०८ परीक्षित्-प्रश्नः

विषयः

परीक्षितः प्रश्नाः ।

॥ २.८.१-२ ॥

राजोवाच—

ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च ।

यस्मै यस्मै यथा प्राह नारदो देव-दर्शनः ॥

एतद् वेदितुम् इच्छामि तत्त्वं तत्त्व-विदां वर ।

हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गलाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **

अष्टमे देह-संबन्धम् आक्षिपन्न् ईश-जीवयोः ।

बहून् परीक्षिद् आपृच्छत् पुराणार्थान् बुभुत्सितान् ॥१॥

त्वम् एतद् विपुलीकुर्व् इत्य् उक्तं तद् एव विपुलीकरणं पृच्छति—ब्रह्मणेति त्रिभिः । अगुणस्य गुणातीतस्यापि । देववद् दर्शनं यस्य सः ॥१-२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आक्षिपन्नीशस्य देहसम्बन्धः कथं कथं च जीवस्येत्यादिशङ्कां कुर्वन् । बुभुत्सितान् ज्ञातुमीप्सितान् १ हे ब्रह्मन्निति साक्षाद्वेदरूप एव त्वमतो मत्सन्देहमपाकर्तुं समर्थोसीति भावः। देवं सर्वत्र द्योतमानं भगवन्तं दर्शयति निजसेविनां तत्त्वोपदेशेनेति देवदर्शनः । यद् वा, देवस्य हरेर्दर्शनं साक्षात्कारो यस्य स तथा देवैस्तपआदिना द्योतमानैर्दृश्यत इति वा तथा अकारो वासुदेवः स एव देव उपास्यो येषां तेऽदेवा भगवद्भक्तास्तैर्दृश्यते इति वाकारप्रश्लेषेऽर्थः ॥ हेवेदविदां वर पैलादीनां मध्ये वरेति यत्तत्त्वं त्वया ज्ञायते तद्वेदविद्भिर् अपि ज्ञातुमशक्यम् इति भावः। एतत्तत्त्वं नारदव्याससंवादोत्तरव्यासस्याम्बुजोद्भुतश्री-भागवतमकरन्दपानम् एव मन्मनश्चञ्चरीकाभिमतं तत्त्वं तद् एव वेदितुं पातुमिच्छामीत्य् अर्थः । अतो हरेः कथाः कथयस्वेत्यग्रिमेणान्वयः । तत्र हेतुः अद्भुतं मनआल्हादकरं वीर्यं यस्य तस्य ॥१-२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथ भवतां प्रसादात् श्रोतव्यादिषु यद् यत् प्रकृष्टं, तत् तद् एव श्रुतम् । तद् यथा—आराध्यः श्री-कृष्ण एव, स च परस्माद् अपि परः । भक्तिर् एव पुरुषार्थः । तत्र प्रथमं भगवन्-नाम-सङ्कीर्तनम्, ततो ध्यानम् । एतानि महत्-सङ्ग-साध्यानि । महान्तश् च एकान्त-भक्ताः । इत्य् एतान्य् एव भागवत-शास्त्रार्थः । निश्चितं चैतत् सकलं मया, अतः कृतार्थोऽस्म्य् एव, किन्तु यावज् जीवामि, तावद् एव हरि-लीला श्रोतव्या । इदानीं मे स्मरणं विना मननादिष्व् असामर्थ्यं, तेन पुनर् उच्यताम् इति राजा परिपृच्छति—ब्रह्मणेत्य्-आदि । अगुणस्य प्राकृत-गुण-रहितस्य, देवस्य श्री-कृष्णस्य दर्शनं यत्र ॥१॥

ननु श्री-कृष्णस्यैवेति ते कोऽयम् अतिनिर्बन्ध इत्य् आशङ्क्याह—कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये इत्य्-आदि ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भ, ३२५): अत एवावतारान्तर-कथाया अपि तद्-अभिनिवेश एव फलम् इत्य् आह—**हरेस् तद्-अवतार-रूपस्य । अखिलात्मनि **सर्वांशिनि कृष्णे श्रीमद्-अर्जुन-सखे॥२-३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्मणेति सार्धकम् । अगुणस्य गुणाख्यान इति तद्-गुणानां प्राकृत-विलक्षणत्वं दर्शितम् । यस्मै यस्मै यथा प्राह इत्य् अस्योत्तराण्य् अग्रतः स्कन्धेषु श्री-नारद-वक्तृ-प्रकरणे ज्ञेयानि । हरेर् इति सार्धकम् । हरेः कथायाम् अपि विशेषं वाञ्छति यथाहम् इति ॥१-२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **

राजा कृष्ण-कथोत्सुक्यम् आविष्कृत्याष्टमे स्फुटम् ।

अपृच्छद् विविधान् अर्थान् श्री-शुकं संशयश् छिदम् ॥ओ॥

अगुणस्य मायिक-गुण-रहितस्य । देवस्य कृष्णस्येव दर्शनं यस्य सः ॥१-२ ॥

———————————————————————————————————————

॥ २.८.३ ॥

कथयस्व महाभाग यथाहम् अखिलात्मनि ।

कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निःसङ्गं मनः श्री-कृष्णे निवेश्येति स्व-प्रयत्नो दर्शितः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कृष्ण इति ममतास्पदानि राज्यादीनि त्यक्तान्य् एव । यद् अवशिष्टम् अहन्तास्पदं कलेवरम् अस्ति, तत्रापि निःसङ्गं मनः कृष्णे निवेश्यति कृष्ण-स्मरणे स्व-प्रयत्नो दर्शितः ॥३॥

———————————————————————————————————————

॥ २.८.४ ॥

शृण्वतः श्रद्धया नित्यं गृणतश् च स्व-चेष्टितम् ।

कालेन नातिदीर्घेण भगवान् विशते हृदि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सोऽपि श्रद्धया शृण्वतो नावश्यक इत्य् आह—शृण्वत इति । स्व-प्रयत्नं विनापि भगवान् स्वयम् एव हृदि विशति ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे महाभागेति । भजनं भाग अस्य वासुदेवस्य भागो यस्य सोऽभागः महांश् चासाव् अभागश् चेति महाभागस् तत्-संबुद्धौ तथा वैयासकिश् च भगवान् वासुदेव-परायणः [१०.१.१४] इत्य्-उक्तेस् त्वं श्री-कृष्ण-भक्तत्वान् महा-भागोऽसि त्वत्-कृपयाहम् अपि चन्दन-तरु-न्यायेन तथा स्याम् इति भावः ॥३-४॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : शृण्वत इति । नातिदीर्घोऽत्यल्पः ॥४॥ [मु।फ। १०.२]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु तद्-अतिदुष्करम् इत्य् आशङ्क्याह—शृण्वत इत्य्-आदि । यतः स्वयम् एव विशति, न दुष्करम् ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्रवणस्य प्रभावम् आह—शृण्वत इति । तत्-प्रभावाद् एव गृणतश् च ।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सोऽपि स्मरण-प्रयत्नः श्रवन-कीर्तनवतो भक्तस्य नावश्यक इत्य् आह—शृण्वत इति । स्व-प्रयत्नं विनापि भगवान् स्वयम् एव हृदयं प्रविशतीति श्रवण-कीर्तनाधीनम् एव स्मरणम् इति ज्ञापितम् ॥४॥

