०५ ब्रह्माण्डनिर्माणवर्णनम्

विषयः

ब्रह्माणं प्रति नारदप्रश्नः, ब्रह्मोक्तिः, तत्त्वानामुत्पत्तिः, ब्रह्माण्डनिर्माणवर्णनं च ।

॥ २.५.१ ॥

नारद उवाच—

देव-देव नमस् तेऽस्तु भूत-भावन पूर्वज ।

तद् विजानीहि यज् ज्ञानम् आत्म-तत्त्व-निदर्शनम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विजानीहि विज्ञापय । व्यत्ययो भेद-स्वातन्त्र्य-करणेष्व् इति वचनात् ॥१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **

पञ्चमे नारदेनाथ पृष्ठः सृष्ट्य्-आदि वक्त्य् अजः ।

हरेर् लीलां विराट्-सृष्टिं काल-कर्मादि-शक्तिभिः ॥१॥

नारदाय विपृच्छते वेद-गर्भोऽभ्यधाद् इत्य् उक्तं, तत्र नारद-प्रश्नम् आह—देव-देवेति। हे भूत-भावन, अत एव सर्वेषां पूर्वज अनादे, ज्ञायतेऽनेनेति ज्ञानं तत् साधनं यत् तद् विजानीहि1 । विशेषेण ज्ञापयेत्य् अर्थः । कथम्भूतम् ? आत्म-तत्त्वं नितरां दृश्यते येन तत् ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सृष्ट्यादि-रूपां हरेर् लीलां काल-कर्मादि-शक्तिभिर् विराट् सृष्टिञ् च प्रथमादिना स्थित्य्-आदि-ग्रहः द्वितीयादिना स्वभावादि-ग्रहः ॥ हे देवानाम् इन्द्रादि-देवानाम् अपि देवः प्रकाशकस्त्वम् असीति भावः । अतस् ते नमोऽस्तु । भूतानि स्थावरजङ्गमानि भावयति सृजतीति हे तथा-भूत अत एव भूतोत्पादकत्वाद् एव । हे पूर्वजेति । तत्-साधनं ज्ञान-साधनम् । इत्य् अर्थ इति । धातूनाम् अनेकार्थत्वाज् जानातेर्ज्ञापनार्थतापीति भावः ॥१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : परीक्षिता यत् पृष्टं तत् कथयितुम् ब्रह्मणा नारद-संवादं प्रमाणीकृत्य, एतद् एवात्म-भू राजन् नारदाय विपृच्छते [भा।पु। २.४.२५] इति यद् उक्तं, तद् एव नारद-प्रश्नेनाह देव-देवेत्य्-आदि बहुभिः । सर्वं सुसमञ्जसम् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **

पञ्चमे नारदं प्राह तत्त्वानां सृष्टिम् आत्मभूः ।

तैर् विराजश् च तत्-पादाद्य्-अङ्गैर् भूर्-आदि-कल्पनम् ॥१॥

भूतानि भावयन्ति सृजन्तीति भूत-भावना मरीच्य्-आदयः पूर्वजाः अस्मद्-भ्रातरो यस्मात्, हे तथा-भूत ! आत्मनोः परमात्म-जीवात्मनोस् तत्त्व-निदर्शनं तत्त्व-ज्ञापकं यज् ज्ञानं तद् विजानीहिविशेषेण जानासि । लड्-अर्थे लोट् । विज्ञापयेति वा ॥१॥

———————————————————————————————————————

॥ २.५.२ ॥

यद् रूपं यद् अधिष्ठानं यतः सृष्टम् इदं प्रभो ।

यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपलक्षण-भूतं विश्वम् एवात्म-ज्ञान-साधनम् अतस् तद्-विशेषं पृच्छति । यद् रूपं येन रूप्यते प्रकाश्यते । यद् अधिष्ठानं यद् आश्रयम् । यतो येन सृष्टम् । यत् संस्थं यस्मिंल् लीयते । यत् परं यद् अधीनम् । यच् चेति यद् आत्मकम् । स्वतः सत्कारणतो वेत्य् अर्थः । तस्य तत्त्वं याथार्थ्यं तत्त्वतो वद ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतो विश्वमेवात्म-ज्ञान-साधनम् अतो हेतोस् तद् विशेषं विश्वस्यैव विशेषं भेदं यद्-रूपं यल्-लक्षणं यत इति तृतीयार्थे तसिः । इत्य् अर्थ इति । सतो यत्-स्वरूपं सतः कारणाद्वा यत्-स्वरूपं यद्-वेद स्वत एव सत्त्व-प्रतीतेः कारणतो वा कारणसत्तयावत्सदस्तीति भावः । तस्यास्य विश्वस्य तत्त्वतः परमार्थतः प्रभो इति त्वं मत्-सन्देहापाकरण-समर्थोसीति भावः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदं विश्वं यद्-रूपं यद् अस्य लक्षणम् । यद्-अधिष्ठानं योऽस्याश्रयः । यतः येन सृष्टम् । यत्-संस्थं यस्मिन् लीयते । यत्-परं यस्याधीनम् । यच् च यद्-आत्मकम् । तस्य तत्त्वं याथार्थ्यं तत्त्वतो वद ॥२॥

———————————————————————————————————————

॥ २.५.३ ॥

सर्वं ह्य् एतद् भवान् वेद भूत-भव्य-भवत्-प्रभुः ।

करामलक-वद् विश्वं विज्ञानावसितं तव ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न जानामीति न वक्तव्यम् इत्य् आह—सर्वम् इति । भूतं जातं, भव्यं जनिष्यमाणं, भवत् जायमानं, तेषां प्रभुर् यतः, अतो विशिष्टेन ज्ञानेनावसितं निश्चितम् ॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् इति श्रुतौ भूत-पदं भवद् भविष्ययोर् अप्य् उपलक्षणम् इत्य् अभिप्रायेणाह । भूतभव्येति । करस्थितामलक-फलबाह्याभ्यन्तरावयवज्ञानवत्सर्वं भवान् वेदेति । नन्व् आमलकस्य स्थूलान्तरावयवप्रतीतावपि सूक्ष्मतरावयवा प्रतीतेर् दृष्ठान्ते वैष्यम्यम् इति चेत् तत्र श्लेषेणाह । अमलं निर्मलं च तत्-कं जलं चेत्य् अमलकं करेऽमलकं करामलकं तद्वत् । यथा करस्थ-निर्मल-जलेऽतिसूक्ष्मरेखादेर् ज्ञनं भवति तथातिसूक्ष्मम् अपि वस्तु विश्वस्मिंस्तवाज्ञातं नास्तीति भावः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्वम् इति । परमात्मा जीवात्मा जगद् इति त्रिकम् । भूतं पूर्व-जातं प्राणि-वृन्दम् । भव्यं जनिष्यमाणं, भवज् जायमानं, तेषां प्रभुर् यतः, अतो विशिष्टेन ज्ञानेनावसितम् अवगतम् । कर-स्थम् आमलक-फलम् इव ॥३॥

