विषयः
वराहावतारादारभ्य श्रीकृष्णावतारपर्यन्तं संक्षेपतो ऽवतारचरितवर्णनम् ।
॥ २.७.१ ॥
ब्रह्मोवाच—
यत्रोद्यतः क्षिति-तलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकल-यज्ञ-मयीम् अनन्तः ।
अन्तर्-महार्णव उपागतम् आदि-दैत्यं
तं दंष्ट्रयाद्रिम् इव वज्र-धरो ददार ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **
सप्तमे भगवल्-लीलावतारा ब्रह्मणोदिताः ।
नारदाय तु तत्-कर्म प्रयोजन-गुनैः सह ॥
यत्र यदा क्षिति-तलोद्धरणार्थं वाराहीं तनुं बिभ्रत् सन्नुद्यतोऽनन्तस्1 तदा तं सुप्रसिद्धं हिरण्याक्षं दंष्ट्रया ददार ॥१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषाम् अवताराणां कर्म-गुण-प्रयोजनैः ॥*॥
विरोध-परिहाराय व्याख्यान्तरम् आह । यद् वेति । करेण कर्ण-मूलेऽहन् [भा।पु। ३.१९.२५] इत्य् अत्र चक्रवर्ती तु प्रथमं करेण ततो दंष्ट्रया च ददारेति ज्ञेयम् ।
वराहावतार-प्रमाणम् आह—यस्य रूपं बिभ्रद् इमाम् अविन्दद् गुहां प्रविष्टां । सलिलस्य मध्यतः इत्य् आधाने वराह-सम्भारेण विनियुक्तान् मन्त्रतः प्रतीयते । यस्य वराहस्य रूपं बिभ्रद् ईश्वरः इमां पृथिवीं गुहां गूढ-स्थाने सलिलस्य मध्ये प्रविष्टाम् अविन्दल् लब्धवान् इति श्रुतेर् अर्थः ॥१-२॥
———————————————————————————————————————
कैवल्य-दीपिका: एवं तावद् इयता प्रबन्धेन मुमुक्षोः समाधि-सामग्रीं समग्राम् उक्त्वेदानीम् अस्यैव व्युत्थान-दशायां योगान्तराय परिहारार्थम् इष्टावाप्त्य्-अर्थं च भगवज्-जन्म-कर्मानुसन्धानं विधातुम् आह—विष्णोर् अवतार-रूपाणीति । व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् तेऽन्तरायाः ॥३०॥ दुःख-दौर्मनस्याङ्गम्-एजयत्व-श्वास-प्रश्वासा विक्षेप-सह-भुवः ॥ [यो।सू। १.३०-३१] । तत्र स्त्यानम् अकर्मण्यता । प्रमादः समाधि-भूमेर् अलाभः । अनवस्थितत्वं यल्-लब्धायां भूमौ चित्तस्याप्रतिष्ठा । जन्म-कर्मानुसन्धानेन महांल् लाभः । तद् उक्तं—जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [गीता ४.९] इति।
कुतश् चत्वारिंशद् एव ? चतुर्णाम् अन्येषाम् अप्य् उपलम्भात् । तत्राह—हरि इति । पौनरुक्त्यं च मन्वन्तरावतारार्थम् । ते चावताराश् चतुर्धा । कल्प-मन्वन्तर-युग-स्वल्प-भेदात् । तत्र कल्पावतारान् शृण्वन् अध्व-विघ्नोपशान्तये वराहं भावयेद् इत्य् आह—यत्र इति । आदि-दैत्यं हिरण्याक्षम् ॥१॥ [मु।फ। ३.१]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **करेण कर्ण-मूलेऽहन् [भा।पु। ३.१९.२५] इति वक्ष्यमाणात् प्रथमं करेणाहन्, पश्चाद् दंष्ट्रया च ददार इति ज्ञेयम् ॥१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **
अवताराः सप्तमेऽस्मिन् क्रोडाद्याः सह कर्मभिः ।
विभूतयश् च भक्ताश् च निरूप्यन्ते समासतः ॥ओ॥
वराहावतारम् आह । यत्र क्षिति-तलस्य भूतलस्य उद्धरणाय उद्यतः गत्वा उद्यमं चक्रे । तत्रैव अन्तर्-महार्णवे । उपागतं हिरण्याक्षं दंष्ट्रया करेण कर्ण-मूलेऽहन् [भा।पु। ३.१९.२५] इति वक्ष्यमाणात् प्रथमं करेण ततो दंष्ट्रया च ददारेति ज्ञेयम् ॥१॥
———————————————————————————————————————
॥ २.७.२ ॥
जातो रुचेर् अजनयत् सुयमान् सुयज्ञ
आकूति-सूनुर् अमरान् अथ दक्षिणायाम् ।
लोक-त्रयस्य महतीम् अहरद् यद् आर्तिं
स्वायम्भुवेन मनुना हरिर् इत्य् अनूक्तः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
क्रियाभिमाणाद्य्-अज्ञोऽसाव् इन्द्र-सूनुः प्रकीर्तितः ।
यज्ञे सत्त्वात् स्वयं विष्णुर् यज्ञो रुचि-सुतः स्मृतः ॥ इति पाद्मे ।
हरिर् इति ज्ञात्वेशावासाम् इत्य्-आदिनानूक्तः ।
त्रयी श्रुतिर् नित्य-वाक् च वेदोऽनुवचनं तथा ॥ इति ह्य् अभिधानम् ॥२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यज्ञावतारम् आह । रुचेः प्रजापतेः सकाशात् तद्-भार्याया आकूतेः सूनुः सुतः सुयज्ञो नाम जातः । स च स्व-भार्यायां दक्षिणायां सुयमान् देवान् अजनयत् । स एवेन्द्रः सन् यदा आर्तिम् अहरत् तदा पूर्वं सुयज्ञ इत्य् उक्तोऽप्य् अनु पश्चान् मनुना मातामहेन हरिर् इत्य् उक्तः । अनेन देवोत्पादनं लोक-त्रयार्तिहरणं च तस्य कर्म दर्शितम् । एवं सर्वत्रावतारस् तत्-कर्म च ज्ञेयम् ॥२॥
———————————————————————————————————————
कैवल्य-दीपिका: लोकापवाद-निरासार्थं यज्ञम् आह—जात इति । रुचिः पिता । आकूतिर् माता । दक्षिणा पत्नी । सुयमा नाम देवाः पुत्राः । स्वायम्भुवो मनुर् मातामहः । तेन सुयज्ञ इति प्रथमम् उक्तः पश्चाद् हरिर् इति । यतो लोकानाम् आर्तिम् अहरत् ॥२॥ [मु।फ। ३.२]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यज्ञावतारम् आह—रुचेः प्रजापतेः सकाशाज् जातः सन् सुयमान् देवान् अजनयत्। नाम्ना सुयज्ञः । आकूतेः स्वायम्भुव-पुत्र्याः सूनुः । दक्षिणायां स्व-भार्यायाम् । स एवेन्द्रः सन्, यदा आर्तिं पीडाम् अहरत्, तदा पूर्वं सुयज्ञ इत्य् उक्तोऽपि अनु पश्चात् मातामहेन मनुना हरिर् इत्य् उक्तः । एवम् अग्रेऽपि सर्वत्र जन्म कर्म पित्रोः स्वस्य च नाम यथा-योग्यं ज्ञेयम् ॥२॥
———————————————————————————————————————
॥ २.७.३ ॥
जज्ञे च कर्दम-गृहे द्विज देवहूत्यां
स्त्रीभिः समं नवभिर् आत्म-गतिं स्व-मात्रे ।
ऊचे ययात्म-शमलं गुण-सङ्ग-पङ्कम्
अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कपिलावतारम् आह । कर्दमस्य प्रजापतेर् गृहे च तद्-भार्यायां देवहूत्यां जज्ञे । नवभिः स्त्रीभिर् भगिनीभिः सह । स च स्व-मात्रे आत्म-गतिं ब्रह्म-विद्याम् उक्तवान् । यया आत्म-गत्या सा आत्मनः शमलं मलिनी-करणं गुण-सङ्ग-रूपं पङ्कम् अस्मिन्न् एव जन्मनि विधूय कपिलस्य गतिं मुक्तिं प्राप्तवती ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यथाहम् अपि ब्रह्मोद्भूतत्वात्ताहशोस्म्यहो श्रीकपिलो हि क्षीरशङ्खन्यायेन ब्राह्मणत्वे सति भगवदवतारत्वादतीवोत्कृष्टोस्तीति सम्भाषयमानं नारदं प्रति ब्रह्माह त्वम् अपि तादृश एवेति द्विजपदेन ध्वनितं यद्यपि द्विजपदं त्रिवर्णे शक्तं तथापि द्विजराजश्शशधरः इत्य् अत्र द्विजपदस्य ब्राह्मण एव मुख्या शक्तिरस्ति सोमोऽस्माकं ब्राह्मणानां राजा इति श्रुतिबलात् ॥३॥
कैवल्य-दीपिका: राज-सत्त्वादि-दोष-हानार्थं कपिलावतारम् आह—कपिल इति । कर्दमः पिता । देवहूतिर् माता । नव भगिन्यः । आत्म-गतिं ब्रह्म-विद्याम् । यया मात्रा पुत्रस्य गतिं मुक्तिं प्रपेदे । आत्म-शमलं मलिणी-करणम् । गुण-सङ्गाख्यं पङ्कं विधूय अस्मिन्न् एव जन्मनि । हे द्विज ! नारदः ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **जज्ञे चेति । आत्मनो भगवद्-रूपस्य गतिं ज्ञानम् उक्तवान् । कपिलस्य गतिं तदीय-नित्यावासं वैकुण्ठांश-विशेषम् ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कपिलावतारम् आह—जज्ञे जातः । द्विज हे नारद ! नवभिः स्त्रीभिर् भगिनीभिः । समं सह । यया आत्म-गत्या । आत्मनः शमलं मालिनी-करणं गुण-सङ्ग-रूपं पङ्कं विधूय । अस्मिन् जगति वर्तमानो जनः कपिलस्य गतिं त्रिपाद्-विभूतिस्थं कपिल-वैकुण्ठं प्रपेदे प्राप्तवान् ॥३॥
———————————————————————————————————————
॥ २.७.४ ॥
अत्रेर्2** अपत्यम् अभिकाङ्क्षत आह तुष्टो \
दत्तो मयाहम् इति यद् भगवान् स दत्तः ।
यत्-पाद-पङ्कज-पराग-पवित्र-देहा
योग-र्द्धिम्**3** आपुर् उभयीं यदु-हैहयाद्याः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अमयीं4 विष्णु-प्रधानाम् ॥४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दत्तात्रेयावतारम् आह । मयाहम् एव5 तुभ्यं दत्त इति यद् यत आह ततः स नाम्ना दत्तो जातः । स्व-भक्तेभ्यो योगैश्वर्य-दानं तच्-चरितं च दर्शयति । यस्य पाद-पङ्कजयोः परागस् तेन पवित्रा देहा येषां ते । उभयीम् ऐहिकीम् आमुष्मिकीं च भुक्ति-मुक्ति-रूपां6 वा ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दत्तात्रेयावतार-प्रतिपादिका श्रुतिर् अपि—
यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः
अत्र यस् तम् अन्वविन्दन् नह्य् अन्ये शक्नुवन् इति ।
अस्या अर्थः–सूर्यम् आत्मानं स्वर्भानुर् माया तमसा विपर्ययेण अविध्यत् जीवत्वम् अनयत् । अत्रेर् अपत्यान् यत्र यो दत्तात्रेयः बहुत्वं पूजार्थमने स्पष्टम् । तेषां मध्ये हैहयं तु प्राप्त-योग-र्द्धिकम् अपि महापराधत एवं हेतोः कुप्यन् छ्री-परशुरामो जघानेति ज्ञेयम् ॥४॥
———————————————————————————————————————
कैवल्य-दीपिका: अलब्ध-भूमिकत्व-निवृत्तये दत्तात्रेयम् आह—अत्रेर् इति । “आत्मैव मया तव पुत्रो दत्तः” इत्य् अत्रिं प्रत्य् आह । तस्माद् दत्तः । अत्र्य्-अपत्यत्वाद् आत्रेयः । इतश् चानिञ् इत्य् अपत्यार्थे ढक् । ऋद्धिं सिद्धिम् । उभयीं भुक्ति-मुक्ति-रूपाम् । हैहयः कार्तवीर्यः । आदि-शब्दाद् अलर्क-प्रह्लादौ ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दत्तात्रेयावतारम् आह—अत्रेर् इति । चतुर्थ्य्-अर्थे षष्ठी । मया अहम् एव तुभ्यं दत्तः इति यद् आह, ततः स नाम्ना दत्तो जातः । **योग-र्द्धिं **योग-सम्पत्तिम् उभयीम् ऐहिकीम् आमुष्मिकीं च भुक्ति-मुक्ति-रूपां वा । तेषां च मध्ये हैहयं तु प्राप्त-योग-र्द्धिकम् अपि महद्-अपराधत एव हेतोः कुप्यन् श्री-परशुरामो जघानेति ज्ञेयम् ॥४॥
———————————————————————————————————————
॥ २.७.५ ॥
तप्तं तपो विविध-लोक-सिसृक्षया मे7
आदौ सनात् स्व-तपसः स चतुः-सनोऽभूत् ।
प्राक्-कल्प-सम्प्लव-विनष्टम् इहात्म-तत्त्वं
सम्यग् जगाद मुनयो यद् अचक्षतात्मन् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मे तप्तः सतः । सः नः अर्थे । सनात् पूर्वम् ।
ब्रह्मणस् तपतः पूर्वं विष्णुर् जात उरुक्रमः ।
सर्व-लोक-हितार्थाय येन रूपं प्रकाशितम् ॥
यश् च पाति सदा लोकान् अजितो जयतां वरः ।
तस्मात् रुद्रः समुत्पन्नः सर्व-संहार-कृद् विभुः ॥
एते त्रिपुरुषाः प्रोक्ताः सृष्टि-स्थित्य्-अन्त-कारिणः ।
निमित्त-मात्रं तौ देवौ विष्णुः सर्वस्य कारणम् ॥ इति स्कान्दे ॥५॥
———————————————————————————————————————
तप्तं तपो विविध-लोक-सिसृक्षया मे8
आदौ सनात् स्व-तपसः स चतुः-सनोऽभूत् ।
प्राक्-कल्प-सम्प्लव-विनष्टम् इहात्म-तत्त्वं
सम्यग् जगाद मुनयो यद् अचक्षतात्मन् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुमारावतारम् आह । मे मया आदौ यत् तपस् तप्तं तस्मात् स्व-तपसो मत्-तपसो हेतोः स हरिश् चतुःसनोऽभूत् । सनत्कुमारः सनकः सनन्दनः सनातन इति चत्वारः सन-शब्दा नाम्नि यस्य सः ।9 कथम्भूतात् स्व-तपसः ? सनाद् अखण्डितात् । यद् वा, स्व-तपसः सनाद् दानात् समर्पणाद् इत्य् अर्थः । षणु दाने । स च पूर्व-कल्पस्य सम्प्लवे प्रलये विनष्टम् उच्छिन्न-सम्प्रदायम् आत्म-तत्त्वम् इह अस्मिन् कल्पे10 सम्यग् जगाद उक्तवान् । सम्यक्त्वं दर्शयति—यद् गदित-मात्रम् एव मुनय आत्मनात्मनि मनस्य् अचक्षत साक्षाद् अपश्यन् ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सन-शब्दस्याखण्डितार्थां प्रसिद्धिं मत्वाह । यद् वा इति । सन्दर्भस् तु–आदौ प्रथमं सनात् तन्-नामाभवत् सनात् सनातन तमः इति विष्णु-सहस्र-नामसु श्रवणात् ॥५॥
———————————————————————————————————————
कैवल्य-दीपिका: कामोपशमार्थं चतुःसनम् आह—तप्तम् इति । यन् मया तपस् तप्तं स चतुःसनोऽभूत् । तप एव चतुर्धावतीर्णम् । सनत्कुमारः, सनकः, सनन्दनः, सनातन इति । सन-शब्दोपलक्षित-चतुर्-भेदः सनात् अखण्डितं यत् स्व-तपः, तस्माद् इमानि नामानि सत्त्व्आत्म-तत्त्वं जगाद च यद् गदितं मुनयः आत्मन्य् अपश्यन् । उपदेशाद् एव साक्षात्कारोऽभूद् इत्य् अर्थः ॥५॥ [मु।फ। ३.५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सनाद् इति तन्-नाम्ना भगवान् इत्य् अर्थः । सनात् सनातनतमः इति सहस्र-नाम-स्तोत्रात् ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कुमारावतारम् आह—मे मया आदौ यत् तपस् तप्तं तस्मात्, स्व-तपसो हेतोः स हरिः चतुःसनोऽभूत् । सनक-सनन्दन-सनातन-सनत्कुमारा इति चत्वारः सन-शब्दा नाम्नि यस्य सः । अत एव सनाद् इति च नाम । सनं सन-शब्दम् अटति व्याप्नोतीति सः । सनात् सनातन-तमः इति सहस्र-नाम-स्तोत्रात् । इह अस्मिन् कल्पे । आत्म-तत्त्वंसम्यग् जगाद, यद् गदित-मात्रम् एव मुनय आत्मन् स्व-मनसि अचक्षत साक्षाद् अपश्यन् ॥५॥
———————————————————————————————————————
॥ २.७.६ ॥
धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां
नारायणो नर इति स्व-तपः-प्रभावः ।
दृष्ट्वात्मनो भगवतो नियमावलोपं
देव्यस् त्व् अनङ्ग-पृतना घटितुं न शेकुः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
नरो नारायणश् चैव हरिः कृष्णस् तथैव च ।
चत्वारो धर्म-तनया हरिर् एव त्रयो मतः ।
अनन्तो नर-नामात्र तस्मिंस् तु नर-नामवान् ।
विशेषेण स्वयं विष्णुर् निवसत्य् अम्बुजेक्षणः ।
तस्माच् चतुर्धा धर्मस्य जातो विष्णुर् इतीरितः ॥ इति षाड्गुण्ये ॥६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नर-नारायणावतारम् आह—धर्मस्य पत्न्यां दक्ष-दुहितरि मूर्ति-संज्ञायां नारायणो नर इति मूर्ति-द्वयेन जातः । कथम्भूतः ? स्वोऽसाधारणस् तपः-प्रभावो यस्य। तद् एवाह—अनङ्गस्य पृतनाः देव्योऽप्सरसो भगवतः सकाशाद् आत्मनः स्व-प्रतिरूपा उर्वश्य्-आद्याः स्त्रीर् दृष्ट्वा तस्य नियमावलोपं व्रत-भङ्गं घटितुं साधयितुं न शेकुः ।
यद् वा, आत्मनः स्वस्य यो नियमस् तपो-नाशन-रूपस् तस्य अवलोपं तत्र दृष्ट्वा भगवतस् तं घटयितुं न शेकुर् इति । एतच् चाख्यानम् एकादशे भविष्यति ॥६॥11
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अवलोपम् इत्य् अत्र भागुरि-मतेऽवेत्य् अस्याकार-लोपे पुनर् नवा समासेऽवलोपम् इति सिद्धम् । सम्भवत्वाद् अतिरम् आह । यद् वेति । तत्र भगवति तं नियमावलोपम् ॥६॥
———————————————————————————————————————
कैवल्य-दीपिका: उग्र-धर्म-हानार्थं नारायणावतारम् आह—धर्मस्य इति । धर्मः पिता । मूर्तिर् माता । दक्षो मातामहः । नरो भ्राता । स्वः अकृत्रिमः तपः प्रभावो यस्य स तथा । नियमावलोपं घटितुं निष्पादयितुम् । देव्योऽप्सरसः । न शेकुः, यद्यप्य् अनङ्ग-पृतनाः काम-सैन्यानि आत्मनः आत्म-रूपाणि अन्या अप्सरसो भगवतो नारायणस्य देहाद् उत्पन्ना दृष्टाः ॥६॥ [मु।फ। ३.७]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नर-नारायणावतारम् आह । धर्मस्य पत्न्यां मूर्त्यां नारायणो नर इति स्वरूप-द्वयेन जातः । स्वोऽसाधारणस् तपः-प्रभावो यस्यसः । अनङ्गस्य पृतना देव्योऽप्सरसस् तपो-भङ्गार्थम् आगताः । आत्मनः इति जात्यैकत्वम् । आत्मभ्यो हेतुभ्यो नियमावलोपं तपो-भङ्गाभावं दृष्ट्वा घटितुं चेष्टितुं न शेकुः । शाप-भय-स्तब्धा बभूवुर् इत्य् अर्थः । भागुरि-मते अवेत्य् अस्याकार-लोपे नञा अवलोप इति सिद्धम् ।
यद् वा, भगवतः सकाशात् आत्मनः स्व-प्रति-रूपा ऊर्वश्य्-आद्याः श्रीः नियमावलोपं व्रत-भङ्गाभावं च दृष्ट्वा घटितुं न शेकुः—विस्मयेन स्तब्धा बभूवुर् इत्य् अर्थः ॥६॥
———————————————————————————————————————
॥ २.७.७ ॥
कामं दहन्ति कृतिनो ननु रोष-दृष्ट्या
रोषं दहन्तम् उत ते न दहन्त्य् असह्यम् ।
सोऽयं यद् अन्तरम् अलं प्रविशन् बिभेति
कामः कथं नु पुनर् अस्य मनः श्रयेत ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यत्र काम-विजयी क्रोधोऽपि बिभेति यत्र कामो न प्रभवतीति किं वक्तव्यम् इत्य् आह—कामम् इति । कृतिनः श्री-रुद्र-प्रमुखा रोष-युक्तया दृष्ट्या कामं दहन्ति । रोषं त्व् आत्मानं दहन्तम् अपि12 ते न दहन्ति, क्रोधेन अभिभूयन्त इत्य् अर्थः । नु अहो सोऽयं रोषो यद्-अन्तरं यन्-मध्यं प्रविशन्न् अलं बिभेति । यद् वा, यस्यान्तर् मनः । कथं-भूतम्? अमलं निर्मलं प्रविशन्न् इति ॥७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः): इत्य् अर्थ इति । क्रोधः कामाद् बलीयान् इति भावः ॥७॥
———————————————————————————————————————
**कैवल्य-दीपिका : **नारायणस्य धैर्यं वर्णयन्ति–कामम् इत्य्-आदिना । केचित् कृतिनः । कामं तावद् रोषम् आविष्कृत्य दहन्ति । रोषं पुनस् तान् एव दहन्तं नो दहन्ति, न च सहन्ते । सोऽयं रोषः यस्यान्तः-करणं प्रविशत् अर्त्यर्थं बिभेति । कामस्य तु का वार्ता ? ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवतः काम-विजयोऽयं नाद्भुतः, यतस् तत्र क्रोधम् अकुर्वाणः क्रोध-जयम् अप्य् अन्यैर् दुष्करं कृतवान् इत्य् आह—कामम् इति । कृतिनः श्री-रुद्र-प्रमुखा रोष-युक्तया दृष्ट्या कामं दहन्ति । रोषं त्व् आत्मानं दहन्तम् अपि न दहन्ति, रोषेणाभिभूयन्त इत्य् अर्थः । नु अहो । सोऽयं रोषो **यद्-अन्तरं **यन्-मध्यं प्रविशन्न् अलं बिभेति । यद् वा, यस्यान्तर् मनः । कथंभूतम् ? अमलम् ॥७॥
———————————————————————————————————————
॥ २.७.८ ॥
विद्धः सपत्न्य्-उदित-पत्रिभिर् अन्ति राज्ञो
बालोऽपि सन्न् उपगतस् तपसे वनानि ।
तस्मा अदाद् ध्रुव-गतिं गृणते प्रसन्नो
दिव्याः स्तुवन्ति मुनयो यद् उपर्य्-अधस्तात् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अवतारो महा-विष्णोर् वासुदेव इतीरितः ।
यो ध्रुवाय निजं प्रादात् स्थानम् अन्यानधिष्ठितम् ॥ इति प्रकाश-संहितायाम् ॥८॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : चरित्रेणैव कम् अप्य् अवतारं13 सूचयति । मातुः सपत्न्याः उदितान्य् उक्तानि वाक्यान्य् एव पत्रिणो बाणाः, तैर् विद्धो ध्रुवो राज्ञ उत्तानपदोऽन्ति समीपे तपसे तपस् तप्तुम् । ध्रुव-गतिं ध्रुव-पदम् । यत् याम् उपरि स्थिताम् अधस्तात् स्थिता दिवि भवा दिव्याः सप्तर्षयः स्तुवन्ति । यद् वा, उपरि भृग्व्-आदयः अधस्तात् सप्तर्षय इति ॥८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र विश्वनाथः—पृश्निगर्भावतारम् आह–विद्ध इति । ध्रुव-गतिं नित्य-स्थल-विशेषम् इत्य् अर्थः । मुनि-शब्दो न केवलं सप्तर्षि-परम् एवेति तत्राह—यद् वा इति । वासुदेवावतारोऽयं पृश्निगर्भो ज्ञेयः ।
त्वम् एव पूर्व-सर्गे भूः पृश्निः स्वायंभुवे सति ।
तदायं सुतपा नाम प्रजापतिर् अकल्मषः ।
अहं सुतो काम-भवं पृश्निगर्भ इति स्मृतः ॥ [भा।पु। १०.३.३२]
इति दशमे कर्मानवणाद् अत्र तु जन्माश्रवणात् जन्म-कर्मणोः परस्पर-सापेक्षत्वाद् एकत्र सङ्गतिर् औचित्यात् तद् उक्तं भागवतामृते– \
अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै ।
परस्परम् अपेक्षित्वाद् युक्ता चैकत्र सङ्गतिः ॥ [ल।भा। १.३.५६] इति ।
न चात्र ध्रुवार्थं वैकुण्ठान् नारायण एवागतस् तेन पृथग् एवायं ध्रुव-प्रियोऽवतार इति वाच्यं, तद् उक्तं तत्रैव—
तत्रागमन-मात्रेण यदि स्याद् अवतारता ।
अन्यत्रापि प्रसज्जेत यथेष्टं तत्-प्रकल्पना ॥ [ल।भा। १.३.५७] इति ।
केचित् तु श्री-वासुदेवोऽयं ध्रुवार्थम् अवतीर्णः । यः खलु ध्रुव-लोकाधिष्ठातेति गम्यते तस्य तु द्वादशाक्षर-विद्योपासनया तल्-लोक-प्राप्तेस् तद्-भक्तत्वम् एव ययोत्तानपदः पुत्रो ध्रुवः कृष्ण-परायणः इत्य्-आद्य्-उक्तेर् इत्य् आहुः ॥८॥
———————————————————————————————————————
कैवल्य-दीपिका: उद्दिष्ट-सिद्ध्य्-अर्थं ध्रुव-प्रियं भावयेद् इत्य् आह—विद्ध इति । मातुः सुनीतेः सप्त्नी या सुरुचिः, तस्या उदितानि वाक्यानि तान्य् एव पत्रिणो बाणाः, तैः राज्ञः उत्तानपादस्य अन्तिके समीपे । ध्रुव-गतिं ध्रुव-पदम् । गृणते स्तुवते । दिव्या मुनयः सप्तर्षयः । यद् यत्र आत्मन उपरि-स्थितम् अधस्तात् स्थिताः ॥८॥ [मु।फ। ३.९]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : विद्ध इति । श्री-वासुदेव एवायं ध्रुवार्थम् अवतीर्णः । यः खलु ध्रुव-लोकाधिष्ठातेति गम्यते । तस्य द्वादशाक्षर-विद्योपासकत्वात् तल्-लोक-प्राप्तेश् च ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृश्निगर्भावतारम् आह—विद्ध इति । मातुः सपत्न्याः सुरुचेः उदितानि वाक्यान्य् एव पत्रिणो बाणाः, तैर् विद्धो ध्रुवः । राज्ञः उत्तानपदोऽन्ति समीपे । तपसे तपस् तप्तुम् । गृणते स्तुवते । ध्रुव-पदं नित्य-स्थल-विशेषम् इत्य् अर्थः । यत् याम् । उपरि-स्थिताः, अधस्तात् स्थिताः, दिवि भवा दिव्याः सप्तर्षयः स्तुवन्ति । यद् वा, उपरि-स्थिता भृग्व्-आदयः अधस्तात् सप्तर्षयः । वासुदेवावतारोऽयं पृश्निगर्भो ज्ञेयः ।
त्वम् एव पूर्व-सर्गेऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥ [भा।पु। १०.३.३२]
अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः । [भा।पु। १०.३.४१]
इति दशमे कर्माश्रवणात् । अत्र तु जन्माश्रवणात् जन्म-कर्मणोः परस्पर-सापेक्षत्वाद् एकत्र सङ्गतेर् औचित्यात् । यद् उक्तं भागवतामृते—
अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै ।
परस्परम् अपेक्षित्वाद् युक्ता चैकत्र सङ्गतिः ॥ [ल।भा। १.३.५६] इति ।
न चात्र ध्रुवार्थं वैकुण्ठान् नारायण एवागतः । तेन पृथग् एवायं ध्रुव-प्रियोऽवतार इति वाच्यम् । यद् उक्तं तत्रैव—
अत्रागमन-मात्रेण यदि स्याद् अवतारता ।
अन्यत्रापि प्रसज्येत यथेष्टं तत्-प्रकल्पना ॥ [लभगवत्-सन्दर्भा। १.३.५८] इति ॥८॥
———————————————————————————————————————
॥ २.७.९ ॥
यद् वेनम् उत्पथ-गतं द्विज-वाक्य-वज्र-
निष्प्लुष्ट-पौरुष-भगं निरये पतन्तम् ।
त्रात्वार्थितो जगति पुत्र-पदं च लेभे
दुग्धा वसूनि वसुधा सकलानि येन ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