———————————————————————————————————————

॥ २.८.५ ॥

प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहम् ।

धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भाव-सरोरुहंहृदय-कमलं प्रविष्टश् च तद्-गतं सर्वं1 मलं धुनोति। सलिलस्येति । द्रव्यान्तर-व्यामिश्रणादिना कुम्भ-स्थे जले शोधिते तद् एव केवलं शुध्यति न तु नदी-तडागादि-गतम्, स च मलः कुम्भस्यान्तस् तिष्ठत्य् एव न तु सर्वथा विलीयते । अत एव किंचिच् चलनेन पुनः क्षुभ्यति च । एवं तपोदानादि प्रायश्चित्तं न सर्वथा सर्वेषां सर्वं पापं धुनोति, किन्तु सावशेषम्, तच् च कस्यचिद् एव, किंचिद् एव, हृदि प्रविष्ट-मात्रस् तु श्री-कृष्णः सर्वेषां2 सर्वं पापं निःशेषं हरतीत्य् अनेन दृष्टान्तेनोक्तं—सलिलस्य मलं यथा शरद् इति ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कथारूपेण भगवानेव प्रविष्टः सन्भावसरोरुहं हृदयकमलं तत्रान्तर्यामी सदा स्थितोप्युदासीन एव कर्णप्रविष्टः । कृष्णश् च जीवमामज्जयति स्वस्मिन्निति ध्वनितं भावो दास्यसख्यादिस्तद्रूपम् एव कमलम् इति वा शमलं कामक्रोधादि धुनोति ननु नात्यद्भुतम् इदं यतो ज्ञानयोगादयोप्येतत्कर्तुं प्रभवन्त्यत आह सलिलस्येति । द्रव्यान्तरमिश्रणादिना कुम्भस्थे जले शोधिते तद् एव केवलं शुध्यति न तु तडागादिगतं स च मलः कुम्भस्यान्तस्तिष्ठत्येव न तु सर्वथा विलीयतेऽत एव किचिच्चलने क्षुभ्यति च एवम् एव ज्ञानयोगतपआदयो न सर्वेषां किं तु कस्यचिदेव तस्यापि न सर्वथा किं तु किञ्चिदेव न तु सावशेषं कथञ्चिदेव हृदयमालिन्यं धुन्वन्ति तद् उक्तं—

यमादिभिर्योगपथैः कामलोमहतो मुहुः ।

मुकुन्दसेवया यद्वत्तथाद्धात्मा न शाम्यति ॥

इति हृदि प्रविष्टमात्रस्तु कृष्णः सर्वेषाम् अपि सर्वम् अपि निःशेषम् एवेति शरदृष्टान्तः सर्वेषाम् एव सर्वम् एव निःशेषम् एव हरत्येवेत्यवधारणचतुष्टयमत्र बोध्यम् ॥५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रविष्टः सन् किं करोति ? तत्राह—धूनोतीत्य्-आदि । शमो निर्वाणं तल् लातीति शमलम् अध्यात्म-योगम् । तत्र दृष्टान्तः—सलिलस्येत्य्-आदि । शरद्-दृष्टान्तेन निःशेष-हानिः प्रतिपद्यते, शरदि सर्वेषाम् एव सलिलानां मलं हरति । पातकादि पुनः कियद् एव ? यस्य नामैक-मात्र-कीर्तनेनैव सकल-कलुष-क्षयो भवति, तस्य स्वयं प्रवेशोऽपि तथैवेति कोऽयं महिमा ? ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रवेशे सति तु मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इति न्यायेन तत्-सम्बन्ध-परम्परया जगद् अपि पुनाति स भगवान् इत्य् आह—प्रविष्ट इति । स्वानां प्रवेशेन स्वीकृतानाम् । अत एव भाव-विशेष-धारिणो हृदयस्य तत् सुखदोपादेय-स्थानत्वात् भव-सरोरुहम् इत्य् उक्तम् । सलिल-शरद्-दृष्टान्तस् तु सर्व-पावन-मात्रांशे ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रविष्ट इति । कथा-रूपेण भगवान् एव प्रविष्टः सन् भाव-सरोरुहं हृदय-कमलम् इति तत्रान्तर्यामी सदा स्थितोऽप्य् उदासीन एव कर्ण-प्रविष्टः कृष्ण एव जीवं स्वस्मिन्न् आसञ्जयतीति ध्वनितम् । भावो दास्य-सख्यादिः । तद्-रूपम् एव कमलम् इति वा । शमलं काम-क्रोधादि धुनोति ।

ननु, नात्यद्भुतम् इदं यतो ज्ञान-योगादयोऽप्य् एतं कर्तुं प्रभवन्ति ? इत्य् अत आह—सलिलस्येति । द्रव्यान्तर-व्यामिश्रणादिना कुम्भस्थे जले शोधिते तद् एव केवलं शुद्ध्यति, न तु सर्वथा विलीयते । अत एव किञ्चिच् चलने पुनः क्षुभ्यति च । एवम् एव ज्ञान-योग-तप-आदयो न सर्वेषाम्, किन्तु कस्यचिद् एव । तस्यापि न सर्वथा किन्तु किञ्चिद् एव न तु स-विशेषम् । कथञ्चिद् एव हृदय-मालिन्यं धुन्वन्ति । यद् उक्तम्—

यमादिभिर् योग-पथैः काम-लोभ-हतो मुहुः ।
मुकुन्द-सेवया यद्वत् तथात्माद्धा न शाम्यति ॥ [भा।पु। १.६.३६] इति ।

हृदि प्रविष्ट-मात्रस् तु कृष्णः सर्वेषाम् अपि सर्वम् अपि निःशेषम् एवेति शरद् दृष्टान्तः ॥५॥

———————————————————————————————————————

॥ २.८.६ ॥

धौतात्मा पुरुषः कृष्ण-पाद-मूलं न मुञ्चति ।

मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च कृतार्थो भवतीत्य् आह । धौतात्मा निष्पापः । मुक्ताः सर्वे राग-द्वेषादयः परिक्लेशा येन । पान्थः प्रवासाद् आगतः स्वस्य शरणं3 गृहं यथा न मुञ्चति, तद्वत् ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु तस्यापि कियदिनानन्तरं धनाद्युपार्जनाय गृहागतं दृष्टम् एव तत्राह मुक्तत्यक्तः सर्वधनाद्युपार्जनलक्षणः क्लेशो येन स तथा ततश् च श्रीकृष्णस्य हृदि प्रवेशाच् च शरणं गृहरक्षित्रोः इत्यमरः ॥६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्री-कृष्णस्यान्तः-प्रवेशेनात्म-योगे धृते सति जनः किं करोति ? इत्य् आह—धौतात्मा पुरुष इत्य्-आदि । कृष्ण-पाद-मूलं न मुञ्चति, मग्नः स्यात् ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **धौतात्मेति । तत्-सम्बन्धेन शुद्धान्तः-करणोऽन्योऽपीत्य् अर्थः । एवं न कर्म-ज्ञानादिवत् स्व-कार्य-सिद्धौ तत्-त्यागः, किन्तु स्वतः परम-सुखदत्वम् अपि तस्येत्य् उक्तम् ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धौतात्मा शुद्ध-चित्तः । धौतात्मत्वे लिङ्गम् आह—कृष्णेति । अत एव तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भा।पु। ३.२८.३४] इति कपिल-देवोक्तेः कृष्ण-पाद-मूल-त्यागी योगी धौतात्म-मान्य् एव, न तु धौतात्मेति ज्ञेयम् । पान्थः प्रवासाद् आगत्य स्व-शरणं स्व-गृहं यथा न मुञ्चति । ननु, तस्यापि कियद्-दिवसानन्तरं धनाद्य्-उपार्जनार्थं स्व-गृहात् प्रवास-गमनं दृश्यते ? इत्य् अतो विशिनष्टि—मुक्तस् त्यक्तः सर्व-धनाद्य्-उपार्जन-लक्षणः क्लेशो येन, सः ॥६॥