———————————————————————————————————————

॥ २.५.४ ॥

यद्-विज्ञानो यद्-आधारो यत्-परस् त्वं यद्-आत्मकः ।

एकः सृजसि भूतानि भूतैर् एवात्म-मायया ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तद्-वशत्वाद् इदं रूपं हरेर् नैव स्वरूपतः इति मानस-संहितायाम् ।

अधिष्ठानम् इति प्रोक्तं मूलाधारं विचक्षणः ।

यत् स्थितं दृश्यते वस्तु संस्थानं तद् उदीरितम् ।
उभयं हरिर् एवास्य जगतो मुनि-पुङ्गव ॥ इति वामने ।
हरिः परोऽस्य जगतो ह्य् अवक्तादेश् च कृत्स्नशः ।
अतस् तत् परम् एवेदं वदन्ति मुनयोऽमलाः ॥ इति सात्वत-संहितायाम् ।
यद् अधीना यस्य सत्ता तत् तद् इत्य् एव भण्यते ।
विद्यमाने विभेदेऽपि मिथो नित्यं स्वरूपतः ॥ इति भविष्य-पर्वणि ।

तद्-अधिकं ज्ञातुं पूर्व-पक्षं दर्शयति—एकः सृजतीत्य् आदिना ॥४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आस्ताम् इदम्, आदौ तावत् त्वाम् एव कथयेत्य् आह । यतो विज्ञानं यस्य । कस् तव विज्ञान-द इत्य् अर्थः । यद्-आधारः कस् तवाश्रयः । यत्-परो यद्-अधीनः । यद्-आत्मको यत्-स्वरूपः । मम तु त्वम् एव स्वतन्त्रः परमेश्वर इति बुद्धिह् । तव तपश्-चरणेन तु पराशङ्कया पृच्छामीत्य् आह सार्धैश् चतुर्भिः । एकोऽसहायः ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इदं विश्ववृत्तमास्तां तिष्ठतु आत्मानं स्वम् एव त्वं ब्रूहीति । इत्य् अर्थ इति । आर्थिकोयम् अर्थ इति भावः । एव मग्रेऽपि ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद्-विज्ञान इत्य् आदौ तं वदेति शेषः । मम तु तत्-तद्-रूपत्वेन त्वम् एव भासीत्य् आह—एक इति । अत्रास्ताम् इत्य्-आदि-टीकायां त्वाम् एवेत्य् अत्र च आत्मानम् एव कथयेति तु वाच्यम्2 ॥४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आस्ताम् इदम् आदौ तावत् त्वाम् एव त्वं ब्रूहीत्य् आह । यद् विज्ञानं यतो विज्ञानं यस्य सः । यस् तव विज्ञान-प्रदः । यद्-आधारो यस् तवाश्रयः । यत्-परो यस्य त्वम् अधीनः । यद्-आत्मको यस् तवात्मा । मम तु त्वम् एव स्वतन्त्रः परमेश्वर इति बुद्धिह् । तव तपश्-चरणेन तु पराशङ्कया पृच्छामीत्य् आह सार्धैश् चतुर्भिः । एकोऽसहायः ॥४॥

———————————————————————————————————————

॥ २.५.५ ॥

आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।

आत्म-शक्तिम् अवष्टभ्य ऊर्णनाभिर् इवाक्लमः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्मनि भावयसे पालयसि स्वयम् एव पराभवम् अप्रापयन्3 अक्लमः श्रम-रहितः । यथोर्णनाभिर् आत्मन एव शक्तिम् अवष्टभ्य सृजति तद्वत् ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आत्मनि भावयसे न पराभावयन्न् इति च स्व-वैभवाधिक्येऽपि सतीति शेषः सूर्यादौ विद्यमाने दीपादेः पराभव-दर्शनात् । अत उपादान-करणत्वम् एव भवत आयाति सूर्यादौ विद्यमाने रश्म्यादेस् तद-दर्शनाद् इति भाव इति सन्दर्भः । भावयसे पालयसि तानि न पराभावयन्न् अन्यतः पराभवम् अप्रापयन् ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मनि भावयसे न पराभावयन्न् इति च स्व-वैभवाधिक्येऽपि सतीति शेषः । सूर्यादौ विद्यमाने दीपादेः पराभव-दर्शनात् । अत उपादान-कारणत्वम् एव भवत आयाति । सूर्यादौ विद्यमाने रश्म्य्-आदेस् तद्-अदर्शनाद् इति भावः ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आत्मन् आत्मनि अधिष्ठाने । भावयसे पालयसि । तानि न पराभावयन् अन्यतः पराभवम् अप्रापयन्। यथोर्णनाभिर् आत्मन एव शक्तिम् अवष्टभ्य सृजति तद्वत् । अक्लमः श्रम-रहितः ॥५॥

———————————————————————————————————————

॥ २.५.६ ॥

नाहं वेद परं ह्य् अस्मिन् नापरं न समं विभो ।

नाम-रूप-गुणैर् भाव्यं सद्-असत् किञ्चिद् अन्यतः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

त्वद्-अधीना यतः सत्ता अवरस्यापि केशव ।

अतः स्वरूपतः सम्यक् सति भेदोऽपि तद्-भावान् ॥ इति मात्स्ये ॥६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्माद् अहं त्व् अस्मिन् विश्वस्मिन् परम् उत्तमम् अपरम् अधमं समं मध्यमं च । तत्रापि नाम मनुष्यादि-रूपं द्विपदत्वादि-गुणः शुक्लत्वादिस् तैर् भाव्यं साध्यं, तत्रापि सद्-असत्-स्थूलं सूक्ष्मं च किंचिद् अप्य् अन्यतो न वेद किन्तु त्वत्त एव सर्वं भवतीति मन्ये ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यस्मात्त्वम् एव सर्वेश्वरस् तस्माद्द् हेतोः तत्रापि उत्तमाधमादि-रूपत्वेऽपि हे विभो इति अहो सर्वेश्वरो भूत्वायम् अपि कञ्चन ध्यायतीति तव विभुत्वेऽपि सन्देहोस्तीति भावः ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवाह—नाहम् इति ॥६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्माद् अहं त्व् अस्मिन् जगति परम् उत्तमम् अपरम् अधमं समं मध्यमं च । तत्रापि नाम मनुष्यादि, रूपं द्विपदत्वादि, गुणः शुक्लत्वादिः, तैर् भाव्यं साध्यम् । तत्रापि सद् असत् स्थूलं सूक्ष्मं च किंचिद् अप्य् अन्यतो न वेद, किन्तु त्वत्त एव सर्वं भवतीति मन्ये ॥६॥