पृथुर् नाम महाराजस् तत्र विष्णुः स्वयं प्रभुः ।
पृथु-नामा चतुर्बाहुः प्रविष्टस् तेन चार्थितः ॥ इति महा-संहितायाम् ॥९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पृथ्व्-अवतारम् आह । यद् यदा ऋसिभिर् अर्थितस्14 तदा वेनं त्रात्वा अन्वर्थं15 तत् पुत्र इति पदं नाम लेभे ।
पुं-नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥
इति हि पुत्र-पद-व्युत्पत्तिः । कथम्भूतम् ? द्विजानां शाप-वाक्यम् एव वज्रं तेन विप्लुष्टं दग्धं पौरुषं भगम् ऐश्वर्यं च यस्य तम् । चरित्रान्तरम् आह । येन च जगति जगद्-अर्थे वसून्य् अन्नादि-द्रव्याणि दुग्धा ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुद्भ्यः पुन्-नामकेभ्यो नरकेभ्यो यतः पितरं त्रायतेऽतः पुत्र इति । पुन्-नामका नरका विंशति-सङ्ख्याका वामन-पुराणे प्रोक्ताः । तथा हि—
पर-दाराभिगमनं पापि-सङ्गः पारुष्यं सर्वत्रेति प्रथमो नरकः ॥१॥
अत्र नरक-पदं नरक-साधन-परम् । पर-दाराभिगमनादि-जन्य-नरकेभ्यस् तप्तसूम्र्यादिभ्यः पातीति पुत्र इति भावः । एवम् अग्रेऽपि एषां प-वर्गम् आरभ्य मातृकास्थ-दीर्घो-कार-पर्यन्त-गणनात् पुन्नामकत्वम् इति ।
फल-स्तेय-फल-हीनाटन-वृक्ष-जातीय-च्छेदनं द्वितीयः ॥२॥
वर्ज्यादानावध्यावध-बन्धन-बान्धव-वादस् तृतीयः ॥३॥
भूत-मात्र-भय-दानं भूति-नाशनं भ्रंशनं निज-धर्मतश् चतुर्थः ॥४॥
मारण-मित्र-कौटिल्य-मिथ्योक्ति-मिष्टैकाशनानि पञ्चमः ॥५॥
योग-नाशन-यवादि-फल-हरणयान-युग्म-हरणानि षष्ठः ॥६॥
राज-भाग-हरण—राज-स्त्री-सङ्ग—गताहित-चिन्तनानि सप्तमः ॥७॥
लुब्धत्व-लोलुपत्व-लब्ध-धर्मार्थ-नाशनान्य् अष्टमः ॥८॥
वेद-ब्राह्मण-निन्दन-ब्रह्म-हरण-विप्रोत्कर्षासहन-विरुद्धाचरणानि नवमः ॥९॥ शिष्टाचार-विनाश-शिष्ट-द्वेष-शिशु-वध-शास्त्र-स्तेयानि दशमः ॥१०॥
षड्-अङ्ग-वेदानङ्गीकारं षाड्गुण्य-नीति-परित्यागाव् एकादशः ॥११॥
सन्-निन्दा सदाचार-लन्घन-पुरः सरान् आचार-स्वीकार-संस्कार-त्यागा द्वादशः ॥१२॥
हानिश् चतुर्वर्ग-विधेर् हेय-संग्रहादिस् त्रयोदशः ॥१३॥
क्षपणक-सङ्गस् तन्-मत-स्वीकारः क्षयाह-त्याग-क्षेत्र-हरणादिश् चतुर्दशः ॥१४॥
अज्ञ-सङ्गासत्योक्त्य्-असूया-शोचाशुभावह-प्रवृत्तयः पञ्चदशः ॥१५॥
आलस्यासत्कर्म-त्यागार्यावर्तीय-धर्मानङ्गीकाराचार्यासेवन-निन्दाश्रम-धर्म-त्यागादिः षोडशः ॥१६॥
इच्छा पर-दार-धनादेः सप्तदशः ॥१७॥
ईर्ष्या शास्त्रेष्व् अष्टादशः ॥१८॥
उद्धतत्वम् एकोनविंशः ॥१९॥
ऊर्ध्वं स्थितिर् गुरु-पित्रादेर् ऊतिर् वृद्धिर् विंशः ॥२०॥
एते पुन्-नामकाः पुद् इत्य् अत्र तपस्करणम् अदिदुद् इत्य्-आदिवत् उतिर् वासना सा चेह मन्दा ज्ञेया—
पुन्-नाम-नरकं घोरं विनाशयति सर्वतः ।
एतस्मात् कारणात् साध्यस् ततः पुत्रेति गद्यते ॥
शेषेभ्यो रक्षणाच् छिष्यः पापेभ्यः परिकीर्तितः ।
घृतादि-विक्रयो घोरश् चाण्डालादि-परिग्रहः ।
स्व-दोषाच्छादनं पापं पर-दोष-प्रकाशनम् ।
इत्य्-आदीनि च पापानि शेष-संज्ञानि वै विदुः ॥
यो गुरुं रक्षते तेभ्यः स शिष्यः परिकीर्तितः ।
तस्माच् छिष्यश् च पुत्रश् च विधातव्यौ प्रयत्नतः ॥
शिष्याच् छ्रेष्ठतरः पुत्रः सुमार्ग-निरतो यदि ।
विमार्गगाव् उभौ त्याज्यौ यद् उक्त-निरय-प्रदौ ।
विष्णु-भक्ति-युतौ कार्यौ प्रयत्नेन सुधी मता ॥
इति सर्वं वामन-पुराणे विततम् अस्तीति । वाराहे तु—
ऐहिकामुष्मिकं दुःखं पुद् इति प्रोच्यते ततः ।
त्राति पुत्र इति ज्ञेयः पुद्दः प्रोक्तस् ततोऽन्यथा ॥
ऐहिकं क्षुत्-पिपासा-शीतोष्ण-ज्वरादि । आमुष्मिक नरक-पातादीति विवेकः । जगति भू-लोके पुत्र-प्रदं मथितवेन भुजोत्पन्नत्वात् पुत्रेण प्राप्यं राज्यं लेभे इति तीर्थः । जगतीति निमित्ते सप्तमी अत आह । जगद्-अर्थम् इति ।
सन्दर्भस् तु—भगवन्-निन्दया वेनो द्विजैस् तमसि पातितः [भा।पु। ७.१.१६] इति सप्तम-स्कन्धोक्तेर् वेनस्य पितुर् नारदात् कदाचिन् नरक-भोगोत्तरं कुष्ठि-म्लेच्छत्व-प्राप्तिं श्रुत्वा तम् आनीय कुरुक्षेत्रान्तर्गत-पृथूदक-तीर्थे स्नपनादिना विशोध्य यातना-भोगाद् उद्दधारेति वामन-पुराणीय-कथाम् अप्य् आह ॥९॥
———————————————————————————————————————
कैवल्य-दीपिका: क्षुत्-पिपासा शान्त्य्-अर्थं पृथुम् आह—यद् वेनम् इति । त्राता रक्षिता । यत् पुत्र इति पदं नाम लेभे । पुन्-नाम्नो नरकात् त्रायते इति पुत्रः16 । तेन च वेनः पित्रा त्रातः । अर्थितो द्विजैः । जगति जगद्-अर्थं वसूनि रत्नानि ॥९॥ [मु।फ। ३.१०]
———————————————————————————————————————
यद् वेनम् उत्पथ-गतं द्विज-वाक्य-वज्र-
निष्प्लुष्ट-पौरुष-भगं निरये पतन्तम् ।
त्रात्वार्थितो जगति पुत्र-पदं च लेभे
दुग्धा वसूनि वसुधा सकलानि येन ॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निरये पतन्तम् इति पुनः पुनः पतनाय सज्जमानं त्रात्वा पुत्र-पदं च लेभ इति । न केवलं त्रातवान्, अपि तु पुत्र-पदं च पुत्रत्वम् अपि लेभ इत्य् अर्थ-व्यक्त्या तत्रोद्यतेषु मुनिषु कारुण्य-विशेष-व्यक्तिः । क्त्वा-प्रत्ययस् तु त्राणस्यावश्यकता-विवक्षया भाविनि भूतवन् निर्देशात् । किन्तु सप्तम-स्कन्धे—भगवन् निन्दया वेनो द्विजैस् तमसि पातितः [भा।पु। ७.१.१६] इत्य् अनुसारेणैकदा श्री-पृथु-राजेन श्री-नारदात् स्व-पितुर् नरक-भोगानन्तरं कुष्ठि-म्लेच्छ-प्राप्तिं श्रुत्वा तम् आनीय पृथूदकाख्य-कुरुक्षेत्र-तीर्थे स्नपनादिना क्रमेण तद्-अपरिच्छेद्य-यातना-भोगाद् उद्दधारेति वामन-पुराणाद् विशेषो ज्ञेयः ॥९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पृथ्व्-अवतारम् आह । यत् यदा ऋसिभिर् अर्थितस्तदा वेणं त्रात्वा अन्वर्थंतत् पुत्र इति पदं नाम लेभे ।
पुं-नाम्नो नरकाद्य् अस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥
इति पुत्र-पद-व्युत्पत्तिः । कथम्भूतम् ? द्विजानां शाप-वाक्यम् एव वज्रं तेन निष्प्लुष्टं दग्धं पौरुषं भगम् ऐश्वर्यं च यस्य तम् । श्री-पृथु-राजेन नारदात् स्व-पितुर् नरक-भोगानन्तरं कुष्ठि-म्लेच्छत्व-प्राप्तिं श्रुत्वा तम् आनीय पृथूदकाख्ये कुरुक्षेत्र-तीर्थे स्नपनादिना तद्-अपरिच्छेद्य-यातनाभोगाद् उद्दधारेति वामन-पुराण-कथा ज्ञेया । चरित्रान्तरम् आह—येन च वसुनि अन्नादि-द्रव्याणि । वसुधा पृथ्वी दुग्धा ॥९॥
———————————————————————————————————————
॥ २.७.१० ॥
नाभेर् असाव् ऋषभ आस सुदेवि-सूनुर्
यो वै चचार सम-दृग् जड-योग-चर्याम् ।
यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति
स्वस्थः प्रशान्त-करणः परिमुक्त-सङ्गः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यद् रूपं परमहंस-प्राप्यं पदम् आमनन्ति ॥१०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋसभावतारम् आह । असौ हरिर् नाभेर् आग्नीध्र-पुत्रात् सुदेव्याः सूनुर् आस । नाभेर् भार्याया मेरुदेव्या17 एव सुदेवीत्य् अपि संज्ञा । जडवद् योगेन नित्य-समाधिना चर्याम् । यद् इति याम्18 । तत्र हेतुः—सम-दृक् । तत्रापि हेतुः—स्व-स्थः स्व-स्वरूपे स्थितः । यतः प्रशान्तेन्द्रियः । तत् कुतः ? यतः परितो मुक्त-सङ्गः ॥१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पारमहंस्य-पदत्वे । तत्रापि समदृत्वेऽपि । तत्-प्रशान्तेन्द्रियत्वम् ॥१०॥
———————————————————————————————————————
कैवल्य-दीपिका: अनवस्थितत्व-हानार्थम् ऋषभम् आह–नाभेर् इति । नाभिः पिता । सुदेवी माता । जडवद् योगेन नित्य-समाधिना, चर्या जड-योग-चर्या । स्वस्थो न तु विषयस्थः ॥१०॥ [मु।फ। ३.११]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऋसभावतारम् आह–नाभेः सकाशात् आस अभूत् सुदेव्याः सूनुः । जडवद् योग-चर्याम् । यस्य पारमहंस्यं पदं चिह्नम् ऋषय आमनन्ति अभ्यस्यन्ति । ऋषभः कीदृशः ? स्वस्मिन्न् एव तिष्ठतीत् स्वस्थ इत्य्-आदि । अत्र समाप्त-पुनर्-आत्तता दोषश् चेद् एवं व्याख्येयम् । यस्य पारमहंस्यम् ऋषयः आमनन्ति, तेषु ऋषिषु परिमुक्त-सङ्गः । इमे मत्-पारमहंस्यं न जानन्त्व् इति तेषु प्रीति-रहितः । अत एव ते भ्रष्टा बभूवुर् इति तत्र कथा द्रष्टव्याः ॥१०॥
———————————————————————————————————————
॥ २.७.११ ॥
सत्रे ममास भगवान् हय-शीरषाथो
साक्षात् स यज्ञ-पुरुषस् तपनीय-वर्णः ।
छन्दोमयो मखमयो19ऽखिल-देवतात्मा
वाचो बभूवुर् उशतीः श्वसतोऽस्य नस्तः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
छन्दांसि च मख्याश् चैव देवा लोकाश् च सर्वशः ।
सर्वे विष्णौ स्थिता यस्माद् अतः सर्व-मयो ह्य् असौ ॥ इति महा-संहितायाम् ॥११॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हयग्रीवावतारम् आह—सत्रे इति । अथो इत्य् अर्थान्तरे । स एव साक्षाद् भगवान् मम ब्रह्मणः सत्रे यज्ञे हयशीर्षा आस । तपनीयं सुवर्णं तद्वद् वर्णो यस्य । छन्दो-मयो वेदमयः तद्-विधेया ये मखास् तन्-मयः । अमृतमय इति वा पाठः । मखैर् यजनीया अखिला देवतास् तद्-आत्मा च । अस्य श्वसतः श्वासं मुञ्चतो नस्तो नासा-पुटाद् उशतीर् उशत्यः कमनीया वेद-लक्षणा वाचो बभूवुः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तपनीयं रूप्य-हेम्नोः इत्य् अभिधानात् । तद्-विधेया वेद-विहिताः अस्य वै महतो भूमस्य निश्वसितं यद् ऋग्-वेदः [बृ।आ।उ। २.४.१०] इत्य्-आदि-श्रुतेः ॥११॥
———————————————————————————————————————
कैवल्य-दीपिका: देव-हेलन-कृत-दोष-हानार्थं हयग्रीवावतारम् आह–सत्र इति । सत्रे यज्ञे । मम ब्रह्मणः । हयशिराः आस बभूव । अथो पूर्णाहुतेर् अनन्तरम् । यज्ञ-पुरुषत्वम् एव व्यनक्ति छन्दो-मय इति सार्धैस् त्रिभिः । तपनीयं सुवर्णम् । उशतीः कमनीयाः (वेदाख्याः) श्वसन्ताह् श्वासं मुञ्चन्तः नस्तः नासा-पुटात् ॥११॥ [मु।फ। ३.१२]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हयग्रीवावतारम् आह—सत्रे यज्ञे । आस आविर्बभूव । अस्य हयशीर्ष्णः । श्वसतो निःश्वसतः । नस्तो नासा-पुटात् । उशत्यः कमनीया वेद-लक्षणा वाचो बभूवुर् उदपद्यं तु। अत्र छन्देति विशेषण-त्रयेण कर्म-काण्डा-ज्ञान-काण्ड-देवता-काण्ड-सम्बन्धिन्यः श्रुतय इति गम्यते । अमृतमय इत्य् अत्र मखमय इत्य् अपि पाठः क्वचित् ॥११॥
———————————————————————————————————————
॥ २.७.१२ ॥
मत्स्यो युगान्त-समये मनुनोपलब्धः
क्षोणी-मयो निखिल-जीव-निकाय-केतः ।
विस्रंसितान् उरु-भये सलिले मुखान् मे
आदाय तत्र विजहार ह वेद-मार्गान् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **क्षौणीमयः नौकाश्रयत्वात् क्षोणी-मयः ॥१२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मत्स्यावतारम् आह । मत्स्यो भाविना वैवस्वतेन मनुना20 दृष्टः । क्षोणीमयः पृथ्वी-प्रधानः21, तद्-आश्रय इत्य् अर्थः । अत एव निखिल-जीव-निकायानाम् आश्रयः । मे मुखाद् विस्रंसितान् गलितान् वेदस्य मार्गान् वेदान् आदाय तत्र युगान्त-सलिले विजहार । ह हर्षेण ॥१२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । पृथ्वी-रूप-नौ-धारणात् तद्-आश्रयो नाव्य् आरोप्य महीमयाम् इत्य्-उक्तेर् इति भावः । अत एव पृथिव्य्-आश्रयत्वाद् एव मृग्यन्ते जलेऽन्विष्यते श्री-हरिणा मुनिभिर् वेति मार्गाः । वेदाश् च ते मार्गाश् चेति वेद-मार्गास् तान् । अत एव स्वामि-चरणैर् वेदान् इति व्याख्यातम् । मृग्यते परमात्मा येषु ते मार्गा वेदाः यद्-दर्शनं निगम आत्म-रहः-प्रकाशम् इति मार्कण्डेयोक्तेः ॥१२॥
———————————————————————————————————————
कैवल्य-दीपिका: जित्वोपसर्ग-हानार्थं मत्स्यम् आह–मत्स्य इति । क्षौणीं नीरूपां मिनोति स्व-शृङ्गे प्रक्षिपतीति क्षोणीमयः । निकायः समूहः । केतः आश्रयः । नावि प्राणि-स्थापनात् । मम मुखाद् उडुभये सलिले विस्रंसितान् पतितान् वेद-मार्गान् आदाय तत्र सलिले विजहार । वेदा एव मार्गा भुक्तेर् मुक्तेश् च ॥१२॥ [मु।फ। ३.१३]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्स्य इति । मनुना वैवस्वत-मनुतया भाविना सत्यव्रतेनेत्य् अर्थः । अत्र शङ्खासुर-वधस् त्व् अतिप्रसिद्धत्वान् नोक्तः ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मत्स्यावतारम् आह–मत्स्यो भाविना वैवस्वतेन मनुना दृष्टः । क्षौणी-मयः पृथ्वी-प्रधानः, तद्-आश्रय इत्य् अर्थः । निखिलानां चतुर्विधानाम् एव जीव-सङ्घानां केत आश्रयः । उरु-भये प्रलय-सलिले मे मुखाद् विस्रंसितान् विगलितान् वेद-मार्गान् आदाय विजहार ॥१२॥
———————————————————————————————————————
॥ २.७.१३ ॥
क्षीरोदधाव् अमर-दानव-यूथपानाम्
उन्मथ्नताम् अमृत-लब्धय आदि-देवः ।
पृष्ठेन कच्छप-वपुर् विदधार गोत्रं
निद्राक्षणोऽद्रि-परिवर्त-कषाण-कण्डूः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कूर्मावतारम् आह । क्षीरोदधौ कच्छप-वपुः सन् गोत्रं मन्थनार्थं मन्दर-गिरिं पृष्ठेन धृतवान् । कदा ? अमृत-लब्धये क्षिराब्धिम् उन्मथ्नतां सताम् । निद्रायाः क्षणोऽवसर उत्सवो वा यस्य सः । निद्रावसरः कुतः ? तत्राह–अद्रेः परिवर्तः परिभ्रम एव कषाणः कषणं घर्षण-सुख-प्रदो यस्यां सा कण्डूर् यस्य सः । यद् वा, अद्रि-परिवर्त एव कषः कषणं तेन अणिति अपयातीति कषाणा कण्डूर् यस्य ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **निद्रावसरे हेतुं पृच्छत्ति—कुत इति । कषाण-शब्दस्य सुख-प्रदत्वार्थेऽप्रसिद्ध आह—यद् वा इति । अपयाति नश्यति ॥१३॥
———————————————————————————————————————
कैवल्य-दीपिका: मरक-हेतु-हानार्थं कूर्मम् आह—क्षीरोदधाव् इति । गोत्रं मन्दराद्रिम् । निद्रां क्षणयति क्षणवतीं लब्धावसरां करोतीति निद्रा-क्षणः । तत् करोतीति णिच् । विन्-मतोर् लुक् [पा। ५.२.६५] । अद्रेः परिवर्तः सव्यापसव्य-भ्रमः । कषाणः कषन् घर्षण-सुख-प्रदो यस्यां सा । कण्डूर् यस्य स तथा ॥१३॥ [मु।फ। ३.१४]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अद्रेः परिवर्तः परिभ्रमः । स एव कषाणः कषणो हिंसको यस्यां सा कण्डूर् यस्य सः ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कूर्मावतारम् आह—क्षीरोदधाव् इति । अमृत-लब्धये क्षिराब्धिम् उन्मथ्नतां या अमृत-लब्धिस् तस्यै । गोत्रं मन्दर-गिरिं दधार । निद्रायां क्षणोऽवसर उत्सवो वा यस्य सः । तत्र हेतुः—अद्रेः परिवर्तेन परिभ्रमणेन कषाणा कष्यमाणा दूरीक्रियमाणा कण्डूर् यस्य सः । कष् हिंसायां यग्-भाव आर्षः ॥१३॥
———————————————————————————————————————
॥ २.७.१४ ॥
त्रैपिष्टपोरु-भय-हा स नृसिंह-रूपं
कृत्वा भ्रमद्-भ्रुकुटि-दंष्ट्र-कराल-वक्त्रम् ।
दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद्
ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-नृसिंहावतारम् आह । त्रैपिष्टपा देवास् तेषाम् उरु-भयं हन्तीति तथा स भगवान् । यद् वा, त्रैपिष्टपानां देवानाम् अप्य् उरु-भयं यस्मात् तादृशो हासो यस्य तन् नृसिंह-रूपम् । अथवा हिरण्यकशिपो राज्य-काले त्रैपिष्टपानां दैत्यानाम् उरु-भयं यस्मात् तादृशो हासो यस्य तन् नृसिंह-रूपम् । कथम्भूतम् ? भ्रमन्त्यौ भ्रुकुट्यौ दंष्ट्राश् च यस्मिंस् तत् करालं वक्त्रं यस्मिंस् तत् । दैत्येन्द्रं स्फुरन्तम् आरात् समीप एव गदया उपलक्षितम् अभिपतन्तं नखैर् विददार ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **श्लेषेणार्थान्तरम् आह–यद् वा इति । ननु देवास् तु जानन्त्य् एवास्मत्-प्रार्थनयैव एतादृग्-रूपं धृतं ? तत्राह—अथ वा इति ॥१४॥
———————————————————————————————————————
कैवल्य-दीपिका: अरण्य-भय-हानार्थं नृसिंहावतारम् आह—त्रैविष्टपेति । त्रैविष्टपा देवाः । तेषाम् उरु-भयं हन्तीति तथा । भ्रमद्-भृकुटी-दंष्ट्रेण करालं रौद्रं वक्त्रं यस्य स तथा । भृकुटि-दंष्ट्रेणेति, प्राण्य्-अङ्गत्वाद् एकवद् भावः । आरात् समीपे । स्फुरन्तं स्वत्त्वोद्रेकेण ॥१४॥ [मु।फ। ३.१५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-नृसिंहावतारम् आह–त्रैपिष्टपानां देवानाम् उरु-भयं हन्तीति तथा स प्रसिद्धो भगवान् । भ्रमन्त्यौ भ्रुकुट्यौ दंष्ट्राश् च यत्र तथा-भूतं करालं भीषणं वक्त्रं यत्र तत् । दैत्येन्द्रं हिरण्यकशिपुम् । आरात् समीपत एव गदया सह अभिपतन्तम् ॥१४॥
॥ २.७.१५ ॥
अन्तः-सरस्य् उरु-बलेन पदे गृहीतो
ग्राहेण यूथ-पतिर् अम्बुज-हस्त आर्तः ।
आहेदम् आदि-पुरुषाखिल-लोक-नाथ
तीर्थ-श्रवः श्रवण-मङ्गल-नामधेय ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हरि-संज्ञकावतारम् आह—अन्तर् इति युगलेन । गज-यूथस्य पतिः । तीर्थ-रूपं श्रवो यशो यस्य स तीर्थ-श्रवाः, हे तीर्थ-श्रवः ! श्रवणेन एव मङ्गलं नामधेयं यस्य सः ॥१५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदि-पुरुष इति । त्वं तु आदित एव पुरुषाकारोऽहं तु पुरुषोऽपि सम्प्रति पापाद् गजाकार एवेति भावः । अखिल-लोक-नाथस्य ते ममापि नाथत्वान् मां पातुम् अर्हसीति भावः । तीर्थं पावनं यशो यस्येति दुर्जात्य्-आरम्भकात् पापान् माम् अपि पवित्रीकर्तुम् अर्हसीति भावः । श्रवण-मङ्गल इति गुरु-मुखात् त्वन्-नाम मयापि श्रुतम् एव तद् अप्य् एतद् अमङ्गलं कथम् इति भावः । यद् वा, हे तीर्थश्रव इति । तीर्थ-स्नानादिना यथा निवृत्ताघस्य दुःखं नोचितं तथा तव यशः-श्रवणादिनापि तथा च तव यशो वर्णयितुर् ममापि तन् नोचितम् इति भावः । एतत् समर्थक-संबुद्धश् चान्तरम् आह—श्रवणेन मङ्गलं यस्मात् तादृङ् नामधेयं यस्य तादृशोऽसि श्रवणापेक्षया वर्णनस्य प्राधान्यात् तत्-कर्तुर् मम तु तत् सर्वथैव नोचितम् इति भावः ॥१५॥
———————————————————————————————————————
कैवल्य-दीपिका: आर्ति-हानार्थं हरिम् आह—अन्तर् इति । ग्राहो नक्रः ॥१५॥ [मु।फ। ३.१६]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : आहेदम् इति । अस्य वाक्यस्य नारायणाखिल-गुरो भगवन् नमस् ते [भा।पु। ८.३.३२] इत्य् अष्टम-स्कन्ध-वाक्येन समाप्तिर् ज्ञेया ॥१५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हरि-संज्ञकावतारम् आह—अन्तर् इति द्वाभ्याम् । इदं नाम-चतुष्टयम् आह । तत्र आदि-पुरुष इति त्वम् आदित एव पुरुषाकार एव, अहं तु जीवत्वात् पुरुषोऽपि सम्प्रति पापात् गजाकार एवेति भावः । अखिल-लोकानां नाथ इति ममापि नाथस् त्वं भवितुम् अर्हस्य् एवेति भावः । श्रवण-मङ्गल इति श्री-गुरु-मुखात् तन्-नाम यया श्रुतम् एव, तद् अप्य् एतद् अमङ्गलं कथम् इति भावः ॥१५॥
———————————————————————————————————————
॥ २.७.१६ ॥
श्रुत्वा हरिस् तम् अरणार्थिनम् अप्रमेयश्
चक्रायुधः पतगराज-भुजाधिरूढः।
चक्रेण नक्र-वदनं विनिपाट्य तस्माद्
धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
हरिस् तापस-नामासौ जातस् तपसि वै मनुः ।
गजेन्द्रं मोचयामास ससर्ज च जगद्-विभुः ॥ इति मात्स्ये ॥१६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-वचनं श्रुत्वा शरणार्थिनं तं हस्ते शुण्डायां प्रगृह्य । किं कृत्वा । नक्रस्य ग्राहस्य वदनं विनिपाट्य विदार्य । तस्मात् तद्-वदनात् ॥१६॥
———————————————————————————————————————
कैवल्य-दीपिका: तारणार्थिनं शरणार्थिनम् । पतग-राजो गरुडः । विनिपाट्य विदार्य ॥१६॥ [मु।फ। ३.१७]
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शरणार्थिनं रक्षकं प्रार्थयन्तं हरिशब्दस्यार्थान्तरव्यावृत्तयेऽप्रमेयः इयत्तारहितः तादृगाकाशादिरप्यस्तीति तद्वारणाय चक्रायुधः तादृग्योद्धाप्यस्ति तद्वारणाय पतगेति भुजस्कन्धयोरतीव सामीप्यादेवमुक्तिः ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भुजा भुजयोर् मध्य-भागः पृष्ठम् इत्य् अर्थः ॥१६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अरणार्थिनं शरणार्थिनम् ॥१६॥
———————————————————————————————————————
॥ २.७.१७ ॥
ज्यायान् गुणैर् अवरजोऽप्य् अदितेः सुतानां
लोकान् विचक्रम इमान् यद् अथाधियज्ञः ।
क्ष्मां वामनेन जगृहे त्रिपद-च्छलेन
याच्ञाम् ऋते पथि चरन् प्रभुभिर् न चाल्यः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वामनावतारम् आह । अदितेः सुतानां द्वादशादित्यानां मध्ये अधियज्ञो यज्ञाधिष्ठाता विष्णुः । अवरजः कनीयान् अपि गुणैर् ज्यायाञ् ज्येष्ठः । गुणान् एवाह । यद्य् अत इमांल् लोकान् विचक्रमे पाद-न्यासैः क्रान्तवान् । अथ प्रतिश्रुतानन्तरम् एव । तत्र हेतुः—बलेः क्ष्मां वामन-रूपेण जगृहे । नन्व् ईश्वरः स्वयं किम् इति दुर्बलवत् तथा चक्रे ? तत्राह—याच्ञां विना धर्म-मार्गे वर्तमानो न चाल्यः, ऐश्वर्यान् न भ्रंशनीय इति ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इदं विष्णुर् विचक्रमे त्रेधा निदधे पदम् [ऋ।वे। १.२२.१७] इत्य्-आदि-श्रुतेः, यस्योरुषु त्रिषु विक्रमेष्व् अधिक्षिपति भुवनानि विश्वा [ऋ।वे। १.१५४.२] इति श्रुतेश् चार्थम् आह—त्रिपद-च्छलेन इति । तत्र पाद-न्यासे अत्राक्षिपति–नन्व् इति ॥१७॥
———————————————————————————————————————
