतिः ।
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवन् सतां पतिः ॥ [भा।पु। २.४.२०] इत्य् एतद् वाक्य-संवादित्वात् ।

श्री-भागवत-मते श्री-कृष्णस्यैव स्वयं-भगवत्त्वेन प्रतिपादयिष्यमानत्वात् । तच् चैतद् अनन्तरं ब्रह्मणे चतुःश्लोकी-रूपं भागवतं श्री-भगवतोपदिष्टम् । तत्र च—

पुरा मया प्रोक्तम् अजाय नाभ्ये
पद्मे निषण्णाय ममादि-सर्गे ।
ज्ञानं परं मन्-महिमावभासं
यत् सूरयो भागवतं वदन्ति ॥ [भा।पु। ३.४.१३]

इति तृतीये उद्धवं प्रति श्री-कृष्ण-वाक्यानुसारेण ॥

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अमुं व्रजेत् ॥ [गो।ता।उ। १.२२]

इति श्री-गोपाल-तापन्य् अनुसारेण च तस्मै वोपदेष्टृत्व-श्रुतेः ॥

तद् उ होवाच ब्रह्म-सवनं चरतो मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२५] इतिश्री-गोपाल-तापन्य्-अनुसारेणैव क्वचित् कल्पे श्री-गोपाल-रूपेण च सृष्ट्य्-आदाव् इत्थम् एव ब्रह्मणे दर्शित-निज-रूपतां तद्-धाम्नो महा-वैकुण्ठत्वेन श्री-कृष्ण-सन्दर्भे साधयिष्यमाणत्वाच् च द्वारकायां प्राकट्यावसरे श्रुत-सुनन्द-नन्दादि-साहचर्येण श्री-प्रबलादयोऽपि ज्ञेयाः । यथोक्तं प्रथमे सुनन्द-नन्द-शीर्षण्या ये चान्ये सात्वत-र्षभा [भा।पु। १.१४.३२] इति । इति भगवत्-सन्दर्भे अधिकः पाठः ।] ॥१४॥ (भगवत्-सन्दर्भ ८)

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ददर्शेति त्रिकम् । तत्र लोके इति प्राक्तनानां यच्-छब्दानां विशेष्यम् ॥१४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्-प्रेयसीम् अनुवर्ण्य, तं प्रभुं भगवन्तम् अनुवर्णयति—ददर्शेति ॥१४॥

———————————————————————————————————————

॥ २.९.१५ ॥

भृत्य-प्रसादाभिमुखं दृग्-आसवं

प्रसन्न-हासारुण-लोचनाननम् ।

किरीटिनं कुण्डलिनं चतुर्-भुजं

पिताम्बरं8वक्षसि लक्षितं श्रिया ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

मुक्तैः स्व-पार्षदैः पूर्वैर् ब्रह्माद्यैश् चैव संयुतम् ।

ब्रह्मा ददर्श तपसा भगवन्तं हरिं प्रभुम् ॥ इति गारुडे ॥१५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भृत्यानां प्रसादोऽभिमुखम्, दृग् एव आसव इव द्रष्टॄणां हर्ष-करी यस्य तम्, प्रसन्न-हासम् अरुण-लोचनं चाननं यस्य, वक्षसि स्थितया च श्रिया लक्षितम्, अलंकृतम् इत्य् अर्थः ॥१५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । लक्ष दर्शनाङ्कनयोः इति लक्षितमङ्कितम् इति भावः ॥१५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भृत्य-प्रसादेति । दृग् एवासव इव द्रष्टॄणां मद-करी यस्य तम् । श्रिया वक्षो-वाम-भागे स्वर्ण-रेखाकारया ।_।_१५॥ (भगवत्-सन्दर्भ ८)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दृग् एव आसव इव द्रष्टॄणां हर्ष-करी यस्य तम् । पीताम्बरत्वेन श्याम-वर्णत्वं लभ्यते । श्रिया वक्षो-वाम-भागे स्वर्ण-रेखाकारया ॥१५॥

———————————————————————————————————————

॥ २.९.१६ ॥

अध्यर्हणीयासनम् आस्थितं परं

वृतं चतुः-षोडश-पञ्च-शक्तिभिः ।

युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः

स्व एव धामन् रममाणम् ईश्वरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अध्यर्हणीयं वरिष्ठं सिंहासनम् । चतस्रः प्रकृति-पुरुष-महद्-अहंकार-रूपाः, षोडश एकादशेन्द्रिय-पञ्च-महाभूताख्याः पञ्च-तन्मात्र-रूपा याः शक्तयस् ताभिर् वृतम् । स्वैर् भगैः स्वाभाविकैर् ऐश्वर्यादिभिः इतरत्र योगिश्व् अध्रुवैर् आगन्तुकैः9 । साधारणैर् इत्य् अर्थः । एवं सत्य् अपि स्व एव धामन् स्व-स्वरूप एव रममाणम् । अत एवेश्वरम् ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । आगन्तुकत्वात्साधारणैरिति भावः। यद् वा, द्रष्टा ज्ञानक्रियावलाख्याभिः प्रह्वीसत्येशानानुग्रहाख्याभिर्वात्मान्तरात्मपरमात्मज्ञानात्माख्याभिर्वा चतुःशक्तिभिर्वृतं मोचिका सूक्ष्मासूक्ष्मामृताज्ञानामृताव्यापिनीव्योमरूपिण्यनन्ताणिमा-महिमा-गरिमा-लधिमा-प्राप्ति-प्राकाश्येशित्वप्राकाम्याख्याभिः षोडशशक्तिभिः पञ्चभिर्विमलोत्कर्षिणीज्ञानाक्रियायोगाख्याभिश् च वृतम् । यद् वा, चतस्रः शक्तयः पाद्मोत्तरखण्डे योगपीठवर्णनोक्ता धर्माद्याः यथा—

धर्मज्ञानवलैश्वर्यवैराग्यैः पादविग्रहैः ।

ऋग्यजुःसामाथर्वाणरूपैर्नित्यं वृतं क्रमात् ॥

इति षोडशशक्तयश्चण्डाद्याः यथा तत्रैव चण्डादिद्वारपालैश् च कुमदाद्यैश् च रक्षिता नगरीति पूर्वेणान्वयः। ते च—

चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ।
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ।
कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः ।
शङ्कुकर्णः सर्पनेत्रः सुमुखः सुप्रतिष्ठितः ।

एते दिक्पतयः प्रोक्ताः पुर्यामत्र सुशोभने ॥

इति कुमुदादयश् च द्वौ द्वावाग्नेयादिदिक्पतय इत्य् अर्थः । पञ्चशक्तयस्तु—

कूर्मश् च नागराजश् च वैनतेयस्त्रयीश्वरः ।

छन्दांसि सर्वमन्त्राश् च पीठरूपत्वमाश्रिताः ॥ इति ।

त्रयीश्वर इति वैनतेयविशेषणम् इति सन्दर्भचक्रवर्तिकारौ एवं सत्यपि ऐश्वर्यादियुक्तत्वेऽपि अत एव स्वरूपविस्मरणाभावाद् एव ॥१६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अर्ध्यहणीयेति । चतस्रः शक्तयो धर्माद्याः । पाद्मोत्तर-खण्डे योग-पीठे त एव कथिताः—न बहिरङ्गा अधर्माद्या इति । तथा हि,

धर्म-ज्ञान तथैश्वर्य-वैराग्यैः पाद-विग्रहैः ।
ऋग्-यजुः-सामाथर्वाण-रूपैर् नित्यं वृतं क्रमाद् ॥ इति ।

समस्तान्तस् तथा शब्द-प्रयोगस् त्व् आर्षः । षोडश-शक्तयश् चण्डाद्याः । तथा च तत्रैव—चण्डादि-द्वार-पालैस् तु कुमुदाद्यैः सुरक्षिता [प।पु। ६.२२८.१३] इति । नगरीति पूर्वेणान्वयः। ते च—

चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ ।
वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ॥
कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः ।
शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ॥
एते दिक्पतयः प्रोक्ताः पुर्याम् अत्र सुशोभने ॥ [प।पु। ६.२२८.१३-१५] इति ।

कुमुदादयस् तु द्वौ द्वाव् आग्नेयादि-दिक्-पतय इति शेषः । पञ्च-शक्तयः कूर्माद्याः । तथा च तत्रैव—

कूर्मश् च नागराजश् च वनतेयस् त्रयीश्वरः ।
छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिता ॥ [प।पु। ६.२२८.२४] इति ॥

त्रयीश्वर इति वैनतेय-विशेषणम् । तस्य छन्दोमयत्वात् । [यद्यप्य् उत्तर-खण्ड-वचनं तत् परम-व्योम-परं तथापि तत्-सादृश्यागमादि-प्रसिद्धेश् च श्री-कृष्ण-योग-पीठम् अपि च तद्वज् ज्ञेयम् । अत्र षोडश-शक्तयः साक्षात् श्री-कृष्ण एव श्री-कृष्ण-सन्दर्भे पुरस्ताद् उदाहरिष्यमाण-प्रभास-खण्ड-वचनात् श्रुतालम्बिन्यादय एव वा ज्ञेया इति । इति भगवत्-सन्दर्भे अधिकः पाठः ।]

स्वैः स्वरूप-भूतैर् ऐश्वर्यादिभिर् युक्तम् इतरत्र योगिषु अध्रुवैः आगन्तुकैः नश्वरैः तत् प्रमादाद् एव कदाचित् तद्-आभास-रूपतयैव प्राप्तैर् इत्य् अर्थः । स्व-स्वरूप एव धामनि श्री-वैकुण्ठे रममाणम् अत एवेश्वरं, कथम् अपि पराधीन-सिद्धित्व-भावात् ॥१६॥ (भगवत्-सन्दर्भ ८)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चतस्रः शक्तयो धर्माद्याः । पाद्मे वैकुण्ठीय-योग-पीठ-वर्णने त एवोक्ताः, यथा—

धर्म-ज्ञान तथैश्वर्य-वैराग्यैः पाद-विग्रहैः ।
ऋग्-यजुः-सामाथर्वाण-रूपैर् नित्यं वृतं क्रमाद् ॥ इति ।

षोडश-शक्तयश् चण्डाद्याः । तथा च तत्रैव—चण्डादि-द्वार-पालैस् तु कुमुदाद्यैः सुरक्षिता [प।पु। ६.२२८.१३] इति । नगरीति पूर्वेणान्वयः। ते च—

चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ ।
वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ॥
कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः ।
शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ॥
एते दिक्-पतयः प्रोक्ताः पुर्याम् अत्र सुशोभने ॥ [प।पु। ६.२२८.१३-१५] इति ।

पञ्च-शक्तयः कूर्माद्याः । तथा च तत्रैव—

कूर्मश् च नागराजश् च वनतेयस् त्रयीश्वरः ।
छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिता ॥ [प।पु। ६.२२८.२४] इति ॥

त्रयीश्वर इति वैनतेय-विशेषणम् । चतस्रः—प्रकृति-पुरुष-महद्-अहङ्कार-रूपाः । षोडश—एकादशेन्द्रिय-महा-भूताख्याः । पञ्च तन्मात्र-रूपाः शक्तयो यास् ताभिर् वृतम् इति स्वामि-चरणानां व्याख्या च नासङ्गता । मायापि तत्र महद्-आदिभिः सह भक्तिं कुर्वाणा तिष्ठत्य् एव । त्रिपाद्-विभूतेः स्वरूप-शक्ति-मय्यास् तस्याः सर्व-शक्त्य्-आश्रयत्वात् । न यत्र माया किम् उतापरे हरेः [भा।पु। २.९.१०] इत्य् अत्र माया-महद्-आदि-विक्रमो जीव-मोहन-रूपस् तत्र नास्तीति काल-विक्रम-पद-साहचर्याद् व्याख्येयम् । अत एव वक्ष्यते मञ्जु-महिम-दर्शने—चतुर्विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः इति । स्वैर् भगैः स्वाभाविकैर् ऐश्वर्यादिभिः । इतरत्र ब्रह्मादिषु अध्रुवैर् आगन्तुकैर् नश्वरैः । स्व-स्वरूप एव धामानि वैकुण्ठे ॥१६॥

———————————————————————————————————————

॥ २.९.१७ ॥

तद्-दर्शनाह्लाद-परिप्लुतान्तरो

हृष्यत्-तनुः प्रेम-भराश्रु-लोचनः।

ननाम पादाम्बुजम् अस्य विश्व-सृग्

यत् पारमहंस्येन पथाधिगम्यते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य दर्शनेन य आह्लादस् तेन परिप्लुतं व्याप्तम् आन्तरम् अन्तःकरणं यस्य। हृष्यन्ती रोमाञ्चिता तनुर् यस्य । प्रेम-भरेणाश्रूणि लोचनेषु यस्य । विश्व-सृक् ब्रह्मा । पारमहंस्येन पथा ज्ञान-मार्गेण ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्दर्शनेति । आह्लादेन हृष्यत्-तनुः प्रेम-भरेण त्व् अश्रु-लोचन इति विवेकः । यत्-पादाम्बुजं पारमहंस्येन पथाधिगम्यते इति सच्चिदानन्दत्वं तस्य व्यनक्ति । पारमहंस्यम् अत्र भागवत-पारमहंसत्वं ज्ञेयं, भागवत-परमहंस-दयित-कथाम् इति पञ्चमोक्तेः ॥१७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परमहंसा भक्ताः । प्रियाः परमहंसानाम् इत्य् अत्र तथा व्याख्यानात् । भागवत-परमहंस-दयित-कथां [भा।पु। ५.१.५] इति पञ्चमोक्तेश् च । तेषां भावः पारमहंस्यं भक्ति-योगस् तेन पथा—भक्त्याहम् एकया ग्राह्यः [गीता ११.५५] इति भगवद्-उक्तेः ॥१७॥

———————————————————————————————————————

॥ २.९.१८ ॥

तं प्रीयमाणं समुपस्थितं कविं

प्रजा-विसर्गे निज-शासनार्हणम्।

बभाष ईषत्-स्मित-शोचिषा गिरा

प्रियः प्रियं प्रीत-मनाः करे स्पृशन् ॥10

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तं ब्रह्माणं भगवान् बभाषे । प्रजा-विसर्गे कार्ये निज-शासनार्हणं स्व-नियोगार्हम् । प्रजा-विसर्गे समुपस्थितम् इति वान्वयः । ईषत्-स्मितेन शोचिर् दीप्तिः शोभा यस्यास् तया गिरा ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ज्ञानमार्गेणाहिंसादिजन्येन प्रीयमाणं हृष्यन्तम् । तदा नत्यवसरे। ईषद्वभाषे इति योज्यम् । महान्तो हि प्रकृत्या मितभाषिणः इत्य्-उक्तेः । ईषद्धासस्यैव स्मितत्वात्तेनेषत्पदं न योज्यं पुनरुक्तेः। प्रजाविसर्गे निजशासनार्हणम् इति सम्भन्धे प्रजाविसर्गेतरनिजशासनानर्हम् इति प्रतीतिः स्यादतः समुपस्थितम् इति वेत्युक्तम् । करस्पर्शेन हि प्रीत्यतिशयो द्योत्यते ॥१८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तं प्रीयमाणम् इति । तं ब्रह्माणं भगवान् बभाषे । प्रजा-विसर्गे कार्ये निजस्य स्वांश-भूतस्य पुरुषस्य शासनेऽर्हणं योग्यम् । नन्व् असौ पुरुष एव तम् अनुगृह्णातु भगवतस् तु परावस्थत्वात् तेन प्राकृत-सृष्टि-कर्त्रा सम्बन्धोऽपि न सम्बन्ध इत्य् आशङ्क्य तस्य भक्त-वात्सल्यातिशयम् इत्य् आह, प्रियं तस्मिन् प्रेमवन्तम् । यतः सोऽपि प्रियः प्रेम-वशः । तत्रापि प्रीयमाणम् इति प्रीतमना इति च विशेषणं तदानीं प्रेमोल्लासातिशय-द्योतकम् । तस्मिन् स्व-विषयक-प्रीति-चिह्न-दर्शनेन तस्यापि तत्र प्रीत्य्-अतिशयं व्यञ्जयति ईषत् स्मित-शोचिषेति । गिरेति करे स्पृशन्न् इति च ॥१८॥ (भगवत्-सन्दर्भ ८)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रजा-सर्गे कार्ये निज-शासनम् अर्हतीति तम् । ईषत्-स्मितेन शोचिर् दीप्तिर् यस्यास् तया गिरा ॥१८॥

———————————————————————————————————————

॥ २.९.१९ ॥

श्री-भगवान् उवाच—

त्वयाहं तोषितः सम्यग्11** वेद-गर्भ सिसृक्षया । \

चिरं भृतेन तपसा दुस्तोषः कूट-योगिनाम् ॥ **

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सिसृक्षया हेतुना चिरं सम्भृतेन तपसाहं सम्यक् तोषितः । दुस्तोषस् तोषयितुम् अशक्यः ॥१९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वेदगर्भेति । भावि वेदगर्भवं स्वामन्त्रणेनाहेति भावः । कूटयोगिनां योगच्छद्मानामलीकवचनपराणां कलियुगे प्रायेण कूटयोगिन एव भविष्यन्ति ते च स्वसङ्गिभिः सह नरके गमिष्यन्ति—

कलौ पाखण्डपन्थानो मुण्डाः केशादिधारिणः ।
बहवः प्रचरिष्यन्ति वेदविप्रामरद्रुहः ।
स्वदृब्धवाचा लोकांस्ते चालयिष्यन्ति धर्मतः ।
ते च तदनुगाः सर्वे यम्यदण्डेन ताडिताः ।

कुम्भीपाकादिषु चिरं वत्स्यति नात्र संशयः ॥

इत्य्-आदिकौशिकसंहितोक्तेरलं प्रसक्तानुप्रसक्त्या ॥१९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त्वयाहम् इति । सिसृक्षयोपलक्षितेन न तु विशिष्टेन, मद्-भक्ति-प्रभावेण तद्-वासनाया गुणीभूतत्वात् । अत एव चिरं भृतेनेति । यतः कूट-योगिनाम् इति अप्रोज्झित-कैतवानाम् अहं दुस्तोष इति ॥१९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वेद-गर्भेति सम्बोधयन् वेदान् सञ्चारयति । सिसृक्षया हेतुना चिरं भृतेन तपसा । दुस्तोषस् तोषयितुम् अशक्यः । सध्र्युक् सम्यक् ॥१९॥

———————————————————————————————————————

॥ २.९.२० ॥

वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।

ब्रह्मञ् छ्रेयः-परिश्रामः पुंसो12**मद्-दर्शनावधिः ॥ **

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मा इति माम् । श्रेयसां फलानां परि-श्रामः परिश्रमः साधन-प्रयासः मम दर्शनम् अवधिर् यस्य स तथा । अतोऽधिकं तु पुनः फलं नास्तीत्य् अर्थः ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वरेशं वरान् दातुं समर्थम् । ब्रह्मन्निति वरदानपात्रतोक्ता । इत्य् अर्थ इति मद्दर्शनादधिकं किञ्चिदपि जगति नास्ति वरेणैतावतैवालं यद्भवान्मेऽक्षिगोचरः इत्य्-आदिमार्कण्डेयोक्तेः । त्वद्दर्शने सर्वे वराः प्राप्ताः स्युः सर्वे पदा हस्तिपदे निमग्नाः इति न्यायेनेति भावः ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मद्-दर्शनावधिर् इति । मद्-दर्शनस्यान्तर्-भूत-सर्व-फलत्वाद् इति भावः ॥२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मा माम् । वाञ्छितं वस्तु वृणु, याचस्वेति यावत् । श्रेयः-परिश्रामः श्रेयसां श्रवणादि-साधनानां परिश्रामः फलार्थकः प्रयासो मद्-दर्शनावधिर् एव—मद्-दर्शनाद् अन्यस्य फलस्य मद्-भक्तैर् अग्राह्यत्वाद् इति भावः ।२०॥

———————————————————————————————————————

॥ २.९.२१ ॥

मनीषितानुभावोऽयं मम लोकावलोकनम् ।

**यद् उपश्रुत्य रहसि चकर्थ परमं तपः ॥ **

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मनीषित्ं तपः ॥२१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतच् च मत्-कृपयैव त्वया प्राप्तम् इत्य् आह । मनीषितम् इच्छा तुभ्यम् इदं दातव्यम् इति या ममेच्छा तस्यानुभावोऽयम् । कोऽसौ तम् आह । मम लोकस्यावलोकनं यत् । न चेदं मयैव तपो-बलेन प्राप्तम् इति स्वातन्त्र्यं मन्यस्व तत्-प्रवृत्तेर् अपि मत्-कृतत्वाद् इत्य् आह । रहसि तप तपेति यद् वच उपश्रुत्य परमं तपश् चकर्थ कृतवान् असि ॥२१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतचच् मद्दर्शनं चा ॥२१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मनीषितेत्य् अर्धकम् ।_।_२१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मनीषिणो भावः मनीषिता पाण्डित्यं, तस्या अयम् अनुभावः व्यञ्जकः । मम लोकावलोक एव पाण्डित्यं व्यनक्ति, न तु बहु-शास्त्राध्ययनाध्यापनादिर् इत्य् अर्थः । ने केवलम् अधुनैव त्वयि मम प्रीतिर् अपि तु तपसः पूर्वम् अपीत्य् आह—रहसि तप तपेति यद् वच उपश्रुत्य, परमं तपश् चकर्थ कृतवान् असि ॥२१॥

———————————————————————————————————————

॥ २.९.२२ ॥

प्रत्यादिष्टं मया तत्र त्वयि कर्म-विमोहिते ।
तपो मे हृदयं साक्षाद् आत्माहं तपसोऽनघ ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **कर्म-विमोहिते, इदं कार्यम् इत्य् अजानति । हृदयं प्रियम् । प्रियं हृदयम् उद्रिक्तं कान्तम् इत्य् अभिधीयते । इत्य् अभिधानात् ।

तपः प्रियं सदा विष्णोस् तपसैवाप्यते हरिः ।
स्वयं च तपसैवेदं बिभर्ति ज्ञानम् एव हि ॥
तपः-शब्दाभिधं प्रोक्तं ज्ञान-रूपो हरिर् यतः ।
ज्ञान-वीर्यो ज्ञान-बलो ज्ञानानन्द उदाहृतः ॥ इति बृहत्-संहितायाम् ॥२२-२३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् अपि त्वं प्रति मयैवादिष्टम् उपदिष्टम् । कदा ? तत्र तदा सृष्ट्य्-आरम्भे त्वयि कर्मणि कार्येऽर्थे विमोहिते सति । किं च, तपो नाम ममैव शक्तिर् इत्य् आह—तपो मे हृदयम् अन्तरङ्गा शक्तिः, आत्मा स्वरूपम् । यस्य ज्ञानमयं तपः इति श्रुतेः ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विमोहिते किं कर्तव्यं कथं कर्तव्यमित्यज्ञतवति सति न केवलं त्वयेव तपसा सामर्थ्ये भविष्यति किंतु ममापि तद् एव शक्तिरित्याह किं च इति। तपसो भगवच्छक्तित्वे प्रमाणाह यस्येति । यस्य भगवतः ज्ञानमयं ज्ञानप्रचुरज्ञानस्वरूपं वा तु कायक्लेशसाध्यं तप इति श्रुतिपदार्थः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् अपि त्वां प्रति मयैवादिष्टम् । कदा ? तत्र तदा, सृष्ट्य्-आरम्भे । त्वयि कर्मणि कर्तव्येऽर्थे विमोहिते सति । किं च, तपो नाम ममैव विद्या-शक्ति-वृत्तिर् इत्य् आह—तपो मे हृदयम् इति । जीवस्य विषय-भोग-त्याग एव भक्त्य्-अनुकूलत्वात् ममेप्सितम् इत्य् अर्थः । अत एव प्रसिद्धं मम वचनम्—यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः [भा।पु। १०.८८.८] इति । तच् च तपो यदि मत्-प्राप्त्य्-अर्थकं स्यात् तदैव, नान्यथेत्य् आह—तपसोऽहम् आत्मेति । मां विना तपो निरात्मकं मृतकम् इव कामिनां स्याद् इति । यद्यपि सिसृक्षोस् तवापि तपस् तादृशम् एव, तथापि सिसृक्षायां मयैव प्रवर्तितत्वात्, तव तपसश् च मयानुमोदितत्वात् तद् इदं तपो निष्काम-कल्पम् एव, इत्य् अहं स्वं स्व-लोकं च त्वाम् अदर्शयम् ॥२२॥

———————————————————————————————————————

॥ २.९.२३ ॥

सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ग्रसामि संहरामि । बिभर्मि पालयामि । वीर्यं शक्तिः ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव स्फुटयति पदार्थविषयाशेषज्ञानाभावे सर्जनाद्यनुषपत्तेस्तपसैव ज्ञानरूपेण ॥२३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तपो मे इति । तपस् तादृश-भक्त्यात्मकम् एवात्र गृह्यते । तत् तु हृदयं तद्-आवेशित्वेन तत्-तादात्म्यापन्नत्वात् तद्-रूपम् एव । आत्मा आश्रयः तस्य ममैव शक्तित्वात् । तपसैवेति । भक्तेच्छयैव मम सर्वत्र प्रवृत्तेः । अतो यत् किञ्चिन् मम वीर्यं शक्तिः तप तप एवेति ॥२३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मम तु ह्लादिनी-शक्ति-पतेर् वैषयिक-भोग-त्यागः स्वाभाविक इत्य् अहं सदैव तपस्वीत्य् आह—सृजामीत्य् आदि । तेन तपसः सृष्ट्य्-आदि-सामर्थ्यं मम् एव किञ्चिद् भवत्व् इति ध्वनितम् ॥२३॥

———————————————————————————————————————

॥ २.९.२४ ॥

ब्रह्मोवाच—

भगवन् सर्व-भूतानाम् अध्यक्षोऽवस्थितो गुहाम् ।

वेद ह्य् अप्रतिरुद्धेन13** प्रज्ञानेन चिकीर्षितम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अध्यक्षोऽधिष्ठाता । गुहां गुहायां बुद्धाव् अवस्थितः सन् यद्य् अपि वेद तथापीत्य् उत्तरेणान्वयः ॥२४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे भगवन्निति । अप्रच्युतज्ञान त्व् अमाह तदेवाह अप्रतिरुद्रेनेति ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वेदेति वेत्थेत्य् अर्थः ॥२४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुहां गुहायां बुद्ध्याव् इत्य् अर्थः । वेद वेत्थ ॥२४॥

———————————————————————————————————————

॥ २.९.२५ ॥

तथापि नाथमानस्य14नाथ नाथय नाथितम् ।
परावरे यथा रूपेजानीयां ते त्व्15अरूपिणः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नाथमानस्य याचमानस्योपतप्यमानस्येति वा । हे नाथ, नाथय आशंसय प्रयच्छ । नाथितं याचितम् । नाथृ नाधृ यञ्चोपतापैश्वर्याशीःषु । नाथितम् एवाह—परं16 सूक्ष्मम् अवरं स्थूलं च ते रूपं यथा जानीयाम् ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नाथेति । एतेन स्वस्य शिष्यत्वं हरेर्गुरुत्वञ्चोक्तम् । द्वे वाव ब्रह्मणो रूपे इति श्रुतेः ॥२५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अरूपिणः अप्राकृत-रूपिणस् तव परं यद् अप्राकृतं रूपम् अवरं च यत् प्राकृतं ते रूपे ॥२५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नाथमानस्य याचमानस्योपतप्यमानस्येति वा । हे नाथ, नाथय आशंसय । नाथितं याचितम् । नाथृ नाधृ यञ्चोपतापैश्वर्याशीःषु । नाथितम् एवाह—अरूपिणो रूपं प्राकृतं नित्य-योगित्वेन न यस्यास्ति तस्य, नित्य-योगे इणिः । पदं यद् अप्राकृतं रूपम् अवरं च यत् प्राकृतं ते रूपे ॥२५॥

———————————————————————————————————————

॥ २.९.२६-२७ ॥

यथात्म-माया-योगेन नाना-शक्त्य्-उपबृंहितम् ।
विलुम्पन् विसृजन् गृह्णन् बिभ्रद् आत्मानम् आत्मना ॥**

क्रीडस्य् अमोघ-सङ्कल्प ऊर्णनाभिर् यथोर्णुते ।

तथा तद्-विषयां17धेहि मनीषां मयि माधव ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथा च त्वं क्रीडसि, तथा तद्-विषयां मनीषां मयि धेह्इ इत्य् उत्तरेणान्वयः। नाना-शक्त्य्-उपबृंहितं विश्वं विलुम्पन् संहरन्, विविधं सृजन्, बिभ्रत् पालयन्, आत्मना स्वयम् एव आत्मानं ब्रह्मादि-रूपं गृह्णन् क्रीडसि । ऊर्णुते तन्तुभिर् आत्मानम् आच्छादयति ॥२६-२७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यथेति युग्मकम् । आत्मनो मायायोगो योगमाया च तयोर् द्वन्द्वैक्यं तेन मायया बहिरङ्गशक्त्या नानाशक्त्युपबृंहितं द्रव्यज्ञानक्रियाशक्तिसमेतं विश्वं विलुम्पन्संहरन् विसृजन् विविधं सृजन् बिभ्रत्पालयन् आत्मना स्वयमेवात्मानं गृह्णन्स्वस्वरूपं प्रकटयन् क्रीडसि । ऊर्णुते तन्तुसन्तानं करोति । योगमायापक्षे मायिकप्रपञ्चान्तर्वर्तिलोके तत्रैव नानाशक्त्युपबृंहितं ह्लादिन्यादिशक्तिगणपरिपूरितमात्मानं स्वं स्वीयं च वास्तवं वस्तु अनन्यसिद्धत्वादात्मनैव गृह्णन्योगमाययान्तरङ्गशक्त्या तञ्च किञ्चिद्विलुम्पन्कम् अपि भक्तं प्रति आवृण्वन किं च, द्विसृजन् विविधं प्रकाशयन् किञ्चिद्विभ्रत्कम् अपि कालं भूयान् क्रीडसि । ऊर्णनाभिदृष्टान्तस्तु स्थूलत उभयत्राप्यात्मैककारणत्वमात्रांशेन ज्ञेयः। मयि धेहि अहं मायां योगमायां तत्तत्प्रकाशितं वस्तु च जानीयामित्यर्थः। तत्र पररूपजिज्ञासायामुत्तरं ज्ञानमित्य्-आदिभिः अवररूपजिज्ञासायामुत्तरं तत्रैव ऋतेर्थम् इत्य्-आदिना मायामायिकयोरेकात्मकत्वात् । यथात्ममायायोगेत्यस्य समाधानं यद्रूपगुण-कर्मक इत्य् अनेन भविष्यति । हे माधवेति मायायाः कर्तृत्वेन ज्ञानदाने समर्थम् इति भावः ॥२६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथेति युग्मकम् । ऊर्णुते तन्तु-सन्तानडिकं करोतीत्य् अर्थः । तद् यथा यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य, वक्त्रतस् तथा विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वर । इति तत्र पर-रूप-जिज्ञासायाम् उत्तर-ज्ञानम् इत्य् आदिभिः अवर-रूप-जिज्ञासायाम् उत्तरं तत्रैव ऋतेर्ऽथं [भा।पु। २.९.३३] इत्य्-आदिना माया-मायिकयोर् एकात्मकत्वाद् यथात्म-मायेत्य् अस्य समाधनं यद्-रूप-गुण-कर्मक [भा।पु। २.९.३१] इत्य् अनेन भविष्यति ॥२६-२७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आत्मनो माया च योगा योगमाया च तयोर् द्वन्द्वैक्यं तेन । तत्र मायया बहिरङ्ग-शक्त्या नाना-शक्त्य्-उपबृंहितं द्रव्य-ज्ञान-क्रिया-शक्ति-समेतं विश्वं विलुम्पन् विसृजन् विविधं सृजन् बिभ्रत् पालयन् आत्मना स्वयम् एव आत्मानं गृह्णन् स्व-स्वरूपं प्रकटयन् क्रीडसि, ऊर्णुते तन्तु-सन्तानं करोति । योग-माया-पक्षे मायिक-प्रपञ्चान्तर्वर्ति-लोके तत्रैव नाना-शक्त्य्-उपबृंहितं ह्लादिन्य्-आदि-शक्ति-गण-परिपूरितम् आत्मानं स्वं स्वीयं च वास्तवं वस्तु अनन्य-सिद्धत्वाद् आत्मनैव गृह्णन्, योगमायया अन्तरङ्ग-शक्त्या, तं च किञ्चिद् विलुम्पन् कम् अपि भक्तं प्रति आवृण्वन् किञ्चिद् विसृजन् विविधं प्रकाशयन् किञ्चिद् बिभ्रत् कम् अपि कालं पुष्यन् क्रीडसि । ऊर्ण-नाभि दृष्टान्तस् तु स्थूलत उभयत्राप्य् आत्मैक-कारणत्व-मात्रांशेन ज्ञेयः । मयि धेहि अहं मायां योगमायां च तत्-तत्-प्रकाशितं वस्तु च जानीयाम् इत्य् अर्थः ॥२६-२७॥

———————————————————————————————————————

॥ २.९.२८ ॥

भगवच्-छिक्षितम् अहं करवाणि ह्य् अतन्द्रितः ।
नेहमानः प्रजा-सर्गं बध्येयं यद्-अनुग्रहात् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् किं सृष्टेर् उद्विग्न एव तत्त्व-ज्ञानं प्रार्थयसे ? नेत्य् आह—भगवता त्वया शिक्षितम् अनुशिष्टम् अतन्द्रितोऽनलसः सन् करिष्यामि । तर्हि किम् अनेन तत्त्व-ज्ञानेन ? तत्राह—यस्माद् एवम्-भूतात् तवानुग्रहात् प्रजा-सर्गम् ईहमानः कुर्वन्न् अप्य् अहंकारादिभिर् बद्धो न भवेयम् इति ॥२८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भगवच्छिक्षितमित्यत्रोपदेश एतन्मतं समातिष्ठेत्यादिना भविष्यति ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगवच्-छिक्षितम् इत्य् अत्रोपदेश एतन्-मतं समातिष्ठ [भा।पु। २.९.३६] इत्य्-आदिना भविष्यति ॥२८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, भगवता शिक्षितं करवाणीति काम् अपि स्व-भजन-शिक्षां गुरुः शिष्यायेव मह्यं देहीति भावः । यतस् त्वद्-अनुग्रहात् प्रजा-सृष्टिम् ईहमानः कुर्वन्न् अपि अहङ्कारादिभिर् न वध्येयं बद्धो न भवेयम् ॥२८॥

———————————————————————————————————————

॥ २.९.२९ ॥

**यावत् सखा सख्युर् इवेश ते कृतः **

प्रजा-विसर्गे विभजामि भो जनम् ।

**अविक्लवस् ते परिकर्मणि स्थितो **

मा मे समुन्नद्ध-मदोऽज मानिनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अवश्यं च मदो भविता, स तु कंचित् कालं मा भूद् इति प्रार्थयते—यावद् इति । भो ईश, ते त्वया लौकिकस्य सख्युः सखेवाहं कृतः कर-स्पर्शनादिना ममत्वेन संमानितः सन् प्रजा-सर्ग-रूपे तव परिकर्मणि सेवायां स्थितो ‘विक्लवो ‘व्याकुल एव यावज् जनं विभजाम्य् उत्तम-मध्यमादि-भेदेन सृजामि, तावत् त्वत्-संमानाद् अहम् अप्य् अजः स्वतन्त्र इति मानिनो मे समुन्नद्ध उत्कटो मदो मा भूत् । यद् वा, मदो मा समुन्नद्ध18 मा समुन्नह्यताम् । उद्रिक्तो न भवेद् इत्य् अर्थः ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मनोवाञ्छितं प्रार्थयते—यावद् इति । हे ईश सर्व कर्तुं समर्थेति भावः। सखेव कृत इति सख्यभक्तिम् एव प्राप्नुयाम् इति । किं च, स्रष्टृत्वावस्थानन्तरं यावदधिकारमवस्थितिराधिकारिकाणाम् इति न्यायेन मुक्तिर् एव भविष्यतीति भावः । सम्भवत्वाद् आह यद् वेति । इत्य् अर्थ इति । आत्मनेपदमार्षम् । नह धातोलुर्ङि प्रथमपुरुषैकवचनं न माङ्योगे इत्यडभाव इति भावः ॥२९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यावद् इति स्रष्टृत्वावस्थानानन्तरं तु यावद्-अधिकारिकाणाम् इति न्यायेन मुक्तिर् एव मम भविष्यतीति भावः ॥२९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मनो-वाञ्छितम् अभिव्यञ्जयन् प्रार्थयते—यावद् इति । हे ईश ! ते त्वया सख्युः सखेव दासाभासोऽप्य् अहं कृतः कर-स्पर्शनादिना व्यवहृतः । अतः सख्य-भक्तिम् एवाहं प्राप्नुयाम् इति । किं च, यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् इति न्यायेन स्वायुः-पर्यन्तं यावत्, प्रजानां विसर्गे विविध-सृष्टौ । भोः परमेश्वर ! जनं विभजामि उत्तमाधम-मध्यम-भेदेन विभक्तं करोमि । कीदृशः ? ते तव, परिकर्मणि परिचर्यायां, अविक्लवोऽव्याकुलः, सावधानतया स्थितः सन्न् इत्य् अर्थः । तावत् समुन्नद्धः उत्कटो मदो मे मम मा भूत् ॥२९॥

———————————————————————————————————————

॥ २.९.३० ॥

श्री-भगवान् उवाच—

ज्ञानं परम-गुह्यं मे यद् विज्ञान-समन्वितम् ।
स-रहस्यं तद्-अङ्गं च गृहाण गदितं मया ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