———————————————————————————————————————

॥ २.५.७ ॥

स भवान् अचरद् घोरं यत् तपः सुसमाहितः ।

तेन खेदयसे नस् त्वं परा-शङ्कां च यच्छसि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स तथा-विधोऽपि भवांस् तपोऽचरद् इति यत् तेन नोऽस्मान् खेदयसे मोहयसि । यतः परा-शङ्काम् ईश्वरान्तराशङ्कां प्रयच्छसि ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेन तप आचरणेन ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एतत् तथोत्तर-वाक्यं च तन्-मुखेनैव अन्यान्4 शिक्षयितुम् उक्तम् ॥७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स तथा-विधोऽपि पराशङ्काम् ईश्वरान्तराशङ्काम् ॥६॥

———————————————————————————————————————

॥ २.५.८ ॥

एतन् मे पृच्छतः सर्वं सर्व-ज्ञ सकलेश्वर ।

विजानीहि यथैवेदम् अहं बुध्येऽनुशासितः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथैवाहं त्वयाऽनुशासितः शिक्षितः सन् बुध्ये बुध्येयं तथा विजानीहि विशेषेण ज्ञापय ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सर्वज्ञेति । सर्वज्ञत्वान् मम बुद्धिम् अपि जानास्येवेति भावः । सङ्कलेश्वरेति । सकलजगतस् त्वम् एव बुद्धिदाता सकलेश्वरत्वान् मम तु पुत्रस्य तद्-दाने का वार्तेति भावः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पृच्छतो ममैतत् सर्वम् अभिप्रेतं वस्त्व् इत्य् अर्थः । विशेषेण जानीहि स्वयं परामृश, ततो वदेत्य् अर्थः । किं च, यथैवेदम् अनुशासितः सन्न् अहं बुध्ये सम्यग् अवगच्छामि तथा विजानीहि, तेनास्योत्तरम् अबाधितं देहीति व्यञ्जितम् ॥८॥

———————————————————————————————————————

॥ २.५.९ ॥

ब्रह्मोवाच—

सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।

यद् अहं चोदितः सौम्य भगवद्-वीर्य-दर्शने ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रश्नम् अभिनन्दति । वत्स ! हे पुत्र ! तवेदं विचिकित्सितं सन्देहः तत्-पूर्वकः प्रश्नोऽयं सम्यग् इत्य् अर्थः । यतः कारुणिकस्य तवायं प्रश्नः । अत्र हेतुः—यत् यतः पर-धर्म-प्रदर्शनेभगवद्-वीर्य-प्रकाशने प्रवर्तितोऽस्मि । अतस् त्वं जिज्ञासुर् अपि मयि कृपाम् एव कृतवान् इत्य् अर्थः ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे वत्सेति स्नेहाधिक्यद्योतनाय । तत्-पूर्वकः सन्देह-पूर्वकः । इत्य् अर्थ इति । प्रष्टव्या गुरवौ नित्यं ज्ञातम् अर्थम् अपि स्वयम् इत्य् उक्ते निःसन्देहार्थस्यापि प्रश्न-विधेः सन्दिग्धस्य प्रश्नस्तु सर्वथैव शोभनो भवतीति भावः । कुतः सम्यग् इति । तत्राह—यत इति । अत्र कारुणिकत्वे यतोऽहं परम-धर्मे प्रवर्तितोस्मि अतोः हेतोः इत्य् अर्थः । इति ॥

वासुदेव-कथा-प्रश्नः पुरुषां-स्त्रीन् पुनाति हि ।

वक्तारं पृच्छकं श्रोतृंस्तत्पाद-सलिलं यथा ॥

इति श्री-दशमोक्तन्यायेन प्रश्नोत्तरदानेनाहम् अपि परम-पावनो भविष्यामीति भावः । भगवद्-वीर्यञ् च विश्व-सृष्ट्यादि-मयं तस्य दर्शने ॥९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सम्यक् कारुणिकस्येत्य् अस्य तात्पर्यम् इदं—भवान् सर्वम् एव वेत्ति, तथापि सन्दिहान एव पृच्छसि यत्, तत् ते लोकान् प्रति कारुणिकता, यद् यस्माद् अहंभगवद्-वीर्य-दर्शने प्रेरितः । अतो मत्-परीक्षापि ते उद्देश्य इति भावः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _[भक्ति-सन्दर्भ ४१]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रश्नम् अभिनन्दति । हे वत्स ! पुत्र ! विचिकित्सितं सन्देहः । सम्यग् अतिसमीचीनम् । कारुणिकस्येति सर्वज्ञेनापि त्वयैवं पृच्छता मयि पितरि करुणैव कृता । यद् अहं विजानीहीति परामार्शार्थक-पदेन भगवतो वीर्यस्य विश्व-सृष्ट्य्-आदि-मयस्य दर्शने विषये प्रेरितः, तद् अहं क्षणं मनसैव तत् पश्यामीत्य् आननन्द ॥९॥