**कैवल्य-दीपिका- **स्थलोपसर्ग-हानार्थं वामनम् आह—ज्यायान् इति । कुतो ज्यायान् ? यद् यस्माद् इमान् लोकान् विचक्रमे । अथ प्रतिग्रहानन्तरम्, प्रतिग्रहश् च वामन-रूपेण । अधियज्ञो विष्णुः, यज्ञाधिष्ठातृत्वात् । किम् अस्य याचने कारणम् ? यतः पथि चरन् स्व-धर्मस्थः पुरुषः प्रकारान्तरेण न चाल्यो, न पदाद् भ्रंशनीयम् इति नीतिः ॥१७॥ [मु।फ। ३.१९]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : लोकान् विचक्रमे इति । गुण-ज्यायस्त्वे हेतुः सर्वातिक्रमि-गुणो हि सर्वम् आक्रमितुं शक्नोति । क्षमाम् इति तद् उपलक्षितं त्रैलोक्यम् इत्य् अर्थः ॥१७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वामनावतारम् आह–**अदितेः सुतानां **द्वादशादित्यानाम् अवरजोऽपि गुणैर् ज्यायान्। अधियज्ञः यज्ञाधिष्ठाता विष्णुः । वामनेन वामन-रूपेण । नन्व् ईश्वरः किम् इति तथा-च्छलेन ययाचे ? तत्राह—याच्ञां विना धर्म-मार्गे वर्तमानः प्रकारान्तरेण न चालयितुम् अर्हः ॥१७॥
———————————————————————————————————————
॥ २.७.१८ ॥
नार्थो बलेर् अयम् उरुक्रम-पाद-शौचम्
आपः शिखा22-धृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतम् ऋते न चिकीर्षद् अन्यद्
आत्मानम् अङ्ग मनसा हरयेऽभिमेने ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
ऐन्द्रं पदं नान्तरीयं फलं तु हरि-तोषणम् ।
जगद्-दातुर् बलेर् यस्माद् आनन्दोद्रिक्तता ॥ इति ब्रह्म-तर्के ।
शीर्षाख्य-मानम् ॥१८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तर्हि याच्ञयापि चालनम् अनुचितम् एवेत्य् आशङ्क्य, ततोऽधिकं स्व-सालोक्यादि दास्यामीत्य् आशयेन हृतवान् इत्य् आह—नार्थ इति । यद् विबुधाधिपत्यम् इदानीं बलात् प्राप्तम् अग्रे दीयमानं चायं बलेः पुरुषार्थो न भवति । कुत इत्य् अत आह । आ अप इति च्छेदः । उरुक्रमस्य पाद-शौचं चरण-क्षालन-रूपा अपः आ सर्वतो धृतवतः । क्व ? शिखा शिखायाम् । मूर्ध्नीत्य् अर्थः । किं च, शुक्रेण वारितः शप्तोऽप्य् अङ्ग हे नारद, यः प्रतिश्रुतं विना अन्यन् न चिकीर्षत् कर्तुं नैच्छत् । यश् च तृतीय-पाद-पूरणार्थं हरये आत्मानं देहम् अप्य् अभिमेनेऽङ्गीकृतवान् । एवं स-देहं त्रैलोक्यं श्रद्धया दत्तवतो विबुधाधिपत्यम् अर्थो न भवतीत्य् अर्थः ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुनर् आक्षिपति । ननु तर्हीति । इत्य् अर्थ इति । अत्राधेयेनाधार-ग्रहणं समासेन शिखायां धृतवान् शिखां धृतवांस् तस्य तथा अन्यन् महत्त्वम् आह–_किं च इति _। अन्यत् ततः परावर्तनं न चिकीर्षत् अत्राडागमाभावस् त्व् आर्षः नाचिकीर्षद् इत्य् अर्थः । इत्य् अर्थः इति न हि भगवद्-भक्तानां कैवल्यम् अपि पुरुषार्थः । कुतः स्वर्गादीति भावः । अङ्ग इति । प्रियत्वात् तुभ्यं हरि-भक्त-चरितम् उक्तम् इति भावः ॥१८॥
———————————————————————————————————————
कैवल्य-दीपिका: बलेर् न पद-भ्रंशः किन्तु अधिक-पद-लाभ इत्य् आह—नार्थ इति । अतस् तस्य नायं पुरुषार्थः । यद् विबुधाधिपत्यम् । यतोऽसौ ऊरुक्रम-पाद-शौचं या आपः, ताः शिखायां शिरसि धृतवान् । यत आत्मानं प्रतिश्रुत-शेष-पूरणत्वेन शिरसा अत्यादरेण अभिमेने अङ्गीकृतवान् । कथंभूतम् आत्मानं ? यः प्रतिश्रुतं विना अन्यद् न चिकीर्षत् कर्तुं नेच्छत् । बहुलं च्छन्दस्य् अमाञ्-योगे [पा। ६.४.७५] इत्य् अड्-अभावः । यद्यपि गुरुणा वारितः शप्तश् च ॥१८॥ [मु।फ। ३.२०]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु तर्हि याच्ञयापि चालनम् अनुचितम् एवेत्य् आशङ्क्य, ततोऽधिकं स्व-सालोक्यादि दास्यामीत्य् आशयेन हृतवान् इत्य् आह—नार्थ इति । यद् विबुधाधिपत्यम् इदानीं बलात् प्राप्तम् अग्रे दास्यमानं च, अयं बलेः पुरुषार्थो न भवति । कुतः ? इत्य् अत आह–आ अप इति च्छेदः । उरुक्रमस्य पाद-शौचं चरण-क्षालन-रूपा अपः आ सम्यक्-प्रकारेण धृतवतः । क्व ? शिखासु मूर्धनीत्य् अर्थः । किं च, शुक्रेण वारितः शप्तोऽपि, अङ्ग हे नारद ! प्रतिश्रुतं विना अन्यन् न चिकीर्षत् कर्तुं नैच्छत् । अड्-आगमाभाव आर्षः । यत् तृतीय-चरण-पूरणार्थं हरये आत्मानम् अहन्तास्पदं देहम् अप्य् अभिमेने अभिमतीकृत्य ददाव् इत्य् अर्थः ॥१८॥
———————————————————————————————————————
॥ २.७.१९ ॥
तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधु परितुष्ट उवाच योगम् ।
ज्ञानं च भागवतम् आत्म-सतत्त्व-दीपं
यद् वासुदेव-शरणा विदुर् अञ्जसैव ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
ऐतरेयो हरिः प्राह नारदाय स्वकां तनुम् ।
यत् प्रापुर् वैष्णवा नान्ये यद्-ऋते न सुखं परम् ॥ इति ब्राह्मे ॥१९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हंसावतारम् आह—तुभ्यम् इति । भृशं विवृद्धेन भावेनात्युद्रिक्तया भक्त्या परितुष्टः सन् भक्ति-योगं साधु यथा तथा उवाच । ज्ञानं चेति ज्ञान-साधनम् । किं तत् ? भागवतं नाम । कथम्भूतम् ? तत्त्वम् एव स-तत्त्वम् । आत्म-तत्त्व-दीपकम् । विवृद्ध-भावेनेति विशेषणस्य फलम् आह—यद् इति ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तुभ्यं चेति । चकारात् स नक्रादिभ्यश् च । यद् वा, सनकादि-द्वारा तुभ्यम् अपि ज्ञान-साधनं श्री-भागवतं नामेत्य् अर्थः । स्वार्थेऽत्र तत्त्व-शब्दात् स-प्रत्ययो बहु च प्रत्ययवत् प्राग् एव जात इति ज्ञेयम् । अत एव स्वामि-चरणैर् व्याख्यातं तत्त्वम् एव स-तत्त्वम् इति । यद् वा, तत्त्वस-तत्त्वं शब्दौ पर्यायौ । नारदेति । तत एवोपदेशात् त्वं नारम् अज्ञानं तत् द्यति च्छेदयतीत्य् अन्वर्थ-नामासीति भावः ।
अत्र विश्वनाथः—विवृद्ध-भावेन प्रेम्णा योगं भक्ति-योगं ज्ञानं च भक्ति-विषयस्य भक्त्य्-आश्रयस्य द्विविधं विशेषण द्वयेनाह भागवतं भगवत्-सौन्दर्य-सौरभ्य-सौस्वर्य-माधुर्य-साद्गुण्याद्य्-अनुभव-रूपं प्रेम-गम्यम् इत्य् अर्थः । तथात्मनो भक्त्य्-आश्रयस्य जीवस्य यत् सत्त्वं तत्त्वम् एव ज्ञानानन्दादिकं तस्य दीपम् अविद्या-वरण-निवर्तकत्वात् प्रदीपं प्रकाशकं यद् इदं द्विविधं ज्ञानं वासुदेव- शरणा ऐकान्तिक-भक्ता अञ्जसा सुखेनैव विदुः सर्वत्रैव शास्त्रेषु ज्ञानादि-शब्दा विशेषण-विशेष्य-विनाभूतत्वेन प्रयुक्ता ब्रह्म-ज्ञानादिष्व् एव रूढा यथा पङ्कजादि-शब्दाः पद्मादिषु, अन्यथा तु यथा-योगम् एव वर्तन्ते इति यौगिका एवं यथा ज्ञानं परं तन्-महिमावभासं यत् सूरयो भागवतं वदन्ति इति । ज्ञानं च यद् अहैतुकम् इति । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् इति । यथा च पङ्कजं वर्त्म दुर्गमम् इति । मण्डपं भोजयेद् द्विजम् इति विष्णु-धर्मेऽपि हंसावतारेण नारदाय भक्ति-योग एवोक्तः । यत्तु—
यदा तु सनकादिभ्यो येन रूपेण केशव ।
योगम् आदिष्टवान् एतद्-रूपम् इच्छामि वेदितुम् ॥
इति सनकादिभ्यो ज्ञानोपदेष्या हंसः स त्व् अन्य एव तुभ्यं चेति च-कारेण तुभ्यम् अवतारायापि भक्तिम् उवाच इत्य् उक्ति-भङ्ग्यैव नारदावतारोऽप्य् उक्त इति ॥१९॥
———————————————————————————————————————
कैवल्य-दीपिका: स्त्यान-नाशस्य प्रहाणार्थं हंसावतारम् आह—तुभ्यम् इति । योगं भक्ति-योगम् । स-तत्त्वं तात्त्विकं रूपम् ॥१९॥ [मु।फ। ३.२१]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तुभ्यं चेति । विष्णु-धर्मोत्तरे हंस-रूपेण तस्मै तत्-कथनात् ॥१९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हंसावतारम् आह—तुभ्यम् इति । विवृद्ध-भावेन प्रेम्णा । योगं भक्ति-योगं ज्ञानं च । तच् च ज्ञानं भक्ति-विषयस्य भक्त्य्-आश्रयस्येति द्विविधं विशेषण-द्वयेनाह । भागवतं—भगवत्-सौन्दर्य-सौरभ्य-सौस्वर्य-सौकुमार्य-माधुर्य-साद्गुण्याद्य्-अनुभव-रूपं प्रेम-गम्यम् इत्य् अर्थः । तथा आत्मनो भक्त्य्-आश्रयस्य जीवस्य यत् स-तत्त्वं तत्त्वम् एव ज्ञानानन्दादिकं, तस्य दीपम् अविद्यावरण-निवर्तकत्वात् प्रदीपं प्रकाशकम् इत्य् अर्थः । यद् इदं द्विविधं ज्ञानम् । वासुदेव-शरणाः ऐकान्तिक-भक्ताः, अञ्जसा सुखेनैव विदुः । सर्वत्रैव शास्त्रेषु ज्ञानादि-शब्दा विशेषण-विशेष्य-भाव-विनाभूतत्वेन प्रयुक्ता ब्रह्म-ज्ञानादिष्व् एव रूढाः, यथा पञ्कजादि-शब्दाः पद्मादिषु । अन्यथा तु यथा-योगम् एव वर्तन्त इति यौगिका एव । यथा—ज्ञानं परं मन्-महिमावभासं यच्-छूरयो भागवतं वदन्ति [भा।पु। ३.४.१३] इति । ज्ञानं च यद् अहैतुकं [भा।पु। १.२.७] इति, यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भा।पु। १०.१४.३३] इति । यथा च, पङ्कजं वर्त्म दुर्गमम् इति । मण्डपं भोजयेज् जनम् इत्य् आदि ।
अत्र विष्णु-धर्मोत्तरे नारदाय हंस-रूपेण भक्ति-योग एव उक्तः । यत् तु—
यदा त्वं सनकादिभ्यो येन रूपेण केशव ।
योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् ॥
इति सनकादिभ्यो ज्ञानोपदेष्टा हंसो वक्ष्यति, स त्व् अन्यो हंसो ज्ञेयः । अत्र तुभ्यं चेति च-कारेण तुभ्यम् अवतारायापि भक्ति-योगम् उवाचेत्य् उक्ति-भङ्ग्यैव नारदावतारोऽप्य् उक्तः ॥१९॥
———————————————————————————————————————
॥ २.७.२० ॥
चक्रं च दिक्ष्व् अविहतं दशसु स्व-तेजो
मन्वन्तरेषु मनु-वंश-धरो बिभर्ति ।
दुष्टेषु राजसु दमं व्यदधात् स्व-कीर्तिं
सत्ये त्रि-पृष्ठ उशतीं प्रथयंश् चरित्रैः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
मन्वन्तरेषु भगवान् चक्रवर्तिषु संस्थितः ।
चतुर्भुजो जुगोपैतद् दुष्ट-राजन्य-नाशकः ॥
राज-राजेश्वरेत्य् आहुर् मुनयश् चक्रवर्तिनम् ।
वीर्यदं परमात्मानं शङ्ख-चक्र-गदाधरम् । इति सत्य-संहितायाम् ।२०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् तन् मन्वन्तरावतारम् आह—चक्रम् इति । **स्व-तेजो **निजं प्रभावम् एव चक्रं सुदर्शनं बिभर्ति । चक्रवद् अप्रतिहतं प्रभावं बिभर्तीत्य् अर्थः । तद् एवाह । मनु-वंश-पालकः सन् त्रयाणां लोकानां पृष्ठे उपरि स्थिते सत्यलोकेऽपि कमनीयां स्व-कीर्तिं विस्तारयन् राजसु दण्डं विधत्ते ॥२०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । चक्र-नाम्ना स्वासाधारणं तेज एव त्वं तेजः पौरुषं परम् [भा।पु। ९.५.५] इत्य् अम्बरीषोक्तेर् धारयतीति भावः ॥२०॥
———————————————————————————————————————
**कैवल्य-दीपिका : ** दुर्गोपसर्ग-हानार्थं मन्वन्तरेशम् आह—चक्रम् इति । स्वम् अकृत्रिमस् तेजो यस्य तत् स्व-तेजश् चक्रं बिभर्ति । येन चक्रवर्तीति नाम । त्रयाणां लोकानां पृष्ठे यत् सत्यं, तस्मिन् ब्रह्म-सभायाम् इत्य् अर्थः ॥२०॥ [मु।फ। ३.२२]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत् तन् मन्वन्तरावतारम् आह । दशसु दिक्षु अविहतं तेजो बिभर्ति । चक्रं च सुदर्शनं चक्रम् इवेत्य् अर्थः । मनु-वंश-धरो मनु-वंश-पालकः । अत एव दृष्टेषु दमं दण्डम् । कीदृशः ? त्रयाणां लोकानां पृष्ठे उपरि-स्थिते सत्य-लोकेऽपि । उशतीं कमनीयां कीर्तिं विस्तारयन् ॥२०॥
———————————————————————————————————————
॥ २.७.२१ ॥
धन्वन्तरिश् च भगवान् स्वयम् एव कीर्तिर्
नाम्ना नृणां पुरु-रुजां रुज आशु हन्ति ।
यज्ञे च भागम् अमृतायुर् अवावरुन्ध23
आयुष्य-वेदम् अनुशास्त्य् अवतीर्य लोके ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धन्वन्तर्य्-अवतारम् आह । लोकेऽवतीर्य धन्वन्तरिः सन् पुरु-रुजां महा-रोगिणां स्व-नाम्नैव रुजो रोगान् हन्ति । स्वयम् एव कीर्तिर् इति कीर्त्य्-अतिशयोक्तिः । अमृतं मरण-शून्यम् आयुर् यस्मात् सः । अव अवसन्नं पूर्वं दैत्यैः प्रतिबद्धं यज्ञे भागम् अवरुन्धे लभते । “अवाप रुद्धम्” इति पाठेऽप्य् अयम् एवार्थः । आयुर् विषयं वेदं चानुशास्ति प्रवर्तयति ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमृतम् इवायुर् लोके प्राकट्यं यस्य स तथा सर्व-लोक-नैरुज्य-दानाद् इति विश्वनाथः **। स्मृत-मात्रार्ति-नाशनः [भा।पु। ९.१७.५] इति वक्ष्यमाणत्वान् नाम्ना एवम् ॐ श्री-धन्वन्तरये नमः इति नाम-मन्त्रेणैवेत्य् अर्थः । अत एव स्वयम् एव कीर्तनं तु केनचित् कृतम् इति भावः । आयुर्वेदम् अङ्गाष्टक-युतं तद् उक्तं—
काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ।
अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता ॥ इति हरिवंशे ।
तस्यायुर्-वेदस्य काय-चिकित्सा, बाल-चिकित्सा ग्रहो भूत-प्रेतादिः, उर्ध्वाङ्गं शिरो-नेत्रादि, शल्यं शस्त्र-घातादि, दंष्ट्रा स्थावर-जङ्गमात्मकं विषं तेषां चिकित्सा, जरा रसायनादिना जराया दूरीकरणं, वृषो वाजीकरण-तन्त्रम् इत्य् अर्थः ॥२१॥
———————————————————————————————————————
**कैवल्य-दीपिका : ** व्याधि-हानार्थं धन्वन्तरि इति । नाम्नां कीर्तेः नाम-कीर्तनाद् इत्य् अर्थः । वैद्यैर् अलभ्यं यज्ञे भागम् अवरुन्धेऽलभत । कीदृशः ? अमृतायुः, सुस्वादुत्वाद् अमृतम् । परिणाम-हितत्वाद् आयुर् आयुः-साधनं वेदं वैद्यकं, अनुशास्ति करोतीति लोकेऽवतीर्य काशिराज-गृहे उत्पाद्य ॥२१॥ [मु।फ। ३.२३]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धन्वन्तर्य्-अवतारम् आह—कीर्तिः कीर्ति-स्वरूप एव साक्षाद् इति कीर्त्य्-अतिशय उक्तः । नाम्नैव धन्वन्तरिर् इति शब्देनैव । भागं पूर्वं दैत्य-रुद्धम् अवाप । अमृतम् इव आयुर् लोके प्राकट्यं यस्य स, सर्व-लोक-नैरुज्य-दानाद् इति भावः । “अवावरुद्धे” इति पाठे—अव अवसन्नं भागम् अवरुन्धे लभते स्म । आयुर् विषयं वेदम् अनुशास्ति प्रवर्तयति ॥२१॥
———————————————————————————————————————
॥ २.७.२२ ॥
**क्षत्रं क्षयाय विधिनोपभृतं महात्मा \
ब्रह्म-ध्रुग् उज्झित-पथं नरकार्ति-लिप्सु ।
उद्धन्त्य् असाव् अवनि-कण्टकम् उग्र-वीर्यस्**24**
त्रिः-सप्त-कृत्व उरु-धार-परश्व्-अधेन ॥२२॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परशुरामावतारम् आह । जगतः क्षयाय विधिना दैवेन उपभृतं संवर्धितं, मृत्यवे समर्पितम् इति वा । ब्राह्मणेभ्यो द्रुह्यतीति तथा अत उज्झितः पन्था वेद-मार्गो येन । अत एव नरकार्तिं लिप्सति इव । एवम्-भूतम् अवनेः कण्टक-तुल्यं क्षत्रम् असौ महात्मा हरिर् उद्धन्त्य् उत्पाटयति, दीर्घ-तीक्ष्ण-धारेण परशुना ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दैव-वर्धितस्य नाशासम्भवाद् आह । मृत्यवे समर्पितम् इति वेति । ब्रह्म सत्य-तपो विप्र-विधातृ-परमात्मसु इति धरणिः । अतो वैदिक-शुभ-मार्ग-प्रदर्शक-ब्राह्मण-द्रोग्धृत्वात् । अत एव त्यक्त-वेद-मार्गत्वाद् एव । उग्रः शङ्करस् तत्-सम-वीर्यः ॥२२॥
———————————————————————————————————————
**कैवल्य-दीपिका : ** अद्रि-कूतोपसर्ग-हानार्थं जामदग्न्यावतारम् आह—क्षत्रम् इति । विधिना दैवेन । उपभृतं समर्पितं (संवर्धितम्) । क्षयाय मृत्यवे । असौ विष्णुः । **त्रिःसप्त-कृत्वः **एकविंशति-वारान् । परश्वधः परशुः ॥२२॥ [मु।फ। ३.२५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परशुरामावतारम् आह । क्षत्रियं हन्ति । कीदृशम् ? क्षयाय नाशार्थं, विधिनैव उपभृतम् उपढौकितम् । रौद्र-रस-मयाय अस्मै उपायनत्वेन समर्पितम् इत्य् अर्थः । क्षत्रं कीदृशम् ? ब्रह्म-ध्रुग् इत्य् आदि । तच् च हनने हेतुर् उक्तः ॥२२॥
———————————————————————————————————————
॥ २.७.२३ ॥
अस्मत्-प्रसाद-सुमुखः कलया कलेश
इक्ष्वाकु-वंश अवतीर्य गुरोर् निदेशे ।
तिष्ठन् वनं स-दयितानुज आविवेश
यस्मिन् विरुध्य दश-कन्धर आर्तिम् आर्च्छत् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्राणादिक-लेशः ॥२३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रामावतारम् आह त्रिभिः—अस्मद् इति । अस्माकं ब्रह्मादीनां प्रसादे सुमुखः, कलया भरतादि-रूपया सह, कला माया तस्या ईशो गुरोर् दशरथस्याज्ञायां तिष्ठन् सीता-लक्षणाभ्यां सहितो वनम् अविवेश । यस्मिन् विरोधं कृत्वा रावणो नाशं प्राप्तः ॥२३॥
———————————————————————————————————————
**कैवल्य-दीपिका : ** प्रवास-दुःख-प्रहानार्थं रामावतारम् आह—अस्मासु ब्रह्मादिषु **प्रसादेन सुमुखः **प्रहसित-मुखः । कलेशो विष्णुः, सर्व-शक्तिमयत्वात् । कलया अंशेन । गुरुः पिता । निदेशः आज्ञा । यस्मिन् विरुध्य वैरं कृत्वा । दशकन्धरो रावणः । आर्तिम् आर्च्छत् दुःख-सम्प्राप्तः ॥२३॥ [मु।फ। ३.२६]
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **चक्रवर्ती तु—कलेशः परिपूर्णः चिन्मयेऽस्मिन् महाविष्णौ जाते दाशरथे हरौ इति श्रुतेः । नृसिंह राम-कृष्णेषु षाड्गुण्यं परिपूरितम् इति स्मृतेश् च ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रामावतारम् आह त्रिभिः । अस्मासु ब्रह्मादि-स्तम्ब-पर्यन्तेषु यः प्रसादस् तेन सुमुख इत्य् अवतारस्यास्य कृपातिशयो द्योतितः । कलया लक्ष्मणादि-रूपया सह । स्वयं तु कलानाम् ईशः पूर्ण इत्य् अर्थः । चिन्मयेऽस्मिन् महा-विष्णौ जाते दाशरथे हरौ इति श्रुतेः । नृषिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरितम् इति स्मृतेश् च । आर्तिम् आर्च्छत् नाशं प्राप्तः ॥२३॥
———————————————————————————————————————
॥ २.७.२४ ॥
यस्मा अदाद् उदधिर् ऊढ-भयाङ्ग-वेपो
मार्गं सपद्य् अरि-पुरं हरवद् दिधक्षोः ।
दूरे सुहृन्-मथित-रोष-सुशोण-दृष्ट्या
तातप्यमान-मकरोरग-नक्र-चक्रः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्मै रामाय उदधिर् मार्गं ददौ । सपदि शीघ्रं हरो यथा त्रिपुरं दिधक्षुस् तद्वद् अरिपुरं लङ्कां दग्धुम् इच्छतोः । षष्ठी चतुर्थ्य्-अर्थे । यद् वा, पञ्चमीयम् । दिधक्षोः रामाद् यद् भयं प्राप्तं, तेन अङ्गे कम्पो यस्येति । कथम्भूत उदधिः ? ऊढं प्राप्तं यद् भयं तेनाङ्गेषु वेपः कम्पो यस्य । अत्र हेतुः—दूरे वर्तमाना सुहृत् सीता, तया निमित्त-भूतया मथितः क्षुभितो रोषः, तेन सुशोणा अत्यरुणा दृष्टिः, तयाऽत्यन्तं तप्यमानं मकराणाम् उरगाणां नक्राणां च चक्रं यस्मिन् ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **चतुर्थ्य्-अर्थे षष्ठ्याः कल्पने गौरवाद् आह–यद् वा इति । अत्र अङ्ग-वेपे ॥२४॥
———————————————————————————————————————
कैवल्य-दीपिका: यस्मा इति । यस्मै रामाय उदधिर् मार्गम् अदात् । रूढः प्राप्त-भय-जनित-सर्व्आङ्ग-कोपो येन स तथा । सपदि शीघ्रम् । कस्माद् भयं दिधक्षोः रामाद् एव । यथा त्रिपुरं हरो दिधक्षुः । दूरे सुहृदा सीतया मथितो विलोडितो यो रोषः । तेन सुशोणा अतिरक्ता या दृष्टिस् तया । चक्रं समूहः ॥२४॥ [मु।फ। ३.२७]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊधो भयेनाङ्ग-वेपः कम्पो येन सः । उदधिर् यस्मै मार्गं ददौ । त्रिपुरं** दिधक्षोर् हरस्य इव**, अरि-पुरं लङ्कां दिधक्षोः । चतुर्थ्य्-अर्थे षष्ठी । कीदृशः? दूरे वर्तमाना सुहृत् सीता, तया निमित्त-भूतया, मथितः क्षुभितो रोषः, तेन सुशोणा अत्यरुणा दृष्टिः, तया अत्यन्तं तप्यमानं मकराणाम् उरगाणां नक्राणां च चक्रं यस्मिन् ॥२४॥
———————————————————————————————————————
॥ २.७.२५ ॥
वक्षः-स्थल-स्पर्श-रुग्न-महेन्द्र-वाह-
दन्तैर् विडम्बित-ककुब्जुष ऊढ-हासम्25** ।**
सद्योऽसुभिः सह विनेष्यति दार-हर्तुर्
विस्फूर्जितैर् धनुष उच्चरतोऽधिसैन्ये ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : विनेष्यति विनासम् एष्यति । दार-हर्तुः भगवतः ।
धनुर्-विस्फूर्जितैर् नष्टा रावणः पूर्वम् एव तु ।
पुनः शरै राम-मुक्तैः सानुबन्धो विनश्यति ॥ इति स्कान्दे ॥२५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, युद्धे रावणस्य **वक्षः-स्थल-स्पर्शेन रुग्णा **भग्ना ये महेन्द्र-वाहस्य ऐरावतस्य दन्ताः, तैर् विडम्बिताः स्व-धवलिम्ना धवलीकृताः, तत्-तद्-दिक्षु पतितैः प्रकाशिता इत्य् अर्थः । या एवम्भूताः ककुभो दिशः, ता जुषते सेवते पालयतीति वा, तथा तस्य दार-हर्तू रावणस्य “अहो मत्-समः कोऽन्योऽस्ति” इति महा-गर्वेण ऊढं प्राप्तं हासम् असुभिः प्राणैः सह सद्यः शीघ्रं विनेष्यत्य् अपनेष्यति । कैः ? धनुषो विस्फूर्जितैः टङ्कार-घोषैर् एव । कथं-भूतस्य ? अधि सैन्ये स्व-पर-सैन्य-मध्ये उच्चरत उत्कर्षेण विचरतः । “ककुब्-जय-रूढ-हासम्” इति पाठे दन्तैर् उज्ज्वलितानां ककुभां जयेन यो रूढ-हासः सञ्जातो गर्वस् तम् अपनेष्यतीत्य् अर्थः ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यत् प्रतापाधिक्यम् आह–किं च इति । इत्य् अर्थ इति–एतेन दन्तानाम् अतिश्वैत्यं तेजोमयत्वं महत्त्वं चोक्तम् इत्य् अर्थः । इत्थं व्याख्येयः। हासः स्याद् धास्य-गर्वयोः इति धरणिः ॥२५॥
———————————————————————————————————————
कैवल्य-दीपिका: वक्षः-स्थल- इति । दार-हर्तुर् दशाननस्य हासं गर्वम् । विनेष्यति नाशयिष्यति असुभिः प्राणैः सह । अधि-सैन्ये वानर-सैन्य-मध्ये । उच्चरत उत्कर्षेण विचरतः । धनुषो विस्फूर्जितैः उग्र-शब्दैर् वानरान् विद्रावयत इत्य् अर्थः । रावणस्य वक्षः-स्थल-स्पर्शेन रुग्ना भग्ना ये महेन्द्रस्य ऐरावतस्य दन्ताः, तैर् विडम्बितो नटैर् इवानुकृतः । ध्वनि-रूपेण यः ककुभां दिशां जयस् तेन रूढो हासः । अहो मे अद्भुतं वीर्यम् इति विस्मयस्यानुभावो हासः । स च भग्नैर् ऐरावत-दन्तैः तत्र तत्राभिनीत इत्य् अर्थः ॥२५॥ [मु।फ। ३.२८]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, युद्धे रावणस्य वक्षः-स्थल-स्पर्शेन, रुग्णा भग्ना, ये महेन्द्र-वाहस्य ऐरावतस्य दन्ताः, तैर् विडम्बिताः स्व-धवलिम्ना धवलीकृताः । तत्-तद्-दिक्षु पतितैस् तैः प्रकाशिता इत्य् अर्थः । या एवम्भूताः ककुभो दिशस् ता जुषते सेवते पालयतीति वा तथा तस्य । दार-हर्तू रावणस्य ऊढं प्राप्तं हासम् । “अहो मत्-समः कोऽन्यो नास्ति” इति गर्वम् असुभिः प्राणैः सह सद्यो विनेष्यत्य् अपनेष्यति । कैः ? धनुषो विस्फूर्जितैः टङ्कार-घोषैर् एव । कथम्भूतस्य ? तस्य अधिसैन्ये स्व-पर-सैन्य-मध्ये उत्कर्षेण चरतः । ककुब्-जय-रूढ-हासम् इति पाठे तथा-भूतानां ककुभां जयेन रूढं गर्वम् ॥२५॥
