विषयः
पुरुषसूक्तार्थेन भगवतो विराट्स्वरूपस्य वर्णनम् ।
॥ २.६.१ ॥
ब्रह्मोवाच—
वाचां वह्नेर्1** मुखं क्षेत्रं छन्दसां सप्त धातवः ।**
हव्य-कव्यामृतान्नानां जिह्वा सर्व-रसस्य च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **
षष्ठे विराड् विभूतिश् च प्रोक्ताध्यात्मादि-भेदतः ।
दृढीकृतं च पूर्वोक्तं सर्वं पुरुष-सूक्ततः ॥*॥
इदानीं वैराजस्य विभूतिः स-प्रपञ्चम् अनुवर्ण्यते । वाचाम् अस्मद्-आदि-वाग्-इन्द्रियाणां तद्-अधिष्ठातुर् वह्नेश् च तस्य मुखं क्षेत्रम् उत्पत्ति-स्थानम् । छन्दसां गायत्र्य्-आदीनां2 सप्तानां तस्य सप्त-धातवस् त्वग्-आदयः3 क्षेत्रम् । हव्यं देवानाम् अन्नम् । कव्यं पितृ-टणाम् । अमृतं तद्-उभय-शेषो मनुष्यानाम् । तेषाम् अन्नानां सर्व-रसस्य मधुरादेः4 षड्-विधस्य च-काराद् अस्मद्-आदि-रसनेन्द्रियस्य तद्-अधिष्ठातुर् वरुणस्य चैतस्य जिह्वा क्षेत्रम् उत्पत्ति-स्थानम् । एवं सर्वत्रान् उक्तम् उन्नेयम् ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुरुष-सूक्तत इति । पुरुष-सूक्तं सहस्र-शीर्षा इत्य्-आदि षोडश-मन्त्रात्मको वेद-भागस्तद् व्याख्यानरूपत्वाद् अस्याध्यायस्य व्याख्येयव्याख्यानयोरभेदोक्तिरौपचारिक्येव ॥१॥ एवं मायाशक्तिसहितात्परमेश्वरात्समष्टिविराड जायतेति प्रतिपादितम् । तत्र—
भूस्तोयमग्निः पवनः खमादिर्महानजादिर्मन इन्द्रियाणि ।
सर्वेन्द्रियार्था विबुधाश् च सर्वे ये हेतवस्ते जगतोङ्गभूता ॥ इत्यक्रूरोक्तेः ।
परमेश्वरस्य कस्मात्कस्मादङ्गाद्विराजः किंकिमङ्गमभूदित्यपेक्षायामाह—वाचाम् इति । सप्तमश्लोकस्थेन हरेर् इत्य् अनेन मुखमित्यादेः सम्बन्धः मायिकाहंकारकार्यभूता अप्यमी वाग्वह्म्यादयः सच्चिदानन्दमयस्य भगवतो मुखाद्यङ्गानां विभूतिरूपत्वात्तेभ्यो मुखादिभ्य एवामी उत्पद्यन्ते इत्युच्यते मायायास्तच्छक्तित्वाच्छक्तिशक्तिमतोरभेदाच्छक्तेः कार्यं शक्तिमतोऽपि भवतीति न्यायात् । यथाग्निशक्तिर्दहस्तेन दग्धोऽग्निर्दग्ध इत्युच्यते तद्वदनापीति । वैकुण्ठस्था वाग्वह्म्यादयस्तत्तदंशभूताश्चिन्मया नित्या एव तेषां चिद्विलासत्वात् । जगद्वर्तिनस्त्वमी तत्तद्विभूतयो मायिका अनित्या एवेति व्यवस्थितिः । एतस्य हरेः ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मुखं समष्टि-सात्त्विक-राजसाहङ्कार-रूपं, प्राधान्यान् मुखम् एवेत्य् अर्थः । एवम् उत्तरत्रापि ॥१-२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **
षष्ठे भगवद्-आस्यादेर् विराड् वागाद्य् अभूद् इति ।
तथा त्रिपादेक-विभूत्य्-आदिकम् उच्यते ॥
एवं माया-शक्ति-सहितात् परमेश्वरात् समष्टि-विराड् अजायतेति प्रतिपादितम् । तत्र—
भूस् तोयम् अग्निः पवनं खम् आदिर्
महान् अजादिर् मन इन्द्रियाणि ।
सर्वेन्द्रियार्था विबुधाश् च सर्वे
ये हेतवस् ते जगतोऽङ्ग-भूताः ॥ [भा।पु। १०.४०.२] इत्य् अक्रूरोक्तेः ।
परमेश्वरस्य कस्मात् कस्माद् अङ्गाद् विराजः किं किम् अङ्गम् अभूत् ? इत्य् अपेक्षायाम् आह—वाचां समष्टि-विराजो व्यष्टीनां च वाचां वाग्-इन्द्रियाणां तद्-अधिष्ठातुर् वह्नेश् च, मुखम् इति सप्तम-श्लोकस्थेन हरेर् इत्य् अनेन सम्बन्धः । क्षेत्रम् उत्पत्ति-स्थानम् इति मायिकाहाङ्कार-कार्य-भूता अप्य् अमी वाग्-वह्न्य्-आदयः सच्चिदानन्द-मयस्य भगवतो मुखाद्य्-अङ्गानां विभूति-रूपत्वात् तेभ्यो मुखादिभ्य एवामी उत्पद्यन्त इत्य् उच्यते । मायायास् तच्-छक्तित्वात्—शक्ति-शक्तिमतोर् अभेदात् शक्तेः कार्यं शक्तिमतोऽपि भवतीति न्यायात् । वैकुण्ठस्था वाग्-वह्न्य्-आदयस् तत्-तद्-अंश-भूताश् चिन्मया नित्या एव तेषां चिद्-विलासत्वात् जगद्-वर्तिनस् त्व् अमी तत्-तद्-विभूतयो मायिका अनित्या एवेति व्यवस्थितिः । छन्दसां गायत्र्य्-आदीनां सप्तानाम् । तस्य धातवस् त्वग्-आदयः क्षेत्रं—तस्य त्वग्-आदिभ्यः सप्त छन्दांस्य् अभूवन्न्5 इत्य् अर्थः । एवम् एव सर्वत्र षाष्ठ्य्-अन्तानां प्रथमान्तं क्षेत्रं प्रथमान्ताच् च षष्ठ्य्-अन्ता बभूवुर् इति तेषां विवरणं च द्रष्टव्यम् । हव्यं देवानाम् अन्नम् । कव्यं पितॄणाम् अन्नम् । अमृतम् उभय-शेषा मनुष्याणां तेषाम् अन्नानाम्, सर्वस्य मधुरादेः षड्-विध-रसस्य च जिह्वेन्द्रियं क्षेत्रम् । च-काराद् वरुणस्य तालु-जिह्वेन्द्रिय-गोलोकं क्षेत्रम् ॥१॥
———————————————————————————————————————
॥ २.६.२ ॥
सर्वासूनां च वायोश् च तन्-नासे परमायणे ।
अश्विनोर् ओषधीनां6** च घ्राणो मोद-प्रमोदयोः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्वासूनाम् अस्मद्-आदि-प्राणानां तस्य नासे नासारन्ध्रे परमायने उत्तम-क्षेत्रे । मोद-प्रमोदयोश् च सामान्य-विशेष-गन्धयोर् घ्राणो घ्राणेन्द्रियं परमायनम् ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वायोर्मुख्यवायोः घ्राण इति पुंस्त्वमार्षम् । क्लीबे घ्राणं गन्धवहो घोणा नासा च नासिका इत्यमरः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तन्-नासे तदीय-नासा-रन्ध्रे । अश्विनोर् ओषधीनां चेत्य् अनयोः पूर्वेणैवान्वयः । मोद-प्रमोदयोः सामान्य-विशेष-गन्धयोर् घ्राणः । तदीय-घ्राणेन्द्रियम् ॥२॥
———————————————————————————————————————
॥ २.६.३ ॥
रूपाणां तेजसां चक्षुर् दिवः7** सूर्यस्य चाक्षिणी ।**
कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाश-शब्दयोः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तीर्थानां शास्त्राणाम् ॥३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रूपाणां तेजसां रूप-प्रकाशानां च चक्षुर् इन्द्रियम् । अक्षिणी नेत्र-गोलके । सर्वत्र षष्ठ्य्-अन्तानां प्रथमान्तं क्षेत्रं द्रष्टव्यम् । कर्णौ श्रोत्राधिष्ठाने । श्रोत्रम् इन्द्रियम् ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तीर्थानां पुष्करादीनामागमानां च तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने इत्यभिधानात् ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तीर्थानाम् आगमानाम् ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चक्षुस् तदीय-चक्षुर् इन्द्रियम् । अक्षिणी तदीय-नेत्र-गोलके । कर्णौ तदीय-श्रोत्राधिष्ठाने । श्रोत्रं तदीय-श्रोत्रेन्द्रियम् ॥३॥
———————————————————————————————————————
॥ २.६.४ ॥
तद्-गात्रं वस्तु-साराणां सौभगस्य च भाजनम् ।
त्वग् अस्य स्पर्श-वायोश् च सर्व-मेधस्य चैव हि ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य गात्रं शरीरं वस्तूनां ये सारांशास् तेषां भाजनं स्थानम् । अस्य त्वक्-स्पर्शस्य वायोश् चेत्य् अर्थः । सर्वस्य मेधस्य यज्ञस्य ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्पर्शेन सहितो वायुः स्पर्शवायुस्तस्येति समासः कार्यः । आर्षत्वाश्रयणेन वलोपे तु गौरवम् एवेति भावः । त्वगिन्द्रियाधिष्ठातृवायुरत्र ज्ञेयः । पूर्वं तु सामान्यकायुरुक्त इत्यपौनरुक्त्यम् । वृक्षैः पालाशादिभिर्जुह्वादिपात्रनिर्माणेन यज्ञसंसिद्धेः तेषाम् एव यज्ञसाधकानाम् एव वृक्षाणां क्षेत्रं नान्येषामित्यर्थः। अन्यवृक्षाणामुत्पत्तिस्तेभ्य एव वर्णसङ्करन्यायेन बोध्या । यद् वा, याज्ञिका रोममूलस्था रोमान्तस्थाश् च तत्परे निद्राको दिखाना हा गोलबादिनिटाएर्म् होमपांनभागत इति ध्येयम । बाशब्दस्य व्यवस्थार्थकत्वाद् इति पूर्वं तथोक्तेः । ईशस्य केशान्विदुरम्बुवाहान् इत्य्-उक्तेः क्षेमकर्मणां सर्वहितकर्तृणाम् ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वायोर् नेतृत्व-प्रधानत्वात् वाय्व्-आश्रये तु त्वच्य् एव मुख्यं नेतृत्वं वर्तते । तस्मात् तत्-तल्-लोक-नेतुर् यज्ञस्यापि सैवाश्रय इत्य् अर्थः ॥४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वग्-इन्द्रियाधिष्ट्ःआनं च तन्त्रेणोक्तम् । क्रमेण स्पर्शस्य वायोश् च, व-लोपश् छान्दसः । सर्वस्य मेधस्य यज्ञस्य । वस्तु-साराणां वस्तु-शक्तीनाम् ॥४॥
———————————————————————————————————————
॥ २.६.५ ॥
रोमाण्य् उद्भिज्ज-जातीनां यैर् वा यज्ञस् तु सम्भृतः ।
केश-श्मश्रु-नखान्य् अस्य शिला-लोहाभ्र-विद्युताम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
याज्ञिकारोम-मूलस्था रोमान्तस्थास् तु तत्-परे ।
उद्भिजो वासुदेवस्य लिङ्गगास् तु जरायुजाः ॥ इति पाद्मे ।
हरेः श्मश्र्व्-आश्रया विद्युच्-छिलालोहानत्थाश्रयाः ॥ इति आग्नेये ॥५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उद्भिज्ज-जातीनां सर्व-वृक्षाणाम् । यैर् वृक्षैर् यज्ञः सम्यक् साधितस् तेषाम् एव वा । केशा मेघानां क्षेत्रम्, पूर्वं तथोक्तेः । श्मश्रूणि विधुताम् । पाद-कर-नखानि शिलालोहानाम् इति सादृश्याद् ऊह्यम् ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यैर् वेति वा-शब्दः समुच्चये । यैर् द्रव्यैर् घृतादिभिर् यज्ञः सम्भृतस् तेषां चेत्य् अर्थः । तु-शब्दः पाद-पूरणे ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उद्भिज्ज-जातीनां सर्व-वृक्षाणाम् । यैर् वृक्षैर् यज्ञः सम्भूतस् तेषाम् एव नान्येषाम् इति वा । केशा अब्भ्राणां मेघानां क्षेत्रम् । ईशस्य केशान् विदुर् अम्बुवाहान् इति पूर्वोक्तेः । श्मश्रूण्य् अपि मेघानाम् एव वर्ण-साम्यात् । नखानि महा-कान्तिमन्ति विद्युतां श्वेत-रक्त-शिला-लोहानाम् इत्य् अपि सादृश्याद् ऊह्यम् ॥५॥
———————————————————————————————————————
॥ २.६.६ ॥
बाहवो लोक-पालानां प्रायशः क्षेम-कर्मणाम् ॥8
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ब्राह्मण-वैश्यादीन् वर्जयितुं प्रायश इति ॥६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्षेम-कर्मणां पालन-कर्तृणाम् । विक्रमः पादन्यासो भूर्-आदि-लोकानाम् आस्पदम्9 आश्रयः । भूर्-आदि-शब्दानाम् अव्ययत्वात् षष्ठ्या लुक् । क्षेमो लब्ध-रक्षणम् ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद् वा, शरणं मोक्षः। मोक्षः शान्तिश् च शरणं निर्वाणं निवृतिस्तथा इत्यभिधानात् । भेजे खगेऽन्द्रध्वजपादमूलम् इत्य्-उक्तेर्मोक्षस्यापि पादमूलम् एव क्षेत्रम् ॥५-६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **बाहव इत्य् अर्धकम् । बाहवः प्रायशः प्राचुर्येण लोक-पालानां क्षेत्रम् । अन्येषाम् अपि क्षेम-कर्मणां पालन-कर्तॄणाम् इत्य् अर्थः ॥६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **क्षेम-कर्मणां पालन-कर्तॄणाम् ॥६॥
———————————————————————————————————————
॥ २.६.७ ॥
विक्रमो भूर् भुवः स्वश् च क्षेमस्य शरणस्य च ।
सर्व-काम-वरस्यापि हरेश् चरण आस्पदम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मोक्षः शान्तिश् च शरणं निर्वाणं चाभिधीयते इति ब्राह्मे । भेजे खगेन्द्र-ध्वज-पाद-मूलम् इति च ।
स्वोत्पत्त्य्-अङ्गेषु देवानाम् अन्येषां पाद-मूलतः ।
मुक्तिस् तु विहिता विष्णो निर्दिष्टेषु यथा वचः ॥ इति अध्यात्मे ॥७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शरणं भयाद् रक्षणम् । सर्वेषां कामानां वरस्य वरणस्यापि हरेर् अङ्घ्रिर् आस्पदम् ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उपस्थो हि सर्वेषामानन्दानामवधिः इति श्रुतेः ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विक्रम इति परमात्म-विराजोर् अभेदेनोक्तिः ॥७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विक्रमः पाद-न्यासः । भूर्-भुवः-स्वर् इति भूर्-आदि-लोकानाम् । अव्ययत्वात् षाष्ठ्या लुक् । क्षेमस्य कल्याणस्य शरणस्य रक्ष-वस्तुनः । सर्वेषां कामानाम् । वरस्य वरणस्य ॥७॥
———————————————————————————————————————
॥ २.६.८ ॥
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः ।
पुंसः शिश्न उपस्थस् तु प्रजात्य्-आनन्द-निर्वृतेः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वीर्यस्य शुक्रस्य । शिश्नोऽधिष्ठानम् । उपस्थस् त्व् इन्द्रियम् । प्रजात्य्-आनन्दः सन्तानार्थः सम्भोगस् तेन या निर्वृतिस् तापहानिस् तस्याः ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रजात्य्-आनन्दाभ्यां या निर्वृतिस् तस्याः ॥८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विर्यस्य सुक्रस्य । पर्जन्यस्य वृष्यमाण-जलस्य शिश्नोऽधिष्ठानम् । उपस्थ इन्द्रियम् । प्रजात्य्-आनन्देन सन्तानार्थ-सम्प्रयोगेण निर्वृतिस् ताप-हानिस् तस्या ॥८॥
———————————————————————————————————————
॥ २.६.९ ॥
पायुर् यमस्य मित्रस्य परिमोक्षस्य नारद ।
हिंसाया निरृतेर् मृत्योर्निरयस्य गुदं स्मृतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परिमोक्षस्य मल-त्यागस्य पायुर् इन्द्रियम् । गुदः स्थानम् । निरृतेर् अलक्ष्म्याः॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पायुर् इन्द्रियम् । परोमोक्षस्य मल-त्यागस्य गुदं पायुर् गोलकम् । निरृतेर् अलक्ष्म्याः। मृत्योर् इन्द्रियाधिष्ठातुः । अत्र यद्यपि वह्नीन्द्रोपेन्द्र-मित्र-काः [भा।पु। २.५.३०] इति क्रम-प्राप्तेर् मित्रस्यैवाधिष्ठातृ-देवत्वं लभ्यते, तथापि गुदं मृत्युर् अपानेन नोदतिष्ठेत् ततो विराट् [भा।पु। ३.२६.६६] इति वक्ष्यमाण-वाक्य-प्रामाण्येन मृत्युर् एवाधिष्ठातृत्वेन विवक्षितः । पायुर् यमस्य मित्रस्येति मित्रस्य पायुर् इन्द्रियं क्षेत्रम् इति व्याख्यानं तु प्रक्रम-भङ्गापत्तेर् उपेक्षितम् ॥९॥