———————————————————————————————————————

॥ २.५.१० ॥

नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः ।

अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **नानृतम् इत्य् आक्षेपः ॥१०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु त्वम् एव भगवान् इत्य् उक्तं मया एकः सृजसि भूतानि [भा।पु। २.५.४]इत्य्-आदिना । सत्यम्, यथा माम् ईश्वरत्वेन प्रभाषसे तद् अपि तव भाषणं नात्यन्तम् अनृतम् । यतः कारणाद् एतावत् प्रभावस्य भाव एतावत् त्वं मे अस्ति, किन्तु मत्तः परम् ईश्वरम् अविज्ञाय ब्रूषे । अतः सादृश्यात् तवेयं भ्रान्तिर् न तु बुद्धि-पूर्वम् अनृतम् इत्य् अर्थः । यत ईश्वरान् ममैतावत् त्वं तम् अविज्ञायेति वान्वयः ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राशङ्कते । नन्व् इति । भोः पुत्र । इत्य् अर्थ इति । बुद्धि-पूर्वकानृत-सम्भाषण एव दोषो न त्व बुद्धि-पूर्वकेऽपि तस्य सत्य-प्रायत्वाद् इति भावः । इत्य् अर्थ इति । एतावत् त्वम् ईश्वरोयं साक्षाद् इति भ्रान्ति-जनक-वैभवं स्यात् तम् अज्ञात्वैवैतत्-कथनोपपत्तेर् इति भावः ॥१०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यत् श्री-कृष्णात् मे एतावत् त्वम् ऐश्वर्यं, तत् मत्तः परं त्व् अविज्ञाय अजानन्न् इव मां यथा यथावत् प्रब्रवीषीति न, अतस् तव तच् च भाषितम् अप्य् अनृतं मिथ्यैव । मां परीक्षितुम् ऐश्वर्यं प्रतिपादयसि ॥१०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **किं वा तवेदम् अज्ञानम् एवेति खिद्यमान आह नानृतम् इति ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, भोः पुत्र ! एकः सृजसि भूतानि [भा।पु। २.५.४]इत्य्-आदिना माम् ईश्वरत्वेन यथा ब्रवीषि, तच् चापि नानृतं न मिथ्या । यतो मत्तः सकाशाद् अपि । परं परमेश्वरं, अविज्ञाय मत्तं परस्मिन् परमेश्वरे अविज्ञाते सतीत्य् अर्थः । मम एतावत्त्वं स्याद् इत्य् अनेक-कर्तृकत्वेऽपि क्त्वा-प्रत्यय आर्षः । यद् वा, मत्तः परम् अविज्ञाय, मम एतावत्त्वं लोका ब्रुवन्तीति शेषः । त्वं तु सर्वज्ञोऽपि तान् एव ज्ञापयितुं तान् अनुकृत्य ब्रूषे इति भावः । त्वं मत्तः परम् अविज्ञाय ब्रवीषीति व्याख्याने तु नारदस्याज्ञत्वं ब्रह्मणा ज्ञातम् अनुचितम् ॥१०॥

———————————————————————————————————————

॥ २.५.११ ॥

येन स्व-रोचिषा विश्वं रोचितं रोचयाम्य् अहम् ।

यथार्कोऽग्निर् यथा सोमो यथर्क्ष-ग्रह-तारकाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि कोऽसाव् ईश्वर इत्य् अपेक्षायां भक्त्या नमस्कुर्वन्न् एव तं कथयति त्रिभिः । येन स्व-प्रकाशेन रोचितं प्रकाशितम् एव प्रकाशयामि सृष्ट्याऽभिव्यक्तं करोमि । यथा5‘र्कादयश् चैतन्य-प्रकाश्यम् एव प्रकाशयन्ति । तथा च श्रुतिः—

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतोऽयम् अग्निः ।
तम् एव भान्तम् अनु भाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ [मु।उ। २.१०, क।उ। २.२.१५] इति ॥११॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भगवान् एव स्वप्रकाशस् तद् इतरत् सर्वं तत्-प्रकाशितम् एवेत्य् अत्र प्रमाणम् आह—तथा चेति । तत्रात्म-स्वरूपे तम् आत्मानं भ्रान्तं स्वतः प्रकाशमानम् अनुपश्चात् सर्वं सूर्यादि विभातीति श्रुतिपदार्थः । ऋक्षाण्य् अश्विन्यादीनि । ग्रहा भौमादयः । तारका ध्रूवागस्त्याद्याः ॥११॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहं तावद् ईश्वरो न ईश्वरस् त्व् अन्य एव, यद् रोचिषा सर्वं रोचत इत्य् आह—येनेत्य्-आदि । यथार्कादयस् तद्-रोचिषा रोचितं विश्वं रोचयन्ति, तथाहम् अप्य् एकः ॥११॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथार्कादयस् तत् प्रकाशितास् तच्-छक्त्यैव तत् तत् प्रकाशयन्तीत्य् अर्थाह् ॥११॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वस्तुतस् तु अहं को वा वराकः इत्य् आह—येन स्व-रोचिषा स्व-प्रकाशेन परमेश्वरेणैव प्रकाशितम् एव पिष्ट-पेष-न्यायेन प्रकाशयामि सृष्ट्याऽभिव्यक्तं करोमि । यथार्कादयस् तत्-प्रकाशितम् एव प्रकाशयन्ति । तथा च श्रुतिः—

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतोऽयम् अग्निः ।
तम् एव भान्तम् अनु भाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥ [मु।उ। २.१०, क।उ। २.२.१५] इति ॥११॥
———————————————————————————————————————

॥ २.५.१२ ॥

तस्मै नमो भगवते वासुदेवाय धीमहि ।

यन्-मायया दुर्जयया मां वदन्ति जगद्-गुरुम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **मुख्या माया हरेः शक्तिर् अमुख्या प्रकृतिर् मता । अथामुख्यतमा चैव माया हीना प्रकीर्तिता ॥१२-१३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्मै नमो6 धीमहि । यस्य मायया विमोहिताः सन्तो युष्मद्-आदयो मां जगद्-गुरुं जगत्-कारणं वदन्ति तस्मै ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु जगद्-गुरुर् ब्रह्मा विश्वं सृजतीति सर्वत्र ख्यातिस् तवास्ति तत्र स विस्मयः । सोत्प्रासम् आह । तस्मा इति । यद्वः बुभूषणा दुर्मत-श्रवणापराधो भगवन्न् अमनेन परिहर्तव्य इत्य् अभिप्रेत्य वा भगवन्तं नमति—नम इति । तस्मै नमो वयं तं धीमहि इति योज्यम् । अनेन पद्येन ॐ नमो भगवते वासुदेवाय नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् इति द्वादशाक्षरी चतुर्विंशत्य्-अक्षरी चेति द्वे विद्ये हिरण्यगर्भेण नित्यं सेव्ये इति दर्शितम् ॥१२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न त्व् अहं स्वयं सृजामि, ये न जानन्ति, ते हि माम् ईश्वरं वदन्तीत्य् आह—तस्मै नम इत्य्-आदि । वासुदेवाय वसुदेव-पुत्राय ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्मा इति द्वयम् । तम-आदिमत्त्वेन स्वस्य स-दोषत्वात् ॥१२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु जगद्-गुरुर् ब्रह्मा विश्वं सृजतीति सर्वत्रैव तव ख्यातिः ? तत्र स-विस्मय-सोत्प्रासम् आह—तस्मै नमो धीमहीति ॥१२॥