———————————————————————————————————————
॥ २.७.२६ ॥
भूमेः सुरेतर-वरूथ-विमर्दितायाः
क्लेश-व्ययाय कलया सित-कृष्ण-केशः ।
जातः करिष्यति जनान् उपलक्ष्य-मार्गः
कर्माणि चात्म-महिमोपनिबन्धनानि ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
राम एको ह्य् अनन्तांशस् तत्र रामाभिधो हरिः ।
शुक्ल-केशात्मकस् तिष्ठन् रमयामास वै जगत् ॥ इति ब्राह्मे ।
विष्णोर् नान्येन कर्माणि परेषां तन्-निबन्धनम् ॥ इति मात्स्ये ॥२६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-कृष्णावतारम् आह—भूमेर् इति दशभिः । सुरेतरा असुरांश-भूता राजानस् तेषां वरूथैः सैन्यैर् विमर्दिताया भारेण पीडातायाः । कलया रामेण सह जातः सन् । कोऽसौ जातः? सित-कृष्णौ केशौ यस्य भगवतः स एव साक्षात् । सित-कृष्ण-केशत्वं शोभैव न तु वयः-परिणाम-कृतम्, अविकारित्वात् । यत् तूक्तं विष्णु-पुराणे—उज्जहारात्मनः केशौ सित-कृष्णौ महा-मुने [वि।पु। ५.१.५९] इति । यच् च भारते—
स चापि केशौ हरिर् उद्बबर्ह
शुक्लम् एकम् अपरं चापि कृष्णम् ।
तौ चापि केशावाविशेतां यदूनां
कुले स्त्रियौ रोहिणीं देवकीं च ॥
तयोर् एको बलभद्रो बभूव
योऽसौ श्वेतस् तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः सम्बभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ [महाभारत १.१८९.३१-३२] इति ।
तत् तु न केश-मात्राव् अवताराभिप्रायं, किन्तु भू-भारावतरण-रूपं कार्यं कियद् एतत् ? मत्-केशाव् एवैतत् कर्तुं शक्ताव् इति द्योतनार्थम् । राम-कृष्णयोर् वर्ण-सूचनार्थं च केशोद्धरणम् इति गम्यते । अन्यथा तत्रैव पूर्व-पर-विरोधापत्तेः, कृष्णस् तु भगवान् स्वयम् इति एतद्-विरोधाच् च । कथम्भूतः ? परमेश्वरतया जनैर् अनुपलक्ष्यो मार्गो यस्य । तर्हीश्वरत्वे किं प्रमाणम्, अतिमानुष-कर्मान्य् अथानुपपत्तिर् एव ? इत्य् आह—आत्मनो महिमा उपनिबध्यतेऽभिव्यज्यते येषु तानि ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तयोर् द्वयोः केशयोर्मध्ये बलभद्रोरत्याश्रयत्वेन यस्य श्वेतवर्णस्य स बलभद्रः एवं कृष्णोस्त्याश्रयत्वेन यस्य स कृष्ण उभयत्र मत्वर्थीयोप्रत्ययः । केशौ केशवन्ताव् इति पूर्वाद्वेऽपि व्याख्येयम् । अन्यथैतद्वयाख्यानङ्गीकारे । तत्रैव विष्णु-पुराणे भारते चापि तथा हि विष्णुपुराणे—
एवं संस्तूयमानस् तु भगवान् परमेश्वरः ।
उज्जहारात्मनः केशौ सित-कृष्णौ महामुने ।
उवाच च सुरान् एतौ मत्-केशौ वसुधा-तले ।
अवतीर्य भुवो भार-लेश-हानिं करिष्यतः ॥
इत्य् अस्यायं भावः ।
सुराः समस्ताः सुरनाथ कार्यमेभिर्मया यच्च तदीश सर्वम् ।
आज्ञापयाज्ञाः परिपालयन्तः सदैव तिष्टामः ह्यपास्तदोषाः ॥
इति सुरैर् उक्तो भगवान् मम दुष्करं चेत् तदा साहायं कार्यं स्यान् न त्व् एवम् अस्ति भू-भार-हरणादौ कर्त्र्-अन्तरापेक्षया महत्य् अपि कार्ये मत्-केशयोर् अपि शक्तत्वाद् इति । न तु केश-मात्रावतार इति भ्रमितव्यम्—
ततः क्षयम् अशेषास्ते दैतेया धरणी-तले ।
प्रयास्यति न सन्देहो मद्-दृक्पात-विचूर्णिताः ।
कृष्णाष्टम्याम् अहं भाद्र उत्पत्स्यामि न संशयः ॥
इत्य्-आदिषु तत्रवै स्वावतारोक्तेर्विरोधात् । भारतेति अहं ब्रह्म परं धाम इति श्रीगीतायामर्जुनं प्रति खस्य स्वयम् एव परब्रह्मत्वोक्तेर्विरोधात् । कृष्णस् तु भगवान् स्वयम् इति पूर्वोक्ति-विरोधाच् च । अजरामरस्यारस्यर्द्धपलितत्वासम्भवादेककेश ईशेच्छया रामस्य श्वेतरूपज्ञापनार्थं तदैव श्वेतोऽभूद् इति गम्यते । एतेनैव भारतवाक्यमप्येतत्तुल्यं व्याख्यातं तथा श्रीगोपालतापिन्युपनिषद्यपि मुनयो ह वै ब्रह्माणमूचुः कः परमो देव इत्य्-आदिप्रश्नेषु । तदुहोवाच ब्राह्मणः श्रीकृष्णो वै परमं दैवतम् इत्याद्युत्तरश्रवणाच्छ्रीकृष्णोऽवतार्येव न त्ववतारोऽन्ये नृसिंहादयोऽवतारा एव जयन्ति कृष्णस्य दशावताराः इति मुकुटाचार्योक्तेः । यत्त श्रीदशमे कृष्णावतारोत्सवसंभ्रमोस्पृशत् इति श्रीकृष्णेत्यवतारोक्तिः सा चाविर्भावपरेति ज्ञेयम् । किं च, विष्णुनामान्युक्त्वा वसुदेवोस्ति जनकः इत्य् अनेनामरसिंहेनावैदिकेनापि श्रीकृष्णस्यैव विष्णुपदवाच्यब्रह्मत्वं ध्वनितम् । अन्यथा कश्यपो ह्यस्य जनक इत्य्-आदि पदेन । तथा इशश्नाभ्यो हि-यो गोध स शूरः परिकीर्तितः इति न्यायोऽध्यत्र भानमनुसंवेय किश्वाक्षराणां कामधेनु त्वादत्रार्थान्तराश्रयणे विरोधः सर्वथैव नोदयते । तथाहि—हे कलयांशेन सित वृद्ध हे कलावतार नारद कृष्णकेशः जातः सन् कर्माणि करिष्यतीत्यन्वयः । को ब्रह्मा तस्येशः केशः कृष्णश्चासौ केशश्चेति तथा । यद् वा, कलया रक्षया हेतुना जात इति योज्यम् । सिता बद्धाः कृष्णाः केशा येन स तथा बद्धशिखण्ड इत्य् अर्थः । यद् वा, सितो बद्धः कृष्णो यया सा सितकृष्णका यशोदा तस्या ईश ऐश्वर्यं येन स सितकृष्णकेशः कृतयशोदानन्द इत्य् अर्थः । यद्वासितशब्दोपलक्षितोऽधर्मस्तस्य श्यामरूपत्वात्तं कर्षत्याकर्षतीत्यसितकृष्णो धर्मः स एवासितकृष्णकः स्वार्थे कः तस्येशः पालकः संरक्षणाय धर्मस्य सम्भवामि युगे युगे इत्य्-आदिपुराणात् । यद् वा, के जले लीयत इति कलया भूमिः अप्सु प्रलीयते भूमिः इति वक्ष्यमाणत्वात् । तस्यां सितो बद्धो भूषणे मणिरिव कलया सितो गोवर्द्धनस्तं कर्षयुद्धरतीति कलयासितकृष्णः । के जले शेत इति केशः कलयासितकृष्णश्चसौ केशः कलयासितकृष्णकेशः गोवर्द्धनधरो विष्णुर् इत्य् अर्थः । यद् वा, कलया बलदेवेन सह सितकृष्णकेशः । यद् वा, कलयोपास्या सितो बद्धः कृष्णो येन स नारदसंबुद्धिः । के मोक्षसुखं लाति ददातीति कला ब्राह्मणजातिः भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् इति मुचुकुन्दं प्रति श्रीकृष्णोक्तेः । तया तद्धतोः हेतौ तृतीयासितो मुक्तः सत्यभामार्पितः कृष्णो येन स चासौ केशो मदीश इति हरिवंशे प्रसिद्धम् । यद् वा, सितः शिवः कृष्णो विष्णुः को ब्रह्मा तेषामीशः । कृष्णं कायन्ति गायन्ति जयतु तेधिकम् इत्य्-आदिनेति कृष्णका गोप्यस्तासामीशः कृष्णकेशः । वा । कृष्णेन कं सुखं येषां ते कृष्णकाः पाण्डवादिभक्तास्तेषामीशः। न सितः स्वीकृतः कृष्णो यैस्तेऽसितकृष्णा दैत्यास्तान् क्लिश्नाति विबाधते इत्यसितकृष्णकेशः। क्लिशू विबाधने लस्य लोपेनौणादिकः केशशब्दः । यद् वा, सिता गङ्गा च कृष्णा यमुना चेति सितकृष्णे ते एव सितकृष्णके स्वार्थके पुंवद्भावः तयोर् ईशः सितकृष्णकेशः। सितं च कृष्णञ्च सितकृष्णे सितकृष्णे के जले ययोस्ते सितकृष्णके गङ्गायमुने तयोर् ईशः सितकृष्णकेशः । यद् वा, कलया चातुर्येण सिता बद्धाः कृष्णाया राधायाः केशा येन स तथेत्यलं पल्लवितेन । अन्यथानुपपत्तिर्विनेश्वरं तद्भवनम् । आत्ममहिमेश्वरत्वम् । सन्दर्भस्तु कोसौ कलयांशेन सितकृष्णकेशो यः सितकृष्णकेशौ देवैर्दृष्टौ इति शास्त्रान्तरप्रसिद्धः । सो (ताव) पि यस्यांशेन स एव भगवान्स्वयमित्यर्थः। तदविनाभावाच्छ्रीबलदेवस्यापि ग्रहणं द्योतितम् । ननु पुरुषादपि पुराणोऽसौ भगवान्कथं भूभारहरणमात्रार्थं स्वयमवतरिष्यतीत्याशं क्याह—आत्मनो महिमानः परममाधुरीसम्पदः उपनिबध्यन्ते निज-भक्तैरधिकं वर्ण्यन्ते येषु तानि कर्माणि च करिष्यति च । यद्यपि निजांशेनैव निजेच्छाभासेनैव वा भूभारहरणमीषत्कृतं तथापि निजचरणारविन्दजीवातुवन्दमानन्दयन्नेव लीलाकादम्बिनीनिजमाधरीवर्षणाय विहरिष्यमाणोऽवतरिष्यतीत्यर्थः॥ एतद् एव व्यक्तीकरिष्यते तोकेन जीवहरणम् इत्यादौ इतरथा स्वमाधरीसम्पत्प्रकाशनेच्छामन्तरेण मधुरतरं लोकादिभावं दधतानेन पूतनादीनां जीवहरणादिकं कर्म न भाव्यं न सम्भवनीयं तदंशतदिच्छाभासादिमात्रेणैव तत्सिद्धेरिति वाक्यार्थः । तथा च यथायं चावतारस्ते भूभार—इत्यादौ स्वामिचरणैर् अपि व्याख्यातम् । किं भूभारहरणं मदिच्छामात्रेण न सम्भवति तत्राह स्थानाम् इति । जयति जननिवासः इत्य् अत्र च इच्छामात्रेण निरसने समर्थोऽपि क्रीडार्थे दोर्भिरस्यन्नधर्मम् इति । एवमादिभिः श्रीकृष्णस्यैव सर्वाद्भुततावर्णनाभिनिवेशः प्रपञ्चो ब्रह्मणि स्पष्ट एव । अस्तु तावत्तद्भूरिभाग्यमित्य्-आदि सितकृष्णकेश इत्य् अत्र तात्पर्यं श्रीस्वामिभिर् एव विवृत्तम् । इदमप्यन्त्र तात्पर्यं सम्भवति । ननु देवाः किमर्थं मामेवावतारयितु भवद्भिरागृह्यते अनिरुद्धाख्यपुरुषप्रकाशविशेषस्य क्षीरोदश्वेतद्वीपधाम्नो मम यौ केशाविव शिरोधार्यभूतौ श्रीवासुदेवसङ्कर्षणौ स्वयमेवावतरिष्यतः ततश् च भूभारहरणं ताभ्यामीपत्करम् एवेति अथोज्जहारात्मनः केश इत्यस्यैव शब्दार्थोऽपि मुक्ताफलटीकायां केशौ सुखस्वामिनौ सितो रामः आत्मनः सकाशादुज्जहारोद्धृतवानित्य्-आदि यैर्यथाश्रुतमेवेदं व्याख्यातं ते तु न सम्यक्परामृष्टन्तः यतः सुरमात्रस्यापि निर्जरत्वं प्रसिद्धम् । अकालकलिते भगवति जरानुदयने केशशौक्ल्यानुपपत्तिर्न चास्य केशस्य नैसर्गिकसितकृष्णतेति प्रमाणमस्ति अत एव नृसिंहपुराणे श्रीकृष्णावतारप्रसङ्गे शब्द एव युज्यते न तु केशशब्दः—
वसुदेवस्य दैवक्यामवतीर्य यदोः कुले ।
सितकृष्णे च मच्छक्ती कंसाद्यान्धातयिष्यतः ॥ इत्य्-आदि ।
अस्तु तर्हि अंशोपलक्षणः केशशब्दः न अविप्लूततर्कशक्तित्वेन साक्षादादिपुरुषस्यैव निश्चेतुं शक्यत्वात् । कृष्णविण्वादिशब्दानामविशेषतः पर्यायप्रतीतेः । नैवमवतारान्तरस्य जन्मदिनं जयत्याख्ययातिप्रसिद्धम् । अत एवं महाभारते—
भगवान्वासुदेवश् च कीर्त्यतेऽत्र सनातनः ।
शाश्वतं ब्रह्म परमं योगिध्येयं निरञ्जनम् ॥ इति ।
तस्याकालकलितत्वं योयं कालस्तस्य ते व्यक्तबन्धो चेष्टामाहूः इत्यादौ द्वारकावासिवाक्ये च प्रसिद्धं तस्मान्न केशावतारत्वेऽपि न तात्पर्यं, वैष्णवादिपद्यानां शब्दानामर्थन्त्वेवं पश्यामः ।
अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः ।
सर्वज्ञाः केशवं तस्मान्मामाहुर्मुनिसत्तम ॥
इति सहस्र-नाम-भाष्य-स्थापित-भारत-वचनात् केश-शब्देनांशुर् उच्यते, तत्र च सर्वत्र च । केशेतर-शब्दाप्रयोगान् नाना-वर्णंशूनां श्री-नारद-दृष्टतया मोक्ष-धर्म-प्रसिद्धेश् च । तथा चांशुत्वे लब्धे तौ चांशू वासुदेव-सङ्कर्षणावतार-सूचकतया निर्दिष्टाव् इति तयोर् एतौ स्याताम् इति गम्यते । तदीययोर् अपि तयोर् अनिरुद्ध-रूपत्वेऽभिव्यक्तिश् च युज्यत एव । अवतारितेजोन्तर्भूतत्वादवतारस्य ततश्चोज्जहारेत्यस्यायमर्थः आत्मनः सकाशात् । श्रीवासुदेवसकर्षणांशभूतौ केशावंशू उज्जहारोद्धृतवान्प्रकटीकृत्य दर्शितवानित्य् अर्थः । अत्रायं सुमेरुरित्येकदेशदर्शनेनैवाखण्डसुमेरुनिर्देशवत्तद्दर्शनेनापि पूर्णस्यैवाविर्भावनिर्देशो ज्ञेयः । अथ स चापिकेशावित्य्-आदिकव्याख्या उद्वबर्हयोगबलेनात्मनः सकाशाद्विच्छिद्य दर्शयामास । स चापीति चशब्दः पूर्वमुक्तं देवकर्तृकं निवेदन-रूपमर्थं समुपक्षिणोति । अतिशब्दस्तदुद्धरणे श्रीभगवत्सङ्कर्षणयोर् अपि हेतुकर्तृत्वं सूचयति । तौ चापीति । चशब्दोऽनुक्तसमुच्चयार्थत्वेन भगवत्सङ्कर्षणौ स्वयम् एव विविशतुः पश्चात्तौ तत्तादात्म्येनापि विविशतुरिति बोधयति । अपिशब्दो यत्रानुस्यूतौ चामू सोऽपि तदंशेपीति गमयति । तयोर् एको बलभद्रो बभूव इत्य्-आदिकं तु नरो नारायणो भवेत्, हरिर् एव भवेन्नरः इत्य्-आदिवत्तदैक्यावाप्त्यपेक्षया । केशवः केशवनाम्ना श्रीमथुरायां केशवस्थानाख्यमहायोगपीठाधिपत्वेन प्रसिद्धः स एव कृष्ण इति । नृसिंहपुराणे तु सितकृष्णे च मच्छक्ती इति तद्वर्णनिर्देशेनांशवाचक एव शक्तिशब्द इति । चक्रवर्ती तु स तं वयसि कैशोरे इत्याद्युक्तेर्नित्यकैशोरावस्थावतः सितकेशत्वं न युज्यते । विष्णुपुराणीयवाक्यस्थकेशाव् इति पदस्य तु केशौ सुख-रूपावीश्वरौ सितकृष्णौ उज्जहार बहुस्तुतिभिः प्रसाद्य बर्हिरप्युद्गमयामास हे महामुने इति । मननेनैवास्यार्थस्थावगम्यतेति भावः । सुखशीर्षजलेषु कम् इति नानार्थवर्गात् । सर्वत्र विष्णुपुराणादौ केशशब्दप्रयोगस्तु परोक्षवादा ऋषयः परोक्षं मम च प्रियम् इति भगवत्संमतौ स्थितानां शास्त्राकाराणामृषीणां तत्तद्वचनमाकूतम् एवेति ज्ञापनार्थ एव । यद् वा, सितो रुद्रः कृष्णो विष्णुः को ब्रह्मा तेषामपीशः स यावदुर्व्याभरमीश्वरेश्वरः स्वकालशक्त्या इत्य्-उक्तः आत्मनः स्वस्य महिम्नि उपाधिक्येन नितरा बन्धनं येभ्यस्तानि यत्कर्माणि सर्वलोकमनांसि माधुर्येण बघ्नन्तीत्य् अर्थः । यद्वात्मनो महिमा महैश्वर्यं तस्याप्युपाधिक्येन निबन्धनमावृत्तीकरणं येषु तानि यत्कर्मसु माधुर्योणावृतमेवमहैश्वयं तिष्ठति इत्य् अर्थः । यद् वा, कलया नैपुण्येन । सिता बद्धाः कृष्णाः श्यामा केशा येन स तथा । यद् वा, कलया वेदरक्षया हेतुना सितेन बलदेवेन सह कृष्णः केशः सुख-रूप ईशः माधुर्यैश्वर्यमयः इति व्याचकार ॥२६॥
———————————————————————————————————————
कैवल्य-दीपिका: अथ सर्वान्तराय-प्रहाणार्थं सर्व-काम-सिद्ध्यर्थं च कृष्णावतारं भावयेद् इत्य् आह—भूमेर् इति । वरूथः समूहः । कलया पूर्ण-रूपेण न त्व् अंशेन, कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इत्य् अनेन विरोधात् । सितं निर्मलं मुक्ति-रूपम् । कृष्णं मलिनं (अनिर्मलं) भुक्ति-रूपं यत् कं सुखं तस्य ईशः । केश-व्याख्याने तु पूर्ववद् विरोधः । इत्थम् एव । उज्जहारात्मनः केशौ सित-कृष्णौ महामुने [वि।पु। ५.१.५९] इति तन्त्रान्तरोक्तिर् अपि व्याख्येया । केशौ सुख-स्वामिनौ । सितो रामः, आत्मनः स्व-मूर्तेः सकाशाद् उज्जहार उद्धृतवान् कल्पितवान् । हरिवंशे हि भगवान् कस्यांश्चिद् गिरि-गुहायां स्व-मूर्तिं निक्षिप्य गरुडं च तत्रावस्थाप्य स्वयम् अत्रागत इत्य् उक्तम् । तद् उक्तं हरि-वंशे—
स देवान् अभ्यनुज्ञाय विविक्ते त्रिदशालये ।
जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥
तत्र वै पार्वती नाम गुहा-देवैः सुदुर्गमा ।
त्रिभिस् तस्यैव विक्रान्तैर् नित्यं पर्वसु पूजिता ।
पुराणं तत्र विन्यस्य देहं हरिर् उदार-धीः ।
आत्मानं योजयामास वसुदेव-गृहे विभुः ॥ [ह।वं। १.५५.५०-५२]
यैस् तु यथा-श्रुतम् एवेदं व्याख्यातम् । तेन सम्यग् दृष्टवन्तः । यतः सुर-मात्रस्यापि निर्जडत्व-रूप-प्रसिद्धौ अकाल-कलिते भगवति जरानुदयेन क्लेश-शौक्ल्यानुपपत्तेः । न चास्य केशेषु नैसर्गिकी सित-कृष्णतेति प्रमाणम् अस्ति ।
अत एव नरसिंह-पुराणे कृष्णावतार-प्रसङ्गे शक्ति-शब्द एव प्रयुक्तो न तु केश-शब्दः । तथा हि—
वसुदेवाच् च देवक्याम् अवतीर्य महीतले ।
सित-कृष्णे च तच् छक्ती कंसाद्यान् घातयिष्यते ॥ इत्य् आदिना ।
अस्तु तर्हि अंशोपलक्षणः केश-शब्दः, अविलुप्त-सर्व-शक्तित्वेन साक्षाद् आदिपुरुषत्वस्यैव निश्चेतुं शक्यत्वात् । विष्णु-कृष्णादि-शब्दानाम् अविशेषतः पर्यायत्व-प्रतीतेश् च । नैवम् अवतारान्तरेषु कस्य वान्यस्य जन्म-दिनं जयन्त्याख्ययातिप्रसिद्धम् । अत एवोक्तं महाभारते—
भगवान् वासुदेवश् च कीर्त्यतेऽत्र सनातनः ।
शाश्वतं ब्रह्म परमं योगि-ध्येयं निरञ्जनम् ॥ इति ।
यत् तूक्तं, ततो जगन्-मङ्गलम् अच्युतांशम् इति । तत्र बहुव्रीहिः । यच् च तत्रांशेनावतीर्णस्येति । तत्रांशेन सह इत्य् अर्थः । अंशो बलभद्रः । एवं सर्वत्र । एते मत्केशो वसुधा-तलम् इत्य् अपि व्याख्यातम् । यत् तु ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ [भा।पु। ४.१.५९] इति । तद् अन्य-कल्प-विषयम् । यद् वा, अंशश् च अंशश् च अंशौ । तत्रैकोऽंश-शब्दो यथा-स्थितोऽर्जुन-विषयः । अन्यस् तु अंशाः सन्त्य् अस्येत्य् अंशः । अर्शाद्यच् प्रत्ययान्तो भगवद्-विषयः । यत्राद्य-भिन्न इत्य्-आदि हि प्राग् उक्त इत्य् अलम् अतिप्रसङ्गेन । आत्मनः श्री-कृष्णस्य महिमा उपनिबध्यते । सम्बद्धो दृश्यते येषु कर्मसु तानि । अनन्य-साध्यानीत्य् अर्थः ॥२६॥ [मु।फ। ३.२८]
———————————————————————————————————————
सनातन-गोस्वामी (वैष्णव-तोषणी) : [१०.७.७] सुरेतरा असुराङ्गोद्भूता राजानः, तेषां सैन्यैर् विमर्दिताया भारेण पीडितायाः, कलया श्री-बलदेवेन सह सिता वेणी-त्रयाबद्धाः कृष्णाः केशा येन, सः । अनेन सौन्दर्यं सदा दुष्ट-वधोद्यतत्वं चोपलक्षितम् । यद् वा, कलयोंऽशेन यः सित-कृस्ण-केशो नारायणोऽपि यस्यांशः, स इत्य् अर्थः । जनैर् जीवैर् उपलक्षयितुम् अप्य् अशक्यो मार्गोऽपि यस्य, सोऽपि जातः सन् आत्म-महिमा साधारण-निज-माहात्म्य-भगवत्ता-लक्षणं तद्-उपनिबन्धनानि तद्-अभिव्यञ्जनार्थानि कर्माणीति ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भूमेर् इति दशभिः । सुरेतरा असुर-भाव-मया ये राजानः, तेषां वरूथैः सैन्यैर् विमर्दिताया26 भुवः क्लेशम् अपहर्तुं परमात्मनोऽपि परत्वात् जनैर् अस्मद्-आदिभिर्27 अनुपलक्ष्य-मार्गोऽपि प्रादुर्भूतः सन् कर्माणि च करिष्यति । कोऽसौ ? कलया अंशेन सित-कृष्ण-केशो यः, यत्र सित-कृष्ण-केशौ देवैर् दृष्टाव् इति शास्त्रान्तर-प्रसिद्धेः । सोऽपि यस्यांशेन स एव भगवान् स्वयम् इत्य् अर्थः । तद्-अविनाभवित्वात् श्री-बलदेवस्यापि ग्रहणं द्योतितम् ।
ननु पुरुषाद् अपि परोऽसौ भगवान् कथं भू-भारावतारण-मात्रार्थं स्वयम् अवतरिष्यतीत्य् आशङ्क्याह—आत्मनो महिमानः परम-माधुरी-सम्पदः उपनिबध्यन्ते निज-भक्तैर् अधिकं वर्ण्यन्ते येषु, तानि कर्माणि च करिष्यति । यद्यपि निजांशेनैव वा निजेच्छाभासेनैव वा भू-भार-हरणम् ईषत्-करं, तथापि निज-चरणारविन्द-जीवातु-वृन्दम् आनन्दयन्न् एव लीला-कादम्बिनीं निज-माधुरी-वर्षणाय वितरिष्यमाणोऽवतरिष्यतीत्य् अर्थः । विष्णु-पुराणादि-वचनं तु तत्र पूर्वम् एव व्यख्यातम् अस्ति ।28
सित-कृष्ण-केश इत्य् अत्र तात्पर्यं श्री-स्वामिभिर् एव विवृतम् । इदम् अप्य् अत्र तात्पर्यं सम्भवति—ननु देवाः! किम्-अर्थं माम् एवातारयितुं भवद्भिर् आगृह्यते ? अनिरुद्धाख्य-पुरुष-प्रकाश-विशेषस्य क्षीरोद-श्वेतद्वीप-धाम्नो मम यौ केशाव् इव स्व-शिरो-धार्य-भूतौ ताव् एव श्री-वासुदेव-सङ्कर्षणौ स्वयम् एवावतरिष्यतः । ततश् च भू-भार-हरणं ताभ्याम् ईषत्-करम् एवेति ।
अथ उज्जहारात्मनः केशौ [वि।पु। ५.१.५९] इत्य् अस्यैव शब्दोऽर्थोऽपि मुक्ताफल-टीकायां—
केशौ सुख-स्वामिनौ सितो रामः । आत्मनः सकाशाद् उज्जहार उद्धृतवान् इत्य् आदि । 29 यैर् यथा-श्रुतम् एवेदं व्याख्यातं, ते तु न सम्यक् परामृष्टवन्तः, यतः सुर-मात्रस्यापि निर्जरत्वं प्रसिद्धम् । अकाल-कलिते भगवति जरानुदयेन केश-शौक्ल्यानुपपत्तिः । न चास्य केशस्य नैसर्गिक-सित-कृष्णतेति प्रमाणम् अस्ति । अत एव नृसिंह-पुराणे कृष्णावतार-प्रसङ्गे शक्ति-शब्द एव प्रयुज्यते, न तु केश-शब्दः । तथा हि—
वसुदेवाच् च देवक्याम् अवतीर्य यदोः कुले ।
सित-कृष्णे च मच्-छक्ती कंसाद्यान् घातयिष्यतः ॥ [नृ।पु। ५३.३०-३१] इत्य्-आदिना ।
अस्तु तर्हि अंशोपलक्षणः केश-शब्दः ? न, अविलुप्त-सर्व-शक्तित्वेन साक्षाद्-आदि-पुरुषत्वस्यैव निश्चेतुं शक्यत्वात् । कृष्ण-विष्ण्व्-आदि-शब्दानाम् अविशेषतः पर्यायत्व-प्रतीतेः। नैवम् अवतारान्तरस्य कस्य वान्यस्य जन्म-दिनं जयन्त्य्-आख्ययातिप्रसिद्धम् । अत एवोक्तं महाभारते (१.१.१९३-१९४)—
भगवान् वासुदेवश् च कीर्त्यतेऽत्र सनातनः ।
शाश्वतं ब्रह्म परमं योगि-ध्येयं निरञ्जनम् ॥ इति ।
इति तस्याकाल-कलितत्वं योऽयं कालस् तस्य तेऽव्यक्त-बन्धो चेष्टाम् आहुः [भा।पु। १०.३.२६] इत्य् आदौ श्री-देवकी-देवी-वाक्ये, नताः स्म ते नाथ [भा।पु। १.११.६] इत्य् आदौ श्री-द्वारका-वासि-वाक्ये च प्रसिद्धम् ।
अतो यत् प्रभास-खण्डे केशस्य बालत्वम् एव च, तत् सितिम्नः काल-कृत-पलित-लक्षणत्वम् एव च दर्शितम्, तस्य शरीरिणां शुष्क-वैराग्य-प्रतिपादन-प्रकरण-पतितत्वेन सुर-मात्र-निर्जरता-प्रसिद्धत्वेन चामुख्यार्थत्वान् न स्वार्थे प्रामाण्यम् । ब्रह्मा येन इत्य् आरभ्य,
विष्णुर् येन दशावतार-ग्रहणे क्षिप्तो महा-सङ्कटे ।
रुद्रो येन कपाल-पाणिर् अभितो भिक्षाटनं कारितम् ॥ [ग।पु। १.११३.१५]
इत्य् आदौ तस्मै नमः कर्मणे इति गारुड-वचनात् । किं च, तत्-प्रतिपादनाय मत्स्याद्य्-अवताराणां मत्स्यादि-शब्द-साम्येन छलोक्तिर् एवेयम् । यथा—
अहो कनक-दौरात्म्यं निर्वक्तुं केन युज्यते ।
नाम-साम्याद् असौ यस्य धूस्तुरोऽपि मद-प्रदः ॥ इति ।
शिव-शास्त्रीयत्वाच् च नात्र वैष्णव-सिद्धान्त-विरुद्धस्य तस्योपयोगः । यत उक्तं स्कान्द एव षण्मुखं प्रति श्री-शिवेन—शिव-शास्त्रेऽपि तद् ग्राह्यं भगवच्-छास्त्र-योगि यत् इति । अन्य-तात्पर्यकत्वेन स्वतस् तत्राप्रामाण्याद् युक्तं चैतत्, यथा पङ्केन पङ्काम्भः [भा।पु। १.८.५२] इत्य् आदिवत् । पाद्मोत्तर-खण्डे च शिव-प्रतिपादकानां पुराणानाम् अपि तामसत्वम् एव दर्शितम् । मात्स्येऽपि तामस-कल्प-कथा-मयत्वम् इति । युक्तं च तस्य वृद्ध-सूतस्य श्री-भागवतम् अपठितवतः श्री-बलदेवावज्ञातुः श्री-भगवत्-तत्त्वासम्यग्-ज्ञान-जं वचनं—एवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भा।पु। १०.७७.३०] इतिवत् । एतादृश-श्री-भागवत-वाक्येन स्व-विरुद्ध-पुराणान्तर-वचन-बाधनं च । यथेह कर्म-जितो लोकः क्षीयते [छा।उ। ८.१.६] इत्य्-आदि-वाक्येन उपाम सोमम् अमृता अभूम [ऋक् ८.४८.३] इत्य्-आदि-वचन-बाधनवज् ज्ञेयम् । अत्रापि यत् स्व-वचो विरुद्धेत नूनं ते न स्मरन्त्य् अमुं [भा।पु। १०.७७.३०] इति युक्ति-सद्-भावो दृश्यते । अत्रैवात्मनः सन्दिग्धत्वम् एव तेन सूतेन व्यञ्जितम्—अचिन्त्या खलु ये भावा न तांस् तर्केण योजयेद् [मभगवत्-सन्दर्भा। ६.६.११] इत्य्-आदिना ।