येन येन यथा ज्ञात्वा नियतं मुक्तिर् आप्यते ।
तद् विज्ञानम् इति प्रोक्तं ज्ञानं साधारणं स्मृतम् इति वामने ॥३०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) :ज्ञानं शास्त्रोत्थम् । विज्ञानम् अनुभवः । रहस्यं भक्तिः, सुगोप्यम् अपि वक्ष्यामि [भा।पु। ११.११.४९] इत्य्-आदि निर्देशात् । तस्य अङ्गं साधनम् ॥३०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ तत्र परमभागवताय ब्रह्मणे श्री-भागवताख्यं निजं शास्त्रमुपदेष्टुं तत्प्रतिपाद्यतमं वस्तुचतुष्ट्यं प्रतिजानीते ज्ञानमित्य्-आदिषट्कं मम भगवतो ज्ञानं शब्दद्वारा याथार्थ्यनिर्द्धारणं मया गदितं सद्गृहाणेत्यन्यो न जानातीति भावः । यतः परमगुह्यं ब्रह्मज्ञानादपि रहस्यतमं मुक्तानाम् अपि सिद्धानाम् इत्याद्युक्तेः। तच्च विज्ञानेन तदनुभवेनापि युक्तं गृहाण न चैतावदेव किन्तु सुरहस्यं तत्रापि रहस्यं यत्किमप्यस्ति तेनापि सहितं तच्च प्रेमभक्तिरूपमित्यग्रे व्यञ्जयिष्यते तथा तदङ्गं च गृहाण तच्च सति त्वपराधाख्यविध्ने नष्ट झटिति विज्ञानरहस्ये प्रकटयेत् । तस्मात्तस्य ज्ञानस्य सहायं च गृहाणेत्यर्थः। तच्च श्रवणादिभक्तिरूपमित्यग्रे व्यञ्जयिष्यते । यद् वा, सरहस्यम् इति तदङ्गस्यैव विशेषणं ज्ञेयं सुहृदाविव मिथः संवर्द्धकयोरेकत्रावस्थानाद् इति सन्दर्भः । विश्वनाथः। तत्र परावरे यथारूपे जानीयामित्य् अनेन तवाप्राकृतं रूपं प्राकृतं च रूपं कीदृशम् इति यथात्ममायायोगेनेत्यनेन तव माया योगमाया च कीदृशीति यथा क्रीडसीति मायाधिकृतेषु योगमायाधिकृतेषु च लोकेषु तव केन प्रकारेण क्रीडेति भगवच्छिक्षितमहं करवाणि ह्यतन्द्रित इत्य् अनेन मदभीष्टसिद्ध्यर्थं तच्छिक्षितं किं मम कर्तव्यम् इति ब्रह्मणा क्रमेण दृष्टस्य वस्तुचतुष्टयस्य चतुःश्लोक्या क्रमेणैवोत्तरं दातुं भगवान्प्रतिजानीते—ज्ञानम् इति । एतद् एव भगवद्दत्तोत्तरचतुष्टयात्मकम् एव श्री-भागवतं शास्त्रं भगवत्प्रोक्तत्वेन प्रसिद्धमित्याहुः । न केवलं मद्रूपस्य ज्ञानम् एव तुभ्यं ददाम्यपि तु विज्ञानेनानुभवेन समन्वितं यत्तदपि । किं च, परमगुह्यं निर्विशेषब्रह्मज्ञानादपि श्रेष्ठत्वाद् इति भावः । किं च, रहस्यं प्रेमभक्तिञ्च स प्रसिद्धस्त्वं गृहाण सुगोप्यम् अपि वक्ष्यामीत्यादिनिर्देशात्तस्य रहस्यत्वं ज्ञेयं तस्य रहस्यस्याङ्गं साधनभक्ति-योगस्तं चेति त्वयापृष्टमप्येतत्त्रयं कृपयैव वक्ष्यामि किं वा भगवच्छिक्षितमहं करवाणीत्यनेनैवैतत्त्रिकम् अपि त्वया पृष्टम् एवेति चतुर्थश्लोक एव रहस्यत्वाद्वहिरङ्गलोकागम्यतयैव वक्ष्यामि अत्र रहस्यतदङ्गयोरेतयोर् नामाग्रहणं प्रथमोक्ताद्गुह्यज्ञानाद् अप्य् अतिगोप्यत्वमुत्कृष्टत्वञ्च बोधयतीति ज्ञेयं मया निगदितं गृहाणेत्यवदधानम् अपि ब्रह्माणं विशेषतोऽवधापयति ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तत्र परम-भागवताय ब्रह्मणे श्रीमद्-भागवताख्यं निजं शास्त्रम् उपदेष्टुं तत्-प्रतिपाद्यतमं वस्तु-चतुष्टयं प्रतिजानीते—ज्ञानम् इत्य्-आदि षट्कम् । मे मम भगवतो ज्ञानं शब्द-द्वारा याथार्थ्य-निर्धारणं मया गदितं सत् गृहाण इत्य् अन्यो न जानातीति भावः । यतः परम-गुह्यं ह्य् अज्ञानाद् अपि रहस्यतमं मुक्तानाम् अपि सिद्धानां [भा।पु। ६.१४.५] इत्य्-आदेः । तच् च विज्ञानेन तद्-अनुभावेनापि युक्तं गृहाण । न चैतावद् एव ।

किं च, स-रहस्यं तत्रापि रहस्यं यत् किम् अप्य् अस्ति, तेनापि सहितम् । तच् च प्रेम-भक्ति-रूपम् इत्य् अग्रे व्यञ्जयिष्यते । तथा तद्-अङ्गं च गृहाण। तच् च सति त्व् अपराधाख्य-विघ्ने न झटिति विज्ञान-रहस्ये प्रकटयेत् । तस्मात् तस्य ज्ञानस्य सहायं च गृहाणेत्य् अर्थः । तच् च श्रवणादि-भक्ति-रूपम् इत्य् अग्रे व्यञ्जयिष्यते ।

यद् वा, स-रहस्यम् इति तद्-अङ्गस्यैव विशेषणं ज्ञेयम् । सुहृदोर् इव मिथः संवर्धकयोर् एकत्रावस्थानात् ॥३०॥ [भगवत्-सन्दर्भः १०२]

**श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-भाष्यं : **श्री-भगवान् उवाचेति । भगवन्तो ज्ञान-शक्ति-वैराग्यैश्वर्य-वीर्य-तेजोवन्तः षड्-गुण-युक्ताः । अत एव—

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ॥ [वि।पु। ६.५.७४]

भगवन्तस् त्रिपाद्-विभूति-युक्ताः श्री-वैकुण्ठ-नाथादयः पूर्णाः । श्री-कृष्णस् तु स्वयं भगवान् चातुष्पादिक-विभूतिमान् श्री-गोपाल-रूपी पूर्णतमः । तथा हि श्री-गोपाल-वाक्यं ब्रह्माण्ड-पुराणे—

सन्ति भूरीणि रूपाणि मम पूर्णानि षड्-गुणैः ।

भवेयुस् तानि तुल्यानि न मया गोप-रूपिणा ॥ इति ।

अत एव सर्वातिशायानन्त-गुणवान् गोलोक-धामा एव वक्ता ।

ज्ञानम् इत्य्-आदि—मोक्षे धीः ज्ञानम् । भक्तौ धीः परम-ज्ञानम् । प्रीतौ धीः परम-गुह्य-ज्ञानम् । विज्ञानं शिल्प-शास्त्रयोः शिल्पम् अत्र श्री-विग्रह-त्रिभङ्गि-सुगठन-कर-चरण-रेखा-विन्यासादि । चरण-चिह्न-वेष-विन्यासादि शास्त्रम् अत्र श्री-भागवत-गीता-पद्म-पुराणादि-सात्त्विक-कल्पादि । रहस्यम् अत्र रास-निकुञ्ज-मोहन-मन्दिर-श्री-राधा-सम्भोग-परम-सुखं प्रधानम् अङ्गि । अङ्गम् अत्र विभावानुभाव-सात्त्विक-सञ्चारि-सुहृद्-रूप-सख्यादि-वैरि-रूप-वत्सलादि-विप्रलम्भ-पूर्व-राग-मान-प्रवासादि-दिव्योन्माद-चित्र-जल्पादि-कोटिश् च । च-काराद् अनन्तम् । मया स्वयं भगवता रसिक-शिरोमणिना निगूढ-निज-लीला-विशारदेन गदितं व्यक्तम् उक्तं भरतादि-मुनि-मानसागोचरत्वाद् अव्यक्तम् । अत एव गृहाण परमाग्रह-पूर्वकं दुर्लभं वस्तु महा-निधिवद् धारय इति दिक् ॥३०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत्र परावरे यथा रूपे जानीयां [भा।पु। २.९.२५] इत्य् अनेन तव अप्राकृतं रूपं प्राकृतं च रूपं कीदृशम् ? इति । यथात्म-माया-योगेन [भा।पु। २.९.२६] इत्य् अनेन तव माया योगमाया च कीदृशी ? इति । यथा क्रीडसि [भा।पु। २.९.२७] इति मायाधिकृतेषु योग-मायाधिकृतेषु तव केन प्रकारेण क्रीडा ? इति । भगवच्-छिक्षितम् अहं करवानि ह्य् अतन्द्रितः [भा।पु। २.९.२८] इत्य् अनेन मद्-अभीष्ट-सिद्ध्य्-अर्थं त्वच्-छिक्षितं किं मम कर्तव्यम् ? इति । ब्रह्मणा क्रमेण पृष्टस्य वस्तु-चतुष्टयस्य चतुःश्लोक्या क्रमेणैवोत्तरं दातुं भगवान् प्रतिजानीते—ज्ञानम् इति ।

एतद् एव भगवद्-दत्तोत्तर-चतुष्टयात्मकम् एव श्री-भागवतं शास्त्रं श्री-भगवत्-प्रोक्तत्वेन प्रसिद्धम् इत्य् आहुः । न केवलं मद्-रूपस्य ज्ञानम् एव तुभ्यं ददामि, अपि तु विज्ञानेन अनुभवेन समन्वितं यत्, तद् अपि ।

किं च, परम-गुह्यं, निर्विशेष-ब्रह्म-ज्ञानाद् अपि श्रेष्ठत्वाद् इति भावः ।

किं च, रहस्यं प्रेम-भक्तिं च । स प्रसिद्धस् त्वं गृहाण । सुगोप्यम् अपि वक्ष्यामि [भा।पु। ११.११.४९] इत्य्-आदि-निर्देशात् तस्य रहस्यत्वं ज्ञेयम् । तस्य रहस्यस्य अङ्गं साधन-भक्ति-योगस् तं चेति त्वया अपृष्टम् अपि एतत् त्रयं कृपयैव वक्ष्यामि ।

किं वा, भगवच्-छिक्षितम् अहं करवाणि [भा।पु। २.९.२८] इत्य् अनेनैवैतत् त्रिकम् अपि त्वया पृष्टम् एवेति चतुर्थ-श्लोक एव रहस्यत्वाद् बहिरङ्ग-लोकागम्यतयैव वक्ष्यामि । तत्र रहस्य-तद्-अङ्गयोर् एतयोर् नाम-ग्रहणं प्रथमोक्तं परम-गुह्य-तज्-ज्ञानाद् अप्य् अतिगोप्यत्वम् उत्कृष्टत्वं च बोधयतीति ज्ञेयम् । मया गृहाण इत्य् अवदधानम् अपि ब्रह्माणं विशेषतोऽवधापयति ॥३०॥

———————————————————————————————————————

॥ २.९.३१ ॥

यावान् अहं यथा-भावो यद्-रूप-गुण-कर्मकः ।
तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु त्वद्-दर्शनेऽप्य् असमर्थोऽहं कथं ज्ञानाधिकारी स्याम् ? तत्राह—यावान् इति । यावान् स्वरूपतः । यथाभावो यादृक्-सत्तावान् । यानि19 रूपाणि गुणाः कर्माणि च यस्य ॥३१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्विति। तत्र साध्ययोर्विज्ञानरहस्ययोराविर्भावार्थमाशिषं ददाति—यावानिति । यावान्स्वरूपतो यत्परिमाणकोऽहं यथा भावः सत्ता यस्येति यल्लक्षणोहमित्य् अर्थः । यानि स्वरूपान्तरङ्गाणि रूपाणि श्यामचतुर्भुजत्वादीनि । गुणा भक्तवात्सल्याद्याः । कर्माणि तत्तल्लीला यस्य स यद्रूपगुण-कर्मकोऽहं तथैव तेन सर्वेण प्रकारेणैव तत्त्व-विज्ञानं याथार्थ्यानुभवो मद्-अनुग्रहात्तवास्तु । एतेन चतुःश्लोकार्थस्य निर्विशेषपरत्वं स्वयम् एव परास्तम् । वक्ष्यते च चतुःश्लोकीमेवोद्दिशता भगवता स्वयमुद्धवं प्रति पुरा मया इत्यादौ ज्ञानं परं मन्महिमावभासम् इति तत्त्व-विज्ञानपदेन रूपादीनाम् अपि स्वरूपभूतत्वं व्यक्तम् । अत्र विज्ञानाशीः स्पष्टा । रहस्याशीश् च परमानन्दात्मकतत्तद्याथार्थ्यानुभवेनावश्यप्रेमोदयाद् इति सन्दर्भः । **विश्वनाथः **किं च, ज्ञानं शब्दद्वारा याथार्थ्यनिर्द्धारणं परोक्षं तच्च किञ्चिच्छुद्धचित्तानामास्तिकानां सम्भवेदपि विज्ञानं त्वपरोक्षानुभवो मत्स्वरूपस्य याथार्थेन साक्षात्कारः। स च रहस्यतदङ्गशब्दाभ्यां प्रेमभक्तिसाधनभक्तिभ्यां विना नैव भवतीति बोधयंस्तदर्थमाशिषं ददाति यावान्यत्प्रमाणाकारः यादृशस्थौल्यकार्यदैर्ध्यतुङ्गतावृत्तताद्यौचित्यसंनिवेशविशिष्टावयव इत्यर्थः। यथाभावो यादृशाभिप्रायः यानि रूपाणि श्यामत्वद्विभुजत्वचतुर्भुजत्वकृष्णरामत्वनृसिंहत्वादीनि । गुणा भक्तवात्सल्याद्याः। कर्माणि लक्ष्मीपरिग्रहगोवर्द्धनोद्धरणादीनि यस्य सः तथैवेति । येन येन प्रकारेण मम परिमाणाभिप्रायरूपगुण-कर्माण्याविर्भवन्ति तेनैव प्रकारेण तद्विज्ञानं तेषां याथार्थ्यानुभवोस्तु तत्राशीर्वादेनैवानुग्रहे व्यञ्जितेऽपि पुनर्मद्-अनुग्रहपदोपादानं परमान्तरङ्गमत्कृपाशक्तिवृत्तिविशेषसाधनभक्तिप्रेमभक्त्योर्वृद्धितारतम्येनैव तद्रूपगुणादिमाधुर्यानुभवतारतम्ये समुत्पत्स्यमानेप्येतस्मादपि मत्स्वरूपादधिकतममाधुर्यं परमदुर्लभं कृष्णस्वरूपं मां ब्रजभूमौ त्वं साक्षादनुभविष्यसीति सूचयति एतेन चतुःश्लोक्या निर्विशेषस्वरूपमात्रपरत्वेन व्याख्यानं परास्तम् ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र साध्ययोर् विज्ञान-रहस्ययोर् आविर्भावार्थम् आशिषं ददाति—यावान् अहम् इति । यावान् स्वरूपतो यत्-परिमाणकोऽहम्यथा भावः सत्ता यस्येति, यल्-लक्षणोऽहम् इत्य् अर्थः । यानि स्वरूपान्तरङ्गानि रूपाणि श्यामत्व-चतुर्-भुजत्वादीनि, गुणा भक्त-वात्सल्याद्याः, कर्माणि तत्-तल्-लीला यस्य, स यद्-रूप-गुण-कर्मकोऽहम्तथैव तेन तेन सर्व-प्रकारेणैव तत्त्व-विज्ञानं याथार्थ्यानुभवो मद्-अनुग्रहात् ते तवास्तु भवताद् इति। एतेन चतुःश्लोक्य्-अर्थस्य निर्विशेषत्वं स्वयम् एव परास्तम् । वक्ष्यते च चतुःश्लोकीम् एवोद्दिशता श्री-भगवता स्वयम् उद्धवं प्रति—पुरा मया इत्य्-आदौ, ज्ञानं परं मन्-महिमावभासं [भा।पु। ३.४.१३] इति । तत्र विज्ञान-पदेन रूपादीनाम् अपि स्वरूप-भूतत्वं व्यक्तम् । अत्र्र विज्ञानाशीः स्पष्टा । रहस्याशीश् च परमानन्दात्मक-तत्-तद्-याथार्थ्यानुभवेनावश्यं प्रेमोदयात् ॥३१॥ (भगवत्-सन्दर्भः १०३)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च ज्ञानं शब्द-द्वारा याथार्थ्य-निर्धारणं परोक्षं, तच् च किंचित् शुद्ध-चित्तानाम् आस्तिकानां सम्भवेद् अपि । विज्ञान त्व् अ-परोक्षानुभवः—मत्-स्वरूपस्य याथार्थ्येन साक्षात्-कारः, स च रहस्य-तद्-अङ्ग-शब्दाभ्यां मत्-प्रेम-भक्ति-साधन-भक्तिभ्यं विना नैव भवतीति बोधयंस् तद्-अर्थम् आशिषं ददाति । यावान् यत्-प्रमाणाकारः—यादृश-स्थौल्य-कार्श्य-दैर्घ्य-तुङ्गता-वृत्तताद्य्-औचित्य-संनिवेश-विशिष्टावयव इत्य् अर्थः । यथा भावो यादृशाभिप्रायः । यानि रूपाणि श्यामत्व-चतुर्भुजत्व-कृष्णत्व-रामत्व-नृसिंहत्वादीनि, गुणा भक्त-वात्सल्याद्याः, कर्माणि लक्ष्मी-परिग्रह-गोवर्धनोद्धारणादीनि यस्य सः । तथैवेति येन येन प्रकारेण मम परिमाणाभिप्राय-रूप-गुण-कर्माण्य् आविर्भवन्ति तेनैव प्रकारेण तत्त्व-विज्ञानं तेषां याथार्थ्यानुभवोऽस्तु । तत्राशीर्वादेनैवानुग्रहे व्यञ्जितेऽपि पुनर् मद्-अनुग्रह-पदोपदानं परमान्तरङ्ग-मत्-कृपा-शक्ति-वृत्ति-विशेष-साधन-भक्ति-प्रेम-भक्त्योर् वृद्धि-तारतम्येनैव तद्-रूप-गुणादि-माधुर्यानुभव-तारतम्ये समुत्पत्स्यमानेऽप्य् एतस्माद् अपि यत् स्वरूपाद् अधिकतम-माधुर्यं परम-दुर्लभं कृष्ण-स्वरूपं मां व्रज-भूमौ त्वं साक्षाद् अनुभविष्यसीति सूचयति । एतेन चतुः-श्लोक्या निर्विशेष-स्वरूप-मात्र-परत्वेनान्य-व्याख्यानं स्वयम् एव परास्तम् ॥३१॥

———————————————————————————————————————

श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-भाष्यं : यावान् अहं गोलोक-धामा गोप-वेशो गोपी-पतिः ।

कं प्रति कथयितुम् ईशे, सम्प्रति को वा प्रतीतिम् आयातु ।
गोपति-तनया-कुञ्जे गोप-वधूटी-विटं ब्रह्म ॥ [पद्या। ९८]

विटश् चोपपतिः स्मृतः । अतः पतिर् एक-देशोपचारः ।

यथा-भावो यथोज्ज्वलादि-भावाश्रयः । यद्-रूप-गुण-कर्मकः श्यामसुन्दरः कोटि-कन्दर्प-लावण्य-धामा असाधारण-गुण-चतुष्टय-मुरली मोहनत्वादिवान् । कर्म-लीला-विनोदी । तथैवेति निगम-निगूढत्वात् । नगम-कर्त्रेति ब्रह्मणे अत एवाशीर्वादः । तद् अगोचरत्वाद् अशक्यत्वाच् च । गोलोक-नाम्नि निज-धाम्नि [ब्र।सं। ५.४६], गोलोक एव निवसति [ब्र।सं। ५.३७] इत्य् आदि, कृष्णं गोपाल-रूपिणं [गौतमीय-तन्त्रे], भवेयुस् तानि तुल्यानि न मया गोप-रूपिणा [ब्रह्माण्ड-पुराणे], गोप-वेशो मे पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२८], गोपी-जन-वल्लभः स वो हि स्वामी भवति [गो।ता।उ। २], कृष्ण-वध्वः [भा।पु। १०.३३.७], वल्लव्यो मेऽनुशान्तये [] इत्य् आदि ।

अविष्टातृत्वम्, नृसिंहो नन्द-नन्दनः [भ।र।सि। २.५.११९], शृङ्गार-रस-सर्वस्वं [कृ।क। १.९७], जन्माद्य् अस्य यतः [भा।पु। १.१.१], शृङ्गारः सखि मूर्तिमान् [गीगोपाल-तापिन्। १.११], यं श्यामसुन्दरम् अचिन्त्य-गुण-स्वरूपं [ब्र।सं। ५.३८], श्यामम् एव परं रूपं [पद्या। ८३] इत्य् आदि, कन्दर्प-कोटि-लावण्यः [स्तव-माला], कन्दर्प-कोटि-रम्याय [स्तव-माला] इत्य् आदि । वेणुं क्वणन्तं [ब्र।सं। ५.३०], वेणु-वाद्य-महोल्लास [गौतमीय-स्तव-राज १३], गोविन्दं कल-वेणु-वादन-परं [पद्या। ४६] इत्य् आदि ।

गोवर्धन-गिरौ रम्ये स्थितं रास-रसोत्सुकं [गौतमीय-स्तव-राज १३], नहि जाने स्मृते रासे मनो मे कीदृशं भवेत् [बृहद्-वामन, भ।र।सि। २.१.२०९], अभूद् आकुलितो रासः प्रमदा-शत-कोटिभिः [], रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः [भा।पु। १०.३३.३], जयति श्री-पतिर् गोपी-रास-मण्डल-मण्डनः [भावार्थ-दीपिका १०.२९.१] इत्य् आदि ॥३१॥

———————————————————————————————————————

॥ २.९.३२ ॥

अहम् एवासम् एवाग्रे नान्यद् यत् सद्-असत्-परम् ।
पश्चाद् अहं यद् एतच् च योऽवशिष्येत सोऽस्म्य् अहम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **परं स्वतन्त्रं न ।

विष्णोर् अधीनं प्राक्-सृष्टेस् तथैव च लयाद् अनु ।
अस्य सत्त्व-प्रवृत्त्य्-आदि विशेषेणाधिगम्यते ॥
स्वातन्त्र्यं स्थिति-काले तु कथंचिद् बुद्धि-मोहतः ।
प्रतीयमानम् अपि तु तस्मान् नैवेति गम्यते ॥
जनिष्येऽहं लयिष्येऽहम् इति न ह्य् अभिसन्धितः ।
अतो जीवनम् अप्य् एतद् भवेद् ईशाभिसंहितम् ॥
अतः स्वरूप-भेदेऽपि ह्य् आत्मैवेदम् इति श्रुतिः ।
वदत्य् अस्येश-तन्त्रत्वाद् यद् अशक्तस् त्व् असन्न् इति ॥
विद्यन्ते हि तदा जीवाः काल-कर्मादिकं तथा ।
क्वान्यथा हि पुनः सृष्टिः पूर्व-कर्मानुसारिणी ॥ इति ब्रह्म-तर्के ।

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव सम्यग् उपदिशन् यावान् इत्य् अस्यार्थं स्फुटयति—अहम् इति । अहम् एवाग्रे सृष्टेः पूर्वम् आसं स्थितः, नान्यत् किञ्चित्, यत्सत् स्थूलम् असत् सूक्ष्मं परं तयोः कारणं प्रधानम्, तस्याप्य् अन्तर्मुखतया तदा मय्य् एव लीनत्वात् । अहं च तदा आसम् एव केवलं न चान्यद् अकरवम् । पश्चात् सृष्टेर् अनन्तरम् अप्य् अहम्20 एवास्मि । यद्21एतद् विश्वं तद् अप्य् अहम् अस्मि । प्रलये योऽवशिष्येत सोऽप्य् अहम् एव । अनेन चानाद्य्-अनन्तत्वाद् अद्वितीयत्वाच् च परिपूर्णोऽहम् इत्य् उक्तं भवति ॥३२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वामिव्याख्यानं स्फुटार्थम् एव एवं चतुःश्लोक्या देयत्वेन ज्ञानादिकं प्रतिश्रुत्य तत्प्राप्तावाशिषैव योग्यतामापाद्य च प्रथम ज्ञानमुपदिशन्नेव परावरे यथारूपे जानीयाम् इति प्रश्नस्योत्तरमाह—अहमेवाग्रे सृष्टेः पूर्वमासम् इति तर्जन्या स्ववक्षः स्पृशति । एवकारेणान्ययोगव्यवच्छेदकेन मद्द्विजातीयं प्राकृतं वस्तु किम् अपि नासीद् इति लभ्यते । अयमर्थः संप्रति भवन्तं प्रति प्रादुर्भवन्नसौ परममनोहराकारो रूपगुणमाधुरीमहोदधिरहमेवाग्रे महाप्रलयकालेप्यासम् एव वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः इति आत्मैवेदमग्र आसीत्पुरुषविधः इति, पुरुषो ह वै नारायण इति, एको ह वै नारायण आसीदिति, पुरुषो ह वै नारायणोऽकामयत । अथ नारायणादजो अजायत यतः सर्वाणि भूतानि नारायणः परं ब्रह्म तत्त्वं नारायणः परम ऋतं सत्यं परं ब्रह्म पुरुषः। कृष्णपिङ्गलमिति, एको नारायण आसीन्न ब्रह्मा नेशानः इत्य्-आदिश्रुतिभ्यः भगवानेक आसेदम् इत्य्-आदिस्मृतेश् च । अत्र वैकुण्ठतत्पार्षदादीनाम् अपि तदुपाङ्गत्वादहंपदेनैव ग्रहणं राजासौ प्रयातीतिवत् । अतस्तेषाञ्च तद्वदेव स्थितिर्बोध्यते तथा च राजप्रश्नः—

स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः ।

मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः ॥

इति श्रीविदुरप्रश्नश्च—

तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रमः ।
तत्रेमं क उपासीरन्क उस्विदनुशेरते ॥

इति स्वामिचरणानां व्याख्या च तत्र प्रलये इमं परमेश्वरं शयानं राजानमिव चामरग्राहिणः के उपासीरन्के वानुशेरते शयानमनु स्वपन्तीत्येषा। काशीखण्डेप्युक्तं—

न च्यवन्तेऽपि यद्भक्ता महत्यां प्रलयापदि ।

अतोच्युतोखिले लोके स एकः सर्वगोव्ययः ॥ इति ।

आसमेवेत्ययोगव्यवच्छेदः। अस्तेः सत्तार्थकत्वात् तदानीं मद्विद्यमानताया अभावः सर्वथा नाभूदित्येवार्थप्रतीतेः। अहमेवासम् एव न किमप्यकरवम् इति क्रियान्तरव्यावृत्तिश् च वस्तुतो न घटेत अस्तेः सर्वधात्वर्थेष्वेवानुस्यूतत्वात् । पूर्वस्मिन्वर्षेऽस्मिन्ग्रमे चैत्र आसीदेवेत्युक्ते चैत्रस्य शयनाशनभोजनादिक्रिया नैव व्यावर्तन्ते किंत्वभाव एवेति किं तूक्तपरिपाट्या घटते च यथा सन्दर्भ आसम् एवेति ब्रह्मादिबहिर्जनज्ञानगोचरसृष्ट्यादिलक्षणक्रियान्तरस्यैव व्यावृत्तिर्न तु स्वान्तरङ्गलीलाया अपि यथाधुना राजासौ स किञ्चिदपि करोतीत्युक्ते राजसम्बन्धि कार्यम् एव निषिध्यते न तु शयनभोजनादिकमपीति तत्त्वम् इति दृष्टम् । ननु क्वचिन्निर्विशेषम् एव ब्रह्मासीद् इति श्रूयते तत्राह सत्कार्यमसत्कारणं ताभ्यां परं यद्ब्रह्म तन्न मत्तोन्यत् क्वचिदधिकारिणि शास्त्रे वा स्वरूपभूतनानाविशेषव्युत्पत्त्यसमर्थे सोयमहम् एव निर्विशेषब्रह्मतया प्रतिभामीत्यर्थः। त्वं तु पूर्वश्लोकोक्तमाशीर्वादानुग्रहाभ्यां रूपगुणादिविशिष्टम् एव मां जानीहीति भावः । ननु सृष्टेरनन्तरं जगदेव न तु त्वमुपलभ्यसे तत्राह पश्चात्सृष्टेरनन्तरमप्यहमेवास्म्येवेति वैकुण्ठेषु भगवदाद्याकारेण प्रपञ्चेष्वन्तर्यामिरूपेण गशामा प्रत्यारावनारपेण च नन तर्हि प्रथिन्यादिकं टेवनिर्गगाटिकन - अनमोनि- तलपनिम्ननाट गरेन व्यष्टिसमष्टिविराण्मयं विश्वं तदप्यहम् एव मच्छक्तिजन्यत्वान्ममैव प्राकृतं रूपं परावरे यथारूपे जानीयाम् इति त्वया यदपरं रूपं पृष्टं तदेवेदं त्वं जानीहीत्य् अर्थः । तथा योवशिष्यते भवानेकः शिष्यते शेषसंज्ञः इत्याद्युक्तः परमेश्वरः सोऽहम् अस्मि तत्राहमित्यस्य त्रिरावृत्त्या निर्द्वारणस्य सूचितत्वात् एतद्रूपगुणादिविशिष्टस्य मम त्रैकालिकनित्यस्थित्या पररूपत्वं सृष्टिसंहारयोर्मध्य एव दृश्यम् इदं मायिकप्रपञ्चजातमपरं रूपम् इति परावररूपयोर्ज्ञानमुक्तम् । विज्ञानं तु पररूपस्य प्रथमस्यैव तच्च तदैव स्याद्यदा श्रवणकीर्तनादिजन्यप्रेमभक्त्या तद्रूपगुणादिमाधुर्यमास्वाद्यमानः स्याद् इति चतुर्थश्लोके व्यक्तं भावीति विश्वनाथः। सन्दर्भोप्येतादृशव्याख्यः ॥३२॥

———————————————————————————————————————

कैवल्य-दीपिका: अहम् इत्य्-आदि । अहम् एव इति कुत्रान्तरस्य व्यावृत्तिः । आसम् एव इति क्रियान्तरस्य । अग्रे माया-सम्बन्धात् प्राक् । माया-सम्बन्धेऽपि यत् सत् कार्यम् असत् कारणं यच् च परं ताभ्यां परं प्रधानं, **तन् न **मद् अन्यत् । माया-सम्बन्धाद् अस्त्य् एव त्रिधा विभक्त इत्य् अर्थः । पश्चान् माया-वियोगाद् अनन्तरम् अप्य् अहम् एव । प्रपञ्चस्यादि-मध्यावसानेष्व् अहम् इत्य् अर्थः । यच् चैतत् प्रपञ्च-रूपं, तद् अप्य् अहम् । अन्यत्र सिद्धं मयि आरोपितम् । यथान्यत्र सिद्धः सर्पो रज्जौ । एवं-विधे पश्चाद् भ्रमे निवृत्ते योऽवशिष्येत सोऽहम् अस्मि । इदन्तया स्वरूपस्य निर्देष्टम् अशक्यत्वात् एवम् उच्यते । एतेन यथा कटकादिष्व् अवस्था-त्रयेऽपि सुवर्णत्वम् एव सत्यं, तथा जगद्-आदि-मध्यान्तेष्व् अनुस्यूतं सत्ता-मात्रं भगवत्-स्वरूपम् इति लक्षणार्थ इत्य् उक्तम् । न तावद् अस्यासम्भवः । सद् एव सोमेयेदम् [छा।उ। ६.२.१] इत्य्-आदि श्रुति-सिद्धत्वात् । न च कालाकाशादिष्व् इति व्याप्तिः । तद्-उत्पत्तेः श्रुतत्वात् । विमतम् अनित्यं बाध्यत्वात् शुक्ति-रूप्यवद् इत्य् अनुमानाश् च । नापि साकारेषु चतुर्ष्व् अतिव्याप्तिः । तेषाम् आकार-तिरोहितत्वात् । तस्मान् निर्दोषं लक्षणम् ॥३२॥ [मु।फ। १.६]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एव उपदेश्य-चतुष्टयं चतुःश्लोक्या निरूपयन् प्रथमं ज्ञान-विज्ञानार्थं स्व-लक्षणं प्रतिपादयति द्वाभ्याम् । तत्र ज्ञानार्थम् आह—अहम् एवासम् इति।अत्राहं-शब्देन तद्-वक्ता मूर्त एवोच्यते, न तु निर्विशेषं ब्रह्म तद्-अविषयत्वात् । आत्म-ज्ञान-तात्पर्यके तु तत् त्वम् असि इतिवत् “त्वम् एवासीर् एव” वक्तुम् उपयुक्तत्वात् ।

ततश् चायम् अर्थः—सम्प्रति भवन्तं प्रति प्रादुर्भवन्न् असौ परम-मनोहर-श्री-विग्रहोऽहम् एवाग्रे महा-प्रलय-कालेऽप्य् आसम् एव । वासुदेवो वा इदम् अग्र आसीन् न ब्रह्मा न च शङ्करः । एको नारायण आसीन् न ब्रह्मा नेशानः [महा।उ। १] इत्य्-आदि-श्रुतिभ्यः । भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः [भा।पु। ३.५.२३] इत्य्-आदि तृतीयात् । अतो वैकुण्ठ-तत्-पार्षदादीनाम् अपि तद्-उपाङ्गत्वाद् अहं-पदेनैव ग्रहणं, “राजासौ प्रयाति” इतिवत् । ततस् तेषां च तद्वद् एव स्थितिर् बोध्यते । तथा च राज-प्रश्नः—

स चापि यत्र पुरुषो विश्व-स्थित्य्-उद्भवाप्ययः ।

मुक्त्वात्म-मायां मायेशः शेते सर्व-गुहाशयः ॥ [भा।पु। २.८.१०] इति ।

श्री-विदुर-प्रश्नश् च—

तत्त्वानां भगवंस् तेषां कतिधा प्रति-सङ्क्रमः ।

तत्रेमं क उपासीरन् क उ स्विद् अनुशेरत ॥ [भा।पु। ३.७.३७] इति ।

काशी-खण्डेऽप्य् उक्तं श्री-ध्रुव-चरिते—

न च्यवन्ते हि मद्-भक्ता महत्यां प्रलयापदि ।

अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ इति ।

अहम् एव इत्य् एव-कारेण कर्त्र्-अन्तरस्यारूपत्वादिकस्य च व्यावृत्तिः । आसम् एव इति तत्रासम्भावनाया निवृत्तिः । तद् उक्तं यद्-रूप-गुण-कर्मकः [भा।पु। २.९.३२] इत्य् अत एव।

यद् वा, आसम् एवेति ब्रह्मादि-बहिर्जन-ज्ञान-गोचर22-सृष्ट्य्-आदि-लक्षण-क्रियान्तरस्यैव व्यावृत्तिः, न तु स्वान्तरङ्ग-लीलाया अपि । यथाधुनासौ राजा कार्यं न किञ्चित् करोतीत्य् उक्ते राज्य-सम्बन्धि-कार्यम् एव निषिध्यते, न तु शयन-भोजनादिकम् अपीति तद्वत् । यद् वा, अस गति-दीप्त्य्-आदानेष्व् इत्य् अस्मात् आसं साम्प्रतं भवता दृश्यमानैर् विशेषैर् एभिर् अग्रेऽपि विराजमान एवातिष्ठम् इति निराकारत्वादिकस्यैव विशेषतो व्यावृत्तिः ।

तद् उक्तम् अनेन श्लोकेन साकार-निराकार-विष्णु-लक्षण-कारिण्यां मुक्ता-फल-टीकायाम् अपि—

नापि साकारेष्व् अव्याप्तिः । तेषाम् आकारातिरोहितत्वाद् इति । ऐतरेयक-श्रुतिश् च—आत्मैवेदम् अग्र आसीत् पुरुष-विधः [बृ।आ।उ। ४.१.१] इति । एतेन प्रकृतीक्षणतोऽपि प्राग्-भावात् पुरुषाद् अप्य् उत्तमत्वेन भगवज्-ज्ञानम् एव कथितम् ।

ननु क्वचिन् निर्विशेषम् एव ब्रह्म आसीद् इति श्रूयते ? तत्राह—नान्यद् यत् सद्-असत्-परम् इति। सत् कार्यम् असत् कारणं, तयोः परंयद् ब्रह्म, तन् न मत्तोऽन्यत् । क्वचिद् अधिकारिणि शास्त्रे वा स्वरूप-भूत-विशेष-व्युत्पत्त्य्-असमर्थे सोऽयम् अहम् एव निर्विशेषतया प्रतिभातीत्य् अर्थः । यदा तदानीं प्रपञ्चे विशेषाभावान् निर्विशेष-चिन्-मात्राकारेण विकुण्ठे तु स-विशेष-भगवद्-रूपेणेति शास्त्र-द्वय-व्यवस्था । एतेन च ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इत्य् अत्रोक्तं भगवज्-ज्ञानम् एव प्रतिपादितम् । अत एवास्य परम-गुह्यत्वम् उक्तम् ।