———————————————————————————————————————

॥ २.५.१३ ॥

विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया ।

विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यन्-माययेति माया-सम्बन्धोक्तेस् तस्या दुर्जयत्वोक्तेश् च तस्यापि7 किम् अस्ति संसारो नैवेत्य् आह । मत्-कपटम् असौ जानातीति यस्य दृष्टि-पथे स्थातुं विलज्जमानयैव तस्मिन् स्व-कार्यम् अकुर्वत्या अमुया मायया विमोहिता अस्मद्-आदयो दुर्धियोऽविद्यावृत-ज्ञाना एव केवलं विकत्थन्ते श्लाघन्ते । अनेन यद् रूपम् इत्य् अस्य प्रश्नस्योत्तरम् उक्तं भवति ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र विश्वनाथः—जगद्गुरुर् विश्वस्रष्टा त्वं भवस्येवेति तुभ्यम् आदर-दायिनः सन्तः किं माया-मोहिताः सत्यं भगवत् सम्बन्धं विना ये आदर-दायिनो ये च तेभ्य आदर-ग्राहिणश् च ते उभयेऽपि बहिर् दर्शिनो भगवतः पृष्ठ-देशस्थया मायया मोह्यन्त एवेत्य् आह—विलज्ज इति । अत्र तद्-विमुखतैव तत्-पृष्ट-देशो ज्ञेयः । तद्वै मुख्ये सत्येव तस्याः प्रभावो न सांमुख्य इति अनेन प्रबन्धेन भगवतैवेदं प्रकाश्यत इत्य् उत्तरम् उक्तम् ॥१३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तन्-मायया मोहिता एव ममाहम् इति विकत्थन्ते, नाहं तथेति तद् दर्शयति—विलज्जमानयेत्य्-आदि । अमुया मायया ॥१३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सच्-चिद्-आनन्द-घनत्वेन यस्य निर्दोषस्य नेत्र-गोचरे स्थातुं विलज्जमानयामुया मायया विमोहिता । अस्मद्-आदयो दुर्धियः विकत्थन्ते आत्मानं श्लाघन्ते ॥१३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **जगद्-गुरु-विश्व-स्रष्टा त्वं भवस्य् एवेति तुभ्यम् आदर-दायिनः सन्तः किं माया-मोहिताः ? सत्यं, भगवत्-सम्बन्धं विना ये आदर-दायिनः ये च तस्मात् आदर-ग्राहिणश् च, ते उभयेऽपि बहिर् दर्शिनो भगवतः पृष्ठ-देश-स्थया मायया मोह्यन्त एवेत्य् आह । विलज्जमानया मत्-कपटम् असौ जानातीति कपटिन्या स्त्रिया इव । यस्य दृष्टि-पथे स्थातुं विलज्जमानया अर्थात् तत्-पृष्ठ-देश एव स्थितवत्या अमुया मायया विमोहिता विकत्थन्ते । अत्र तद्-विमुखतैव तत्-पृष्ठ-देशो ज्ञेयः । तद्-वैमुख्ये सत्य् एव तस्या प्रभावो न साम्मुख्ये इत्य् अर्थः ॥१३॥

———————————————————————————————————————

॥ २.५.१४ ॥

द्रव्यं कर्म च कालश् च स्वभावो जीव एव च ।

वासुदेवात् परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **परः अधिकः । तद्वद् एव स्थितं यत् तु तात्त्विकं तत् प्रचक्षते इति कौर्मे ॥१४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं स्वस्माद् अन्यं परमेश्वरं निरूप्येदानीं यद् अधिष्ठानम् इत्य्-आदि-नव-प्रश्नानां स एवाधिष्ठानादिकं सर्वम् इत्य् उत्तरं वक्तुं तद्-व्यतिरेकेणान्यस्यासत्त्वम् आह—द्रव्यम् इति । द्रव्यं महा-भूतान्य् उपादान-रूपाणि । कर्म जन्म-निमित्तम् । कालस् तत्-क्षोभकः । स्वभावस् तत्-परिणाम-हेतुः । जीवो भोक्ता । वासुदेवात् परोऽन्योऽर्थो नास्ति, कारणाव्यतिरेकात् कार्यस्य ॥१४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनेन कारणस्यैव कार्याधिष्ठानत्वात् सर्वस्य भगवान् एवाधिष्ठानम् इत्यु क्तम् ॥१४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतो वासुदेवात् परः कोऽप्य् अर्थो नास्तीत्य् आह—द्रव्यम् इत्य्-आदि ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यद्-रूपम् इत्य् आदि प्रश्न-दशकस्योत्तरं वक्तुं प्रथमं भगवद्-व्यतिरेकेणान्यस्यासत्त्वम् आह—द्रव्यम् इति । द्रव्यं महा-भूतानि उपादान-रूपाणि । कर्म जन्म-निमित्तम् । कालो गुण-क्षोभकः । स्वभावस् तत्-परिणाम-हेतुः । जीवो भोक्ता । वासुदेवात् परोऽन्योऽर्थो नास्ति । द्रव्यादीनां माया-कार्यत्वात् । मायाया जीवस्य च तच्-छक्तित्वाद् इति विश्वस्य वासुदेव-रूपत्वम् इति यद्-रूपम् इत्य् अस्योत्तरम् उक्तम् ॥१४॥

———————————————————————————————————————

॥ २.५.१५ ॥

नारायण-परा वेदा देवा नारायणाङ्गजाः ।

नारायण-परा लोका नारायण-परा मखाः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **वेद-प्रतिपाद्येषु स पर इत्य् आदि ।

गम्येज्य-ज्ञेय-वाच्येषु राज्येषु च परो हरिः ।
तपसा यज्यमानानां सर्व-लोकेभ्य एव च ॥ इति वाराहे ॥१५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् प्रपञ्चयति द्वाभ्याम् । नारायणः परःकारणं येषां ते । अनेनैव शास्त्र-योनित्व-प्रतिपादनेनेश्वरे प्रमाणं सर्व-ज्ञत्वादिकं चोक्तम् । देवाश् च तद्-अङ्गाज् जाता अतो न तद्-व्यतिरिक्ताः । लोकाः स्वर्गादयस् तद्-आनन्दांशाः । मखास् तत्-साधन-भूताः ॥१५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्-कारणानन्यत्वम् । तस्यैवानन्दस्य सर्वे मात्राम् उपजीवन्ति इति श्रुतेः । स्वर्गादि-लोकानन्दस्यापि भगवदानन्दांशत्वम् एव ॥१५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आस्तां तावद् वासुदेव-परं सर्वम् इति कथं, यस्य नाभिनालाद् अहम् आवरासं, स च नारायणस् तस्यैवांशः, तत्-परम् एव सर्वम् इत्य् आह—नारायण-परा इति द्वाभ्याम् ॥१५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सर्व-शास्त्र-समन्वयेन नारायण-परा इति द्वयम् । श्री-नारायण एव उपास्यत्वेन परः तात्पर्य-विषयो येषां ते वेदाः । नन्व् अन्येऽपि देवास् तत्रोपास्यत्वेन अभिधीयन्ते ? सत्यम् । तेऽपि नारायणाङ्ग-प्रभवत्वेनैव तथा वर्ण्यन्ते इत्य् अर्थः । येऽपि तद्-आश्रया लोकास् तेऽपि, तत्-पद-प्राप्ति-हेतवो मखाश् च तत्परा एव । तद्-आनन्दांशाभास-रूपत्वात् तत्-साधनत्वाच् चेति भावः ॥१५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नारायणः परः कारणं येषां ते । अनेनैव शास्त्र-योनित्व-प्रतिपादनेन ईश्वरे प्रमाणं सर्वज्ञत्वादिकं चोक्तम् । तथा देवादयो नारायणे स्थितत्वान् नारायणाधीनत्वाच् च नारायण-परा इति, यद्-अधिष्ठानम् इत्य् अस्य, यद्-अधीनम् इत्य् अस्य चोत्तरम् उक्तम् ॥१५॥