———————————————————————————————————————
॥ २.६.१० ॥
पराभूतेर् अधर्मस्य तमसश् चापि पश्चिमः ।
नाड्यो नद-नदीनां च गोत्राणाम् अस्थि-संहतिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तमसोऽज्ञानस्य । पश्चिमः पृष्ठ-भागः । गोत्राणां गिरीणाम् अस्थि-संघातः॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तमसोऽज्ञानस्य । पश्चिमः पृष्ठ-भागः । गोत्राणां पर्वताणाम् ॥१०॥
———————————————————————————————————————
॥ २.६.११ ॥
अव्यक्त-रस-सिन्धूनां भूतानां निधनस्य च ।
उदरं विदितं पुंसो हृदयं मनसः पदम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **कुमार-ब्रह्म-रुद्राद्या हरेर् मध्यात् समुद्गताः इति वामने ।
आत्मेति मध्य-देहश् च सर्व-देहोऽपि वा भवेत् ।
मनो बुद्धिर् अहङ्कारश् चित्तं जीवश् च कथ्यते ॥
अथवा स्व्यम् एवेति वायुर् ब्रह्मापि वा भवेत् ।
मुख्यतो ब्रह्म-परमम् आत्म-शब्देन भण्यते ॥ इति महोदधौ ।
देहेन्द्रियादि-भेदेन निर्भेदोऽपि हरिः स्वयम् ।
भण्यते केवलैश्वर्याद् अनाद्य्-आनन्द-चिद्-घनः ॥ इति गारूदे ॥११॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अव्यक्तं प्रधानम्, रसोऽन्नादि-सारः, सिन्धवः समुद्रास् तेषाम् । निधनस्य लयस्य10 । उदरं पदं स्थानं विदितं ज्ञानिभिः । मनसोऽस्मद्-आदि-लिङ्ग-शरीरस्य ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अव्यक्तं प्रधानम्, रसोऽन्नादि-सारः, भूतानां निधनस्य प्राणि-मात्र-लयस्य ॥११॥
———————————————————————————————————————
॥ २.६.१२ ॥
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तुभ्यं तव । कुमाराणां सनकादीनाम् । भवस्य श्री-रुद्रस्य । आत्मा चित्तं परम् अयनम् ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नारदेति । एतत्कथनं मन्दमतीनां सुबोधार्थम् एव त्वं त्वन्येषाम् अपि नारमज्ञानं द्यसीति भावः अत्र यद्यपि वह्नीन्द्रोपेन्द्रमित्रकाः इति क्रमप्राप्तेर्मित्रस्यैवाधिष्ठातृदेवत्वं लभ्यते तथापि गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् इति वक्ष्यमाणवाक्यप्रामाण्येन मृत्युरेवाधिष्ठातृत्वेन विवक्षितः । पायुर्यमस्य मित्रस्येत्येतदुपकारकत्वमेवाभिप्रेतम् । अधिष्ठातुर्मित्रस्य पायुरिन्द्रियं क्षेत्रम् इति व्याख्यानं तु प्रक्रमभङ्गापत्तेरुपेक्षितम् । पराभूतेः पराभवस्य ॥८-१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तुभ्यं तव । कुमाराणां सनकादीनाम् । भवस्य श्री-रुद्रस्य । विज्ञानस्य बुद्धेः । सत्त्वस्य चित्तस्य आत्मा अन्तःकरणम् ॥१२॥
———————————————————————————————————————
॥ २.६.१३-१६ ॥
अहं भवान् भवश् चैव त इमे मुनयोऽग्रजाः ।
सुरासुर-नरा नागाः11** खगा मृग-सरीसृपाः ॥**
गन्धर्वाप्सरसो यक्षा रक्षो-भूत-गणोरगाः ।
पशवः पितरः सिद्धा विद्याधराश् चारणा द्रुमाः ॥**
अन्ये च विविधा जीवाजल-स्थल-नभौकसः ।
ग्रहर्क्ष12-केतवस् तारास् तडितः स्तनयित्नवः ॥
सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् ।
तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सर्वं पुरुष एवेति भण्यते भेदवज् जगत् ।
तद्-अधीनस् तु सत्तादि यतो ह्य् अस्य सदा भवेत् ॥ इति ब्रह्म-तर्के ।
वितस्ति-मात्रं हृदयम् आस्ठाय व्याप्नुते जगत् ॥ इति गारुडे ॥१६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं तावत् परमेश्वराज् जातं विश्वं ततो न भिन्नम् । यथा कुण्डलं सुवर्णान् न पृथक् । स तु सर्व-नियन्ता सर्व-प्रकाशको नित्यम् उक्त इत्य् अर्थाद् उक्तम् । एतद् एव पुरुष-सूक्तार्थ-कथनेन द्रढयति । तत्र सहस्र-शीर्षा13 इत्य् अर्ध-र्चस्य ब्राह्मणोऽस्य मुखम् आसीत् (१२) इत्य् आदेश् च ऋक्-त्रयस्यार्थः पूर्वाध्याय एव दर्शितः । पुरुष एवेदं सर्वं (२) इत्य् अस्यार्थं दर्शयति—अहं भवान् इति सार्ध-त्रिभिः । ते तव अग्रजा इमे सनकादयो मरीच्य्-आदयश् च ॥१३॥ जलं च स्थलं च नभश् चौकांसि येषां ते । नभौकस इति सन्धिर् आर्षः ॥१४॥ सर्वम् इदं पुरुष एव न ततः पृथग् इत्य् अर्थः ॥१५॥
प्रपञ्चेन तस्यापरिच्छेदं वक्तुं स भूमिं (१) इत्य् अस्यार्थम् आह—तेन पुरुषेण । विश्वम् इति भूमि-पदस्यार्थः । वितस्तिम् इति दशाङ्गुल-पदस्य14, अधीत्य्-अति-शब्दस्य, आवृतम् इति वृत्वेत्य् अस्य, स च वितस्तिम् अधिकं व्याप्य तिष्ठतीत्य् आधिक्य-मात्रं विवक्षितं, न तु परिमाणम् । अनुपयोगाद् अपरिच्छिन्नत्वाच् च ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नभश् च नभसा सार्द्धम् इति द्विरूपकोशाददन्तोऽपि नभशब्दोस्तीति ज्ञेयम् ॥ सन्दर्भस्तुदश दशगुणिता अङ्गुलिप्रमाणदेशा यस्मिंस्तत् दशोत्तराबरणकुलं तदभिप्रायेणात्यल्पत्वादृशाङ्गुलशब्देन निर्देशः वितस्तिशब्दोऽपि तदभिप्रायकः । तदतिक्रम्य तिष्ठतीत्य् अर्थः ॥ विराजं प्रतपन् विराट्प्रकाशत्वेन प्रस्तूयमानः पुमान् श्रीभगवत्तत्त्वमप्येवान्तरङ्गं त्रिपाद्विभूतिरूपं बहिर्बहिरङ्गं पादविभूतिरूपं प्रतपति तद्विभूतयः। पाद्मोत्तरखण्डे—
त्रिपाद्विभूतेर्लोकास्तु असङ्ख्याः परिकीर्तिताः ।
शुद्धसत्त्वमयाः सर्वे ब्रह्मानन्दसुखाह्वयाः ।
सर्वे नित्या निर्विकारा हेयरागविवर्जिताः ।
सर्वे हिरण्मयाः शुद्धाः कोटिसूर्यसमप्रभाः ।
सर्ववेदमया दिव्याः कामक्रोधविवर्जिताः ।
नारायणपदाम्भोजभक्ताकरसुसेविताः ।
निरन्तरं सामगानपरिपूर्णमुखं श्रिताः ।
सर्वे पञ्चोपनिषदस्वरूपा वेदवर्चसः ॥
इत्य्-आदिना तत्र त्रिपाद्विभूतिशब्देन प्रपञ्चातीतलोकोऽभिधीयते पादविभूतिशब्देन तु प्रपञ्च इति यथोक्तं तत्रैव—
त्रिपाद्व्याप्तिः परे धाम्नि पादस्येहाभवत्पुनः ।
त्रिपाद्विभूतिर्नित्यास्यादनित्यं पादमैश्वरम् ।
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् ।
नित्यं संभोग्यमीश्वर्या श्रिया भूम्या च संवृतम् ॥ इति ।
अत एव द्वितीयस्कन्वेऽप्येवमेवोक्तम् । तथाहि सोऽमृतस्येति । अमृतादिद्वयं तु तृतीयत्वेन वक्ष्यमाणस्य क्षेमस्याप्युपलक्षणम् । श्रुतौ च उतामृतत्वस्येशानः इत्यत्रामृतत्वं तद्युगोपलक्षणम् । अत्र धर्मिप्रधाननिर्देशः । श्रुतौ तु तत्र धर्ममात्रनिर्देशस्यापि तत्रैव तात्पर्यं तत्रामृतम्—स्वदृष्टवद्भिः पुरुषैरभिष्टुतम् इति । परं न यत्परम् इत्याद्युक्तानुसारेण परमानन्दः । अत एवामृतं विष्णुमन्दिरम् इति तत्पर्यायः । अभयं न च कालविक्रमः इत्याधुक्तानुसारेण भयमात्राभावः। अत एव धर्मोऽकुतोभयमित्य्-उक्तम् । क्षेमं न यत्र माया इत्याद्युक्तानुसारेण भगवद्बहिर्मुखताकारगुणसम्बन्धाभावाद्भगवजनमङ्गलाश्रयत्वं ज्ञेयम् । तथा च नारदीये ।
सर्वमङ्गलमूर्द्धन्या पूर्णानन्दमयी सदा ।
द्विजेन्द्र तव मय्यस्तु भक्तिरव्यभिचारिणी ॥ इति ।
अत एव । क्षेमं विदन्ति मत्स्थानम् इत्य्-उक्तम् । तत्र तत्तच्छब्देन लक्षणामयकल्पनया जनलोकादिवाच्यतानिषेधेन हेतुं न्यस्यति । मर्त्यम् ब्रह्मणोऽपि भयं मत्तद्विपरार्द्धपरायुषः इत्य्-आदिन्यायेन मरणधर्मकमन्नं कर्मादिफलं विलोक्यादिकं यस्मादत्यगात् अतिक्रम्यैव तत्र विराजत इति । एषः अमृताद्यैश्वर्यरूपो दुरत्ययः ब्रह्मचर्यादिभिः केनचिन्मनसाप्यसर्व-भूतानि रोद्धुं न शक्य इति सन्दर्भः । विश्वनाथस्तु—स्वधिष्ण्यमित्य्-आदिपद्यद्वयम् एव व्याचख्यौ तथा हि असौ प्राणः प्राणवायुः स्वधिष्ण्यं देहान्तः प्रतपन् श्वासेन प्रतापयुक्तं कुर्वन् बहिश्र प्रतपति प्रभवति एवं विराजमन्तर्यामित्वेन स्थित्या प्रतपन्प्रभावन्तं ज्ञानक्रियादिशक्तिमन्तं कुर्वन्नन्तर्बहिश् च प्रतपति प्रभवति ॥१६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदं सर्व-मुक्त-प्रकारं पुरुषाद् एव सर्वं जायते, अतो भगवतः श्री-कृष्णस्य पुरुषावतार एव प्रथमः श्रेष्ठश् च । एतन् नानावताराणां इत्य् आदि-प्रथमोक्तेन सङ्गतिः । सर्वं पुरुष एवेदं इति, सोऽमृतस्याभयस्येशः इत्य् आदि, महिमैष इत्य् आदि च पुरुषस्यैव महिमा प्रदर्शितः ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अहम् इति त्रिकम् । एवं प्रपञ्च-तत्-कारणात्मकत्वेन दर्शयित्वा तद्-अतीतत्वेनाप्य् आह—तेनेदम् इत्य् आदि । तत्र स भूमिं सर्वतः स्पृष्ट्वा अत्यतीष्ठ-दृशाङ्गुलम् इति मन्त्रार्थम् आह तेनेत्य् अर्धकेन । तेन पुरुष-रूपेण । विश्वम् इति भूमि-पदार्थः । वितस्तम् इति दशाङ्गुल-पदार्थः । अधीत्य् अतिशब्दस्य । दशाङ्गुलं दश-दश-गुणिता अङ्गुलि-प्रमाण-देशा यस्मिन् तत् दशोत्तरावरण-कूलम् । तद्-अभिप्रायेणात्यल्पत्वात् दशाङ्गुल-शब्देन निर्देशः । वितस्ति-शब्दोऽपि तद्-अभिप्रायकः तद् अतिक्रम्य तिष्ठतीत्य् अर्थः ॥१३-१६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं माया-शक्तिमतः परमेश्वराज् जातं जगन् न ततो भिन्नम् इति पुरुष-सूक्तार्थ-कथनेन द्रढयति । तत्र सहस्र-शीर्षा इत्य् अर्ध-र्चस्य ब्राह्मणोऽस्य मुखम् आसीत् इत्य् आदेश् च ऋक्-त्रयस्यार्थः पूर्वाध्याय एव दर्शितः । पुरुष एवेदं सर्वम् इत्य् अस्यार्थं दर्शयति—अहं भवान् इति सार्ध-त्रिभिः । एवं प्रपञ्च-कारणत्वं परमेश्वरस्य दर्शयित्वा तस्य प्रपञ्चातीतवं वदन् प्रपञ्चस्य तत्-परिच्छेद्यत्वम् आह—तेन परमेश्वरेण इदं विश्वम् आवृतम् । यतोऽधि विश्वस्माद् अधिकम् । वितस्तिं वितस्ति-प्रमाणं देशं व्याप्य तिष्ठतीत्य् आधिक्य-मात्रं विवक्षितं न प्रमाणम्, तस्य परिच्छिन्नत्वेनाप्रमाणत्वात् । एवं स भूमिं सर्वतः स्पृष्ट्वा अत्यतिष्ठद् दशाङ्गुलम्15इत्य् अस्यार्थो विवृतः । तत्र भूमिम् इत्य् अस्यार्थः विश्वम् इति । दशाङ्गुलम् इत्य् अस्यार्थो वितस्तिम् इति। अत्यतिष्ठद् इत्य् अस्यार्थोऽधितिष्ठतीति ॥१३-१६॥
———————————————————————————————————————
॥ २.६.१७ ॥
स्व-धिष्ण्यं प्रतपन् प्राणो बहिश् च प्रतपत्य् असौ ।
एवं विराजं प्रतपंस् तपत्य् अन्तर् बहिः पुमान् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
पश्यन् स्वधिष्ण्यं देहं स वहिष्ठान् विषयान् अपि ।
एवम् अण्डान्तरं पश्यन् बहिः सर्वं च पश्यति ॥ इति वामने ।
अव्यक्तम् आत्मनोऽन्नं च महद्-आदि विनाशि च ।
यद् अतीतः परो विष्णुः स एवातो विमोक्षदः ॥ इति नारदीये ॥१७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् स-दृष्टान्तम् आह । असौ प्राण आदित्यः असौ वा आदित्यः प्राणः इति श्रुतेः । स्व-धिष्ण्यं मण्डलं प्रकाशयन् यथा बहिश् च प्रकाशयति एवं विराड् देहं प्रकाशयन् ब्रह्माण्डम् अन्तर् बहिश् च प्रकाशयति ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स परमेश्वरोऽमृतस्येशः प्रभुर्भोक्ता भोजयिता दाता वेत्यर्थः । स्वर्गीयसुधाव्यावृत्यर्थमाह—अभयस्य संसारभयरहितस्यामृतस्येशत्वे हेतुः मयं मरणधर्मकमन्नं वैषयिकं सुखं यद्यतोऽत्यगादतिक्रान्तवान् । नं ह्यमृतभोजिने चणकचर्वणं रोचते इत्यभिप्रायः । यदि च कौतुकवशात्कदाचिञ्चर्वयति तदनासक्त्यैव एवमेवान्तर्यामिणोऽपि । अहं हि सर्वज्ञानां भोक्ता च प्रभुर् एव च इस्यादिदृष्टेः कचिद्भोक्तृत्वव्यपदेशोऽपि तदनतिक्रम एव द्रष्टव्यः । एकस्तयोः खादति पिणलान्नमन्यो निरन्नोऽपि बलेन भूयान् इति श्रतौ निरन्न त्व् अं नामासक्तिराहित्यं व्याख्यातम् । एवञ्च उतामृतत्वस्येशानो यदन्नेनातिरोहति इत्यस्यार्थो विवृतः ॥ अमृतत्वस्येति स्वार्थे त्वश्छान्दसः ॥ सुपां सुपो भवन्ति इत्यन्नमित्यर्थेऽन्नेनेति पदम् । अतिरोहति अत्यकामत् । ततो हेतोः पुरुषस्य परमेश्वरस्यैव महिमा दुरत्ययोऽपारः। एवञ्च एतावानस्य महिमातो ज्यायांश् च पूरुषः इत्यस्यार्थो विवृतः ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विराजं प्रतपन् विराट् प्रकाशकत्वेन प्रस्तूयमानः पुमान् श्री-भगवत्-तत्त्वम् अपि एवम् अन्तः अन्तरङ्ग त्रिपाद्-विभूति-रूपं बहिः बहिरङ्ग-पाद-विभूति-रूपं प्रतपति प्रकाशयति ॥१७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतत् स-दृष्टान्तम् आह—असौ प्राणः प्राण-वायुः । स्व-धिष्ण्यं देहान्तः । प्रतपन् श्वासेन प्रताप-युक्तं कुर्वन् । बहिश् च प्रतपति प्रभवति । एवं विराजम् अन्तर्यामित्वेन स्थित्या प्रतपन् प्रतापवन्तं ज्ञान-क्रियादि-शक्तिमन्तं कुर्वन्न् अन्तर् बहिश् च प्रतपति प्रभवति ॥१७॥
———————————————————————————————————————
॥ २.६.१८ ॥
सोऽमृतस्याभयस्येशो मर्त्यम् अन्नं यद् अत्यगात् ।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
स्वरूपांश विभिन्नांशा इति द्वेधांश ईयते ।
अनन्तासन-वैकुण्ठ-पद्मनाभः स्व्यं हरिः ।