ननु सृष्टेर् अनन्तरं नोपलभ्यसे ? तत्राह—पश्चात् सृष्टेर् अनन्तरम् अप्य्** अहम्** एवास्म्य् एव वैकु ण्ठेषु भगवद्-आद्य्-आकारेण प्रपञ्चेष्व् अन्तर्याम्य्-आकारेणेति शेषः । एतेन सृष्टि-स्थिति-प्रलय-हेतुर् अहेतुर् अस्य [भा।पु। ११.३.३५]23 इत्य्-आदि प्रतिपादितं भगवज्-ज्ञानम् एवोपदिष्टम् ।

ननु सर्वत्र घट-पटाकारा ये दृश्यन्ते, ते तु तद्-रूपाणि न भवन्तीति तवापूर्णत्व-प्रसक्तिः स्यात् ? इत्य् आशङ्क्याह—यद् एतद् विश्वं तद् अप्य् अहम् एव मद्-अनन्यत्वान् मद्-आत्मकम् एवेत्य् अर्थः । अनेन सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः । समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यद् इत्य् आद्य् उक्तं भगवज्-ज्ञानम् एवोपदिष्टम् । तथा प्रलये योऽवशिष्यते सोऽहम् एवास्म्य् एव । एतेन भवान् एकः शिष्यते शेष-संज्ञ इत्य् उक्तं भगवज्-ज्ञानम् एवोपदिष्टम् । तथा पूर्वं स्वानुग्रह-प्रकाश्यत्वेन प्रतिज्ञातं यावत् त्वं सर्व-काल-देशापरिक्च्छेद्यत्व-ज्ञापनायोपदिष्टम् । एवं नान्यद् यत् सद्-असत्-परम् इत्य् अनेन ब्रह्मणो हि प्रतिष्ठाहम् इति ज्ञापनया यथा-भावत्वम् । सर्वाकारावयव-भगवद्-आकार-निर्देशेन विलक्षणानन्त-रूपत्व-ज्ञापनया यद्-रूपत्वम् । सर्वाश्रयाति-निर्देशेन विलक्षणानन्त-गुणत्व-ज्ञापनया यद्-गुणत्वम् । सृष्टि-स्थिति-प्रलयोपलक्षित-विविध-क्रियाश्रयत्व-कथनेन लौकिकानन्त-कर्मत्व-ज्ञापनया यत्-कर्मत्वं च ॥३२॥ (भगवत्-सन्दर्भ १०४)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं श्लोकाभ्यां देयत्वेन ज्ञानादिकं प्रतिश्रुत्य्, तत्-प्राप्ताव् आशिष्यैव योग्यताम् आपद्य च प्रथमं ज्ञानम् उपदिशन्न् एव परावरे यथा-रूपे जानीयां [भा।पु। २.९.२५] इति प्रश्नस्योत्तरम् आह अहम् एवाग्रे सृष्टेः पूर्वम् आसम् इति तर्जन्या स्व-वक्षः स्पृशति । एव-कारेणान्य-योग-व्यवच्छेदकेन मद्-विजातीयं प्राकृतं वस्तु किम् अपि नासीद् इति लभ्यते अयम् अर्थः । सम्प्रति भवन्तं प्रति प्रादुर्भवन्न् असौ परम-मनोहराकारो रूप-गुण-माधुरी-महोदधिर् अहम् एवाग्रे महा-प्रलय-कालेऽप्य् आसम् एव । वासुदेवो वा इदम् अग्र आसीन् न ब्रह्मा न च शङ्करः इति । पुरुषो ह वै नारायणः इति । एको ह वै नारायण आसीत् इति । पुरुषो ह वै नारायणोऽकामयत । अथ नारायणाद् अजोऽजायत, यतः सर्वाणि भूतानि । नारायणः परं ब्रह्म, तत्त्वं नारायणः परम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् इति । एको नारायण आसीन् न ब्रह्मा नेशानः इत्य् आदि-श्रुतिभ्यः । भवान् एक आसेदं [भा।पु। ३.५.२३] इत्य् आदि-स्मृतेश् च ।

अत्र वैकुण्ठ-तत्-पार्षदादीनाम् अपि तद्-उपाङ्गत्वाद् अहम्-पदेनैव ग्रहणं राजासौ प्रयातीतिवत् । अतस् तेषां च तद्वद् एव स्थितिर् बोध्यते । तथा च राज-प्रश्नः—

स चापि यत्र पुरुषो विश्व-स्थित्य्-उद्भवाप्ययः ।

मुक्त्वात्म-मायां मायेशः शेते सर्व-गुहाशयः ॥ [भा।पु। २.८.१०] इति ।

श्री-विदुर-प्रश्नश् च –

तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः ।
तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ [भा।पु। ३.७.३७] इति ।

श्री-स्वामि-चरणानां व्याख्या च—तत्र प्रलये इमं परमेश्वरं शयानं राजानम् इव चामर-ग्राहिणः के उपासीरन् के वा तद् अनुशेरते शयानम् अनुस्वपन्तीत्य् एषा ।

काशी-खण्डेऽप्य् उक्तं—

न च्यवन्ते हि मद्-भक्ता महत्यां प्रलयापदि ।

अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ इति ।

आसम् एवेत्य् अयोग्य-व्यवच्छेदः । अस्तेः सत्तार्थकत्वात् तदानीं मद्-विद्यमानताया अभावः सर्वथा माभूद् इत्य् एवार्थ-प्रतीतेः । अहम् एवासम् एव न किम् अप्य् अकरवम् इतित् क्रियान्तर-व्यावृत्तिस् तु वस्तुतो न घटते । अस्तेः सर्व-धात्व्-अर्थेष्व् एवानुस्यूतत्वात् । पूर्वस्मिन् वर्षे तत्र ग्रामे चैत्र आसीद् एवेत्य् उक्ते चैत्रस्य शयनासन-भोजनादि-क्रिया नैव व्यावर्तन्ते, किन्त्व् अभाव एवेति, किन्तूक्ति-परिपाट्या घटते च । यथा सन्दर्भे—आसम् एवेति ब्रह्मादि-बहिर्जन-ज्ञान-गोचर-सृष्ट्य्-आदि-लक्षण-क्रियान्तरस्यैव व्यावृत्तिः । न तु स्वान्तरङ्ग-लीलाया अपि । यथाधुनासौ राजा कार्यं न किञ्चित् करोतीत्य् उक्ते राज्य-सम्बन्धि-कार्यम् एव निषिध्यते न तु शयन-भोजनादिकम् अपीति तद्वद् [भगवत्-सन्दर्भ १०४] इति दृष्टम् ।

ननु क्वचिन् निर्विशेषम् एव ब्रह्म आसीद् इति श्रूयते । तत्राह सत् कार्यम् असत् कारणं ताभ्यां परं यद् ब्रह्म तन् न मत्तोऽन्यत् । क्वचिद् अधिकारिणि शास्त्रे वा मत्-स्वरूप-भूत-नाना-विशेष-व्युत्पत्त्य्-असमर्थे सोऽयम् अहम् एव निर्विशेष-ब्रह्मतया प्रतिभामीत्य् अर्थः । त्वं तु पूर्व-श्लोकोक्त-मद्-आशीर्वादानुग्रहाभ्यां रूप-गुणादि-विशिष्टम् एव मां जानीहीति भावः ।

ननु सृष्टेर् अनन्तरं जगद् एव, न तु त्वम् उपलभ्यसे । तत्राह पश्चात् सृष्टेर् अनन्तरम् अप्य् अहम् एवास्म्य् एवेति वैकुण्ठेषु भगवद्-आद्याकारेण प्रपञ्चेष्व् अन्तर्यामि-रूपेण यथा-समयं मत्स्याद्य्-अवतार-रूपेण च ।

ननु तर्हि पृथिव्यादिकं देव-तिर्यग्-आदिकं च त्वं न भवसीति तवापूर्णत्व-प्रसक्तिः? तत्राह यद् एतच् च व्यष्टि-समष्टि-विराण्-मयं विश्वं तद् अप्य् अहम् एव । मच्-छक्ति-जन्यत्वान् ममैव प्राकृतं रूपम् । परावरे यथा रूपे जानीयाम् इति त्वया यद् अवरं रूपं पृष्टं तद् एवेदं त्वं जानीहीत्य् अर्थः । तथा योऽवशिष्यते भवान् एकः शिष्यते शेष-संज्ञः इत्य् आद्य्-उक्तः परमेश्वरः सोऽहम् अस्मि । तत्र अहम् इत्य् अस्य त्रिर्-आवृत्त्या निर्धारणस्य सूचितत्वात् एतद्-रूप-गुणादि-विशिष्टस्य मम त्रैकालिक-नित्य-स्थित्या पर-रूपत्वं सृष्टि-संहारयोर् मध्य एव दृश्यम् इदं मायिक-प्रपञ्च-जातम् अवरं रूपम् इति परावर-रूपयोर् ज्ञानम् उक्तं विज्ञानं तु पर-रूपस्य प्रथमसैव । तच् च तदैव स्याद् यदा श्रवण-कीर्तनादि-जन्य-प्रेम-भक्त्या तद्-रूप-गुणादि-माधुर्याम् आस्वाद्यमानं स्याद् इति चतुर्थ-श्लोके व्यक्तं भावि ॥३२॥

———————————————————————————————————————

**श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-भाष्यं **: अहम् एव पूर्वोक्त-महानुभावो गोपाल-रूपी । अग्रे सर्व-लोक-मुकुट-मणि-श्री-गोलोकाख्ये आसम् एव श्री-रास-लीलया विराजमान एवावतिष्ठम्, असुदीप्तौ अत्र नान्यद् इत्य् आदि सत् सद्-रक्षार्थम् असुर-वधादि । असत् प्राकृत-दर्शनादि । परं निज-गृहिणीषु गोपीषु परकीया-भावम् । तद् एवं मद्-विना यत् एतच् च जगद्-आदि सर्वं के कुर्वन्ति ? तत्राह पश्चाद् अहं सर्व-लोक-मध्ये मूलाधारे सङ्कर्षण-कमठादि-रूपेण, योऽवशिष्येत सर्व-लोक-मध्ये विलास-पुरुष-गुणावतार-लीलावतारावेश-प्रभाव-वैभव-पद्मनाभ-क्षीरोदशायि-प्रभृतयोऽंश-कला मम सर्वं विधास्यन्ति, कार्य-कारणयोर् अभेदात्, परं च स्वयम् अहं गोकुले सर्वं करिष्यामीति भावः ॥३२॥

———————————————————————————————————————

॥ २.९.३३ ॥

ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि ।
तद् विद्याद् आत्मनो मायां यथाभासो यथा तमः ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अर्थवद् इव प्रतीयते, न च परमात्मन्य् अर्थवत् प्रतीयते अर्थं प्रयोजनम् ऋते । न हि जीव-प्रकाशिभ्याम् ईश्वरस्यार्थः ।

मुख्यतो विष्णु-शक्तिर् हि माया-शब्देन भण्यते ।
उपचारतस् तु प्रकृतिर् जीवश् चैव हि भण्यते ॥ इति च ।

यथाभासो जीवः ।

सर्वं परे स्थितम् अपि नैव तत्रेति भण्यते ।
यतो हरेर् न जीवेन जीवनं न हरौ ततः ॥
जीवः प्रकृतिर् अप्य् अत्र यतो नैव हि बन्ध-कृत् ।
कर्म चाफल-दातृत्वात् कालश् चापरिणामत्वात् ।
यथा छत्र-धराद्यास् तु रथस्था अपि सर्वशः ।
रथिनो नैव भण्यन्ते एवं हरि-गता अपि ॥३३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथात्म-माया-योगेनेत्य् अनेन मायाया अपि पृष्टत्वाद् वक्ष्यमाणोपयोगित्वाच् च मायां निरूपयति । ऋते अर्थं विनापि वास्तवम् अर्थं यद् यतः किम् अप्य् अनिरुक्तम् आत्मन्य् अधिष्ठाने प्रतीयेत सद् अपि च न प्रतीयेत, तद् आत्मनो मम मायां विद्यात् । यथा आभासो द्वि-चन्द्रादिर् इत्य् अर्थं विना प्रतीतौ दृष्टान्तः । यथा तम इति सतोऽप्रतीतौ । तमो राहुर् यथा ग्रह-मण्डले स्थितोऽपि न दृश्यते तथा ॥३३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किं च, जीवस्य परमात्मज्ञानविज्ञाने प्रति माया खल्वंशेनानुकूला प्रतिकूला च भवति विज्ञाते च परमात्मनि मयि योगमायैवाधिकरोति सा खल्वनुकूलैवेति ते द्वे अवश्यनिरूपणीये इति ज्ञापयन् यथात्ममायायोगेनेत्यनेन व्यञ्जितस्य तव माया योगमाया च कीदृशीति प्रश्नस्योत्तरं तन्त्रेणैव क्रमेणाह ऋतेर्थमिति, यद्यतोऽर्थं सत्यं वस्तु विना न प्रतीयते किं त्वर्थसत्यं वस्त्वेव प्रतीयते इत्य् अर्थः । तथा यतः अर्थं विना प्रतीयते अर्थो न प्रतीयते किंत्वनर्थः प्रतीयेतेत्यर्थः । तत्ताम् आत्मनि स्वस्मिन्मुक्तो बद्धश् च जीव आत्मनो मम मायां क्रमेण विद्याविद्येति वृत्तिद्वयां मायाख्यां शक्तिं विद्यात् जानीयात् विद्याया दृष्टान्तः यथा भासो दीपादिप्रकाशः दीपादिप्रकाशाद्यथा गृहे विद्यमानो घटपटादिरर्थ एव प्रतीयते न तु दीपानयनात्पूर्वं सम्भावितो घटपटाद्यभावस्तथा सर्पवृश्चिकादिरागन्तुकश् च भयकारणमनर्थः प्रतीयते एवम् एव विद्याया हेतोर्मुक्तेन जीवेन स्वस्मिन्नित्यसम्बद्धं ज्ञानादिकम् एव प्रतीयते न त्व् अविद्यादशायामिव तदभावः नापि स्वस्मिन्नसंबद्धो देहदैहिकशोकमोहादिकश् च प्रतीयते अविद्याया दृष्टान्तः यथा तमोन्धकारः अन्धकाराद्यथा स्वगृहे विद्यमानो घटपटादिरर्थो न प्रतीयते किं त्वविद्यमानोऽपि सम्भाव्यमानः सर्पचौरादिकोभयकारणमनर्थः प्रतीयते एवमेवाविद्याया हेतोर् एव बद्धेन जीवेन स्वस्मिन्नित्यसम्बन्धितया वर्तमानम् अपि ज्ञानानन्दादिकं न प्रतीयते किंतु स्वस्मिन्नसन्नपि स्वसम्बन्धित्वेन वर्तमानो देहदैहिकशोकमोहादिर् एव प्रतीयते तेन कुसुमशृङ्गादीनां सत्यत्वेप्याकाशशशादीनां तत्सम्बन्धा भावादेवाकाशकुसुममलीकं शशशृङ्गमलीकम् इति यथोच्यते तथैव देहानां तद्धर्माणां शोकमोहसुखदुःखादीनां च प्राधानिकत्वात्सत्यत्वेऽपि जीवस्य तत्सम्बन्धाभावाद् एव जीवस्य देहादयो मिथ्याभूता इति शास्त्रेषूच्यते जीवस्य मिथ्याभूतोऽपि देहसम्बन्धः खल्वविद्यया कल्पते विद्यया लुप्यत इति विद्याविद्ययोर्दृष्टान्तावाभासतमसी इत्य् अत्र छायातपौ यत्र न गृध्रपक्षौ इत्यष्टम-स्कन्धे एव प्रमाणं ज्ञेयम् केचित् तु तमो दृष्टान्तोयमावरणांश एव आवरणविक्षेपयोस्तु दृष्टान्ताः सर्पव्याघ्रभूतावेशाद्या जेया इत्याहुस्तेऽपि तामसत्वात्तमःशब्देनैव ग्राह्या इत्यपरे। एवं जीवे सार्वदिकविद्यमानवस्तुप्रत्यायनमविद्यमानवस्तुप्रत्यायनं चेत्यविद्याया धर्मा वावरणविक्षेपशब्दाभ्यामुच्यते । अथार्थशब्दस्य धनवाचित्वाच्छेषेण भाग्यप्राप्तस्वीयबहुधनो वणिगिव विद्यालब्धज्ञानानन्दो मुक्तः संपन्नत्वेन रूप्यते । तथाभाग्यानधिगतस्वीयधनो वणिगिवाविद्यावृतज्ञानानन्दो बद्धजीवो दरिद्रत्वेनेति ज्ञेयम् । एवं विद्यया त्वम्पदार्थस्य जीवात्मनोऽनुभवो भवति न तु तत्पदार्थस्य परमात्मनः तस्य निर्गुणत्वानिर्गुणया भक्त्यैवापरोक्षानुभवः सम्भवेत् भक्त्याहमेकया ग्राह्यः इति भगवदुक्तेः । किं च कैवल्यं सात्त्विकं ज्ञातम् इति भगवदुक्तेर्देहादिव्यतिरिक्तात्मज्ञानरूपा येयं विद्या तस्याः सत्त्वगुणत्वादनया गुणातीतस्य परमात्मनो नैवानुभवः प्रत्युतास्या अप्यभाव एव तद् उक्तं भगवता—

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्याः सर्व एव हि ।
येनेमे निर्जिता सौम्य गुणा जीवेन चित्तजाः ।

भक्ति-योगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ इति ।

ननु तर्हि मुक्तजीवेन परमात्मनोऽपरोक्षानुभवार्थं भक्तिः कुतो लभ्यताम् । उच्यते । ज्ञानधिकारिणः साङ्ख्ययोगतपआदिभिर्भक्तिमिश्रैर् एव जनितया विद्ययाविद्यानिवर्तिकया प्रथमं त्वं पदार्थानुभवः ततस्तस्या विद्यातो विमुक्तस्य निरिन्धनाग्निन्यायेन विद्याया अप्युपरमतारतम्येन पूर्वसिद्धभक्तिचन्द्रकलायास्तदुपरागविच्युतायास्तत उद्गमतारतम्यं तथैव भक्त्या पुनःपुनरभ्यस्तया तत्पदार्थस्य परमात्मनोऽनुभवतारतम्यं तद् उक्तं भगवता गीतामु—

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

इति परां पौर्वकालिकगुणीभावराहित्यात् श्रेष्ठां केवलां वा ततश् च भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः इत्य्-उक्तेर्जातिप्रमाणाभ्यामल्पीयस्या तया भक्त्या निर्विशेषब्रह्मण एवानुभवः । न त्वनन्तचिद्विशेषब्रह्मणो भगवतः यथाल्पतेजश्चक्षुष्केण जनेन मणिमयी मूर्तिः सामान्यतेजोमय्येव दृश्यते । न तु मुखनासिकानेत्रकर्णादिविशेषमयी । ततश् च विद्यायाः सामरूपेणैवोपरमे सत्यद्भुतनैर्गुण्यस्य तस्य तयैव भक्त्या ब्रह्मानुभवस्यापूर्णत्वमेतद् एव निर्वाणशब्दवाच्यं जीवब्रह्मैक्यं तद् उक्तं तत्रैव अतो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् इति । या तु चिच्छक्तिवृत्तीनां सारभूता कृपाविलासरूपा परमोत्तमा श्रद्धा भक्तिर्जातिप्रमाणाभ्यामत्यधिका सा प्रबला परमस्वतन्त्रा गुणदोषादिकमप्यगणयन्ती बद्धेऽपि जीवे राक्षसपुलिन्दपुल्कसादौ दुराचारोऽपि यदृच्छयैवोदयते । विप्रे संन्यासिनि मुक्तेऽपि नोदयते । तयैवाविद्यापर्यन्तसमस्तक्लेशध्वंसस्तद् उक्तं जरयत्याशु या कोशं निगीर्णमनलो यथा इति । तयैवानन्तचिद्विशेषस्य भगवतोऽप्यपरोक्ष्यानुभवो भवेत् । यथा बहुतरतेजस्विचक्षुष्केण जनेन सामान्यतस्तेजोमयी विशेषतश् च मुखनासिकानेत्रकर्णादिसौन्दर्यमयी च मूर्तिर्भद्रेणैव दृश्यते इति । तदेवं भक्तिर्द्विविधा निर्गुणा गुणमयी च । तत्राद्यया पाकदशायां प्रेमभक्तिसंज्ञया भगवदशीकारः सच्चिदानन्दमयभगवद्रूपगुणलीलामाधुर्यानुभवश्व । द्वितीयया सात्त्विक्या सत्त्वगुणाद्विच्युतयैव निर्विशेषब्रह्मसुखानुभवमात्रम् इति । तस्माद्ब्रह्मसुखानुभवदशातः पूर्वास्वेव दशासु जीवेषु मायाया अधिकार इति सिद्धम्—

सत्यम् एव प्रतीतं स्याद्यतोऽसत्यं तथा यतः ।

तद्विद्यादात्मनो मायां यथा भासो यथा तमः ॥

इत्यनुक्तेरित्यन्यस्मिन्नर्थेप्याशय ईक्ष्यते । ऋतेर्थशब्दो परिवृत्यसहावपितौ यतः स चार्थो यथा ब्रह्मानुभववत्स्वपि जनेषु नानाविधेषु या स्पष्टमधिकरोति भगवदिच्छावशात्तदीयस्वरूपगुणलीलाप्रकाशावरणधुरन्धुरा स्वरूपभूता शक्तिस्तस्यायोगमायाया अपि लक्षणं तन्त्रेणैवाह—ऋत इति । आत्मनि परमात्मनि मयि ऋते ज्ञाते सति अर्तेर्गत्यर्थत्वेन ज्ञानार्थत्वात्साक्षादनुभूते सतीत्य् अर्थः । यद् इति इण् गतौ इत्यस्य शत्रन्तं तत्पदेनैव यत्पदस्याक्षेपात् । यतः अर्थं यत्प्रयोजनं प्राप्नुवद्वस्तु अप्राकृतं प्राकृतं च प्रतीयते । यया प्रकाशितसत्प्रयोजनं वस्तु परमात्मसाक्षात्कारवता जनेन साक्षादनुभूयेतेत्यर्थः । यतः सकाशान्न प्रतीयते ययावृतं तद् एव वा समयान्तरे वा न प्रतीयेतेत्यर्थः। तामात्मनो भगवतो मम मायां योगमायाख्यामन्तरङ्गां शक्तिं विद्याजानीयात् । मायया प्रयोजनं विनैवाद्रियते योगमायया तु प्रयोजनमुद्दिश्यैवेति विवेचनीयम् । यथा भासो यथा तमः इति आभासेन दीपादिना प्रकाशितं घटपटादिकं यथा प्रतीयते तमसा वृतं तन्नानुभूयते च तथैव सा मदिच्छावशादाभासतमोधर्मवती योगमायेत्यर्थः। उदाहरणं तु यथा ऐश्वर्यदर्शनेऽपि प्रेमसङ्कोचाभावज्ञापनार्थं भगवत्कुक्षौ यया प्रकाशितं प्राकृतमप्राकृतं गोकुलयशोदाकृष्णादिस्वरूपं च यया मोहिता श्रीयशोदा साक्षादनुबभूव क्षणान्तरे च ययावरणान्नानुबभूव च यथा चैश्वार्यानुभूत्या प्रेमसङ्कोचज्ञापनार्थं यया प्रकाशितं विश्वरूपं परमात्मस्वरूपं चार्जुनः साक्षादनुबभूव तत्रैव वर्तमानम् अपि कृष्णस्वरूपं ययावरणान्नानुबभूव समयान्तरे च ययाच्छादितं विश्वरूपादिकं नानुबभूव द्विभुजं श्रीकृष्णमेवानुबभूव अत्रैकदैवैकस्य स्वरूपस्य प्रकाशनमन्यस्यावरणम् इति पूर्वतो विशेषः यथा मञ्जुमहिमदर्शनया ब्रह्मण ईश्वरत्वाभिमाननिवर्तनार्थं ययावरणप्रकाशनाभ्यां लीलापारकरवत्सबालाघदर्शनतददर्शनकृष्णस्वरूपसूतवत्सबालादिदर्शनचतुर्भुजत्वादिदर्शनतददर्शनश्रीकृष्णस्वरूपदर्शनानि प्राप । यया मोहितः परमेष्ठी अत्रैकस्मिन्नेव परमेष्टिनि विवधस्वरूपावरणप्रकाशनयोः पौनःपुन्यम् इति विशेषः । यथा च भगवद्वपुः स्वरूपत एवं परिच्छिन्नमपरिच्छिन्नं चातकर्यम् इति ज्ञापनार्थं तथा केवलभजनश्रमस्तजन्या भगवत्कृपा चेत्युभाभ्याम् एव भगवदशीकार इति ज्ञापनार्थञ्च दामबन्धनलीलायां युगपदेव यशोदाकृष्णयोरभीप्सितबन्धनाबन्धने विभुत्वस्य युगपदेवावरणप्रकाशनाभ्यां वेष्टयन्त्या किंकिण्या द्व्यङ्गुलन्यूनदान्ना चावेष्टयता सूचिते दर्शयन्त्यापि वस्तुतः कृष्णस्यैवाभीप्सितमबंधनं साधयन्त्या यया मोहिता व्रजेश्वरी विस्मयरसं क्षणमनुबभूव पश्चात्तस्या अप्यभीप्सितं कृष्णसंमत्या साधयितुं विभुत्वं यया खल्वावृतमेवेत्यत्तः सा कृष्णं बबन्धैव तत्रैकदैवैकस्यैव विभुत्वस्यावरणप्रकाशने इति पूर्वपूर्वतो विशेषः। यथा च प्रतिस्वनिमन्त्रणादिसिद्ध्यर्थं श्रुतदेवबहुलाश्वरुक्मिणीसत्यभामादिगृहस्थितस्य तस्य तत्तत्स्वरूपस्य ययैव युगपदेवावरणप्रकाशनाभ्यां तत्र तत्र लीलासिद्धिर्व्यास्यते । अत्र श्रुतदेवबहुलाश्वादिव्यक्तिभेदमपेक्ष्यैवावरणप्रकाशनयोयैगपद्यं पूर्वत्रैकस्यां यशोदायाम् एवेति विशेषः । सा खलु योगमायैव न तु माया । तया मोहितानाम् अपि तेषां परमात्मसाक्षात्कारदर्शनात्स च परमात्मसाक्षात्कारो भक्तिमिश्रज्ञानवतामविद्याविद्ययोरुपरामे सति तथैवावतारसमये कृष्णं प्रीत्या पश्यतां तत्कृपाविषयीभूतत्वादप्रेमवताम् अपि । अन्यदा तु प्रेमवतामेवं कृष्णरामादिसाक्षात्कारो भागवतमतेनोच्यते । तेषु योगमायैवाधिकरोति न तु माया । कृष्णं तदिच्छया पश्यताम् अपि कंसादीनां द्वेषलक्षणान्तःकरणदोषाद् एव न परमात्मसाक्षात्कारो यथा मत्स्यण्डिकां मुञ्जानानाम् अपि पित्तदूषितरसनानां न मत्स्यण्डिकास्वादानुभवस्तेषु मायेवाधिकरोति न तु योगमाया मायाशक्तिश् च योगमायोत्था तस्या विभूतिर् एव यदुक्तं नारदपञ्चरात्रे श्रुतिविद्यासंवादे अस्या आवरिका शक्तिर्महामायाखिलेश्वरी । यया मुग्धं जगत्सर्वं सर्व-देहाभिमानिनः इति भगवता स्वस्वरूपत्वेनाभिमन्यमाना योगमाया शक्तिश्चिदेव सैवांशेन स्वेच्छावशात्स्वस्वरूपत्वेनाभिमन्यमाना स्वस्वरूपात्पृथग्भूता सती मायाशक्तिर्जडैव । यथा सर्पस्य स्वरूपभूतापि त्वक् तेन त्यक्ता चेत्ततः पृथग्भूतं कञ्चुकं जडी स्यात् तथा चोक्तं श्रुतिभिः॥ तमुत जहासि तामहिरिव त्वचमात्तभगः इति सा च माया त्रिविधा प्रधानमविद्या विद्या च प्रधानस्य लक्षणं जायन्तेयोपाख्याने वक्ष्यते प्रधानेनोपाधयः मृज्यन्ते ते च सत्या एव । अविद्यया जीवेषु तदध्यासः सृष्टः । स चासत्य एव विद्यया तदध्यासध्वंस इति तिसृणां शक्तीनां कार्यं तत्तन्मयं जगदिदमंशेनासत्यं तथा जीवानां नित्यत्वात् । भगवन्निकेतनादिभक्त्युपकरणानां निर्गुणत्वाच्चांशेन नित्यत्वम् अपि वादिभिर्यथा स्वमतं नानारूपतया निरूपितम्—

कार्यं प्राधानिकं सत्यं कार्यमाविद्यकं मृषा ।
नित्यं तद्भक्तिसम्बद्धम् इदं तत्त्रितयात्मकम् ।१।
प्राधानिकाः स्युर्देहास्तद्धर्मा आविद्यकाः पुनः ।
जीवेषु तत्तत्सम्बन्धो भक्तिश्चेन्निर्गुणाश् च ते ।२।
चिज्जीवमाया नित्याः स्युस्तिस्रः कृष्णस्य शक्तयः ।
तद्वृत्तयश् च ताभिः स भात्येकः परमेश्वरः ।३।
कार्यकारणयोरैक्याच्छक्तिशक्तिमतोर् अपि ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किं च, न ।४।
भक्तानाम् एव सिद्धान्तचतुःश्लोकीयमीलिता ।

शीलिता भवतादुक्तैस्तैर् एव न किलापरैः ।५।

इति **विश्वनाथः **। सन्दर्भस्तु अथ तादृशरूपादिविशिष्टस्यात्मनो व्यतिरेकमुखेन विज्ञापनार्थं मायालक्षणमाह—ऋतेर्थम् इति । अर्थं परमार्थभूतं मां विना तत्प्रतीयते मत्प्रतीतौ तत्प्रतीत्यभावात् । मत्तो बहिर् एव यस्य प्रतीतिर् इत्य् अर्थः । यच्चात्मनि न प्रतीयते यस्य च यदाश्रयत्वं विना स्वतः प्रतीतिर्नास्तीत्यर्थः। तथा लक्षणं वस्तु आत्मनो मम परमेश्वरस्य मायां जीवमायागुणमायेति द्व्यात्मिकां मायाख्यशक्तिं विद्यात् । तत्र शुद्धजीवस्यापि चिद्रूपत्वाविशेषेण तदीयरश्मिस्थानीयत्वेन च स्वान्तःपात एक विवक्षितः। तत्रास्याद्व्यात्मकत्वेनाभिधानं दृष्टान्तद्वैधेन लभ्यते तत्र जीवमायाख्यस्य प्रथमांशस्य तादृशत्वं दृष्टान्तेन स्पष्टयन्नसम्भावनां निरस्यति । यथा भास इति । आभासो ज्योतिबिम्बस्य स्वीयप्रकाशाद्वयवहितप्रदेशे कश्चिदुच्छलितप्रतिच्छविविशेषः स यथा तस्माद्बहिर् एव प्रतीयते न च तं विना तस्य प्रतीतिस्तथा सापीत्य् अर्थः । अनेन प्रतिपर्यायाभासधर्मत्वेन तस्यामाभासाख्यत्वम् अपि ध्वनितम् । अतस्तत्कार्यस्याप्याभासाख्यत्वं कचित् आभासश् च निरोधश् च इत्यादौ स तथा कचिदत्यन्तोद्भटात्मास्वचाकचिक्यच्छटापतितनेत्राणां नेत्रप्रकाशमावृणोति तमावृत्य च स्वेनात्यन्तोद्भटतेजस्त्वेनैवः द्रष्टृनेत्रं व्याकुलयन्स्वोपकण्ठे वर्णशावल्यमुद्गिरति । कदाचित्तद् एव पृथग्भावेन नानाकारतया परिणमयति । तथेयम् अपि जीवज्ञानमावृणोति सत्त्वादिगुणसाम्यरूपां गुणमायाख्यां जडां प्रकृतिमुद्गिरति कदाचित्पृथग्भूतान् सत्त्वादिगुणान्नानाकारतया परिणमयति चेत्याद्यपि ज्ञेयम् । तद् उक्तम्—

एकदेशस्मितस्याग्ने ज्योत्स्नाविस्तारिणी यथा ।

परस्य ब्रह्मणो माया तथेदमखिलं जगत् ॥

तथा चायुर्वेदविदः—

जगद्योनेरनिच्छस्य चिदानन्दैकरूपिणः ।
पुंसोस्ति प्रकृतिनित्या प्रतिच्छायेव भास्वतः ।
अचेतनापि चैतन्य योगेन परमात्मनः ।

अकरोद्विश्वमखिलमनित्यं नाटकाकृतिम् ॥ इति ।

तदेवं निमित्तांशो जीवमाया उपादानांशो गुणमायेत्यग्रेऽपि विवेचनीयम् । अथैवं सिद्धं गुणमायाख्यं द्वितीयमप्यंशं दृष्टान्तेन स्पष्टयति । यथा तम इति । तमःशब्देनात्र पूर्वत्रोक्तं तमःप्रायं वर्णशाबल्यमुच्यते तद्यथा—तन्मूलज्योतिष्यसदपि तदाश्रयत्वं विना न सम्भवति तद्वदियमपीति । अथवा मायामात्रनिरूपण एव पृथग्दृष्टान्तद्वयं तत्राभासदृष्टान्तो व्याख्यातः। तमोदृष्टान्तश् च यथान्धकारोज्योतिषोऽन्यत्रैव प्रतीयते ज्योतिर्विना च न प्रतीयते ज्योतिरात्मना चक्षुषैव तत्प्रतीतेर्न पृष्ठादिनेति तथेयमपीति ज्ञेयं ततश्चांशद्वयं प्रवृत्तिभेदेनैवोत्यं न तु दृष्टान्तभेदेन प्राक्तनदृष्टान्तद्वेधाभिप्रायेण तु पूर्वस्या आभासपर्यायच्छायाशब्देन क्वचित्प्रयोगः उत्तरस्यास्तमःशब्देनैव चेति तथा ससर्ज च्छायया विद्यां पञ्चपर्वाणमग्रत इत्य् अत्र । यथा च क्वाहं तमो महदहम् इत्यादौ पूर्वत्राविद्याख्यनिमित्तशक्तिवृत्तिकत्वाज्जीवविषयकत्वेन जीवमायात्वम् । उत्तरत्र स्वीयतत्तद्गुणमयमहदाद्युपादानशक्तिवृत्तिकत्वं तथा तद्गुणमायात्वं ससर्जेत्यादौ छायाशक्तिं मायामवलम्ब्य सृष्टयारम्भे ब्रह्मा स्वयमविद्यामाविर्भावितवानित्य् अर्थः ।

विद्याविद्ये मम तनू विद्धयुद्धव शरीरिणाम् ।

बन्धमोक्षकरी आद्ये मायया मे विनिर्मिते ॥ इत्य्-उक्तत्वात् ।

अनयोराविर्भावभेदश् च श्रूयते तत्र पूर्वस्याः पाद्मे श्रीकृष्णसत्यभामासंवादीयकार्तिकमाहात्म्ये देवगणकृतमायास्तुतौ

इति स्तुवतस् ते देवास् तेजो-मण्डल-संस्थितम् ।
ददृशुर् गगने तत्र तेजो-व्याप्त-दिग्-अन्तरम् ॥
तन्-मध्याद् भारतीं सर्वे शुश्रुवुर् व्योम-चारिणीम् ।
अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैर् गुणैः ॥ इत्य्-आदि ।

उत्तरस्याः पाद्मोत्तर-खण्डे असङ्ख्यं प्रकृति-स्थानं निविड-ध्वान्तम् अव्ययम् इति विद्याद् इति प्रथमपुरुषनिर्देशस्यायं भावः अन्यान्प्रत्येवखल्वयमुपदेशः त्वं तु मद्दत्तशक्त्या साक्षादेवानुभवसीति एवं मायिकदृष्टिमतीत्यैव रूपादिविशिष्टं मामनुभवेद् इति व्यतिरेकमुखेनानुभावनस्यायं भावः शब्देन निर्धारितस्यापि मत्स्वरूपादेर्मायाकार्यावेशेनैवानुभवो न भवति ततस्तदर्थं मायात्याजनम् एव कर्तव्यम् इति । एतेन तदविनाभावात्प्रेमाप्यनुभावित इति गम्यते ॥३३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तादृश-रूपादि-विशिष्टस्यात्मनो व्यतिरेक-मुखेन विज्ञापनार्थं माया-लक्षणम् आह—ऋतेऽर्थम् इत्य् आदि । अर्थं परमार्थ-भूतं मां विना यत् प्रतीयेत, मत्-प्रतीतौ तत्-प्रतीत्य्-अभावात् । मत्तो बहिर् एव यस्य प्रतीतिर् इत्य् अर्थः । यच् चात्मनि न प्रतीयते, यस्य च मद्-आश्रयत्वं विना स्वतः प्रतीतिर् नास्तीत्य् अर्थः । तथा लक्षणं वस्तु आत्मनो मम परमेश्वरस्य मायां जीव-माया गुण-मायेति द्व्य्-आत्मिकां मायाख्य-शक्तिं विद्यात् । अत्र शुद्ध-जीवस्यापि चिद्-रूपत्वाविशेषेण तदीय-रश्मि-स्थानीयत्वेन च स्वान्तःपात एव विवक्षितः । तत्रास्या द्व्य्-आत्मिकत्वेनाभिधानं दृष्टान्त-द्वैविध्येन लभ्यते । तत्र जीव-मायाख्यस्य प्रथमांशस्य तादृशत्वं दृष्टान्तेन स्पष्टयन्न् असम्भावनां निरस्यति—यथाभास इति । आभासो ज्योतिर्-बिम्बस्य स्वीय-प्रकाशाद् व्यवहित-प्रदेशे कथञ्चिद् उच्छलित-प्रतिच्छवि-विशेषः । स यथा तस्माद् बहिर् एव प्रतीयते, न च तं विना तस्य प्रतीतिस् तथा सापीत्य् अर्थः । अनेन प्रतिच्छवि-पर्यायाभास-धर्मत्वेन तस्याम् आभासाख्यत्वम् अपि ध्वनितम् । अतस् तत्-कार्यस्याभासाख्यत्वं क्वचित् आभासश् च निरोधश्[भा।पु। २.१०.७] _च्_एत्य् आदौ । अत्र स यथा क्वचिद् अत्यन्तोद्भटात्मा स्व-चाक्चिक्य-च्छटापतितनेत्राणां नेत्र-प्रकाशम् आवृणोति । तम् आवृत्य च स्वेनात्यन्तोद्भट-तेजस्त्वेनैव द्रष्टृ-नेत्रं व्याकुलयन् स्वोपकण्ठे वर्ण-शावल्यम् उद्गिरति । कदाचित् तद् एव पृथग्-भावेन नानाकारतया परिणमयति । तथेयम् अपि जीव-ज्ञानम् आवृणोति । सत्त्वादि-गुण-साम्य-रूपां गुण-मायाख्यां जडां प्रकृतिम् उद्गिरति । कदाचित् पृथग्-भूतान् सत्त्वादि-गुणान् नानाकारतया परिणमयति चेति ज्ञेयम् । तद् उक्तम्—एक-देश-स्थितस्याग्नेर् [वि।पु। १.२२.५६] इत्य् आदि ।