———————————————————————————————————————

॥ २.५.१६ ॥

नारायण-परो योगो नारायण-परं तपः ।

नारायण-परं ज्ञानं नारायण-परा गतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योगः प्राणायामादिः । तपस् तत्-साध्यं चित्तैकाग्र्यम् । ज्ञानं तत्-साध्यम् । गतिस् तत्-फलम् । अनेनैव सर्वं तद्-अधीनम् इत्य् उक्तम् ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिना यम-नियमादि-सप्ताङ्गम् अहः चित्तैकाग्य्रं परं तपः इति स्मृतेः । तत्-साध्यं चित्तैकाग्य्र-साध्यम् । तत्-फलं ज्ञान-फलम् । ब्रह्मापि तत्-परमतस् सामान्याकार-प्रकाशत्वेन तद् अधीनाविर्भावत्वात् । तद् उक्तं श्री-मत्स्यदेवेन सत्य-व्रतं प्रति ।

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।

वेत्स्यस्य्-अनुगृहीतं मे सम्प्रश्नं विवृतं हृदि ॥

इति अनेनैव पद्यद्वयेन सर्वं वेदादिकं तद्-अधीनम् एवेत्य् उक्तम् एव कारेण तद्-अधिष्ठान त्व् अम् अप्य् उक्तम् ॥१६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथा योगोऽष्टाङ्गः साङ्ख्यं च । तत्-साध्यं तपः चित्तैकाग्र्यं, तत्-साध्यं ब्रह्म-ज्ञानं च तत्-परम्, तदीय-सामान्याकार-प्रकाशकत्वात् तज्-ज्ञानस्य योग-तपसोस् तत्-साधनत्वाद् इति भावः । किं बहुना, गतिस् तत्-प्राप्यं ब्रह्मापि तत्-परा, तत्-सामान्याकार-प्रकाशत्वेन तद्-अधीनाविर्भावत्वात् । तद् उक्तं श्री-मत्स्य-देवेन सत्यव्रतं प्रति—

मदीयं महिमानं च पर-ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे संप्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ।

अत्र मखादयस् तच्-छक्त्य्-अंश-रूपाः । गतिस् तु तत्-तत्-फलत्वात् तद्-आनन्दांश-भूतैव ॥१६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गतिर् मोक्षः ॥१६॥

———————————————————————————————————————

॥ २.५.१७ ॥

तस्यापि द्रष्टुर् ईशस्य कूट-स्थस्याखिलात्मनः ।

सृज्यं सृजामि सृष्टोऽहम् ईक्षयैवाभिचोदितः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि त्वं किं करोषि ? इत्य् अपेक्षायाम् आह । तस्य सृज्यम् अपि तेन सृष्टोऽहं सृजामि । ईक्षया कटाक्षेण । तत्र हेतवः—द्रष्टुर् इत्य् आदयः ॥१७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तर्हीत्य् आक्षिपति—किं स्वेच्छया नहि नहि ईक्षया तस्याज्ञयैवेत्य् अर्थः । द्रष्टुर् इति । मम तस्य साक्षित्वे ईश्वरत्वे सर्वान्तर्यामित्वे कूटस्थत्वे सत्येव नान्यथेति स्वस्य जीवत्वं तस्य चेश्वरत्वं व्यञ्जितम् । तथा च श्रुतयः ।

एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा ।

सर्वाध्यक्षः सर्व-भूताधिवासः साक्षी चेताः केवलो निर्गुणश् च ॥ इति ।

एष भूताधिपतिर् एष लोकेश्वरो लोकपालः इति । ब्रह्मादि-पिपीलिका-पर्यन्त-सर्वप्राणि-बुद्धिष्व् अवशिष्टतयोपलभ्यमानः सर्वप्राणि-बुद्धिस्थो यदा तदा कूटस्थ इत्य् उच्यते इति च ॥१७॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्यापि एतस्याप्य् उक्त-प्रकारस्य नारायणस्यापि द्रष्टुर् ईश्वरस्य श्री-वासुदेवस्य सृष्टं सृजामि, तेनैव सृष्टोऽहं, तत्रापि तद्-ईक्षयैव प्रेरितः । कादाचित्कस्य ? कूटस्थस्य कूटं ब्रह्म तद्-रूप-निज-धामस्थस्याखिलात्मनः ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सृज्यं स्त्रष्टुं योग्यम् अपि ॥१७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तर्हि त्वं किं करोषि ? इत्य् अत आह । तस्य सृज्यम् अपि तेन सृष्टोऽहं सृजामि । ईक्षया इति तस्याज्ञयैवेत्य् अर्थः । द्रष्टुर् इति तच् चापि मम तस्य साक्षित्वे ईश्वरत्वे कूटस्थत्वे सर्वान्तर्यामित्वे सत्य् अपि नान्यथेति स्वस्य जीवत्वं तस्य चेश्वरत्वं व्यञ्जितम्। तथा च श्रुतयः—

एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥ [श्वे।उ। ६.११] इति ।

एष भूताधिपतिर् एष लोकेश्वरो लोक-पालः इति । ब्रह्मादि-पिपीलिका-पर्यन्त-सर्व-प्राणि-बुद्धिष्व् अविशिष्टतयोपलभ्यमानः सर्व-प्राणि-बुद्धि-स्थो यदा तदा कूटस्थ इत्य् उच्यते इति च ॥१७॥