जीवा इमे विभिन्नांशा धर्माधर्मादि-संयुताः ॥ इति वामने ॥१८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नित्यम् उक्तत्वं दर्शयितुम् उतामृतत्वस्य [ऋक्।सं। १०.९०.२] इत्य् अस्यार्थम् आह—स इति । अभयस्येति मन्त्र-गतामृत-पद-व्याख्या । अन्नेनेति पदं विभक्ति-व्यत्ययेन व्याचष्टे । मर्त्यं मरण-धर्मकम् अन्नं कर्म-फलं यस्माद् अत्यगाद् अतिक्वान्तवान् । अतो न केवलं सर्वात्मकः, किन्त्व् अमृतत्वस्य निजानन्दस्यापीश्वर इत्य् अर्थः ।
प्रपञ्चात्मकस्य कुतो नित्यम् उक्तत्वम् इत्य् आशङ्क्य तत्-परिहाराय एतावान् अस्य [ऋक्।सं। १०.९०.३] इत्य् अस्यार्थम् आह—महिमेति । प्रपञ्चात्मकस्याप्य् अमृतेशत्वम् इत्य् एष महिमा दुरत्ययोऽपारः । प्रपञ्चानभिभूतत्वाद् इति भावः । मन्त्रेण वैतावान् अस्य महिमा विभूतिः, स तु ज्यायान् महत्तर इति वदताऽयम् एवार्थ उक्तः ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तदेवममर्त्यमैश्वर्य त्रिपात् मर्त्यमेकपाद् इति । तस्य चतुष्पादैश्वर्यं पुनर्विवृणोति । पादेषु सर्व-भूतानीति स्थितयो मार्त्यद्यैश्वर्याणि तानि पदा इवाधिष्ठानभूतानि यस्य तस्य स्थितिपदश्चतुर्षुपादेष्वैश्वर्यभोगेषु सर्व-भूतानि पार्षदपर्यन्तानि पादा इवाधिष्ठानभूतानि पादान् दर्शयति । त्रयाणां सात्त्विकादिपदार्थानां मूर्द्धेव मूर्द्धा प्रकृतिस्तस्या मूर्द्धसु तदुपरि विराजमानेषु श्रीवैकुण्ठलोकेषु अमृतं क्षेममभयं चाधायि नित्यं धृतम् एव तिष्ठतीत्य् अर्थः । ततः पूर्वस्य मार्त्यान्नमात्रात्मकत्वादेकपास्वमुत्तरस्यामृतादित्रयात्मकत्वात्रिपास्वम् इति भावः । तदनेन पादोस्य विश्वा भूतानि त्रिपादस्थामृतं दिवि इत्यस्यार्थो दर्शितः । अस्य पादस्तथैवास्यैव दिवि वैकुण्ठं यदमृतात्मकं त्रिपात् तच्च विश्वाभूतानीत्य् अर्थः । अत्राधिष्ठानाधिष्ठेययोरैक्योक्तिरिति सन्दर्भः । विश्वनाथस्तु—अथ तस्य मायिकीरमायिकीर्विभूतीर्विभज्य दर्शयति द्वाभ्याम् । स्थितिः सर्वलोकपालनं पादाच्चरणारविन्दाद्यस्य स स्थितिपात् तस्य पुंसः पादेष्वंशभूतेषु मायिकामायिकदेशेषु सर्व-भूतानि बद्धमुक्तजीवान्विदुः। तत्र च त्रिमूर्ध्नः त्रिगुणमयस्थानानामुपरिष्टो भागो यत्प्रकृत्यावरणं तस्य मूर्धसूपरितनस्थानेषु परमव्योमस्वित्य् अर्थः । अमृतं मरणाभावः क्षेमं रोगाभावोऽभयं परस्परहेतुकस्य । भगवदपराधहेतुकस्य च भयस्याभावः । कालहेतुकभयस्यामृतशब्देनैव वारणं ज्ञेयम् । अधायि स्थापितम् । तेन त्रिगुणमयस्थानेषु तद्विपरीतं मृतमक्षेमं भयञ्च निहितम् इति । त्रिगुणप्रपञ्चस्यानित्यत्वं त्रिगुणातीतस्य परव्योम्नो नित्यत्वं बोधितं वक्ष्यते चाग्रे तद्धामवर्णने न च कालविक्रमः - न यत्र माया इत्य्-आदि । एवं च पादोस्येत्यादेरों विवृतः। अत्र पादोस्य विश्वा भूतानि इति सामानाधिकरण्यमधिष्टानाधिष्ठेययोरभेदविवक्षया पाद इत्येकवचनं सामान्याभिप्रायेण दिवि सर्वस्योर्ध्वप्रदेशेऽमृतमस्य त्रिपात्रिपादविभूतिस्थमित्य् अर्थः । इत्य् अर्थ इति । त्रिगुणात्मकत्वात्तस्या इति भावः । तत्र सप्तलोकेषु तत्प्रत्यासत्तेः मोक्षस्य प्रत्यासत्तेः सन्निहितत्वात् । यथा गङ्गातदेप्यागतो गङ्गागतः कथ्यते तदूदत्रापि मोक्षसन्निहितोऽपि मोक्ष इति कथ्यत इति । सत्यलोकगतानां स्वयंप्रभातवेदविचारेण मोक्षोस्तीत्य् अर्थः । यद्वा—
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥
इति स्मृतेर् अपि तेषां मोक्षश्रवणात् । अत्र सन्दर्भः ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-विभूतयः पाद्मोत्तर-खण्डे—
त्रिपाद्-विभूतेर् लोकास् तु असङ्ख्याः परिकीर्तिताः ।
शुद्ध-सत्त्व-मयाः सर्वे ब्रह्मानन्द-सुखाह्वयाः ॥
सर्वे नित्या निर्विकारा हेय-राग-विवर्जिताः ।
सर्वे हिरण्मयाः शुद्धाः कोटि-सूर्य-सम-प्रभाः ॥
सर्वे वेदमया दिव्याः काम-क्रोधादि-वर्जिताः ।
नारायण-पदाम्भोज-भक्त्य्-एक-रस-सेविनः ॥
निरन्तरं साम-गान-परिपूर्ण-सुखं श्रिताः ।
सर्वे पञ्चोपनिषद-स्वरूपा वेद-वर्चसः ॥ [प।पु। ६.२२८.१-४] इत्य् आदि ॥
अत्र त्रिपाद्-विभूति-शब्देन प्रपञ्चातीत-लोकोऽभिधीयते पाद-विभूति-शब्देन तु प्रपञ्च इति। यथोक्तं तत्रैव—
त्रिपाद्-व्याप्तिः परं धाम्नि पादोऽस्येहाभवत् पुनः ।
त्रिपाद्-विभूतेर् नित्यं स्यात् अनित्यं पादम् ऐश्वरम् ॥
नित्यं तद्-रूपम् ईशस्य परं धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनम् आश्रितम् ॥
नित्यं सम्भोगम् ईश्वर्या श्रिया भूम्या च संवृत्तम् ॥ [प।पु। ६.२२६.११-१३] इति ॥
अत एवात्र द्वितीय-स्कन्धेऽप्य् एवम् एवोक्तम् । तथाहं सोऽमृतस्येति । अमृतादि-द्वयं तु तृतीयत्वेन वक्ष्यमाणस्य क्षेमस्याप्य् उपलक्षणम् । श्रुतौ च, उतामृतत्वस्येशानः [ऋक्।सं। १०.९०.२] इत्य् अत्रामृतत्वं तद्-युगलोपलक्षणम् । अत्र धर्मि-प्रधान-निर्देशः, श्रुतौ तु तत्र धर्म-मात्र-निर्देशस्यापि तत्रैव तात्पर्यम् ।
तत्रामृतं—स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् इत्य् आदौ, परं न यत्-परं [भा।पु। २.९.९] इत्य्-आद्य्-उक्तानुसारेण परमानन्दः। अत एव सहस्र-नाम-भाष्ये पाद्मोत्तर-खण्डे16च अमृतं विष्णु-मन्दिरम् इति तात्पर्यः ।
अभयं, न च काल-विक्रम [भा।पु। २.९.१०] इत्य्-आद्य्-उक्तानुसारेण भय-मात्राभावः । अत एव द्विजा धामाकुतो-भयं [भा।पु। १२.११.१९] इत्य् उक्तम् । क्षेमं, न यत्र माया [भा।पु। २.९.१०] इत्य् आद्य् उक्तानुसारेण भगवद्-बहिर्मुखताकार-गुण-सम्बन्धाभावाद् भगवद्-भजन-मङ्गलाश्रयत्वं ज्ञेयम् । तथा च नारदीये—
सर्व-मङ्गल-मूर्धन्या पूर्णानन्द-मयी सदा ।
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्यभिचारिणी ॥ इति ॥
अत एव क्षेमं विन्दन्ति मत्-स्थानं [भा।पु। ११.२०.३७] इत्य् उक्तम् । तत्र तत्-तच्-छब्देन लक्षणा-मय-कष्ट-कल्पनया जन-लोकादि-वाच्यतां निषेधन् हेतुं न्यस्यति । मर्त्यं मर्त्यं ब्रह्मणोऽपि भयं मत्तो द्विपरार्ध-परायुष [भा।पु। ११.१०.३०] इत्य्-आदि-न्यायेन मरण-धर्मकम् । अन्नं कर्मादिफलं त्रिलोक्यादिकं यस्मात् अत्यगात् अतिक्रम्यैव तत्र विराजते इति । एष अमृताद्य्-ऐश्वर्य-रूपः । दुरत्ययः ब्रह्मचर्यादिभिः केनचिन् मनसाप्य् अवरोद्धुं न शक्यः ॥१८॥ [भगवत्-सन्दर्भ ६७]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स परमेश्वरः अमृतस्य ईशः प्रभुर् भोक्ता भोजयिता दाता चेत्य् अर्थः । स्वर्गीय-सुधा-व्यावृत्त्य्-अर्थम् आह—अभयस्य संसार-भय-रहितस्य । अमृतस्येशत्वे हेतुः—मर्त्यं मरण-धर्मकम् अन्नं वैषयिकं सुखम् । यद् यस्मात् । अत्यगात् अतिक्रान्तवान् । न ह्य् अमृत-भोजिने चणक-चर्वणं रोचत इति भावः । यदि च कौतुक-वशात् कदाचित् तांश् चर्वयति तद्-अनासक्त्यैव । एवम् एवान्तर्यामिणोऽपि—अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च [गीता ९.२४] इत्य्-आदि-दृष्टेः । क्वचिद् भोक्तृत्व-व्यपदेशोऽपि तद्-अनतिक्रम एव द्रष्टव्यः । एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नोऽपि बलेन भूयान् इति श्रुतौ । निरन्न त्व् अं नाम आसक्ति-राहित्यं व्याख्यातम् । एवं च—उतामृतत्वस्येशानो यद् अन्नेनातिरोहति [ऋक्।सं। १०.९०.२] इत्य् अस्यार्थो विवृतः । अमृतत्वस्येति स्वार्थे त्वश् छान्दसः । सुपां सुपो भवन्तीत्य् अन्नम् इत्य् अर्थे अन्नेनेति पदम् । अतिरोहति अत्यक्रामत् । ततो हेतोः पुरुषस्य परमेश्वरस्य एष महिमा दुरत्ययः अपारः । एवं च एतावान् अस्य महिमातो ज्यायांश् च पूरुषः [ऋक्।सं। १०.९०.३] इत्य् अस्यार्थो विवृतः ॥१८॥ \
———————————————————————————————————————
॥ २.६.१९ ॥
पादेषु सर्व-भूतानि पुंसः स्थिति-पदो विदुः ।
अमृतं क्षेमम् अभयं त्रि-मूर्ध्नोऽधायि मूर्धसु ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सर्वज्ञा यथावत् स्थिति-विदः । त्रि-मूर्धा सन् हरिर् धत्ते द्यु-त्रयं मूर्दभिस् त्रिभिः ॥१९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् ईश्वरो नित्य-मुक्त इत्य् उक्तं, तद्-आश्रितानां भूतानां बन्ध-मोक्षौ व्यवस्थया इति दर्शयन्, पादोऽस्य विश्वा भूतानि [ऋ।वे। १०.९०.३]इति । अस्यार्थम् आह—पादेष्व् इति। तिष्ठन्त्य् अत्रेति स्थितयो भूर्-आदि-लोकास् ते पादा इव पादा अंशा यस्य, स स्थिति-पात् । तस्य पादेष्व् अंश-भूतेषु लोकेषु सर्वाञ् जीवान् विदुः । मन्त्रे तु पादोऽस्य विश्वा भूतानि [ऋ।वे। १०.९०.३] इति,सामानाधिकरण्यम् अधिष्ठानाधिष्ठेयाभेद-विवक्षया । पाद इत्य् एक-वचनं च सामान्याभिप्रायेणेति व्याख्यातं भवति ।
भूतेषु फल-वैचित्र्यं दर्शयन् त्रिपादस्यावृतं दिवि [ऋ।वे। १०.९०.२]इत्य् अस्यार्थम् आह—
अस्येश्वर-सम्बन्धि-त्रिपाद् अमृतं नित्य-सुखं दिवि ऊर्ध्व-लोकेषु, न त्रिलोक्याम् इत्य् अर्थः । तद् एव त्रिपाच्-छब्दोक्तं त्रैविध्यं दर्शयन्न् आह—त्रयाणां लोकानां मूर्धा महर्-लोकस् तस्य मूर्धानस् तद्-उपरितन-लोकास्17 तेषु यथाक्रमम् अमृतादिकम् अधायि निहितम् । तत्र त्रिलोक्यां नश्वरम् एव सुखम् । महर्-लोकस्य क्रम-मुक्ति-स्थानत्वेऽपि कल्पान्ते तत्रत्यानां स्थान-त्यागान् नाविनाशि-सुखम् । जन-लोके त्व् अमृतम् अविनाशि-सुखम् । यावज् जीवं स्व-स्थानापरित्यागात् । किन्तु महर्-लोक-वासिनां कल्पान्ते त्रिलोक-दाहोष्म-पीडितानां तदा तत्र18 गमनाद् अक्षेम-दर्शनम् अस्ति । तपो-लोके तस्याभावात् क्षेमम् एव । वक्ष्यति हि—
त्रिलोक्यां दह्यमानायां शक्त्या संकर्षणाग्निता ।
यान्त्य् ऊष्मणा महर्-लोकाज् जनं भृग्व्-आदयोऽर्दिताः ॥ [भा।पु। ३.११.३१] इति ।
सत्य-लोके त्व् अभयं मोक्षः, तत्-प्रत्यासत्तेः ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ चतुष्पात्त्वे त्रिलोकीव्यवस्थावत्पक्षान्तरं दर्शयति । पादा इति । चशब्द उक्तसमुच्चयार्थः। प्रपञ्चद्बहिः पादास्त्रय आसन्नेव प्रपञ्चात्मकस्यैव च चतुर्थपादस्य विभागविवक्षायां तु त्रिलोक्या बहिश्चन्ये पादास्त्रव आसन्नित्येवं मन्त्रेऽपि तथैव पुनः शब्दः ते केऽप्रजानां ब्रह्मचारिवानप्रस्थयतीनामाश्रमाः प्राप्या ये लोकाः । अत एव धर्मत्रयताप्यत्वाच्चतुर्णाम् अपि त्रिपात्वम् । अपरस्तु चतुर्थः । पादस्त्रिलोक्या अन्तरिति गृहमेधस्तत्प्राप्यः यस्मान्न बृहद्व्रतं यस्य स तथा ब्रह्मचर्यरहित इत्य् अर्थः । **विश्वनाथः **। पादेषु सर्वा भूतानि इत्यस्यर्थं विशिष्य दर्शयति । बहिस्त्रिमूर्द्धशब्दोक्तात्प्रकृत्यावरणात्परत्र : यः पादाः परमव्योमशब्देनाभिधीयमाना आसन् । चकारात्क्वचित्क्वचित्प्रपञ्चमध्यवर्तिनोऽपि मथुरायोध्यादिनामानः ये पादाः अप्रजानां न प्रकर्षेण जायन्त इत्यप्रजा संसारमुक्ता जीवास्तेषामाश्रमाः स्थानानीति। आश्रमाणामाश्नमस्थानं च तेषां नित्यत्वं बाधितम् । अमृतं क्षेममभयम् इति पूर्वोक्तेः। त्रिलोक्यास्त्रिगुणलोकमय्याः प्रकृतेरन्तस्तु अपरश्चतुर्थः पाद इत्य् अर्थः । यत्र गृहमेधः कर्मिजन इत्य् अर्थः । कीदृशोऽबृहद्व्रतः भगवगतरहितो भगवद्भक्तिरहित इत्य् अर्थः । तेन स चापि कदाचिद्भक्तः स्यात्तदा तस्यापि त्रिपाद्विभूतिर् एव स्थानम् इति भावः । एवं च त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः इति श्रुत्यर्थो विवृतः । स्मृतिश् च त्रिपाद्विभूतेः इत्यारभ्य श्रिया भूम्या च संवृतम् । इत्यन्ता सन्दर्भधृतात्रानुसन्धेया ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवम् अमर्त्यम् ऐश्वर्यं त्रि-पात्, मर्त्यम् एक-पाद् इति तस्य चतुष्पादैश्वर्यं पुनर् विवृणोति—पादेषु सर्व-भूतानीति । तिष्ठन्त्य् अत्र सर्व-भूतानीति स्थितयो मर्त्याद्य्-ऐश्वर्याणि तानि पादा इवाधिष्ठान-भूतानि यस्य, तस्य स्थिति-पदः । पादेषु चतुर्ष्व् एवैश्वर्य-भागेषु सर्व-भूतानि पार्षद-पर्यन्तानि । पादान् दर्शयति—त्रयाणां सात्त्विकादि-पदार्थानां मूर्धेव मूर्धा प्रकृतिस् तस्य मूर्धसु तद्-उपरि विराजमानेषु श्री-वैकुण्ठ-लोकेषु अमृतं क्षेमम् अभयं चाधायि नित्यं धृतम् एव तिष्ठतीत्य् अर्थः । ततः पूर्वस्य मर्त्यान्न-मात्रात्मकत्वात् एकपात्त्वम् । उत्तरस्यामृतादि-त्रयात्मकत्वात् त्रिपात्त्वम् इति भावः । तद् अनेन पादोऽस्य विश्वा-भूतानि त्रिपादस्यामृतं दिवि [ऋक्।सं। १०.९०.३] इत्य् अस्यार्थो दर्शितः । अस्य पादस् तथास्यैव दिवि वैकुण्ठे यत् अमृतात्मकं त्रिपात् तच् च विश्वा भूतानीत्य् अर्थः । अत्राधिष्ठानाधिष्ठेययोर् ऐक्योक्तिः ॥१९॥ [भगवत्-सन्दर्भ ६७.२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ तस्य मायिकीर् अमायिकीश् च विभूतीर् विभज्य दर्शयति द्वाभ्याम् । स्थितिः सर्व-लोक-पालनं पादाच् चरणारविन्दात् यस्य स स्थिति-पात् तस्य पुंसः । पादेषु अंश-भूतेषु—मायिकामायिक-देशेषु । सर्व-भूतानि बद्ध-मुक्त-जीवान् विदुः । तत्र च त्रि-मूर्ध्नः त्रि-गुण-मय-स्थानानां मूर्धा इव उपरिस्थो भागो यत्-प्रकृत्य्-आवरणं तस्य मूर्धसु उपरितन-स्थानेषु परम-व्योमस्व् इत्य् अर्थः । अमृतं मरणाभावः । क्षेमं रोगाद्य्-अभावः । अभयं परस्पर-हेतुकस्य भगवद्-अपराध-हेतुकस्य च भयस्याभावः । काल-हेतुक-भयस्यामृत-शब्देनैव वारणं ज्ञेयम् । अधायि स्थापितम् । तेन त्रिगुण-मय-स्थानेषु तद्-विपरीतं मृतम् अक्षेमं भयं च निहितम् इति त्रिगुण-प्रपञ्चस्यानित्यत्वं, त्रिगुणातीतस्य पर-व्योम्नो नित्यत्वं बोधितम् । वक्ष्यते चाग्रे तद्-धाम-वर्णने—न च काल-विक्रमः न यत्र माया [भा।पु। २.९.१०] इत्य् आदि । एवं च पादोऽस्य विश्वा-भूतानीति त्रिपादस्यामृतं दिवीत्य् अस्यार्थो विवृतः । तत्र पादोऽस्य विश्वा-भूतानीति सामानाधिकरण्यम् अधिष्ठानाधिष्ठेयाभेद-विवक्षया । पाद इत्य् एक-वचनं सामान्याभिप्रायेण । दिवि सर्वोर्ध्व-प्रदेशे अमृतम् । अस्य त्रिपात् त्रिपाद्-विभूति-स्थम् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