किं च, तत्रैवोत्तर-ग्रन्थे कलङ्कापत्ति-कारण-कथने श्री-कृष्णावतार-प्रसङ्गे स्वयं विष्णुर् एवेत्य् उक्तत्वात् स्वेनैव विरोधश् च ।30 तस्मान् न केशावतारत्वेऽपि तात्पर्यं केश-शब्दस्य बालत्व-वाचनं च । छलतो भगवत्-तत्त्वाज्ञानतो वेति स्थितम् । अतो वैष्णवादि-पद्यानां शब्दोत्थम् अर्थम् एवं पश्यामः—
अंशवो ये प्रकाशन्ते मम ते केश-संज्ञिताः ।
सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तम ॥ [म।भा। १२.३२८.४३]
इति सहस्र-नाम-भाष्योत्थापित-भारत-वचनात् केश-शब्देनांशुर् उच्यते । तत्र च सर्वत्र केशेतर-शब्दाप्रयोगात् नानावर्णांशूनां श्री-नारद-दृष्टतया मोक्ष-धर्म-प्रसिद्धेश् च। तथा चांशुत्वे लब्धे तौ चांशू वासुदेव-सङ्कर्षणाव् अवतार-सूचकतया निर्दिष्टाव् इति तयोर् एव स्याताम् इति गम्यते । तदीययोर् अपि तयोर् अनिरुद्धेऽभिव्यक्तिश् च युज्यत एव । अवतारि-तेजोऽन्तर्भूतत्वाद् अवतारस्य ।31
ततश् च उज्जहार [वि।पु। ५.१.५९] इत्य् अस्यायम् अर्थः—आत्मनः सकाशात् श्री-वासुदेव-सङ्कर्षणांश-भूतौ केशाव् अंशू उज्जहार उद्धृतवान्, प्रकटीकृत्य दर्शितवान् इत्य् अर्थः । अत्र “अयं सुमेरुः” इत्य् एक-देश-दर्शनेनैवाखण्ड-सुमेरु-निर्देशवत् तद्-दर्शनेनापि पूर्णस्यैवाविर्भाव-निर्देशो ज्ञेयः ।
अथ स चापि केशौ [मभगवत्-सन्दर्भा। १.१८९.३१] इत्य् आदिक-व्याख्या । उद्बबर्हे योग-बलेनात्मनः सकाशाद् विच्छिद्य दर्शयामास । स चापीति च-शब्दः पूर्वम् उक्तं देव-कर्तृकं निवेदन-रूपम् अर्थं समुच्चिनोति । अपि-शब्दस् तद्-उद्बर्हणे श्री-भगवत्-सङ्कर्षणयोर् अपि हेतु-कर्तृत्वं सूचयति । तौ चापीति च-शब्दोऽनुक्त-समुच्चयार्थत्वेन भगवत्-सङ्कर्षणौ स्वयम् एव विविशतुः32 । पश्चात् तौ च तत्-तादात्म्येनापि विविशतुर्33 इति बोधयति । अपि-शब्दो यत्रानुस्यूतौ चामू सोऽपि तद्-अंशा अपीति गमयति । तयोर् एको बलभद्रो बभूव [मभगवत्-सन्दर्भा। १.१८९.३२] इत्य्-आदिकं तु नरो नारायणो भवेत्। हरिर् एव भवेन् नर इत्य् आदिवत् तद्-ऐक्यावाप्त्य्-अपेक्षया ।
केशवः श्री-मथुरायां केशव-स्थानाख्य-महायोग-पीठाधिपत्वेन प्रसिद्धः । स एव कृष्ण इति । श्री-नृसिंह-पुराणे सितासिते च मच्-छक्ती इति तत्-तद्-वर्ण-निर्देशेनांशु-वाचक एव शक्ति-शब्द इति ॥२७॥ [श्री-कृष्ण-सन्दर्भ २९]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-कृष्णावतारम् आह—भूमेर् इति दशभिः । सुरेतरा असुर-स्वरूपा ये राजानः, तेषां वरूथैः सैन्यैर् विमर्दिताया भुवः पृथिव्याः क्लेश-व्ययाय भारापनोदनाय, भू-तल-स्थानां संसार-दुःख-क्षयाय च, तत्रैव केषांचित् सोत्कण्ठ-भक्तानां स्वायोग-दुःखोपशमाय च जातः कर्माणि करिष्यति ।
ननु कोऽसौ जातः ? तत्राह—जनैर् अस्मद्-आदिभिः अप्य् अनुपलक्ष्य उपलक्षयितुम् अशक्यः मार्गो वर्त्मापि यस्य सः ।
नन्व् अविदित-तत्त्वोऽपि पदार्थो लोके स्व-बुद्धानुसारेण नाम-रूपे कल्पयित्वा अयम् अयम् इति निश्चीयते । यथा कौस्तुभोऽपि पद्म-राग एवायम् इति, पद्म-रागोऽपि प्रवाल-मणिर् एवायम् इति, तथायम् अवतारोऽविज्ञात-स्वरूपोऽपि पुराणादिषु कीदृशतया पठ्यते ? इत्य् अत आह—कलयेति। सित-कृष्णौ केशौ यस्य स एवातिपुरातनः पुरुषः कलया जात इति । यत् तु विष्णु-पुराणे—उज्जहारात्मनः केशौ सित-कृष्णौ महामुने [वि।पु। ५.१.५९] इति । यच् च भारते—
स चापि केशौ हरिर् उद्बबर्ह
शुक्लम् एकम् अपरं चापि कृष्णम् ।
तौ चापि केशावाविशेतां यदूनां
कुले स्त्रियौ रोहिणीं देवकीं च ॥
तयोर् एको बलभद्रो बभूव
योऽसौ श्वेतस् तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः सम्बभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ [म।भा। १.१८९.३१-३२] इति ।
तत्र तत्र प्रकटेऽर्थे विचार्यमाणे बाधैव लभेत, न तु कापि सङ्गतिः । तथा हि त्रिगुणातीतस्याविकारिणः चिद्-आनन्द-घन-वपुषो नारायणस्यापि वयः-परिणाम-कृतं शुक्ल-कृष्ण-केशत्वं, अथ च सन्तं वयसि कैशोरे इति नित्य-किशोरत्वं च, तथा कृष्णस् तु भगवान् स्वयम् इति कृष्णावतारस्य स्वयां भगवत्त्वं चेत्य् अतस् तत्र विद्वांसो व्याचक्ष्यते, यथा—सित-कृष्ण-केशत्वं शोभैव, न तु वयः-परिणाम-कृतम् । भारावतरण-रूपं कार्यं कियद् एतत् ? मत्-केशाव् एव कर्तुं समर्थाव् इति द्योतनार्थं राम-कृष्णयोर् वर्ण-सूचनार्थं च केशोद्धरणम् इति गम्यते । अन्यथा तत्रैव विरोधापत्तेः, कृष्णस् तु भगवान् स्वयम् इति एतद्-विरोधाच् च । कलया रामेण सह स्वयं सित-कृष्ण-केशो भगवान् एव जातः इति स्वामि-चरणाः । कलया शिल्प-नैपुण्य-विशेष-विधिना, सिता बद्धाः, कृष्णा अतिश्यामाः, केशा येनेति विग्रहः । स एवैतस्य वैदग्धी-विशेषाद् ईरितः । किं वा यः कलयांशेन स्यात् सित-श्याम-केशकः इति लघु-भागवतामृते श्री-रूप-गोस्वामि-चरणाः । अंशवो ये प्रकाशन्ते मम ते केश-संज्ञिताः इति स्मृतेर् मच्-छिरो-धार्यौ सित-कृष्ण-किरणौ द्वौ प्रभू अवतरिष्यत इति सूचनार्थं केश-द्वयोद्धरणम् इति सन्दर्भे श्री-जीव-गोस्वामि-चरणाः ।
किं च, अत्र विष्णु-पुराणे भारते च सर्वत्र केश-शब्दस्यैव प्रयोगात् चिकुर-कुन्तलाद्य्-अप्रयोगात्— परोक्ष-वादा ऋषयः परोक्षं मम च प्रियं [भा।पु। ११.२१.३५] इति भगवत्-सम्मतौ तापिन् शास्त्र-कारणाम् ऋषीणां साकूतम् एव तत्-तद्-वचनम् इति गम्यते । तत्र उज्जहारेति आत्मनः स्वान्तः-करणात् सकाशात्, केशौ सुख-रूपाव् ईश्वरौ सित-कृष्णौ उज्जहार बहु-स्तुतिभिः प्रसाद्य बहिर् अपि उद्गमयामास । हे महा-मुने ! मननेनैवास्यार्थोऽवगम्यताम् इति भावः । सुख-शीर्ष-जलेषु कम् इति नानार्थ-वर्गात् ।
एवम् एव भारतीयं पद्य-द्वयम् अपि व्याख्येयम् । तथैव कलया एकांशेन भुवः क्लेश-व्ययाय सितेन सह कृष्णः केशः सुख-रूपः ईशः माधुर्यैश्वर्य-मयः बलदेवेन सह कृष्णो जात इत्य् अर्थः । श्लेषेण सितो रुद्रः । कृष्णो विष्णुः । को ब्रह्मा । तेषाम् अपीश्वरः । स यावद् उर्व्या भरम् ईश्वरेश्वरः [भा।पु। १०.१.२२] इत्य् अग्रिमोक्तेः ।
कर्माणि कीदृशानि ? आत्मनो महिमा महैश्वर्यम्, तस्यापि उप आधिक्येन निबन्धनम् आवृतीकरणं येषु तानि । यत् कर्मसु माधुर्येणावृतम् एव महैश्वर्यं तिष्ठतीत्य् अर्थः । यद् वा, आत्मनः स्वस्य महिम्नि उप आधिक्येन नितरां बन्धनं येभ्यस् तानि । यत् कर्माणि स्व-माधुर्येण सर्व-लोक-मनांसि बध्नन्तीत्य् अर्थः । तत्र जनानुपलक्ष्य-मार्ग इति पदेन रहस्या रागानुगा-भक्तिर् अपि द्योतिता ॥२६॥
———————————————————————————————————————
॥ २.७.२७ ॥
तोकेन जीव-हरणं यद् उलूकिकायास्
त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।
यद् रिङ्गतान्तर-गतेन दिवि-स्पृशोर् वा
उन्मूलनं त्व् इतरथार्जुनयोर् न भाव्यम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् एव प्रपञ्चयति—तोकेनेत्य्-आदिना । बालेन पूतनाया जीव-हरणम् । यद् रिङ्गता जानुभ्यां गच्छता अन्तरं गतेन मध्यं प्राप्तेन । दिवि-स्पृशोर् अत्युच्चयोः । इतरथाऽनीश्वरत्वे तन् न भवितव्यम् ॥२७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतद् एव प्रपञ्चयति—उलूकिकायाः पूतनाया यज् जीव-हरणं तोकेनैव बालकेनैव रूपेण न त्व् अतिविकटाकाराया अतिविस्तृत-स्वरूपाया अतिबलिष्ठायास् तस्या वधोपयोगिनी तादृशैश्वर्यमयी वामनावतारस्य त्रिविक्रम-मूर्तिर् इव काचिन् मूर्तिर् आविष्कृतेति भावः । त्रैमासिकस्यैव पदातिसुकोमलेत्य् अर्थः । यत् अपवृत्तः विपर्यस्ततया पातितः, न तु हिरण्यकशिपु-विदारणार्था नृसिंह-मूर्तिर् इव काचित् पदस्य विकट-कठोरताविष्कृतेति भावः ।
रिङ्गता जानुभ्यां गच्छतैव अन्तरं तेन तयोर् मध्यं गतेनैव उलूखल-निबन्धनेनैव अर्जुनयोर् द्वयोर् यद् उन्मूलनं, न तु पृथिव्य्-उद्वरणोपयोगिना वराह-रूपेणैव कोऽपि प्रयत्नः कृत इति भावः । तत् सर्वम् आत्म-महिमोपनिबन्धनम् एव । निज-बाल्य-महा-माधुर्येण स्व-महैश्वर्यस्यावृतीकरणम् एवेति पूर्वेणानुषङ्गः । इतरथा न भाव्यम् अन्यथा न भाव्यम् एतत् त्रिकेणेदृशेन भवितव्यं नाभविष्यतेत्य् अर्थ इति विश्वनाथः** **।
तोकोऽल्पाङ्गे शिशौ सुते इत्य् अभिधानात् । (शरीरोत्थानादि-प्रवृत्ति-हेतुत्वादयः प्राणस्तɱल् लुम्पतीत्य् उलूपिका तस्या इति तीर्थः ।) उलूकिकात्वम् अत्र बक्या अपि यस्या अरिष्ट-कर्तृत्व-साधारण्यात् अहो बकीयम् [भा।पु। ३.२.२३] इत्य्-आद्य्-उक्तेस् तस्या बकीत्वं प्रसिद्धम् एव । जानु-धर्षण-पूर्वकं गमनं रिङ्गणं, दिवि-स्पृशोः सहस्र-धनुषोऽप्य् ऊर्ध्व-देशं स्पृशतोः सहस्र-धनुषस् तूर्ध्वं शब्देनापि भण्यत इति तीर्थः ।
यो मासा वयो-लक्षणा निर्वृता यस्य स त्रैमासिकस् तस्य ॥२७॥
———————————————————————————————————————
कैवल्य-दीपिका: तानि च कुर्वतोऽस्य मार्गो जनैर् नोपलभ्यते । तान्य् एवाह—तोकेन इति । तोको बालः । उलूकिका पूतना । पदा पादेन । उपवृत्तः पर्यस्तीभूतः । रिङ्गता जानुभ्यां गच्छता । अन्तरङ्गतेन मध्यं प्राप्तेन । दिवि-स्पृशोः अर्जुनयोः । उन्मूलनम् एतत् कर्म-त्रयम् । न भाव्यं, यदि स्व-महिमानं न दर्शयति ॥२७॥ [मु।फ। ३.३०]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एतद् एव व्यक्तीकृतं—तोकेन जीव-हरणम् इत्य् आदौ । इतरथा स्व-माधुरी-सम्पत्-प्रकाशनेच्छाम् अन्तरेण मधुरतरं तोकादि-भावं दधता तेन पूतनादीनां जीव-हरणादिकं कर्म न भाव्यं न सम्भावनीयम् । तद्-अंश-तद्-इच्छाभासादि-मात्रेणैव तत्-सिद्धेर् इति वाक्यार्थः । तथा च, तथायं चावतारस् ते भुवो भार [भा।पु। १.७.२५] इत्य् आदौ तैर् एव व्याख्यातम्—किं भू-भार-हरणं मद्-इच्छा-मात्रेण न भवति ? तत्राह—स्वानाम् इतीति । जयति जननिवास [भा।पु। १०.९०.४८] इत्य् अत्र च—इच्छा-मात्रेण निरसन-समर्थोऽपि क्रीडार्थं दोर्भिर् एवाधर्मम् अस्यन्न् इति । तद् एवम्-आदिभिः श्री-कृष्णस्यैव सर्वाद्भुतता-वर्णनाभिनिवेश-प्रपञ्चो ब्रह्मणि स्पष्ट एव। अस्तु तावत् तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां [भा।पु। १०.१४.३४] इत्य्-आदि ॥२७॥ [श्री-कृष्ण-सन्दर्भ ६३]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतद् एव प्रपञ्चयति—उलूकिकायाः पूतनाया यज् जीव-हरणं तोकेनैव बालकेनैव रूपेण न त्व् अतिविकटाकाराया अतिविस्तृत-स्वरूपाया अतिबलिष्ठायास् तस्या वधोपयोगिनी तादृशैश्वर्यमयी वामनावतारस्य त्रिविक्रम-मूर्तिर् इव काचिन् मूर्तिर् आविष्कृतेति भावः । त्रैमासिकस्यैव पदातिसुकोमलेत्य् अर्थः । यत् अपवृत्तः विपर्यस्ततया पातितः, न तु हिरण्यकशिपु-विदारणार्था नृसिंह-मूर्तिर् इव काचित् पदस्य विकट-कठोरताविष्कृतेति भावः ।
रिङ्गता जानुभ्यां गच्छतैव अन्तरं तेन तयोर् मध्यं गतेनैव उलूखल-निबन्धनेनैव अर्जुनयोर् द्वयोर् यद् उन्मूलनं, न तु पृथिव्य्-उद्वरणोपयोगिना वराह-रूपेणैव कोऽपि प्रयत्नः कृत इति भावः । तत् सर्वम् आत्म-महिमोपनिबन्धनम् एव । निज-बाल्य-महा-माधुर्येण स्व-महैश्वर्यस्यावृतीकरणम् एवेति पूर्वेणानुषङ्गः । इतरथा न भाव्यम् अन्यथा न भाव्यम् एतत् त्रिकेणेदृशेन भवितव्यं नाभविष्यतेत्य् अर्थ ॥२७॥
———————————————————————————————————————
॥ २.७.२८ ॥
यद्34** वै व्रजे व्रज-पशून् विष-तोय-पीतान्**35
पालांस् त्व् अजीवयद् अनुग्रह-दृष्टि-वृष्ट्या ।
तच्-छुद्धयेऽतिविष-वीर्य-विलोल-जिह्वम्
उच्चाटयिष्यद् उरगं विहरन् ह्रदिन्याम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विष-तोय-पीतान् विषमय-तोयस्य पीतं पानं येषां तान् पालान् गोपांश् च कृपा-दृष्टि-सुधा-वृष्ट्या जीवयिष्यतीति । यमुनायां क्रीडन्न् उरगं कालियम् उच्चाटयिष्यति । तच्-छुद्धये तस्या ह्रदिन्या निर्विषत्वाय । अतिविष-वीर्येण विलोलाऽतिचञ्चला जिह्वा यस्य ॥२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विषेण सहित तोयं विष-तोयं तद् एव पीतं येषां ते विषतोय-पीतास् तांस् तथा यद् व्रज-पश्व्-आदीन् अजीवयत् तद् इतरथा न भाव्यम् इति योज्यम् ॥२८॥
———————————————————————————————————————
कैवल्य-दीपिका: यद् वै व्रज इति । विष-रूपे तोये पीतं पानं येषां ते तथा । तु-शब्दश् चार्थः । तच्-छुद्धये ह्रदिनी-शुद्धये । उच्चाटयिष्यन् उच्चाटितवान् । अतीत-मात्रे लुङ् । अतीत-कल्पापेक्षया उन्नेष्यतीत्य्-आदि भविष्यत्त्वम् । उरगं कालियम् । ह्रदिनी यमुना ॥२८॥ [मु।फ। ३.३१]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विष-तोय-पीतं पानं येषां तान् पालान् गोपांश् च **कृपा-दृष्टि-**सुधा-वृष्ट्या जीवयिष्यतीति यत् तद् अपि आत्म-महिमोपनिबन्धनम् एवेति पूर्वेणानुषङ्गः । ह्रदिन्यां यमुनायां, निवहन् विहर्तुं, तच्-छुद्धये तस्या निर्विषत्वाय । उरगं कालियम् उच्चाटयिष्यति ॥२८॥
———————————————————————————————————————
॥ २.७.२९ ॥
तत् कर्म दिव्यम् इव36** यन् निशि निःशयानं**
दावाग्निना शुचि-वने परिदह्यमाने ।
उन्नेष्यति व्रजम् अतोऽवसितान्त-कालं
नेत्रे पिधाप्य स-बलोऽनधिगम्य-वीर्यः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : दिव्यम् इव स्तुत्यम् इव । तद्-अपेक्षया अन्येषां स्तुत्यम् एव यत्, तस्य तच् च दिव्यम् इव ॥२९॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिव्यम् अलौकिकम् इव इति लोकोक्तिः । उन्नेष्यत्य् उद्धरिष्यति । शुचिर् ग्रीष्मस् तत्-सम्बन्धिनि वने । शुष्क इत्य् अर्थः । अतो दावाग्नेर् हेतोर् अवसितो निश्चितोऽन्त-कालो यस्य तम् । स-बलः स-रामः । अनधिगम्यं दुर्ज्ञेयं वीर्यं यस्य । तत्र निशि निःशयानम् इति कालिय-दमने रात्र्यां यमुना-तीरे । नेत्रे पिधाप्य पिहिते कारयित्वेति मुञ्जाटव्याम्37 इति ज्ञेयम् ॥२९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । ग्रीष्मतौ हि स्वभावत एव सूर्य-तापेन सार्द्रम् अपि निरार्द्रं भवतीति भावः । दावाग्नितो रक्षणं श्री-कृष्णेन द्विः कृतं तत्र द्वयोर् मध्ये मुजाटव्यां तु दिवैव रक्षणं कृतम् इति । इवोऽत्रैवार्थे बोध्यः लोकोक्तिर् एव न शास्त्रोक्तिः । शास्त्रं तु जन्म कर्म च मे दिव्यम् [गीता ४.९] इत्य् आह ॥२९॥
———————————————————————————————————————
कैवल्य-दीपिका: तत् कर्म इति । इव-शब्दो वाक्यालङ्कारे । शुचि-वने ग्रीष्म-वने उन्नेष्यति उद्धरिष्यति । अतो दावाग्निः अवसितो निर्णीतः । अन्त-कालो मृत्युर् यस्य तत् तथा । नेत्रे पिधाय पिहिते कारयित्वा । स बलः भद्र ॥२९॥ [मु।फ। ३.३२]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिव्यम् इव इति लोकोक्ति-रीत्यैवोक्तिः । वस्तुतस् तु सर्वं कर्म तस्याप्राकृतम् एव, जन्म कर्म च मे दिव्यं [गीता ४.९] इति भगवद्-उक्तेः । निशि कालिय-दमन-रात्रौ । शुचिर् ग्रीष्मस् तत्-सम्बन्धिनि वने । उन्नेष्यति उद्धरिष्यति । अवसितो निश्चितोऽन्त-कालो येन तम् । तथा मुञ्जाटव्यां **नेत्रे पिधाप्य **पिहिते कारियत्वा ॥२९॥
———————————————————————————————————————
॥ २.७.३० ॥
गृह्णीत यद् यद् उपबन्धम् अमुष्य माता
शुल्बं सुतस्य न तु तत् तद् अमुष्य माति ।
यज् जृम्भतोऽस्य वदने भुवनानि गोपी
संवीक्ष्य शङ्कित-मनाः प्रतिबोधितासीत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपबध्यतेऽनेनेत्य् उपबन्धं तत्-साधनं शुल्बं दाम अमुष्य माता यशोदाऽग्रहीत् । अमुष्योदरे न माति बन्धन-संमितं न भवति, न पूर्यत इत्य् अर्थः । गोपी यशोदा संवीक्ष्य दृष्ट्वा प्रतिबोधिता निजैश्वर्यं ज्ञापिता आसीद् इति यत्, तच् च कर्म दिव्यम् इवेति सर्वत्र पूर्वेणान्वयः ॥३०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । व्यापकस्य व्याप्येन बन्धनं न भवतीति भावः । शुल्बं स्याद्दामतास्रयोः इत्यभिधानात् ॥३०॥
———————————————————————————————————————
कैवल्य-दीपिका: माता यशोदा । शुल्बं धाम न माति यावद् आबध्यते तारम् मानं न लभते । संवीक्ष्य दृष्ट्वा । प्रतिबोधिता “विष्णुर् अयम्” इति सञ्जात-बोधा ॥३०॥ [मु।फ। ३.३३]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उपनिबध्यतेऽनेनेत्य् उपनिबन्धनं शुल्बं दाम । अमुष्य माता श्री-यशोदा, यद् यद् गृह्णीत गृह्णाति । तद् अमुष्य न माति बन्धने संमितं न भवति, न पूर्यत इत्य् अर्थः । गोपी यशोदा । आदौ किं स्वप्न एतद् उत देव-माया [भा।पु। १०.८.४०] इत्य्-आदिना विस्मित-मनास् ततो बोधिता । अधोऽमुष्यैव ममार्भकस्य, यः कश्चनौत्पत्तिक आत्म-योगः [भा।पु। १०.८.४०] इति निजैश्वर्यं ज्ञापिता, अमुना कृष्णेनैवेत्य् अर्थः । तद्-अनन्तरं प्रतिबोधिता ऐश्वर्य-ज्ञान-प्रतिरूपं पुत्र-स्नेह-माधुर्यम् एव बोधिता, प्रणतास्मि तत्-पदं [भा।पु। १०.८.४१] स एव नारायणो मत्-पुत्रस्याविष्टं नाशयतु इति तत्र द्योतनात् ॥३०॥
———————————————————————————————————————
॥ २.७.३१ ॥
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद्
गोपान् बिलेषु पिहितान् मय-सूनुना च ।
अह्न्य् आपृतं निशि शयानम् अतिश्रमेण
लोकं38** विकुण्ठम् उपनेष्यति गोकुलं स्म ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अन्यथा ज्ञान-हेतुर् या वाक् सा जल्पिः प्रकीर्तिता इति तन्त्र-मालायाम् । यत् तु सर्वात्मना ज्ञानं निशा सा परिकीर्तिता इति कौर्मे ॥३१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : वरुणस्य पाशाद् यद् भयं तस्मान् मोचयिष्यति । मय-सूनुना व्योम-नाम्ना । अह्नि आपृतं व्यापार-युक्तं निशि शयानम् इति च वैकुण्ठ-प्राप्ति-साधनानुष्ठानाभावो दर्शितः । उपनेष्यति प्रापयिष्यति गोकुल-वासिनं जनम् । स्म इत्य् आश्चर्ये ॥३१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ते तु ब्रह्म-ह्रदं नीताः इति वक्ष्यमाण-रीत्याक्रूर-तीर्थं । यद् वा, नित्यम् एव श्री-कृष्ण-प्रेम-चेष्टत्वं तद्-अर्थं नाना-प्रयासानन्तरं तद्-एक-समाधित्वं च यद् धामार्थ-सुहृत्-प्रियार्थ-तनय-प्राणाशयास् त्वत्-कृते इति ब्रह्म-वाक्यात् । इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ इति वाक्याच् च । ब्रह्म-समाधि-पक्षे श्रीमन्-नन्दान्वेषणार्थ एव तद्-दिने व्यापार-श्रमेण निशि निद्रायाम् एव तद्-दर्शनम् इति भक्तेच्छा-दायित्वं दर्शितम् । अत्र सर्वान्ते यद् गोलोक-प्रापणं तदष्यनेनैव सूचितं दावाग्नि-पान-लीलावत् ॥३१॥
———————————————————————————————————————
कैवल्य-दीपिका: नन्दं च इति । पाशाद् भयं तस्मात् । मय-सूनुर् व्योमः । आपृतं व्यापृतम् । विकुण्ठे वैकुण्ठे । उप समीपे नेष्यति ॥३१॥ [मु।फ। ३.२४]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : वरुणस्य पाशाद् यद् भयं तस्माद् इति साक्षात् पाश-संबन्धो न विवक्षितः । अह्न्य् आपृतं निशि शयानम् इति ते तु ब्रह्म-ह्रदं नीता [भा।पु। १०.२८.१७] इत्य् अत्राक्रूर-तीर्थत्व-पक्षे नित्यम् एव श्री-कृष्ण-प्रेमात्मक-चेष्टत्वं तद्-अर्थ-नाना-प्रयासानन्तरं तद्-एक-समाधिकत्वं च ज्ञेयम् । यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इति श्री-ब्रह्म-वाक्यात् ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] इति श्री-शुक-वाक्याच् च ।
टीकाया एव मतान्तरेण ब्रह्म-समाधि-पक्षे श्रीमन्-नन्दान्वेषाणार्थ एव तद्-दिने व्यापारस् तच्-छ्रमेण निशि निद्रा निद्रायाम् एव तद्-दर्शनम् इति विशेषो ज्ञेयः । एवं भक्तेच्छा-दायित्वं दर्शितम् । अत्र सर्वान्ते यत् गोलोक-प्रापणं तद् अप्य् अनेनैव सूचितं दावाग्नि-पान-लीलावत् ॥३१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरुणस्य पाशाद् भयं निषिद्ध-समय-स्नायिनं मां वरुणः पाशैर् बद्ध्वा स्व-लोक एव स्थापयिष्यतीति नन्द-कर्तृकं यद् भयं, तस्मात् । वस्तुतस् तु नन्दस् तेन न बद्धः, कृष्ण-दर्शनार्थिना क्षण-मात्रम् एव स्व-लोक एव स्थापित इत्य् एवं तत्त्वम् । मय-सूनुना व्योमेन । अह्नि आपृतं तद्-दिने श्रीमन्-नन्द-कृष्णयोर् विच्छेद-दुःखेन तद्-अन्वेषणार्थं नाना-व्यापारेण च युक्तम् । निशि तत्रादौ तत्-तच्-छ्रमेण शयानम् । विकुण्ठं वैकुण्ठम् ॥३१॥
———————————————————————————————————————
॥ २.७.३२ ॥
गोपैर् मखे प्रतिहते व्रज-विप्लवाय
देवेऽभिवर्षति पशून् कृपया रिरक्षुः ।
धर्तोच्छिलीन्ध्रम् इव सप्त-दिनानि सप्त-
वर्षो महीध्रम् अनघैक-करे सलीलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवे इन्द्रे । पशून् रिरक्षुः रिरक्षिषुर् इत्य् अर्थः । अनघे श्रम-रहिते एकस्मिन्न् एव करे सलीलं यथा तथा महीध्रं गोवर्धनं धर्ता धारयिष्यति । उच्छिलीन्ध्रम् उद्गतं छत्राकम् इव । सप्त-वर्षाणि वयो यस्य सः ॥३२॥
———————————————————————————————————————
कैवल्य-दीपिका: रिरक्षुः रक्षितुम् इच्छुः, आर्षम् अणिट्त्वम् । ऊच्छिलीन्ध्रं छत्राकारं39 वर्षासु भवति । महीध्रं गोवर्धनम् । हे अनघ ! नारद ॥३२॥ [मु।फ। ३.३५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवे इन्द्रे । रिरक्षुः रिरक्षिषुः । धर्ता धारयिष्यति । उच्छिलीन्ध्रम् उद्गत-छत्राकम् इव । अनघे श्रम-रहिते एकस्मिन् करे ॥३२॥
———————————————————————————————————————
॥ २.७.३३ ॥
क्रीडन् वने निशि निशाकर-रश्मि-गौर्यां
रासोन्मुखः40** कल-पदायत-मूर्च्छितेन ।**
उद्दीपित-स्मर-रुजां व्रज-भृद्-वधूनां
हर्तुर् हरिष्यति शिरो धनदानुगस्य ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : कल-पदं च । आयतं च । सप्त-स्वर-समाहारो मूर्च्छनेति प्रकीर्तितः इति गान्धर्वे ॥३३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निशि रात्रौ । निशाकर-रश्मिभिर् गौर्यां धवलायाम् । वने क्रीडन् कलानि मञ्जुलानि पदानि यस्मिंस् तच् च तद् आयतं दीर्घं मूर्च्छितम् आलाप-विशेष-युक्तं गतिं तेनोद्दीपितः स्मर एव रुक् यासां तासां गोपीनां हर्तुः शङ्खचूडस्य शिरो हरिष्यति ॥३३॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । वर्ण-लोपश् छान्दसः । सर्वत्र यत्-तदोर् अध्याहारेणान्वयः कार्यः ॥३२-३३॥