———————————————————————————————————————

॥ २.५.१८ ॥

सत्त्वं रजस् तम इति निर्गुणस्य गुणास् त्रयः ।

स्थिति-सर्ग-निरोधेषु गृहीता मायया विभोः8** ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु कुतोऽयं जीवेश्वर-विभागः, यतस् त्वं प्रेर्यः, स च प्रेरकः स्यात् ? इत्य् अपेक्षायां जीवेश्वर-विभाग-हेतुम् आह त्रिभिः—सत्त्वम् इति । निर्गुणस्यापीश्वरस्यैते त्रयो गुणा बध्नन्तीत्य् उत्तरेणान्वयः9 । कथम्भूताः । तेनैव स्वातन्त्र्येण स्थित्य्-आद्य्-अर्थं मायया गृहीताः ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति नन्व् इति—निर्गुणस्य सत्त्वादि-गुणा-स्पृष्टस्यापि त्रयो गुणा भवन्ति केन प्रकारेणेत्य् अपेक्षायाम् आह । विभोर् मायया स्थित्याद्य्-अर्थं गृहीता इति तच्-छक्ति-गुणत्वेन तद्-गुणत्वम् इत्य् अर्थः । तत्र मायाया नियम् एव तद्-गुण-रूपत्वेऽपि गृहीता इति प्रयोगो नित्य-नर-विग्रहत्वेऽपि कृष्णस्य तस्येच्छयात् तव पुषः इति वत् । प्राकृत-लोकोक्त्य्-अनुकारेण ज्ञेयः ॥१८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गुणास् तु माया-कार्या इत्य् आह—सत्त्वम् इत्य्-आदि । तस्य विभोर् निर्गुणस्य प्राकृत-गुण-रहितस्य मायया सत्त्वादयस् त्रयो गुणा गृहीताः, किं निमित्तम् ? स्थित्य्-आदिषु निमित्त-भूतेषु ॥१८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु जीवेश्वरयोः प्रेर्य-प्रेरकत्वं कुतः ? तत्राह—सत्त्वम् इति त्रिभिः । निर्गुणस्य गुणास्पृश्यस्य विभोः स्वाभाविक-शक्त्या व्याप्त-सर्वस्य मायया विलज्जमानया यस्य [भा।पु। २.५.१३] इत्य् आद्य् अनुसारेण बहिर्-अङ्ग्या शक्त्या स्थित्य्-आदिषु निमित्तेषु सत्त्वादयस् त्रयो गुणा गृहीता भवन्ति ॥१८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु कुतोऽयं जीवेश्वर-विभागः, यतस् त्वं प्रेर्यः, स च प्रेरकः स्यात् ? इत्य् अपेक्षायां जीवेश्वर-विभाग-हेतुम् आह—सत्त्वम् इति त्रिभिः । निर्गुणस्य सत्त्वादि-गुण-रहितस्यापि त्रयो गुणा भवन्ति । केन प्रकारेण ? इत्य् अपेक्षायाम् आह—विभोर् मायया स्थित्य्-आद्य्-अर्थं गृहीता इति तच्-छक्ति-गुणत्वेन तद्-गुणत्वम् इत्य् अर्थः । अत्र मायया नित्यम् एव तद्-गुणक-रूपत्वेऽपि गृहीता इति प्रयोगो नित्य-नर-विग्रहत्वेऽपि कृष्णस्य तस्येच्छयात्त-वपुषः [भा।पु। १०.३३.३४] इतिवत् प्राकृत-लोकोक्त्य्-अनुसारेण ज्ञेयः ॥१८॥

———————————————————————————————————————

॥ २.५.१९ ॥

कार्य-कारण-कर्तृत्वे द्रव्य-ज्ञान-क्रियाश्रयाः ।

बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ज्ञानेन्द्रियैश् च मनसा सत्त्वं बध्नाति पुरुषम् ।

रजः-कर्मेन्द्रियैर् नित्यं शरीरेण तमस् तथा ॥
आन्तरं यत् तु कर्तृत्वं तत् सत्त्वेनाभिमन्यते ।
रजसा त्व् अभिमन्येत करणैः कर्म-कारणैः ॥
शारीरं वेदनाद्यं तु तमसाद्य् अभिमन्यते ।
अकर्ता करणैर् हीनः शरीरेण विवर्जितः ॥
नित्य-ज्ञान-स्वरूपोऽसौ गुणैर् एवाभिमन्यते ।
एवं जीवः परेणैव प्रेरितः सम्भृतिं व्रजेत् ॥
न परः सम्भृतिं क्वापि स्वातन्त्र्याद् अधिक-स्तुतः ।
एवं जीव-परौ भिन्नौ किम् अन्यच् छोर्तुम् इच्छसि ॥ इति पाद्मे ।

मायिनं ज्ञानिनं स्वताह् ॥१९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वस्तुतः सर्वदा मुक्तम् अपि मायिनं माया-विषयं पुरुषं जीवं बध्नन्ति क्व । कार्यम् अधिभूतं, कारणम् अध्यात्मं, कर्ताधिदैवतं तेषां भावस् तत्त्वं तस्मिन् । द्रव्यं महा-भूतानि, ज्ञान-शब्देन देवताः, क्रिया इन्द्रियाणि, तद्-आश्रयास् तेषां कारण-भूतास् तत्-तद्-अभिमानेन बध्नन्ति ॥१९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नित्यमुक्तं बध्नन्तीति विरुद्धमुक्तं तत्राह—मायिनम् इति । मायात्र माया-कृतो मोह उच्यते स चानादित-गुणावेश-विमुखस्य तस्य माया-पारवश्याद् एव तेन गुणावेश एव बन्धः साक्षाद् बन्धाभावान् नियमुक्तत्वम् अपि युज्यतः इति भावः । चित्सुस्-वस्तु—द्रव्यं स्थूलं कार्यं ज्ञानम् अन्तःकरणं प्रमातृक्रिया इन्द्रियाणि तदाश्रयाः सन्तो देहाध्यासेन कार्यत्वे इन्द्रियाध्यासेन कारणत्वेऽन्तःकरणाध्यासेन कर्तृत्वे निबध्नन्ति निर्विकारस्यैव चितो मायाश्रयत्वेनेश्वरत्वं तथा तद्-विषयत्वेनाध्यासाज्-जीवत्वम् इति भावः ॥१९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्त्व् गृहीताः सन्तस् ते किं कुर्वन्ति ? तत्राह—कार्य-कारणेत्य्-आदि । गुणाः पुरुषं बध्नन्ति, जीवं वशीकुर्वन्ति, मा अयिनं, अयः शुभावहो विधिः सोऽस्यास्तीति अयी नित्य-मुक्तः श्री-वासुदेवस् तं मा बध्नन्तीत्य् अर्थः । तस्य सर्वेश्वरत्वात्, तथा च, स ईशो यद् वशे माया स जीवो यस् तयार्दितः इति ॥१९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त एव गुणाः कार्यादित्वे तत्-तत्-तादात्म्ये पुरुषं जीवं बध्नन्तीति पृथग्-अनुषङ्गः, द्विः-पाठात् । तत्र कार्यं गोलकम् अधिभूतम् । कारणम् इन्द्रियम् अध्यात्मम् । तत्-प्रवर्तकतया कर्तृ देवताऽधिदैवम् । कीदृशम् अपि बध्नन्ति ? तत्राह नित्यदा मुक्तम् अपि । नन्व् इदं विरुद्धम् ? तत्राह—मायिनम् इति । मायाऽत्र माया-कृतो मोह उच्यते । स चानादिर् इति एवेश-विमुखस्य तस्य माया-पारवश्याद् एव । तेन च गुणावेश एव बन्ध इति । साक्षाद्-बन्धाभावान् नित्य-मुक्तत्वम् अपि युज्यत इति भावः ।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत एव गुणाः पुरुषं जीवं भगवतस् तटस्थ-शक्ति-वृत्ति-रूपं बध्नन्ति । मायिनं माया-सङ्ग-सहितम् । पूर्वोक्त-युक्त्या भगवतः पृष्ठ-देश-स्थानां जीवानां पृष्ठ-देश-स्थया मायया स्वत एव सङ्ग-सम्भवाद् इति भावः । नित्य-मुक्तम् इति जीवस्य यथा अनाद्य्-अज्ञानं तथा अनादि-ज्ञानम् अप्य् अस्तीति सप्तमान्ते व्यक्तीभविष्यति । क्व बध्नन्ति ? तेषां भावस् तत्त्वं तस्मिन् । द्रव्यं भूतानि, ज्ञान-शब्देन देवताः, क्रिया इन्द्रियाणि, तद्-आश्रयास् तेषां कारण-भूतास् तत्-तद्-अभिमानेन बध्नन्ति । तत्र ज्ञान-क्रिययोर् वैपरीत्येन यथा-सङ्ख्यं ज्ञेयम् ॥१९॥