॥ २.६.२० ॥
पादास् त्रयो बहिश् चासन्न् अप्रजानां य आश्रमाः ।
अन्तस् त्रि-लोक्यास् त्व् अपरो गृह-मेधोऽबृहद्-व्रतः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अनन्तासन-वैकुण्ठ-नारायण-पुराणि तु ।
बहुलक्षोच्छिर्तेष्व् एषु स वसत्य् अमृतो हरिः ॥ इति मात्स्ये ।
अनन्तासन-वैकुण्ठ-नारायण-पुराणि तु ।
त्रीणि धामानि वै विष्णोस् त्रिलोकाद् बहिर् एव च ॥
अदायादास् तु पुत्राणाम् उद्रिक्त-ज्ञान-चक्षुषः ।
नारायण-परा देवा एव तान्य् अप्नुवन्ति च ॥
स एवान्य स्वरूपेण शक्र-लोक-समीप-गः ।
इज्यो यज्ञ-पुमान् नाम ज्ञानिनां गृहिणां पदम् ॥
यतीनां ध्रुव-लोकस्थो वनिनां मेरु-मध्यगः ।
आदित्य-मण्डल-स्थस् तु ज्ञानिनां ब्रह्मचारिणाम् ॥ इति ब्रह्माण्डे ।
त्रिपात् स एव भगवान् सर्व-प्राणिषु संस्थितः ।
निरन्नेषु च विद्वत्सु त्रिदशेष्व् इतरेषु च ॥ इति अध्यात्मे ॥२०-२१॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् एव वैचित्र्यम् अधिकारि-भेदेनोपपादयन् त्रिपाद्-ऊर्ध्व (४) इत्य् अस्यार्थम् आह। न प्रजायन्ते पुत्रादि-रूपेणेत्य् अप्रजा नैष्ठिक-ब्रह्मचारि-वान-प्रस्थयतयस् तेषाम् आश्रमास् त्रिलोक्या बहिर् आसन्, गृह-मेधस् त्व् अन्तः 19 । यस्माद् अबृहद्-व्रतो ब्रह्मचर्य-व्रत-रहितः ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उक्तलक्षणेनैकपादत्रिपाद्विभूतीर्जीव एवं प्राप्नोतीत्याह विश्वमञ्चतीति विश्वङ्जीवः । सृती एकपादत्रिपादविभूत्योः पन्थानौ विचक्रमे चलति लडर्थे लिट् । कीदृश्यौ साशनानशने भोगापवर्गप्राप्तिसाधनभूते तत्र योग्यतामाह । यद्यस्य जीवस्यैवाविद्या विद्या च । अविद्यादशायामेकपादविभूतिं विद्यादशायां त्रिपाद्विभूतिं प्राप्नोति । किं तु विद्याया उपरमे लब्धया एकया भत्तयैव भत्तयाहमेकया ग्राह्यः इति भगवदुक्तेः । पुरुषः परमेश्वरस्तूभयस्याविद्याविद्यावृत्तिकमाया आश्रय इति मृतिद्वयं तत्स्वामिकत्वात्तदधीनम् एवेति भावः । एवं च ततो विष्वङ्व्यक्रामत्साशनानशने अभि इत्यस्यार्थी विवृतः ॥२०॥
**दिग्दर्शिनी (बृ।भा। २.१.१०): **न प्रजायन्ते प्रजादि-रूपेणेत्य् अप्रजा नैष्ठिक-ब्रह्मचारि-वनस्थ-यतयः तेषां ये आश्रमा भोग-स्थानानि, ते **पाद-त्रयात्_ _**त्रिलोक्या बहिर् आसन् । गृह-मेधो गृहस्थस् तु अन्तस् त्रिलोक्या अभ्यन्तरे, यस्माद् अबृहद्-व्रतः ब्रह्मचर्य-रहितः मैथुन-धर्मात्यागी । इति ॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ चतुष्पात्त्वे त्रिलोकी-व्यवस्थावत् पक्षान्तरं दर्शयति—पादा इति । च शब्द उक्त-समुच्चयार्थः प्रपञ्चाद् बहिः पादास् त्रय आसन्न् एव प्रपञ्चात्मकस्य चतुर्थ-पादस्यैव विभाग-विवक्षायां तु त्रिलोक्या बहिश् चान्ये पादास् त्रय आसन्न् इति । एवं मन्त्रेऽपि हि तथैव पुनः-शब्दः (४) । ते के ? अप्रजानां ब्रह्मचारि-वानप्रस्थ-यतीनाम् आश्रमाः प्राप्या ये लोकाः । अत एव धर्म-त्रय-प्राप्यत्वात् चतुर्णाम् अपि त्रिपात्वम् अपरस् तु चतुर्थः पदस् त्रिलोक्या अन्तर् इति । गृह-मेधस् तत्-प्राप्यः । यस्मात् अबृहद्-व्रतो ब्रह्मचर्य-रहित इति ॥२०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पादेषु सर्व-भूतानि [भा।पु। २.६.१९] इत्य् अस्यार्थं विशिष्य विवृणोति । बहिस् त्रिमूर्ध-शब्दोक्तात् प्रकृत्यावरणात् परत्र त्रयः पादाः परम-व्योम-शब्देनाभिधीयमाना आसन् । च-कारात् क्वचित् क्वचित् प्रपञ्च-मध्य-वर्तिनोऽपि मथुरायोध्यादि-नामानः ये पादाः । अप्रजानां न प्रकर्षेण जायन्त इत्य् अप्रजाः संसार-मुक्ता जीवास् तेषाम् आश्रमाः स्थानानीति आश्रमाणाम् आश्रम-स्थानं च तेषां नित्यत्वं बोधितम् । अमृतं क्षेमम् अधायीति पूर्वोक्तेः । त्रिलोक्याः त्रिगुण-लोक-मय्याः प्रकृतेः, अन्तःसु अपरश् चतुर्थः पाद इत्य् अर्थः । यत्र गृह-मेधः कर्मि-जन इत्य् अर्थः । कीदृशः? अबृहद्-व्रतो भगवद्-व्रत-रहितो भगवद्-अभक्त इत्य् अर्थः । तेन स चापि यदि कदाचिद् भक्तः स्यात्, तदा तस्यापि त्रिपाद्-विभूतिर् एव स्थानम् इति भावः ।
एवं च त्रिपाद्-ऊर्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः [ऋक्।सं। १०.९०.४] इति श्रुत्य्-अर्थो विवृतः । स्मृतिश् च, यथा—
त्रिपाद्-विभूतेर् लोकास् तु असङ्ख्याः परिकीर्तिताः ।
शुद्ध-सत्त्व-मयाः सर्वे ब्रह्मानन्द-सुखाह्वयाः ॥
सर्वे नित्या निर्विकारा हेय-राग-विवर्जिताः ।
सर्वे हिरण्मयाः शुद्धाः कोटि-सूर्य-सम-प्रभाः ॥
सर्वे वेदमया दिव्याः काम-क्रोधादि-वर्जिताः ।
नारायण-पदाम्भोज-भक्त्य्-एक-रस-सेविनः ॥
निरन्तरं साम-गान-परिपूर्ण-सुखं श्रिताः ।
सर्वे पञ्चोपनिषद-स्वरूपया वेद-वर्चसः ॥ इत्य् आदि ॥
अत्र त्रिपाद्-विभूति-शब्देन प्रपञ्चातीत-लोकोऽभिधीयते । पाद-विभूति-शब्देन तु प्रपञ्च इति। यथोक्तं तत्रैव—
त्रिपाद्-व्याप्तिः परं धाम्नि पादोऽस्येहाभवत् पुनः ।
त्रिपाद्-विभूतेर् नित्यं स्यात् अनित्यं पादम् ऐश्वरम् ॥
नित्यं तद्-रूपम् ईशस्य परं धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनम् आश्रितम् ॥
नित्यं सम्भोगम् ईश्वर्या श्रिया भूम्या च संवृत्तम् ॥ इति ॥
इति सन्दर्भ-धृतं पाद्मोत्तर-खण्डम् । तत्र—त्रिमूर्धा महर्-लोकस् तस्य मूर्धसु जनस्-तपः-सत्येषु क्रमेण अमृतं क्षेमम् अभयं निहितं, त एव त्रयः पादाः ब्रह्मचारी-वानप्रस्थ-यतीनाम् आश्रमाः । महर्-लोकाद् अधस् त्रिलोक्यां गृहस्थो ब्रह्मचर्य-व्रत-रहितास् तिष्ठन्तीति स्वामि-चरणाः ॥२०॥
———————————————————————————————————————
॥ २.६.२१ ॥
सृती विचक्रमे विश्वङ् साशनानशने उभे ।
यद् अविद्या च विद्या च पुरुषस् तूभयाश्रयः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अयं चाधिकार-भेद एकस्यैवावस्था-भेदेन न त्व् अत्यन्त-भिन्न-विषय इति दर्शयन् ततो विष्वङ् इत्य् अस्यार्थम् आह । विविधं सुष्ठु अञ्चतीति20 विष्वङ् पुरुषः क्षेत्र-ज्ञः सृती मार्गौ दक्षिणोत्तरौ विचक्रमे चलति स्म । कथम्भूते सृती, साशनानशने21 भोगापवर्ग-प्राप्ति-साधन-भूते । अत्र हेतुत्वेन पुनर् विशेषणम् । यद्य् अतः अविद्या कर्म-रूपा एका । विद्या च तत्-साधनोपासना-रूपान्या ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र त्रिपाद्विभूतिरन्तरङ्गायाश्चिच्छक्तेर्विलास इति चिन्मय्यां तस्यामासक्त एव पादविभूतिस् तु बहिरङ्गाया मायाशक्तेर्विलास इति मायामय्यां तस्यामनासक्त एव परमेश्वरस्तां केवलमुपकरोतीत्य् आह–यस्मात्पुरुषादण्डं विराट् च जज्ञे । कीदृशः भूतेन्द्रियगुणात्मकः स पुरुष ईश्वरः तदण्डं द्रव्यं विराट् शरीरं चात्यगात तत्प्रविशन्प्रकाशयन्नपि तत्रानासक्तत्वादतिक्रम्यागात् गत्वा च स्वान्तरङ्गस्थाने त्रिपादविभूतावेव सदा स्थित इति भावः । तत्रानुरूपो दृष्टान्तः गोभिः किरणैर्विश्वमातपन्प्रकाशयन्सूर्य इव स्वमण्डले स्थितः ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत एवोभयथापि पुरुषश् चतुष्पाद् इत्य् आह । सृती ते प्रपञ्च-लक्षणे जीवस्य गती, विचक्रमे आकम्य स्थितः । कथम्-भुते ? साशनानशने कर्मादि-फल-भोग-तद्-अतिक्रम-युक्ते । तस्यैव तत् तदा क्रमेण हेतुः—यद् ययोः जीवस्य सृत्योः अविद्या मायैकेत्र, विद्या चिच्-छक्तिर् अन्यत्राश्रय इत्य् अर्थः । पुरुषोत्तमस् तु तयोर् द्वयोर् अप्य् आश्रयः । वक्ष्यते च, यस्माद् अण्डं विराड् जज्ञे [भा।पु। २.६.२२] इत्य्-आदिना । तस्मात् सर्वैश्वर्येणैकदेशैश्वर्येण च चतुष्पात्त्वम् इति भावः ॥२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उक्त-लक्षणेन एक-पाद-त्रि-पाद्-विभूतीर् जीव एव प्राप्नोतीत्य् आह । विश्वम् अञ्चतीति विश्वङ् जीवः । सृती एक-पाद-त्रि-पाद्-विभूत्योः पन्थानौ । विचक्रमे चलति, लड्-अर्थे लिट् । सृती कीदृशौ ? साशनानशने भोगापवर्ग-प्राप्ति-साधन-भूते । तत्र योगताम् आह । यत् यस्य जीवस्यैव अविद्या च विद्या च । अविद्या-दशायाम् एक-पाद-विभूतिं विद्या-दशायां त्रिपाद्-विभूतिं प्राप्नोति । किन्तु विद्याया उपरमे लब्धया एकया भक्त्यैव—भक्त्याहम् एकया ग्राह्यः [गीता ११.५५] इति भगवद्-उक्तेः । पुरुषः परमेश्वरस् तु उभयस्य । अविद्या विद्या-वृत्तिक-मायाया आश्रय इति सृति-द्वयं तत्-स्वामिकत्वात् तद्-अधीनम् एवेति भावः । एवं च “ततो विश्वङ् व्यक्रामत् साशनाशनशने उभे” इत्य् अस्यार्थो विवृतः ॥२१॥
———————————————————————————————————————
॥ २.६.२२ ॥
यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय-गुणात्मकः ।
तद् द्रव्यम् अत्यगाद् विश्वं गोभिः सूर्य इवातपन् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
तस्माद् धरेर् अण्डम् अभूद् अण्डाद् अपि चतुर्मुखः ।
स विराण् णामकस् तस्माद् अधिको हरिर् एव तु ॥२२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं विराड् अन्तर्वर्तिनां फल-वैचित्र्यम् उक्त्वा तत्-कारणेश्वरस्य तद्-वैलक्षण्यं दर्शयितुं तस्माद् विराड् अजायत (५) इत्य् अस्यार्थम् आह । यस्माद् अण्डं जज्ञे, तत्र च भूतेन्द्रिय-गुणात्मको विराट्22 च जज्ञे, स ईश्वरस् तद् विश्वं विराड् देहं द्रव्यम् अण्डं च अतिक्रान्तवान् । सूर्य इवेति पूर्वोक्त एव दृष्टान्तः ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्माद् इति । यस्मात् पूर्वोक्तात् पुरुषोत्तमात् ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र त्रिपाद्-विभूतिर् अन्तरङ्गायाश् चिच्-छक्तेर् विलास इति चिन्-मय्यां तस्याम् आसकत एव पद-विभूतिस् तु बहिरङ्गाया माया-शक्तेर् विलास इति माया-मय्यां तस्याम् अनासक्त एव परमेश्वरस् तां केवलम् उपकरोतीत्य् आह । यस्मात् पुरुषाद् अण्डं विराट् च जज्ञे । कीदृशः ? भूतेन्द्रिय-गुणात्मकः स पुरुष ईश्वरः, तद्-अण्डं द्रव्यम् । विराट्-शरीरं च अत्यगात् । तत् प्रविशन् प्रकाशयन्न् अपि तत्रानासक्तत्वाद् अतिक्रम्यागात् गत्वा च स्वान्तरङ्ग-स्थाने त्रिपाद्-विभूताव् एव सदा स्थितः इति भावः । तत्रानुरूपो दृष्टान्तः गोभिः किरणैर् विश्वम् आतपन् प्रकाशयन् सूर्य इव स्व-मण्डले स्थितः ॥२२॥
———————————————————————————————————————
॥ २.६.२३ ॥
यदास्य नाभ्यान् नलिनाद् अहम् आसं महात्मनः ।
नाविदं यज्ञ-सम्भारान् पुरुषावयवान् ऋते ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अण्डाज् जातस्य तस्यान्यद् रूपं पद्माद् अभूद् धरेः ।
यदोभयात्मको जज्ञे ब्रह्मा लोक-पितामहः ॥
तदैव सौतिरिक्तोऽभूत् सर्व-पूर्व-पराज् जनात् ।
त्रिलोक-स्थानगं विष्णु-मयजं च समाहितः ।
तद्-रूप-भूतांस् त्रींल् लोकान् पशून् कृत्वा महा-मनाः ॥ इति गारुडे ॥२३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् एवं पुरुष एव चेत् सर्वं तर्हि यज्ञस्य तत्-साधनानां चापृथग्भावाद् यज्ञैः पुरुषाराधनं न सिध्येद् इत्य् आशङ्क्य तत्-परिहाराय यत् पुरुषेण हविषा (६) इत्य् आदि-मन्त्रार्थं संगृह्य दर्शयति—यदेत्य् आदिना । अस्येति विराड्-अन्तर्यामिणः । तस्यैव प्रकृतत्वात् । नाभौ भवं नाभ्यं तस्मात् । यज्ञस्य संभारान् साधनानि नापश्यम् ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपतीत्थं पुरुष एव चेत्सर्वं तर्हि तदुपासकानां तत्पूजोपचारद्रव्याणां च ततः पृथक्त्वाभावात्तप्राप्तिसाधनं तत्परिचरणं कीदृगिति चेत्सत्यम् । तं विना वस्तुतो वस्त्वन्तराभावात्तस्य परिचरणस्यावश्यकत्वाच् च पार्थिवैर्गन्धपुष्पादिभिः पृथिव्या आराधनमिव तदात्मकैर् एव वस्तुभिस्तदाराधनं सिध्येदत्र तदाज्ञैव प्रमाणम् इति प्रदर्शयन्स्वं दृष्टान्तयति । यदास्येति ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अस्य गर्भोदकशायि-रूपस्य सतः । पुरुषावयवाद् ऋते इति तदानीं पश्व्-आद्य्-अनुत्पत्तेः ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् एवं पुरुष एव चेत् सर्वं, तर्हि तद्-उपासकानां तत्-पूजोपचार-द्रव्याणां च ततः पृथक्त्वाभावात् तत्-प्राप्ति-साधनं तत्-परिचरणं मम कीदृग् इति चेत् ? सत्यं, तं विना वस्तुतो वस्त्व्-अन्तराभावात् तस्य परिचरणस्यावश्यकत्वाच् च पार्थिवैर् गन्ध-पुष्पादिभिः पृथिव्या आराधनम् इव तद्-आत्मकिर् एव वस्तुभिस् तद्-आराधनं सिध्येत् । अत्र तद्-आज्ञैव प्रामाणम् इति प्रदर्शयन् स्वं दृष्टान्तयति यदास्य नाभ्यात् नाभिभवात् नलिनात् आसम् अभूवम् ॥२३॥
———————————————————————————————————————
॥ २.६.२४ ॥
तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः ।