———————————————————————————————————————

॥ २.८.७ ॥

यद् अधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभिः ।

यदृच्छया हेतुना वा भवन्तो जानते यथा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं श्रवणौत्सुक्यम् आविष्कृत्य सन्दिग्धान् अर्थान् पृच्छति । अधातुमतः धातवो महा-भूतानि तत्-संबन्ध-शून्यस्यास्य लौकिकस्यात्मनो जीवस्य धातुभिर् देहारम्भ इति यत् । एतत् किम् ? यदृच्छया निर्निमित्तं हेतुना वा कर्मादिना भवन्तो यथावज् जानते । अतः कथयन्त्व् इति शेषः ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दधति धारयन्ति सर्वम् इति धातवः दधातेरौणादिकस्तु प्रत्ययः ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं तत्-कथा-श्रवणौत्सुक्यं स्व-निष्ठां चाविष्कृत्य अन्यान् अप्य् अर्थान् अनेन भगवत्-प्रधानतया प्रोच्यमानान् अन्येषां तद्-उपयोगितया तद्-बोध-सौकर्याय स्याद् इति पृच्छति—यद् इत्य् आदिभिः । अत्र श्री-भगवद्-विग्रह-धाम्नोर् नित्यत्वादि-ज्ञापनाय प्रश्नार्थं दृष्टान्तयन् जीव-विग्रहम् अपि पृच्छति—यद् इति ॥७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं स्वाभिमतायाः शुद्धाया भक्तेः प्रथमाङ्ग-भूते कृष्ण-कथा-श्रवणे औत्सुक्यम् आविष्कृत्य, निर्गुणायाः सगुणायाश् च भक्तेर् यावत् स्वार्थेषु व्याप्तिः सम्भवति, तावतोऽप्य् अर्थान् पृच्छति । यद् अधातु-मत इत्य्-आदिना यावद्-अध्याय-समाप्तिः । एवं च—यत्र यत्र भक्तेर् गन्धोऽपि सम्भवति, तत्र तत्र निरपराधतयैव स्थातव्यम्, अन्यथा श्रीमत्या भक्ति-देव्या अप्रसाद इति स्व-साध्य-भक्तेर् अभ्युदयार्थं शुद्ध-भक्तैर् अपि स्वाभिमत-मधुर-श्रवण-कीर्तनादिषु लब्ध-निष्ठैर् अपि तानि तानि भक्तेर् उदाहरणानि प्रत्युदाहर्णानि च जिज्ञासनीयानीत्य् अभिव्यञ्जयति च । अधातु-मतो धातवो भूतानि तत्-संबन्ध-शून्यस्यास्य जीवस्य धातुभिर् देहारम्भ इति यत् । एतद् यदृच्छया निर्निमित्तम् एव, केनापि हेतुना वा, भवन्तो यथा जानते, तथा कथयन्त इति त्वत्तोऽन्ये एतन् न जानन्तीति ते कथं मया प्रष्टव्याः इति भावः ॥७॥

———————————————————————————————————————

॥ २.८.८ ॥

आसीद् यद्-उदरात् पद्मं लोक-संस्थान-लक्षणम् ।

यावान् अयं वै पुरुष इयत्तावयवैः पृथक् ।

तावान् असाव् इति प्रोक्तः संस्थावयववान् इव ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यश् चासाव् ईश्वरः, सोऽप्य् एतत्-तुल्य-देहवान् प्रोक्तः, अतस् तस्य को विशेषः ? इत्य् आशयेन पृच्छति—आसीद् इति सार्धेन । लोकानां संस्थानं रचना, तद् एव लक्षणं स्वरूपं यस्य, तत् त्रैलोक्यात्मकं पद्मं यस्योदराद् आसीत् । असाव् ईश्वर इयत्ता-युक्तैः स्व-परिमितैर् अवयवैर् अयं लौकिकः पुरुषो यावान् यत्-सङ्ख्याकावयव-युक्तः, तावान् प्रोक्तः संस्थावान्, अवयववान् इव च प्रोक्तः । अतः को विशेषस् तस्य ? इति ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतो जीवतुल्यदेहवत्त्वात् तस्येशस्य ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आसीद् इति सार्धकम् । अत्रेश-जीव-देहयोः कारण-कार्यात्मत्वं दर्शितम् एव तस्मात् तद्-अंशे तु न प्रश्नः किन्तु स्वरूपांश एवेति विवेचनीयम् ॥८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, यश् चासाव् ईश्वरः, सोऽप्य् एतत्-तुल्य-देहवान् प्रोक्तः, अतस् तस्य को विशेषः ? इत्य् आशयेन पृच्छति—आसीद् इति सार्धेन । लोकानां संस्थानं रचना, तद् एव लक्षणं स्वरूपं यस्य, तत् पद्मं यस्योदराद् आसीत् । इयत्ता-युक्तैः स्व-परिमितैर् अवयवैर् अयं लौकिकः पुरुषो यावान् यादृशावयव-युक्तस् ततः पृथग् अपि असाव् ईश्वरः तावान् एव प्रोक्तः, संस्था यथोचित-स्थौल्य-कार्श्य-दैर्घ्यादि-विन्यास-विशेषः, अवयववान् तद्वन्तः कर-चरणादयस् तद्वान् इवेति । यद्यपीश्वरस्य कर-चरणादयो जीवस्येव स्वतो भिन्ना न भवन्ति, तद् अपि तद्वान् इव चोक्तः । अतः कोऽपि विशेषस् तस्येति भावः ॥८॥

———————————————————————————————————————

॥ २.८.९ ॥

अजः सृजति भूतानि भूतात्मा यद्-अनुग्रहात् ।

ददृशे येन तद्-रूपं नाभि-पद्म-समुद्भवः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अवश्यं च विशेषो वाच्य इत्य् आह । अजो ब्रह्मा भूतानां व्यष्ट्य्-उपाधीनाम् आत्मा नियन्ता, समष्ट्य्-उपाधित्वात् । येन चानुगृह्णता तस्य रूपं ददृशे दृष्टवान् । एतच् च

तस्यापिद्रष्टुर् ईशस्य कूटस्थस्याखिलात्मनः ।
सृज्यं सृजामि सृष्टोऽहम् ईक्षयैवाभिचोदितः ॥ [भा।पु। २.५.१७]

इत्य् आदिनोक्तम् अनूद्यते । अग्रे तु स्पष्टं भविष्यति ॥९॥ \

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **येनानुगृह्णता हेतुना ददृशे ददर्श । अतस् तद्-दर्शने यद्-अनुग्रह-मात्रस्य हेतुत्वाद् वैलक्षण्यम् अस्त्य् एवेति भावः ॥९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अवश्यं च विशेषो वाच्य इत्य् आह । अजो ब्रह्मा भूतानां व्यष्ट्य्-उपाधीनाम् आत्मा नियन्ता, समष्ट्य्-उपाधित्वात् । सोऽपि नाभि-पद्म-समुद्भवः सन् यद्-अनुग्रहात् भूतानि सृजतीत्य् अन्वयः । न च स निराकार एव वाच्यो यतः अजेन तद्-रूपं ददृशे, स च अजोऽपि यन्-नाभि-पद्मोद्भवः । अतः स ब्रह्मणोऽपीश्वरो मायिक-पुरुष-तुल्याकारः किं मायिकाकारो न वेत्य् एतद् अपि वाच्यम् इति भावः ॥९॥ \

———————————————————————————————————————

॥ २.८.१० ॥

स चापि यत्र पुरुषो विश्व-स्थित्य्-उद्भवाप्ययः ।

मुक्त्वात्म-मायां मायेशः शेते सर्व-गुहाशयः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रश्नान्तरम् आह—स चापीति । यत्र शेते येन रूपेणावतिष्ठते । विश्वस्य स्थित्य्-आदयो यस्मात् । एवम्-आदि-प्रश्नानां तत्त्वतोऽर्हस्य् उदाहर्तुं [भा।पु। २.८.२४] इति सर्वान्ते क्रियया सम्बन्धः ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **येन भगवतानुग्रहं कुर्वता तस्यैव भगवतः एतच्च भगवद्रूपदर्शनवृत्तं च अनूद्यतेऽनुवादः क्रियतेऽग्रे नवमाध्याये ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-विग्रहस्य कैमुत्याया स चापीति । यत्र स्थाने । मुक्त्वात्म-मायाम् इति । तस्य स्थानस्यामायिकत्वम् अभिप्रेतम् । शेते प्रकृतिं प्रतिदृष्टिं निमील्य तिष्ठति । सर्वेषाम् अपि गुहायां दुर्ज्ञेय-स्थाने शेते वसतीति सः ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रश्नान्तरम् आह—स चापि पुरुषः प्रकृतीक्षण-कर्ता, यत्र शेते, तत्-स्थानं कथयेत्य् अर्थः । मायेशोऽपि माया-भर्तापि मायां त्यक्त्वा तस्य बहिरङ्ग-शक्तित्वात् ताम् अस्पृष्ट्वेत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ २.८.११ ॥