———————————————————————————————————————
कैवल्य-दीपिका: क्रीडन्न् इति । गौर्यां शुक्लायाम् । रासोन्मुखः रास-क्रीडायाम् आसक्तः कलैर् मधुरैः पदैः आयतम् आलापेन दीर्घतां नीतं यद् मूर्च्छितं मूर्च्छनाख्यं गीतम् । तेनोद्दीपितो यः स्मरः । स एव रुग् मदनज-पीडां यासां तास् तथा । धनदानुजः शङ्खचूडः ॥३३॥ [मु।फ। ३.३६]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पूर्ववद् अत्र रास-लीलया सह होरिका-लीलाम् एकीकृत्य वर्णनम् ॥३३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निशि कथम्-भूतायाम् ? निशाकर-रश्मिभिर् गौर्यां धवलायाम् । रासोन्मुखः क्रीडन् । भविष्यति दिनान्तर-भवं शङ्ख-चूड-वधम् अपि रास-सान्निध्यात् तत्-साहित्येनैवाह—कलेति । कल-पदस्य मधुरास्फुट-गीतस्य आयतं मूर्च्छितं मूर्च्छना तेन । व्रज-भूतो गोपास् तेषां वधूनां हर्तुः शङ्खचूडस्य शिरो हरिष्यति । यद् वा, तस्याम् एव रात्रौ शङ्खचूड-वधानन्तरम् अर्ध-रात्रे रासं च करिष्यति, रासोन्मुख इत्य् उक्तेः ॥३३॥
———————————————————————————————————————
॥ २.७.३४-३५ ॥
ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट-
मल्लेभ-कंस-यवनाः कपि-पौण्ड्रकाद्याः ।
अन्ये च शाल्व-कुज-बल्वल-दन्तवक्र-
सप्तोक्ष-शम्बर-विदूरथ-रुक्मि-मुख्याः ॥
ये वा मृधे समिति-शालिन आत्त-चापाः
काम्बोज-मत्स्य-कुरु-सृञ्जय-कैकयाद्याः ।
यास्यन्त्य् अदर्शनम् अलं41** बल-पार्थ-भीम-**
व्याजाह्वयेन हरिणा निलयं तदीयम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
विद्वेषिणोऽप्य् उदासीना भक्ता अपि न संशयः ।
हरेर् हि सदनं यान्ति व्यक्तं भक्तैस् तु गम्यते ॥
आरभ्यतम आमुक्तेः कृष्णस्य सदनं यतः ।
अव्यक्त-हरि-लोकत्वाद् अन्येषाम् अन्य-लोकता ॥ इति बृहत्-संहितायाम् ।
राम-भीमार्जुनादीनि विष्णोर् नामानि सर्वशः ।
रमणाभय-वर्णाद्याः शब्द-वृत्तेर् हि हेतवः ।
हरिर् हि तत्र तत्रस्थो रमणादीन् करोत्य् अजः ॥
अतस् तस्यैव नामानि व्याजाद् अन्य-गतानि ।
व्यवहार-प्रवृत्त्य्-अर्थं दुष्टानां मोहनाय च ॥ इति स्कान्दे ॥३४-३५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : ये च प्रलम्बादयस् ते सर्वे हरिणा हेतु-भूतेन तदीयं निलयम् अदर्शनं दर्शनायोग्यं वैकुण्ठम् अलं यास्यन्ति इत्य् उत्तरेणान्वयः । खरो धेनुकः, दर्दुर इव दर्दुरो बकः, इभः कुवलयापीडः, कुजो नरकः, कपिर् द्विविदः ॥३४॥
ये च मृधे आत्त-चापाः, समितौ संग्रामे शालन्ते श्लाघन्ते ते समिति-शालिनः । ननु प्रलम्ब-खर-कपि-बल्वल-रुक्मि-प्रमुखा बलभद्रेण निहताः, काम्बोजादयश् च भीमार्जुनादिभिः, शम्बरः प्रद्युम्नेन, यवनो मुचुकुन्देन, न तु हरिणा ? तत्राह—बलो भीमः पार्थ इत्य्-आदयो व्याजाह्वयाः कपट-नामानि यस्य तेन । सप्तोक्षाणस् तु तेन दमिताः कालान्तरे42 यास्यन्तीति भावः । एतच् च सर्वम् अपि कर्म दिव्यम् इव, तच् चान्यथा न भाव्यम् इति पूर्वेणैव सम्बन्धः ॥३५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **बके दर्दुर-साम्यं हि नेत्र-संमीलन-पूर्वक-स्थितिर् एव आद्यपदेन पीठादयो ग्राह्याः ॥३४॥
———————————————————————————————————————
कैवल्य-दीपिका: ये च इति । प्रलम्बाद्याः रुक्मि-पर्यन्ताः एकोनविंशतिः । कुजो भौमः । कपिर् द्विविदः । बल्वलो यो नैमिषे बलभद्रेण हतः । सप्तोक्षं सप्त-वृषाः ॥३४॥ [मु।फ। ३.३८]
ये वा इति । समितौ संग्रामे शालन्ते ते समिति-शालिनः । हरिणा सह मृधे सङ्ग्रामे सति काम्बोजाद्याः तदीयं निलयं यास्यन्ति । न विद्यते दर्शन-मलो रागादिर् यत्र निलये स तथा । बल-भीम-पार्थ-व्याजाह्वयाः कपट-नामानि यस्य तेन । तत्त्वतस् तु बलभद्रादयो हरि-नामान एव ॥३५॥ [मु।फ। ३.३९]
———————————————————————————————————————
**सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भाग्। १.५.२१] **एतयोर् अर्थः—ये च प्रलम्बादयः, ते सर्वे हरिणा हेतु-भूतेन तदीयं तेषां योग्यं निलयं नितरां लयं मोक्षम् अदर्शनं दर्शनाविषयं, पुनर् दर्शन-रहितं वा परमाभाव-रूपत्वात् । अलम् अत्यर्थम् । यद् वा, अदर्शनेषु अदृश्येषु मध्ये मल-रूपं परम-हेयम् इत्य् अर्थः, भक्ति-रस-विघातकत्वात् । यास्यन्ति प्राप्स्यन्तीत्य् उत्तरेणान्वयः । दर्दूर इव दुर्दूरो वकः कपिर् द्विविदः ।
ननु खर-कपि-बल्वल-प्रमुखाः बलभद्रेण निहताः, काम्बोजादयश् च भीमार्जुनादिभिः, शम्बरः प्रद्युम्नेन, यवनो मुचुकुन्देन, न तु हरिणा ? तत्राह—बल-पार्थ-भीमेत्य्-आदयः व्याजाह्वया कपट-नामानि यस्य तेनेति । यदि च तदीय-निलयं श्री-वैकुण्ठम् इति व्याख्या, तदा मुक्ता इत्य् अस्य वैकुण्ठ-नयनेन संसार-बन्ध-छेदनान् मुक्ताः कृताः मोचिता इत्य् अर्थो द्रष्टव्यः ॥३४-३५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ये चेति युग्मकम् । बल-पार्थेति दैत्य-मोक्ष-दायित्व-लक्षणया सर्वासाधारण-शक्त्या तेष्व् आवेशात् । इदं तु यत्र द्विविदादि-वधे तस्यासाक्षात्त्वं तत्रैव ज्ञेयम् । साक्षाद्-भावे तु तन्-निरीक्षणम् एव मुख्यं कारणम् । यथोक्तं श्री-भीष्मेण यम् इह निरीक्ष्य हता गताः स्वरूपं [भा।पु। १.९.३९] इति । केचिद् अलम् अदर्शनं ब्रह्म-लयं, केचित् तु तदीयं निलयम् इति विभेद्यम् ॥३४-३५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवम् अतिमाधुर्याधिकाद् वृन्दावनीय-लीलाः किञ्चिद् व्यासेन प्रोच्य, अन्या असुर-वध-लीलाः समासेनैवोद्दिशति द्वाभ्याम् । ये च प्रलम्बादयस् ते सर्वे हरिणा हेतु-भूतेन, केचिद् अलम् अत्यर्थम् अदर्शनं सायुज्यम्, केचिच् च तदीयं निलयं वैकुण्ठं यास्यन्तीत्य् उत्तरेणान्वयः । खरो धेनुकः । दर्दुरो दर्दुर-संज्ञको बकः । इभः कुवलयापीडः । कुजो नरकः । कपिर् द्विविदः ।
समितौ सङ्ग्रामे शालन्ते श्लाघन्ते ते समिति-शालिनः । ननु प्रलम्ब-खर-कपि-बल्वल-रुक्मि-प्रमुखा बलभद्रेण निहताः, काम्बोजादयश् च भीमार्जुनादिभिः, शम्बरः प्रद्युम्नेन, यवनो मुचुकुन्देन, न तु हरिणा, तत्राह । बल-पार्थ-भीमा इत्य्-आदयो व्याजेनैवाह्वया नामानि यस्य तेन । सप्तोक्षाणस् तु तेन दमिताः कालान्तरे यास्यन्तीति भावः। अत्र प्रलम्ब-खरादयः सायुज्यं, पौण्ड्रक-दन्तवक्रादयो वैकुण्ठं यास्यन्तीति विवेचनीयम् अग्रे व्याख्यास्यमान-युक्तेः ॥३४-३५॥
———————————————————————————————————————
॥ २.७.३६ ॥
कालेन मीलित-धियाम् अवमृश्य नॄणां
स्तोकायुषां स्व-निगमो बत दूर-पारः ।
आविर्हितस् त्व् अनुयुगं स हि सत्यवत्यां
वेद-द्रुमं विट-पशो विभजिष्यति स्म ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
तृतीये सप्तमे चैव षोडशो पञ्चविंशके ।
अष्टाविंशे युगे कृष्णः सत्यवत्याम् अजायत ॥
व्यासाचार्यस् तु पूर्वेषु चरमे स्वयम् एव तु ।
विव्यास वेदाञ्चक्रे च भारतं वेद-सम्मितम् ॥ इति च ॥३६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **व्यासावतारम् आह । अनुयुगं मीलिता संकुचिता धीर् येषाम् । स्तोकम् अल्पम् आयुर् येषां तेषां स्व-निगमः स्व-कृतो वेद-राशिर् बताहो दूरे पारं यस्येति दुर्गम् इत्य् अवमृश्य सत्यवत्याम् आविर्भूतः सन् स एव हरिः । विटपशः शाखा-भेदेन ॥३६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति नन्विति । कालान्तरे यास्यन्तीति तेषां दमनम् एव हरिणा कृतं न तु ते मारिता अतो हरिस्पर्शप्रभावाद् एव कालान्तरे देहपातेऽपि तेषां हरिपदप्राप्तिर् एव भविष्यतीति तात्पर्यम् ॥३५-३६॥
———————————————————————————————————————
कैवल्य-दीपिका: अशेष-सन्देह-हानार्थं व्यासावतारम् आह—कालेन इति ।43 स्व-निगमः स्व-कृतो वेद-राशिः । बत अहो दूर-पारः दूर-स्थित-पर्यन्तः । इत्य् अवमृश्य । आविर्हितः अवतीर्णः । अनु युगं द्वापरे । विट-पशः शाखा-भेदेन ॥३६॥ [मु।फ। ३.३९]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **व्यासावतारम् आह । कालेन मीलिता सङ्कुचिता धीर् येषाम् । तत्रापि स्तोकायुषाम् अल्पायुषाम् । स्व-निगमः स्व-कृतो वेद-समुद्रः । दूरे पारं यस्य स इत्य् अवमृश्य । अनुयुगं कल्पे कल्पे युग-शब्दोऽयं कल्प-वाची ज्ञेयः । सत्यवत्याम् आविर्भूतः सन् स एव हरिर् विटपशः शाखा-भेदेन ॥३६॥
———————————————————————————————————————
॥ २.७.३७ ॥
देव-द्विषां निगम-वर्त्मनि निष्ठितानां
पूर्भिर् मयेन विहिताभिर् अदृश्य-तूर्भिः ।
लोकान् घ्नतां मति-विमोहम् अतिप्रलोभं
वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
मोहनार्थं दानवानं बाल-रूपी पथिस्थितः ।
पुत्रं तं कल्पयामास मूढ-बुद्धिर् जिनः स्वयम् ॥ \
ततः संमोहयामास जिनाद्यान् असुरांशकान् ।
भगवान् वाग्भिर् उग्राभिर् अहिंसा वाचिभिर् हरिः ॥ इति ब्रह्माण्डे ॥३७॥
\
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बुद्धावतारम् आह । देव-द्विषां **निगम-वर्त्मनि **वेद-मार्गे निष्ठितानां नितरां स्थितानाम् । तद्-बलेन च पूर्भिः पुरीभिः44 । अदृश्य-तूर्भिर् अलक्ष्य-वेगाभिः । मतेर् विमोहो योग्यता-त्यागो यस्मात्, मतेः प्रलोभश् चायुक्त-स्वीकारो यस्मात् तं पाषण्ड-वेषं विधाय तेन औपधर्म्यं पाषण्ड-धर्मम् । स्वार्थे ष्यञ् । बहु भाषिष्यत इत्य् अर्थः ॥३७॥ \
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद्-बलेन वेद-मार्ग-स्थिति-बलेन । पाखण्ड-वेषं शास्त्राविहित-वेषं वस्त्र-खण्डेन मुख-पिधानादि-लक्षणं तेन वेषेण उपधर्मस् तु पाखण्डस्य एवौपधर्म्यं वेद-ब्राह्मण-देवार्चनादि-निन्दा-प्रतिपादकं शास्त्रं तथा हि—सर्वं क्षणिकं क्षणिकं तत्र क्षणिकत्वं नीलाद् ईक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधर-पटलं सन्तश् चामी भावा इत्य्-आदि सर्वस्य संसारस्य दुखात्मकत्वं सर्व-तीर्थकर-संमतम् अन्यथा तन्-निवृत्त्य्-उपाये तेषां प्रवृत्तिर् न स्यात् तस्मात् सर्वं दुःखं दुःखम् इति भावनीयम् । ननु किं वद् इति पृष्ठे दृष्टान्तः कथनीय इति चेन् मैवं स्व-लक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावान् नैतेन सदृशम् अपरम् इति वक्तुम् अशक्यत्वात् । ततः स्खलक्षणं स्व-लक्षणम् इति भावनीयम् । एवं शून्यं शून्यमित्यपि भावनीयमित्थं बुद्धमुनिना स्वशिष्येभ्यश्चतुर्द्धोपदिष्टमत्र बहुवक्तव्यमस्तीत्युपरम्यते । किं च, स्वर्गः कुत्र च कुत्र दैवतकुलं कुत्राथ जन्मान्तरम् इत्य्-आदिना चिरञ्जीविभट्टेनापि तन्मतं प्रदर्शितं विद्वन्मोदतरङ्गिण्यां ततोन्यतश् च तदवसेयम् । इत्य् अर्थ इति । अत्रापि वर्णलोपश्छान्दस इति भावः ॥३७॥
———————————————————————————————————————
कैवल्य-दीपिका: भ्रान्ति-दर्शन-निवृत्त्य्-अर्थं बुद्धावतारम् आह—देव- इति । पूर्भिः पुरीभिः । अदृश्य-तूर्भिः अलक्षित-भ्रमण-वेगाभिः । विमोहो गृहीत-त्यजने शक्तिः । प्रलोभः त्यक्तार्थ-ग्रहणे । भाष्यते उच्यते विष्णुना । औपधर्म्यं धर्माभासः । स्वार्थे ष्यङ् ॥३७॥ [मु।फ। ३.४०]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कलि-विशेषे अवतारं श्री-बुद्धम् आह—देव-द्विषाम् इति । अस्मिन् कलौ देव-द्विषां तादृशत्वाश्रवणात् ॥३७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **बुद्धावतारम् आह । देव-द्विषां दैत्यानाम् । निष्ठितानां नितरां स्थितानाम् । पूर्भिः पुरीभिः । अदृश्य-तूर्भिः सपत्नैर् अलक्ष्य-वेगाभिः। लोकान् घ्नतां तेषां मतेर् विमोहो मतेः प्रलोभश् च यस्मात् तं पाषण्ड-वेशं विधाय, तेन औपधर्म्यं पाषण्ड-धर्मम् । स्वार्थे ष्यञ् । बहु भाषिष्यत इत्य् अर्थः ॥३७॥
———————————————————————————————————————
॥ २.७.३८ ॥
यर्ह्य् आलयेष्व् अपि सतां न हरेः कथाः स्युः
पाषण्डिनो द्विज-जना वृषला45** नृ-देवाः ।**
स्वाहा स्वधा वषड् इति स्म गिरो न यत्र
शास्ता भविष्यति कलेर् भगवान् युगान्ते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कल्क्य्-अवतारम् आह । यर्हि यदा सताम् अप्य् आलयेषु गृहेषु हरेः कथा न स्युः । त्रैवर्णिकाः पाषण्डिनः46 स्युः, शूद्राश् च राजानः स्युः, तदा कल्कि-रूपेण कलेः शास्ता भविष्यति । अत्र च ब्रह्म-नारद-संवादात् प्राग्-भाविनो वराहादयः, मन्वन्तरावतारास् तु भूता भाविनश् च, धन्वन्तरि-परशुरामौ तदा वर्तेते, श्री-रामादयस् तु भाविनः, तत्र तु क्वचिद् भूतादि-निर्देशश् छान्दस इति द्रष्टव्यम् ॥३८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रैवर्णिकाः विप्र-क्षत्र-विशः ॥३८॥
———————————————————————————————————————
कैवल्य-दीपिका: कलि-दोष-निरासार्थः कल्किनम् आह—यर्हि इति । यर्हि यदा पाषण्डिनो वेद-बाह्या वारा । नृदेवा राजानः । यदा वृषलाः शूद्रा एषां च फलोक्तिः । षष्ठस्याष्टमेऽ ध्यायेऽ नुक्ते तु लिङ्गैकं फलम् ऊह्यम् । ॥३८॥ [मु।फ। ३.४१]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सतां चातुर्वर्ण्याचारवताम् आलयेषु आश्रमेषु यदि हरि-कथाः न स्युः, अत एव तेषु त्रैवर्णिकाः पाषण्डिनः स्युः । शूद्राश् च म्लेच्छ-पर्यन्ता राजानः स्युर् इत्य् अर्थः ॥३८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कल्क्य्-अवतारम् आह । वृषलाः शूद्राः नृ-देवाः राजानः । कलेर् युगस्यान्ते । एक-देशान्वयः सोढव्यः । अत्र ब्रह्म-नारद-संवादात् प्राग्-भाविनो वराहादयः, मन्वन्तरावताराश् च भूता भाविनश् च, धन्वन्तरि-परशुरामौ तदा वर्तेते । श्री-रामादयस् तु भाविनः । तत्र भूतादि-निर्देशश् छान्दस इति द्रष्टव्यम् ॥३८॥
———————————————————————————————————————
॥ २.७.३९ ॥
सर्गे तपोऽहम् ऋषयो नव ये प्रजेशाः
स्थानेऽथ धर्म-मख-मन्व्-अमरावनीशाः ।
अन्ते त्व् अधर्म-हर-मन्यु-वशासुराद्या47
माया-विभूतय इमाः पुरु-शक्ति-भाजः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सृष्ट्य्-आदि-कार्य-भेदेन माया-गुणावतार-विभूतीर् आह—सर्ग इति । स्थाने स्थितौ । मखो विष्णुः । धर्मश् च मखश् च मनवश् च अमराश् च अवनीशाश् च । अन्ते संहारे । हरो रुद्रः । मन्यु-वशाः सर्पाः । बहु-शक्ति-धारिणो भगवत इमा माया-विभूतयः ॥३९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रैवर्णिकाः विप्र-क्षत्र-विशः ॥३८-३९॥
———————————————————————————————————————
कैवल्य-दीपिका: स्वल्पावतारम् आह—सर्ग- इति । अहं ब्रह्मा, प्रजेशाः प्रजापतयः । स्थानं पालनम् । धर्मो यज्ञाधिष्ठातृ-देवता । हरो रुद्रः । मन्यु-वशाः सर्पादयः ॥ एषां च स्वल्पत्वेन युग-मन्वन्तर-कल्पावतारेषु क्रमाद् अल्पत्वं महत्त्वं महत्तरत्वं महत्तमत्वं चेति गम्यते ॥३९॥ [मु।फ। ३.७१]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सर्ग इति । विष्णोर् अप्य् अत्र पाठः उपाधि-मात्र-दृष्ट्या । सृजामि तन्-नियुक्तोऽहं [भा।पु। २.६.३२] इत्य् आदेः ॥३९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सृष्ट्य्-आदि-कार्य-भेदेन माया-गुणावतार-विभूतीर् आह—सर्ग इति । स्थाने स्थितौ । धर्मश् च मखश् च मनवश् च अमराश् च अवनीशाश् च । अन्ते संहारे । मन्यु-वशाः सर्पाद्याः ॥३९॥
———————————————————————————————————————
॥ २.७.४० ॥
विष्णोर् नु वीर्य-गणनां कतमोऽर्हतीह
यः पार्थिवान्य् अपि कविर् विममे रजांसि ।
चस्कम्भ यः स्व-रंहसास्खलता48** त्रि-पृष्ठं**
यस्मात् त्रि-साम्य-सदनाद् उरु-कम्पयानम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदं मया संक्षेपेणोक्तं विस्तरेण वक्तुं न कोऽपि समर्थ इत्य् आह । पृथिव्याः परमाणून् अपि यो विममे गणितवांस् तादृशोऽपि को नु विष्णोर् वीर्य-गणनां कर्तुम् अर्हति । कथम्भूतस्य ? यो विष्णुस् त्रि-पृष्ठं सत्यलोकं चस्कम्भ धृतवान् । किम् इति चस्कम्भ ? यस्मान् त्रैविक्रमेऽस्खलता प्रतिघात-शून्येन स्व-रंहसा स्व-पाद-वेगेन त्रि-साम्य-रूपं49 सदनम् अधिष्ठानं प्रधानं तस्माद् आरभ्योरुअधिकं कम्पयानं कम्पमानम्, कम्पेन यानं यस्येति वा । अतः कारणाच् चस्कम्भ । आ त्रि-पृष्ठम् इति वा च्छेदः, सत्यलोकम् अभिव्याप्य यः सर्वं धृतवान् इत्य् अर्थः । तथा च मन्त्रः विष्णोर् नु कं [ऋक्।सं। १.१५४.१]50 इति ।
अस्यार्थः—विष्णोर् नु वीर्याणि कं प्रवोचम्, कः प्रावोचद् इत्य् अर्थः । यः पार्थिवानि रजांस्य् अपि विममे सोऽपि । यो विष्णुस् त्रेधा विचक्रमाणस् त्रिविक्रमं कुर्वन्न् उत्तरं लोकम् अस्कभायद् अवष्टब्धवान् । कथम्भूतम् ? सधस्थम् । सहस्य सधादेशः । तिष्ठन्तीति स्थाः, तत्र-स्थैर् देवैः सह वर्तमानम् इत्य् अर्थः ॥४०॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : एवं भगवतोऽधिष्ठानान्य् उक्त्वा इदानीं, यत् स्तूयते तद् विधीयते [मीमांसा-भाष्यम् १.२] इति न्यायान् मुमुक्षोर् भगवति स्वातिरेकम् अनुरागं त्रिधातुं भगवतो माहात्म्यम् आह—विष्णोर् इति । अत्रापि श्लोक-सप्तकेन पूर्व-रङ्गं विधास्यन् सामस्त्येन महिमा ब्रह्मादिभिर् अपि दुर्विज्ञात इति द्वाभ्याम् आह—विष्णोर् इति । न अहो इह एषु त्रैलोक्यस्थेषु कविषु मध्ये कतमः ॥४०॥ [मु।फ। ४.२०]
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ पूर्व-पद्ये विष्णोर् अपि माया-विभूतित्वेनान्यैः साम्यम् आशङ्क्य तन् निरस्याह—विष्णोर् न्व् इति । प्रकृति-पर्यन्त-कल्पनात् तस्य तु तद्-अतिरिक्तानन्त-परमैश्वर्यम् अस्त्य् एवेति भावः ॥४०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हरेर् अवतार-लीलाः सामस्त्येन वक्तुं न कोऽपि समर्थ इत्य् आह—विष्णोर् इति । गणनां कर्तुम् इति शेषः । यो विष्णुः स्व-रंहसा त्रैविक्रमे स्व-चरण-वेगेन अस्खलता त्रि-पृष्ठं त्रयाणां लोकानां पृष्ठम् अण्ड-कटाहं, चस्कम्भ रुरोध । रुद्ध्वा स्थिरीचकारेत्य् अर्थः । त्रि-पृष्ठं कीदृशम् ? यस्माद् एव स्व-रंहसो हेतोः त्रि-साम्य-सदनात् प्रकृत्य्-आवरणम् आरभ्य, उरु-कम्पयानम् अतिकम्पमानम् । तथा च मन्त्रः—
विष्णोर् नु कं वीर्याणि प्रवोचं
यः पार्थिवानि विममे रजांसि ।
यो अस्कभायद् उत्तरं सधस्थं
विचक्रमाणस् त्रेधोरुगायः ॥ [ऋक्।सं। १.१५४.१] इति ।
अस्यार्थः—विष्णोर् नु वीर्याणि कं प्रवोचम्, कः प्रावोचद् इत्य् अर्थः । यः पार्थिवान्य् अपि रजांसि विममे, सोऽपि यो विष्णुस् त्रेधा विचक्रमाणस् त्रिविक्रमं कुर्वन्, उत्तरं लोकम् अस्कम्भायद् अवष्टब्धवान् । कथम्भूतम् ? सधस्थं तिष्ठन्तीति स्था देवास् तैः सह वर्तमानम् । सहस्य सधादेशः ॥४०॥
———————————————————————————————————————
॥ २.७.४१ ॥
नान्तं विदाम्य् अहम् अमी मुनयोऽग्र-जास् ते
माया-बलस्य पुरुषस्य कुतोऽवरा ये ।
गायन् गुणान् दश-शतानन आदि-देवः
शेषोऽधुनापि समवस्यति नास्य पारम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति—नान्तम् इति । पुरुषास्य यन् माया-बलं51 तस्यान्तं न विदामि न वेद्मि । दश-शतान्य् आननानि यस्य स शेषोऽप्य् अस्य गुणान् गायन् पारं न समवस्यति न प्राप्नोति ॥४१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सम्भवत्वाद् आह कम्पेनेति । यानं गमनं पतनम् इति यावत् । अतः कम्पन-रूपात् । इत्य् अर्थ इति । प्रधानावरणाद् आरभ्य सत्यलोकपर्यन्तं कम्पमानं ब्रह्माडं यः स्वपादेनैव रुरोधेति भावः । अत्र प्रमाणमाह—तथा चेति । विष्णोर्नुकं वीर्याणि प्रवोचं पार्थिवानि विममे रजांसि यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः इति स्वामि-चरणैर् एवायं मन्त्रो व्याख्यातः । छन्दो-भङ्गस् त्व् आर्षः । स्व-रंहसेति पाठ एव रह एकान्त-वेगयोः इति कोशाद् अननुस्वार-पाठोऽपि प्रशस्त एव तथैव बहु-पुस्तकेषु दृश्यते ॥४०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र मायिकामायिकत्वेनोभय-विधानाम् अपि वीर्याणाम् आनन्त्यम् आह—नान्तम् इत्य् अर्धाभ्याम् ॥४१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतत् प्रपञ्चयति—नान्तम् इति । पुरुषास्य यन् माया-शक्तेर् बलंतस्याप्य् अन्तं न वेद्मि किम् उत चिच्-छक्तेर् इति भावः । अस्य पुरुषस्य गुणान् प्राकृतान् अप्राकृतांश् च गायन् न समवस्यति न प्राप्नोति ॥४१॥
———————————————————————————————————————
॥ २.७.४२ ॥
येषां स एष भगवान् दययेद् अनन्तः
सर्वात्मनाश्रित-पदो यदि निर्व्यलीकम् ।
ते दुस्तराम् अतितरन्ति च देव-मायां
नैषां ममाहम् इति धीः श्व-शृगाल-भक्ष्ये ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **देव-मायां विदन्ति संसारम् अतितरन्ति च ॥४२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यदि न केऽपि विदन्ति, तर्हि कथं मुच्येरन् तत् कृपयैव ? इत्य् आह—येषाम् इति । दययेद् दयां कुर्यात् । ते च यदि [निर्व्यलीकं] निष्कपटम् आश्रित-चरणः भवन्ति, ते दुस्तरां देव-मायाम् अतितरन्ति । च-कारान् माया-वैभवं विदन्ति च । अथेति वा पाठः । प्रत्यक्षम् एव तेषां माया-तरणम् इत्य् आह—नैषाम् इति । श्व-शृगालानां भक्ष्ये देहे ॥४२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतितरन्तीत्यत्रार्थे तरन्तीति ॥४२॥