इदं च देव-यजनं कालश् चोरु-गुणान्वितः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तदा तेषु सम्भारेषु साध्येषु सत्सु पुरुषावयवैर् एते संभाराः सम्भृताः इति चतुर्थेनान्वयः । वनस्पतयो यूपाः । देव-यजनं23 यज्ञ-भूमिः । इदं चेति वचनाद् यज्ञार्हे स्थाने उपविष्टः कथयतीति गम्यते । बहु-गुणान्वितो वसन्तादि-कालः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तेष्व् इति चतुर्षु ॥२४॥
———————————————————————————————————————
॥ २.६.२५ ॥
वस्तून्य् ओषधयः स्नेहा रस-लोह-मृदो जलम् ।
ऋचो यजूंषि सामानि चातुर्-होत्रं च सत्तम ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वस्तूनि पात्रादीनि । ओषधयो व्रीह्य्-आदयः । स्नेहा घृतादयः । रसा मधुरादयः । सुवर्णादीनि लोहानि । मृदश् च जलं च । चातुर्होत्रं होत्रादिकं कर्म ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **होत्रा चोद्गाता च ब्रह्मा च ऋत्विजश् च24 चतुर्होतारस् तेषां कर्म चातुर्होत्रम् ॥२५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वस्तूनि पात्रादीनि । ओषधयो व्रीह्य्-आदयः । स्नेहा घृतादयः । रसा मधुरादयः । सुवर्णादीनि लोहानि । चातुर्होत्रं होत्रादिकं कर्म ॥२५॥
———————————————————————————————————————
॥ २.६.२६ ॥
नाम-धेयानि मन्त्राश् च दक्षिणाश् च व्रतानि च ।
देवतानुक्रमः कल्पः सङ्कल्पस् तन्त्रम् एव च ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सूत्रं मीमांसा-सूत्रम् ॥२६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नामधेयानि ज्योतिष्टोमादीनि । ऋग्-आदीनाम् उक्तत्वान् मन्त्रा इति स्वाहा-कारादयः । देवतानाम् अनुक्रम उद्देशः । कल्पो बौधायनादि-कर्म-पद्धति-ग्रन्थः । अनेनाहं यक्ष्य इति संकल्पः । तन्त्रम् अनुष्ठान-प्रकारः ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सत्तमेति सत्पुरुषत्वात्तुभ्यम् इदं कथयामीति भावः ॥२४-२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नामधेयानि ज्योतिष्टोमादीनि । देवतानाम् अनुक्रम उद्देशः । कल्पो बौधायनादि-कर्म-पद्धति-ग्रन्थः । अनेनाहं यक्ष्य इति संकल्पः । तन्त्रम् अनुष्ठान-प्रकारः ॥२६॥
———————————————————————————————————————
॥ २.६.२७ ॥
गतयो मतयश् चैव प्रायश्चित्तं समर्पणम् ।
पुरुषावयवैर् एते सम्भाराः सम्भृता मया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गतयो विष्णु-क्रमाद्याः । मतयो देवत-ध्यानानि । कृतस्य भगवति समर्पणम् ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गतयो विष्णु-क्रमाद्याः । मतयो देवत-ध्यानानि । कृतस्य भगवति समर्पणम् ॥२७॥
———————————————————————————————————————
॥ २.६.२८ ॥
इति सम्भृत-सम्भारः पुरुषावयवैर् अहम् ।
तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्भृताः सम्पादिताः सम्भारा येन सोऽहम् । तेनैव यज्ञेनैव । अनेन यज्ञेन यज्ञम् अयजन्त (१६) इति मन्त्रार्थः सूचितः ॥२८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इति पूर्वोक्त-पश्व्-आदि-रूपेण सम्भृतः सम्भारो येन सोऽहम् । कैः पुरुषावयवैः ? तत्-तद्-यज्ञ-सम्भार-कारण-भूतेभ्यस् तेभ्य एवोपासितेभ्यस् तत्-तद्-रूपेणाविर्भवितैः ॥२८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यज्ञं यज्ञो वै विष्णुः इति श्रुतेः । एवं च—यत् पुरुषेण हविषा इत्य् आदि, यज्ञेन यज्ञम् अयजन्त (१६) इत्य् आदि मन्त्रार्थः सूचितः ॥२८॥
———————————————————————————————————————
॥ २.६.२९ ॥
ततस् ते भ्रातर इमे प्रजानां पतयो नव ।
अयजन् व्यक्तम् अव्यक्तं पुरुषं सु-समाहिताः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यस्मात् तम् एवायजन् तस्माद् इदं तस्मिन्न् आहितम् ।
नित्यं गृहीताः सत्त्वाद्या जीववज् जडवन् न तु ।
मिथ्या-मानात् स्वरूपत्वात् स्वातन्त्र्याद् बहिर् एव तु ॥ इति ब्रह्म-तर्के ॥२९-३०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेन देवा अयजन्त (७) इत्य् अस्यार्थं स-प्रपञ्चं दर्शयति—तत इति द्वाभ्याम् । व्यक्तम् इन्द्रादि-रूपेण । अव्यक्तं स्वतः । अनेन पुरुषं जातम् अग्रतः (७) इत्य् अस्यार्थो दर्शितः ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यज्ञं विष्णुम् । यज्ञो वै विष्णुः इति श्रुतेः । यत्पुरुषेण हविषा इत्यस्यार्थो ध्वनितः ॥२७-२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **व्यक्तम् इन्द्रादि-रूपेण । अव्यक्तं स्वतः । एवं च—तेन देवा अयजन्त (७), एवं पुरुषं जातम् अग्रतः (७) इत्य् अस्य चार्थो दर्शितः ॥२९॥
———————————————————————————————————————
॥ २.६.३० ॥
ततश् च मनवः काले ईजिरे ऋषयोऽपरे ।
पितरो विबुधा दैत्या मनुष्याः क्रतुभिर् विभुम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **काले स्व-स्वावसरे ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
॥ २.६.३१ ॥
नारायणे भगवति तद् इदं विश्वम् आहितम् ।
गृहीत-मायोरु-गुणः सर्गादाव् अगुणः स्वतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् अधिष्ठानं [भा।पु। २.५.२] इत्य् एतत् प्रश्नोत्तरार्थम् उपसंहरति—नारायण इति । आहितम् अधिष्ठितम् । भगवत्त्वे हेतुः—यः स्वतोऽगुणह् । सर्गादौ गृहीता मायया उरवो गुणा येन स तस्मिन् ॥३१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृहीता ब्रह्मादि-रूपेण गुणा येन ॥३०-३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायणे इति । स्वतो माया-गुण-स्पष्टोऽपि सर्गादौ कार्य-यादृच्छिक-दृष्टि-मात्रेण अनुगृहीत-मायोरु-गुणो यस् तस्मिन् भगवति माया-गुणातीत-षड्-गुणैश्वर्ये विश्वम् आहितं माययैवारोपितं तत्-सृष्टत्वेन प्रत्यायितम् इत्य् अर्थः ॥३१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यद् अधिष्ठानं [भा।पु। २.५.२] इत्य् एतत् प्रश्नोत्तरार्थम् उपसंहरति । आहितम् अधिष्ठितम् । सर्गादौ ब्रह्म-रुद्रादि-रूपेण गृहीता मायया उरवो गुणा येन सः, स्वतोऽगुण एव ॥३१॥
———————————————————————————————————————
॥ २.६.३२ ॥
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यत् परस् त्वं [भा।पु। २.५.४] इत्य् एतत् प्रश्नोत्तरं यद् उक्तं स एष भगवान् सर्वेषां मन चेश्वरः [भा।पु। २.५.२०] इति तद् उपसंहरति—सृजामि इति । पालनं तु स्वयम् एव करोतीत्य् आह—विश्वम् इति । पुरुष-रूपेण विष्णु-रूपेण । त्रि-शक्तिर् माया, तां धरतीति तथा सः ॥३२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ???
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मनो हरस्य च तन्-नियम्यत्वम् उक्त्वा विष्णोस् तु साक्षात् तद्-रूपत्वं दर्शयति—पुरुष-रूपेण इति । पुरुषः परमात्मा साक्षात्-तद्-रूपेणैव विष्णु-नामावतारेण त्रि-शक्ति-धृक् पुरुष एव परिपाति, न तु सर्ग-संहारयोर् इव तत्र तत्राविष्टांशेनेत्य् अर्थः ॥३२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्गादाव् इत्य् एतत् स्पष्टयन्, यत् परस् त्वं [भा।पु। २.५.४] इत्य् एतत् प्रश्नोत्तरम् उपसंहरति—सृजामि इति । हरस्य च तन्-नियम्यत्वेन रजस्-तमो-योग-हेतुकं ततः पार्थक्यम् उक्त्वा—विष्णोस् तु सत्त्व-गुण-युक्तत्वेऽपि शुद्ध-सत्त्वे सत्त्वस्य अपकारकत्वाभावेन औदासीन्य-रूपत्वेन च, वस्तुतस् तु अयोग एवेति निर्गुणत्वस्यैव फलितत्वात् साक्षाद् एव पुरुष-रूपत्वं दर्शयति । पुरुष-रूपेण पुरुषः परमात्मा त्रि-शक्ति-धृक् त्रिगुण-माया-शक्ति-धरः । अन्तरङ्ग-बहिरङ्ग-तटस्थ-शक्ति-धरो वा ॥३२॥
———————————————————————————————————————
॥ २.६.३३ ॥
इति तेऽभिहितं तात यथेदम् अनुपृच्छसि ।
नान्यद् भगवतः किञ्चिद् भाव्यं सद्-असद्-आत्मकम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
सद् इति व्यक्तम् उद्दिष्टम् असद् अव्यक्तम् उच्यते ।
गम्यागम्य-स्वरूपत्वात् तत्-सत्त्वादि हरेर् यतः ।
अतस् तस्माद् अन्यद् एव ह्य् अनन्यम् इति भण्यते ॥ इति च ॥३३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यच् चेदं विश्वं यद्-आत्मकश् च त्वम् इत्य् एवम् आदि-सर्व-प्रश्नानां25 सामान्योत्तरं, यद् उक्तं वासुदेवात् परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः [भा।पु। २.५.१४] इति पुरुष एवेदं सर्वम् इति श्रुत्या च यद् दृढीकृतं तद् उपसंहरति—इति इति । सद्-असद्-आत्मकं कार्य-कारणात्मकं भाव्यं सृज्यं भगवतः सकाशाद् अन्यत् पृथङ् न भवतीत्य् अभिहितम् ॥३३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रकरणम् उपसंहरति—इति इति । सद्-असद्-आत्मकं त्रिपाद्-एकपाद्-आत्मकं च भगवतः सकाशाद् अन्यत् त्वया न भाव्यं न चिन्तनीयम् ॥ हे तात ! इति तनोतीति । तात इति व्युत्पत्तेस् त्वयैतद् विस्तार्यम् इति भावः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रकरणम् उपसंहरति—इति इति । सद्-असद्-आत्मकं कार्य-करणात्मकं त्रिपाद्-एक-पादात्मकं च । भगवतः सकाशाद् अन्यत् त्वया न भाव्यं न चिन्तनीयम् ॥३३॥
———————————————————————————————————————
॥ २.६.३४ ॥
न भारती मेऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन् मे मनसो मृषा गतिः ।
न मे हृषीकाणि पतन्त्य् असत्-पथे
यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् उक्तम् एतावत् त्वं यतो हि मे, तम् अविज्ञाय माम् ईश्वरं प्रब्रवीषि [भा।पु। २.५.१०] इति तद् उपपाद्योपसंहरति—न भारती इति । यद् यस्मान् मे मया औत्कण्ठ्यं भक्त्य्-उद्रेकः, तद्-युक्तेन हृदा हरिर् धृतो ध्यातः । अङ्ग हे नारद ! अतो मे वाङ्-मन-इन्द्रियाणां वृत्तयः सत्यार्थाः, न तु मत्-प्रभावेणेत्य् अर्थः ॥३४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु त्वम् अमृत-क्षेमम् अभयं त्रिमूर्ध्नोऽधायि मूर्ध्नो [भा।पु। २.६.१८] इत्य्-आदिना त्रिगुणातीतायास् त्रिपाद्-विभूतेर् नित्यत्वं ब्रूषे तथा पाद-विभूतेस् त्रिगुणमय-प्रपञ्चस्यापि भगवतो विलज्जमानया इत्य्-आदेर् बहिर्-अङ्ग-माया-शक्ति-कार्यत्वेनानित्यत्वेऽप्य् अमिथ्यात्वम् एव प्रतिपादयसि । तथा मायिक-वस्तूनां च तद्-याग-साधनत्वेन सत्यत्वं व्यञ्जयसि । अन्ये शास्त्र-विदस् तु सर्वम् इदं मनोरथं विलसितत्वान् मिथ्यैव भगवतः खलु भगवत्त्वम् अपि तटस्थ-लक्षणत्वाद् अनित्यम् एव तद्-धान् नस् त्रिपाद्-विभूतेः का वार्ता ? इति व्याचक्षते । तत्राहं कुत्र विश्वसिमि ? त्वद्-वाचि तेषां वाचि वेत्य् अत आह–न भारती इति । ममेयं तुभ्यम् उक्ता वाक् न मृषा । तत्र हेतुः—न वा इति । सर्वत्र हेतुः औत्कण्ठ्य-युक्तेन मनसा मया हरिर् धृत इति । यत्र हरिस् तत्रैव सर्वं सत्यम् इति मद्-वाच्य् एव विश्वसिहि तैर् अन्यैः शास्त्र-विद्भिर् अपि हरिर् मनसा न धृतोऽतो मनसस् तस्य मृषैव गतिर् अतस् तेषां वाग् अपि मृषैव । मिथ्या-वादिनां तेषां मतम् अङ्गीकृता इति भावः । अत एव स्वामि-चरणैर् अपीत्य् अर्थ इत्य् अन्त व्याख्यातं । मत्-सामर्थ्यं मत्-प्रभाव-कृतं न किं तु हरि-प्रभाव-कृतम् इति भावः । हे अङ्ग ! इति । अतीव-प्रियत्वाद् एतद् गुह्यं मया प्रोक्तम् इति भावः । वाण्यनुगमनावसरे त्वौत्कण्ठ्यवता हृदा हरिर्न धृतस्तत एवेन्द्रियासत्-पथानुगमनं जातम् इति प्रतीयते, भगवद्-ध्यान-पूतेन मनसान्यांस् ततोऽसृजत् [भा।पु। २.५.१०] इति तत्रैव वक्ष्यमाणत्वात् ॥३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथा-भूतश् चासौ मम भक्त्य्-उद्रेकेणैव स्फुरतीत्य् आह न—भारती इति ॥३४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु त्वम् अमृतं क्षेमम् अभयं त्रि-मूर्ध्नोऽधायि मूर्धसु [भा।पु। २.६.१८] इत्य्-आदिना त्रिगुणातीतायास् त्रिपाद्-विभूतेर् नित्यत्वं ब्रूषे, तथा पाद-विभूतेस् त्रिगुणमय-प्रपञ्चस्यापि भगवतो, विलज्जमानया [भा।पु। २.५.१३] इत्य् आदेर् बहिरङ्ग-माया-शक्ति-कार्यत्वेनानित्यत्वेऽप्य् अमिथ्यात्वम् एव प्रतिपादयसि, तथा मायिक-वस्तूनां च तद् योग-साधनत्वेन सत्यत्वं व्यञ्जयसि, अन्ये शास्त्र-विदस् तु सर्वम् इदं मनो-विलसितत्वान् मिथ्यैव, भगवतः खलु भगवत्त्वम् अपि तटस्थ-लक्षणत्वाद् अनित्यम् एव, तद्-धाम्नस् त्रिपाद्-विभूतेः का वार्तेति व्याचक्ष्यते, तत्राहं कुत्र विश्वसिमि, त्वद्-वाचि तेषां वाचि वा? इत्य् अत आह—न भारती इति । मम इयं तुभ्यम् उक्ता वाक् न मृषा । तत्र हेतुः—न वै इति । सर्वत्र हेतुर् औत्कण्ठ्य-युक्तेन मनसा मया हरिर् धृत इति । यत्र हरिस् तत्रैव सर्वं सत्यम् इति मद्-वाच्य् एव विश्वसिहि । तैर् अन्यैः शास्त्र-विद्भिर् अपि हरिर् मनसा न धृतोऽतो मनसस् तस्य मृषैव गतिः । अतस् तेषां वाग् अपि मृषैवेति मिथ्या-वादिनां तेषां मतं माङ्गीकृथा इति भावः ॥३४॥
———————————————————————————————————————
॥ २.६.३५ ॥
**सोऽहं समाम्नाय-मयस् तपो-मयः **
प्रजापतीनाम् अभिवन्दितः पतिः ।
**आस्थाय योगं निपुणं समाहितस् **
तं नाध्यगच्छं यत आत्म-सम्भवः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
सर्व-जीव-निकायेषु ब्रह्म-वायु हरेर् विदौ ।
न चान्यस् तादृशो वेत्ता यावद् वेत्ति हरिः स्वयम् ।