पुरुषावयवैर् लोकाः सपालाः पूर्व-कल्पिताः ।

लोकैर् अमुष्यावयवाः स-पालैर् इति शुश्रुम ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **निजावयवेभ्यः सृष्टाः । बाह्यावयवा लोकैः कल्पान्ते ॥११॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रश्नान्तरम् आह । पुरुषस्यावयवैः पूर्वं कल्पिताः यस्येहावयवैर् लोकान् कल्पयन्ति[भा।पु। २.५.३६] इत्य् आदौ । लोकैश् चामुष्यावयवा इति पातालम् एतस्यहि पाद-मूलं [भा।पु। २.१.२६] इत्य् आदौ च त्वन्-मुखाच् छ्रुतवन्तो वयम् ॥११॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सन्देहे तु बीजम् आह पुरुषेति ॥११॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रश्नान्तरम् आह । पुरुषस्यावयवैः पूर्व-कल्पिताः । यस्येहावयवैर् लोकान् कल्पयन्ति[भा।पु। २.५.३६] इत्य् आदौ । तथा लोकैर् अमुष्यावयवाः कल्पिताः, पातालम् एतस्यहि पाद-मूलं [भा।पु। २.१.२६] इत्य् आदौ च त्वन्-मुखात् श्रुतवन्तो वयम् । अत्रान्यो विशेषश् चेद् अस्ति ? तम् अपि कथयेति भावः । अत्र यद् अधातु-मतः [भा।पु। २.८.७] इतीशितव्यं जीवं पृच्छामि । आसीद् यद्-उदरात् [भा।पु। २.८.७] इत्य्-आदिना ईश्वरं द्वितीयम् अण्ड-संस्थितं पुरुषं पृच्छामि । स चापि यत्र पुरुषः [भा।पु। २.८.१०] इति प्रथमं महत्-स्रष्टारं पुरुषं पृच्छामि । शेते सर्व-गुहाशयः [भा।पु। २.८.१०] इति तृतीयं सर्व-भूत-स्थं च पुरुषं पृच्छामि ।

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति स्मृतेः ।

पुरुषावयवैर् इति समष्टि-जीवं च पृच्छामीति प्रश्न-पञ्चकं शान्त-प्रीति-भक्तौ पर्याप्नोति । जीवाद् विशेषं भगवद्-रूपं ब्रह्मणो दृष्टं कथयेति व्यज्यमानः प्रश्नोऽपि प्रीति-भक्तौ पर्याप्नोति ॥११॥

———————————————————————————————————————

॥ २.८.१२ ॥

यावान्4** कल्पो विकल्पो वा यथा कालोऽनुमीयते ।**

भूत-भव्य-भवच्-छब्द आयुर्-मानं च यत् सतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं सन्देह-विपर्ययाभ्यां पृष्टम्, इदानीम् अज्ञातान् बहून् अर्थान् पृच्छति—यावान् इत्य्-आदिना । कल्पो महान् । विकल्पोऽवान्तरः । भूतादिः शब्दो यस्मात्, यस्य वाचक इति वा । सतः स्थूल-देहाभिमानिनो मनुष्य-पितृ-देवादेर् आयुषः प्रमाणम् ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनुमानप्रकारो भूतकालाद्यनुमानप्रकारः वस्तुतः कालस्यैकरूपत्वात्तत्र भूतादित्वं कथमनुमेयम् इति पृष्टमत्रेति ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रलयस्य वक्ष्यमाणत्वात् कल्प-शब्दे सृष्टि-प्रलय-मध्य-काल एव वाच्यः । भूतादि-शब्दो यस्मात् कालात् प्रवर्तत इति शेषः ॥१२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कल्पो महान् । विकल्पोऽवान्तरः । भूतोऽतीतः, भव्यो भावी, भवन् वर्तमान इति शब्दो यस्मात् स कालः । सतः स्थूल-देहाभिमानिनो मनुष्य-पितृ-देवतादेर् आयुषो यत्-प्रमाणं तत् कथय ॥१२॥

———————————————————————————————————————

॥ २.८.१३ ॥

कालस्यानुगतिर् या तु लक्ष्यतेऽण्वी बृहत्य् अपि ।

यावत्यः कर्म-गतयो यादृशीर् द्विज-सत्तम ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुमान-प्रकारः पृष्टो विशेषं पृच्छति—कालस्येति । अनुगतिः प्रवृत्तिः । कर्म-गतयः कर्म-प्राप्याणि स्थानानि । यादृशीः यादृश्यः ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे द्विजसत्तमेति । ब्राह्मणेषु श्रेष्ठा विद्वांसस्तेष्वपि त्वमुत्कृष्टोसि तपोविद्यानिष्णातत्वान्मत्सन्देहापाकरणे सर्वथैव समर्थोसीति । यद् वा, परोपकरणार्थायैव ब्राह्मणानां विधिनाविर्भावितत्वात्स स्वाभाविकयुष्मद्धर्म इति भावः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनुगतिर् अनुप्रवृत्तिः । अण्वी परमाण्व्-आदि-रूपा । बृहती वर्षादि-रूपा । कर्म-गतयो भद्राभद्र-कर्म-प्राप्याणि स्थानानि । यादृशीर् यादृश्यः । इति कर्म-प्राप्याणि स्थानानि सर्वाण्य् एव कालैः सूक्ष्म-स्थूल-विकल्प-कल्पैर् अवश्यम् एव ग्रस्यन्त इति कर्म-निर्वेदार्थं प्रश्न-द्वयं शुद्ध-भक्ताव् अपि पर्याप्नोति । यद् उक्तं श्री-भगवता—जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु [भा।पु। ११.२.२७] इति ॥१३॥

———————————————————————————————————————

॥ २.८.१४ ॥

यस्मिन् कर्म-समावायो यथा येनोपगृह्यते ।

गुणानां गुणिनां चैव परिणामम् अभीप्सताम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **जीवे कर्म-समावापः । परमेश्वरेण गृह्यते । गुणिनां महद्-आदि जीवानां सामर्थ्ये परिमाणम् । देवासुरेभ्यो मघवान् इत्य् आदि ॥१४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गुणानां सत्त्वादीनां परिणामं देवादि-रूपम् इच्छतां गुणिनां जीवानां मध्ये यस्मिन् परिणामे कर्मणां पुण्य-पापानां समावायः समुदायः । केन कर्म-समुदायेन कथं कृतेन कोऽधिकारी देवादि-भावं प्राप्नोतीत्य् अर्थः ॥१४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति ।

सत्त्वसङ्गादृषीन्देवानजसासुरमानुषान् ।

तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ॥

इत्य्-आदिभगवदुक्तेः केन सात्त्विककर्मणा को देवो भवति कथं वा भवतीत्यादि मत्सन्दिग्धमज्ञातञ्च त्वं ब्रूहीति भावः ॥१४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **गुणानां परिणामम् अभीप्सतां सुप्त-तत्-तद्-वासनानां गुणिनां जीवानां मध्ये येन जीवेन यस्मिन् परिणाम-निमित्ते यथा येन प्रकारेण यः कर्म-समवायो गृह्यत इत्य् अन्वयः । स कथ्यताम् इति शेषः ॥१४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुणानां सत्त्वादीनां परिणामं देवादि-रूपम् अभीप्सिताम् । गुणिनां जीवानाम् । यस्मिन् परिणामे । कर्मणां सुकृत-दुष्कृत-योग-ज्ञान-भक्तीनां समावायः समुदायः सम्भवति । तं कथय । स च परिणामो मानुष्य-देह एव ज्ञेयः । तस्मिन्न् अपि परिणामे, येन जीवेन, यथा यत् कर्म उपगृह्यते, तत् कथय । मानुष्ये च कर्म-ज्ञानादिषु कः कोऽधिकारी कथं किं किं कृत्वा किं किं साध्यं प्राप्नोतीत्य् अर्थः । प्रश्नोऽयं कर्म-मिश्र-ज्ञान-मिश्र-योग-मिश्र-शुद्ध-भक्तिषु पर्याप्नोतीति ॥१४॥