**सनातन-गोस्वामी (दिग्-दर्षिनी): **[बृ।भा। २.४.८५-८६] : स भगवान् श्री-कृष्णः स्वयम् एव येषां यान् प्रति दययेत् दयां कुर्यात्, तत्र च यदि निर्व्यलीकं निश्छिद्रं दययेत्, तदा ते सर्वात्मना सर्व-भावेन आश्रित-चरणारविन्दाः सन्तः दुस्तराम् अपि देवस्य तस्य मायाम् अतितरन्ति । च-कारान् मुक्तिम् अपि तुच्छीकृत्य श्री-वैकुण्ठं यान्ति च । प्रत्यक्षम् एव तेषां मायातितरण-लक्षणम् इत्य् आह—येषाम् इति । श्व-शृगालानां भक्ष्ये देहे ममाहम् इति धीर् न भवति, किन्तु भगवत्-परेष्व् एवेति दिक् ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तर्हि तर्तव्यानां मायिक-वीर्याणां तरण-साधनानां चामायिक-वीर्याणाम् आत्यन्तिक-ज्ञानाभावे कथं लोका निस्तरेयुः ? इत्य् आशङ्क्याह—येषाम् इति । यद् वा, तस्मात् तज्-ज्ञानेनाग्रहं परित्यज्य शुद्ध-भावेन भजेद् एवेत्य् आह—येषाम् इति । च-काराद् अनन्तत्वेनैव जानन्ति च ॥४२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यदि युष्मद्-आदयोऽपि तं न विदन्ति, तर्हि तद्-अनुभवो निराश्रय एवाभूत्? इति चेत्, तत्राह । येषां **स दययेत् **दयेत अधिगर्ह्येत्य् आदिना षष्ठी । माम् एते जानन्त्व् इति स-करुणम् अङ्गीकुर्याद् इत्य् अर्थः ।
नायम् आत्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क।उ। १.२.२३] इति श्रुतेः ।
केन लक्षणेन तस्य दया ज्ञातव्या ? इत्य् अत आह सर्वात्मना ज्ञान-कर्मादि-निरपेक्षतया । निर्व्यलीकं निष्कपटम्, निष्कामम् इति यावत् । आश्रित-पदः आश्रित-भगवच्-चरणा यदि भवन्ति ।
तस्य दया-शक्तेर् एव मुख्या वृत्तिः शुद्ध-भक्तिः । सा च तद्-भक्त-द्वारैव जनेषु प्रवर्तते इति भावः । च-कारात् तं विदन्ति च । केन लक्षणेन माया-तरण-तद्-वेदने ज्ञातव्ये ? इत्य् अत आह । श्व-शृगाल-भक्ष्ये पुत्रादि-देहे स्व-देहे च एषां ममाहम् इति धीर् न स्यात् ॥४२॥
———————————————————————————————————————
॥ २.७.४३-४५ ॥
वेदाहम् अङ्ग परमस्य हि योग-मायां
यूयं भवश् च भगवान् अथ दैत्य-वर्यः ।
पत्नी मनोः स च मनुश् च तद्-आत्मजाश् च
प्राचीनबर्हिर् ऋभुर् अङ्ग उत ध्रुवश् च ॥
इक्ष्वाकुर् ऐल-मुचुकुन्द-विदेह-गाधि-
रघ्व्-अम्बरीष-सगरा गय-नाहुषाद्याः ।
मान्धात्र्-अलर्क-शतधन्व्-अनु-रन्तिदेवा
देवव्रतो बलिर् अमूर्त्तरयो दिलीपः ॥
सौभर्य्-उतङ्क52-शिबि-देवल-पिप्पलाद-
सारस्वतोद्धव53-पराशर-भूरिषेणाः ।
येऽन्ये विभीषण-हनूमद्-उपेन्द्रदत्त-
पार्थार्ष्टिषेण-विदुर-श्रुतदेव-वर्याः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्तर्-ज्ञानाभावेऽपि मायेयम् इति ज्ञानं तत्-कृपया बहूनाम् अस्तीत्य् आह—वेदाहम् इति त्रिभिः । यूयम् इति सनकादीन् अन्तर्भाव्य बहुत्वम् । दैत्य-वर्यः प्रह्लादः । मनुः स्वायम्भुवस् तस्य पत्नी शतरूपा च । तद्-आत्मजाः प्रिय-व्रतोत्तानपादौ पुत्रौ कन्याश् च54 । प्राचीनबर्हिषो विसर्ग-लोपश् छान्दसः । अङ्गो वेन-पिता ॥४३॥
शतधनुः अनुश् च । सन्धिर् आर्षः । रन्तिदेवा इति पाठः सुगमः । एक-पद्ये55 एतैः सहितो देवव्रत इत्य् अर्थः ॥४४॥
उपेन्द्रदत्तः शुकः । विभीषणादयो वर्या मुख्या येषां ते ॥४५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे अङ्गेति ॥- इत्य् अर्थ इति । मानदधातृत आरभ्यरन्तिदेवदेवव्रत इत्यन्तमैकपद्ये इति भावाः ॥ उत्तङ्के इति वक्तव्ये उत्तङ्केत्यार्षः । सारस्वतनामा कश्चिदृषिविषेशो वसिष्ठादिवत्स च सरस्वतीपुत्रस्तद्वृत्तं भारतादवसेयम् । यस्य गोत्रिणो हि सारस्वतगोत्रा एव न तु सारस्वतसंज्ञा इति । सारस्वतसंज्ञका विप्रास्तु सारस्वतदेशवासिन एव मत्स्यान्सारस्वतानथ इति प्रथम-स्कन्धे सारस्वतदेशोऽपि पठितोस्ति क्वचित्पुस्तकेषु शारद्वतोद्धवेति पाठोप्यस्ति तत्र शरद्वेतोऽपत्यं शारद्वतः कृपाचार्यः प्रतीयते शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः इत्य्-उक्तेः ॥४३-४५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु मायिक-वीर्याणाम् अप्य् अनन्तत्वात् तरणं कथं सम्भवेत् ? उच्यते—तत्-कृपयैव तत्रावस्तुत्व ज्ञानेनाध्यास-परित्यागाद् इति सिद्धान्तयंस् तत्राधिकारिण उदाहरति—वेदाहम् इत्य् आदि त्रिकेण _। _वेदेति । योगमायाम् ऐश्वर्यं तद्-दयावतारतम्येन स्वाधिकारानुरूपम् अहम् अन्येऽपि विद्म इत्य् अर्थः ॥४३-४५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु त एव निरहं-ममत्वाश् च के ? येषु भगवतो दया-लक्षणं दृष्टं द्रष्टव्यं चेति तान् गमयति—वेदाहम् अङ्गेति । मयि भगवतो दयास्तीति जानामीति तद्-अभिज्ञ-भक्त-जन-सम्मतयैव वच्मि । स्वानुभवस् तु नान्तं विदामीति मया पूर्वम् एव प्रकाशितम् इति भावः । दैत्य-वर्यः प्रह्लादः । पत्नी शतरूपा । मनुः स्वायम्भुवः । तद्-आत्मजाः प्रियव्रतोत्तानपाद-देवहूत्य्-आदयः । प्राचीनबर्हिषो विसर्ग-लोपश् छान्दसः । शतधन्वा च अनुश् चेति आ-कार-लोप आर्षः । मान्धात्रादिभिः सहितः देवहूत्य्-आदयः व्रतो भीष्मः । रन्तिदेवा इति च पाठः । उपेन्द्रदत्तः शुकः ॥४३-४५॥
———————————————————————————————————————
॥ २.७.४६ ॥
ते वै विदन्त्य् अतितरन्ति च देव-मायां
स्त्री-शूद्र-हूण-शबरा अपि पाप-जीवाः ।
यद्य् अद्भुत-क्रम-परायण-शील-शिक्षास्
तिर्यग्-जना अपि किम् उ श्रुत-धारणा ये ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तत्-परायणास् तच्-छीलास् तच्-छिक्षाश् च ॥४६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं बहुना सत्-सङ्गेन सर्वेऽपि विदन्तीत्य् आह—ते वा इति । अद्भुताः क्रमाः पाद-न्यासा यस्य हरेः, तत्-परायणास् तद्-भक्ताः, तेषां शीले शिक्षा येषां ते तथा यदि भवन्ति, तर्हि तेऽपि विदन्तीत्य् अर्थः । श्रुत-धारणा56 ब्राह्मणास् ते देव-मायां विदन्तीति किम् उ वक्तव्यम् ? शुभेति पाठे शुभे भगवतो रूपे धारणा मनो-नियमनं येषां, ते विदन्तीति किम् उ वक्तव्यम् ॥४६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शीले शुचौ चरिते शुचौ तु चरिते शीलम् इत्यमरः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भः, १७१): तिर्यग्-जना अपि इत्य् अनेन भक्त्य्-अधिकारे कर्मादिवत् जात्य्-आदि-कृत-नियमातिक्रमात् ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : अद्भुत-क्रम आश्चर्य-चरितोऽत्र भगवान् ॥४६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न केवलम् एते महान्त एव, अपि तु दीन-हीना अपीत्य् आह—ते वा इति । अद्भुत उत्तमाधम-विवेचन-शून्यः क्रमः पाद-न्यासः यस्य तस्य भगवतः परायणा ये भक्तास् तेषां शील-शिक्षा शील-शिक्षिताः तच्-छिष्या भूत्वा शीलं शिक्षन्ते ये ते । तिर्यग्-जना हंस-गज-शुक-शारिकादयः । गुरु-मुखात् श्रुतं नाम-रूपादिकं शीघ्रं ये धारयन्ति मनुष्यास् ते पुनाह् किम् उत ? ॥४६॥
———————————————————————————————————————
॥ २.७.४७-४८ ॥
शश्वत् प्रशान्तम् अभयं प्रतिबोध-मात्रं
शुद्धं समं सद्-असतः परम् आत्म-तत्त्वम् ।
शब्दो न यत्र पुरु-कारकवान् क्रियार्थो
माया परैत्य् अभिमुखे च विलज्जमाना ॥
तद् वै पदं भगवतः परमस्य पुंसो
ब्रह्मेति यद् विदुर् अजस्र-सुखं विशोकम् ।
सध्र्यङ् नियम्य यतयो यम-कर्त-हेतिं
जह्युः स्वराड् इव निपान-खनित्रम् इन्द्रः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अव्यक्ताद्य्-अनहं-मानाद्य्-आत्म-तत्त्वं हरिः स्मृतः । अशब्दश् चाप्रसिद्धत्वाच् छान्तः पूर्ण-सुखत्वतः ॥ इति ब्रह्म-तर्के ॥४७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं तद्-भगवतः स्वरूपं यस्मिन् मनो-धारणां विधाय मायां तरन्ति ? इत्य् अपेक्षायाम् आह—शश्वद् इति द्वाभ्याम् । यद् ब्रह्मेति विदुर् मुनयः, तद् वै भगवतः पदं स्वरूपम् । किं तद् ब्रह्म ? तद् आह—अजस्रं नित्यं च तत् सुखं च विशोकं चेति । अजस्र-सुखत्वे हेतुः—शश्वत् सदा प्रशान्तम् । अतो नित्य-सुख-रूपम् । विशोकत्वे हेतुः—अभयम् । तत् कुतः ? यतः समं भेद-शून्यम् । अतोऽभयम्, द्वितीयाद् वै भयं भवति [बृ।आ।उ। १.४.२]इति श्रुतेः । तत् कुतः ? यतः प्रतिबोध-मात्रं ज्ञानैक-रसम् ।
ननु ज्ञानस्यापि नील-पीताद्य्-आकारत्वेण चक्षुर्-आदि-करण-भेदेन च भेदो दृश्यते ? न, शुद्धं निर्मलम् । ननु दर्शितो विषय-करणोपराग-रूपो57 मलः ? इत्य् अत आह58—सद्-असतः परं विषय-करण-सङ्ग-शून्यम् । वृत्तेर् एव59 तद्-उपरागो न ज्ञानस्येति भावः । ननु तथापि ज्ञात्रा सह भेदः स्यात् ? न, आत्म-तत्त्वम् आत्मनो ज्ञातुः स्वरूपम् एव, तन् न, ततो भिन्नम् ।
ननु तं त्व् औपनिषदं पुरुषं पृच्छामि [बृ।आ।उ। ३.९.२६] इति शब्द-बोधत्व-प्रतीतेः कुतो बोध-रूपत्वम् ? तत्राह—शब्दो न यत्रेति । आरोपित-निवृत्ताव् एव शब्दस्य व्यापारो न तद्-बोध इत्य् अर्थः ।
ननु च भवतु नाम निरस्त-भेद-ज्ञान-रूपत्वाद् विशोकत्वं, सुखस्य तु नाना-कारक-साध्य-क्रिया-फलत्वात् कथम् अजस्र-सुखत्वं तस्य ? इत्य् अत आह—यत्र बहु-कारक-साध्यः क्रियार्थ उत्पाद्याप्य् अविकार्य-संस्कार्य-रूपं चतुर्विधं60 क्रिया-फलं च नास्ति । इन्द्रियैर् ज्ञानांशाभिव्यक्तिर् इव क्रियाभिर् आनन्दांशाभिव्यक्ति-मात्रं क्रियते नोत्पत्त्य्-आदिकम् इति भावः । ननु उत्पत्त्य्-आद्य्-अभावेऽपि61 माया-मलापाकरणेन विकार्यत्वम् एव स्याद् व्रीहीणाम् इव तुषापाकरणेनेत्य् आशङ्क्याह—मायाऽभिमुखे स्थातुं विलज्जमानेव यस्मात् परैति दूरतोऽपसरति ॥४७॥
तस्माद् एवं-भूते भगवति नियमित-मनसां कृतार्थानां न किम् अपि कृत्यम् अस्तीत्य् आह । सहाञ्चतीति सध्र्यङ् सहचरं सनो यं प्रति नियम्य यस्मिन् स्थिरीकृत्य यतयो यत्न-शीलाः कर्तो भेदस् तन्-निरासोऽकर्तस् तत्र हेतिं साधनं जह्युस् त्यजेयुः । अनुपयोगात् तन् नाद्रियन्त इत्य् अर्थः । उपयोगाभावेन साधनानादरे दृष्टान्तः—निपीयतेऽस्मिन्न् इति निपानं कूपस् तस्य खनित्रं खनन-साधनं, यथा स्वराट् स्वयम् एव पर्जन्य-रूपेण विराजमान इन्द्रो नादत्ते तद्वद् इति । यद् वा, स्वेनैव राजत इति स्वराट् दरिद्रः, स यथा इन्द्रः समृद्धः सन्, कर्म-कार-दशायां गृहीतं निपान-खनित्रं जहाति, तद्वद् इत्य् अर्थः ॥४८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मायातारकं भगवद्रूपं पृच्छति किं तद् इति तत्समम् । ज्ञानकैत्व आक्षिपति नन्विति । पुनराक्षिपति नन्व् इति । विषयो घटादिः करणं चक्षुर्-आदि तयोर् उपरागः सम्बन्धस्तद्रूपो मलः स एव मलः इति भावः। ज्ञानवृत्तेरुपरागोस्तिं तरङ्गस्थानीया या न तु समुद्रस्थानीयस्य ज्ञानस्येति तात्पर्यम् । पुनराक्षिपति तथापि ज्ञानस्यापरागाभावेऽपि ज्ञाता यो जीवस्तेन प्रहरति नेति । पुनराक्षिपति नन्विति । औपनिषदमुपनिषत्प्रतिपाद्यम् । आरोपितो यस्तस्मिन्प्रपञ्चस्तन्निवृत्तौ तदपवादे इत्य् अर्थ इति अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इत्य्-उक्तैरिति भावः। पुनराक्षिपति नन्विति । नानाकारकसाध्या क्रिया यागादिरूपा तस्याः फलत्वात् तस्यात्मनः यद्भूत्वा भावि तदुत्पाद्यम् । यत्सिद्धम् एव प्राप्यते तदाप्यम् । यत्र पूर्वावस्थापरित्यागेनावस्थान्तरप्राप्तिस्तद्विकार्यम् । यत्र गुणाधानं मलापकर्षणं क्रियते तत्संस्कार्यम् । इति भाव इति । उत्पत्तिलक्षणस्याभूत्वाभवनरूपस्य तत्रासत्त्वादयमाशयः । पुनराक्षिपति—नन्विति । नन्वत्र ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इत्यधिकारिभेदादेक एव त्रिरूपतया भाति इति अत्र अपीयतां कर्णकषायशोषान् इत्य्-आदिना शास्ता भविष्यति कलेभगवान् इत्य् अनेन भगवानशेषविशेषतयोक्तः। तदुपासकांश् च येषां स एव भगवान्दययेदित्य्-आदिना किमु शुभधारणाये इत्यन्तेनोक्ताः सम्प्रति परमात्मा ब्रह्म चोच्यतामित्याकाक्षायामाह सदसत उत्तमाधमस्य ब्रह्मादिस्तम्बपर्यन्तस्य जीववृन्दस्य परमात्मतत्त्वं सममेकरसम् एव तथा शश्वत्सदा प्रकर्षेण शान्तं तस्य गुणवशाच्छान्तघोरमूदस्यापीत्य् अर्थः । शश्वत्प्रशब्दाभ्यां सत्त्वगुणकार्यः शमो व्यावृत्तः तथाभयं तस्य सभयस्यापि प्रतिबोधमात्रं तस्याज्ञानस्य ज्ञानवतोऽपि प्रतिमात्रशब्दाभ्यां सत्त्वगुणकार्यबोधो व्यावृत्तः शुद्धं तस्याशुद्धस्यापि एवं परमात्मानमुक्त्वा ब्रह्माह यत्र नानाकारकवानपि तथा क्रियया सहार्था वाच्यलक्ष्यव्यङ्ग्या यत्र तादृशोऽपि शब्दो न प्रभवति तद्ब्रह्म ननु ब्रह्मशब्देनैव तद् ब्रूषे अथ च शब्दो न यत्रेति निषिध्यसि च तत्राह—मायेति । यस्याभिमुखे माया परैति पृष्ठदेशमुपैति तस्य भगवतः पदमप्राकृतविचित्ररूपगुणादिविशेषवतोऽपि तस्य प्राथमिकसाक्षात्कारविषयो निर्विशेष स्वरूपं मदीयं महिमानं च परं ब्रह्मोति शब्दितम् इति श्रीमत्स्योक्तस्तदीयं व्यापकत्वलक्षणं बृहत्त्वम् एव निश्चितं ब्रह्म । अयं भावः । शब्दस्याकाशगुणत्वेन मायिकत्वान्मायापि तदभिमुखे स्थातुमशक्तामाथिकरूपगुणादिमन्तं भगवन्तम् अपि शब्दोभिधातुं यद्यपि न प्रभवति तदपि मेघश्यामः कनकपरिधिः पङ्कजाक्षोयमात्मा इत्यादयः शब्दाः मेघकनकादिप्राकृतवस्तुसादृश्यारोपेणैव लोकचित्तं यथा कथञ्चित्तत्र प्रवेशयन्ति । लोकश् च चित्तैकाध्येणापि वस्तुतोऽस्पृष्टरूपतद्रूपाभासोऽपि भगवन्तं प्रभुमहं ध्यायामीत्यभिमन्यमानो हृष्यति भगवानप्यपारकृपातरङ्गवशादेवानेनाहं ध्यात एवेत्यभिमन्यतेऽभिमत्य च तं भक्तं खचरणान्तिकं समानयतीति भगवत्स्वरूपस्य शब्दगम्यत्वं तत्कृपयैव सिद्धं ब्रह्मस्वरूपस्य तु प्राकृताप्राकृतविशेषराहित्यात्कथं शब्दगम्यत्वमस्त्विति शब्दो न यत्रेत्युक्तं प्रवृत्तिनिमित्तस्य वस्तुधर्मस्य जात्यादेरभावात् यत्र क्रियाकारकवान् शब्दो न प्रभवत्ति तद्ब्रह्मेति ब्रह्मशब्दस्य पृथक्संकेत एवायं कृतः अतः शब्दगम्यत्वाभावेऽपि शब्दगम्यस्य भगवतो निर्विशेषं स्वरूपं तद्ब्रह्मेति भगवत्सम्बन्धित्वेनैवोक्ते सति तत्र लोकचित्तप्रवेशो नान्यथेति भङ्ग्या ब्रह्मणोऽपि शब्दगम्यत्वमुक्तमित्थम् एव श्रुत्यध्यायादौ व्याख्यास्यते तथाजस्रम् एव सुखं यतो विगतः शोको यतस्तद् इति तस्य सुखरूपत्वे विशोकत्वे च कैमुत्यमानी तद् इति **विश्वनाथः **॥ इत्य् अर्थ इति । भेदनिरासायैव वेदान्ताभ्यासादिसाधनं क्रियते तत्सिद्धौ तत्त्यागो न्याय एव घटसिद्धौ दण्डादित्यागवद् इति भावः। इन्द्रेण तु पूर्वम् अपि साधनानि नात्तानि तत्र तु स्वत एव त्यागोऽतोऽनुपयुक्तोयमर्थ इति तत्राह—यद् वेति । स्वेनैव न तूपकरणादिनेत्यर्थः। इति इत्यर्थव्याख्या ॥४७-४८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ श्री-भगवत्-स्वरूपं विशिष्याकारेणोद्दिशति—शश्वद् इति सार्धेन । अयम् अर्थः—सर्वतो बृहत्तमत्वाद् ब्रह्मेति यद् विदुः, तत् खलु परमस्य पुंसो भगवतः पदम् एव । निर्विकल्पतया साक्षात्-कृतेः प्राथमिकत्वात् ब्रह्मणश् च भगवत एव निर्विकल्प-सत्ता-रूपत्वात् । विचित्र-रूपादि-विकल्प-विशेष-विशिष्टस्य भगवतस् तु साक्षात्-कृतेस् तद्-अनन्तरजत्वात् । तदीय-स्वरूप-भूतं तद् ब्रह्म तत् साक्षात्कारास्पदं भवतीत्य् अर्थः ।
निर्विकल्प-ब्रह्मणस् तस्य स्वरूप-लक्षणम् आह—प्रतिबोध-मात्रम् इति, अजस्र-सुखम् इति च । जडस्य दुःखस्य च प्रतियोगितया प्रतीयते यद् वस्तु, यच् च नित्यं, तद् एक-रूपं तद्-रूपम् इत्य् अर्थः । यद् आत्म-तत्त्वं सर्वेषाम् आत्मनां मूलम् । आत्मा हि स्व-प्रकाश-रूपतया निरुपाधि-परम-प्रेमास्पदतया च तत्-तद्-रूपेण प्रतीयत इत्य् अर्थः ।
अथ तस्य सुख-रूपस्य अजस्रत्वे हेतुम् आह—शाश्वत् प्रशान्तं नित्यम् एव क्षोभ-रहितम् । तद्वद् अभयं भय-शून्यं, विशोकं शोक-रहितं चेति । न च सुख-रूपत्वे तस्य पुण्य-जन्यत्वं स्याद् इत्य् आह शब्दो न यत्रेति । यत्र क्रियार्थो यज्ञाद्य्-अर्थः पुरु-कारकवान् शब्दो न प्रवर्तते इत्य् अर्थः । त्वं त्व् औपनिषदं पुरुषं [बृ।आ।उ। ३.९.२६] इत्य्-आदि-रीत्या केवलम् उपनिषद् एव प्रकाशिका भवतीत्य् अर्थः । पुनः सुख-स्वरूपत्वे चेन्द्रिय-जन्यत्वं व्यावर्तयति—शुद्धम् इत्य्-आदिना । तत्र शुद्धं दोष-रहितम् । समम् उच्चावचता-शून्यम् । सद्-असतः परं कारण-कार्य-वर्गाद् उपरि-स्थितम् । किं बहुनेत्य् आह—माया च यस्याभिमुखे यद्-उन्मुखतया स्थिते जीवन्-मुक्त-गणे विलज्जमानैव परैति पलायते ततो दूरं गच्छतीत्य् अर्थः । [भगवत्-सन्दर्भ ५62]
अत्र विशोकम् इत्य्-आदिना यथा वैलक्षण्यं दर्शितम् । तथैव ज्ञेयम् । जीव-स्वरूपस्य ह्य् अविद्या-स्पर्शात् क्षोभ-भय-शोका भवन्ति, सुख-चिद्-रूपत्वं चाच्छाद्यते । ततः शुद्धत्वं साम्यं च गच्छतीत्य् अर्थः । कर्म-काण्ड-विषयत्वं जायते । यत् पुनर् बृहत्त्वाद् बृंहणत्वाच् च ब्रह्मत्वं सर्वतः परत्वं परमार्थत्वं च । तत् तस्य स्वत एव नास्ति, तादृश-शक्त्य्-अभावान् मायाभिभावकत्वं नास्त्य् एव । प्रत्युत तद्-अभिभाव्यत्वम् एव स्याद् इति ॥४७॥
तद् एवं केवल-विशेष्याकारं दुर्गमत्वेनोद्धिश्य तद्-आदि-सर्व-सुगमताकर-कृपा-मात्रेण स्वरूप-शक्ति-विशिष्टाकारेण सुगमत्वेन तद् उद्दिशति—सध्र्यग् इत्य् एकेन । यत् प्रति यस्मिन् सध्य्रङ्-मनो नियम्य स्थिरीकृत्य यतयः पूर्वं सन्न्यास-मार्गे कृत-तादृश-ज्ञान-यत्ना अपि अकर्तहेतिम् अभेद-ज्ञान-रूपं मोक्ष-साधनं जहति । तत्-कृपा-प्राप्त-तादृश-ज्ञानाद्य्-अनन्त-गुणाश्रय-तद्-भक्ति-सम्पत्तेः । आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदेर् महा-पूर्णत्वाद् इति भावः । तद् एव दृष्टान्तेन दर्शयति—स्वराड् इति ॥४८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **63ननु ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते[भा।पु। १.२.११] इत्य् अधिकारि-विशेषेषु परमेश्वरस् त्रिरूपतया भातीति । तत्र आपीयतां कर्ण-कषाय-शोषान् [भा।पु। २.६.४५] इत्य्-आदिना, शास्ता भविष्यति कलेर् भगवान् युगान्ते [भा।पु। २.७.३८] इत्य् अनेन भगवान् अशेष-विशेषतया उक्तः । तद्-उपासकाश् च येषां स एष भगवान् दययेद् अनन्तः [भा।पु। २.७.४२] इत्य्-आदिना, किम् उ श्रुत-धारणा ये [भा।पु। २.७.४६] इत्य् अन्तेनोक्ताः । सम्प्रति परमात्म ब्रह्म चोच्यताम् इत्य् आकाङ्क्षायाम् आह—शश्वद् इति ।
सद्-असतः उत्तमाधमस्य ब्रह्मादि-स्तम्ब-पर्यन्तस्य जीव-वृन्दस्य । परमात्मा-तत्त्वं समम् एक-रसम् एव । तथा शश्वत् सदा प्रकर्षेण शान्तम्, तस्य गुण-वशात् शान्त-घोर-मूढस्यापीत्य् अर्थः । शश्वत्-प्र-शब्दाभ्यां सत्त्व-गुण-कार्यः शमो व्यावृत्तः । तथा अभयं तस्य स-भयस्यापि । प्रतिबोध-मात्रं तस्य ज्ञानवतोऽपि प्रति-मात्र-शब्दाभ्यां सत्त्व-गुण-कार्यो बोधो व्यावृत्तः । शुद्धं तस्याशुद्धस्यापि ।
एवं परमात्मनम् उक्त्वा ब्रह्माह—यत्र नाना-कारकवान् अपि, तथा क्रियया सह अर्था वाच्य-लक्ष्य-व्यङ्ग्या यत्र तादृशोऽपि शब्दो न प्रभवति तद् ब्रह्म । ननु ब्रह्म-शब्देनैवैतद् ब्रूषे, अथ च शब्दो न यत्रेति निषिध्यसि च ? तत्राह—मायेति । यस्याभिमुखे माया विलज्जमाना सती परैति पृष्ठ-देशम् उपैति । तस्य भगवतः पदम् अप्राकृत-विचित्र-रूप-गुणादि-विविध-विशेषवतोऽपि तस्य प्राथमिक-साक्षात्कार-विषयो निर्विशेषं स्वरूपं, मदीयं महिमानं च परं ब्रह्मेति शब्दितं [भा।पु। ८.२४.३८] इति भगवद्-उक्तेस् तदीयं व्यापकत्व-लक्षणं बृहत्त्वम् एव निश्चितं ब्रह्म ।
अयं भावः—शब्दस्याकाश-गुणत्वेन मायिक-रूपगुणादिमन्तं भगवन्तम् अपि शब्दोऽभिधातुं यद्यपि न प्रभवति, तद् अपि मेघ-श्यामः कनक-परिधिः [भा।पु। ८.७.१८], पङ्कजाक्षोऽयम् आत्मा इत्य् आदयः शब्दाः मेघ-कनकादि-प्राकृत-वस्तु-सादृश्यारोपेणैव लोक-चित्तं यथा-कथञ्चित् तत्र प्रवेशयन्ति । लोकश् च चित्तैकाग्र्येणापि वस्तुतोऽपृष्ट-तद्-रूपाभासोऽपि भगवन्तं प्रभुम् अहं ध्यायामीत्य् अभिमन्यमाना हृष्यति भगवान् अप्य् अपार-कृपा-तरङ्ग-वशाद् एवानेन भक्तेनाहं ध्यात एवेत्य् अभिमन्यते । अभिमत्य च तं भक्तं स्व-चरणान्तिकं सेवार्थम् आनयतीति भगवत्-स्वरूपस्य शब्द-गम्यत्वं तत्-कृपयैव सिद्धम्, ब्रह्म-स्वरूपस्य तु प्राकृताप्राकृत-विशेष-राहित्यात् कथं शब्द-गम्यत्वम् अस्तु ? इति शब्दो न यत्रेत्य् उक्तम् । प्रवृत्ति-निमित्तस्य वस्तु-धर्मस्य जात्यादेर् अभावात् यत्र क्रिया-कारकवान् शब्दो न प्रभवति, तद् ब्रह्मेति ब्रह्म-शब्दस्य पृथक् सङ्केत एवायं कृतः । अतः शब्द-गम्यत्वाभावेऽपि शब्द-गम्यस्य भगवतो निर्विशेषं स्वरूपं तद् ब्रह्मेति भगवत्-सम्बन्धित्वेनैवोक्ते सति तत्र लोक-चित्त-प्रवेशो नान्यथेति भङ्ग्या ब्रह्मणोऽपि शब्द-गम्यत्वम् उक्तम् । इत्थम् एव श्रुत्य्-अध्यायादौ व्याख्यास्यते इति । तथा अजस्रम् एव सुखं यस्मात् । विगतो भवति शोको यस्मात् तद् इति तस्य सुख-रूपत्वे विशोकत्वे च कैमुत्यम् आनीतम् ॥४७॥
परमात्मानो ब्रह्मणश् च उपासकान् सामान्याकारेणाह । सह अञ्चतीति सध्र्यक् सहचरं मनः । यं परमात्मनं, यत् ब्रह्म च प्रतिनियम्य यस्मिन् स्थिरीकृत्य । यम् इति पुंस्त्वम् आर्षम् । यतयो यत्न-शीला योगिनः सन्न्यासिनश् च । कर्तो भेदस् तद्-अभावोऽकर्तः, तत्र हेतिं साधनम् । जह्युस् त्यजेयुः । अनुपयोगान् नाद्रियन्त इत्य् अर्थः । उपयोगाभावेन साधनानादरे दृष्टान्तः—निपीयतेऽस्मिन्न् इति निपानं कूपस् तस्य खनित्रं खनन-साधनम् । यथा स्वराट् स्वयम् एव पर्जन्य-रूपेण विराजमान इन्द्रो नादत्ते तद्वत् । यद् वा, स्वेनैव राजत इति स्वराट् । दरिद्रो यथा इन्द्रः समृद्धः सन् कर्म-कार-दशायां गृहीतं निपान-खनित्रं जहाति तद्वद् इत्य् अर्थः । भगवद्-भक्तास् तु साध्य-प्राप्तौ साधने द्विगुणितादरो भवन्तीति तेऽत्र व्याख्यायां न प्रवेशनीयाः ॥४८॥
———————————————————————————————————————
॥ २.७.४९ ॥