तथा च आयुर्वेद-विदः—

जगद्-योनेर् अनिच्छस्य चिद्-आनन्दैक-रूपिणः ।
पुंसोऽस्ति प्रकृतिर् नित्या प्रतिच्छायेव भास्वतः ॥
अचेतनापि चैतन्य-योगेन परमात्मनः ।
अकरोद् विश्वम् अखिलम् अनित्यं नाटकाकृतिर् ॥ इति** ॥**

तद् एवं निमित्तांशो जीव-माया उपादानांशो गुण-मायेत्य् अग्रेऽपि विवेचनीयम् । अथैवं सिद्धं गुण-मायाख्यं द्वितीयम् अप्य् अंशं दृष्टान्तेन स्पष्टयति, _यथा तम _इति । तमः-शब्देनात्र पूर्वोक्तं तमः-प्रायं वर्ण-शावल्यम् उच्यते । तद् यथा तन् मूल-ज्योतिष्य्-असद् अपि तद्-आश्रयत्वं विना न सम्भवति तद्वद् इयम् अपीति । अथवा मायामात्र-निरूपण एव पृथक् दृष्टान्त-द्वयम् । तत्राभास-दृष्टान्तो व्याख्यातः ।

तमो-दृष्टान्तश् च । यथान्धकारे ज्योतिषोऽन्यत्रैव प्रतीयते, ज्योतिर् विना च न प्रतीयते ज्योतिरात्मना चक्षुषैव तत् प्रतीतेर् न पृष्ठादिनेति तथेयम् अपीत्य् एवं ज्ञेयम् । ततश् चांश-द्वयं तु प्रवृत्ति-भेदेनैवोह्यं न तु दृष्टान्त-भेदेन । प्राक्तन-दृष्टान्त-द्वेधाभिप्रायेण तु पूर्वस्या आभास-पर्याय-च्छाया-शब्देन क्वचित् प्रयोगः उत्तरस्यास् तमः शब्देनैव चेति । यथा ससर्ज छाययाविद्यां पञ्च-पर्वाणम् अग्रतः [भा।पु। ३.२०.१८] इत्य् अत्र । यथा च क्वाहं तमो महद् अहं [भा।पु। १०.१४.११] इत्य् आदौ । पूर्वत्राविद्याविद्याख्य-निमित्त-शक्ति-वृत्तिकत्वाज् जीव्-विषयकत्वेन जीव-मायात्वम् ।

तथा ससर्जेत्य् आदौ छाया-शक्तिं मायाम् अवलम्ब्य सृष्ट्यारम्भे ब्रह्मा स्वयम् अविद्याम् आविर्भावितवान् इत्य् अर्थः ।

विद्याविद्ये मम तनू
व्द्ध्य् उद्धव शरीरिणाम् ।
बन्ध-मोक्ष-करी आद्ये
मायया मे विनिर्मित्ते ॥ [भा।पु। ११.११.३] इत्य् उक्तत्वात् ।

अनयोर् आविर्भाव-भेदश् च श्रूयते । तत्र पूर्वस्याः पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये देव-गण-कृत-माया-स्तुतौ—

इति स्तुतवन्तस् ते देवास् तेजो-मण्डल-संस्थितम् ।
ददृशुर् गगने तत्र तेजो-व्याप्त-दिग्-अन्तरम् ॥
तन्-मध्याद् भारतीं सर्वे शुश्रुवुर् व्योम-चारिणीम् ।
अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैर् गुणैः ॥ इत्य्-आदि ॥

उत्तरस्याः पाद्मोत्तर-खण्डे असङ्ख्यं प्रकृति-स्थानं निविड-ध्वान्तम् अवययम् इति ॥३३॥ (भगवत्-सन्दर्भ १६)

पूर्वं व्याख्यातम् एव। सङ्क्षेपश् चायम् अर्थः । परम-पुरुषार्थ-भूतं माम् ऋते मद्-दर्शनाद् अन्यत्रैव यत् प्रतीयते यच् चात्मनि न प्रतीयेत मां विना स्वतः प्रतीतिर् अपि यस्य नास्तीत्य् अर्थः तद् वस्तु आत्मनो मम परमेश्वरस्य मायां विद्यात् । अत्र दृष्टान्तः । यथाऽऽभासः प्रतिबिम्ब-रश्मिः । यथा च तमस् तिमिरम् इति । तत्राभासस्य तादृशत्वं स्पष्टम् एव । तमसोऽपि ज्योतिर् दर्शनाद् अन्यत्रैव प्रतीतेर् ज्योतिर् आत्मकं चक्षुर् विना चाप्रतीतिर् इति । विद्याद् इति प्रथम-पुरुष-निर्देशस्यायं भावः । अन्यान् प्रत्य् एव खल्व् अयम् उपदेशः । त्वं तु मद्-दत्त-शक्त्या साक्षाद् एवानुभवन्न् असीति । एवं मायिक-दृष्टिम् अतीत्यैव रूपादि-विशिष्टं माम् अनुभवेद् इति । व्यतिरेक-मुखेनानुभावनस्यायं भावः । शब्देन निर्धारितस्यापि सत्-स्वरूपादेर् माया-कार्यावेशेनैवानुभवो न भवति । अतस् तद्-अर्थं माया-त्यजनम् एव कर्तव्यम् इति । एतेन तद्-अविनाभावात् प्रेमाप्य् अनुभावित इति गम्यते ॥३३॥ (भगवत्-सन्दर्भ १०५)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, जीवस्य परमात्म-ज्ञान-विज्ञाने प्रति माया खल्व् अंशेनानुकूला प्रतिकूला च भवति । विज्ञाते च परमात्मनि मयि योग-मायैवाधिकरोति । सा खल्व् अनुकूलैवेति ते द्वे अवश्य-निरूपणीये इति ज्ञापयन् । यथात्म-माया-योगेन [भा।पु। २.९.२६] इत्य् अनेन व्यञ्जितस्य तव माया योग-माया च कीदृशी ? इति प्रश्नोत्तरं तन्त्रेणैव क्रमेणाह ऋतेऽर्थम् इति । यद् यतः अर्थं सत्यं वस्तु विना न प्रतीयते, किन्त्व् अर्थः सत्यं वस्त्व् एव प्रतीयेत इत्य् अर्थः । तथा, यतः अर्थं विना प्रतीयेत, अर्थो न प्रतीयेत, किन्त्व् अनर्थः प्रतीयेतेत्य् अर्थः । तत् ताम् आत्मनि स्वस्मिन् मुक्तो बद्धश् च जीव आत्मनो मम मायां क्रमेण विद्या अविद्येति वृत्ति-द्वयां मायाख्यां शक्तिं विद्यात् जानीयात् । विद्याया दृष्टान्तः । यथाभासो दीपादि-प्रकाशः । दीपादि-प्रकाशाद् यथा गृहे विद्यमानो घट-पटादिर् अर्थ एव प्रतीयते, न तु दीपानयनात् पूर्वं सम्भावितो घट-पटाद्य्-अभावः । तथा सर्प-वृश्चिकादिर् आगन्तुकश् च भय-कारणम् अनर्थः प्रतीयते । एवम् एव विद्याया हेतोर् मुक्तेन जीवेन स्वस्मिन्न् इत्य् असम्बन्धं ज्ञानादिकम् एव प्रतीयते, न त्व् अविद्यादशायाम् इव तद्-अभावः । नापि स्वस्मिन्न् असम्बन्धो देह-दैहिक-शोक-मोहादिकश् च प्रतीयते ।

अविद्याया दृष्टान्तः । यथा तमोऽन्धकारः । अन्धकाराद् यथा स्व-गृहे विद्यमानो घट-पटादिर् अर्थो न प्रतीयते, किन्त्व् अविद्यमानोऽपि सम्भाव्यमानः सर्प-चौरादिको भय-कारणम् अनर्थः प्रतीयते । एवम् एवाविद्याया हेतोर् एव बद्धेन जीवेन स्वस्मिन् नित्य-सम्बन्धितया वर्तमानम् अपि ज्ञानानन्दादिकं न प्रतीयते, किन्तु स्वस्मिन्न् असन्न् अपि स्व-सम्बन्धित्वेन वर्तमानो देह-दैहिकशोक-मोहादिर् एव प्रतीयते । तेन कुसुम-शृङ्गादीनां सत्यत्वेऽपि आकाश-शशादीनां तत्-सम्बन्ध-भावाद् एव आकाश-कुसुमम् अलीकं शश-शृङ्गम् अलीकम् इति यथोच्यते, तथैव देहानां तद्-धर्माणां शोक-मोह-सुख-दुःखादीनां च प्राधानिकत्वात् सत्यत्वेऽपि जीवस्य तत्-सम्बन्धाभावाद् एव देहादयो मिथ्या-भूता इति शास्तेषूच्यते । जीवस्य मिथ्या-भूतोऽपि देह-सम्बन्धः खल्व् अविद्यया कल्प्यते, विद्यया लुप्यते इति विद्याविद्ययोर् दृष्टान्तावाभास-तामसी । इत्य् अत्र छाया-तपौ यत्र न गृध्र-पक्षौ [भा।पु। ८.५.२७] इत्य् अष्टम-स्कन्ध एव प्रमाणं ज्ञेयम् ।

केचित् तु—तमो-दृष्टान्तोऽयम् आवरणांश एव, आवरण-विक्षेपयोस् तु दृष्टान्ताः सर्प-व्याघ्र-भूतावेशाद्या ज्ञेयाः इत्य् आहुस् तेऽपि तामस्त्वात् तमः-शब्देनैव ग्राह्या इत्य् अपरे। एवं जीवे सार्वदिक्-विद्यमान-वस्त्व्-अप्रत्यायनं चेत्य् अविद्याया धर्मावरण-विक्षेप-शब्दाभ्याम् उच्यते ।

अथार्थ-शब्दस्य धन-वाचित्वात् श्लेषेण भाग्य-प्राप्त-स्वीय-बहु-धनो वणिग् इव विद्यालब्ध-ज्ञानानन्दो मुक्तः सम्पन्नत्वेन निरूप्यते, तथा अभाग्यानधिगत-स्वीय-धनो वणिग् इवाविद्यावृत-ज्ञानानन्दो बद्ध-जीवो दरिद्रत्वेनेति ज्ञेयम् । एवं विद्यया त्वं-पदार्थस्य जीवात्मनोऽनुभवो भवति, न तु तत्-पदार्थस्य परमात्मनः तस्य निर्गुणत्वान् निर्गुणया भक्यैवापरोक्षानुभवः सम्भवेत् । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति भगवद्-उक्तेः । किं च, कैवल्यं सात्त्विकं ज्ञानं [भा।पु। ११.२५.२४] इति भगवद्-उक्तेः । देहादि-व्यतिरिक्तात्म-ज्ञान-रूपा येयं विद्या, तस्याः सत्त्व-गुणत्वाद् अनया गुणातीतस्य परमात्मनो नैवानुभवः । प्रत्युतास्या अप्य् अपाय एव । यद् उक्तं भगवता—

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर् निष्ठा त्रै-गुण्यः सर्व एव हि ॥
येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः ।
भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ [भा।पु। ११.२५.३०, ३२] इति ।

ननु, तर्हि मुक्त-जीवेन परमात्मनोऽपरोक्षानुभवार्थं भक्तिः कुतो लभ्यताम् ? उच्यते ज्ञानाधिकारिणः साङ्ख्य-योग-तप-आदिभिर् भक्ति-मिश्रैर् एव जनितया विद्यया अविद्यानिवर्तिकया प्रथमं त्वं-पदार्थानुभवः । ततस् त्वस्याविद्यातो विमुक्तस्य निरिन्धनाग्नि-न्यायेन विद्याया अप्य् उपरम-तारतम्येन पूर्व-सिद्ध-भक्ति-चन्द्र-कलायास् तद्-उपराग-विच्युतायास् तत उद्गम-तारतम्यम् । तयैव भक्त्या पुनाह् पुनर् अभ्यस्तया तत्-पदार्थस्य परमात्मानोऽनुभव-तारतम्यम् । यद् उक्तं भगवता गीतासु—

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ [गीता १८.५४] इति ।

परां पौर्वकालीक-गुणी-भाव-राहित्यात् श्रेष्ठां केवलां वा । ततश् च—भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [गीता १८.५५] इत्य् उक्तेर् जाति-प्रमाणाभ्याम् अल्पीयस्या तया भक्त्या निर्विशेष-ब्रह्मण एवानुभव न त्व् अनन्त-चिद्-विशेष-ब्रह्मणो भगवतः । यथा अल्प-तेजस्वि-चक्षुष्केण जनेन मणि-मयी मूर्तिः सामान्यतस् तेजोमय्य् एव दृश्यते, न तु मुख-नासिका-नेत्र-कर्णादि-विशेष-मयी ।

ततश् च विद्यायाः सामस्त्येनैवोपरमे सत्य् उद्भूत-नैर्गुण्यस्य तस्य तयैव भक्त्या ब्रह्मानुभवस्यापि पूर्णत्वम् एतद् एव निर्वाण-शब्द-वाच्यं जीव-ब्रह्मैक्यम् । यद् उक्तं तत्रैव—ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरं [गीता १८.५५] इति ।

यत् तु चिच्-छक्ति-वृत्तीनां सार-भूता कृपा-विलास-रूपा परमोत्तमा शुद्धा भक्तिर् जाति-प्रमाणाभ्याम् अत्यधिका सा प्रबला परम-स्वतन्त्रा गुण-दोषादिकम् अप्य् अगणयन्ती बद्धेऽपि जीवे राक्षस-पुलिन्द-पुक्कशादौ दुराचारेऽपि यदृच्छयैवोदयते विप्रे सन्न्यासिनि मुक्तेऽपि नोदयते, तयैवाविद्या-पर्यन्त-समस्त-क्लेश-ध्वंसः । यद् उक्तं—जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३३] इति । तयैवानन्त-चिद्-विशेषस्य भगवतोऽप्य् अपरोक्षानुभवो भवेत् । यथा बहुतर-तेजस्वि-स्व-चक्षुष्केण जनेन सामान्यतस् तेजोमयी विशेषतश् च मुख-नासिका-नेत्र-कर्णादि-सौन्दर्य-मयी च मूर्तिर् भद्रेणैव दृश्यत इति ।

तद् एवं भक्ति-द्विविधा—निर्गुणा गुण-मयी च । तत्राद्यया पाक-दशायां प्रेम-भक्ति-संज्ञया भगवद्-वशीकारः, सच्-चिद्-आनन्द-मय-भगवद्-रूप-गुण-लीला-माधुर्यानुभवश् च । द्वितीयया सात्त्विक्या सत्त्व-गुणाद् विच्युतयैव निर्विशेष-ब्रह्म-सुखानुभव-मात्रम् इति । तस्माद् ब्रह्म-सुखानुभव-दशातः पूर्वास्व् एव दशासु जीवेषु मायाया अधिकार इति सिद्धम् ।

“सत्यम् एव प्रतीतं स्याद् यतोऽसत्यं तथा यतः तद् विद्याद् आत्मनो मायां यथाभासो यथा तमः” इत्य् अनुक्तेर् इत्य् अनास्मिन्न् अर्थेऽप्य् आशय ईक्षते । ऋतेऽर्थ-शब्दौ परिवृत्त्य्-असहाव् अर्पितौ यतः । स चार्थो यथा, ब्रह्मानुभववत्स्व् अपि जनेषु नाना-विधेषु या स्पष्टम् अधिकरोति भगवद्-इच्छा-वशात् त्वदीय-स्वरूप-गुण-लीला-प्रकाशावरण-धुरन्धरा स्वरूप-भूता शक्तिस् तस्या योग-मायाया अपि लक्षणं तन्त्रेणैवाह ऋते इति आत्मनि परमात्मनि मयि ऋते ज्ञाते सति, अर्तेर्र् गत्य्-अर्थत्वेन ज्ञानार्थत्वात् साक्षाद्-अनुभूते सतीत्य् अर्थः ।

यद् इतीन् गतौ शत्र्-अन्तं, तत्-पदेनैव यत्-पदस्याक्षेपात् । यतः अर्थं यत् प्रयोजनं प्राप्नुवद् वस्तु अप्राकृतं प्राकृतं च प्रतीयेत, यया प्रकाशितं सत् स-प्रयोजनं वस्तु परमात्म-साक्षात्कारवता जनेन साक्षाद् अनुभूयेत्य् अर्थः । यतः सकाशात् न प्रतीयेत च, यया आवृतं तदैव वा समयान्तरे वा न प्रतीयेतेत्य् अर्थः । ताम् आत्मनो भगवतो मम मायां योगमायाख्याम् अन्तरङ्गां शक्तिं विद्यात् जानीयात् । मायया प्रयोजनं विनैवाव्रियते, योगमायया तु प्रयोजनम् उद्दिश्यैवेति विवेचनीयम् । यथाभासो यथा तम इति आभासेन दीपादिना प्रकाशितं घट-पटादिकं यथा प्रतीयेत तमसा आवृतं तन् नानुभूयेत च । तथैव सा मद्-इच्छा-वशाद् आभास-तमो-धर्मवती योगमायेत्य् अर्थः । उदाहरणं तु यथा—ऐश्वर्य-दर्शनेऽपि प्रेम-सङ्कोचाभाव-ज्ञापनार्थं भगवत्-कुक्षौ यया प्रकाशितं प्राकृतं विश्वम् अप्राकृतं गोकुल-यशोदा-कृष्णादि-स्वरूपं च यया मोहिता श्री-यशोदा साक्षाद् अनुबभूव, क्षणान्तरे च यया आवरणान् नानुबभूव च ।

यथा चैश्वर्यानुभूत्या प्रेम-सङ्कोच-ज्ञापनार्थं यया प्रकाशितं विश्व-रूपं परमात्म-स्वरूपं चार्जुनः साक्षाद् अनुबभूव, तत्रैव वर्तमानम् अपि कृष्ण-स्वरूपं यया आवरणान् नानुबभूव, समयान्तरे च ययाच्छादितं विश्व-रूपादिकं नानुबभूव, द्विभुजं श्री-कृष्णम् एवानुबभूव । अत्रैकदैव एकस्य स्वरूपस्य प्रकाशनम् अन्यस्यावरणम् इति पूर्वतो विशेषः ।

यथा मञ्जु-महिम-दर्शनया ब्रह्मण ईश्वरत्वाभिमान-निवर्तनार्थं यया आवरण-प्रकाशनाभ्यां लीला-परिकर-वत्स-बालाद्य्-अदर्शन-कृष्ण-स्वरूप-भूत-वत्स-बालादि-दर्शन-तद्-अदर्शन-चतुर्भुजादि-दर्शन-तद्-अदर्शन-श्री-कृष्ण-स्वरूप-दर्शनानि प्राप, यया मोहितः परमेष्ठी । अत्रैकस्मिन्न् एव परमेष्ठिनि विविध-स्वरूपावरण-प्रकाशनयोः पौनःपुन्यम् इति विशेषः ।

यथा च भगवद्-वपुः स्वरूपत एव परिच्छिन्नम् अपरिच्छिन्नं चातर्क्यम् इति ज्ञापनार्थं, तथा केवल-भजन-श्रमस् तज्-जन्या भगवत्-कृपा चेत्य् उभयाभ्याम् एव भगवद्-वशीकार इति ज्ञापनार्थं च दाम-बन्धन-लीलायां युगपद् एव यशोदा-कृष्णयोर् अभीप्सते बन्धनाबन्धने विभुत्वस्य युगपद् एवावरण-प्रकाशनाभ्यां वेष्टयन्त्या किङ्किण्या द्व्य्-अङ्गुल-न्यून-दाम्ना चावेष्टयता सूचिते दर्शयन्त्यापि वस्तुतः कृष्णस्यैवाभीप्सितम् अबन्धनं साधयन्त्या यया मोहिता व्रजेश्वरी विस्मय-रसं क्षणम् अनुबभूव । पश्चात् तस्या अप्य् अभीप्सितं कृष्ण-संमत्या साधयितुं विभुत्वं यया खल्व् आवृतम् एवेत्य् अतः सा कृष्णं बबन्धैव । तत्रैकदैवैकस्यैव विभुत्वस्यावरण-प्रकाशेन इति पूर्व-पूर्वतो विशेषः ।

यथा च प्रतिस्व-निमन्त्रणादि-सिद्ध्य्-अर्थं श्रुतदेव-बहुलाश्व-रुक्मिणी-सत्यभामादि-गृह-स्थितस्य तस्य तत्-तत्-स्वरूपस्य ययैव युगपद् एवावरण-प्रकाशनाभ्यां तत्र तत्र लीला-सिद्धिर् व्याख्यास्यते । अत्र श्रुतदेव-बहुलाश्वदि-व्यक्ति-भेदम् अपेक्षैवावरण-प्रकाशनयोर् यौगपद्यं पूर्वत्रैकस्यां यशोदायाम् एवेति विशेषः । सा खलु योगमायैव, न तु माया । तया मोहितानाम् अपि तेषां परमात्म-साक्षात्कार-दर्शनात् । स परमात्म-साक्षात्कारो भक्ति-मिश्र-ज्ञानवताम् अविद्याविद्ययोर् उपरामे सति तथैवावतार-समये कृष्णं प्रीत्या पश्यतां तत्-कृपा-विषयीभूतत्वाद् अप्रेमवताम् अपि, अन्यदा तु प्रेमवताम् एव कृष्ण-रामादि-साक्षात्कारो भागवत-मतेनोच्यते । तेषु योगमायैवाधिकरोति, न तु माया । कृष्णं तदीच्छया पश्यताम् अपि कंसादीनां द्वेष-लक्षणान्तः-करण-दोषाद् एव न परमात्म-साक्षात्कारो यथा, मत्स्यण्डिकां भुञ्जानानाम् अपि पित्त-दूषित-रसनानां न मत्स्यण्डिकास्वादानुभवः । तेषु मायैवाधिकरोति, न तु योगमाया । माया-शक्तिश् च योग-मायोत्था तस्या विभूतिर् एव । यद् उक्तं नारद-पञ्चरात्रे श्रुति-विद्या-संवादे—

अस्या आवरणिका शक्तिर् महा-मायाखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः ॥ इति ।

भगवता स्व-स्वरूपत्वेनाभिमन्यमाना योगमाया-शक्तिश् चिद् एव । सैवांशेन स्वेच्छा-वशात् स्व-स्वरूपत्वेनानभिमन्यमाना स्व-स्वरूपात् पृथग्-भूता सती माया-शक्तिर् जडैव । यथा सर्पस्य स्वरूप-भूतापि त्वक् तेन त्यक्ता चेत्, ततः पृथग्-भूतं कञ्चुकं जडं स्यात् । तथोक्तं श्रुतिभिः—त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगः इति ।

सा च माया त्रिविधा—प्रधानम् अविद्या विद्या च । प्रधानस्य लक्षणं जायन्तेयोपाख्याने वक्ष्यते—प्रधानेनोपाधयः सृज्यन्ते ते च सत्या एव । अविद्यया जीवेषु तद्-अध्यासः सृष्टः स चासत्य एव । विद्यया तद्-अध्यास-ध्वंस इति तिसृणां शक्तीनां कार्यम् । तत्-तन्-मयं जगद् इदम् अंशेन सत्यम् अंशेनासत्यम् । तथा जीवानां नित्यत्वात् भगवन्-निकेतनादि-भक्त्य्-उपकरणानां निर्गुणत्वाच् चांशेन नित्यत्वम् अपि वादिभिर् यथा स्व-मतं नाना-रूपतया निरूपितम् ।

कार्यं प्राधानिकं सत्यं कार्यं विद्यकं मृषा ।
नित्यं तद्-भक्ति-सम्बन्धम् इदं तत् त्रितयात्मकम् ॥
प्राधानिकाः स्युर् देहास् तद्-धर्मा आविद्यकाः पुनः ।
जीवेषु तत्-तत्-सम्बन्दो भक्तिश् चेन् निर्गुणाश् च ते ॥
चिज्-जीव-माया नित्याः स्युस् तिस्रः कृष्णस्य शक्तयः ।
तद्-वृत्तयश् च ताभिः स भात्य् एकः परमेश्वरः ।
कार्य-कारणयोर् ऐक्याच् छक्ति-शक्तिमतोर् अपि ।
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥
भक्तानाम् एव सिद्धान्तश् चतुःश्लोकीय-मीलिता ।
शीलिता भवताद् भक्तैस् तैर् एव न किलापरैः ॥ इति ॥३३॥

———————————————————————————————————————

**श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-भाष्यं **: ननु इमम् अर्थं सर्वे कथं नानुभवन्ति ? तत्राह—ऋतेऽर्थम् इति । एतद् एव परम-कौतुकं तत् तां भ्रू-क्षेपेण सकल-भुवनं नखराग्रे नर्तयन्तीम् आत्मनो मम मायां विद्यात् । ऋते सत्ये चात्मनि मयीमम् अर्थं परम-पुरुषार्थ-रूपं प्रेमाणं यत् यस्याः प्रभावेन न करोति । नञः प्रथम-पदेनान्वयः । आत्मनि आत्मौपम्येषु स्त्री-पुत्रादिषु प्रतीयते करोति च । वैपरीत्ये दृष्टान्तः—यथाभासः घटादि-ज्ञानं न करोति, तमस् तु करोत्य् एव । मम मायैव आत्मतिशयेन विद्यात् विद्याम् अत्तीति ॥३३॥

———————————————————————————————————————

॥ २.९.३४ ॥

यथा महान्ति भूतानि भूतेषूच्चावचेष्व् अनु ।
प्रविष्टान्य् अप्रविष्टानि तथा तेषु न तेष्व् अहम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

यथा महान्ति भूतानि शरीरेषु बहिस् तथा ।

एवं हरिश् च भूतेषु बहिश् च व्याप्ति-हेतुतः ।
तस्मात् तत्-स्थो न तत्-स्थश् च प्रोच्यते हरिर् ईश्वरः ॥ इति ॥३४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथाभाव इत्य् एतत् स्पष्टयति । यथा महाभूतानि भौतिकेष्व् अनु सृष्टेर् अनन्तरं प्रविष्टानि तेषूपलभ्यमानत्वात् । अप्रविष्टानि च प्राग् एव कारणतया तेषु विद्यमानत्वात् । तथा तेषु भूतभौतिकेष्व् अहं न च तेष्व् अहम् । एवंभूता मम सत्तेत्य् अर्थः ॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति अलौकिक्येव मम सत्तेति भावः । सन्दर्भ अथ तस्यैव प्रेम्णोरहस्यत्त्वं बोधयति यथेति । यथा महान्ति भूतानि भूतेष्वप्रविष्टानि बहिःस्थितानामप्यनुप्रविष्टान्न्यन्तःस्थितानि भान्ति तथा लोकातीतवैकुण्ठस्थितत्वेनाप्रविष्टोप्यहं तेषु तत्तद्गुणविख्यातेषु प्रणतजनेषु प्रविष्टो हृदि स्थितोऽहं भामि तत्र महाभूतानामंशभेदेन प्रवेशाप्रवेशौ तस्य तु प्रकाशभेदेनेति भेदोऽपि प्रवेशाप्रवेशमात्रसाम्येन दृष्टान्तः तदेवं तेषां तादृगात्मवशकारिणी प्रेमभक्तिर्नाम रहस्यम् इति सूचितं तथा च ब्रह्मसंहितायाम् ।

आनन्दचिन्मयरसप्रतिभाविताभिस्ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो गोविंदमादिपुरुषं तमहं भजामि ॥ प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेऽपि विलोकयन्ति ।

तं श्यामसुन्दरमचिन्त्यगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि इति ।

अचिन्त्यगुणस्वरूपम् अपि प्रेमाख्यं यदञ्जनच्छुरितवदुच्चैः प्रकाशमानं भक्तिरूपं विलोचनं तेनेत्यर्थः । यद् वा, यथा तेषु तानि बहिःस्थितानि च भान्ति तथा भक्तेष्वप्यहमन्तर्ममोवृत्तिषु बहिरिन्द्रियवृत्तिं च विस्फुरामीति भक्तेषु सर्वथानन्यवृत्तिता हेतुर्नाम किम् अपि स्वप्रकाशं प्रेमाख्यमानन्दात्मक वस्तु मम रहस्यम् इति भावः । तथैव श्रीब्रह्माणोक्तं—

न भारती मेङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः ।

न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥

इति यद्यपि व्याख्यान्तरानुसारेणायमर्थोपलपनीयः स्यात्तथाप्यस्मिन्नेवार्थे तत्पर्यं प्रतिज्ञाचतुष्टयसाधनायोपक्रन्तात्वात्तदनुक्रमगतत्वाञ्च । किं च, र्थे न तेष्वातिछिन्नपदं व्यर्थं स्यात दृष्टान्तस्यैव क्रियाभ्यामन्वयोपपत्तेः । पि च रहस्यं नाम ह्येतद् एव यत्परमदुर्लभं वस्तु इष्टोदासीनजनदृष्टिनिवारणार्थं साधारणवस्त्वन्तरेणचछाद्यते तथा चिन्तामणेः सम्पुटादिना अत एवं परोक्षवादा ऋषयः परोक्षं मम च प्रियम् इति भगवद्वाक्यं तद् एव च परोक्षं क्रियते यददेयं विरलप्रचारं महद्वस्तु भवति तस्यैवादेयत्वं विरलप्रचारं महत्वं च मुक्तिं ददाति कर्हिचित्स्म न भक्ति-योगम् । इत्यादौ मुक्तानाम् अपि सिद्धानाम् इत्यादौ भक्तिः सिद्धेर्गरीयसी य़त्यादौ च बहुत्र व्यक्तं स्वयं चैतद् एव श्रीभगवता परमभक्ताभ्यामर्जुनोद्धवाभ्यों कष्टोक्त्यैव कथितं सर्वं गुह्यतमं भूयः शृणु मे परमं वचः इत्य्-आदिना सुगोप्यम् अपि वक्ष्यामि इत्य्-आदिना च इदम् एव रहस्यं श्री-नारदाय स्वयं ब्रह्मणैव प्रकटीकृतम् ।

इदं भागवतं नाम यन्मे भगवतोदितम् ।
संग्रहोयं विभूतीनां त्वमेतद्विपुलीकुरु ॥
यथा हरौ भगवति नृणां भक्तिभविष्यति ।

सर्वात्मन्यखिलाधारे इति सम्कल्प्य वर्णय ॥ इति ।

तस्मात्साधु व्याख्यातं स्वामिचरणैर् अपि रहस्यं भक्तिरिति । विश्वनाथस्तु एवं च मायां योगमायाञ्च तन्त्रेणैव लक्षयित्वा ताभ्यामधिकृतेषु सगुणनिर्गुणलोकेषु ब्रह्मणा पृष्टं स्वस्वप्रकारं तन्त्रेणैवाह यथेति । यथा महाभूतान्याकाशादीनि भूतेषु देवमनुष्यतिर्यगादिष्वनुप्रविष्टानि तेषुपलभ्यमानत्वात् । अप्राविष्टानि च पृथग्विद्यमानत्वात् । तथा तेषु भूतभौतिकेष्वहं प्रविष्टः सान्नपि पृथक्शद्धसत्त्वात्मकत्वधामनि वर्तमानत्वादप्रविष्टश्चास्मि । किं तु महाभूतानामचेतनत्वाद् एव तेषु भूतेषु प्रवेश आसङ्गरहितः मम तु चेतनत्वेप्याकाश इवासौ खगृहेष्वलिप्त एव वसतीतिवत्तेषु सर्वेषु प्रवेशनियमनपालनादीन्यासङ्गरहितानीत्येवम्भूतेषु मायिकेष्वासङ्गरहितैव क्रीडेति भावः । तथा तेषु प्रसिद्धेषु नतेषु प्रणतभक्तजनेषु प्रविष्टोन्तःकरणेषु दर्शनं दातुं तथाप्रविष्टः बहिस्थितश् च तेषां नयनेषु खसौन्दर्यमर्पयितुं नासासु स्वसौरभ्यं प्रवेशयितुं तैः सहोक्तिप्रत्युक्ती कुर्वंस्तेषां कर्णेषु स्वसौस्वर्यामृतं पूरयितुं स्पर्शनालिङ्गनादिदानैस्तेषामङ्गेषु स्वीयसौकुमार्यादिकं चानुभावयितुम् इति तेषु गुणातीतभक्तेष्वन्तर्बहिर्मयात्यक्तुमशक्येष्वासङ्गसहितैव मम क्रीडेवि भावः ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तस्यैव प्रेम्नो रहस्यत्वं बोधयति—यथा महान्तीत्य् आदि ।यथा महाभूतानि भूतेष्व् अप्रविष्टानि बहिः-स्थितान्य् अपि अनुप्रविष्टान्य् अन्तः-स्थितानि भान्ति । तथा लोकातीत-वैकुण्ठ-स्थितत्वेनाप्रविष्टोऽप्य् अहं तेषु तत्-तद्-गुण-विख्यातेषु न तेषु प्रणत-जनेषु प्रविष्टो हृदि स्थितोऽहं भामि । अत्र महाभूतानाम् अंश-भेदेन प्रवेशाप्रवेशौ तस्य तु प्रकाश-भेदेनेति भेदेऽपि प्रवेशाप्रवेश-मात्र-साम्येन दृष्टान्तः । तद् एवं तेषां तादृग्-आत्म-वशकारिणी प्रेम-भक्तिर् नाम रहस्यम् इति सूचितम् ।

तथा च ब्रह्म-संहितायाम्—

आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.२९]
प्रेमाञ्जन-च्छुरित-भक्ति-विलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरम् अचिन्त्य-गुण-स्वरूपं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३०]

अचिन्त्य-गुण-स्वरूपम् अपि प्रेमाख्यं यद् अञ्जनं तेन च्छुरितवत् उच्चैः प्रकाशमानं भक्ति-रूपं विलोचनं तेन इत्य् अर्थः ।

ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्य् अहम् । इति [गीता ९.२९] गीतोपनिषदश् च ।24

यद् वा, तेषु यथा तानि बहिः-स्थितानि चान्तः-स्थितानि च भान्ति तद्वत् भक्तेषु अहम् अन्तर्-मनो-वृत्तिषु बहिर्-इन्द्रिय-वृत्तिषु च स्फुरामीति च । भक्तेषु सर्वथाऽनन्य-वृत्तिता-हेतुर् नाम किम् अपि स्व-प्रकाशं प्रेमाख्यम् आनन्दात्मकं वस्तु मम रहस्यम् इति व्यञ्जितम् । तथैव श्री-ब्रह्मणोक्तम्—

न भारती मेऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन् मे मनसो मृषा गतिः ।
न मे हृषीकाणि पतन्त्य् असत्-पथे
यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ [भा।पु। २.६.३४] इति ।

यद्यपि व्याख्यान्तरानुसारेणायम् अर्थोऽपलपनीयः स्यात् तथाप्य् अस्मिन्न् एवार्थे तात्पर्यं प्रतिज्ञा-चतुष्टय-साधनायोपक्रान्तत्वात् तद्-अनुक्त्रम-गतत्वाच् च । किं तस्मिन्न् अर्थे न तेषु इति छिन्न-पदम् अपि व्यर्थं स्यात्, दृष्टान्तस्यैव क्रियाभ्याम् अन्वयोपपत्तेः । अपि च रहस्यं नाम ह्य् एतद् एव यत् परम-दुर्लभं वस्तु दुष्टोदासीन-जन-दृष्टि-निवारणार्थं साधारण-वस्त्व्-अन्तरेणाच्छाद्यते । यथा चिन्तामणिः सम्पुटादिना ।

अत एव परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् इति [भा।पु। ११.२१.३५] श्री-भगवद्-वाक्यं च । तद् एवं परोक्षं क्रियते यद् अदेयं विरल-प्रचारं महद् वस्तु भवति । अस्यैवादेयत्वं विरल-विचारत्वं महत्त्वं च, मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इत्य् आदौ, मुक्तानाम् अपि सिद्धानाम् इत्य् आदौ, भक्तिः सिद्धेर् गरीयसी इत्य् आदौ च सर्वत्र व्यक्तम् ।

स्वयं चैतद् एव श्री-भगवता परम-भक्ताभ्याम् अर्जुनोद्धवाभ्यां कण्ठोक्त्यैव कथितम् । सर्व-गुह्यतमं भूयः शृणु मे परमं वच इत्य्-आदिना सुगोप्यम् अपि वक्ष्यामीत्य् आदिना च । इदम् एव रहस्यं श्री-नारदाय स्वयं श्री-ब्रह्मणैव प्रकटीकृतम्—