तावत् ताव् अपि नो विष्णुं जानीतो लोक-वन्दितौ ॥ इति ब्रह्माण्डे ॥३५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत्र स्वानुभवम् एवान्वय-व्यतिरेकाभ्यां प्रमाणयति द्वाभ्याम् । सोऽहं समाम्नायादिभिः सर्वोत्कृष्टोऽपि योगम् आश्रित्यापि यत आत्मनो मम सम्भवो जन्म तम् एव न ज्ञातवान्, कृतोऽन्यस्य वार्ता । एतच् च तृतीय-स्कन्धे पद्मोद्भवे वक्ष्यते ॥३५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र वृत्ति-सत्यार्थत्वे नमनादिना ध्यानस्य सत्त्वे सत्यार्थ-सत्त्वम् अन्वयः । ध्यानाभावे सत्यार्थाभावोऽत्र व्यतिरेकः । एतच् च भगवज्-ज्ञानाभावाच् च ।
अत्र विश्वनाथः—ननु ते वयम् एव सर्व-वेद-शास्त्र-तात्पर्यं विद्वांसः परमेश्वर-स्वरूपं जानीमह इत्य् अभिमन्यन्ते तथैवान्यान् अपि युक्तया बोधयन्ति चेति तत्राह—सोऽहं पूर्व-श्लोकोक्त-लक्षणः सोत्कण्ठ-हृदय-दरी धृत-हरिर् अप्य् अहम् । समाम्नायमय इति । प्रथमम् आम्नाया ममैव मुखेभ्यो निःसूता येषाम् अर्थं मन्यतेऽद्यापि जिज्ञासं एवेति । तपोमय इति । स्पर्शेषु यत् षोडशम् एकविंशं निष्किञ्चनानां नृप यद् धनं विदुः [भा।पु। २.९.६] इति भगवद्-आदिष्टं तपः प्रथमं मयैव तप्तम् इति स्वस्य ज्ञान-विज्ञाने दर्शिते भगवद्-दत्तम् ऐश्वर्यं चाह—प्रजा इत्य्-आदिः । तथा योगेश्वरत्वम् अपि मम नास्तीति न वक्तव्यम् इत्य् आह—आस्थायेति । समाहित एकाग्रीकृतचित्तोऽपि तं भगवतं नाध्यगच्छं न ज्ञातवान् अस्मि तत्र हेतुर् यत आत्मनो मम सम्भवः सृष्टिरिति । हन्त हन्त मत्-सृष्ट-सृष्ट-सृष्टा अन्ये विज्ञनम् अन्यास् तं कथं जानीयुर् ये तु भगवत्त्वं तटस्थ-लक्षणं ब्रुवते ते त्व् अन्धा एवेति भावः ॥३४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे नारद ! भगवत्-स्थितं किं वाच्यम् ? यतः पुरुषाद् अहम् अभवम्, तम् एव नाज्ञासिषम् । अस्तु तावद् असौ भगवान् श्री-कृष्ण इत्य् आह—सोऽहम् इत्य्-आदि ॥३५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एतादृशीं भक्तिं विना तु पूर्वं मम नाना-साधनवतोऽपि नास्फुरद् इत्य् आह—सोऽहम् इति ॥३५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु ते वयम् एव सर्व-वेद-शास्त्र-तात्पर्यं विद्वांसः परमेश्वर-स्वरूपं जानीमह इत्य् अभिमन्यन्ते, तथैवान्यान् अपि युक्त्या बोधयन्ति चेति ? तत्राह—सोऽहं पूर्व-श्लोकोक्त-लक्षणः सोत्कण्ठ-हृदय-दरीधृत-हरिर् अप्य् अहम् । समाम्नाय-मय इति प्रथमम् आम्नाया ममैव मुख्येभ्यो निःसृताः, येषाम् अर्थम् अन्ये ते अन्यापि जिज्ञासन्त एवेति भावः । तपो-मय इति—
स्पर्शेषु यत् षोडशम् एकविंशं
निष्किं च, नानां नृप यद् धनं विदुः [भा।पु। २.९.६]
इति भगवद्-आदिष्टं तपः प्रथमं मयैव तप्तम् इति स्वस्य ज्ञान-विज्ञाने दर्शिते । भगवद्-दत्तम् ऐश्वर्यं चाह—प्रजेत्य् आदि । तथा योगेश्वरत्वम् अपि मम नास्तीति न वक्तव्यम् इत्य् आह—आस्थायेत्य् आदि । समाहित एकाग्रीकृत-चित्तोऽपि । तं भगवन्तं नाध्यगच्छं न ज्ञातवान् अस्मि । तत्र हेतुः—यतः आत्मनो मम सम्भवः सृष्टिर् इति । हन्त हन्त मत्-सृष्टा अन्ये विज्ञं-मन्यास् तं कथं जानीयुः । ये तु भगवत्त्वं तटस्थ-लक्षणं ब्रुवते, ते त्व् अन्धा एवेति भावः ॥३५॥
———————————————————————————————————————
॥ २.६.३६ ॥
नतोऽस्म्य् अहं तच्-चरणं समीयुषां
भवच्-छिदं स्वस्त्य्-अयनं सुमङ्गलम् ।
यो ह्य् आत्म-माया-विभवं स्म पर्यगाद्
यथा नभः स्वान्तम् अथापरे कुतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तदा समीयुषां शरणागतानां [भवच्-छिदं] संसार-निवर्तकं [सुमङ्गलं] मङ्गलावहं सुसेव्यं च तस्य चरणं नतोऽस्मि । ततोऽचिन्त्य-महिमत्वेन ज्ञातवान् अस्मीति कैमुत्य-न्यायेनाह—यो हीति । स्व-माया-विस्तारं यः स्वयम् अपि पर्यगात् । परि-शब्दो निषेधे । एतावान् इति न ज्ञातवान् इत्य् अर्थः । अपरे कुतो जानीयुः ? तस्य चरणं नतोऽस्मीति पूर्वेण सम्बन्धः ।
ननु सर्वज्ञः कथं न जानाति अन्ताभावात् ? इति दृष्टान्तेनाह । यथा स्वस्यान्तं नभो नाप्नोति, तद्वत् । न हि ख-पुष्पादर्शनं सार्वज्ञ्यं विहन्तीति भावः । तथा च वक्ष्यति—
द्युपतय एव ते न ययुर् अन्तम् अनन्ततया
त्वम् अपि यद् अन्तराण्ड-निचया ननु सावरणाः ॥ [भा।पु। १०.८७.४१]
इत्य्-आदि । श्रुतिश् च—योऽस्याध्यक्षः परमे व्योमन् सोऽङ्ग वेद यदि वा न वेद इति ॥३६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अहो अर्वाचीना वराका भगवत्त्वं वयं भ्रूमहे इति प्रलपन्ति यतो भगवानपि स्वयं स्वतत्त्वं वेदितुं न प्रभवतीति भत्तयुद्रेकेण तं प्रणमति—नत इति । समीयुषां भवच्छिदं संसारदुःखच्छेदकमित्यननुसंहितं फलं स्वस्त्ययनं स्वप्रेमसुखदायकमित्यनुसंहितम् । सुष्ठु मङ्गलं यस्मात्तं सुमङ्गलम् । अन्येषाम् अपि कर्मिज्ञानियोगिनां तद्भक्तिमिश्रत्वं विना माङ्गल्याभावाद् इति भावः। यो हि आत्ममायाविभवं स्वयोगविस्तार स्वयम् अपि पर्यगात् । परिशब्दो निषेधे एतावानिति न ज्ञातवानित्य् अर्थः । अपरेऽस्मदादयः कुतो जानीयुः । अत्राक्षिपति नन्विति । नमः कर्तृ इति भाव इति । खपुष्पसत्त्वे तदज्ञानं तु सर्वज्ञत्वनाशकमस्तीत्याशयः । स्वस्यापि स्वाज्ञाने प्रमाणमाह । श्रुतिश्चेति । यः परमेश्वरोऽस्य जीवस्याध्यक्षः साक्षी परमे व्योमन् तिष्ठन् अङ्गेति संबुद्धिर्नाचिकेतं प्रति वेदात्मानमेतावानहम् इति । तर्हि ज्ञानविषयत्वमागतम् इति चेद् आह यदवेति ॥३५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अतो नमस्कारादि-मय-तद्-भक्तिर् एव तस्मिन्न् उपयुक्ता, न तु ज्ञान-प्रयास इत्य् आह—नतोऽस्म्य् अहम् इति । यतः यो हीति । आत्म-मायाऽत्र स्वरूप-शक्तिः । नभो-दृष्टान्त-श्रुति-स्तव-श्रुतीनाम् उदाहृतानां तत्रैव स्वारस्य-लब्धेः । नभो-दृष्टान्तस् त्व् आपात-बोधनार्थ एव, वस्तुतस् तु तस्यापि परिच्छिन्नत्वात् ॥३६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अहो अर्वाचीना वराका भगवत्-तत्त्वं वयं ब्रूमहे इति प्रलपन्ति । यतो भगवान् अपि स्वयं स्व-तत्त्वं वेदितुं न प्रभवतीति भक्त्य्-उद्रेकेण तं प्रणमति—नत इति । समीयुषां शरणं गतानां भक्तानां, भवच्-छिदं संसार-दुःख-च्छदकम्, इत्य् अननुसंहितं फलम् । स्वस्त्ययनं स्व-प्रेम-सुख-दायकम् इत्य् अनुसंहितम् । सुमङ्गलं सुष्ठु मङ्गलं यस्मात् तम् । अन्येषाम् अपि कर्मि-ज्ञानि-योगिनां तद्-भक्ति-मिश्रत्वं विना माङ्गल्याभावाद् इति भावः । यो हि आत्मा-माया-विभवं स्व-योगमाया-विस्तारं स्वयम् अपि पर्यगात्, परिशब्दो निषेधे । एतावान् इति न ज्ञातवान् इत्य् अर्थः । अपरे अस्मद्-आदयः कुतो जानीयुः ।
ननु सर्व-ज्ञः कथं न जानाति ? अन्ताभावाद् इति दृष्टान्तेनाह । यथा स्वस्यान्तं नभः कर्तृ नाप्नोति तद्वत् । न हि ख-पुष्पादर्शनं सर्वज्ञत्वं निहन्तीति भावः । तथा च वक्ष्यति—
द्युपतय एव ते न ययुर् अन्तम् अनन्ततया
त्वम् अपि यद् अन्तराण्ड-निचया ननु सावरणाः [भा।पु। १०.८७.४१] इत्य्-आदि ।
श्रुतिश् च—योऽस्याध्यक्षः परमे व्योमन् सोऽङ्ग वेद यदि वा न वेद इति ॥३६॥
———————————————————————————————————————
॥ २.६.३७ ॥
नाहं26** न यूयं यद्-ऋतां गतिं विदुर्**
न वामदेवः किम् उतापरे सुराः ।
तन्-मायया मोहित-बुद्धयस् त्व् इदं
विनिर्मितं चात्म-समं विचक्ष्महे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति—नाहम् इति द्वाभ्याम् । वामदेवो रुद्रः । यस्य ऋतां गतिं परमार्थ-स्वरूपम् । किन्त्व् इदं प्रपञ्च-रूपं तस्य मायया विनिर्मितं विचक्ष्महे विद्मः । तद् अप्य् आत्म-समं स्व-ज्ञानानुरूपम् एव, न तु कृत्स्नम् । मोहित-बुद्धय इत्य् अयं तद्-अज्ञाने प्रपञ्च-ज्ञाने च हेतुः ॥३७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ऋतां गतिं त्रिपादेकपाद्विभूतिम् इति चक्रवर्ती ॥३६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र स-दैन्यम् आह—नाहम् इति । ऋतां गतिं श्री-वैकुण्ठम् । न विदुर् न विद्मः । आस्तां सा, तन्-मायया विनिर्मितम् इदं विश्वम् अप्य् आत्मोचितम् एव विचक्ष्महे । तत्र हेतुः—तन्-माययैव मोहित-बुद्धय इति ॥३७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत्र स-दैन्यम् आह—नाहम् इति द्वाभ्याम् । वामदेवो रुद्रः । यस्य ऋतां सत्यां गतिं त्रिपाद्-एकपाद्-विभूतिम् । न विदुर् न जानीमः । तत्र च तन्-मायया विनिर्मितम् एकपाद्-विभूति-रूपम् इदं तु विचक्ष्महे ब्रूमहे । तद् अप्य् आत्म-समं स्व-ज्ञानानुरूपम् एव, न तु कृत्स्नम् ॥३७॥
———————————————————————————————————————
॥ २.६.३८ ॥
यस्यावतार-कर्माणि गायन्ति ह्य् अस्मद्-आदयः ।
न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
स्वयम् एव स्वरूपाणि मत्स्य-कूर्मादिकान्य् अजः ।
स्वात्मनेवेच्छया सृष्ट्वा तैर् देवादीन् प्रयात्य् असौ ॥
संयछत्य् असुरान् विष्णुः कल्पे कल्पे जगत् प्रभुः ।
तिरोहितं स्वरूपं च पूर्व्कार्य् शाश्वतः ॥ इति भागवत-तन्त्रे ॥३८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु सर्वेऽपि तं वर्णयन्तो दृश्यन्ते तत्राह—यस्येति ॥३८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्विति । तत्त्वेन शक्तिस्वरूपाभ्यां याथार्थ्येन ॥३७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **किं च, न यम् इति । तत्त्वेन शक्ति-स्वरूपाभ्यां याथार्थ्येन ॥३८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्-कीर्तनादि-भक्तिस् तु तत्-स्वरूपाज्ञानेऽपि सम्भवतीति दर्शयन्न् आह—यस्येति । अतस् तस्यावतारांस् तत् कर्मानि च ब्रूमहे त्वं शृण्व् इति भावः ॥३८॥
———————————————————————————————————————
॥ २.६.३९ ॥
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्य् अजः ।
आत्मात्मन्य् आत्मनात्मानं स संयच्छति पाति च ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
ऋतं तद्-आत्मनाज्ञप्तेः सत्यं साधुत्वतः परम् ।
सम्यक्-संस्थम् अदूष्यत्वाच् छुद्धं दोषोज्झितत्वतः ॥
केवलं तादृश-भावात् प्रत्यग्-अन्तर्-अवस्थितेः ।
एतद् एतादृशं तत्त्वं यो वेद स विमुच्यते ॥ इति ब्रह्म-तर्के ॥३९-४०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अवतार-कर्माणि संक्षेपतो दर्शयति । स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्-आदि करोति । आत्मात्मन्य् आत्मनात्मानम् इति । कर्ता अधिकरणं साधनं कर्म च स्वयम् एवेत्य् अर्थः । पुरुषावतारः सृष्ट्य्-आदीनि च कर्माणीति संक्षेपोक्तिः ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कल्पेकल्पे प्रतिमहाकल्पारम्भे । इत्य् अर्थ इति । कर्ता ईश्वरः सृज्यं पाल्यं संहार्यं विश्वं तन्निमित्ता माया तदधिष्ठानं हरिर् एव सर्वं तथातथा भवतीति भावः ॥३८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र सर्व-विलक्षणां शक्तिं यत् किञ्चिल् लक्षयति—स एष इति ॥३९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आद्यं पुरुषावतारं तत्-कर्माणि च सङ्क्षेपेणाह । पुरुषः पुरुषावतारः । कल्पे कल्पे प्रति महा-कल्पारम्भे आत्मात्मन्य् आत्मनात्मानम् इति । कर्ता अधिकरणं साधनं, कर्म च स्वयम् एवेत्य् अर्थः ॥३९॥
———————————————————————————————————————
॥ २.६.४० ॥
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् ।