स श्रेयसाम् अपि विभुर् भगवान् यतोऽस्य
भाव-स्वभाव-विहितस्य सतः प्रसिद्धिः ।
देहे स्व-धातु-विगमेऽनु विशीर्यमाणे
व्योम् एव तत्र पुरुषो न विशीर्यतेऽजः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भाव-स्वभावो भक्ति-स्वभावः । तेन निर्मितस्य सत्-पुरुषस्य प्रसिद्धः । भावो भक्तिः प्रणामश् च प्रावण्यम् अपि चादर इत्य् अभिधानात् ॥४९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं तावद् अजस्र-सुखं विशोकं ब्रह्मैव भगवतः स्वरूपं तत्-प्राप्तानां च न प्राप्यं कृत्यं वा किंचिद् अस्तीत्य् उक्तम् । इदानीं ततः प्राक् स एव सर्व-फल-दाता सर्व-कर्म-प्रवर्तकश् चेत्य् आह । स एव श्रेयसां फलानां विभुर् दातापि । तत्र हेतुः—भावानां ब्राह्मणादीनां स्वभावैः शम-दमादिभिर् विशेषणैर् विहितस्यास्य सतः शुभस्य कर्मणो यतः प्रवर्तकात् प्रसिद्धिः । यद् वा, भावानां महद्-आदीनां स्वभावेन परिणामेन विहितस्य सतः कार्यस्य प्रसिद्धिः । स एव स्वर्गादीनां दातेत्य् अर्थः ।
ननु कर्म-कर्तुर् मृतस्य कथं स्वर्गादि-फलं स्यात् ? तत्राह—स्वारम्भक-धातूनां64 भूतानां विगमे वियोगे सति अन्व् अनु विशीर्यमाणेऽपि देहे तत्र-स्थं व्योम् एव यस् तेन सह न विशीर्यते । यतोऽजस् तेन सह न जातः तस्य पुरुषस्य श्रेयसां प्रभुर् इत्य् अर्थः ॥४९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः प्राग्भगवत्प्राप्तेः पूर्वम् । तत्र कर्मफलदातृत्वे । ब्राह्मणादिस्वभावास्तु—शमो दमस्तपः शौचं तितिक्षा क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं चेति ब्रह्मस्वभावाः। शौर्यं तेजो बलं धैर्यं दाक्ष्यं दानमीश्वरभावो युद्धेऽपलायनम् इति क्षत्रस्वभावाः । कृषिगोरक्ष्यवाणिज्यम् इति वैश्यस्वभावाः । त्रिवर्णसेवा शूद्रस्वभावः॥ आचार्यसेवनं वेदाध्ययनं च ब्रह्मचारिस्वभावः। अतिथिसेवनादिर्गृहस्थस्य । तपो वनौकसः । विचारो यतेरिति विवेकेनाग्रे वर्ण्यन्ते भावशब्दस्य वर्णाश्रमवाचकत्वाप्रसिद्धिमालोच्याह यद् वेति । महदादिवाचकत्वं भावशब्दस्य यथेमे विकृता भावाः इति वक्ष्यत्येव । इत्य् अर्थ इति । कर्मफलदानार्थम् एव स्वर्गादि निर्मितवान्प्रयोजनान्तराभावाद् इति भावः। अत्राक्षिपति नन्विति । तत्रस्थं देहस्थम् । इत्य् अर्थ इति । न जायते म्रियते वा कदाचित् इत्य्-आदिस्मृतेः कर्मफलभोक्तुर्नाशो नास्तीति भावः ॥४९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स एव हि भगवान् श्रेयसां पञ्च-विध-मुक्तीनाम् अन्येषां च पुरुषार्थानां विभुः प्रदाता । यतो भगवतः सकाशाद् अस्य भक्त-जीवस्य भक्ति-स्वभाव-योग्यो योऽर्थस् तस्य सतस् तत्-स्वरूप-वैभवे विद्यमानस्यैव प्रसिद्धिस् तं प्रति प्राकट्यं भवतीत्य् अर्थः । ननु तस्य जीवस्य माया-वैभवोपाधिस् तदा किं नश्येत् ? नाशेऽपि वा जीवत्वं किं तिष्ठेत् ? तत्राह—देह इत्य् अर्धकेन । देहः स्थूल-सूक्ष्मात्मकः । ध्रियन्त इति धातवस् तत्त्वानि । तस्मिन् देह-द्वये स्वेषां कारण-रूप-तत्त्वानां विगमो नाशो यस्य तथाभूते सत्य् अपि पुरुषो जीवो न विशीर्यते—न नश्यति । अनाशे हेतुः—अज इति । अथवा, शश्वत् प्रशान्तं [भा।पु। २.७.४७] इत्य् आदिकं वैकुण्ठ-वैभवस्यैव प्रतिपादकम्। भगवतः परं पदम् इत्य् अत्रैव मुख्यार्थत्वाद् भगवत्-सन्दर्भे तस्य तादृशत्वेन दर्शितत्वाच् च—तस्मै स्व-लोकं [भा।पु। २.९.९] इत्य्-आदौ दर्शयिष्यमाणत्वाच् च ॥४९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, परमात्मोपासकानां ब्रह्मोपासकानाम् अन्येषां च भगवन्तं विना न फल-सिद्धिर् इत्य् आह—स भगवान् एव श्रेयसां मोक्ष-स्वर्गादीनां विभुर् दाता च, अतो योगि-ज्ञानि-कर्मिभिः प्रतिस्व-फल-सिद्ध्य्-अर्थं भगवद्-भक्तिः कर्तव्या ।
किं च, तस्य भक्त-जीवस्य भावा दास्य-सख्यादयः, तत्-स्वभावेन विहितस्य सतः उत्तम-साधनस्य समुचित-श्रवण-कीर्तनादेः, यतो भगवत एव सकाशात्, न तु परमात्मतः, नापि ब्रह्मतः, प्रकृष्टा सिद्धिर् इति । भगवद्-भक्तैस् तु स्व-प्रेम-फल-सिद्ध्य्-अर्थं योग-ज्ञानादिकं न कर्तव्यम् इति भावः ।
ननु भक्ति-योग-ज्ञानादिकं साधनं प्रति स्व-साध्य-वसूत्पादने यावद्-असमर्थं, तन्-मध्य एव देह-भङ्गे सति कीदृशं स्यात् ? तत्राह—स्व-धातु-विगमे स्वारम्भक-धातूनां भूतानां विगमे वियोगे सति । अनु अनन्तरम् । विशीर्यमाणेऽपि देहे । पुरुषो जीवः । व्योम् एव देह-स्थाकाशम् इव न विशीर्यते । यतोऽजस् तेन देहेन सह वस्तुतो न जात इत्य् अर्थः। तेन च भक्ति-ज्ञानादि-वासनायाः समुचित-स्थाने पुनर् अपि समुचितं देहं धृत्वा कृतैः साधनैः सिध्यति । यद् उक्तं—यतते च ततो भूयः संसिद्धौ कुरुनन्दन [गीता ६.३८] इत्य् आदेः ॥४९॥
———————————————————————————————————————
॥ २.७.५० ॥
सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः ।
समासेन हरेर् नान्यद् अन्यस्मात् सद् असच् च यत् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
सत्त्वादिर् यत् स्वतो विष्णोस् तस्माद् अन्यः स सर्वतः ।
यत् सत्तादिर् अतोऽन्यस्य नान्यत्वं भेदिनोऽपि तु ॥ इति ब्रह्माण्डे ॥५०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अध्याय-त्रयस्यार्थम् उपसंहरति—सोऽयं तेसमासेन संक्षेपेण अभिहितः । तम् एवाह—सदसत् कार्यं कारणं च हरेरन्यन् न भवति । ननु हरेस् तद्-अव्यतिरेके तद्-गत-विकार-प्रसङ्गः स्यात् ? न, अन्यस्मात् कारण-भूतो हरिः कार्याद् व्यतिरिक्त इत्य् अर्थः ॥५०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हरावाक्षिपति नन्विति । इत्य् अर्थ इति । कार्यं तु कारणादनन्यद्भवति तद्विना तदसिद्धेः कारणं तु कार्यादन्यदेव तद्विनापि तस्य सिद्वेरिति भावः । संबुद्धिरुक्ताभिप्रायैव बहुशः ॥५०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सोऽयम् इति । सोऽयं तेसमासेन संक्षेपेण अभिहितः । कथम् ? तटस्थ-लक्षणेनैवेत्य् आह—सत् कार्यं स्थूलम् अशुद्ध-जीव-जगद्-आख्यं चेतनाचेतनं वस्तु । असत् कारणं सूक्ष्मं शुद्ध-जीव-प्रधानाख्यं चिद्-अचिद्-वस्तु च यत्, तत् सर्वंहरेर् अन्यन् न भवति—सूक्ष्मस्य तच्-छक्ति-रूपत्वात्, स्थूलस्य तत्-कार्य-रूपत्वाद् इति भावः ।65 जगतस् तद्-अनन्यत्वेऽपि शुद्धस्य तस्य तद्-दोष-साङ्कर्यं नास्तीत्य् आह—अन्यस्माद् इति ॥५०॥ (परमात्म-सन्दर्भः ६१)
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अध्याय-त्रयस्यार्थम् उपसंहरति—सोऽयम् इति । संक्षेपेण भगवान् एवोक्तः । केन प्रकारेण ? इत्य् अत आह—**सत् **कार्यं समष्टि-व्यष्ट्य्-आत्मकं जगत् । असत् कारणं जीवो माया च । तत् सर्वं हरेर् अन्यन् न भवति । जीव-माययोः शक्तित्वाच् छक्ति-शक्तिमतोर् अभेदात्, शक्ति-कार्यस्य शक्त्य्-अनन्यत्वाद् इति भावः । हरेः कथं-भूतात् ? सद्-असद्भ्याम् अन्यस्मात् । तयोः शक्त्योस् तटस्थत्व-बहिरङ्गत्वाभ्याम् अनासक्तेस् तद्-दोष-सम्बन्धाभाव इति भावः । भागवते इदम् एवाद्वैतम् इति सर्वत्राग्रेऽपि द्रष्टव्यम् ॥५०॥
———————————————————————————————————————
॥ २.७.५१ ॥
इदं भागवतं नाम यन् मे भगवतोदितम् ।
सङ्ग्रहोऽयं विभूतीनां त्वम् एतद् विपुली-कुरु ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अयं च विभूतीनां संग्रह उदितः ॥५१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विभोरूतयो लीलास्तासां संग्रहः को वेत्ति भूमन्भगवन्परात्मन्योगेश्वरोतीर्भवतस्त्रिलोक्याम् इत्यत्रोतिशब्दो लीलावाचको दृश्यते कोशेऽपि लीलावासनयोरुतिस्तन्तुवापनकर्मणि इति । संक्षेपस्तु द्रव्यं कर्म च कालश् च इत्यारभ्य आद्योवतारः पुरुषः परस्येति, सर्गे तपोहमृषय इति, यत्रोद्यतः क्षितितलोद्धरणाय इत्य्-आदिरूपो बोध्यः । विपुलीकुरु व्यासायोपदिष्ट्वा विस्तारयेत्यर्थः ॥५१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इदं चतुः-श्लोकी-रूपम् इत्य् अर्थः । अनेन तद् अप्य् उपदिष्टम् इति गम्यते॥५१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् इदम् अश्रुत-चरम् अद्भुतं मतं ब्रूषे ? सत्यम् इदं न केवलम् अहं ब्रुवे, किन्तु मह्यं भगवता उदितं भागवतं नाम पुराणम् । न केवलम् इदं शास्त्रत्वेनैव मन्तव्यम्, किन्तु विभूतीनां सङ्ग्रहः । श्री-भगवद्-गीतादिषु विभूति-शब्देनांश-कलावताराणाम् अप्य् उक्तेः । साक्षाद्-भगवान् एवायं शास्त्र-स्वरूपेण विराजतीत्य् अर्थः । अतस् त्वम् एतद् विपुलीकुरु सर्वत्र विस्तारय । तद् एवास्य सेवेति भावः ॥५१॥
———————————————————————————————————————
॥ २.७.५२ ॥
यथा हरौ भगवति नृणां भक्तिर् भविष्यति ।
सर्वात्मन्य् अखिलाधारे इति सङ्कल्प्य वर्णय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा वर्णितेन नृणां भक्तिर् भविष्यति इत्य् एवं संकल्प्य संचिन्त्य तथा हरि-लीला-प्राधान्येन श्रीमद्-भागवतं वर्णय । न तु भक्ति-रस-विघातेन केवलं तत्त्वम् इत्य् अर्थः ॥५२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति यत्केवलतत्त्वज्ञानफलं मोक्षस्तदपि भक्त्यैव भविष्यतीति भावः ।
यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश् च यत् ।
तत्सर्वं मत्प्रसादेन मद्भक्तो लभतेऽजसा ॥
इति भगवदुक्तेर्भक्तिं प्रधानीकृत्यैवान्यद्वक्तव्यं नान्यथेति तात्पर्यम् ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भः, ११५) : भविष्यति अवश्यं भवेद् इति इमं प्रकारं, सङ्कल्प्य नियमेनाङ्गीकृत्य ॥५२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-भक्त्य्-अर्थं च स्वरूप-शक्ति-मय-लीला-वर्णनं श्रेष्ठं—अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९] इत्य् आदेः ॥५२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किन्त्व् अत्रान्तरे गुरोर् ममाग्रे त्वम् एकं नियमं गृहाणेत्य् आह—यथेति । नृणां कलि-काले जनिष्यमाणानाम् इत्य् अर्थः । भवेद् इत्य् अनुक्त्वा भविष्यतीति निर्देशात्, कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः [भा।पु। १.३.४४] इत्य् उक्तेश् च । हरौ प्रेम्णा मनो हरति, संसारं च हरतीति प्रयोजन-द्वयम् उक्तम् । भगवति इति सुखाराध्यत्वम् । सर्वात्मनि सर्व-स्वरूपे इति तद् भक्त्यैव सर्वार्चन-सिद्धिः । अखिलाधार इति तद् भक्त्यैव सकामानाम् अपि सर्व-काम-प्राप्तिः । सङ्कल्प्य इति—“प्रथमम् अद्यारभ्य भगवद्-भक्तिम् एव वर्णयिष्ये” इति सङ्कल्प-वाक्यम् उच्चार्यताम् इत्य् अर्थः ॥५२॥
———————————————————————————————————————
॥ २.७.५३ ॥
मायां66** वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः**
नृ-जन्मनि न तुष्येत कृतेन भगवान् यदि ।
धर्मार्थ-कामैः किं तर्हि कार्यं सिध्यति नश्वरैः ॥५३॥
कृष्णे न चोत्तम-श्लोके चेद् भक्तिर् अनपायिनी ।
किं स्याद् वर्णाश्रमाचार-दान-होमादिभिः कृतैः ॥५४॥ इति ।
एतद्-उपरि वीरराघव-टीका । ननु त्रिवर्गो यथा भवेत् तथा वर्णयति किं नोच्यत इत्य् आशङ्क्याह—नृ-जन्मनीति । मनुष्य-जन्मनि कृतेन साधनकलापेन भगवान् न तुष्येत तर्हि नश्वरैर् धर्मादिभिः किं कार्यं किं प्रयोजनं सिध्यति न किम् अपीत्य् अर्थः ॥५३॥ धर्मस्य ह्य् आपवर्ग्यस्येति पूर्वोक्त-रीत्या परम्परया भगवद्-भक्ताव् उपयुज्यमानानाम् एव साफल्यं तद्-उपयोग-रहितानां तु वैफल्यम् एवेति अन्वय-व्यतिरेकेणाह—कृष्ण इति । उत्तम-श्लोके अविद्यानिवर्तक-यशसि श्री-कृष्णे चेद् यदि च कृतैः स्वनुष्ठितैर् वर्णाश्रमाचारादिभिर् अनपायिनी । अव्यभिचारिणी भक्तिर् न स्यात् तर्हि तैः किम् अन्यत् फलं स्यात्, न किम् अपि । अन्य-फलस्य नश्वरत्वात् तज् जातम् अप्य् अजात-प्रायम् इति भावः ॥५४॥ इति ।
शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु लीला मायाश्रया किं तद्-वर्णनेनेत्य् अत आह—मायाम् इति ॥५३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति नन्विति । अमुष्य ईश्वरस्येत्यसन्धिरस्य वेदरूपतां द्योतयति छन्दसि सर्वे विधयो विकल्पते इत्य्-उक्तेः । चेतःसन्निहितत्वादमुष्येत्युक्तम् । मायया बन्धकशक्त्या न मुह्यति बद्धो न भवतीत्य् अर्थः । स्ववर्णयितारं मायापि नापकुरुते स्वपालयितारमिव सिंहसर्पादिरिति भावः ॥५३॥
इति श्रीमद्-भागवतभावार्थदीपिकाप्रकाशे द्वितीय-स्कन्धे सप्तमोऽध्यायः ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तदीय-रुचि-भाग्याभावे चित्त-शोधनार्थं माया-मय-तद्-वैभवं विराड्-रूपम् अपि वर्णयेत्य् आह—मायाम् इति । शुद्ध-भक्ति-रुच्य्-अभावे कर्मार्पणवद् इति॥५३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु भक्तिश् च श्रवण-कीर्तनादि-लक्षणा, सा च भगवन्-नाम-लीलादि-विषयिणी लीला च लीलावताराणां कृष्ण-रामादीनां गोवर्धनोद्धरणाद्या चिद्-आनन्द-मय्य् एव, माया-शक्ति-प्रधानस्य पुरुषावतारस्य पुरुष-वीक्षितायाः प्रकृतेर् महान्, महतोऽहङ्कारः, इत्य् एवं सृष्ट्य्-आदि-लीला माया-सम्बन्धिनी इति माया-वर्णनीया न वा ? इत्य् आकाङ्क्षायाम् आह—मायाम् इति । तत्र वर्णयत इति, अनुमोदयत इति, शृण्वत इति । कीर्तन-स्मरण-श्रवण-भक्त्य्-उपकरणत्वेन माया-वर्णनम् अपि भक्तिर् एव । अतः श्रद्धयेति सापि भगवतो माया-शक्तिः परम-भक्त्यैव तत्-सन्ततयो महत्-तत्त्वादयोऽपि भक्ता एव, इति तृतीये तेषां स्तुतौ व्यक्तीभविष्यतीति । शुद्ध-भक्तैर् अपि तथा बुद्ध्या माया महत्-तत्त्वादयश् च श्रोतव्या एवेति तत्-फलम् आह । मायया आत्मा जीवो न मुह्यति । इति माया-सम्बन्धिन्य् अपि लीला नैव मायिकी, किन्तु मन्-निकेतस् तु निर्गुणम् इत्य् आदि भगवद्-उक्तेः ॥५३॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽध्यायो द्वितीयेऽस्मिन् सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे
ब्रह्म-नारद-संवादो नाम
सप्तमोऽध्यायः
॥२.७॥
———————————————————————————————————————
(२.८)
-
उद्यत इति । समुद्रे निमज्ज्य रसातल-गता महीम् उद्धृत्य दंष्ट्राग्रे निधाय ऊर्ध्व गत इत्य् अर्थः । ↩︎
-
अत्रेर् इति चतुर्थ्य्-अर्थे षष्ठी । अपगतिं त्याजयतीत्य् अपत्यं दुर्गति-निवारकं । ↩︎
-
योग-र्द्धिं ध्यान-सिद्धिं योग-सम्पत्तिं वा । ↩︎
-
उभयीं-शब्द-स्थाने मध्वस्यात्र पाथो भिद्यते । ↩︎
-
मयाहम् एव दत्त इत्य् अत्र एकस्य कर्म-कर्तृ-भावो न भगवद्-व्यतिरिक्तस्य भवति । धर्म-शास्त्रे—धर्म-दासो ज्येष्ठ-पुत्रो भार्या स्वात्मा तथैव च । सर्वस्वं गुरु-वर्यश् च नैव देयम् इति स्थितिः ॥ इति अदेयत्वेन प्रतिपादनात् । अत आह—भगवान् इति । ↩︎
-
भुक्तिर् अणिमाद्य्-ऐश्वर्य-भोगः । ↩︎
-
‘ मे आदौऽ अत्र संहिताया अविवक्षितत्वं बोध्यम् । ↩︎
-
“मे आदौ” अत्र संहिताया अविवक्षितत्वं बोध्यम् । ↩︎
-
अत्र सनाद् इत्य् अव्ययम् । दीर्घ आर्षः । सनन्-नामक इत्य् अर्थः । यद् वा, सनात् सनातनतमः इति सहस्र-नाम-स्तोत्रात् सनान्-नामा इत्य् अर्थः । ↩︎
-
अस्मिन् पक्षे तपस इति षाष्ठ्य्-अन्तम् । ↩︎
-
आत्मन इति द्वितीयान्तं दर्शन-क्रिया-कर्मेति ज्ञेयम् । ↩︎
-
दहन्तम् अपीति मूल-स्थः उत-शब्द अप्य् अर्थः । ↩︎
-
कम् अपीति । यो ध्रुवाय प्रसन्नः सन् ध्रुव-पदम् अदात् तम् अवतारम् इत्य् अर्थः । ↩︎
-
अर्थित इति अवतरितुं प्रार्थितस् तदा वेन-देहाद् अवतीर्णः सन्न् इत्य् अर्थः । ↩︎
-
अन्वर्थम् अनुगतावयवार्थं यौगिकार्थम् इति यावत् । त्रात्वेति क्त्वा-प्रत्ययस् तु त्राणावश्यकता-विवक्षया भाविनि भूतवन् निर्देशात् । ↩︎
-
पुन्-नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः ॥ [म।भा १.३४.३७], तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वय्म्भुवा । [रा। २.१०७.१२] ↩︎
-
मेरु-देव्या इति । प्रथम-स्कन्धे—अष्टमे मेरु-देव्यां तु नाभेर् जात उरुक्रमः [भा।पु। १.३.१३] इति कथितायाः। ↩︎
-
यां जड-योग-चर्याम् इत्य् अर्थः । अथवा, यां समाधि-चर्यां पारमहंस्यं पदं परमहंस-प्राप्यम् आमनन्तीत्य् अर्थः । ↩︎
-
मखमय इत्य् अत्र “अमृतमय” इति पाठः। ↩︎
-
भाविना सत्यव्रतेनेत्य् अर्थः । ↩︎
-
आश्रितानां मध्ये पृथिवी प्रधानं यत्र स इत्य् अर्थः, वृक्ष-मयो ग्राम इतिवत् । ↩︎
-
शिखा इत्य् अत्र आर्षाः सप्तम्या लुक् । ↩︎
-
“अवाप रुद्धम्” इति चक्रवर्तिना स्वीकृत-पाठः । “अवाप दुःखम् आयुश् च” इति गो-संस्करणे धृत-पाठान्तरोऽनात्यादरणीयः । ↩︎
-
उग्र-वीर्यम् इति पाठः। ↩︎
-
ककुब्-जय-रूढ-हासम् इति स्वामिभिर् धृत-पाठान्तरम्। ↩︎
-
निपीडिताया इति ङ-ग्रन्थस्य पाठान्तरं। ↩︎
-
अस्माभिः (क, ख) ↩︎
-
“विष्णु॥॥अस्ति” इति वाक्यं सर्वत्र न दृश्यते। ↩︎
-
“हरिवंशे हि कस्यांचिद् गिरि-गुहायां भगवान् स्व-मूर्तिं निक्षिप्य गरुडं च तत्रावस्थाप्य स्वयम् अत्रागत इत्य् उक्तम् । तद् उक्तम् स देवान् अभ्यनुज्ञाय [ह।वं। १.५५.५०] इत्य्-आदि । इति वाक्यं अत्र स्थाने कृष्ण-सन्दर्भे दृश्यते, न तु क्रम-सन्दर्भस्य कस्यांश्चिल् लिप्याम् । ↩︎
-
थे सेच्तिओन् बेगिन्निन्ग् “अतो यत् प्रभास-खण्डे” अन्द् एन्दिन्ग् हेरे इस् नोत् फ़ोउन्द् इन् अल्ल् क्रम-सन्दर्भ मनुस्च्रिप्त्स्। इत् इस् फ़ोउन्द् इन् थे कृष्ण-सन्दर्भ, सेच्तिओन् २९। ↩︎
-
“एवम् एव सत्त्वं रजस् तम [भा।पु। १.२.२३] इत्य् आदि-प्रथम-स्कन्ध-पद्य-प्राप्तम् अनिरुद्धाख्य-पुरुषावतारत्वं भवानी-नाथैर् [भा।पु। ५.१७.१६] इत्य्-आदि-पञ्चम-स्कन्ध-गद्य-प्राप्तं सङ्कर्षणावतारत्वं च भवस्य संगच्छते ।” इत्य् अत्राधिकः पाठः कृष्ण-सन्दर्भे दृश्यते। ↩︎
-
स्वयम् आविविशतुः (ग) ↩︎
-
-एनाविविशतुः (ग) ↩︎
-
यज् जीवयिष्यति यच् चोच्चाटयिष्यति तद् इतरथानीश्वरत्वे न भाव्यम् इति पूर्व-श्लोकेनान्वयः। ↩︎
-
पीथान् बोथ् इन् तेxत् अन्द् चोम्मेन्तर्य् इन् सोमे एदितिओन्स्। ↩︎
-
इवेति पाद-पूरणार्थकम् अव्ययन् । ↩︎
-
मुञ्जेति दशम-स्कन्धीयोनविंशाध्यायोक्तायाम् (१०.१९.५फ़्फ़्) इषीकाटव्याम् इति यावत् । ↩︎
-
“लोके विकुण्ठम् उपनेष्यति” इति पाण्डेय-स्वीकृत-पाठः । ↩︎
-
छत्राकारं छवाकं शूरणम् इति केचिद् वदन्ति । तत् तु अभक्ष्यम् । तथा च Xइः—छवाकं ग्राम्य-कुक्कुट अभक्ष्याणि द्विजातीनाम् इति ॥ ↩︎
-
रासो नाम बहु-नर्तकी-युक्तो नृत्य-विशेषाः इति १०.३३.२-पद्ये व्याख्यायाम् ↩︎
-
अलम् इति भगवद्-गुणानां साकल्येन वर्णनासम्भवाद् इति भावः। ↩︎
-
मरणानन्तरम् इत्य् अर्थः। ↩︎
-
एवं हि वेदान्त-कल्प-तरूद्धृत पराशरोपपुराण-वचनाज् ज्ञायते । तथा च—द्वापरे द्वापरे विष्णुर् व्यास-रूपो महामुनिः । कृत्वा वेदं सुबहुधा कुरुते जगतो हितम् ॥ सुत-संहिता-भाष्य-प्रारम्भे चाप्य् एवम् अस्ति—न ह्य् अन्यः पुण्डरीकाक्षान् महाभारत-कृद् भवेत् । अयम् एव हि अष्टादश-पुराण-कर्ता । तथा च तत्रैव—अष्टादश-पुराणानां कर्ता सत्यवती-सुतः । योग-दर्शन-भाष्य-कृच् चायम् । तथा च सर्व-तन्त्रापरतन्त्र-श्रिमद्-वाचस्पति-मिश्रः—नत्वा पतञ्जलिम् ऋषिं वेदव्यासेन भाषिते इति ॥ ↩︎
-
त्रिपूरासुरेणायो-रजत-ताम्रि-निर्मिताभिः। ↩︎
-
वृषं लान्तीति वृषला म्लेच्छाः। ↩︎
-
ते च—वेद-मार्ग-विरोधेन येषां करणम् अण्व् अपि । ते हि पाखण्डिनो ज्ञेया वेदार्थस्य विनिन्दकाः ॥ इति ↩︎
-
असुराद्या इति आद्य-पदेन भूत-प्रेत-पिशाचादयः क्रूर-स्वभावाश् च। ↩︎
-
स्व-रंहसेत्य् अत्र छन्दो-भङ्ग आर्षः । “स्व-रहसा” इति पाठोऽयुक्त एव । रहः-शब्दस्य वेग-वाचित्वे प्रमाणाभावात् । ↩︎
-
त्रि-साम्य-रूपम् इति त्रि-गुण-साम्य-लक्षणम् अधिष्ठान-स्वरूपं प्रकृतिर् इत्य् अर्थः। ↩︎
-
विष्णु-सूक्तस्य प्रथम-ऋक् चक्रवर्ति-टीकायाम् पूर्णतयोद्धृता। ↩︎
-
माया-बलं माया-महत्त्वम् इत्य् अर्थः। ↩︎
-
उत्तङ्क इति वक्तव्ये उतङ्क इत्य् आर्षं छन्दोनुरोधेन। ↩︎
-
सारस्वतो दधीचिः । ↩︎
-
आकूतिर् देवकूतिः प्रसूतिर् इति तिस्रः। ↩︎
-
“रन्तिदेव-देवव्रता” इत्य् एवं-रूपे इत्य् अर्थः। ↩︎
-
“शुभ-धारणा” इति पाठे छन्दो-भङ्ग आर्षः। ↩︎
-
विषय-करणोपरागेति । विषयो रूपादिर् ग्राह्यः । करणं साधनं चक्षुर्-आदि । उपरागो ग्राह्यत्वेन स्वीकारः । तद् उक्तम्—दृश्यानुरञ्जितं द्रष्टृ दृश्यं द्रष्ट्र् अनुरञ्जितं । अहं-वृत्त्योभयं रक्तं तन्-नाशोऽद्वैत आत्मनः ॥ इति । ↩︎
-
फ़्रोम् ननु तो आह रेप्लचेद् ब्य् तत् कुतः ? इन् चेर्तैन् एदितिओन्स्। ↩︎
-
वृत्तेर् एव तद्-उपराग इति । वृत्तेश् चक्षुर्-आदि-वृत्तेर् दर्शन-श्रवणादेर् व्यावहारिक-ज्ञानस्य उपराग आरक्तत्वम् ↩︎
-
चातुर्-विधम् इति । नात्र घटं करोति कुलाल इत्य् अत्र उत्पाद्यं क्रिया-फलं । चक्षुषा रूपं पश्यतीत्य् अत्र आप्यं । सोमं सुनेति सोमपा इत्य् अत्र विकार्यं । संस्कारश् च त्रिविधः, तत्र प्राक्तन-पुण्यातिशय-जन्यः सुख-विशेष आद्यः । द्वितीयो मलापाकरण-रूपः । तृतीयो गुणाधान-रूपः । राज्यं प्राप्नोति धर्मिष्ठ इत्य् आद्यं संस्कार्यं । रजको वस्त्रं क्षालयतीति द्वितीयं । वस्त्रं रञ्जयतीति तृतीयम् । ↩︎
-
उत्पत्त्य्-आदीति आदिना प्राप्ति-विकृति-संस्कार्याणां ग्रहणम्। ↩︎
-
अत्रावधि भगवत-सन्दर्भस्य पञ्चम-परिच्छेदे प्राप्यते। ↩︎
-
विस्वनथ गिवेस् सिx लिनेस् तो वेर्से ४७, त्wओ तो ४८॥ ↩︎
-
स्वारम्भकाणां पृथिव्य्-आदि-महा-भूतानाम् इत्य् अर्थः। ↩︎
-
अत्र परमात्म-सन्दर्भे अधिकं पठितम्—इदम् एव श्री-हंस-देवेनोक्तं—अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा [भा।पु। ११.१३.२४]इति ॥ इति । ↩︎
-
अत्र श्लोक-द्वयम् अधिकं क्वचिद् अस्ति तच् च— ↩︎