इदं भागवतं नाम यन् मे भगवतोदितम् ।

सङ्ग्रहोऽयं विभूतीनां त्वम् एतद् विपुली कुरु ॥

यथा हरौ भगवति नृणां भक्तिर् भविष्यति ।

सर्वात्मन्य् अखिलाधारे इति सङ्कल्प्य वर्णय ॥ [भा।पु। २.७.५१-५२] इति ।

तस्मात् साधु व्याख्यातं स्वामि-चरणैर् अपि रहस्यं भक्तिर् इति ॥ (भगवत्-सन्दर्भ १०६)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं मायां योग-मायां च तन्त्रेणैव लक्षयित्वा ताभ्याम् अधिकृतेषु स-गुण-निर्गुण-लोकेषु ब्रह्मणा पृष्टं स्व-क्रीडा-प्रकारं तन्त्रेणैवाह—यथेति । यथा महा-भूतान्य् आकाशादीनि भूतेषु देव-मनुष्य-तिर्यग्-आदिषु अनुप्रविष्टानि तेषूपलभ्यमानत्वात्, अप्रविष्टानि च पृथग्-विद्यमानत्वात्, तथा तेषु भूत-भौतिकेष्व् अहं प्रविष्टः सन्न् अपि, पृथक्-शुद्ध-सत्त्वात्मक-स्व-धामनि वर्तमानत्वाद् अप्रविष्टश् चास्मि, किन्तु महा-भूतानाम् अचेतनत्वाद् एव भूतेषु प्रवेश आसङ्ग-रहितः, मम तु चेतनत्वेऽपि आकाशवद् असौ स्व-गृहेष्व् अवलिप्त एव वसतीतिवत् तेषु सर्वेषु प्रवेश-नियमन-पालनादीन्य् आसङ्ग-रहितापीत्य् एवं-भूता भूतेषु मायिकेष्व् आसङ्ग-रहितैव क्रीडेति भावः ।

तथा तेषु प्रसिद्धेषु नतेषु प्रणत-भक्त-जनेषु प्रविष्टान्तःकरणेषु दर्शनं दातुं, तथा अप्रविष्टः बहिः-स्थितश् च तेषां नयनेषु स्व-सौन्दर्यम् अर्पयितुं, नासासु स्व-सौरभ्यं प्रवेशयितुं, तैः सहोक्ति-प्रत्युक्ती कुर्वन् तेषां कर्णेषु स्व-सौस्वर्यामृतं पूरयितुं, स्पर्शनालिङ्गनादि-दानैस् तेषाम् अङ्गेषु स्वीय-सौकुमार्य-माधुर्यादिकं चानुभावयितुम् इति तेषु गुणातीत-भक्तेष्व् अन्तर् बहिर् यया त्यक्तुम् अशक्येष्व् आसङ्ग-सहितैव मम क्रीडेति भावः ॥३४॥

———————————————————————————————————————

**श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-भाष्यं **: पुनर् अपि महाशयः आत्मनो विभुत्व-परिच्छन्नत्वे लीलायाः प्रकटत्वाप्रकटत्वे दृष्टान्तेन निरूपयति, यथा महान्तीति । पृथ्व्य्-अप्-तेजो-वाय्व्-आकाशानि विभूनि परिच्छिन्नानि च । प्रकटान्य् अप्रकटानि च । पृथिवी व्यापिका अनन्त-कोटि-ब्रह्माण्डात्मिका परिच्छिन्ना लोष्ट्रादि-रूपा । जलं व्यापि कारणार्णव-रूपं ब्रहाण्डाधारं करकादि-रूपम् । तेजो व्यापि सूक्ष्मं ब्रह्मादि-रूपं, परिच्छिन्नं दीप-शिखादि-रूपम् । वायुर् व्यापी सर्व-गतः परिच्छिन्नो वात्यादि-रूपः । आकाशं सर्व-गतं व्यापि, परिच्छिन्नं घटाकाशादि-रूपम् । एवम् अहं न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरं [भा।पु। १०.९.१३] इत्य्-आदिना विभुः । बबन्ध प्राकृतं यथा [भा।पु। १०.९.१४] इत्य्-आदिना परिच्छिन्नः । अनन्त-कोटि-ब्रह्माण्डान्तर्यामितया विभुः , द्विभुज-चतुर्भुजादि-रूपतया परिच्छिन्नः । तथा हि, विभुर् अपि भुज-युग्मोत्सङ्ग-पर्याप्त-मूर्तिः [भ।र।सि। २.१.१९८] अचिन्तानन्त-शक्तित्वात् । परं पृथिव्याद्य्-अपञ्चीकृतास् तन्-मात्रा-गन्धादि-रूपाः प्रविष्टा अदृश्याः सूक्ष्म-रूपाः योगि-प्रत्यक्षाः । अप्रविष्टाश् च स्थूल-रूपा पञ्चीकृता मूर्तमत्त्वाच् च । एवम् अहं विराड् अन्तर्यामितया प्रविष्टः, द्विभुजादि-रूपाप्रविष्टः । तथा च गीतोपनिषदि (विभुत्वे) विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२], ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति [गीता १८.६१], इत्य् आदि । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [गीता ७.१४], माम् अप्राप्यैव कौन्तेय [गीता १६.२०], मां कृष्ण-रूपं परिच्छिन्नम् । परं च यद् वाग् आह शरीरिणी । आकाश-वाण्या दिकम् अपि श्रूयते तद् अपरिच्छिन्नस्य । एवं मम लीलाया अपि अपरिच्छिन्न त्व् अ-परिच्छिन्नत्वे, यथा सदानन्तैः प्रकाशैः स्वैर् लीलाभिश् च स दीव्यति [लघुभगवत्-सन्दर्भा। १.७.१५] इत्य् अत्रानन्त-शब्देनापरिच्छिन्न त्व् अं गोकुले मथुरायां च द्वारवत्यां ततः क्रमात् **श्रीधरः **[१० उपक्रमणिका ६] इत्य् अनेन परिच्छिन्न त्व् अम् । क्वचित् प्रकटत्वं क्वचिद् अप्रकटत्वं, यथा—मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भा।पु। १०.१.२८] इत्य्-आदिना प्रकट-लीलायां द्वारकायां श्रियः-पतिः स्व-जन्मना चङ्क्रमणेन चाञ्चति [भा।पु। १.१०.२६] इति द्वारका-वासि-वर्तमान-काल-प्रयोगात् गोकुले च । अप्रकट-नित्य-लीला सूच्यते इति दिक् ॥३४॥

———————————————————————————————————————

॥ २.९.३५ ॥

एतावद् एव जिज्ञास्यं तत्त्व-जिज्ञासुनात्मनः ।
अन्वय-व्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अन्य-भावाभाव-काल-देशे तद्-विद्यमानाविद्यमान-शक्तिमांश् चेत्य् अन्वय-व्यतिरेकौ ॥३५ ॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : साधनम् आह । आत्मनस् तत्त्व-जिज्ञासुना एतावत्त्वम् एव जिज्ञास्यं विचार्यम् । तद् एवाह । अन्वयः25 कार्येषु कारणत्वेनानुवृत्तिः । कारणावस्थायां च तेभ्यो व्यतिरेकः । तथा जाग्रद्-आद्य्-अवस्थासु तत्-तत्-साक्षितयान्वयः । व्यतिरेकश् च समाध्य्-आदौ । एवम् अन्वय-व्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा च तद्26 एवात्मेति ॥३५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः इति ब्रह्मणा प्रार्थितस्य स्वप्राप्तिसाधनस्यातिरहस्यत्वाद्वहिरङ्गजनागम्यतयैवाह एतावदेवेति । अत्र बहुतरशास्त्रानुसन्धानम् अपि नापेक्षितव्यम् इति भावः । तत्त्वजिज्ञासुना आत्मनः स्वस्य श्रेयः साधन त्व् अं ज्ञातुमिच्छ्र्ना जनेन जिज्ञास्यं श्रीगुरुचरणेभ्यः शिक्षणीयमित्य् अर्थः । त्वया तु मद्-अनुग्रहादवगम्यत एवेति भावः । किं तत् यच्छेयः साधनेष कर्मज्ञानयोगभक्त्यादिष मध्येऽन्वयव्यतिरेकाभ्यां स्यात् सिध्यति स्थिरीभवतीत्य् अर्थः । अत्र तावत्स्वर्गापवर्गादेः कर्मज्ञानयोगादिभिः केवलैरसिद्वैस्तैर्विनापि सिद्धेः । कर्मज्ञानयोगादयोऽन्वयव्यतिरेकाभ्यां नैव साधनानि स्युस्तथा हि कोवार्थ आप्तोऽभजतां स्वधर्मतः इति क्लिश्यन्ति ये केवलबोधलब्धये इति पुरेह भूमन्बहवोऽपि योगिनः इति यत्कर्मभिर्यत्तपसा इत्यादौ कर्मादिभिर्विनापि ॥

सर्वं मद्भक्ति-योगेन मद्भक्तो लभतेञ्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ इति ।
या वै साधनसम्पत्तिः पुरुषार्थचतुष्टये ।
तया विना तदाप्नोति नरो नारायणाश्रयः ॥

इति मोक्ष-धर्मीयवचनं च । भक्त्या तु केवलयैव सर्वाणि श्रेयांसि सिद्ध्यन्ति तया विना तु नैव सिद्ध्यन्तीत्यन्वयव्यतिरेकाभ्यां भक्तिर् एव सर्वश्रेयःसाधनत्वेन स्थिरीभवति तथाहि अन्वयेन यथा—

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥

इति भक्ति-योगस्य केवलस्यैव तीव्रत्वं निरभ्रसूर्यस्येवेति ज्ञेयम् । यथा वा यत् कर्मभिर् यत् तपसा इत्य्-आदि-व्यतिरेकेण यथा—

मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ इति ।

यथा वा—

तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमोनमः ॥ इति ।

अत्र देशकालविशेषाभावमाह—सर्वत्र सर्वदेशेषु सर्वाधिकारिषु च सर्वदा सर्वेष्वेव कालेषु यत्स्यात्तथाहि—शुचावेव देशे शुची तत्कालजीवी कर्म कुर्यात् , शुद्धान्तःकरण एव ज्ञानं लभते, शुचौ देशे प्रतिष्ठाप्य सुखमासनमात्मनः। योगी योगं युञ्जीत इति कर्मज्ञानादीनां न सार्वत्रिकता तथा यत्कर्म तत्सन्न्यासभोगप्राप्तावधियोगः सिद्ध्यवधिः साङ्ख्यमात्मज्ञानावधि ज्ञानं मोक्षावधीति नापि सार्वत्रिकता भक्तेश् च सार्वत्रिकतासादिकते अतिप्रसिद्धे एव—

न देशनियमस्तत्र न कालनियमस्तथा।
नोच्छिष्टादौ निषेधोस्ति श्रीहरेर्नाम्नि लब्धका ॥ इति ।
तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान्नृणाम् ॥ इति ।

कर्मिज्ञानिप्रभृतिषु सर्वेष्वेवाधिकारिषु भक्तेर्व्याप्तिरुक्तैव किरातहूणान्ध्रपुलिन्दपुल्कसाः इत्य्-आदिना जातिचाण्डालकर्मचाण्डालादिष्वपि दृष्टा । तथा सर्वावस्थास्वपि गर्भे प्रह्लादादेर्बाल्ये ध्रुवादेयौवनेम्बषादेर्वार्द्धक्येद्धम्ये ययात्यादेर्मरणेऽजामिलादेर्नारकितायाम् अपि यन्नाम्न्युदिते नारकोपीयुक्तेः ।

यथायथा हरेर्नाम कीर्तयन्ति च नारकाः ।
तथातथा हरौ भक्तिमुद्वहन्तो दिवं ययुः ॥

इति नृसिंहपुराणोक्तेश्चेति भक्तेर् एव साधन त्व् अं निर्धारितम् । अथ प्रेमभक्तिरूपं रहस्यम् अपि तन्त्रेणैवाह—एतावद् इति । तत्त्वजिज्ञासुना पुंसा एतावदेव श्रेयः सु स्वर्गापवर्गप्रेमसु मध्ये जिज्ञास्यं किं तत् यच्छ्रेय आत्मनः स्वस्यैवान्वयव्यतिरेकाभ्यां सर्वत्र सर्वदा स्यात् तत्र न तावत्स्वर्गापवर्गों स्वान्वयव्यतिरेकाभ्यां सिद्धयतः प्रेमा तु स्वस्यैवान्वयव्यतिरेकाभ्यां सिद्धयति प्रेम्णोऽपि भक्तिशब्दवाच्यत्वात्साधनभक्त्यैव साध्यभक्तेः प्रेम्णः सिद्धिदर्शनात् । प्रेम्णः स्वेनैव सिद्धिः तद् उक्तं भक्त्या सञ्जातया भक्त्या विभ्रत्युत्पुलकां तनुम् इत्यतो रहस्यतदङ्गशब्दाभ्यामुच्यमाने प्रेमभक्तिसाधनभक्ती तन्त्रेणैवोक्ते ततश् च प्रेमभक्तिसाधनत्वेनैव भक्तिः कर्तव्या न तु स्वर्गापवर्गादिसाधनत्वेनेति भगवतः शिक्षा व्यञ्जिता भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः इति ब्रह्मणा प्रार्थितत्वात् शुद्धसाधनभक्तिसिद्धया प्रेमभक्त्यैव यद्रूपगुणादिमाधुर्यरसानुभवस्तस्य प्रेमभक्त्यनुभावरूपत्वाद् इति विज्ञानं स्वत एव लब्धमतो रहस्यतदङ्गविज्ञानानि श्लोकेनानेनैवोक्तानि । किं च, रसो वै सः इत्यनन्तरं, सैषा रसस्य मीमांसा भवति इति श्रुतेः । सर्वश्रेयोवधिरूपो रस एव मूर्त एव रङ्गभूमौ मल्लानामशनिः इत्याद्याकार एव दर्शितस्तस्य च विज्ञानमत्रैव श्लोके तन्त्रेणोक्तेः । यथा जिज्ञास्येषु मध्ये एतावदेव जिज्ञास्यमनुबुभूषणीयं किं तत् अन्वयव्यतिरेकाभ्यां योगायोगाभ्यां संयोगविप्रलम्भाभ्यां यत्स्यात्सर्वत्र सर्वब्रह्माण्डवर्तिनि श्रीवृन्दावनादौ दाससखिगुरुप्रेयसीषु सर्वदा नित्यम् एव महाप्रलयसमयेपीति दास्यसख्यवात्सल्यशृङ्गाररसानामास्वादनं व्यञ्जितम् । एवमतिरहस्यप्रेमभक्तिरसव्यञ्जकः श्लोकोऽयं ज्ञानरूपार्थांतरेण भगवतैवाच्छादितश्चिन्तामणिरिव कनकसंपुटेन बहिरङ्गजनाशक्योद्धाटनेन । तथा च श्रुतिः नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन यमेवैष बृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् इति । तच्च ज्ञानरूपमर्थांतरं यथा स्वामिचरणैर्व्याख्यातं तथैवेति **विश्वनाथः **। अत्र सन्दर्भः। अथ क्रमप्राप्तं रहस्यपर्यन्तसाधकत्वात् रहस्यत्वेनैव तदङ्गमुपदिशति—एतावदेवेति । आत्मनो मम भगवतस्तत्त्वजिज्ञासुना याथार्थ्यमनुभवितुमिच्छुना एतावदेव जिज्ञास्यं श्रीगुरुचरणेभ्यः शिक्षणीयं किं तत् यदेकम् एव वस्तु अन्वयव्यतिरेकाभ्यां विधिनिषेधाभ्यां सदा सर्वत्र स्यादित्युपपद्यते तत्रान्वयेन यथा एतावानेव लोकेस्मिन् इत्य्-आदि ईश्वरः सर्व-भूतानाम् इत्य्-आदि मन्मना भव मद्भक्त इत्य्-आदि च व्यतिरेकेण यथा मुखबाहूरूपादेभ्यः इत्य्-आदि ऋषयो देवयुष्मत्प्रसङ्गविमुखा इह संपतन्ति इत्य्-आदि, न मां दुष्कृतिनो मूढाः इत्य्-आदि यावज्जनो भवति नो खलु विष्णुभक्तः इत्य्-आदि च कुत्रकुत्रोपपद्येत सर्वत्र शास्त्रकर्तृदेशाकारणद्रव्यक्रियाकार्यफलेषु समस्तेष्वेव तत्र समस्तशास्त्रेषु यथा स्कान्दे ब्रह्मनादसंवादे—

संसारेस्मिन्महाघोरे जन्ममृत्युसमाकुले ।
पूजनं वासुदेवस्य तारकं वादिभिः स्मृतम् ॥ इति ।

तत्रान्वयेन यथा भगवान्ब्रह्म कार्त्स्न्येन इत्य्-आदि । तथा पाद्मे स्कान्दे लैङ्गे च—

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥

इति व्यतिरेकोदाहरणं—

पारङ्गतोऽपि वेदानां सर्वशास्त्रार्थविद्यादि ।
यो न सर्वेश्वरं भक्तस्तं विद्यात्पुरुषाधमम् ॥

इत्य्-आदिकं सर्वत्रावगन्तव्यम् । तान्ते दर्शयिष्यते एकादशे—

शब्दब्रह्मणि निष्णातो ननिष्णायात्परे यदि ।
श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः ॥ इति ।

सर्वकर्तृषु यथा—

ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशू द्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रमपसयणशीलशिक्षास्तिर्यग्जना अपि किमु शुभधारणां ये ॥ इति ।

गारुडे च—

कोटपक्षिमृगाणाञ्च हरौ सन्न्यस्तकर्मणाम् ।
ऊर्ध्वम् एव गतिं मन्ये किं पुनर्ज्ञानिनां नृणाम् ॥ इति ।

तत्रैव सदाचारे दुराचारे ज्ञानिन्यज्ञानिनि विरक्ते रागिणि मुमुक्षौ मुक्ते भक्त्यसिद्धे भक्ति-सिद्धे तस्मिन् भगवत्-पार्षदताम् प्राप्तेऽस्मिन्न् इत्य् अपार्षदे च सामान्येन दर्शनाद् अपि सार्वत्रिकता । तत्र सदाचारे दुराचारे च तथा—

अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।
साधुर् एव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ इति ।

सदाचारस्तु किं वक्तव्य इत्य् अपेर् अर्थः—ज्ञानिन्यज्ञानिनि च ज्ञात्वाज्ञात्वाथ ये वै माम् इत्य्-आदि हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः ॥ इति ।

विरक्ते रागिणि च—

बाध्यमानोऽपि मद्भक्तो विषयैर् अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥

इति अबाध्यमानस्तु सुतरां नाभिभूयत इत्यपेरर्थः । मुमुक्षौ मुक्ते च मुमुक्षवो घोररूपान् इत्य्-आदि, आत्मारामाश् च मुनयः इत्य्-आदि भक्त्य्-असिद्ध भक्ति-सिद्धे च केचित् केवलया भक्त्या वासुदेव-परायणाः इति न चलति भगवत्-पदारविन्दाल् लव-निमिषार्धम् अपि स वैष्णवाग्र्यः इति भगवत्-पार्षदतां प्राप्ने, मत्-सेवया प्रतीतं च इत्य्-आदि । नित्यपार्षदे वापीषु विद्रुमतटास्वमलामृताप्सु इत्य्-आदि-सर्वेषु वर्षेषु ब्रह्माण्डेषु तेषां बहिश् च तैस्तैः श्रीभगवदुपासनायाः क्रियमाणायाः श्री-भागवतादिषु प्रसिद्धिः सिद्धैरेभिः सर्वदेशोदाहरणं ज्ञेयं सर्वेषु करणेषु यथा—

मानसेनोपचारेण परिचर्य हरिं मुदा ।
परे वाङ् मनसागम्ये तं साक्षात्प्रतिपेदिरे ॥ इति ।

एवं भूतवचने हि अस्तु तावद्बहिरिन्द्रियेण मनसा वचसापि तत्सिद्धिरिति प्रसिद्धिः । सर्वद्रव्येषु यथा पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति इत्य्-आदि । सर्वक्रियासु यथा—

श्रुतोनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ इति ।

यत्करोषि यदश्नासि इत्य्-आदि, एवं भक्तभासेषु भक्ता भासापराधेष्वप्यजामिलमूषिकादयो दृष्टान्ता गम्याः। सर्वेषु कार्येषु यथा—

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

इति सर्वफलेषु यथा अकामः सर्वकामो वा इत्य्-आदि । तथा यथा तरोर्मूलनिषेचनेन इत्य्-आदिवाक्येन हरिपरिचर्यायां क्रियमाणायां सर्वेषामन्येषाम् अपि देवादीनामुपासना स्वत एव भवतीत्यतोऽपि सार्वत्रिकता यथोक्तं स्कान्दे श्रीब्रह्मनारदसंवादे—

अचिन्ते देवदेवेशे शङ्खचक्रगदाधरे।
अर्चिता सर्वदेवाः स्युर्यतः सर्वगतो हरिः ॥ इति ।

एवं यो भक्तिं करोति यद्गवादिकं भगवते दीयते येन द्वारभूतेन भक्तिः क्रियेत यस्मै श्रीभगवते प्रीणनार्थं दीयते यस्माद्गवादिकात्पयआदिकमादाय भगवते निवेद्यते यस्मिन्देशादौ कुले वा कश्चिद्भक्तिमनुतिष्ठति तेषाम् अपि कृतार्थत्वं पुराणेषु दृश्यत इति कारकगतापि एवं सार्वत्रिकत्त्वं साधितं सनातन त्व् अमप्याह—सर्वदेति । तत्र सर्गादौ यथा कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता इत्य्-आदि, सर्गमध्ये तु बहुत्रैव चतुर्विधप्रलयेऽपि तत्रेमं क उपासीरन् इति विदुरप्रश्ने सर्वेषु युगेषु—

कृते यद्धयायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥

इति किं बहुना—

सा हानिस्तम्महच्छिद्रं स मोहः स च विभ्रमः ।

यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ इत्य्-आदि वैष्णवे ।

सर्वावस्थास्वपि गर्भे श्री-नारदकारितश्रवणेन श्रीप्रह्लादे प्रसिद्धं बाल्ये ध्रुवादिषु यौवने श्रीमदम्बरीषादिषु वार्द्धक्ये धृतराष्ट्रादिषु मरणेऽजामिलादिषु स्वर्गितायां श्रीचित्रकेत्वादिषु नारकितायामपि—

यथायथा हरेर्नाम कीर्तयन्ति स्म नारकाः ।

तथातथा हरौ भक्तिमुद्वहतो दिवं ययुः ॥ इति नृसिंहपुराणे ।

अत एवोक्तं दुर्वाससा मुच्येत यन्नाम्न्युदिते नारकोऽपि इति । तथा एतन्निर्विद्यमानानाम् इत्यादावपि सर्वावस्थोदाहृतिः । अथ तत्रतत्र व्यतिरेकोदाहरणानि च कियन्ति दर्श्यन्ते—

पारङ्गतोऽपि वेदानां सर्वशास्त्रार्थवेद्यपि ।

यो न सर्वश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ॥ इति ।

किं वेदैः किमु शास्त्रैर्वा किं वा तीर्थनिषेवणैः ।

विष्णुभक्तिविहीनानां किं तपोभिः किमध्वरैः ॥ इति ।

किं तस्य बहुभिः शास्त्रैः किं तपोभिः किमध्वरैः ।

वाजिपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ॥ इति गरुडबृहन्नारदीयपाद्मवचनानि ।

तथा—

तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।

क्षेमं न विदन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमोनमः ॥ इति ।

न यत्र वैकुण्ठकथासुधापगा न साधनो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशरखा महोत्सवाः सुरेशलोकोऽपि न जातु सेव्यताम् ॥

यथा च आनम्य किरीटकोटिभिः इत्य्-आदि, सायुज्यं सार्ष्टिसालोक्यसामीप्येत्यादि, न दानं न तपो नेज्या इत्य्-आदि, नैष्कर्म्यमप्यच्युतभाववर्जितम् इत्य्-आदि, नात्यन्तिक विगणयन्त्यपि ते प्रसादम् इत्यादयः। अथ सर्वत्र सर्वदा यदुपपद्यत इति योजनिकार्थोपयुगपद् यथा तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा इत्य्-आदि अन्वयव्यतिरेकाभ्यां सर्वत्र सर्वदा यदुपपद्यते इत्य् अत्र यथा स्मर्तव्यः सततं विष्णुः इत्य्-आदि साकल्येऽपि यथा न ह्यतोन्यः शिवः पन्थाः इत्युपसंहारे तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान्नृणाम् । जीवानाम् इति नृगतिं विविच्य कवयः इतिवत् एतद् उक्तं भवति । यत्कर्म तत्सन्न्यासभोगशरीरप्राप्तावधियोगः सिद्ध्यवधिः साङ्ख्यमात्मज्ञानावधि ज्ञानमोक्षावधिः तथा तत्तद्योग्यतादिकानि च सर्वाणि एवंभूतेषु कर्मादिषु शास्त्रादिव्यभिचारिता च ज्ञेया हरिभक्तिस् तु अन्वयव्यतिरेकाभ्यां सदा सर्वत्र तत्तन्महिमभिरुपपन्नत्वात्तथाभूतस्य रहस्यस्याङ्गत्वं युक्तम् । अतो रहस्यस्याङ्गत्वेन च ज्ञानरूपार्थान्तराच्छन्नतयैवेदमुक्तमिति। तथाप्यात्मविद्ययैवान्यार्थसङ्गोपनादसौ साधनभक्तिर् अपि क्वचिद्बाह्यं ब्रह्माज्ञानादिसाधनं स्याद् इति गम्यते । अत्रेयं प्रक्रिया साधनभक्तेः सार्वत्रिकत्वात्सदातनत्वाच् च प्रथमं सा गुरोर्ग्राह्या ततस्तदनुष्ठानाद्बाह्यसाधनं वैराग्यपुरः सरताशीलमात्मज्ञानमानुषङ्गिकं भवति । ततो भूयश् च तथाभूतत्वाद्भक्तिरनुवर्तत एव ब्रह्मभूतः प्रसन्नात्मा इत्य्-आदिभ्यः आत्मारामाश् च मुनयः इत्य्-आदिभ्यश् च तदैव भगवज्ज्ञानविज्ञाने च इति । तस्माज्ज्ञानविज्ञानरहस्यतदङ्गानामुपदेशेन चतुःश्लोक्या अपि स्वयं भगवानेवोपदेष्टा अत्र तस्मै स्वलोकं भगवान्सभाजित इति भगवच्छब्देन ददर्श तत्राखिलसात्वतां पतिम् इत्य् अत्र परार्द्धान्ते न सोऽबुध्यत गोपवेशो मे पुरस्तादाविर्बभूवे तितापनीश्रुतादनुकूलितश्रीकृष्णत्वलिङ्गेन चास्य वक्तुः श्रीभगवत्त्वम् एव स्पष्टं न जातु तदंशभूतनारायणाख्यगर्भोदशायिपुरुषत्वम् । अत एवास्य महापुराणस्यापि श्री-भागवतमित्येव व्याख्या तथैवोक्तं कस्मै येन विभाषितोयमतुलो ज्ञानप्रदीपः पुरा इत्यादौ पुराशब्देन भगवद्वक्तृत्वमेवोक्तम् । आद्योऽवतारः पुरुषः परस्य इति द्वितीयेऽभिधानात् । अत—

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।

स्थिताय भवभीताय कारुण्यात्संप्रकाशितम् ॥

इत्यत्रापि भगवच्छब्दः प्रयुक्तः श्रीनाभिपङ्कजे स्थितं ब्रह्माणं प्रति स्वयं भगवता तत्रैव व्यापि महावैकुण्ठे प्रकाश्येदं पुराणं प्रकाशितमित्य् अर्थः । अनुगतं चैतद्वितीयस्कन्धेतिहासस्येति ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ क्रम-प्राप्त-रहस्य-पर्यन्त-साधकत्वात् रहस्यत्वेनैव तद्-अङ्गम् उपदिशति—एतावद् एवेति । आत्मनो मम भगवतस् तत्त्व-जिज्ञासुना याथार्थ्यम् अनुभवितुम् इच्छुना एतावद् एव जिज्ञास्यं श्री-गुरु-चरणेभ्यः शिक्षणीयम् । किं तत् ? यद् एकम् एव वस्तु अन्वय-व्यतिरेकाभ्यां विधि-निषेधाभ्यां सदा सर्वत्र स्याद् उपपद्यते ।

तत्रान्वयेन, यथा—एतावान् एव लोकेऽस्मिन्न् [भा।पु। ३.२५.४४] इत्य् आदि, ईश्वरः सर्व-भूतानां [गीता १८.६१] इत्य् आदि, मन्-मना भव मद्-भक्त [गीता १८.६५] इत्य् आदि च । व्यतिरेकेण, यथा—मुख-बाहूरु-पादेभ्य [भा।पु। ११.५.२] इत्य् आदि, ऋषयोऽपि देव युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति [भा।पु। ३.९.१०] इत्य् आदि, न मां दुष्कृतिनो मूढा [गीता ७.१५] इत्य् आदि, यावज् जनो भवति नो भुवि विष्णु-भक्त इत्य् आदि च ।

कुत्र कुत्रोपपद्यते सर्वत्र शास्त्र-कर्तृ-देश-करण-द्रव्य-क्रिया-कार्य-फलेषु समस्तेष्व् एव । तत्र समस्त-शास्त्रेषु, यथा स्कान्दे ब्रह्म-नारद-संवादे—

संसारेऽस्मिन् महा-घोरे जन्म-मृत्यु-समाकुले ।
पूजनं वासुदेवस्य तारकं वादिभिः स्मृतम् ॥ इति ।

तत्राप्य् अन्वयेन, यथा—

भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूटस्थो रतिर् आत्मन् यतो भवेत् ॥ [भा।पु। २.२.३४] इति ।

तथा पाद्मे स्कान्दे लैङ्गे च—

आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ इति ।

व्यतिरेकोदादरणम्,

पारङ्गतोऽपि वेदानां सर्व-शास्त्रार्थ-विद् यादि ।
यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम् ॥

इत्य् आदिकं सर्वत्रावगन्तव्यम् । तच् चान्ते दर्शयिष्यते एकादशे—

शब्द-ब्रह्मणि निष्णातो न निष्णयात् परे यदि ।
श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥ [भा।पु। ११.११.१८] इति ।

सर्व-कर्तृषु यथा,

ते वै विदन्त्य् अतितरन्ति च देव-मायां
स्त्री-शूद्र-हूण-शबरा अपि पाप-जीवाः ।
यद्य् अद्भुत-क्रम-परायण-शील-शिक्षास्
तिर्यग्-जना अपि किम् उ श्रुत-धारणा ये ॥ [भा।पु। २.७.४६] इति ।

गारुडे च—

कीट-पक्षि-मृगाणां च हरौ सन्न्यस्त-चेतसाम् ।

ऊर्ध्वम् एव गतिं मन्ये किं पुनर् ज्ञानिनां नॄणाम् ॥ [ग।पु। १.२३४.३१]

अत्रैव साचारे दुराचारे, ज्ञानिन्य् अज्ञानिनि, विरक्ते रागिणि, मुमुक्षौ मुक्ते, भक्त्य्-असिद्धे भक्ति-सिद्धे, तस्मिन् भगवत्-पार्षदतां प्राप्ते तस्मिन् नित्य-पार्षदे च सामान्येन दर्शनाद् अपि सार्वत्रिकता ।

तत्र साचारे दुराचारे यथा—

अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् ।

साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ [गीता ९.३०] इति ।

सद्-आचारस् तु किं वक्तव्य इत्य् अपेर् अर्थः । ज्ञानिन्य् अज्ञानिनि च— ज्ञात्वाज्ञात्वाथ ये वै मां [भा।पु। ११.११.३३] इत्य् आदि । हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः इत्य् आदि ।

विरक्ते रागिणि च—

बाध्यमानोऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः ।

प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ [भा।पु। ११.१४.१८] इति ।

अबाध्यमानस् तु सुतरां नाभिभूयत इत्य् अपेर् अर्थः । मुमुक्षौ मुक्ते च मुमुक्षवो घोर-रूपान् [भा।पु। १.२.२६] इत्य् आदि । आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य् आदि ।

भक्त्य्-असिद्धे भक्ति-सिद्धे च—

केचित् केवलया भक्त्या वासुदेव-परायणाः ।

अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भा।पु। ६.१०.१५] इति ।

न चलति भगवत्-पदारविन्दाल्

लव-निमिषार्धम् अपि स वैष्णवाग्र्यः ॥ [भा।पु। ११.२.५१] इति ।

भगवत्-पार्षदतां प्राप्ते—

मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।

नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भा।पु। ९.४.६७] इति ।

नित्य-पार्षदे—

वापीषु विद्रुम-तटास्व् अमलामृताप्सु
प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् ।
अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम्
उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः ॥ [भा।पु। ३.१५.२२]

सर्वेषु वर्षेषु भुवनेषु ब्रह्माण्डेषु तेषां बहिश् च तैस् तैः श्री-भगवद्-उपासनायाः क्रियमाणायाः श्री-भागवतादिषु प्रसिद्धिः सिद्धैवेति सर्व-देशोदाहरणं ज्ञेयम् । सर्वेषु करणेषु यथा—

मानसेनोपचारेण परिचर्य हरिं मुदा ।
परेऽवाङ्-मनसागम्यं तं साक्षात् प्रतिपेदिरे ॥ इत्य्-आदि ।

एवम्भूत-वचने ह्य् अस्तु तावद्-बहिर्-इन्द्रियेण मनसा वचसापि तत्-सिद्धिर् इति प्रसिद्धिः । सर्व-द्रव्येषु यथा—

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [गीता ९.२६, भा। १०.८१.४] इति ।

सर्व-क्रियासु यथा—

श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहोऽपि हि ॥ [भा।पु। ११.२.११]
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ [गीता ९.२७]

एवं भक्त्य्-आभासेषु भक्त्याभासापराधेष्व् अपि अजामिल-मूषिकादयो दृष्टान्ता गम्याः ।

सर्वेषु कार्येषु यथा—

यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु ।
नूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् ॥ इति ।

सर्व-फलेषु यथा— अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः [भा।पु। २.३.१०] इत्य् आदि । यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य् आदि-वाक्येन हरि-परिचर्यायां क्रियमाणायां सर्वेषाम् अन्येषाम् अपि देवादीनाम् उपासना स्वत एव सिध्यतीत्य् अतोऽपि सार्वत्रिकता । यथोक्तं स्कान्दे ब्रह्म-नारद-संवादे—

अर्चिते देव-देवेश शङ्ख-चक्र-गदाधरे ।
अर्चिताः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः ॥

एवं यो भक्तिं करोति यद् गवादिकं भगवते दीयते येन द्वार-भूतेन भक्तिः क्रियते, यस्मै श्री-भगवत्-प्रीणनार्थं दीयते, यस्माद् गवादिकात् पय-आदिकम् आदाय भगवते निवेद्यते, यस्मिन् देशादौ कुले वा कश्चिद् भक्तिम् अनुतिष्ठति तेषाम् अपि कृतार्थत्वं पुराणेषु दृश्यते इति कारक-गता । एवं सार्वत्रिकत्वं साधितम् ।

सदातन त्व् अम् आह सर्वदेति । तत्र सर्गादौ यथा—कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता [भा।पु। ११.१४.३] इति विदुर-प्रश्ने ।

सर्वेषु युगेषु—

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ [भा।पु। १२.३.५२] इति ।

किं बहुना—

सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ इति वैष्णवे ।

सर्वावस्थास्व् अपि—गर्भे श्री-नारद-कारित-श्रवणे प्रह्लादे प्रसिद्धम् । बाल्ये श्री-ध्रुवादिषु । यौवने श्रीमद्-अम्बरीषादिषु । वार्धक्ये धृतराष्ट्रादिषु । मरणेऽजामिलादिषु । स्वर्गितायां श्री-चित्रकेत्व्-आदिषु । नारकितायाम् अपि—

यथा यथा हरेर् नाम
कीर्तयन्ति स्म नारकाः ।
तथा तथा हरौ भक्तिं
उद्वहन्तो दिवं ययुः ॥ [नृ।पु। ८.३१] इति श्री-नृसिंह-पुराणात् ।

अत एवोक्तं दुर्वाससा मुच्येत यन्-नाम्न्य् उदिते नारकोऽपि [भा।पु। ९.४.४५] इति । यथा—

एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ [भा।पु। २.१.११] इत्य् अत्रापि ।

तत्र तत्र व्यतिरेकोदाहरणानि च कियन्ति दर्श्यन्ते—

किं वेदैः किम् उ शास्त्रैर् वा किं वा तीर्थ-निषेवणैः ।
विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥ [ना।पु। १.३०.१११] इति ।
किं तस्य बहुभिः शास्त्रैः किं तपोभिः किम् अध्वरैः ।
वाजपेय-सहस्रैर् वा भक्तिर् यस्य जनार्दने ॥ इति बृहन्-नारदीय-पाद्म-वचनादीनि ।
तपस्विनो दान-परा यशस्विनो
मनस्विनो मन्त्र-विदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यद्-अर्पणं
तस्मै सुभद्र-श्रवसे नमो नमः ॥ [भा।पु। २.४.१७]
न यत्र वैकुण्ठ-कथा-सुधापगा
न साधवो भागवतास् तदाश्रयाः ।
न यत्र यज्ञेश-मखा महोत्सवाः
सुरेश-लोकोऽपि न वै स सेव्यताम् ॥ [भा।पु। ५.१९.२४]
ययाच आनम्य किरीट-कोटिभिः
पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् ।
सिद्धार्थ एतेन विगृह्यते महान्
अहो सुराणां च तमो धिग् आठ्यताम् ॥ [भा।पु। १०.५९.४१]