———————————————————————————————————————

॥ २.८.१५ ॥

भू-पाताल-ककुब्-व्योम-ग्रह-नक्षत्र-भूभृताम् ।

सरित्-समुद्र-द्वीपानां सम्भवश् चैतद्-ओकसाम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भू-पातालादीनां सम्भवः । एतान्य् ओकांसि येषां प्राणिनां, तेषां च सम्भवः । यथेति सर्वत्रानुषङ्गः ॥१५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतानि भूपातालादीन्योकांसि स्थानानि ओकः स्थानं गृहं देहम् इत्यभिधानात् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भूर्-आदीनां सम्भवः । एतान्य् ओकांसि येषां, तेषां च सम्भवः । यथेति सर्वत्रानुषङ्गः । भूर्-आदीनां बहु-विध-भक्तास्पदत्वात् तद्-ओकसां च प्रायोऽधिकृतादि-भक्तत्वात् प्रश्नोऽयं भक्तेषु पर्याप्नोति ॥१५॥

———————————————————————————————————————

॥ २.८.१६ ॥

प्रमाणम् अण्ड-कोशस्य बाह्याभ्यन्तर-भेदतः ।

महतां चानुचरितं वर्णाश्रम-विनिश्चयः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वर्णानाम् आश्रमाणां च विनिश्चयस् तत्-तत्-स्वभावैर् निर्धारः ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतत्स्वभाववान्विप्रादिरेतत्स्वभाववान्ब्रह्मचर्यादिश् च ज्ञेयस्तथा च तेषां स्वाभाविकधर्मान् ब्रूहीति समागतम् ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रमाणम् अण्ड-कोषस्यैत्यैश्वर्य-प्रधानायां भक्तौ कीदृशान्य् अण्डानि भगवत्-कृष्णौ सन्ति ? इति जिज्ञासायाम् । वर्णाश्रमेति वर्णाश्रम-धर्मा भक्ति-मिश्रतयैव सिध्यति । तद्-अनाथा वा ? इति जिज्ञासायां कर्म-ज्ञान-मिशायां च भक्तौ प्रश्नोऽयं पर्याप्नोति ॥१६॥

———————————————————————————————————————

॥ २.८.१७ ॥

युगानि युग-मानं च धर्मो यश् च युगे युगे ।

अवतारानुचरितं यद् आश्चर्यतमं हरेः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **युगे युगे प्रतियुगं यो धर्मो यच् च हरेर् अवतारानुचरितम् ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **हरेः श्री-कृष्णस्यावताराणाम् अनुचरितम् ॥१७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **युगानीति । युगावताराणां तत्-प्रवर्तित-भक्ति-विशेषाणां च जिज्ञासायाम् ॥१७॥

———————————————————————————————————————

॥ २.८.१८ ॥

नृणां साधारणो धर्मः सविशेषश् च यादृशः ।

श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **श्रेणीनाम् अङ्ग-रक्षकाणां युद्धेषूच्यते ॥१८॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स-विशेषो वर्णाश्रम-निबन्धनः । श्रेणीनां तत्-तद्-व्यवसायोपजीविनां व्यवहार-नियम-लक्षणो धर्मः । राजर्षीणां प्रजापालनाधिकारिणाम् । कृच्छ्रेष्व् आपत्सु जीवतां सर्वेषाम् ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **युगानीति । सङ्ख्याप्रश्नः युगमानं वर्षैरियत्तया परिच्छेदः ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नृणाम् अन्त्यज-पर्यन्तानाम् अपि साधारणो धर्मो भक्तिर् एव । विशेष-धर्मस् तज्-जाति-धर्म इति तद्-धर्मवत्त्वेऽपि ते भक्ता भवन्ति, किरात-हूणान्ध्र-पुलिन्द-पुल्कशा [भा।पु। २.४.१८] इत्य् आदेः । एवं श्रेणीनां तत्-तद्-व्यवसायोपजीविनां राजर्षीणां चेति तेष्व् अपि भक्तिमत्सु निरपराधयैव स्थातव्यम् इति विवक्षायाम् । कृच्छ्रेष्व् जीवतां धर्म इति आपद्-धर्म-प्रश्नः सर्व-विध-भक्तौ पर्याप्नोति ॥१८॥

———————————————————————————————————————

॥ २.८.१९ ॥

तत्त्वानां परिसङ्ख्यानं लक्षणं हेतु-लक्षणम् ।

पुरुषाराधन-विधिर् योगस्याध्यात्मिकस्य च ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **हेतु-लक्षणं ब्रह्म-लक्षणम् ॥१९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्वेषां तत्त्वानां प्रकृत्य्-आदीनां परिसङ्ख्यानं सङ्ख्या । लक्षणं स्वरूपम् । हेतुतो लक्षणम् । तत्-तत्-कार्य-हेतुत्वेन च लक्षणम् इत्य् अर्थः । पुरुषाराधनस्य विधिर् देव-पूजा-प्रकारः । अष्टाङ्ग-योगस्य च विधिः ॥१९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सङ्ख्यालक्षणं स्वरूपं कति तत्त्वानीति । इत्य् अर्थ इति । यस्मादेतत्कार्यमुत्पद्यते तदेतन्नामकं तत्त्वम् इति भावः । अष्टाङ्गयोगस्य यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपस्य लक्षणम् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्त्वानां प्रकृत्य्-आदीनां परिसङ्ख्यानं गणनम् । लक्षणं स्वरूपम् । हेतु-लक्षणं तत्-तत्-कार्य-हेतुत्वेन लक्षणम् इति पुरुषावतार-लीलायां योगस्येति योग-मिश्रायाम् ॥१९॥

———————————————————————————————————————

॥ २.८.२० ॥

योगेश्वरैश्वर्य-गतिर् लिङ्ग-भङ्गस् तु योगिनाम् ।

वेदोपवेद-धर्माणाम् इतिहास-पुराणयोः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **योगतो लिङ्ग-भङ्गः पूर्वोक्तः । पानेन ते देवेत्य् आदि पश्चात् ॥२०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **योगेश्वराणाम् ऐश्वर्येणाणिमादिनाऽर्चिरादि-गतिः । लिङ्ग-शरीरस्य भङ्गः प्रलयः। वेदा ऋग्-वेदादयः, उपवेदा आयुर्-वेदादयः, धर्माः धर्म-शास्त्राणि, तेषाम् । इतिहास-पुराणयोश् च गतिः स्वरूपम् ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अर्चिरादिगतिं तृतीयस्कन्धे वक्ष्यामः। आदिना यजुरादिग्रहः । द्वितीयादिना धनुर्वेदादिग्रहः । धर्मशास्त्राणि मन्वाद्यष्टादश स्मृतयः । इतिहासो भारतादिः। पुराणानि मात्स्यादीनि ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **योगेश्वराणां शम्भु-प्रभृतीनां महानुभाव-भक्तानाम् ऐश्वर्य-रूपा या गतिः । लिङ्ग-भङ्गः इति शान्त-भक्तौ वेदादीनां तात्पर्यम् इति शेषः । तच् च भ्क्तिर् एवेति भक्तौ ॥२०॥

———————————————————————————————————————

॥ २.८.२१ ॥

सम्प्लवः सर्व-भूतानां विक्रमः प्रतिसङ्क्रमः ।

इष्टा-पूर्तस्य काम्यानां त्रि-वर्गस्य च यो विधिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सम्प्लवोऽवान्तर-प्रलयः । यद् वा, सम्यक् प्लवनम् उद्भवः, विक्रमः स्थितिः, प्रतिसंक्रमो महा-प्रलयः, इष्टं वैदिकं कर्म, पूर्तं स्मार्तं—