सत्यं पूर्णम् अनाद्य्-अन्तं निर्गुणं नित्यम् अद्वयम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न यं विदन्ति तत्त्वेन इत्य् उक्तं किं तत् तत्त्वम् ? इत्य् अपेक्षायाम् आह—ज्ञानं केवलं सत्यं तत्त्वम् । घटाद्य्-आकार-वृत्ति-ज्ञान-व्यवच्छेदार्थं27 विशेषणानि । विशुद्धं विषयाकार-शून्यम् । यतः प्रत्यक् सर्वान्तरम् । अत एव सम्यक् सन्देहादि-रहितम् । अवस्थितं स्थिरम् । यतो निर्गुणम् । गुण-कार्यं हि गुण-व्यतिकराच् चञ्चलं भवति । यद्यपि वृत्ति-ज्ञानम् अपि स्वरूप-ज्ञानम् एवेति न चाञ्चल्यादि-दोष-युक्तं तथाप्य् अन्तःकरण-वृत्ति-दोषैस् तथा तथा भवतीति व्यवच्छिद्यते । एभिर् एव विशेषणैः सत्यत्वम् अपि समर्थितम् । किं च, यद् विकारवत् तद् असत्यं दृष्टं, न चास्य जन्मादयः षड्-विकाराः सन्तीत्य् आह । अनाद्य्-अन्तं जन्म-नाश-रहितम् । अत एव जन्मानन्तरास्तित्व-लक्षणोऽपि विकारो नास्ति । वृद्धि-विपरिणामापक्षयाश् च न सन्ति । यतः पूर्णम् । सर्वत्र हेतुः—नित्यम् अद्वयं नित्यं सर्वदा द्वैत-प्रतीति-समयेऽपि परमार्थतोऽद्वयम् इति ॥४०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत एव सर्वान्तरत्वाद् एव । अत एव जन्मनाशरहितत्वाद् एव । अत्र सन्दर्भः । पुनश् च सर्वविलक्षणां शक्तिं लक्षयितुं तस्यैकस्यैव युगपत्कर्तृत्वादिकं योजयन्स्वरूपम् अपि तथैव लक्षयति । विशुद्धमिति—युग्मकम् । तत्र ज्ञानम् इति विशेष्यं तच्च सुखस्वरूपम् एव विज्ञानमानन्दब्रह्म इति श्रुतेः । तस्य जीवस्वरूपविलक्षणताज्ञापकानि विशेषणान्याह—विशुद्धं केवलं विशेषेण शुद्धम् एव नत्वाविद्यकमित्य् अर्थः । अयमात्मापहतपाप्मा इतिश्रुतेः । यतः प्रत्यक् सर्वतोऽप्यान्तरं यः पृथिव्यां तिष्ठन् इत्यारभ्य य आत्मानमन्तरो यमयति इति श्रुतेः । अतः सम्यग्क्षुभिततरैवासमन्ताद्व्याप्य स्थितं न त्वावृतविक्षिप्तं न वायुपरिमाणमित्य् अर्थः । एको देवः इत्य्-आदिश्रुतेः । किं च, । सत्यं सर्वसत्ताप्रदस्वरूपत्वासत्यपदार्थानां मुख्यं न तु तदितरदित्य् अर्थः । सत्यं चामृतञ्च सत्यमेवा भवत् इति श्रुतेः । पूर्णं भगवत्तया संभृतं न तु तया हीनमित्य् अर्थः । अतः एवानाद्यनन्तस्वरूपवैभवं निर्गता गुणेभ्यः सत्त्वादिभ्यो गुणा ऐश्वर्यादयः षट् यस्य तादृशं च मध्यमपदलोपी बहुव्रीहिः । न तस्य कार्यं करणं च विद्यते इत्य्-आदि श्रुतेः । अनेन तादृशस्वरूपवत्त्वं चायातम् । न संदृशे तिष्ठति रूपमस्य यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनु स्वाम् इति श्रुतेः । सर्वसत्ताप्रदस्वरूपत्वान्नित्यमेवाद्वयं पृथग्वस्तुरहितत्वाद्भयरहितं चेत्यर्थः । एकमेवाद्वयं ब्रह्म द्वैताद्वै भयं भवति इति श्रुतेः । तदेवं सर्वेषां तन्मूलत्वेप्यस्ति भिन्नं स्वरूपवैलक्षण्यमन्यथा न यं विदन्ति तत्त्वेनेति विशेषोक्तिर्व्ययर्थी स्यात् अन्यपक्षपातितानामवेद्यत्वे हेतुमाह—प्रशान्ता भगवन्निष्ठा आत्मादयो येषां त एव तद्विदन्ति असत्तर्कैः । योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः इति वक्ष्यमाणतृतीयगतमदुक्तदिशा तादृशतद्रूपादिकुतर्कैश् च विप्लुतं सद्य तिरोधीयेत्तेति तदेवमनेन पद्यचतुष्केण तादृशस्वरूप एव भगवांस्तादृशशक्त्या तद्रूपः सन्नवतारादिकं करोति तत्र तत्तज्ञास्तत्तद्गायन्तोऽपि न सुखं प्राप्नुवन्ति यतस्तत्तद्विज्ञाने चाधिकृत्य परिनिष्ठितोऽपि नैर्गुण्ये इत्य्-आदिकं बहुतरं गीयत इति व्यञ्जितम् । विश्वनाथस्तु—ननु न यं विदन्ति तत्त्वेन इति भगवन्तं युष्मदादयो न विदन्ति किंतु तस्य यन्निविशेषस्वरूपं श्रूयते तद्विदन्ति न वेति जिज्ञासायामाह—विशुद्धम् इति । तत्र ज्ञानम् इति विशेष्यं तच्च सुखरूपमेवं विज्ञानमानन्दं ब्रह्म इति श्रुतेः । केवलमद्वितीयमत एवोपाध्यभावाद्विशुद्धं तत एव सर्वान्तरत्वात्प्रत्यक् तदपि समन्ताद्वयाप्यैव स्थितत्वात्सम्यगवस्थितं, व्याप्तिर् अपि सर्वत्र सत्तारूपेणैवेति सत्यं, तारतम्याभावात्पूर्णं, जन्मादिविकाराभावादनाद्यनन्त, सत्त्वादिगुणसंसर्गाभावान्निर्गुणं, सर्वकालमेकरूपतयैव स्थायित्वान्नित्यं, द्वितीयाभावादद्वयम् । ऋषे हे नारदेति । एतादृग्ज्ञानवत एवर्षित्वं भवतीति भावः । मुनयो मननशीला यदा प्रशान्तात्मेन्द्रियाशया भवन्ति तदा तद्विदन्ति अन्यथासत्तकैर्विप्लुतं तद् एव वस्तु तिरोधीयेत एतेन तस्य निर्विशेषस्वरूपं यद्ब्रह्म तत्कथञ्चिदपि ज्ञातुं शक्यं न तु सविशेषस्वरूपमित्य्-उक्तम् । एवम् एव विबोद्धुमर्हत्यमलान्तरात्मभिः इत्य्-आदिना दशमस्कन्धेऽपि वक्ष्यते इति ॥३९-४०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुनश् च प्रकारान्तरेण ताम् एव तथा लक्षयितुं तस्यैकस्यैव युगपत्-कर्तृत्वादिकं योजयन् स्वरूपम् अपि तथैव लक्षयति—विशुद्धम् इति युग्मकम् । तत्र ज्ञानम् इति विशेष्यम्, तच् च सुख-स्वरूपम् एव । विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुतेः । तस्य जीव-स्वरूप-विलक्षणता-ज्ञापकानि विशेषणान्य् आह—विशुद्धं केवलं विशेषणेन शुद्धम् एव, न त्व् अविद्या-विद्धम् इत्य् अर्थः । अयम् आत्मापहत-पाप्मा [छा।उ। ८.७.१] इति श्रुतेः । यतः प्रत्यक् सर्वतोऽप्य् अन्तरम् । यः पृथिव्यां तिष्ठन् [बृ।आ।उ। ३.७.३] इत्य् आरभ्य, य आत्मानम् अन्तरो यमयतीति श्रुतेः । अतः सम्यग् अक्षुभिततयैव आ समन्ताद् व्याप्य स्थितम्, न त्व् आवृत-विक्षिप्तम्, न चाणु-परिमाणम् इत्य् अर्थः । एको देवः [श्वे।उ। ६.११] इत्य् आदि श्रुतेः ।
किं च, सत्यं सर्व-सत्ता-प्रद-स्वरूपत्वात् सत्य-पदार्थानां मुख्यम्, न तु तद् इतरम् इत्य् अर्थः । सत्यं चानृतं च सत्यम् एवाभवत् [तै।उ। २.६.२] इति श्रुतेः । पूर्णं भगवत्तया संभृतं, न तु तया हीनम् इत्य् अर्थः । अत एवानाद्य्-अनन्त-स्वरूप-वैभवम् । निर्गता गुणेभ्यः सत्त्वादिभ्यो गुणा ऐश्वर्यादयः षट् यस्य तादृशं च । मुख्य-पद-लोपी बहु-व्रीहिः । न तस्य कार्यं करणं च विद्यते [श्वे।उ। ६.८] इत्य् आदि श्रुतेः । अनेन तादृश-रूपवत्त्वं चायातम् । न सन्दृशे तिष्ठति रूपम् अस्य [कठ।उ। २.३.९, श्वे।उ। ४.२०], यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वां [कठ।उ। १.२.२३] इति श्रुतेः । सर्व-सत्ता-प्रद-स्वरूपत्वान् नित्यम् एवाद्वयम् । पृथग्-वस्तु-रहितत्वाद् भय-रहितं चेत्य् अर्थः । एकम् एवाद्वयं ब्रह्म [गो।ता।उ। २.५५], द्वितीयाद् वै भयं भवति [बृ।आ।उ। १.४.२] इति श्रुतेः । तद् एवं सर्वेषां तन्-मूलत्वेऽप्य् अस्ति भिन्नं स्वरूप-वैलक्षण्यम् । अन्यथा, न यं विदन्ति तत्त्वेन [भा।पु। २.६.३८] इति विशेषोक्तिर् व्यर्थी स्यात्॥४०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु, न यं विदन्ति तत्त्वेन [भा।पु। २.६.३८] इति भगवन्तं युष्मद्-आदयो न विदन्ति, किं तु तस्य यन् निर्विशेष-स्वरूपं श्रूयते, तद् विदन्ति न वा ? इति जिज्ञासायाम् आह—विशुद्धम् इति । तत्र ज्ञानम् इति विशेष्यं तच् च सुख-रूपम् एव । विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुतेः । ज्ञानं च जानातेः कर्तृ-कर्म-करणाभावात् केवलम् । अत एव उपाध्य्-अभावाद् विशुद्धम् । तत एव सर्वान्तरत्वात् प्रत्यक् । तद् अपि समन्ताद् व्याप्यैव स्थितत्वात् सम्यग्-अवस्थितम् । व्याप्तेर् अपि सर्वत्र सत्ता-रूपेणैवेति सत्यं, तारतम्याभावात् पूर्णम् । जन्मादि-विकाराभावाद् अनाद्य्-अन्तम् । सत्त्वादि-गुण-संसर्गाभावान् निर्गुणम् । सर्व-कालम् एकरूपतयैव स्थायित्वन् नित्यम् । द्वितीयाभावाद् अद्वयम् ॥४०॥
———————————————————————————————————————
॥ २.६.४१ ॥
ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।
यदा तद् एवासत्-तर्कैस् तिरोधीयेत विप्लुतम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत्र विद्वद्-अनुभवं प्रमाणयति । हे ऋसे नारद ! प्रशान्तात्मेन्द्रियाशयाः प्रसन्न-देहेन्द्रिय-मनसो यदा भवन्ति तदा विदन्ति । अन्यदा तद्-अज्ञाने कारणम् आह । यदा तद् एव प्रकाशमानम् एवासतां तर्कैर् विप्लुतं28 स्यात् तदा तिरोधीयेतेति ॥४१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अन्य-पक्ष-पातितानाम् अवेद्यत्वे हेतुम् आह—प्रशान्ता भगवन्-निष्ठा आत्मादयो येषाम्, त एव तद् विदन्ति । असत्-तर्कैः, योऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः [भा।पु। ३.९.४] इति वक्ष्यमाण-तृतीय-स्कन्ध—गत-मद्-उक्त-दिशा तादृश-तद्-रूपादि-कुतर्कैस् तु विप्लुतं सत् यत् तिरोधीयत इति । तद् एवम् अनेन पद्य-चतुष्केण तादृश-स्वरूप एव भगवांस् तादृश-स्वरूप-शक्त्या तद्-रूपः सन्न् अवतारादिकं करोति । तत्र तत्-तद्-अज्ञास् तत्-तद्-गायन्तोऽपि न सुखं प्राप्नुवन्ति । यतस् तत्-तद्-विज्ञाने चाधिकृत्य, परिनिष्ठितोऽपि नैर्गुण्ये इत्य् आदिकं बहुतरं गीयत इति व्यञ्जितम् ॥४१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऋषे ! हे नारद ! मुनयो मनन-शीलाः । यदा प्रशान्तात्मेन्द्रियाशया भवन्ति, तदा तद् विदन्ति । अन्यथा असत्-तर्कैर् विप्लुतम् । तद् एव वस्तु तिरोधीयते । एतेन तस्य निर्विशेषं स्वरूपं तद् ब्रह्म । तत् कथञ्चिद् अपि ज्ञातुं शक्यम्, न तु स-विशेष-स्वरूपम् इत्य् उक्तम् । एवम् एव विबोद्धुम् अर्हत्य् अमलान्तरात्मभिः [भा।पु। १०.१४.६] इत्य्-आदिना दशम-स्कन्धेऽपि वक्ष्यते ॥४१॥
———————————————————————————————————————
॥ २.६.४२ ॥
आद्योऽवतारः पुरुषः परस्य
कालः स्वभावः सद्-असन्-मनश् च ।
द्रव्यं विकारो गुण इन्द्रियाणि
विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अवतारान् विस्तरेणाह29—आद्य इत्य्-आदि यावद् अध्याय-समाप्ति । परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः । यस्य सहस्र-शीर्षा इत्य् उक्तो लीला-विग्रहः, स आद्योऽवतारः । वक्ष्यति हि—
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानं
अवाप नारायण आदि-देवः॥ [भा।पु। ११.४.३]
यथोक्तम्—
विष्णोस्30 तु त्रीणि रूपाणि पुरुषाख्यान्यतो विदुः ।
प्रथमं महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् ।
तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ इति ।
यद्यपि सर्वेषाम् अविशेषेणावतारत्वम् उच्यते, तथापि कालश् च स्वभावश् च सद्-असद् इति कार्य-कारणात्मिका प्रकृतिश् च एताः शक्तयः, मन-आदीनि कार्याणि, ब्रह्मादयो गुणावताराह्, दक्षादयो विभूतय इति विवेक्तव्यम् । मनो महत् तत्त्वम् । द्रव्यं महा-भूतानि । क्रमोऽत्र न विवक्षितः । विकारोऽहंकारः । गुणः सत्त्वादिः । विराट् समष्टि-शरीरम् । स्वराट् वैराजः । स्थास्नु स्थावरम् । चरिष्णु जङ्गमं च व्यष्टि-शरीरम् ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पूर्वार्थम् एव स्पष्टयति—आद्योऽवतार इत्य्-आदिना । परस्य भूम्नः स्वरूपेण शक्त्या च सर्वातिशायिनोऽवतारः प्राकृत-वैभवे स्वेच्छयाविर्भावः ॥४२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स एष आद्यः पुरुषः [भा।पु। २.६.३८] इत्य् एकेन श्लोकेनोक्तं पुरुषावतारं तत् कर्म च विवृणोति सार्धैश् चतुर्भिः । परस्य पर-व्योमाधिनाथस्य भगवतः । आद्यः प्रथमोऽवतारः । पुरुषः प्रकृतीक्षण-कर्ता कारार्णव-शायी । जगृहे पौरुषं रूपं भगवान् [भा।पु। १.३.१] इति प्रथमोक्तेः । काल-स्वभावादयश् च तस्य कर्मोच्यते, कल्पे कल्पे सृजत्य् अजः । आत्मात्मन्य् आत्मनात्मानम् इत्य् उक्तेः । स एकोऽपि माया-शक्त्या नाना भवेद् इत्य् अर्थः । सद्-असत् कार्य-कारणात्मकं सर्वं विश्वम् एव । तद् एव विवृणोति—मन इत्य् आदि। क्रमोऽत्र न विवक्षितः । द्रव्यं महा-भूतानि । विकारोऽहङ्कारः । गुणः सत्त्वादिः । विराट् समष्टि-शरीरं पातालादि । स्वराट् समष्टि-जीवो हिरण्यगर्भः । स्थास्नु स्थावरम् । चरिष्णु जङ्गमं व्यष्टि-शरीरम् । भूम्नः परमेश्वरस्य सम्बन्धि ॥४२॥
———————————————————————————————————————
॥ २.६.४३ ॥
अहं भवो यज्ञ इमे प्रजेशा
दक्षादयो ये भवद्-आदयश् च ।
स्वर्लोक-पालाः खग-लोक-पाला31
नृलोक-पालास् तललोक-पालाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहं ब्रह्मा । भवो रुद्रः । यज्ञो विष्णुः । दक्षादयो य इमे प्रजेशाः । [भवद्-आदयश् च नैष्ठिकाः], तललोक-पालाः पातालाधिपतयः ॥४३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स एष आद्य पुरुषः इत्येकेन इलोकेनोक्तं पुरुषावतारं तत्कर्म च विवृणोति सार्धेः चतुर्भिः। परस्य परव्योमाधिनाथस्य भगवत आद्यः प्रथमोऽक्तारः पुरुषः प्रकृतीक्षणकर्ता कारणार्णवशायी । जगृहे पौरुषं रूपं भगवान् इति प्रथमोक्तेः । कालस्वभावादयश् च तस्य कर्मोच्यते । कल्पे कल्पे मृजत्यजः । आत्मात्मन्यात्मनात्मानम् । इत्य्-उक्तेः । स एकोऽपि मायाशक्त्या नाना भवेदित्य् अर्थः । सदसत्कार्यकारणात्मकं सर्वं विश्वम् एव तद् एव विवृणोति मन इत्य्-आदि । क्रमोऽत्र न विवक्षितः ॥४१-४३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कालादयश् च परम् एव तत्त्वम् इति सार्धैश् चतुर्भिर् अन्वयः । यज्ञस्य विष्णोः साक्षाद् अवतारत्वेन ब्रह्म-भवयोर् आवेशावतारत्वेनान्येषां शक्ति-तत्-कार्य-रूपत्वेन तद्-अनन्यत्वम् इत्य् अर्थः ॥४३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथाहं ब्रह्मा । तद्-आदयस् त्रयो गुणावताराः । खं भुवर्-लोकस् तद्-गत-लोक-पालाः । तल-लोक-पालाः पातालाधिपतयः ॥४३॥
———————————————————————————————————————
॥ २.६.४४ ॥
गन्धर्व-विद्याधर-चारणेशा
ये यक्ष-रक्षोरग-नाग-नाथाः ।
ये वा ऋषीणाम् ऋषभाः पितॄणां
दैत्येन्द्र32-सिद्धेश्वर-दानवेन्द्राः ।
अन्ये च ये प्रेत-पिशाच33-भूत-
कूष्माण्ड-यादो-मृग-पक्ष्य्-अधीशाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गन्धर्वादीनाम् ईशाः । यक्षादीनां नाथाः । रक्षोरगेति सन्धिर् आर्षः । ऋषीणां पितॄणां च श्रेष्ठाः । प्रेतादीनाम् अधीशाः ॥४४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **रूपवत्साकारमस्मदादिपरम् अरूपवनिराकारं कालादिकं चेति द्विविधं भगवद्रूपम् अपि अस्वरूपं न भगवतः स्वरूपं तस्य स्वरूपशक्तिविलासत्वाभावादित्य् अर्थः । एवं कालादीनां पुरुषावतारस्य कर्मरूपत्वेऽपि ते शक्तयः ब्रह्मादयो गुणावताराः प्रजापत्यादयो विभूतयोन्ये केचिज्ज्ञानिनो योगिनः कर्मिणो मूढाश् च स्थावरजङ्गमाश् च सर्वे पुरुषावतारस्य सृष्ट्यादिलीलापरिकरा ज्ञेया इति **विश्वनाथः **। परस्य भूम्नः स्वरूपेण शक्त्या सर्वातिशायिनः अवतारः प्राकृतवैभवे स्वेच्छयाविर्भावः कालादयः परम् एव तस्वम् इति सार्द्धैश्चतुर्भिरन्वयः । यज्ञस्य साक्षादवतारत्वेन ब्रह्मभवयोरावेशावतारत्वेनान्येषां शक्तितत्कार्यरूपत्वेन तदवतारतारत्वम् इति सन्दर्भः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रक्षोरगेति सन्धिर् आर्षः ॥४४॥