सालोक्य-सार्ष्टि-सारूप्य-सामीप्य [भा।पु। ३.२९.११] इत्य् आदि, नो दानं नो तपो नेज्या [भा।पु। ७.७.४४] इत्य् आदि। नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इत्य् आदि । नात्यन्तिकं विगणयन्त्य् अपि ते [भा।पु। ३.१५.४८] इत्य् आदयः ।

अथ “सर्वत्र सर्वदा यद् उपपद्यत” इति योजनिकार्थो युगपद् यथा, तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा [भा।पु। २.२.३६] इत्य् आदि । “अन्वय-व्यतिरेकाभ्यां सर्वत्र सर्वदा यद् उपपद्यत” इत्य् अत्र यथा, स्मर्तव्यः सततं विष्णुर् [प।पु। ६.७१.१००] इत्य्-आदि साकल्येऽपि यथा, न ह्य् अतोऽन्यः शिवः पन्था [भा।पु। २.२.३३] इत्य् उपक्रम्य तद्-उपसंहारे

तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नॄणाम् ॥ [भा।पु। २.२.३६] इति ।

नॄणां जीवानाम् इति नृगतिं विविच्य कवयः [भा।पु। १०.८७.१६] इतिवत् । एतद् उक्तं भवति— यत् कर्म तत् सन्न्यास-भोग-शरीर-प्राप्त्य्-अवधि योगः सिद्ध्य्-अवधिः । साङ्ख्यम् आत्म-ज्ञानावधि । ज्ञानं मोक्षावधि । तथा तथा तत्-तद्-योग्यतादिकानि च सर्वाणि । एवं तेषु कर्मादिषु शास्त्रादि-व्यभिचारिता ज्ञेया । हरि-भक्तेस् तु अन्वय-व्यक्तिरेकाभ्यां सदा सर्वत्र तत्-तन्-महिमभिर् उपपन्नत्वात् तथा-भूतस्य रहस्यस्याङ्गत्वं युइक्तम् । यतो रहस्याङ्गत्वेन च ज्ञान-रूपार्थान्तराच्छन्नतयैवेदम् उक्तम् इति । [भक्ति-सन्दर्भ ११५]

तत्राप्य् आत्म-विद्ययैवान्यार्थ-सङ्गोपनाद् असौ साधन-भक्तिर् अपि क्वचिद् बाह्यं ब्रह्म-ज्ञानादि-साधने स्याद् इति गम्यते । तत्रेयं प्रक्रिया, साधन-भक्तेः सार्वत्रिकत्वात् सदातनत्वाच् च प्रथमं सा गुरोर् ग्राह्या । ततस् तद्-अनुष्ठानाद् बाह्य-साधनं वैराग्य-पुरःसरता शीलम् आत्म-ज्ञान-विज्ञाने चेति आनुषङ्गिकं भवति । ततो भूयश् च तथा-भूतत्वाद् भक्तिर् अनुवर्तित एव, ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५५] इत्य् आदिभ्यः, आत्मारामाश् च मुनयः [भा।पु। १.७.११] इत्य् आदिभिश् च ।

तदैव भगवज्-ज्ञान-विज्ञाने चेति । तस्मात् ज्ञान-विज्ञान-रहस्य-तद्-अज्ञानाम् उपदेशेन चतुःश्लोक्या अपि स्वयं भगवान् एवोपदिष्टः । अत्र, तस्मै स्व-लोकं भगवान् सभाजित [भा।पु। २.९.९] इति भगवच्-छब्देन, ददर्श तत्राखिल-सात्वतां पतिं [भा।पु। २९.१४] इत्य् अत्र, परार्धान्ते सोऽबुध्यत गोप-वेशो मे पुरस्ताद् आविर्बभूव इति तापनी-श्रुत्य्-आद्य्-अनुकूलित-श्री-कृष्णत्व-लिङ्गेन चास्य वक्तुं श्री-भगवत्त्वम् एव स्पष्टम् । न जातु तद्-अंश-भूत-नारायणाख्य-गर्भोदशायि-पुरुषत्वम् । अत एवास्य महा-पुराणस्यापि श्री-भागवतम् इत्य् एवाख्या । तथैवोक्तम्, कस्मै केन विभाषितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा [भा।पु। १२.१३.१९] इत्य् आदौ पुरा-शब्देन भगवद्-वक्तृत्वम् एवोक्तम् । आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४१] इति द्वितीयेऽभिधानात् । अतः इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे स्थिताय भव-भीताय कारुण्यात् संप्रकशितम् । इत्य् अत्रापि भगवच्-छब्दः प्रयुक्तः श्री-नारायण-नाभि-पङ्कजे स्थितं प्रति स्वयं भगवता, तत्रैव व्यापि-महा-वैकुण्ठ-लोकं प्रकाश्येदं पुराणं प्रकाशितम् इत्य् अर्थः । अनुगतं चैतत् द्वितीय-स्कन्धेतिहासस्येति ।

जीयाद् असौ भगवतः प्रतिज्ञा चातुरर्थिकी ।

व्याख्या च स्वामि-पादानां या याऽभून् मम जीविका ॥३५॥

[अत्र भगवत्-सन्दर्भस्य (१०७) व्याख्या किञ्चिद् भिद्यते, यथा—

अथ कथं तथाभूतं रहस्यम् उदयेतेत्य् अपेक्षायां क्रम-प्राप्तं तद्-अङ्ग-भूतं तदीय-साधनम् उपदिशति—एतावद् एव जिज्ञास्यम् इति । आत्मनो मम भगवतस् तत्त्व-जिज्ञासुना प्रेम-रूपं रहस्यम् अनुभवितुम् इच्छुना एतावद् एव जिज्ञास्यं श्री-गुरु-चरणेभ्यः शिक्षणीयम् । किं तत् ? सद् एकम् एव अन्वय-व्यतिरेकाभ्यां विधि-निषेधाभ्यां सदा सर्वत्र स्याद् उपपद्यते । यथा—

न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह ।
वासुदेवे भगवति भक्ति-योगो यथा भवेत् ॥ [भा।पु। २.२.३३]

इति व्यतिरेकेणोपक्रम्य, तद्-उपसंहारे—

तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नॄणाम् ॥ [भा।पु। २.२.३६]

इत्य् अन्वयेन सर्वदेत्य् उक्तम् ।

तस्मात् स्व-ज्ञान-विज्ञान-रहस्य-तद्-अङ्गानाम् उपदेशेन चतुःश्लोक्याम् अपि स्वयं श्री-भगवच्-छब्देन ददर्श तत्राखिल-सात्वतां पतिं [भा।पु। २.९.१५] इत्य् अत्र तापनी-श्रुत्य्-अनुकूलितं श्री-कृष्ण-लिङ्गत्वेन चास्य वक्तुः श्री-भगवत्त्वम् एव स्फुटम् । न जातु तद्-अंश-भूत-नारायणाख्य-गर्भोदशायि-पुरुषत्वम् ।

अत एवास्य महा-पुराणस्यापि श्री-भागवतम् इत्य् एव व्याख्या । तथैवोक्तम्—कस्मै केन विभाषितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा इत्य् आदौ, तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि [भा।पु। १२.१३.१९] इत्य् अत्र पर-शब्देन भगवद्-वक्तृत्वम् । आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४१] इति द्वितीये भेदाभिधानात् । अत इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् इत्य् अत्रापि भगवच्-छब्द-प्रयोगः । श्री-नारायण-नाभि-पङ्कजे स्थितं ब्रह्माणं प्रति स्वयं श्री-भगवता तत्रैव व्यापि-महा-वैकुण्ठं प्रकाश्येदं पुराणं प्रकाशितम् इत्य् अर्थः । अनुगतं चैतद् द्वितीय-स्कन्धेतिहासस्येति ॥ (भगवत्-सन्दर्भ १०७)

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ भगवच्-छिक्षितम् अहं करवाणि ह्य् अतन्द्रितः [भा।पु। २.९.२८] इति ब्रह्मणा प्रार्थितं स्व-प्राप्ति-साधनम् अतिरहस्यत्वाद् बहिरङ्ग-जनागम्यतयैवाह—एतावद् एवेति ।

अत्र बहुतर-शास्त्रानुसन्धानम् अपि नापेक्षितव्यम् इति भावः । तत्त्व-जिज्ञासुना आत्मनः स्वस्य श्रेयः-साधन-तत्त्वं ज्ञातुम् इच्छुना जनेन जिज्ञास्यं श्री-गुरु-चरणेभ्यः शिक्षणीयम् इत्य् अर्थः । त्वया तु मद्-अनुग्रहाद् अवगम्यत एवेति भावः । किं तत् ? यत् श्रेयः-साधनेषु कर्म-ज्ञान-योग-भक्त्य्-आदिषु मध्ये अन्वय-व्यतिरेकाभ्यां स्यात् सिध्यति स्थिरीभवतीत्य् अर्थः । अत्र तावत् स्वर्गावर्गादेः कर्म-ज्ञान-योगादिभिः केवलैर् असिद्धैस् तैर् विनापि सिद्धेः कर्म-ज्ञान-योगादयोऽन्वय-व्यतिरेकाभ्यां नैव साधनानि स्युः । तथा हि—को वार्थ आप्तो भजतां स्व-धर्मतः [भा।पु। १.५.१७] इति, क्लिश्यन्ते ये केवल-बोध-लब्धये [भा।पु। १०.१४.४] इति, पुरेह भूमन् बहवोऽपि योगिनः [भा।पु। १०.१४.५] इति, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य् आदौ कर्मादिभिर् विनापि,

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति । [भा।पु। ११.२०.३३] इति ।
या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति मोक्ष-धर्मीय-वचनं च ।

भक्त्या तु केवलयैव सर्वाणि श्रेयांसि सिध्यन्ति । तया विना तु नैव सिध्यन्तीति अन्वय-व्यतिरेकाभ्यां भक्तिर् एव सर्व-श्रेयः-साधनत्वेन स्थिरीभवति । तथा हि, अन्वयेन यथा—

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०] इति ।

भक्ति-योगस्य केवलस्यैव तीव्रत्वं निरभ्र-सूर्य-सेवेति ज्ञेयम् । यथा वा, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य् आदि ।

व्यतिरेकेण, यथा—

मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भा।पु। ११.५.२-३] इति ।

यथा वा,

तपस्विनो दान-परा यशस्विनो
मनस्विनो मन्त्र-विदः सुमङ्गलाः ।
न विन्दन्ति विना यद्-अर्पणं
तस्मै सुभद्र-श्रवसे नमो नमः ॥ [भा।पु। २.४.१७]

तत्र देश-काल-विशेषाभावम् आह—सर्वत्र सर्व-देशेषु सर्वाधिकारिषु च, सर्वदा सर्वेष्व् एव कालेषु यत् स्यात् । तथा हि, शुचाव् एव देशे शुचि तत्-काल-जीवी कर्म कुर्यात् । शुद्धान्तः-करण एव ज्ञानं लभेत ।

शुचौ देशे प्रतिष्ठाप्य सुखम् आसनम् आत्मनः ।
योगी योगं युञ्जीत ॥ [गीता ६.११] इति कर्म-ज्ञानादीनां न सार्वत्रिकता ।

तथा, यत् कर्म, तत् सन्न्यास-भोग-प्राप्त्य्-अवधि । योगः सिद्ध्य्-अवधिः । साङ्ख्यम् आत्म-ज्ञानावधिः । ज्ञानं मोक्षावधीति नापि सार्वत्रिकता । भक्तेस् तु सार्वत्रिकता सार्वदिक्ते अतिप्रसिद्धे एव ।

न देश-नियमस् तत्र न काल-निर्णयस् तथा ।
नोच्छिष्टादौ निषेधोऽस्ति श्री-हरेर् नाम्नि लुब्धके ॥ इति ।
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नृणाम् ॥ [भा।पु। २.२.३६]

इति कर्मि-ज्ञानि-प्रभृतिषु सर्वेष्व् अधिकारिषु भक्तेर् व्याप्तिर् उक्तैव । किराट-हूनान्ध्र-पुलिन्द-पुक्कशाः [भा।पु। २.४.१८] इत्य्-आदिना जाति-चाण्डाल-कर्म-चाण्डालादिष्व् अपि दृष्टा ।

तथा सर्वावस्थास्व् अपि गर्भे प्रह्लादादेः । बाल्ये ध्रुवादेः । यौवने अम्बरीषादेः । नारकितायाम् अपि मुच्येत यन् नाम्न्य् उदिते नारकोऽपीत्य् उक्तेः ।

यथा यथा हरेर् नाम कीर्तयन्ति च नारकाः ।
तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥

इति नृसिंह-पुराणोक्तेश् चेति भक्तेर् एव साधन त्व् अं निर्धारितम् ।

अथ प्रेम-भक्ति-रूपं रहस्यम् अपि तत्रेणैवाह एतावद् इति । तत्त्व-जिज्ञासुना पुंसा एतावद् एव श्रेयःसु स्वर्गापवर्ग-प्रेमसु मध्ये जिज्ञास्यम् । किं तत् ? यत् श्रेयः आत्मनः स्वस्यैव अन्वय-व्यतिरेकाभ्यां सर्वत्र सर्वदा स्यात् । तत्र न तावत् स्वर्गापवर्गौ स्वान्वय-व्यतिरेकाभ्यां सिध्यतः । प्रेमा तु स्वस्यान्वय-व्यतिरेकाभ्यां सिध्यति । प्रेम्नोऽपि भक्ति-शब्द-वाच्यत्वात् साधन-भक्त्यैव साध्य-भक्तेः प्रेम्नः सिद्धि-दर्शनात् प्रेम्नः स्वेनैव सिद्धिः । यद् उक्तं भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुं [भा।पु। ११.३.३१] इत्य् अतो रहस्य-तद्-अङ्ग-शब्दाभ्याम् उच्यमाने प्रेम-भक्ति-साधन-भक्तीति तन्त्रेणैवोक्ते । ततश् च प्रेम-भक्ति-साधनत्वेनैव भक्तिः कर्तव्या, न तु स्वर्गापवर्गादि-साधनत्वेनएति भगवतः शिक्षा व्यञ्जिता । भगवच्-छिक्षितम् अहं करवाणि [भा।पु। २.९.२८] इति ब्रह्मणा प्रार्थितत्वात् शुद्ध-साधन-भक्ति-सिद्धया प्रेम-भक्त्यैव यद्-रूप-गुणादि-माधुर्य-रसानुभवस् तस्य प्रेम-भक्त्य्-अनुभाव-रूपत्वाद् इति विज्ञानं स्वत एव लब्धवतो रहस्य-तद्-अङ्ग-विज्ञानानि श्लोकेनानेनैवोक्तानि ।

किं च, रसो वै सः [टैत्तू] इत्य् अनन्तरं सैषानन्दस्य मीमांसा भवतीति श्रुतेः । सर्व-श्रेयोऽवधि-रूपो रस एव मूर्त एव, रङ्ग-भूमौ मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य् आद्याकार एव दर्शितः । तस्य च विज्ञानम् अत्रैव श्लोके तन्त्रेणोक्तम् । यथा, जिज्ञास्येषु मध्ये एतावद् एव जिज्ञास्यम् अनुबुभूषणीयम् । किं तत् ? अन्वय-व्यतिरेकाभ्यां योगायोगाभ्यां संयोग-विप्रलम्भाभ्यां यत् स्यात् सर्वत्र सर्व-ब्रह्माण्ड-वर्तिनि श्री-वृन्दावनादौ दास-सखि-गुरु-प्रेयसीषु सर्वदा नित्यम् एव महा-प्रलय-समयेऽपीति दास्य-सख्य-वात्सल्य-शृङ्गार-रसानाम् आस्वादनं व्यञ्जितम् । एवम् अतिरहस्य-प्रेम-भक्ति-रस-व्यञ्जकः श्लोकोऽयं ज्ञान-रूपार्थान्तरेण भगवतैवाच्छादितश् चिन्तामणिर् इव कनक-संपुटेन बहिरङ्ग-जनाशक्योद्घाटनेन । तथा च श्रुतिः—

नायम् आत्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क।उ। १.२.२३] इति ।

तच् च ज्ञान-रूपम् अर्थान्तरं यथा – आत्मनस् तत्त्व-जिज्ञासुना एतावद् एव जिज्ञास्यम् । किं तत् ? यद् अन्वय-व्यतिरेकाभ्यां सर्वत्र सर्वदा स्यात्, तद् एवात्मा । तथा ह्य् आत्मनः कारणत्वेन जगत्य् अन्वयः जगतस् त्व् आत्मनि व्यतिरेकः । तथा च जाग्रद्-आद्य्-अवस्थासु तत्-साक्षितया आत्मनोऽन्वयः । आत्मनि तु जाग्रद्-आद्य्-अवस्था व्यक्तिरेक इति ॥३५॥

———————————————————————————————————————

**श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-भाष्यं **: तद् एवं मधुरेण समापयेत्—एतावद् एवेति । आत्मनो मम तत्त्वं पूर्वोक्तं सुगोप्यं सर्व-गुह्यतमं परम-रहस्यं जिज्ञासुना ज्ञातुम् इच्छुना शिष्येण एतावद् एव जिज्ञास्यं—पुनः पुनर् ज्ञातव्यं, कुतः परम् अस्तु ? परम-साधन-परम-पुरुषार्थ-विचार-निपुण-श्री-भागवत-रक्त-रसिकासङ्ग-सङ्गि-प्रसन्नोज्ज्वल-चित्त-जीवनी-भूत-गोविन्द-पाद-पद्म-सुधास्वादक-श्री-चैतन्य-चन्द्र-चरणाब्ज-चञ्चरीक-श्री-राधा-पद-नख-चन्द्र-चकोर-श्री-गुरुतः शिक्षणीयं, पूर्वोक्तम् एव, श्री-कृष्ण-लीला-रहस्य-स्वकीया-परकीया, गोपीषु परकीया-भावादिकं नान्यत् ।

केन प्रकारेण ? इत्य् आह—अन्वय-व्यतिरेकाभ्याम् । अन्वयेन अनुगमनेन अनुसेवयेत्य् अर्थः । व्यतिरेकेण विशिष्टेन अतिरेकेण औत्कट्येन । यत् श्री-गुरोर् अनुगमनं सर्वत्र सर्व-भजन-साधने अनुसरणं सर्वदा सर्व-कालेन जीवने मरणे विपदि सम्पदि दूरे निकटे दिनादौ निशादौ सङ्कीर्तनादौ महा-प्रसादे अनुशीलने इत्य्-आदि । अत एव तस्माद् गुरुं प्रपद्येत [भा।पु। ११.३.२१] इत्य् आदि । तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः [भा।पु। ११.३.२२], गुरुर् एव आत्मा दैवतं च । तस्मै श्री-गुरवे नमः । ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवं [भा।पु। १०.८०.३३], यथाहं ज्ञान-दो गुरुः [भा।पु। १०.८०.३२] गुरोर् अनुग्रहेणैव पूर्णः । हरि-गुरु-चरणारविन्द-युगलानुशीलनेन,

बलवान् आदरो यस्य न स्याद् गुरु-पादाम्बुजे ।
श्रुतैर् अप्य् अस्य सच्-छास्त्रैः कृष्णे भक्तिर् न जायते ॥

हरिर् एव गुरुः, गुरुर् एव हरिः । गुरु-कर्ण-धारं [भा।पु। ११.२०.१७] गुरुषु नर-मतिः [प।पु।], गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनं [प।पु।], आचार्यं मां विजानीयात् [भा।पु। ११.१७.२०] इत्य् आदि । किं बहुना ? नास्ति तत्त्वं गुरौ परम् इति दिक् ॥३५॥

इति श्रीनिवासाचार्य-प्रभु-विरचिता श्री-चतुः-श्लोकी-व्याख्या समाप्ता ॥

———————————————————————————————————————

॥ २.९.३६ ॥

एतन् मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् प्रार्थितं “नेहमानः प्रजासर्गम्” इति तत् प्रसादीकरोति । एतन् मतं सम्यग् अनुतिष्ठसमाधिना चित्तैकाग्र्येण । कल्पेषु ये विकल्पा विविधाः सृष्टयः, तेषु विमोऽहं कर्तृत्वाभिनिवेशं न यास्यतीति ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नन्व् अतिगम्भीरार्थं चतुःश्लोकी-भागवतम् इदं कथं मयावगन्तुं शक्यं विवदमानानां मत-वैविध्यात् ? इत्य् अत आह—एतन् मतं मदीयं सम्यग् अनुतिष्ठ समाधिना चित्तैकाग्र्येण विमृशेत्य् अर्थः । **कल्प-विकल्पेषु **महा-कल्पानुकल्पेषु । इयं विश्व-जनीनातिरम्या भावार्थ-दर्शिनी भक्ति-शास्त्रम् अधीयानैर् जनैर् दृश्या न चापरैर् इति ॥

अस्य महा-पुराणत्वे तु सर्गादि-दश-लक्षणवत्त्वेन भाव्यं तच् चात्र चतुःश्लोक्यां दुर्विज्ञेयं विना श्री-नन्दनन्दन-कृपयेत्य् एतद्-अर्थं तद् अपि सूक्ष्म-धिया ज्ञेयम् अत्रासूच्य् एव तथा हि मे मत्-सम्बन्धि यज् ज्ञानं वेदान्त-प्रतिपादितत्वाद् अगुह्यं प्रसिद्धम् एव विज्ञानम् एतत्रियवस्थम् अङ्गे इत्य्-आदिनैकादश-स्कन्धे भगवद्-उक्तेर् विज्ञानं प्रधानं तत्-सहितं मया श्री-गीतासु भारते अहं ब्रह्म परं धाम इत्य्-आदिना। दैवी ह्य् एषा गुणमयी इत्य्-आदिना च। गदितम् उक्तम् एव स प्रार्थयिता त्वं रहस्यं रहस्ये कान्ते स्थाप्यं रहस्यं सुरेभ्यो गोपितत्वाद् वा रहस्यं पाद्म उक्तम् एतत्—परीक्षिते कथां वक्तुं सभायां संस्थिते शुके इत्य्-आदिना गुह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ इति नवम-स्कन्धे श्री-शुकोक्तेश् च परं रहस्यं श्री-भागवतम् एव न वेदादिपैलादिभ्यो वेददानेप्येतददानात् हित्वा स्वशिष्यान्पैलादीन् इति तत्रैवोक्तेश् च गुह्याद्गुह्यतरं मुक्तिं ददाति कार्हीचित्स्म न भक्ति-योगम् इत्य्-उक्तेर् अतिगुह्यस्यैवादानं भवति न त्व् अगुह्यस्यात एव भक्तिर् एव रहस्यं न तु ज्ञानादीति रहस्यम् अस्त्य् अत्र प्रतिपाद्यत्वेनेति रहस्यं श्रीमद्-भागवतम् एव अत्र मत्व्-अर्थीयोच् । यद् वा, प्रतिपाद्य-प्रतिपादकयोर् अभेदोपचारात् । तद्-अङ्गं भक्त्य्-अङ्गम् एकत्वं सामान्यापेक्षं तद्-अङ्गानीत्य् अर्थः । तानि च सत्सङ्गादीन्य् एव श्री-भागवत-प्राप्तिर् अपि सत्सङ्गादीनि विना न भवत्य् अतस् तस्यापि तान्य् एवाङ्गानीति ज्ञेयं सुधिया यथैव गुण-कर्मकोऽहम् अस्मि तथैव तत्त्व-विज्ञानं मद्-अनुग्रहात् ते तवास्तु किं भूतोऽहं यच्छत्य् उपरमयति संसारान् निज-भक्तानिति वा मोक्षाद् अप्य् उपरमयति वा । या वा मद्-भक्ताः सर्वथा राजन् नैव वाञ्छन्ति किं च, न इति पुराणान्तरात्—

गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तम स्यन्दन-वाजि-वस्तुषु ।
अक्षय्य-रत्नाभरणायुधादिष्व् अनन्त-कोशेष्व् अकरोद् असन्मतिम् ॥

इत्य् अम्बरीषोपाख्यानोक्तेः । सालोक्यादि-चतुष्टयम् । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः इति श्री-कपिलोक्तेश् च । यम उपरमे अस्मादन्तर्भावितण्यर्थात्कर्तरिवनिपि यमस्यात्वम्, इति मस्यात्वे राजवत्साधनम् । पुनः न विद्यतेस्ति कथंभूतं रहस्यं परं सर्वोत्कृष्टमेवाहंभावो यस्य सोनहंभावः छन्दसि परेऽपि, व्यवहिताश् च इति यथाशब्दव्यवधानमदोषो प्राकृतवस्तुष्वस्य साक्षाद्वेदस्यापि बीजत्वात् । अत एव चतुःश्लोक्योपदेशाद्वेदा अपि चत्वार एवोद्भूता अन्यथा त्रिभिः पञ्चभिर्वा कथं नोपदिष्टम् इति तत्त्वं तद् उक्तं चतुःश्लोकी चतुर्वेदबीजभूता न संशयः इति संहितोक्तेर्वर्णितं चैतदाद्यपद्यव्याख्याशतके । अप्राकृते तु अहमादिर्हि देवानां अहं सर्वस्य प्रभव इत्य्-आदिभगवदुक्तेरेवाहंभावोस्त्येवेति ज्ञेयम् । यत्प्रमाणमस्येति । यावानिति विवृतौ त्वप्रमेयत्वं भगवतो विदीर्येत नां तो न चादिर्न च संप्रतिष्ठा इति श्रीगीतोक्तेः । अनन्तं ब्रह्म इति श्रुतेश् च भगवतः प्रमाणं नास्तीति गम्यते ३१

अथ सर्गादीनाह—अहमेवासमेवाग्रे इत्य् अनेन स्थानं ध्वनितम् । यदेतच्चेत्यनेन विसर्गो ध्ननितः । नान्यद्यत्सदसदित्य् अनेन विरोधो ध्वनितः । योवशिष्यतेत्यनेनाश्रयो ध्वनितः ३२

ऋते सत्यस्वरूपे ब्रह्मणि अर्थं प्रति भूभारहृतिं सन्मार्गप्रवृत्त्यादिप्रयोजनं प्रति यद्रामकृष्णादिरूपं प्रतियेत कार्यान्ते न प्रती येत तदात्मनो मे मायां लीलां विद्यादित्य् अनेनावतारानुचरितरूपेशकथा ध्वनिता। अनेनैवोतयोऽपि ध्वनितास् तथा हि—ऋते शुद्धे आत्मन्य् अन्तःकरणे यत् प्रतीयेत अर्थम् उद्दिश्य अन्यथा न प्रतीयेत तदात्मनो जीवस्य मीयते भावि शुभाशुभम् अनयेति माया-वासना तां विद्यात् । सा च द्विधा । शुभाशुभा च प्रथमायां दृष्टान्तो यथा भास इति । आभासः सूर्यादिस् तद्वत् प्रकाश-कर्त्रीत्य् अर्थः । द्वितीयायां यथा तम इति । तमोवद् दुःख-हेतुर् इत्य् अर्थः ३३

यथा महान्ति भूतानि भूतेषु सर्व-देहेषु प्रविष्टानि देहरक्षणार्थं तत्र स्थितानि तेषां विनिर्गमे देहे स्वधातुविगमे तु विशीर्यन्त इत्य्-उक्तेर्देहनाशश्रवणात् । अनेन पोषणम् उक्तम् । अप्रविष्टानीति । मुख्य-प्रवेशासम्भवादुक्तम् । अत्र भूतपदेन भौतिकम् अपि ज्ञेयं कारणस्य कार्यस्यापि लक्षकत्वात् । तेन मन्वन्तरं लक्ष्यते सर्वेषां मन्वादीनां भौतिकत्वात् । तथा तेषु न तेष्वहमित्य् अनेनासङ्गत्वकथनेन स्वस्य नित्यमुक्तत्वं सूचितम् इति मुक्तिरुक्ता । यद् वा, जीवरूपेण प्रविष्टोऽपि स्वरूपेणप्रविष्ट एवेत्यर्थः ३४

एतावदेव जिज्ञास्यम् इत्य् अनेनाश्रयश्रवणजिज्ञासादाववश्यं यतितव्यमित्य्-उक्तम् । अन्वयव्यतिरेकाभ्यामित्य्-आदिनाप्याश्रय एवोक्तः ।

अन्वय-व्यतिरेकेण जाग्रत्-स्वप्न-सुषुप्तिषु ।

माया-मयेषु तद् ब्रह्म-जीव-वृत्तिष्व् अपाश्रयः ॥

इति द्वादशे वक्ष्यमाणत्वात् ३५

एतत्फलमाह—एतन्मतम् इति श्रीहरिं स्वेष्टदेवं च नत्वा तस्य कृपावशात् । मूलभागवतव्याख्यां कुर्वे गुर्वनुमोदितः १ श्रीमन्नारायणो वेदैश् च सर्वेरहम् एव वेद्यो वेदान्तकृद्वेदविदेव चाहम् इत्य्-आदिभिः सर्ववेदकृत्सर्ववेदां तसारं श्रीमद्-भागवतं ब्रह्मणे उपदिशंस्तत्र वक्तव्यार्थसंग्रहं कुर्वंस्तं ग्राहयितुं ब्रह्माणं सम्मुखीकरोति । ज्ञानम् इति । न च भागवतस्य वेदान्तसारत्वे प्रमाणाभाव इति वाच्यम् ।

सर्ववेदान्तसारं यद्ब्रह्मात्मैकत्वलक्षणम् ।

वस्त्वद्वितीयं तनिष्ठं कैवल्यैकप्रयोजनम् ॥ इति तत्रैव निर्देशात् ।

तत्र भागवतस्य सर्ववेदान्तसारत्वं प्रतिज्ञाय तदापादनायैव हेतुगर्भितं विशेषणमाह—ब्रह्मात्मैकत्वलक्षणम् इति । अत ब्रह्मशब्देन मायोपहितः सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिधर्मविशिष्टः परमात्मा तत्पदवाच्य आत्मशब्देन चाविद्याद्युपहितोऽल्पजवादिगणावाशी जीवात्मा त्वंपदयाच्या तयोः अपिसियल मिरोगानुपाती को देकर इमादौ बरसानालन्त त्रचामरादिविशिष्टस्य तद्देशकालदण्डकमण्डल्वादिविशिष्टेनैक्यानुपपत्त्या विरुद्धांशपरित्यागेनाविरुद्धदेवदत्तपिण्डाभेदबोधवद्विरुद्धमायाविद्याद्युपाधिसर्वज्ञत्वाल्पज्ञत्वादिधर्मरूपांशौ विहाय सञ्चिदानन्दस्वरूपात्मकत्वलक्षणमैक्यं जहहदजल्लक्षणया लक्ष्यतीति तथा । ननु जहदजहल्लक्षणात्मैक्यसिद्धावप्युपाध्यवशेषान्नाद्वैतपर्यवसानं तत्राह—वस्त्वद्वितीयं तनिष्ठम् इति । न हि लक्षणयैक्यं बोधयञ्शास्त्रमुपाधिं पृथगवस्थाप्यैक्यं बोधयति येनैवमाशङ्क्येत किंतु नेह नानास्ति किं च, न इद्यादिनोपाधींस्तदधीनतद्धर्मादि निखिलद्वैतमपबाध्य यदद्वितीयं वस्तु तदेकनिष्ठं भवतीति च । तथा च वेदान्तेषु श्रूयमाणसर्वोपास्तीनां चित्तैकाध्यद्वारा ब्रह्मविद्यैकपर्यवसायितया ब्रह्माद्वैतविद्यैकनिरूपकश्रीमद्-भागवतस्य सर्ववेदान्तसारत्वमुपपन्नं विषयतः सारत्वमुक्त्वा फलतोऽपि सारत्वमाह—कैवल्यैकप्रयोजनम् इति । ननु ब्रह्मावबोधस्य ब्रह्मविदाप्नोति परं, ब्रह्म वेद ब्रह्मैव भवति, यं एष वेद विष्णुर् एव भवति इत्य्-आदिश्रुतौ ब्रह्मावाप्तिफलश्रवणात्कथं फलान्तरोक्तिरिति चेन्न। नित्यम् एव प्राप्तं ब्रह्म तस्य मायाविद्याद्युपाधिकल्पितभेदभ्रममन्तरेणाप्राप्त्यसम्भवाद्वोधेन भेदभ्रमबाधद्वारा कैवल्यमृते प्राप्त्यन्तरासम्भवात् । कैवल्यस्यैव ब्रह्मावाप्तिशब्दोर्थत्वं यन्मे मत्स्वरूपविषयं परमगुह्यं ज्ञानं तदङ्ग साधनकलापं च मया गदितं गृहाणेत्यन्वयः। तत्र यज्ज्ञानं कर्मविषयं तद्वौदिकम् अपि न गुह्यं ब्राह्मणो यजेत् इत्यादौ बाह्याध्यस्तब्राह्मणत्वादिजातिमद्देहादिपुरस्कारेण तत्प्रवृत्तेः वा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म इत्य्-आदिभिरदृढत्वश्रवणाच् च । उपाधिविविक्तिकेव प्रत्यक्स्वरूपविषयज्ञानमान्तरत्वाद्गुह्यं ब्रह्माभेदज्ञानं तु परमगुह्यं तदप्युक्तं कैवल्यं सात्त्विकं ज्ञानं मनिष्ठं निर्गुणं स्मृतम् इति । तत्र सत्वस्यामानान्यथाभानप्रयोजकत्वाभावेनाध्यासानापादकत्वादुपा धिविविक्तज्ञानं सात्त्विकं ब्रह्मात्मावबोधं विना विवेकाज्ञानमात्रेण गुणबाधानुपपत्त्या न निर्गुणं मत्स्वरूपे आत्मत्वनिष्ठारूपं मन्निष्ठं तु मायागुणबाधकत्वान्निर्गुणमित्य् अर्थः । किं भूतं तज्ज्ञानं तत्राह—विज्ञानसमन्वितम् इति विशेषेण प्रमेयगतसंशयनिरासेन ज्ञायते स्वरूपं येन तद्विज्ञानं मननं फलोपकार्यङ्गं तेन समन्वितं रहस्यं निदिध्यासनाख्यं ध्यानं तत् द्विविधं यत्नसाध्यमयत्नसाध्यं च । तत्राद्यं साक्षात्कारात्पूर्वं स्मरणभक्त्यन्तःपातितया साधनरूपम् । द्वितीयं तु ज्ञानिनस्तस्य कार्यं न विद्यते इत्य्-आदिना कर्तव्यप्रवृत्त्यनुपपत्त्या यत्नं विनैव स्वाभाविकजीवन्मुक्तिदशायां स्वरूपानुसाधनं—

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।

समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

इत्य्-आदिवाक्यसिद्धं पराभक्तिरूपं तेन सहितं तदङ्गं साधनजातं च । ननु भगवद्गदितज्ञानग्रहणाय नाहं समर्थस्तत्राह—यावानिति । यावान् विभुसच्चिदानन्दैकरससर्वाङ्गः तथा यथाभावः परमार्थसद्रूपः। यद् वा, यथा स्वभक्तेषु वात्सल्यादिभावो यस्य स तथा । यद् वा, यथा नृत्यादौ नेत्रकरचालनादिभावो यस्य स तथा । ननु स्वरूपस्य भवतु वेद्यत्वं करचलनादिकर्मणां तदतिरिक्तत्वेन अतो न्यदार्ताम् इत्य्-आदिश्रुत्या वेद्यत्वाभाव इत्याशङ्क्याह—यद्रूपगुण-कर्मकः इति । यस्य रूपाणि स्वरूपाण्येव गुणाः कर्माणि च यस्य स तथा तथा । च भगवद्गुणानां कर्मणां च स्वरूपात्मकत्वेननावेद्यत्वाभाव एवेति भावः । एवं यादृक् मत्स्वरूपं तथैव तत्त्व-विज्ञानं परमार्थं वस्त्वपरोक्षं ते मद्-अनुग्रहादेवास्तु यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इत्य्-आदि श्रुतौ गुर्वीश्वरभक्तानां तयोर् अनुग्रहाज्ज्ञानलाभाध्यवसायेऽपि तव तु गुरुरिष्टदेवश्चाहम् एवेति मद्-अनुग्रहादेवास्तु एवमनुग्रहाधीनतत्त्वज्ञानोत्पत्त्युक्त्या—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम् ॥
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।

न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैर् अपि ॥

इत्य्-आदिवाक्यशतैः यस्यास्ति भक्तिभङ्गवत्यकिं च, ना सर्वैगुणैस्तत्र समासते सुराः इत्य्-आदिना स्वप्रभावलेशमात्रेण सर्वसाधनसम्पादिका ।

या या साधनसम्पत्तिः पुरुषार्थचतुष्टये ।

तया विना तदाप्नोति नरो नारायणश्रयः ॥

इत्य्-आदिना सर्वसाधनप्रतिरूपतयाभिषिक्ता साधनस्वरूपा नवधा भक्तिरनुग्रहाविर्भाविका मुख्यं ज्ञानोत्पत्तिसाधनम् इति ज्ञापितम्। ज्ञानकारणसामग्र्यां भक्तिर् एव गरीयसी इति श्रीभगवत्पूज्यपादोक्तेः ।