वापी-कूप-तडागादि देवता-यतनानि च ।
अन्न-प्रदानम् आरामः पूर्तम् इत्य् अभिधीयते ॥ इति ।

तत्र च काम्यानाम् अग्नि-होत्रादीनां विधिः । त्रि-वर्गस्य धर्मार्थ-कामस्य विधिर् अविरोध-प्रकारः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सम्यक् प्लवः संसार-सिद्धान्त-रण-साधनं किम् ? विक्रमः । तत्र शौर्यः किम् ? प्रतिसङ्क्रमः । तत्र नाशः कः ? इति भक्तेर् अनुकूल-प्रतिकूल-वस्तु-जिज्ञासायाम् । यद् वा, सम्प्लव-विक्रम-प्रतिसङ्क्रमः सृष्टि-स्थिति-संहाराः । इष्टं वैदिकं कर्म, पूर्तं स्मार्तम् ।

वापी-कूप-तडागादि देवता-यतनानि च ।
अन्न-प्रदानम् आरामः पूर्तम् इत्य् अभिधीयते ॥ इति वा ।

काम्यानां काम्य-कर्मणाम् । त्रि-वर्गस्य धर्मार्थ-कामस्य । विधिर् अविरोध-प्रकारः कर्म-मिश्रायां भक्तौ ॥२१॥

———————————————————————————————————————

॥ २.८.२२ ॥

यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः ।

आत्मनो बन्ध-मोक्षौ च व्यवस्थानं स्व-रूपतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुशायिनां लीनोपाधीनां जीवानाम् । आत्मनो जीवस्य । व्यवस्थानं बन्ध-मोक्षातिरिक्त-स्वरूपेणावस्थानम् ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **संप्लवशब्दस्यावान्तरप्रलयग्राहकत्वे नैयत्यं दृष्ट्वाह—यद् वेति । अग्निहोत्रादिकं वैदिकं कर्म स्मार्तं स्मृतिविहितम् । तत्रेष्टापूर्तयोर् मध्ये । त्रिवर्गो धर्मकामार्थैः इत्यमरः ॥२१-२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनुशायिनां महा-प्रलये ईश्वरे लीनोपाधीनां जीवानां सर्ग इति साधक-भक्तानां च साधन-सिद्धि-जिज्ञासायाम् । पाषण्डस्येति भक्त्य्-असम्भव-जिज्ञासायाम् । आत्मनो माया-स्पृष्ट-जीवस्य । बन्ध-मोक्षाव् इति भक्ति-मिश्र-ज्ञाने ज्ञान-मिश्रायां भक्तौ वा । स्वरूपतो व्यवस्थानम् इत्य् आदि, त एव सदा माया-स्पर्श-शून्यस्य नित्य-मुक्तस्य विश्वक्सेनादेर् जीवस्य नित्य-भक्तौ ॥२२॥

———————————————————————————————————————

॥ २.८.२३ ॥

यथात्म-तन्त्रो भगवान् विक्रीडत्य् आत्म-मायया ।

विसृज्य वा यथा मायाम् उदास्ते साक्षिवद् विभुः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **द्वेधा वा आत्म-माया तद्-रूपा तद्-वशा चेति । तद्-वशया संसारयति । स्वरूपया विमोचयत्य् उदास्ते तद्-वशां विमुक्तस्य इतरयैवं रमयत्य् एष आत्मेष आनन्द इति सौकारायण-श्रुतिः ॥२३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उदास्ते प्रलये ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उदास्ते साक्षिवदुदासीन इव तिष्ठति ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विविधं क्रीडति सृष्ट्य्-आदि-समये । विसृज्य महा-प्रलये त्यक्त्वा । यद् वा, आत्म-तन्त्रो भगवान् श्री-कृष्ण एव, अन्येषाम् अवताराणाम् अवतारिणश् चात्म-तन्त्रत्वेऽपि विप्रवालक-हरणादौ कृष्णैक-पारतन्त्रादर्शनात् । आत्म-मायया योग-मायया, पूतनावधादौ क्रीडति । यथा वा, विसृज्य विशेषेण सृष्ट्वा मौषलादौ उद्यन्ते साक्षिवन् न तु साक्षी ॥२३॥

———————————————————————————————————————

॥ २.८.२४ ॥

सर्वम् एतच् च भगवन् पृच्छतो मेऽनुपूर्वशः ।

तत्त्वतोऽर्हस्य् उदाहर्तुं प्रपन्नाय महा-मुने ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **च-शब्दाद् अपृष्टम् अपि ॥२४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उदाहर्तुमितिहासादिपुरस्कारेण तत्त्वतो याथार्थेन वक्तुम् । प्रपन्नाय शरणमाप्ताय । हे महामुने इति प्रतिवचनसामर्थ्यं सूचयति ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **च-काराद् अपृष्टम् अपि ॥२४॥

———————————————————————————————————————

॥ २.८.२५ ॥

अत्र प्रमाणं हि भवान् परमेष्ठी यथात्म-भूः ।

अपरे चानुतिष्ठन्ति पूर्वेषां पूर्व-जैः कृतम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यस्माद् अनुतिष्ठन्ति तस्मात् परमेष्ठी प्रमाणम् ॥२५ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रमाणं सम्यक् ज्ञाता । यतस् तव ब्रह्म-नारद-व्यास-क्रमेण सम्प्रदायोऽस्तीति सामान्य-न्यायेनाह—परे चेति । यद् वा, त्वद्-अन्ये प्रायशो गतानुगतिका एव न तत्त्वविद इत्य् आह—परे चेति ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **परेऽपरे च पूर्वेषां मरीच्यादीनाम् अपि पूर्वजैर्ब्रह्मवादिभिः कृतमनुष्ठितं शास्त्रार्थम् । त्वम् अपि तदाचरणमेवाश्रयेति चेदाह—यद्वेति। व्यवहारासक्तत्वात्तेषां तत्त्वविस्मृतिर्भविष्यति त्वं तु व्यवहारातीत्वात्तत्त्ववित्तेभ्यः सर्वेभ्य उत्कृष्टोऽस्यतस्त्वदुक्तौ मे सर्वथैव विश्वास इति भावः । ननु त्वं त्वन्यकविमुखतोऽवगततत्त्वोऽपि किं पुनर्मां पृच्छसीत्यत आह—अत्रेति । अन्येषां कवीनां मध्ये हि निश्चितम् एव भवान्प्रमाणम् अतस्तत्तदर्थाभिज्ञोप्यहं भवन्मुखात्कीदृगुत्तरमाविर्भविष्यतीत्याकाङ्क्षायां पृच्छामि । परमेष्टी यथात्मभूः परमेश्वरप्रसादात्स्वतः सिद्धज्ञानस्तथा भवानपि परेऽन्ये तु पूर्वेषां पूर्वजैर्विद्वद्भिर् एव यद्यत्कृतं सर्वं दृष्ट्वा तेभ्योधीत्याधीत्यानुतिष्ठतीति **विश्वनाथः **॥२५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्रेति । यत आत्म-भूः श्री-नारायणोद्भूतत्वात् तत्-प्रकाशित-ज्ञान इत्य् अर्थः । नन्व् अहं गुरु-परम्परयापि प्राप्त-ज्ञान इति चेत् ? तत्राह—अपरे चेति । तादृशत्वं त्व् अन्येषाम् अपि वर्तत इत्य् अर्थः ॥२५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् अन्येभ्य एव ऋषिभिः सकाशात् त्वं पूर्वम् एवावगतैतत्-सर्वार्थ एव भवसि, तद् अपि किं मां पुनः पृच्छसि ? इत्य् अत आह—अत्रेति । अत्र तेषां सर्वेषाम् अपि ऋषीणां मध्ये, हि निश्चितम् एव भवान् प्रमाणम् । अतस् तत्-तद्-अर्थाभिज्ञोऽप्य् अहं भवन्-मुख-पद्मात् कीदृग् उत्तरम् आविर्भवतीत्य् अकाङ्क्षायां पृच्छामि । यथा परमेष्ठी आत्म-भूर् भगवत्-प्रसादात् स्वतः-सिद्ध-वेदार्थ-ज्ञानः, तथा भवान् अपि । परेऽन्ये तु पूर्वेषां पूर्वजैर् विद्वद्भिर् एव यद् यत् कृतं तत् तत् सर्वं दृष्ट्वा तेभ्योऽधीत्याधीत्य अनुतिष्ठन्ति ॥२५॥