———————————————————————————————————————
॥ २.६.४५ ॥
यत् किं च लोके भगवन् महस्वद्
ओजः-सहस्वद् बलवत् क्षमावत् ।
श्री-ह्री-विभूत्य्-आत्मवद् अद्भुतार्णं
तत्त्वं परं रूपवद् अस्व-रूपम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
यः शेते प्रलये विष्णुः शून्य-नामा महाकृतिः ।
स तु नारायणो नाम नराणाम् अयन त्व् अतः ॥
रूपं द्वितीयं भवति दीपाद् दीपान्तरं यथा ।
सिसृक्षोस् तस्य पुरुष इत्य् आहुस् तद्-विदो जनाः ॥
सरमाया द्वितीये तु रूपे प्रकृति-संज्ञिते ।
वीर्यम् आधत्त पुरुषो महांस् तस्माद् अजायत ॥
योऽसौ हिरण्यगर्भाख्यः पुरुषः सोऽपि भण्यते ।
श्रद्धेत्य् उक्ता तु तत्-पत्नी सापि प्रकृतिर् उच्यते ॥
प्रलये त्व् अशरीरौ तौ विभासेन व्यवस्थितौ ।
शरीरं प्राप्य पुरुषात् संयोगं तौ प्रचक्रतुः ॥
ततः पुनर् महत्-तत्त्वं प्रजातं जगद्-अङ्कुरम् ।
स्वस्यैव पुत्रतां यातम् अहङ्कारस् ततोऽजनि ॥ इति व्योम-संहितायाम् ।
पुरुषस् तस्यैवाद्यावतारः कालादयो रूपवत् ।
अस्वरूपम् अपि प्रियत्वात् पुरुषाद्या हरे रूपं
ब्रह्माद्यास् तत्-प्रियाः स्मृताः ।
स्वरूप-भूता नैवैते तत्-सन्निधि-युता अपि ॥ इति पाद्मे ।
कालो वस्तु स्वभावश् च प्रकृतिः प्राण एव च ।
मनश् च पञ्च-भूतानि विकारस् त्रिगुणा अपि ।
न स्वरूपं हरेर् एतत् तथाप्य् एषु हरिः स्थितः ॥ इति ब्राह्मे ।
सत्-प्राणः सद् इति प्राण इति श्रुतेः ।
द्रव्यस् तु पञ्च-भूतानि विकारोऽम् उदाहृतम् ।
विराजं गरुडं प्राहुः स्वराड् इन्द्र उदाहृतः ॥ इति षाड्गुण्ये ।
सर्वं तु रूपवद् विष्णोर् विशेषेण विभूतिमत् ।
अतिप्रियतान् नैवैतत् स्वरूपम् अपि भण्यते ॥ इति स्कान्दे ।
स्वतो महत्त्वं तु महो विशेष-प्राप्ति-शक्तिता ।
विभूतिर् लक्षणोन्नाहो लक्ष्मी-शब्देन भण्यते ॥ इति ब्रह्म-तर्के ।
प्रधानत्वेन सर्वस्मान् मत्स्य-कूर्मादयो हरेः ।
अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः ॥
न स्वरूपं तु ब्रह्माद्याः स्मृता माया-विभूतयः ।
स्वेच्छयैषां विशिष्टत्वं कुरुते तत् तथा स्मृतः ॥ इति व्योम-संहितायाम् ।
यज्ञ-शब्दोदितौ द्वौ तु देवौ लोक-पुरस्कृतौ ।
एको नारायणस् तत्र रुद्र-च्छिन्नस् तथापरः ॥
स तु यज्ञाभिमानी स्यात् तत्-पतिः केशवः स्मृतः ॥ इति पाद्मे ॥४१-४५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं बहुना, यत् किंचिद् भगवद्-आदि तत् सर्वं परम् एव तत्त्वम् इत्य् अन्वयः । भगवद् ऐश्वर्य-युक्तम्, महस्वत् तेजो-युक्तम् । ओजः-सहसी इन्द्रिय-मनः-शक्ती तद्-युक्तम् । बलं दाक्ष्यम् । श्रीः शोभा, ह्रीर् अकर्म-जुगुप्सा, विभूतिः संपत्तिः, आत्मा बुद्धिस् तद्-युक्तम् । अर्णो वर्णः । अद्भुतार्णम् आश्चर्य-वर्णम् इत्य् अर्थः । रूपम् एव स्वरूपम्, रूपवद् अस्वरूपं च यत् तत् सर्वं परं तत्त्वं तद्-विभूतिर् इत्य् अर्थः ॥४५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सुपेशश्शब्दे सलोपश्चार्ष इत्य् अर्थः । केचित् तु ललोपमार्षमाहुस्तन्मते सुपेशलशब्दोस्तीत्य् अर्थः । हे ऋष इति । तवर्षित्वसम्पादनायैव तुभ्यं वदामि त्रिकालज्ञस्यैवर्षिशब्दवाच्यत्वप्रसिद्धेरिति भावः । इत्य् अर्थ इति । पा पाने इत्यस्मात्कर्मणि लोट् सम्भवत्वादन्यदप्याह । यद् वेति । पीङ् पाने इति दैवादिकाच्छतृप्रत्यय आर्ष इत्य् अर्थ इत्यस्यायं भावः । सन्दर्भः किं बहुना एतदर्थमेवास्य महापुराणस्याविर्भाव इति । भवतानुदितप्रायं यशो भगवतोमलम् इत्यादौ समाधिनानुस्मर तद्विचेष्टितम् इत्यादौ च दर्शितम् । सा च भगवतो लीला द्विविधा सृष्ट्यादिरूपा लीला विनोदरूपा च तयोर् उत्तरा तु प्रशस्ततरेत्याशयेनाह । प्राधान्यतो यानृष इति । यद्यपि पूर्वम् आद्योवतारः पुरुषः परस्य इत्य्-आदिग्रन्थेन पुरुषं कालादितच्छक्तिं मनआदि तत्कार्यं ब्रह्मादि तद्गुणावतारान् दक्षादितद्विभूतीश्चोक्तवानस्मि तेन च मृष्ट्यादिलीलास्तथापि यान् हे ऋषे पुरुषस्य भूम्नो लीलावतारान् प्राधान्येनामनन्ति तानेव ते इमान्मम हृदयाधिरूढान् कर्णकषायशोषान् तदितरश्रवणरागहन्तृन् किं च, सुपेशान् परममनोहरान् अनुक्रमिष्ये तदनुक्रमणं सम्यक्पीयताम् ॥४५॥
इति श्री-भागवतभावार्थदीपिकाप्रकाशे द्वितीय-स्कन्धे षष्ठोऽध्यायः ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यज्ञस्य विष्णोः साक्षाद् अवतारत्वेन ब्रह्म-भवयोर् आवेशावतारत्वेनान्येषां शक्ति-तत्-कार्य-रूपत्वेन तद्-अनन्यत्वम् इत्य् अर्थः ॥४५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं बहुना, यत् किंचिद् भगवद्-आदि । भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्क-कीर्तिषु इत्य् अमरः । महस्वत् तेजो-युक्तम् । ओजः-सहो-बलानीन्द्रिय-मनः-शरीर-पाटवानि । ह्रीर् अकर्म-जुगुप्सा । आत्मा बुद्धिः । अद्भुतार्णम् आश्चर्य-वर्णम् । तत् सर्वं तत्त्वम् । रूपवत् साकारम् अस्मद्-आदिकम् । परम् अरूपवद् निराकारम् । कालदिकं चेति द्विविधं—भगवद्-रूपम् अप्य् अस्वरूपं न भूतः स्वरूपं तस्य स्वरूप-शक्ति-विलासत्वाभावाद् इत्य् अर्थः । एवं च कालादीनां पुरुषावतारस्य कर्म-रूपत्वेऽपि ते शक्तयो ब्रह्मादयो गुणावताराः, प्रजापत्य्-आदयो विभूतयः, अन्ये केचिज् ज्ञानिनो योगिनः कर्मिणो मूढाश् च स्थावर-जङ्गमाश् च सर्वे पुरुषावतारस्य सृष्ट्य्-आदि-लीला-परिकरा ज्ञेयाः ॥४५॥
———————————————————————————————————————
॥ २.६.४६ ॥
प्राधान्यतो यान् ऋष आमनन्ति
लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्ण-कषाय-शोषान्
अनुक्रमिष्ये त इमान् सुपेशान्34** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शुद्ध-सत्त्वावतारान् वक्तुम् आह—प्राधान्यत इति । असत्-कथा-श्रवणैर् ये कर्णयोः कषाया मलास् तान् शोषयन्तीति तथा तान् । सुपेशान् सुन्दरान् । स-कारलोपश् चार्षः35 । हे ऋसे, ते तुभ्यम् अनुक्रमिष्ये, तद् अनुक्रमेणावृतं त्वया पीयताम् इत्य् अर्थः । यद् वा, पीयताम्36 इति शत्रन्तम् । आपिबतां कर्ण-कषाय-शोषान् इत्य् अर्थः ॥४५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **किं बहुना ? एतद्-अर्थम् एवास्य महा-पुराणस्याविर्भाव इति भवतानुदित-प्रायं यशो भगवतोऽमलम् इत्य् आदौ, समाधिनाऽनुस्मर तद्विचेष्टितम् इत्य् आदौ च वर्णितम् । सा च भगवतो लीला द्विविधा । सृष्ट्य्-आदि-रूपा लीलावतार-विनोद-रूपा च । तयोर् उत्तरा तु प्रशस्ततरेत्य् आशयेनाह—प्राधान्यतो यान् ऋष इति । यद्यपि पूर्वम् आद्योऽवतारः पुरुषः परस्येत्य् आदि ग्रन्थेन पुरुषं कालादि-तच्-छक्तिं मन-आदि तत्-कार्यं ब्रह्मादि तम् । गुणावतारान् दक्षादि-तद्-विभूतीश् चोक्तवान् अस्मि तेन च सृष्ट्य्-आदि-लीलाः तथापि यान् हे ऋषे पुरुषस्य भूम्नो लीलावतारान् प्राधान्येनामनन्ति तान् एव इमान् मम हृदयाधिरूढान् । कर्ण-कषाय-शोषान् तद्-इतर-श्रवण-राग-हर्तॄन् । किं च, सुपेषान् परम-मनोहरान् अनुक्रमिष्ये तद्-अनुक्रमणं सम्यक् पीयताम् ॥४६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं माया-शक्ति-प्राधान्येन पुरुषावतारम् उक्त्वा, चिच्-छक्ति-मयान् लीलावतारान् वराह-यज्ञादीन् वक्तुम् आह । प्राधान्यत आमनन्तीत्य् उपास्यत्वेनांशेनेति व्यञ्जयति । कर्णयोः कषायान् वार्तान्तर-श्रवण-वासनाः शोषयन्तीति तान् । हे ऋषे ! ते तुभ्यम् अनुक्रमिष्ये क्रमेण कथयिष्ये । तत् कथामृतं त्वया पीयताम् ॥
———————————————————————————————————————
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽध्यायो द्वितीयेऽस्मिन् सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे ब्रह्म-नारद-संवादे
पुरुष-विभूति-वर्णनं नाम
षष्ठोऽध्यायः
॥२.६॥
(२.७)
-
‘वाचो वह्नेःऽ इति पाठः । ↩︎
-
आदिना उष्णिक्-त्रिष्टुब्-जगती-पङ्क्ति-बृहतीनां ग्रहणम् । ↩︎
-
आदि-शब्देन चर्म-मांस-रुधिर-मेदो-मज्जास्थां ग्रहणम् । ↩︎
-
आदिना कटुतिक्त-कषायाम्ल-लवणानां ग्रहणम् । ↩︎
-
सप्त-धातुः—रसास्र-मांस-मेदोऽस्थि-मज्जानः शुक्र-संयुताः । शरीरस्थैर् यदा सम्यक् विज्ञेयाः सप्त-धातवः । सप्त-छन्दांसि—गायत्री उष्विक्, अनुष्ठुभ्, त्रिष्टुभ्, बृहती, पङ्क्तिः, जगती। ↩︎
-
ओषध्यः फल-पाकान्ता बहु-पुष्प-फलोपगाः इति मनुः (१.४६)। ↩︎
-
दिवः ज्योतिश् चक्रस्येत्य् अर्थः । ↩︎
-
श्रीधर ब्रेअक्स् उप् थे वेर्सेस् दिफ़्फ़ेरेन्त्ल्य् फ़्रोम् थिस् पोइन्त्। जीव अन्द् विश्वनाथ सेए थिस् अस् अहल्फ़्-वेर्से। इहवे अद्जुस्तेद् श्रीधरऽस् चोम्मेन्तर्य् इन् अच्चोर्दन्चे wइथ् जीवऽस् नुम्बेरिन्ग्। ↩︎
-
आस्पदम् इत्य् उत्तर-श्लोक-स्थम् अनुकृष्य योज्यम् । ↩︎
-
लयस्येति तदानीं सर्वेषां तत्र लयाद् इति व्याख्यालेशः । ↩︎
-
नागा हस्तिनः सरीसृपाः सर्वाः उरगास् तद्-अवान्तर-जातयः । ↩︎
-
ऋक्षाण्य् अश्विन्य्-आदीनि । तारास् तद्-भिन्न-नक्षत्रावान्तर-भेद-भिन्नानि । केतवो धूमकेतु-प्रभृतयः । ↩︎
-
सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात् । स-भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥१॥ पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥२॥ एतावान् अस्य महिमातो ज्यायांश् च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ त्रिपाद्-ऊर्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वं व्यक्रामत् साशनानशने अभि ॥४॥ तस्माद् विराऌ अजायत विराजो अधि पूरुषः । स जातोऽत्यरिच्यत पश्चाद् भूमिम् अथो पुरः ॥५॥ यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । वसन्तोऽस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥६॥ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । तेन देवा अयजन्त साध्या ऋषयश् च ये ॥७॥ तस्माद् यज्ञात् सर्व-हुतः सम्भृतं पृषद् आज्यम् । पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥८॥ तस्माद् यज्ञात् सर्व-हुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥९॥ तस्माद् अश्वा अजायन्त ये के चोभयाद् अतः । गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥१०॥ यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥ ब्राह्मणोऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । ऊरूतदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥ चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥१३॥ नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकान् अकल्पयन् ॥१४॥ सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । देवायद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥ यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥ ↩︎
-
दशाङ्गुलम् इत्य् उपलक्षणं । ब्रह्माण्डाद् बहिर् अपि सर्वतो व्याप्यावस्थित इत्य् अर्थः । वितस्तिम् इति दशाङ्गुल-पदार्थ एव । ↩︎
-
स-भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् इति पाठः समर्थित एव । ↩︎
-
“सहस्र-नाम…खण्डे च” नोत् इन् अल्ल् एदितिओन्स्। ↩︎
-
तद्-उपरितन-लोका इति जनस्-तपः-सत्य-लोका इत्य् अर्थः । ↩︎
-
तत्र जन-लोके इत्य् अर्थः । ↩︎
-
गृह एव मेधा बुद्धिर् यस्य स गृह-मेधः । ↩︎
-
गच्छतीत्य् अर्थः । ↩︎
-
साशनं भोजनादि-व्यवहारोपेतं चेतनं प्रणिजातं, अनशनं तद्-रहितम् अचेतनं गिरि-नद्य्-आदिकं तद् उभयं यथा स्यात् तथा । ↩︎
-
विविधानि वस्तूनि राजन्तेऽत्रेति विराट् ब्रह्माण्ड-देहः । ↩︎
-
देवा इज्यन्तेऽस्मिन्न् इति देव-यजनम् । ↩︎
-
चत्वारो होत्रा उपलक्षिता उद्गातृ-ब्रह्म-ऋत्विजश् च इति ख-कर-लिप्यां पाठः । ↩︎
-
एतत् स्कन्धीय-पञ्चमाध्यायोक्तानाम् इति शेषः । ↩︎
-
अत्र विपरिणामेनान्वयो यथा—यस्य ऋतां गतिम् अहं न वेद्मि, यूयं न वित्थ, वामदेवो न वेद, किम् उतापरे सुरा विदुर् इति । ↩︎
-
घटाद्य्-आकारेति । यथा तडागोदकं छिद्रान् निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वद् एव चतुष्कोणाद्य्-आकारं भवति तथा तैजसम् अन्तःकरणम् अपि चक्षुर्-आदि-द्वारा घटादि-विषय-देशं गत्वा घटादि-विषयाकारेण परिणमते स एव परिणामो वृत्तिर् उच्यते । ↩︎
-
विप्लुतं व्याप्तम् इत्य् अर्थः । ↩︎
-
‘कल्पे कल्पे आत्मानं सृजतीत्य् उक्तं, तत्र के सृज्यमाना अवतारास् तान् अवतारान् विस्तरेणाहऽ इत्य् अवतरणं प्राचीन-पुस्तके लभ्यते । ↩︎
-
विष्णोर् इति तृतीय-स्कन्धीय-पञ्चमाध्यायस्य सप्त-विंश-श्लोक-व्याख्यायाम् आलोचनीयम् । ↩︎
-
खग-लोक-पाला गरुडाद्याः । ↩︎
-
दैत्येन्द्रेति । दनुनान्नि दक्ष-कन्यायां कश्यपाज् जाता एक-षष्टि-संख्याका असुरास् तेषु प्रधाना द्वि-मूर्धादयोऽष्टादश । ↩︎
-
प्रेत-पिशाचादयो भूत-जाति-भेदाः । तत्र पिशाचा घण्टाकर्णादयः, भूतेशा भैरवादयः, कूष्माण्डेशा भृङ्ग्यादयः, यादांसि जल-जन्तवस् तद्-अधीशास् तिमिङ्गिलादयः । ↩︎
-
“सुपेशलान्” इति विजयध्वजः । तत्र मधुरेभ्योऽप्य् अतिमधुरान् इत्य् अर्थः । ↩︎
-
सुपेशस्-शब्द-गत इत्य् अर्थः, “ल-कार-लोपः” इत्य् अपि क्वचित् । ↩︎
-
“पीङ् पाने” इति धातोर् दैवादिकाच् छतृ-प्रत्यय आर्षत्वाच् चिन्त्यः । ↩︎