नियुज्यमानया भक्त्या भगवत्यखिलात्मनि ।

सदृशोस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥

इति श्रीकपिलोक्तेश् च एवं तत्वज्ञानाद्ब्रह्माणं संमुखीकृत्य स्वानुग्रहात् तत्प्राप्तिं सम्भाव्यास्त्विति वरदानेन तस्मिंस्तद्ग्रहणशक्तिमाधाय तत्त्वमेवाह—अहम् एव सच्चिदानन्दविग्रहः स्वरूपात्मकधामोपकरणपरिषदादिरूपः सत्यात्मप्राणानाम् इत्य्-आदिश्रुतिसिद्धस्तवापरोक्षः सत्त्वस्य मन्नियम्योपाधेरभानान्यथाभानाप्रयोजकतया शुद्धस्वरूपभूतः सर्वाधिष्ठानात्मकएवाग्रे सर्गात्पूर्वभासं श्रूयमाणमच्छब्दस्यानुपपत्तिमन्तरेणार्थान्तरकल्पानुपपपत्तेः सर्ग्रादग्रे कार्य्यस्य कारणाव्यतिरेकेण प्रतीतेरप्यभावान्ममैव सर्वकारणत्वादहमेवासम् इति भावः । आत्मा वा इदमेक एवाग्र आसीत् इति श्रुतेः। न चाग्रे इति पदेन कालसद्भावप्रतीतेरेवकारानुपयोग इति वाच्यम् कालोऽस्मि लोकक्षयकृत्प्रवृत्तः इति भगवद्वचनात्तस्य तदनतिरेकात् । किं च सुषुप्तौ अज्ञानावृतस्वरूपातिरिक्तकालभानेऽपि समुत्थितस्य कालवासनाविष्टतया तदा सुखमस्वाप्सं न किमप्यवेदिषम् इति तदाशब्देन कालपरामर्शस्य दर्शनवत्तद् उक्त्युपपत्तेः । उक्तं च वृद्धः—

कालाभावे पुरेत्युक्तिः कालवासनया युतम् ।

शिष्यं प्रत्येव तेनात्र द्वितीयं न हि शङ्क्यते ॥ इति ।

किं चाग्रे इति पदस्य पूर्वत्ववाचित्वेऽपि कालवाचित्वाभाव एवेति न तच्छङ्कावकाशः न च पूर्वत्वाभिधाने भूतत्वप्रतीतेः कथं कालं विना भूतत्वादिव्यवहार इति वाच्यम् । कालमस्वीकुर्वताम् अपि साङ्ख्यानां भूतभविष्यदादिव्यवहाराबाधात् । ननु कथं सद्रूपविष्णोर् एव पूर्वसत्त्वमुच्यते यतः—

असद्वा इदमग्र आसीत् , असदेवेदमग्र आसीत् ।

तत्सदासीत तद्वैक आहुः, असदेवेदमग्र आसीत् ॥

इति श्रुतिषु असत्पूर्वकत्वश्रवणात् तद्वेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्याम् एव व्याक्रियते इत्य् अत्र चाकर्तृकैव सृष्टिः श्रूयते तत्राह—आसम् एवेति न आसम् इति न न चोदाहृतश्रुतिविरोधः। समाकर्षात् इति सूत्रे भगवद्व्यासेन तद्विरोधपरिहारस्य दर्शितत्वात् । तथाहि—असद्वा इदमग्र आसीत् इति नासत्कारणत्वविवक्षा ।

असन्नेव सम्भवति असद्ब्रह्मेतिवेदचेत् ।

अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः ॥

इत्यसदपवादेन सत एव ब्रह्मणोऽन्नमयादिगुहान्तःस्थत्वेन प्रत्यक्त्वमुक्त्वा सोऽकामयत् इति समाकृष्य ततः सृष्टिं निरूप्य तत्सत्यमित्याचक्षते इत्युपसंहृत्य तत्रैवेमं श्लोकमाह—असद्वा इति अत्रासद्यद्यभिप्रेतं स्यात्तदान्यं समाकृष्यान्योक्तौ बाक्यमसम्बद्धं स्यात्तस्मादव्यक्तनामरूपतया सूक्ष्मत्वेन दुर्लक्ष्यं असदित्युपचयेते असदेवेमग्रे आसीत् इत्यत्रापि तत्सदासीत् इति समाकर्षादियम् एव गतिः । तद्धैक आहुरसदेवेदमग्र आसीत् इत्यत्रापि न अत्यन्तासत्योक्तिर्भ्रन्तकल्पनानुवादेन श्रौतप्रत्यक्षदार्ढ्ययम् एव तद्धेदं तर्ह्यव्याकृतमासीत् इत्यत्रापि नाहेतुव्याकृतिः सर्व एव इह प्रविष्टः इति व्याकर्तुः प्रविष्टत्वेन समाकर्षात् । व्याकर्तुरभावे कमाकृष्येत चेतनस्यैवायं प्रवेशः पश्यंश्चक्षुः शृण्वञ्श्रोत्रम् इति चेतनत्वोक्तेः । अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति श्रुत्यन्तरेऽपि व्याकृतेश्चेतनहेतुत्वदर्शनात् लूयते क्षेत्रं स्वयमेवेतिवद्व्याक्रियते इत्यत्रापि सत्येव कर्तर्युपपत्तेश् च । एवकारव्यावृत्तिमाह—नान्यद् इति । नान्यत्किं च, न मिषत् इति श्रुतेः । मिषाद् इति चलं नश्वरमित्य् अर्थः । अन्यच्छब्दार्थम् एव विवृणोति यत्सदसत्परम् इति । सत् स्थूलम् असत्सूक्ष्मं परं तयोः कारणं चेत्यर्थः। न च भवतु स्थूलसूक्ष्मयोरभावः नासदासीन्नो सदासीत् इति श्रुतेः । तम आसीत् इति श्रुते कथं कारणाभावोक्तिरिति वाच्यम् । नोसदासीत्तम आसीत् इत्य् अत्र तमसः सत्त्वप्रतिषेधादासीद् इति प्रयोगस्यैवानुपपत्तेः । सद्योगात्तमसः सत्त्वं न स्वतस्तन्निषेधनात् इति वृद्धोक्तेः सत्त्वनिषेधेन स्वतस्तत्प्रयोगानुपपत्तावपि सदधिष्ठानाध्यासिकसम्बन्धेन तत्सत्तयैवासीद् इति प्रयोगसम्भावनायाम् अपि तच्छक्तित्वेनैव तदन्यत्वानन्यत्वाभ्यामनिर्वचनीयतया नान्यद् इति भगवदुक्त्यनुपपत्त्यभावात् । न हि वह्नेः शक्तिस्तदन्या तत्पार्थक्येन तत्सत्ताखरूपाभानात् । नापि वह्निर् एव तच्छक्तिस्तथात्वे शक्तिशक्तिमद्भावानुपपत्तरेकस्मिन्नाधाराधेयभावस्य वक्तुमशक्यत्वात्प्रतिबन्धकमणिमन्त्रादिसन्निधौ वह्निस्वरूपसमवधानेऽपि स्फोटाख्यकार्यादर्शनेन तत्प्रतिरोधदर्शनात् । न चान्यत्वानन्यत्वतदुभयात्मकत्वशक्तेविरोधात् मिथोभावः भावरूपयोस्तयोर् एकाधिकरणत्वासम्भवात्तस्मादन्यत्वानन्यत्वतदुभयात्मकत्वैर्निर्वक्तुमशक्यैव शक्तिः । तथैव तमोरूपासतः शक्तिरप्यनिर्वचनीयतया न तदन्यासीत् । किं च सतः शक्तेस्तदनन्यत्वासम्भवेनैव न सत्त्वं कार्यदर्शनेन च नासत्यं विरोधाच् च । नोभयात्मत्वम् इति सत्त्वासत्त्वान्यत्वानन्यत्वतदुभयात्मत्वेभ्योनिर्वचनीयतया शक्तेर्मिथ्यात्वेन तत्कार्स्याप्यनिर्वचनीयतया मिथ्यात्वात्तदा तदनुद्भवाच नान्यादासीदित्यभिप्रायः । नन्वनिर्वचनीयत्वेन मायाया जगतश्चानिर्वचनीयतयोक्तौ भवन्मते ब्रह्मणोप्यनिर्वचनीयतया मिथ्यात्वापत्तिस्तथा च ब्रह्मापि मिथ्या अनिर्वचनीयत्वाद् इति प्रयोगापत्तिरिति चेत् । न । अत्र ब्रह्मापीत्यपिशब्देन सर्वप्रपश्चस्यापि पक्षान्तःपातितया हेतोरनुपसंहारित्वापत्तेः । अन्वयव्यतिरेकदृष्टान्तरहितो ह्यनुपसंहारी सर्वस्य पक्षत्वे तदितरदृष्टान्तालाभात् । अपि शब्दानुक्तावपि शब्दब्रह्मादाय सिद्धसाधनता चेतनविशेषणेऽपि ब्राह्मणाद्यादाय सिद्धसाधन त्व् अम् परत्वविशेषणेऽपि मायोपहितकारणब्रह्मादाय सिद्धसा धनम् । सिद्धसाधनताया अदूषकत्वम् । अनधिगतार्थगमकस्यैव प्रमाणत्वेन सिद्धस्यानधिगतत्वाभावात् । तत्साधकस्य प्रमाणत्वानुपपत्तेः । सन्दिग्धसाध्यवान्हिपक्षः साध्यस्य तत्र सिद्धत्वे निश्चितसाध्यवान् स पक्ष इति तल्लक्षणापत्या पक्षत्वानुपत्तेस्तं दसिद्धौ च पक्षस्यैव हेत्वाश्रयतया हेतोराश्रयासद्ध्यापतिश् च किं चात्रं ब्रह्मशब्देनास्मदभिमतस्वरूपं प्रतीयते न वा? । नान्त्यः पक्षस्वरूपाभानेप्याश्रयसिद्ध्या हेतुसाध्यादिसमर्थनानुपपत्तेः । नाद्यः ब्रह्मशब्देन तत्प्रतीतो ब्रह्मशब्दगोचरत्वेनैवानिर्वचनीयत्वहेतोरसिद्ध्या शब्दोऽनित्यश्चाक्षुषत्वाद्धटवदित्य्-आदिवत्पक्षे हेत्ववर्तनलक्षणस्वरूपासिद्ध्यापत्तेः । किं च ब्रह्मणोऽपि मिथ्यात्वं वदताः किञ्चितस्वीक्रियते न वा स्वीक्रियते चेत्तज्जडं चिद्वा जडं चेत्तस्य स्वतः सिद्धत्वानुपपत्त्या तत्सिद्ध्यैचित्स्वीकारापत्तेः चिच्चेत्सिद्धं न समीहितं सच्चिदैकसिद्ध्यैवाद्वैतवादिनामिष्टसिद्धेः । नाग्न्येव विवादो न वस्तुनि न स्वीक्रियते चेन्निरधिष्ठानारोपासिद्ध्या ब्रह्मणो मिथ्यात्वासिद्धिः। किं च मिथ्यात्वशब्देनासत्यत्वमभिप्रेयते । सद्विलक्षणत्वं वा? । सदसद्भ्यामनिर्वचनीयत्वं वा? नाद्यद्वितीयौ । तथात्वे तुच्छत्वापत्त्या प्रत्यक्षेणावभासमानशुक्तिरूप्यस्वप्नप्रपञ्चादौ तदसम्भवेन दृष्टान्ते साध्यवैकल्यं ततश् च व्याप्तसिद्धिः। हेतुसत्त्वे साध्यसत्त्वमन्वयव्याप्तिः । साध्यभावे हेत्वभावो व्यतिरेकव्याप्तिः। अत्र त यत्र यत्र स्वप्नादौ अनिर्वचनीयत्वं हेतुस्तत्र प्रत्यक्षत्वेन तुच्छत्वाभाव इति नान्यव्याप्तिस्तथा तत्रैव स्वप्नादौ तुच्छत्वसाध्याभावेप्यनिर्वचनीयस्वहेतुसद्भावान्न व्यतिरेकव्याप्तिः । अत एव निश्चितसाध्याभाववद्विपक्षवृत्तित्वेन साध्याभाववर्तितः साधारणानैकान्तिक इति । सव्यभिचारपार्यसाधारणासाधारणानुपसंहारित्रिविधानकान्तिकान्तःपातिसाधारण्यं च शशशृङ्गादौ निश्चिततच्छत्वसाध्यवर्ति सपक्षे चानिर्वचनीयत्वहेतोरवृत्तेः विपक्षमात्रवृत्तितयासाध्याभावता हेतुर्विरुद्ध इति । साध्याभावोपादकत्वेन विरुद्धता च तृतीये तु सदसद्भ्यामनिर्वचनीयत्वस्य साध्यत्वे तस्यैव हेतुत्वेन हेतोः साध्यावैशेष्यं तथा च साध्यस्य पक्षे सन्दिग्धतया हेतोरतिसंसिग्धासिद्धतयास्वरूपासिद्धिर् एव पक्षन्नयेऽपि तत्त्रिविधविकल्पितसाध्याभावस्य सत्यत्वस्य ब्रह्मणि पक्षे सत्यं ज्ञानमनन्तं ब्रह्म, तदेवर्तं तदुसत्यमाहुस्तद् एव ब्रह्म परमं कवीनाम् इत्य्-आदिश्रुतिभिर्बोधनात् यस्य साध्याभावः प्रमाणान्तरेण बाधितः स बाधित इति बाधलक्षणसद्भासाद्वाधश् च । किञ्चानिर्वचनीयत्वं किं नाम सदसद्भ्यामनिर्वचनीयत्वं वा? शब्दजन्यज्ञानाभास्यत्वं वा? आद्ये उदाहृतश्रुत्यैव पक्षे ब्रह्मणि सत्यत्वाध्यवसायात्स्वरूपासिद्धिः। द्वितीये—सार्परूप्यादिशब्दजज्ञानभास्ये रज्जुसर्पशुक्तिरूप्यादौ घटपटादिशब्दजज्ञानभास्ये स्वप्नजाग्रद्धटादौ साध्यवति सपक्षे दृष्टान्ते साधनवैकल्यं तथा चोक्तरूपमिथ्यात्वसाध्याभाववति तुच्छे शशशृङ्गादौ विपक्षे तच्छब्दजज्ञानभास्ये चावर्तमानत्वे सति पक्षमात्रवृत्तित्वेन शब्दजज्ञानाभास्यत्वरूपानिर्वचनीयत्वहेतोः सपक्षविपक्षव्यावृत्तः पक्षवृत्तिरसाधारण इति लक्षणलक्षितासाधारण्यं च । न च शब्दजज्ञानाभास्यत्वे ब्रह्मणो वेदान्तवेद्यत्वानुपपत्तिः। वेदान्तानां तद्गताज्ञानावरणबाधकत्वेनैव तदभासकत्वेऽपि तत्र प्रमाणत्वस्य तस्य च तज्जन्यज्ञानप्रयुक्ताज्ञानबाधफलभाक्त्वेनैव स्वप्रकाशत्वेनैव तदभास्यत्वेऽपि तद्वेद्यत्वस्य चोपपत्तेः । न च हेतौ विकल्पमनुद्भाव्यानिर्वचनीयत्वशब्दमात्रेण मिथ्यात्वापादनं तथात्वे स्वर्णं तु कुण्डलादिभूषणोपादानं कनकशब्दवाच्यत्वात् धत्तूरवत् । धत्तूरफलं कण्टकादिबहुमूल्यभूषणो पादानं कनकत्वात् स्वर्णवत् । सूरङ्गभस्तयो दुग्धदोहा गोत्वाद्धेनुवत् । धेनवो न दुग्धदोहा गोत्वाद्गभस्त्यादिवत् मन्दारो जगदवभासकोऽर्कत्वात्सूर्यवत् । सूर्यो नावभासकोऽर्कत्वान्मन्दारवत् । विष्णुर्न संसारतारको हरित्वात्कप्यादिवत् । कप्यादितत्तारको हरित्वाद्विष्णुवदित्याद्याभाससमत्वापातात् । जडत्वपरिच्छिन्नत्वादयश्चात्रोपाधयः । साध्यव्यापकत्वे सति साधनाव्यापको हि उपाधिः यत्रयत्र हेतुस्तत्रतत्र साध्यम् इति व्याप्तौ व्याप्तिनिरूपकं व्यापकं साध्यं व्याप्याश्रयो व्याप्यो हेतुस्तद् एव लिङ्गं साध्यव्यापकत्वं च सर्वसाध्यवत्सु नियमेन वर्तमान त्व् अं साधनाव्यापकत्वं क्वचित्साधनवति वर्तमानत्वेऽपि सर्वत्र साधनवत्सु नियमेनावर्तमान त्व् अं जडत्वपरिच्छिन्नत्वादयश् च मिथ्यात्वसाध्यवति सर्वत्र व्यापकत्वेन साध्यव्यापकत्वेऽपि पक्षे वर्तमानत्वाभावात्साधनाव्यापकत्वादुपाधयः । न च स्वप्नाकाशादौ तत्र स्वप्तृपुरुषेषु चापरिच्छिन्न त्व् अचेतनत्वाभ्यां सति मिथ्यात्वे साध्ये परिच्छिन्न त्व् अजडत्वयोरभावात्साध्याव्यापकत्वम् इति वाच्यम् । स्वप्राकाशादौ देशपरिच्छेदासंप्रतिपत्तावपि वस्तुपरिच्छेदसम्प्रतिपत्तेः सप्तपुरुषदेहादौ जडत्वसम्प्रतिपत्तेश् च । तदात्मनश्चेतनस्य जडत्वाभावेऽपि तत्र ब्रह्माभेदेन मिथ्यात्वासम्प्रतिपत्त्यासाध्यासत्वेन तदव्यापाकत्वाभावात् ब्रह्म परमार्थसत्यं चिद्रूपत्वाद्व्यतिरेके मिथ्यारूप्यादिवद् इति प्रतिपक्षानुमानपराहतत्वं च । न चास्य केवलव्यतिरेकिणः साध्यस्य पक्षे प्रसिद्धौ अनुमानी प्रवृत्तिरन्यत्र प्रसिद्धौ तत्र हेतुसत्त्वे अन्वयव्याप्तिसद्भावेन व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकीति लक्षणकेवलव्यतिरेकित्वभङ्गः अप्रवृत्तौ सपक्षव्यावृत्तत्वेनासाधारण्यम् इति सर्वथा साध्याप्रसिद्धिरेवेति वाच्यम् । सद्विलक्षणत्वं कचिदत्यन्ताभावप्रतियोगिधर्मत्वाद्रूपवदित्यनवधारितधर्मिकसत्यत्वसिद्धौ केवलव्यतिरेकिणा पक्षे स्थापनोपपत्तेः । न च प्रमेयत्वोदिषु व्यभिचारस्तेषु धर्मत्वहेतुसत्त्वेऽपि क्वचिदत्यन्ताभावप्रतियोगित्वाभावात् सर्वं प्रमेयं सर्वमविधेयं सर्वं व्यावृत्तमित्यङ्गीकारादितिवाच्यम् । अप्रमेयमनादि च, यतो वाचो निवर्तते, यद्वाचा नाभ्युदितम् इत्य्-आदिभिस्तेषामत्यन्ताभावस्य ब्रह्मणि श्रुत्यैवापादनात् । किं च प्रमेयत्वं प्रमेयत्वे वर्तते न वा? आद्ये आत्माश्रयो द्वितीये—स्वस्मिन्नेवात्यन्ताभावप्रतियोगित्वेन केवलान्वयित्वक्षतिः । अपि च प्रत्येकप्रमाविषयत्वं प्रमेयत्वं केवलान्वयि सर्वप्रमाविषयत्वं वा नोभयथापि घटप्रमाविषयत्वस्य पटे पटप्रमाविषयत्वस्य घटे सर्वप्रमाविषयत्वस्य सर्वत्र घटपटादावत्यन्ताभावेन केवलान्वयित्वानुपपत्तेः । एवमभिधेयत्वादावप्यूह्यं तथा च प्रमेयत्वादिकेवलान्वयित्ववादिनां कुतार्किकाणाम् एव साध्याप्रसिद्ध्या केवलव्यतिरेक्यसम्भवो नोपनिषदानाम् । न च साध्यव्याप्तहेतोः पक्षधर्मताज्ञानलक्षणालिङ्गपरामर्शस्यैवानुमानत्वेनात्र केवलव्यतिरेकिणि हेतुसाध्यव्याप्तिस्थलाभावेन तद्व्याप्त्यसिद्ध्यापरामर्शासम्भव इति वाच्यम् । अन्वयिन्यन्वयव्याप्तिवद्ध्यतिरेकिणि व्यतिरेकव्याप्तहेतोर् एव साध्यगमकत्वात् । न च हेतुना साध्यसिद्धौ साध्याभावहेत्वभावव्याप्तेरनुपयोग इति वाच्यम् । यत्र साध्याभावस्तत्र हेत्वभाव इति विपक्षे व्याप्तिमुदाहृत्य न तथा चायं तस्मान्न तथेत्यत्र तदभावोक्त्या अभावाभावस्य भावत्वेन हेतुसाध्यव्याप्तावेव तत्पर्यवसानात् । न चैतादृकस्थलेऽर्थापत्तिर् एव मानम् इति वाच्यम् । यथोपयोगयोरुभयोर् अपि मानत्वोपपत्तेः । एवं सर्गात्पूर्वं स्वसत्त्वमुक्त्वा विसर्गोऽपि तदाह—पश्चाद् इति । पश्चाद्विसर्गावसरे ब्रह्मादिरूपेणापि अहम् एव तदाप्युक्तं—

त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश् च ।
त्वन्मायया संवृतचेतसस्त्वां पश्यति नाना न विपश्चितो ये ॥
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥

इत्य्-आदिना यद् वा, पश्चात् प्रपञ्चस्य लयोत्तरमप्यहम् एव सर्वाणि च भूतानि नारायणाद् एव समुत्पद्यते नारायणे प्रलीयन्ते - नष्टे लोके द्विपरार्द्धावसाने महाभूतेष्वादिभूतं गतेषु व्यक्तंव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः इत्य्-आदिश्रुतिस्मृतिभ्यः यञ्चैतन्मध्ये परिदृश्यमानं तदप्यहम् एव कार्यस्य कारणाव्यतिरेकात् एतदात्म्यम् इदं सर्वं नारायण एवेदं सर्वं यद्भूतं यच्च भाव्यं पुरुष एवेदं विश्वं सर्वम् इदं पुराणः यस्मिन्निदं सञ्चविचैति सर्वे यस्मिन्देवा अधि विश्वे निषेदुः तदेवभूतं तदुभब्यमाहुः इदं तदक्षरे परमे व्योमन् यथा सौम्ये केन मृत्पिडो न सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्य्-आदिश्रुतिभ्यः ।

न यत्पुरस्तादुत्पन्नपश्चान्मध्येऽपि तन्न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद्यत्तद् एव तत्स्याद् इति मे मनीषा ॥
सर्वेषामिह भावानां भावार्थो भवति स्थितः ।
तस्यापि भगवान्कृष्णः किमतद्वस्तु रूप्यताम् ॥
आत्मैकतदिदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥
यदिदं मनसा वाचा दृश्यतेऽन्यैरपीन्द्रियः ।

अहमेवं न मत्तोऽन्यद् इति बुद्ध्यध्वमञ्जसा ॥ इत्य्-आदिस्मृतिभ्यः ।

तदनन्यत्वमा गादिस्य तिलक सबक्यावेतलमिलाप हिनादि हिन्द अशान थालेको नेतिनेति इत्य्-आदि श्रुतिभिः प्रतीतिमात्रसर्वप्रपञ्चबाधे योऽवशिष्येत सोऽहमेवास्मि—

अनतर्भवऽनन्तभवन्तम् एव तत्यजन्तो मृगयन्ति सन्तः ।
असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणन्तं किमु यन्ति सन्तः ॥
श्रुतयस्त्वयि हि फलं त्यतन्निरसनेन भवन्निधनाः ।
निषेधशेषो जयतादशेषः॥ एतावान्सर्ववेदार्थः शब्द आस्थाय मां भिदा । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसादति ॥

इत्य्-आदिस्मृतिभ्यः निषेधे कृते नेतिनेतीति वाक्यैः—

समाधिष्ठितानां यदाभाति पूर्णमवस्थात्रयातीतमद्वैतमेकम् ।

परंब्रह्म नित्यं तदेवाहमस्मि इत्य्-आदिवचनाच् च ॥३॥

ननु त्वत्स्वरूपातिरिक्तं किञ्चिन्नास्ति चेत् किम् इति प्रपञ्चो भाति न भाति चानन्दविग्रहो भवानित्याशङ्क्याह—ऋतेऽर्थम् इति । यद्विश्वमर्थम् । ऋतै वस्तुतो नास्ति तद्यतः स्वरूपाज्ञानादात्मन्यधिष्ठाने प्रतीयेत यच्च सच्चिदानन्दानन्तविग्रहं मत्स्वरूपं तद्यतो न प्रतीयेत तदधिष्ठानस्यान्यथाभानहेतुविक्षेपशक्तिप्रधानमधिष्ठानमत्स्वरूपाभानहेतुभूतमावरणशक्तिप्रधानमज्ञानमात्मनो मम मायां विद्यात् । तत्रार्थीभावेऽपि भाने दृष्टान्तो यथा भासो द्विचन्द्रादिः आवरणेनाधिष्ठानभगवत्स्वरूपाभाने दृष्टान्तो यथा तमो राहुर्नक्षत्रमण्डले वर्तमानोऽपि न प्रतीयते । यद् वा, तस्य स्वत एवाभानात्मकस्य नावरणकृत्यमतो यथा अतमाः सूर्यो मेघाच्छन्नस्तन्मेघं विश्वं च भासयन्नपि स्वयं सामान्येन प्रकाशमानोऽपि न विशेषतो भाति पेचकादीनां स्वीयेनैव दिवान्धत्वदोषेणावृत इव न भाति । यद् वा, यद्विश्वमर्थम् ऋते तद्यतोऽज्ञानवशादात्मनि विश्वाधिष्ठाने प्रतीयेत अथ च सुषुप्तिप्रलयादौ कारणे लयेन स्वप्ने च कारणाज्ञानस्य प्रपञ्चान्तराकारपरिणामेन क्षणेक्षणे चाज्ञानस्य पूर्वपूर्वभ्रमदृष्टसंस्कारोद्बोधे तत्तद्विषयान्तराकारपरिणामेन ब्रह्मावबोधे तु सकारणबाधेन यत् विश्वं न प्रतीयेत तदज्ञानं तत्कार्यं चात्मनो मम मायां विद्यात् । तत्र दृष्टान्तो यथा भासो रज्जुसर्पशुक्तिरजतादि च यद्वदर्थम् ऋते प्रतीयेताथ चान्यत्र प्रवृत्तौ वा दण्डमालाभ्रकरङ्गादिभ्रमान्तरोद्बोधे वा बाधेव वा न प्रतीयेत यथा च तमोनभोनीलिमा ऋतेर्थं प्रतीयेत तत्तहिकप्रान्तेऽसन्निधाने प्रतीयमानोऽपि तत्तद्देशगमनेन प्रतीयेत तद्वत् । यद् वा, आत्मनि स्वदृशि यथा भासः स्वप्नप्रपञ्चो यथा तमो निद्रा ज्ञानं चार्थम् । ऋते प्रतीयेताथ प्रबोधेन प्रतीयेत यश् च तदधिष्ठानमात्मा स न प्रतीयेत तथात्मनि मयि यद्विभुं यतोऽज्ञानतमसः प्रतीयेताथ च लयबाधादौ न प्रतीयेत तदधिष्ठानं मत्स्वरूपं च यद्यतो न प्रतीयेत तदज्ञानमात्मनो मम मायां विद्यात् । तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नासमस्तधिषणं पुरु दुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति ॥

आत्मानमेवात्मतयाविजानता तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च सम्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ।
अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।

अजस्य चित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥

न च कथं मायावादोऽत्र लिख्यते मायावादस्यासद्वादत्वप्रच्छन्नबौद्धत्वयोः स्मरणाद् इति वाच्यम् । तद्बोधकवाक्यस्य प्रामाण्यानिश्चयात् । मायाया वादः कथनं मायावादस्तथा च तद्वाक्येऽपि मायोक्तिदर्शनात् । स्वासद्वादत्वबौद्धत्वापादकस्यात्मघातिनस्तस्यासद्वादत्वाद् एव शास्त्रान्तरादूषकत्वापत्तेः। किं च मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इत्य्-आदिश्रुतौ देवी ह्येषा गुणमयी मम माया दुरत्यया । सम्भवाम्यात्ममायया । नाहंप्रकाशः सर्वस्य योगमायासमावृतः इत्य्-आदिगीतायाम् । एषा माया भगवतः सर्गस्थित्यन्तकारिणी इत्यादौ श्रीमद्-भागवते एवं सर्वत्र माया शब्दप्रयोगदर्शनात्सर्वश्रुतिस्मृतिपुराणेतिहासादिशास्त्रस्यासद्वादत्वापादनाय प्रवृत्तं स्वयम् अपि मायाशब्दकथनेन मायावादात्मकं तदेवासद्वादतया त्यजेदेकं कुलस्यार्थे इति न्यायेन हेयम् । न च मायया जगत्कारणत्ववाद एव मायावाद इति वाच्यम् । उदाहृतश्रुतिस्मृत्यादौ सर्वत्र तथोपलम्भात् । किं च तद्वाक्यस्य प्रामाण्येऽपि सर्वाविरुद्धोयम् एव विचारो न्यायः । यथा ब्रह्मसत्यत्ववादिन एव ब्रह्मवादिनस्तथा मायाकारणत्वस्य सर्वत्र श्रूयमाणस्य तत्तच्छास्त्रेभ्यो निःसारणासम्भवात्सर्वप्रामाण्यास्वीकारे च नास्तिकत्वापत्तेर्थे मायायाः सत्यत्ववादिनस्त एव तत्पक्षपातितया मायावादिनस्तेषां मतस्यैव पुनर्मिथ्याभूतमायायां सत्यत्वभ्रमेणासद्वादत्वमायातकार्यसत्यत्वापादनेन सर्ववेदान्तप्रतिपाद्यस्य अथ नित्यो निष्कलो निराख्यातो निर्विकल्पो निरञ्जनः शुद्धोऽद्वितीयो नारायणो न द्वितीयोऽस्ति कश्चित् इत्य्-आदि श्रुतिसिद्वाद्वैतस्य बाधनेनार्थात् बोद्धत्वेऽपि वाङ्मात्रेण वेदप्रामाण्यस्वीकारोक्त्या प्रच्छन्न त्व् अं यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति इति भगवतैवापरिच्छिन्नदृष्टीनां स्वनाशाभावोक्त्या परिच्छिन्नमतीनां विष्लृ व्याप्तौ इत्यस्मात्सर्वव्यापकस्य विष्णोः सर्वतो नाशेनैकत्र परिच्छेदाभिमत्या स्वद्वेष्यत्वबोधनादतो मायासत्यत्वाद एव मायावादो न तन्मिथ्यात्ववादस्तेषां तन्मिथ्यात्वापादनेन तदपवादकत्वात् ॥४॥ ननु सर्वथा द्वैतप्रपञ्चस्य मायामात्रत्वेन मिथ्यात्वे यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशति, आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुः, अथ पुरुषोह वै नारायणोऽकामयत प्रजाः स्रजेय नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुर्योतिरापश् च पृथिवी विश्वस्य धारिणी इत्य्-आदिश्रुतिभिः जन्मायस्य यतः इति सूत्राच् च कथं तत्कारणत्वेनैव ब्रह्म निरूप्यते तत्सृष्ट्वा तदैवानुप्राविशत् इत्य्-आदिना तत्प्रवेशोक्तिस्तत्राह—यथा महान्ति भूतानीति । यथा महान्ति भूतानि पञ्चीकृतमहाभूतानि उच्चावचेषु ब्रह्मादिस्तम्बपर्यन्त प्राणिदेहेषु ब्रह्माण्डादिघटान्तेषु च पटादिषु तत्वादिवत्तत्सृष्ट्वा तदनुप्रविष्टानि प्रतीयन्ते तथापि वस्तुतो यथासौम्यकेन मृत्पिडो न सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्य्-आदिश्रुतिभ्यः । पटादीनां तंत्वादिस्वरूपातिरेकेण पृथक् सत्त्वाभावाद् एव कस्मिन् प्रविष्टानि स्वीक्रियेरनिति तदप्रवेशवत् प्राणिदेहानां ब्रह्माण्डादेश् च महाभूतात्ममात्रत्वेन वस्तुतस्तत्पृथक्सत्त्वाभावात् स्पष्टं तथानुभवात् क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सन्घातो विकारो वा न पृथङ् नान्वितो मृषा इत्य्-आदिवचनाच् च । अतस्तदभावाद् एव कुत्र प्रविष्टाः स्युरित्यप्रविष्टान्येव तथा तेषु भूतेषु सच्चिदात्मनानुप्रविष्टतया भासमानोप्यहं सच्चिद्विवेचने तदसत्त्वाभानापत्त्या—

धातवोऽवयवित्वाच् च तन्मात्रावयवैर्विना ।
न स्युरसत्यवच्चविन्यसन्नवयवोन्ततः ॥
य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽबुधः ।
विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत्पुमान् ॥

इत्य्-आदिवचनैश् च तत्पृथक्—स्वरूपानवस्थानाद् एव तेषु नाहं प्रविष्टः ॥

तदनुत्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ।
व्याप्यव्यापकता मिथ्या सर्वात्मेति हि शासनात् ॥ इत्य्-आदिवचनात् ।

कारणत्वादिना निरूपणं तु—

नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः ।
शब्दोऽपि बोधकनिषेधतयात्ममूलमर्थोक्तमाह यदृते न निषेधसिद्धिः ॥

यतो वाचो निवर्तते अप्राप्य मनसा सह इत्य्-आदिना मनोवागगोचरस्य ब्रह्मणः साक्षाद्वक्तुमशक्यतया—

अध्यारोपापवादाभ्यां निःप्रपञ्चं प्रपञ्च्यते ।
अज्ञातजबोधार्थे विद्वद्भिः कल्पितः क्रमः ॥

इति न्यायमाश्रित्य कारणत्वानुवादप्रतिषेधाभ्यां तत्स्वरूपावबोधायैव—

इत्थंभावेन कथितो भगवान् भगवत्तमः ।
नेत्थंभावेन हि परं ज्ञातुमर्हति सूरयः ॥
नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।
कर्तृत्वप्रतिषेधार्थं माययारोपित हि तत् ॥ इत्य्-आदिवचनात् ।
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥

इत्य्-आदि-श्रुत्या परमार्थसृष्टयादिनिषेधाच् च ॥५॥ एवं ज्ञानं परमगुह्यं निरूप्यान्वयव्यतिरेकरूपयुक्त्या मननेन भेदभ्रमबाधपूर्वकं प्रत्यगभिन्नाद्वयब्रह्मैव जिज्ञास्यमित्याह—एतावदेवेति । आत्मनो यत्तत्त्वं परमार्थस्वरूपं तजिज्ञासुना पुरुषेण एतावदेव जिज्ञास्यम् । अतो अन्यदार्तम् इत्य्-आदिश्रुत्या ततोन्यस्य मृषात्वेन जिज्ञास्यत्वभावात् किं तदित्यपेक्षायामाह—यत्स्यात्सर्वत्र सर्वदा सर्वत्राकाशवायुतेजोबन्नाण्डमुवनघटपटादिषु कारणतया सच्चिदानन्दस्वरूपेण यदनुगतं तद् उक्तं भगवत्पूज्यपादैः ।

अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ इति ।

यदेव पुनः प्रत्यक् चैतन्यं सर्वदा जाग्रत्स्वप्नसुषुप्त्यवस्थासु तत्तत्साक्षितयानुगतम् । तदन्वयव्यतिरेकाभ्यां जिज्ञास्यम् । अन्वयशब्देनात्रानुवृत्तिः। व्यतिरेकशब्देन व्यावृत्तिः। आकाशादिघटपटान्तेषु सच्चिदानन्दस्वरूपब्रह्मणः सर्वत्रान्वयस्तत्तन्नामरूपयोश् च मिथो व्यतिरेकः आकाशोस्ति तथा भाति प्रियो वायुस्तथैव सन् । भाति प्रियस्तथा तेजोबन्नं सद्भाति तत्प्रियम् । ब्रह्माण्डादिघटान्तेषु सत्ताभानं प्रियं ततम् । ब्रह्मणो नाम रूपं च नान्यस्यान्यन्त्र दृश्यते ॥ अस्ति भाति प्रियं नामरूपाभ्यां व्यतिरिच्यते । अनुवृत्तेर्यथा सूत्रं मणिभ्यो भिद्यते तथा ॥ नाम रूपं च सद्भानप्रियाद्भिन्नं तथेष्यते । व्यावृतत्वेन मणयो यथा सूत्राद् इति ध्रुवम् ॥ नामरूपात्मकं विश्वमसद्भिन्नं सतो यतः । अभानं भानभिन्नत्वादप्रियं प्रियभेदतः । उक्तं भागवतेऽथापि असद्दुःखात्मकं जडम् । जगत्सच्चित्परानन्दविग्रहो ब्रह्म श्रीहरिः तस्मादिदं जगदशेषमसरस्वरूपं स्वप्नासमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति । योऽहं नावेदिषं किञ्चिदस्वाप्सं सुखतस्तदा । दृष्टवान्विविधान्स्वप्नान्सोऽहं जागर्मि तत्स्मरन् । साक्षिप्रत्यक्चैतन्यानुवृत्तिरिति सर्वदा । सर्वावस्थासु तासां तु मिथो व्यावृत्तिर् एव हि । स्वप्ने जागरणोऽलीकः स्वप्नो हि जागरे न हि । द्वयम् एव लये नास्ति लयोऽपि ह्युभयोर्न च । सत्यं साक्ष्यनुवृत्तत्वात् त्रिष्ववस्थासु शुक्तिवत् । व्यावृत्तत्वान्मृषावस्थारूप्यरङ्गाभ्रकादिवत् । त्रय आवस ॥ थास्रयः स्वप्ना इति श्रुतीरणात् । जाग्रत्सुप्ती मृषा स्यातामवस्थात्वाद्धि स्वप्नवत् ॥ जाग्रन्मृषैव जाग्रत्वासुप्तजाप्रद्यथा तथा । सुप्तिर्मृषैव सुप्तित्वात्स्वप्नद्ष्टसुसुप्तिवत् ॥ जाग्रद्विश्वं मृषा सर्वं विश्वत्वात्स्वप्नविश्ववत् । बाध्यत्वं नह्युपाधिः स्यात्पक्षे साधनव्याप्तितः ।