———————————————————————————————————————

॥ २.८.२६ ॥

5मेऽसवः परायन्ति ब्रह्मन्न् अनशनाद् अमी6** ।**
पिबतोऽच्युत-पीयूषं तद्-वाक्याब्धि7-विनिःसृतम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तवानशन-द्विज-कोपाभ्यां व्याकुलस्य कुतः श्रवनम् ? तत्राह—नेति । न परायन्ति नापगच्छन्ति । न व्याकुलीभवन्तीत्य् अर्थः । अच्युत-कीर्ति-पीयूषम् ॥२६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । अशनाद् अप्य् अतिबलहेतुरसायनपानाद् इति भावः । कुपिताद्विजादित्य् अनेन द्विजकोपहेतुको मरणकालो लक्ष्यते । तथा च द्विजकोपहेतुकमरणाधिकरणसप्तमदिनरूपकालादन्यत्र कालेऽच्युतपीयूषं पिबतो मेऽसवोऽनशनान्न परायन्तीत्यन्वयः । सप्तमदिने मरणस्य शापबलेनावश्यम्भावित्वात्ततः पूर्वमच्युतपीयूषपानं कुर्वतोऽन्याननुसंधानाच्चोभयनिमित्तापि व्याकुलता नास्तीति भावः। यद्वाच्युतपीयूषं पिबतो मेऽसवोऽनशनाद्द्विजकोपाच् च न परायन्ति किंत्वन्यत्राच्युतपीयूषपानाभावे परायन्तीत्य् अर्थः । बालबोधिन्यां तु—कुपितद्विजावेतोर्यन्मरणं ततोन्यत्र तद्विना तस्य निवृत्तिस् तु नास्तीत्यर्थ इति व्याख्यातम् । चक्रवर्ती तु—कुपितद्विजात्सप्तमदिवसे तक्षकरूपो द्विज आयास्यति तस्मादन्यत्र तदागमने सत्यसवः पारस्यत्येवेति व्याचख्यौ ॥२६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद् अन्यत् पृष्टं तद् अपि हरेः कथां विना न कथयितव्यम् इत्य् अभिप्रेत्याह न मेऽसव इति । हे ब्रह्मन् ! अनशनात् तथा कुपितात् द्विजाद् अपि न मेऽसवः परायन्ति । तत्र हेतुः—पिबतोऽच्युत-पीयूषम् इति । अन्यत्र अन्यदा तु तस्मात् तस्माद् अपि परायन्तीत्य् अर्थः ॥२६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न चात्र मत्-कष्ट-दृष्टिः कार्या इत्य् आह—नेति । न परायन्ति न व्याकुलीभवन्ति । तत्र हेतुः—अच्युत-कथा-पीयूषं पिबतः । किन्तु कुप्त-द्विजात् सप्तम-दिवसे तक्षक-रूपो द्विज आयास्यति, तस्माद् अन्यत्रेति तद्-आगमने सति असवः परा यास्यन्त्य् एव, ततश् च अच्युत-कथा-पीयूष-पानं नाहं प्राप्स्यामीत्य् अतो भवता कृष्ण-कथायां न विलम्बनीयम् इति भावः ॥२६॥

———————————————————————————————————————

॥ २.८.२७ ॥

सूत उवाच—

स उपामन्त्रितो राज्ञा कथायाम् इति सत्-पतेः ।

ब्रह्मरातो8भृशं प्रीतो विष्णुरातेन संसदि ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

बाल्येऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणो यतः ।

दत्तोऽतो ब्रह्म-रातेति नाम वैयासकेर् अभूत् ॥ इति ब्राह्मे ॥२७ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपामन्त्रितः पृष्टः । संश् चासौ पतिश् च तस्य ॥२७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उपामन्त्रितः सत्कृत्य व्यापारितोऽत एव भृशं प्रीतः सतां ब्रह्मादीनां पत्युः ब्रह्मणा श्रीकृष्णेन मुनये गर्भान्निष्कास्य रातो दत्त इति ब्रह्मरातः शुकः । कृष्णेन ब्रह्मणा दत्तो व्यासाय मुनये स्वयम् निष्कास्य गर्भाद्वीटाया भूत्वाथ प्रतिभूर्येतः ॥ ब्रह्मरातो ह्यतः प्रोक्तः श्रीव्यासतनयो मुनिः इति परमब्रह्मवैवर्तादिवसेयम् । सभा संसत्सदः स्त्रियाम् इति धरणिः ॥२७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्मणा श्री-कृष्णेन रात इति ब्रह्म-वैवर्ताद् अनुसन्धेयम् ॥२७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सत्-पतेः कृष्णस्य कथायाम् इति तत्-तत्-प्रश्नोत्तराणां कृष्ण-कथात्वे इदं सूत-वाक्यम् एव प्रमाणं ज्ञेयम् । ब्रह्म-रातः शुकः ॥२७॥

———————————————————————————————————————

॥ २.८.२८ ॥

प्राह भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।

ब्रह्मणे भगवत्-प्रोक्तं ब्रह्म-कल्प उपागते ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यत्र ब्रह्मान्तरोत्पत्तिः ब्रह्म-कल्पः स ईरितः इति च ॥२८ ॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्म-कल्पे सृष्ट्य्-उपक्रम-कल्पे । भागवताख्यानेनैव प्रश्नानाम् उत्तरं दातुम् उपक्रान्तवान् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति राजप्रश्नोत्तरमिषेण श्री-भागवतं यत्संक्षेपतः सृष्ट्यादौ चतुःश्लोक्या ब्रह्मणे प्रोक्तं तद् एव श्रीव्यासविस्तारितं राज्ञे प्राहेति भावः ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्म-कल्पे ब्रह्मणो जन्मोपलक्षिते कल्पे भगवता सङ्क्षेपेण प्रोक्तम् ॥२८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भागवत्म् इति भागवताख्यानेनैव प्रश्नानाम् उत्तरं दातुम् उपक्रान्तवान् इत्य् अर्थः । ब्रह्म-कल्पे सर्वादिमे कल्पे ॥२८॥

———————————————————————————————————————

॥ २.८.२९ ॥

यद् यत् परीक्षिद् ऋषभः पाण्डूनाम् अनुपृच्छति ।

आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पाण्डूनाम् ऋषभः श्रेष्ठः । आनुपूर्व्येणेति प्रस्ताव-क्रमोऽत्र विवक्षितो न प्रश्न-क्रमः ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवं स्वाभिमतशुद्धभक्तेः प्रथमाङ्गीभूतकृष्णकथाश्रवणौत्सुक्यमाविष्कृत्य निर्गुणशुद्धभक्त्योर्यावत्स्वर्थेषु व्याप्तिः सम्भवति तावन्त एवार्थास्तत्तद्भक्त्यधिकारिणां जिज्ञासितार्थसिद्ध्यर्थं पृष्टाः। किं च, यत्रयत्र भक्तेर्गन्धोऽपि तत्रतत्र निरपराधतयैव स्थेयमन्यथा श्रीभक्तिदेव्या अप्रसाद एव स्वसाध्यभक्तेरभ्युदयार्थं शुद्धभक्तैर् अपि स्वाभीष्टश्रवणकीर्तनादिषु लब्धनिष्ठैर् अपि तानि तानि भक्तेरुदाहरणप्रत्युदाहरणानि जिज्ञास्यान्येवेति यदधातुमतः इत्यारभ्य शेते सर्वगुहाशयः इत्यन्तेन प्रश्नपञ्चकं शान्तप्रीतिभक्तौ पर्याप्नोति जीवाद्विशेषब्रह्मदृष्टभगवद्रूपप्रश्नोऽपि प्रीतिभक्तौ पर्याप्नोति कर्मप्राप्यस्थानानि सूक्ष्मस्थूलविकल्पकल्पैरवश्यं प्रस्यन्त इति कर्मनिर्वेदार्थं प्रश्नद्वयं शुद्धभक्तावेव पर्याप्नोति जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु इति भगवदुक्तेः । यस्मिन्कर्मसमावाय इत्य्-आदिप्रश्नोऽपि कर्मज्ञानयोगमिश्रशुद्धभक्तिषु पर्याप्नोति । भुवादीनां बहुविधभक्तास्पदत्वात्तदोकसां च प्रायोधिकृतादिभक्तत्वाप्रश्नोयं भक्तेषु पर्याप्नोति । प्रमाणमण्डकोशस्येत्यैश्वर्यप्रधानायां भक्तौ कीदृशान्यण्डानि हरिकुक्षौ सन्तीति जिज्ञासायां वर्णाश्रमधर्मा भक्तिमिश्रतयैव सिद्ध्यन्ति तदन्यथा वेति जिज्ञासायां च भक्तौ प्रश्नोयं पर्याप्नोति । युगानीति युगावताराणां तत्प्रवर्तितभक्ति विशेषाणां च जिज्ञासायां नृणामन्त्रजपर्यन्तानाम् अपि साधारणो धर्मो भक्तिर् एव सर्वेषां मदपासनम इत्य्-उक्तेः। विशेषधर्मस्तत्तज्जातिधर्म इति तद्धर्मवत्त्वेऽपि ते भक्ता भवन्ति किरातहूणान्ध्रेत्यायुक्तेः । श्रेणिराजर्षिध्वपि भक्तिमत्सु निरपराधतयैव स्थेयम् इति विवक्षायां कृच्छ्रेष्वित्यापद्धर्मप्रश्नः सर्वविधभक्तौ पर्याप्नोति । तत्त्वानाम् इति । पुरुषावतारलीलायां योगस्येति योगमिश्रायां योगेश्वराणां शंभुप्रभृतिमहानुभावभक्तानामैश्वर्यरूपा या गतिः लिङ्गभङ्ग इति शान्तभक्तौ वेदादीनां तात्पर्यम् इति शेषः। तच्च भक्तिरेवेति भक्तौ संप्लवः सम्यक् प्लवः संसारसिन्धोस्तरणसाधनं किं विक्रमस्तत्र शौर्यं किं प्रतिसंक्रमस्तु नाशः क इति भक्तेरनुकूलप्रतिकूलवस्तुजिज्ञासायाम । यता सृष्टिस्थितिप्रलयाः क्रमेण पृष्टाः काम्यकर्मेष्टापूर्तादीनां कर्ममिश्रायां भक्तौ अनुशायिनां महाप्रलये ईश्रर लीनोपाधीनां सर्ग इति साधकभक्तानां साधनसिद्धिजिज्ञासायां पाखण्डस्येति । भक्त्यसम्भवजिज्ञासायामात्मनो मायास्पृष्टजीवस्य बन्धमोक्षाव् इति भक्तिमिश्रज्ञाने ज्ञानमिश्रायां वा भक्तौ स्वरूपतो व्यवस्थानम् । सदा मायास्पर्शशून्यस्य नित्यमुक्तस्य विष्वक्सेनादेर्जीवस्य नित्यभक्तौ विविधं क्रीडति। सृष्ट्यादिसमये विसृज्य महाप्रलये । त्यक्त्वा यद्वात्मतन्त्रो भगवान्कृष्ण एवान्येषामवताराणामवतारिणश्चात्मतन्त्रत्वेऽपि विप्रबालकहरणादौ कृष्णैकपारतन्त्र्यदर्शनात् । आत्ममायया योगमायया पूतनावधादौ यथा वा विसृज्य विशेषेण सृष्ट्वा मौशलादावुदास्ते साक्षिवन्न तु साक्षीति सर्वस्य प्रश्नजातस्य भक्त्युपयोगित्वम् ॥२९॥

इति श्रीमद्-भागवते भावार्थदीपिकाप्रकाशे द्वितीयस्कन्धेऽष्टमोऽध्यायः ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आनुपूर्व्येणेति । भगवत्-कथाया एवानुगतया प्राप्तेन क्रमेण, न तु राज-प्रश्नवत् व्युत्क्रमेणेत्य् अर्थः ॥२९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आनुपूर्व्येणेति प्रस्ताव-क्रमो विवक्षितः, न तु प्रश्न-क्रमः ॥२९॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वितीयेऽत्राष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे परीक्षित्-प्रश्नो नाम अष्टमोऽध्यायः ।

॥८॥

———————————————————————————————————————

(२.९)


  1. सर्वं मलम् इति मूल-स्थ-शमलम् इत्य् अस्यार्थः । ↩︎

  2. सर्वेषाम् इत्य्-आदि । अत्र सर्वेषाम् एव सर्वम् एव निःशेषम् एव हरत्य् एव इत्य् अवधारण-चतुष्टयं ज्ञेयम् । ↩︎

  3. ‘शरणं गृह-रक्षित्रोःऽ इति कोशः । ↩︎

  4. यावान् इति । अत्र कल्प-विकल्प-पदाभ्याम् उत्पत्ति-प्रलययोर् मध्य-कालस्यैव टीकोक्त-महद्-अवान्तर-भेदेन ग्राह्यत्वंऽसंप्लवः सर्व-भूतानाम्ऽ इत्य् अग्रिमैकविंश-श्लोके सृष्टि-स्थिति-प्रलयानाम् उक्तत्वाद् इति दीपि॥ ↩︎

  5. ‘कुपित-द्विजात्ऽ इति पाठः । कुपिताद् द्विजाद् इति द्विज-क्रोध-हेतुर् मरण-कालो लक्ष्यते । अन्यत्रेति द्विज-कोप-निदान-भूतः सप्तम-दिन-मृत्यु-कालाद् अन्यत्रान्यस्मिन् कालेऽच्युत-पीयूषं पिबतो मेऽसवोऽनशनान् न परायन्ति । न व्याकुलीभवन्तीत्य् अर्थः । ननु यथेदम् अमृतं क्षुधां निवारयति तथा शापम् अपि निवारयिष्यतीत्य् आह—अन्यत्र कुपिताद् इति । सुबो॥ यद् वा, मेऽसवोऽ नशनाद् द्विज-कोपाच् च न परायन्ति, किन्तु अन्यत्र अच्युत-पीयूष-पानाभावे परायन्तीत्य् अर्थः । अथ वा अच्युत-पीयूषं पिबतो मेऽसवः प्राणाःऽतम् उत्क्रामन्तं “सर्वे प्राणा उत्क्रामन्तिऽ इति श्रुत्य्-उक्तानीन्द्रिय-लक्षणानि करणानि अन्यत्र अच्युत-पीयूषातिरिक्ते विषये अनशनाद् धेतोः भोजनादौ, कुपित-द्विजाद् धेतोः मरण-प्रतीकारे धन-कलत्रादौ च न परायन्ति न गच्छन्ति । अच्युत-कथामृत-पाने निश्चला भवन्तीति भावः । सिद्धान्त॥ ↩︎

  6. “अनाशनादिभिः” इति पाठान्तरम्। ↩︎

  7. “तन्-मुखाब्ज-“ इति पाठान्तरम्। ↩︎

  8. बालोऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणा यतः । दत्तोऽतो ब्रह्म-रातेति नाम वैयासकेर् अभूत्ऽ इति वचनाच् छुकस्य ब्रह्म-रातत्वं नान्यस्येति विज॥ ↩︎