नेह नानास्ति श्रुतितो बाध्यत्वं तस्य निश्चितम् ।
स्वप्न त्व् अं न ह्यपाधिः स्यात्साधनव्याप्तितस्तथा ॥
त्रयः स्वप्राः इति श्रुतेस्तत्र स्वप्न त्व् अनिश्चयात् ।
तयोस्तद्वयतिरेके कै ह्युपाधिश्चित्स्व रूपता ॥
ब्रह्मणि साध्यव्यापित्वात्पक्षे च तदसम्भवात् ।
साक्षी तु सर्वदा सत्यं साक्षित्वात्स्वप्रसाक्षिवत् ॥
सर्वत्रानुगतं ब्रह्म सच्चिदानन्दविग्रहम् ।
व्यावृत्तेभ्योनुवृत्तत्वाद्यन्मृषाभ्यो विवेचितम् ॥
तथा साक्ष्यनुवृत्तत्वाद्व्यावृताभ्यो विवेचितः ।
सर्वाभ्यो जाग्रदादिभ्यो मृषाभ्यः सर्वदैव सत् ॥
अन्वयव्यतिरेकाभ्यां यत्स्यासर्वत्र सर्वदा ।
ब्रह्म प्रत्यगभिन्नं तत्तत्वमस्यादिगोचरम् ॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।
इत्येवं भगवत्पक्षः श्रीद्भागवतामृते ॥६॥

एवं निरूपितं स्वमतमुपसंहरंस्तदङ्ग निर्दिशति—एतन्मतम् इति । एतन्मम मतं त्वं समातिष्ट सम्यक् तत्र स्थिरो भव तादृक्स्थित्यै तदङ्गमाह—परमेण समाधिनेति । समाधिशब्देनात्र योगः स च त्रिविधः कर्मयोगो भक्ति-योगो ज्ञानयोगश् च ।

योगाश्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योस्ति कर्हिचित् ॥ इत्य्-आदिवचनात् ।

युज्यते भगवत्स्वरूपे अनेनेति योग इति व्युत्पत्त्या सर्वापेक्षा हि विद्या यज्ञादिश्रुतेरश्ववद् इति न्यानेन सर्वेषां तेषां विद्याङ्गतया योगत्वम् । तत्र कर्मयोगस्त्रिविधः तत्राद्यः—फलमनभिसम्धाय स्ववर्णाश्रमविहितधर्मानुष्ठानरूपः—

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ इत्य्-आदिवचनात् ।

द्वितीयः—सर्वकर्मणामीश्वरेऽर्पणं—

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्धयात्मना वानुसृतस्वभावात् ।
करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥
यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्ति-योगसमन्वितम् ॥ इत्य्-आदिवचनात् ।

तृतीयः—कर्तृत्वाद्यननुसन्धायानुष्ठीयमानः—

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहंकारविमूढात्मा कर्ताहम् इति मन्यते ॥
तत्त्ववित् तु महाबाहो गुण-कर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ इति वचनात् ।

सकामकर्मणस्तु स्वर्गादिफलपरत्वेन भगवत्स्वरूपे अयोजकत्वाद् एव वेदविहितकर्मत्वेऽपि न कर्मयोगत्वं—

परोक्षवादो वेदोयं बालानामनुशासनम् ।
कर्ममोक्षायं कर्माणि विधत्ते ह्यगदं यथा ॥

इति न्यायेन तद्वाक्यानां फलेन प्रलोभ्य वैदिकप्रवृत्त्या भगवत्पथसंमुखीकरणतात्पर्यवत्त्वे तु भवतु परम्परया संमुखीकारद्वारा कर्म-योगत्वं, भक्ति-योगश् च द्विविधः परापर-भेदात् तत्र परा तु सा परानुरक्तिर् ईश्वरे इति भगवता शाण्डिल्येन सूत्रिता ईश्वरे यानुरक्तिः सा परा भक्तिस् तु फल-रूपा—

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥

इत्य्-आदिवचनान्न साधनत्वेन तस्याज्ञानोत्पत्तावङ्गत्व, द्वितीया नवधा—

श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ इत्य्-आदि वचनात् ।

सा तु निष्प्रत्यूह-ज्ञान-साधनं—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं यत् तद् अहैतुकम् ॥
पुरेह भूमन् बहवोऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुद्ध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽजोऽच्युत ते गतिं पराम् ॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥
मद्-भक्ति-विमुखानां हि शास्त्र-गर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात् तेषां जन्म-शतैर् अपि ॥ इत्य्-आदि-वचनात् ।

ज्ञान-योगोऽपि ज्ञानस्य बहिरङ्गान्तरङ्ग-भावेन द्विविधो विवेकादिः श्रवणादिश् च । तत्राद्यश् चतुर्-विधो नित्यानित्य-वस्तु-विवेको वैराग्यं शमादि-षट्-सम्पत्तिर् मुमुक्षुता च तत्रापि प्रथमं त्व् आत्मैव नित्यं तद्-इतरत् सर्वम् अनित्यम् इति न जायते म्रियते वा विपश्चित् अतोऽन्यदा र्ते तद् यथेह कर्म-चितो लोकः क्षीयते एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते इत्य्-आदि-श्रुतेः नित्यम् आत्म-स्वरूपं हि दृश्यं यद् विपरीतगम् इति या निश्चिता बुद्धिर् विवेको वस्तुनः सर्वै इत्य् आचार्योक्तेश् च । द्वितीयम् ऐहिकामुष्मिक-विषय-विरागः परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदमाया नास्त्य् अकृतः कृतेन इत्य्-आदिश्रुतेः—

ब्रह्मादि-स्थावरान्तेषु वैराग्यं विषयेस्व् अनु ।
यथैव काक-विष्ठायां वैराग्यं तद्-विनिर्मलम् ॥

इत्य् आचार्योक्तेश् च शमादि-सम्पत् तु षोढा शमो दम उपरतिस् तितिक्षा श्रद्धा समाधानता च शान्तो दान्तो उपरतस् तितिक्षुः समाहितो भूत्वा आत्मन्य् एवात्मानं पश्येत् इति श्रुतेः । शाखान्तरे श्रद्धान्वितो भूत्वा इति पाठाच् च । तत्र श्रवणादीतर-विषयेभ्यो मनो-निरोधः शमः सदैव वासना-त्यागः शमोऽयम् इति शब्दित इत्य् आचार्योक्तेः । बाह्येन्द्रियाणाम् अपि ततो निरोधो दमः निग्रहो बाह्य-वृत्तीनां दम इत्य् अभिधीयते इति तद्-वचनात् । न च मनो-निग्रहेणैबालं किम् इन्द्रियनिहेणेति वाच्यम् ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते ।
तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥ इति भगवद्-वचनात् ।

न च तर्हि दमेनैवालं—

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ इतीश्वरोक्तेः ।

निवर्तितानामिन्द्रियमनसां श्रवणादितरविषयेभ्यः स्वाभाविकी परममुपरतिः तद् उक्तमाचाय्यः विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा इति । परमेति परावृतेर्विशेषणं स्वभाविकीत्य् अर्थः । केचिदुपरतिः सन्न्यास इत्याहुस्तस्य तु जनकादौ साक्षात्तदभावेऽपि बोधदर्शनाद्वर्णाश्रयधर्मादिवजन्मान्तरीयस्यापि तस्य बोधेऽदृष्टद्वारोपकारकत्वसम्भवाब्राह्मणेतरेषु—

मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् ।
बाहुजातोरुजातानां नायं धर्मः प्रशस्यते ॥

इत्य्-आदिभिः तदनधिकारात्—

अश्वमेधं गवालम्भं सन्न्यासं पलपैतृकम् ।
देवरात् तु सुनोत्पत्तिं कलौ पञ्च विवर्जयेत् ।
चत्वार्यब्दसहस्राणि चत्वार्यब्दशतानि च ।
कलेर्यदा गमिष्यति तदा त्रेतापरिग्रहः ।
सन्न्यासश् च न कर्तव्यो ब्राह्मणेन विपश्चिता ॥

इत्य्-आदिना सर्वकालिकत्वाभावाच् च । न ज्ञानाङ्गचतुष्टयसाधनेष्वेवावश्यकान्तर्भाव इत्यत्राचार्यैरुपेक्षितं ज्ञानसाधनप्रवृत्तौ प्रारब्धवादागतदुःखैरनुद्वेगस्तितिक्षा सहनं सर्वदुःखानां तितिक्षा सा शुभा मता इत्याचार्यवचनात् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा गुरुवेदान्तवाक्येषु भक्तिः श्रद्धेति विश्रुता इत्याचार्योक्तेः । अनेनैव तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति श्रुतिसिद्धगुरुलक्षणं तदुपसदनं च सूचितं श्रोत्रियत्वञ्च याज्ञवल्क्यवाक्येन ब्राह्मण एव पर्यवसितम् इति ध्येयं तद्विज्ञानार्थं स ब्राह्मणम् एव गुरुमुपासीत इति श्रुतेः । जन्मना ब्राह्मणो गुरुः इति श्रीनन्दराजोक्तेर्ब्रह्मणाद्ब्रामण्युत्पन्नदेहेस्यैव गुरुत्वं न ज्ञानवतः क्षत्रियादेरपीति तत्त्वम् । श्रवणादौ चित्तैकाग्र्यं समाधानता दृश्यते त्वय्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति श्रुतेः। सत्त्वात्सञ्जायते ज्ञानम् इति स्मृतेः । प्रमादादितमोधर्मस्थौल्यरजोधर्मचाञ्चल्यरहितसूक्ष्मैकाग्रबुद्ध्यैव बोधसम्भवात् । चित्तैकाग्र्यं तु संलक्ष्येत्समाधानम् इति स्मृतम् इत्याचार्यवचनाच् च । प्रदीप्तशिरसो जलराशिं प्रति प्रवृत्तिवत्संसारदुःखतप्तस्य ततोऽनवरतमोक्षेच्छा मुमुक्षुता—

संसार बन्धनिर्मुक्तिः कथं स्यान्मे कदा विधे ।
इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ इत्य् आचार्य-वचनात् ।

इति बहिरङ्गम् । द्वितीयस्तु—त्रिविधः श्रवणमनननिदिध्यासनभेदात् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतेः स श्रवणादिस्वन्तरङ्गं श्रवणादेर्ज्ञानाङ्गत्वेऽपि मिथोप्यङ्गाङ्गित्वं तत्र सर्ववेदान्तानां प्रत्यगभिन्नद्वयब्रह्मणि तात्पर्यावधारणं श्रवणं कृत्यनधीनतया । विध्यनर्हत्वादात्मदर्शनस्यार्हर्थिकतव्यप्रत्ययेनात्मा दर्शनार्ह इति साक्षात्तदृर्शनमुद्दिश्य विधानात् वेदान्तप्रमाणगोचरत्वाच् च । प्राधान्येन तस्य श्रवणस्याङ्गित्वं नानोपपत्तिभिस्तद्विचारात्मकमननस्य तत्प्रमेयगता सम्भावना निरासकत्वात्तत्प्रमेयाविषयकानवरतप्रत्ययप्रवाहात्मकनिदिध्यासनस्य च तत्प्रमेयगतविपरीतभावनानिरासकत्वात्तत्फलोपकार्यगत्वं निदिध्यासनोपमर्याविपरीतभावना द्विविधा द्वैतप्रपञ्चस्य सत्यत्वरूपा तद्भानरूपा च । तत्र प्रथमा तु सादरनैरन्तर्यकियत्कालाभ्यासे नापनीयते तदपनये एव जिज्ञासोर्विद्वद्व्यवहारः संशयविपर्ययाप्रतिबद्धज्ञानत्वात् । प्रपञ्चभानात्मकविपरीतभावनानिवृत्तौ तु तद्भानं विना भोगासम्भवात्स्वफलभोगाय प्रारब्धं कर्म तत्प्रतिबध्नाति प्रारब्धकर्मणां विनश्यदवस्थायां तत्तद्रक्षणे प्रयोजनाभावात्तत्प्रतिबन्धक्षये निदिध्यासनोपकृततत्त्वज्ञानं सकारणलेशं तम् अपि भानाप्रयोजकं विपर्यासं निवर्तयति भूयश्चान्ते विश्वमायानिवृत्तिः इति श्रुतेः । तच्च निदिध्यासनं द्विविधं योगसाध्यं केवलं च । विक्षिप्तचित्तानां चित्तदर्पोपशमपूर्वकत्वाभिमुख्याय योगसाध्यं हरिगुरुभक्त्या तत्कृपालवेन स्वत एव तत्त्वाभिमुखचित्तानां तु केवलं—

तच्-चिन्तनं तत्-कथनम् अन्योन्यं तत्-प्रबोधनम् ।
एतद् एक-परत्वं च ब्रह्माभ्यासं विदुर् बुधाः ॥ इत्य्-आदि-वचनात् ।
समाहितैकः करणैर् गुणात्मभिर् गुणो भवेन् मत्-सुविविक्त-धाम्नः ।
विक्षिप्यमाणैर् उत किं नु दूषणं धनैर् उपेतैर् विगतै रवेः किम् ॥

इत्य्-आदि-श्रीमद्-भगवतोक्तेश् च । तद् एतद् यावद् यत्र साध्यं योगः समाधिर् इत्य्-आदि-शब्दाभिधेयं ततश् च स्वाभाविकं तु परमः समाधिः पराभक्तिरित्य्-आदिशब्दाभिधेयं स्यात्—

देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र ममाधयः ॥
सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।
भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥

इत्य्-आदिवचनैः तत्र देहाभिमाने गलिते इत्य् अत्र देहाभिमानशब्दो नामरूपमात्रोपलक्षणं प्रापञ्चिकनामरूपसत्यत्वभ्रमनिवृत्तौ परमात्मनि सर्वत्र सत्ताभानप्रियरूपेणानुगते सच्चिदानन्दविग्रहे कृष्णब्रह्मणि विज्ञात इत्यर्थः। श्रीमद्-भागवतवाक्येऽपि सर्व-भूतेष्वात्मनो भगवद्भावं भूतानि भगवत्यात्मनीत्युक्त्या प्रपञ्चस्यात्मव्यतिरेकोक्त्या बाधेनात्मभगवच्छब्दयोर्मुख्यसामानाधिकरण्याच्च। प्रत्यगभेदेनाद्वैतम् एव पर्यवसितं तथा चैवंविधन परमेण समाधिनातिष्ठत्सर्वस्यैतस्य

यस्यास्ति भक्तिर् भगवत्य् अकिंचना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः ॥

इत्य्-आदि-वचनैः भगवद्-भक्त्य्-अधीनतया तस्याश् च—

भवापवर्गो भ्रमतो यदा भवेज्
जनस्य तर्ह्य् अच्युत-सत्-समागमः ।
सत्सङ्गमो यर्हि तदैव सद्गती
परावरेशे त्वयि जायते मतिः ॥

इत्य्-आदिना सत्-सङ्गाधीनतया ममापि साधूत्तमतया मत्-सङ्ग-लब्धया भक्त्यैवातिष्ठ । तत्-कलम् आह—भवान् इति । तत्र स्थित्या भवान् कल्प-विकल्पेषु कल्पस्य विविध-सर्गेष्व् अपि मदैकात्म-दृष्ट्या कर्हिचिन् न विमुह्यति, तत्र को मोहः कः शोकः एकत्वम् अनुपश्यतः इति श्रुतिः ।

नारायण-परा राजन् न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-निरयेष्व् अपि तुल्यार्थ-दर्शिनः ॥

इत्य्-आदि-वचनैर् निरयादिष्व् अपि नाम-रूप-भेद-दृष्टेर् एव दुःख-मय-हेतुतया तद्-अपबाध्यः स्वर्गापवर्ग-निरयेष्व् अपि तुल्योऽर्थः सत्ता-भानाद्य्-आत्मक-नारायण-स्वरूपं तद्-दर्शिनोऽत एव नारायण-परास् तथा च द्वितीयाद् वै भयं भवति । भयं द्वितीयाभिनिवेशतः स्यात् इत्य्-आदि-श्रुति-स्मृति-वर्णित-प्रत्यक्षानुभूत-भय-हेतु-द्वितीयाभावान् न बिभेतीति भावः ।

यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः ।
नानात्वम् आत्मनो यावद् अखातन्त्र्यं तदैव हि ॥
यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् ।
य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः ॥

इत्य्-आदिभिश् च गुण-वैषम्य-निमित्त-नानात्व-भाने एव भय-शोक-मोह-निर्देशात् ॥

भक्ति-ज्ञानोपदेशेन ब्रह्माणं विश्वम् एव च ॥

योऽमूमुचद् धरिः स्वात्मा तं वन्दे स्वात्मनो गुरुम् ॥

हृत्-स्थो व्याख्यातवाञ् छ्रीशो मन्-मुखात् स्व-मुखोद्भवम् ।

वेदाबुध्यमृतं स्वेष्टन्तं स्वात्मानं गुरुं भजे ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं श्री-भागवतं सङ्क्षेपेणोपदेक्ष्यन्तं श्री-नारदं श्री-ब्रह्मापि तथैव सङ्कल्पं कारितवान्, यथा हरौ भगवति नृणां भक्तिर् भविष्यति [भा।पु। २.७.५२] इत्य्-आदि श्री-नारदेनापि तन्-महा-पुराणाविर्भावार्थं तथैवोपदिष्टम्, अथो महभाग भवान् [भा।पु। १.५.१३] इत्य्-आदिना ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् अतिगम्भीरार्थं चतुःश्लोकी-भागवतम् इदं कथं मया अवगन्तुं शक्यं, वैवदमानानां मत-वैविध्यात् ? इत्य् अत आह । एतन्-मतं मदीयं सम्यग् अनुतिष्ठ समाधिना चित्तैकाग्र्येण विमृशेत्य् अर्थः । कल्प-विकल्पेषु महा-कल्पानुकल्पेषु।

इति चतुःश्लोकी भागवत-विवृतिः सम्पूर्णा ।

इयं विश्व-जनीनातिरम्या सारार्थ-दर्शिनी ।

भक्ति-शास्त्रम् अधीयानैर् जनैर् दृश्या न चापरैः ॥३६॥

———————————————————————————————————————

॥ २.९.३७ ॥

श्री-शुक उवाच

सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् ।
पश्यतस् तस्य तद् रूपम् आत्मनो न्यरुणद् धरिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं सम्प्रदिश्योपदिश्य । जनानां परमेष्ठिनं परमे आधिपत्ये स्थितं ब्रह्माणम् । आत्मनस् तद्-रूपं न्यरुणद् अन्तर्हितवान् ॥३७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जन्मनो रुपं न्यरुणत् अनेन वैकुण्ठस्याप्यात्मरूपत्वमेवाङ्गीकृतम् इति । अत्र सन्दर्भः तदेवं श्रीमद्-भागवतं सङ्क्षेपेणोपदेश्यन्त श्री-नारदं ब्रह्मापि तथैव संकल्पं कारितवान् यथा हरौ भगवति नृणां मक्तिर्भविष्यति इत्य्-आदि श्री-नारदेनापि अथो महाभाग भगवानमोघदृक् इत्य्-आदिना तन्महापुराणाविर्भावार्थं तयैवोपदिष्टम् ॥३७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मनो रूपं न्यरुणद् इत्य् अनेन वैकुण्ठादिकम् अपि स्वरूपत्वेन एवाङ्गीकृतम् । एवम् एव हि व्याख्यातम् । अहम् एवासम् एवाग्र इत्य् अत्रापि अत ऋतेऽर्थम् इत्य् अत्रापि अर्थ-शब्दस्याप्य् अर्थः स अन्तरङ्ग-वैभव एव भगवान् गम्यते ॥३७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परमेष्ठिनं स्रष्टारम् आत्मनो रूपम् इति वैकुण्ठादिकम् अपि तस्यैव रूपम् इति ज्ञापितम् । न्यरुणद् अन्तर्धापयामास ॥३७॥

———————————————————————————————————————

॥ २.९.३८ ॥

अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः ।

सर्व-भूतमयो27** विश्वं ससर्जेदं**28** स पूर्ववत् ॥३८॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सर्वस्यापि प्रधानत्वात् स सर्व-मय ईर्यते इति च ॥३८॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्तर्हित इन्द्रियार्थः प्रत्यक्ष-रूपं येन तस्मै बद्धाञ्जलिः सन् ॥३८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्तर्हितः स्व-भक्त-चक्षुर्-आदीनाम् अर्थः परम-पुरुषार्थः स्व-सौन्दर्य-सौस्वर्य-सौरभ्यादिको येन तस्मै स ब्रह्मा पूर्ववत् पूर्व-पूर्वस्मिन् व्यतीते कल्प इत्य् अर्थः । तेन ब्रह्मणः स्व-कन्याभिगम-रूपो मोहः पूर्व-कल्पे तत्रैवाभूत् न तु चतुःश्लोकी-भागवतोपदेशानन्तरम् अपि भवान् कल्प-विकल्पेषु न विमुह्यति इति भगवद्-उक्तेः । यत् तु कृष्णावतारे ब्रह्म-मोहनं तत् भगवत्-कृपा-विलसितम् एव ज्ञेयम् ॥३८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अन्तर्हिते इति । अन्तर्हित इन्द्रियाणां चक्षुर्-आदीनाम् अर्थः परम-पुरुषार्थ-स्वरूपः स्वस्य प्रकाशो येन तस्मईति व्याख्येयम् ॥३८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्तर्हित इन्द्रियाणाम् । स्व-भक्त-चक्षुर्-आदीनाम् अर्थः परम-पुरुषार्थ-स्व-सौन्दर्य-सौरभ्यादिको येन तस्मै । पूर्ववत् पूर्व-पूर्वस्मिन् व्यतीते कल्पे इत्य् अर्थः । तेन ब्रह्मणः स्व-कन्याभिगम-रूपो मोहः पूर्व-कल्पे तत्रैवाभूत्, न तु चतुःश्लोकी-भागवतोपदेशान्तरम् अपि, भवान् कल्प-विकल्पेषु न विमुह्यतीति भगवद्-उक्तेः । यत् तु कृष्णावतारे ब्रह्म-मोहनं तत् तु भगवत्-कृपा-विलसितम् एव ज्ञेयम् ॥३८॥

———————————————————————————————————————

॥ २.९.३९ ॥

प्रजापतिर् धर्म-पतिर् एकदा नियमान् यमान् ।
भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थ-काम्यया ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-अनन्तरं पूर्वोक्तो ब्रह्म-नारद-संवादः प्रवृत्त इत्य् आह—प्रजापतिर् इति पञ्चभिः । प्रजानां भद्रम् अन्विच्छन् विमृशन् । सैव स्वार्थे काम्या स्व-प्रयोजनेच्छा29 तया यम-नियमान् अन्वतिष्ठत् ॥३९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तदनन्तरं च ब्रह्मनारदसंवादः प्रवृत्त इत्याह पञ्चभिः। यमनियमानातिष्ठत्स्वाचरणेन शिक्षयन् मत्प्रजा यमनियमानातिष्ठन्त्वित्येव स्वार्थकाम्या तया ॥३९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रजापतिर् इति । स्वार्थस्य स्व-स्रष्टृत्वस्य वाञ्छया नियमान् यमान् आतिष्ठत् । तत्र च किं कुर्वन् ? प्रजानां भद्रं, मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय चेत्य् उक्त-लक्षणम् इति ॥३९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद्-अनन्तरं पूर्वोक्त-ब्रह्म-नारद-संवादः प्रवृत्त इत्य् आह पञ्चभिः । प्रजानां भद्रम् अन्विच्छन् यम-नियमान् आतिष्ठत् स्वाचरणे शिक्षयन् मत्-प्रजा यम-नियमान् आतिष्ठन्त्व् इत्य् एव स्वार्थ-काम्या तया ॥३९॥

———————————————————————————————————————

॥ २.९.४० ॥

तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः ।
शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रिक्थादानां30 पुत्राणां मध्ये प्रियतमस् तं पितरं सेवमानः शीलादिना परितोषयामासेत्य् उत्तरेणान्वयः ॥४०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **रिक्थं धनं पैतृकं दायप्राप्तत्वेनाददत् इति रिक्थादाः पुत्रास्तेषां मध्ये प्रियतम इति कर्मयोगज्ञानयोगभक्ति-योगानां पैतृकधनानां मध्ये दक्षादयः कर्मयोगमापुः, सनकादयो ज्ञानं, नारदो भक्तिं प्रापेति नारदस्योत्कर्षात् । अनुव्रतः पितृभक्तः ॥४०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तम् इति युग्मकम् ॥४०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रिक्थं धनं पैतृकं दायं प्राप्तत्वेनाददते इति रिक्थादाः पुत्राः, तेषां मध्ये प्रियतम इति कर्म-योग-ज्ञान-योग-भक्ति-योगानां पैतृक-धनानां मध्ये दक्षादयः कर्म-योगं प्रापुः । सनकादयो ज्ञानं, नारदो भक्तिं प्रापेति, नारदस्योत्कर्षात् । अनुव्रतः पितृ-भक्तः ॥४०॥

———————————————————————————————————————

॥ २.९.४१ ॥

मायां विविदिषन् विष्णोर् मायेशस्य महा-मुनिः ।
महा-भागवतो राजन् पितरं पर्यतोषयत् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मायां माहात्म्यं विविदिषुः । अन्येषां माहात्म्य-पतेः ।

मुख्यतो विष्णु-माहात्म्यं माया-शब्दोदितं भवेत् ।
प्रधानत्वाच् च मातृत्वान् मेयत्वं चैव तस्य हि ॥ इति च ॥४१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किम् इच्छन् विष्णोर् मायां विविदिषन् ॥४१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मायां बहिरङ्गशक्तिं कृपां वा तस्या वैचित्र्यं ज्ञातुमिच्छन्नित्यर्थः। मायेशस्य मायाभर्तुः मायया कृपया ईष्टे सर्वं वशीकरोतीति मायेशस्तस्येति वा ॥४१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मायां कृपां विविदिषन् तस्या वैचित्रीं ज्ञातुम् इच्छन्न् इत्य् अर्थः । मायेशस्य मायया कृपया ईष्टे सर्वं वशीकरोतीति तस्य ॥४१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मायां बहिरङ्ग-शक्तिं कृपां वा, तस्या वैचित्रीं जूआतुम् इच्छन्न् इत्य् अर्थः । मायेशस्य माया-भर्तुः, मायया कृपया ईष्टे सर्वं वशीकरोतीति तस्येति वा ॥४१॥

———————————————————————————————————————

॥ २.९.४२ ॥

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निशाम्य दृष्ट्वा ज्ञात्वेत्य् अर्थः । मा माम् ॥४२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शाम्यतिर्दर्शने मिन्न इति हस्वाभावः। पिता कश्यपः पितामहो मरीचिः प्रपितामहो ब्रह्मोति विवेकः ॥४२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तुष्टम् इति भवान् यन् मानुपृच्छतीत्य् आदिकं तत्र तत्र तत् तत् सर्वस्य समावेशयितुं शक्यत्वात् ॥४२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निशाम्य दृष्ट्वा । मा माम् ॥४२॥

———————————————————————————————————————

॥ २.९.४३ ॥

तस्मा इदं भागवतं पुराणं दश-लक्षणम् ।
प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूत-कृत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगवता चतुः-श्लोक्या संक्षेपेण प्रोक्तं विस्तरेण प्राह । दश-लक्षणानि लक्षणीया अर्था विद्यन्ते यस्मिंस् तत् ॥४३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इदं बुद्धिस्थं भगवद्-उपदिष्टं दश-लक्षणम् इति जन्माद्य् अस्य इतिवच् चतुःश्लोक्याम् अपि तत्-तद्-अन्तर् भावयितुं शक्यत्वात् । तच् च यथा कथञ्चित् प्रदर्शितम् अपि न च पूर्णम् इदम् उपदिदेशेति व्याख्येयं, त्वम् एतद् विपुलीकुरु इति ब्रह्मणः प्राग्-उक्ति-विरोधात् । केचित् तु प्रथमं संक्षेपेण चतुःश्लोक्या प्रोच्य पुनर्दशलक्षणं द्वादशस्कन्धात्मकं सपूर्णम् एव भगवता प्रोक्तमित्याहुः । भूतानि चराचराणि करोत्युत्पादयति भगवत्सत्तयेति भूतकृद्ब्रह्मा ॥४३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्मा इति दश-लक्षणम् इति जन्माद्य् अस्येतिवत् चतुः-श्लोक्याम् अपि तत् तद् अन्तर्भावयितुं शक्यत्वात्, न च पूर्णम् उपदिदेशेति व्याख्येयम् । त्वम् एतद् विपुलीकुरु [भा।पु। २.७.५१] इति ब्रह्मणः प्राग्-उक्ति-विरोधात् ॥४३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवता चतुःश्लोक्या संक्षेपेण प्रोक्तं विस्तरेण दश-लक्षणं ब्रह्मा प्राह । चतुःश्लोक्या सङ्क्षेपेण प्रोच्य दश-लक्षणं द्वादश-स्कन्धात्मकं सम्पूर्णम् एव भगवता प्रोक्तम् इति च केचिद् आहुः ॥४३॥

———————————————————————————————————————

॥ २.९.४४ ॥

नारदः प्राह मुनये सरस्वत्यास् तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामित-तेजसे ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

हरिर् व्यासादि-रूपेण सर्वज्ञोऽपि स्वयं प्रभुः ।

शृणोति नारदादिभ्यो मोहायैषां प्रसिद्धये ॥ इति पाद्मे ॥४४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् सम्प्रदायतो भागवतं मया ज्ञातम् इत्य् आशयेनाह—नारद इति ॥४४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवं नारायणो ब्रह्मणे ब्रह्मा नारदाय नारदो व्यासाय व्यासो मह्यमहं तुभ्यमाख्यास्ये इति षट्संवादीया भागवती कथा प्रसिद्धेति नारदः प्राहेति च समाधिनानुस्मर तद्विचेष्टितमित्य् अनेनैवोपदिदेशेत्यर्थः । तेन ब्रह्महृदेतिवत् ब्रह्म परमं निर्विशेषरूपं ध्यायते इत्य् अनेन ततोत्युत्कृष्टता श्रीमद्-भागवतस्य द्योतिता ॥४४॥

इति श्री भागवत-भावार्थ-दीपिका-प्रकाशे द्वितीय-स्कन्धे नवमोऽध्यायः ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नारदः प्राप्तेति च समाधिनानुस्मर तद्-विचेष्टितं [भा।पु। १.५.१३] इत्य् अनेनैनोपदिदेशेत्य् अर्थः, तेन ब्रह्म हृदा [भा।पु। १.१.१] इतिवत् ब्रह्म परमं निर्विशेष-रूपं ध्यायते इति ततोऽप्य् उपर्येतत् द्योतितम् ॥४४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं नारायणो ब्रह्मणे प्राह, ब्रह्मा नारदाय, नारदो व्यासाय, व्यासो मह्यम्, अहं तु तुभ्यम् आख्यास्य इति भागवतीया कथा षट्-संवादीया प्रसिद्धा ॥४४॥

———————————————————————————————————————

॥ २.९.४५ ॥

यद् उताहं त्वया पृष्टो वैराजात् पुरुषाद् इदम् ।
यथासीत् तद् उपाख्यास्ते प्रश्नान् अन्यांश् च कृत्स्नशः ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

विराड् ब्रह्मा समुद्दिष्टस् तद्-गतः परमो मतः ।

अतो वैराजम् इत्य् एनम् आहुर् ईशत्वतो विराट् ॥ इति बृहत्-संहितायाम् ॥४५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भागवत-व्याख्यानेनैव त्वत्-प्रश्नानाम् उत्तरं दास्यामीत्य् आह—यद् उतेति । पुरुषावयवैर्लोकाः स-पालाः पूर्व-कल्पिताः [भा।पु। २.८.११] इत्य्-आदिना वैराजात् पुरुषाद् इदं विश्वं कथम् आसीद् इति यद् अहं त्वया पृष्टः तद् यथावद् उपाख्यास्यामि शृन्व् इति ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-**भागवत-व्याख्यानेनैव त्वत्-प्रश्नानाम् उत्तरं दास्यामीत्य् आह—यद् उतेति। पृष्ट इति—पुरुषावयवैर्लोकाः स-पालाः पूर्व-कल्पिताः… शुश्रुम [भा।पु। २.८.११] इति वदता त्वया तद्-विशेष-बुभूत्सया अहं व्यञ्जनया पृष्ट एवेत्य् अर्थः । यथा यथावत् ॥४५॥

———————————————————————————————————————

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वितीये नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां

द्वितीय-स्कन्धे श्री-भागवत-प्रवृत्तिर् नाम

नवमोऽध्यायः

॥ २.९ ॥

———————————————————————————————————————

(२.१०)


  1. यच्-छब्दस्योत्तर-वाक्य-गतत्वान् न तत्-पदापेक्षा । ↩︎

  2. सभाजितः सम्यग् आराधितः । ↩︎

  3. ‘सन्दृष्टवद्भिःऽ इति पाठः । तत्र सम्यक् परोक्ष-ज्ञानवद्भिर् इत्य् अर्थः । ↩︎

  4. विशेषेण बुध्यन्ते इति विबुधा ज्ञानाधिका नित्य-मुक्ताश् च । ↩︎

  5. ‘अधिष्ठितम्ऽ इति पाठः । ↩︎

  6. साङ्ख्य (भगवत्-सन्दर्भ रेअदिन्ग्) ↩︎

  7. एतादृशं स्व-लोकं दर्शयाम् आसेति पूर्वेण नवम-श्लोकेनान्वयः । ↩︎

  8. ‘पीतां शुकंऽ इति पाठः । ↩︎

  9. आगन्तुकैर् नश्वरैः । तत्-प्रमादाद् एव कदाचित् तद्-आभास-रूपतयैव प्राप्तैर् इत्य् अर्थः । ↩︎

  10. अष्टादश-श्लोकोत्तरं—ऽकृताञ्जलिं प्रश्रय-नम्र-कन्धरं विलोकयन् प्रेमदृशा समेधयन् ॥ऽ इदम् अर्धम् अधिकं क्वचित् । ↩︎

  11. ‘सध्र्यक्ऽ इति पाठः । तत्र सम्यग् इत्य् एवार्थः । ↩︎

  12. ‘पुंसाम्ऽ इति पाठः । ↩︎

  13. अप्रतिरुद्धेन अनर्गलेन । ↩︎

  14. अत्रात्मनेपदम् आर्षम् । ↩︎

  15. तु-शब्देन तु च रूपे सत्ये इत्य् अवधारयति । ↩︎

  16. परं अवरं इति । चिद्-आनन्दाद्य्-आत्मक-वैराजाख्यं परं रूपम् । सनवावरणाण्डाख्यम् अवरम् । विज॥ परावरे विश्वस्य निर्गम-प्रवेश-स्थान-भूते रूपे सिद्धां॥ ↩︎

  17. तद्-विषयां भगवद्-गुण-स्वरूप-सृष्ट्य्-आदि-लीला-विषयाम् । ↩︎

  18. अस्मिन् पक्षे समुन्नद्धेति नह-धातोर् लुङि प्रथम-पुरुषैकवचनम् ।ऽन माङ्योगेऽ इति निषेधान् माङ्योगे अड्-अभावः । ↩︎

  19. यानि रूपाणीत्य् अत्र यादृग्रूपो यादृग्गुणो यादृक्कर्मा चेत्य् अर्थः । दीपि॥ ↩︎

  20. अहम् एवास्मीति न त्व् अङ्कुरे जाते बीजवद् अनुपलम्भः । कारणतया पृथग्-अवस्थानात् । एतेनाप्रच्युत-स्वरूपत्वम् उक्तम् । ↩︎

  21. यद् एतद् इति । अनेन प्रपञ्चस्य वाग्-आलम्बन-मात्रत्वम् उक्तं वस्तुतः सर्वं ब्रह्म तन्मात्रम् इत्य् अर्थः । ↩︎

  22. ज्ञानागोचर- ↩︎

  23. स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य इति पाठ आकरे दृश्यते। ↩︎

  24. थे गित वेर्से इस् ओन्ल्य् इन् भगवत्-सन्दर्भ, नोत् क्रम-सन्दर्भ। ↩︎

  25. अत्रान्वयव्यतिरेकसाधनेनात्मा जिज्ञास्य इत्य् अर्थः, इत्य् अधिकं क्वचित् । ↩︎

  26. अन्वयः कार्येष्व् इति । यदा कार्याणि जायन्ते तदोपादानतयेश्वरस्य सर्वत्रैवानुवृत्तिः कुण्डलादिषु स्वर्णवत्। यदा अविकृतः कारणरूपेण वर्तते तदा कार्याणाम् अभावात् तेभ्यो व्यतिरेकः अविकृतसुवर्णवत् इति दीपि॥ ↩︎

  27. समष्ट्य्-आत्मकत्वेन सर्व-भूतमयः । ↩︎

  28. इदं व्यष्ट्य्-आत्मकम् । ↩︎

  29. अथ वा मत्-प्रजा यम-नियमान् आतिष्ठन्त्व् इत्य् एवं स्वार्थ-काम्या तया । ↩︎

  30. रिक्थं धनं पैतृकं दाय-प्राप्तत्वेनाददते इति रिक्थादाः पुत्राः । ↩︎