———————————————————————————————————————

॥ २.५.२० ॥

स एष भगवान् लिङ्गैस् त्रिभिर् एतैर् अधोक्षजः ।

स्वलक्षित-गतिर् ब्रह्मन् सर्वेषां मम चेश्वरः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **लिङ्गैर् ज्ञापकैस् त्रि-गुणैः ।

एतैर् लिङ्गैः स्व-प्रसादाज् जीवेन लक्षित-गतिः ।
स्व-प्रसादाद् इमं जीवः पश्यते न स्व-लक्षितः ॥ इति षाड्गुण्ये ॥२०॥ \

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतः स एष वश्यमाय एभिर् गुणैर् लिङ्गैर् जीवानाम् आवरकैर् उपाधिभिः । सुष्ठ्व्-अलक्षिता गतिस् तत्त्वं यस्य सः, स्वैर् भक्तैर् एव लक्षिता गतिस् तत्त्वं यस्येति वा ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एभिर् लिङ्गैः करणैः स्वैर्-ज्ञनि-भक्तैः कर्तृभिर् लक्षिता गतिर् यस्य । गुण-प्रकाशैर् अनुमीयते भवान् इत्याद्य् उक्तेः ॥२०॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थं द्योतयति—स एव इत्य्-आदि । एष नित्य-मुक्तो भगवान् अधोक्षजः श्री-वासुदेवः । एतैस्त्रिभिर् लिङ्गैर् गुणैः स्वलक्षिता गतिः सुष्ठु अलक्षिता अस्पृष्टा गतिस् तत्त्वं यस्य सः । सर्वेषांमम च ईश्वर इति त्वम् अपि जानासि, तथापि यत् पृष्टं तत् कथितम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : त्रिभिर् लिङ्गैर् द्वार-भूतैः सुष्ठु अलक्षिता यत् किञ्चिद् एवानुमिता गतिर् यस्य सः । गुण-प्रकाशैर् अनुमीयते भवान् [भा।पु। १०.२.३५] इत्य्-आदेः । यद् वा, भगवान् सर्व-भूतेषु [भा।पु। २.२.३५] इत्य्-आदिर् इत्य् अनुमानेन त्रिभिर् लिङ्गैः कारणादितयोपलक्षितो भगवान् भक्तैर् एवानुभूत-स्वरूप इत्य् अर्थः । अत्रेत्थम्-भूत-लक्षणे तृतीया ॥२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतः माया-शक्तिमान् । एतैर् गुणैर् लिङ्गैर् जीवानाम् आवरकैर् उपाधिभिर् हेतुभिः । सुष्ठ्व्-अलक्षिता अर्थात् तैर् जीवैर् अज्ञाता गतिस् तत्त्वं यस्य सः । यद् वा, एतैर् लिङ्गैः करणैः । स्वैर् ज्ञानि-भक्तैः कर्तृभिर् लक्षिता गतिर् यस्य सः । गुण-प्रकाशैर् अनुमीयते भवान् [भा।पु। १०.२.३५] इत्य् आदेः ॥२०॥

———————————————————————————————————————

॥ २.५.२१ ॥

कालं कर्म स्वभावं च मायेशो मायया स्वया ।

आत्मन् यदृच्छया प्राप्तं विबुभूषुर् उपाददे ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **स्वया मायया स्व-शक्त्या ।

यत्रान्य-हेत्व्-अभावः स्याद् ईश्वरेच्छादिना विना ।
तद्-इच्छादिर् यदृच्छा स्याद् अतस् तत्र यदृच्छया ॥ इति ब्रह्म-तर्के ॥२१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य सृष्टि-प्रकारम् आह—कालम्10 इति । कर्म जीवादृष्टम् । विबुभूषुर् विविधं भवितुम् इच्छन् ॥२१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वमाया-शक्तैर् गुणैर् जगत्-कर्तृत्वं भगवतो वदन यतः सृष्टम् इत्य् अस्योत्तरं प्रपञ्चयति—कालम् इति । कालमात्मन् स्वस्मिन् प्राप्तं लीनत्वेन स्थितं स्वप्रयोजनाभावेऽपि स्वस्मिन् स्वमाया-कल्पितं यदृच्छया स्वैरितय उपाददे सृष्ट्य्-अर्थम् अङ्गी-कृतवान् । तच् च न स्वतः किन्तु माययैव विबुभूषुः ॥२१॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अधुना सृष्ट-प्रकारं च शृण्व् इत्य् आह—कालम् इत्य्-आदि बहुभिः । कालाद् इदम् उपाददे, उपादान-रूपेण सृष्टवान् । विबुभूषुर् विविधं भवितुम् इच्छुः । कालादयोऽपि पुरुषाधिष्ठिताः स्वे स्वे कर्मणि प्रभवन्तीत्य् आह—पुरुषाधिष्ठिताद् अभूत् ॥२१-२२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मनि प्राप्तं लीनं सन्तम् । यदृच्छया स्वैरितया उपाददे सृष्ट्य्-अर्थम् अङ्गीकृतवान् । तच् च न स्वतः, किन्तु माययैव ॥२१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्व-माया-शक्तेर् गुणैर् जगत्-कर्तृत्वं भगवतो वदन्, यतः सृष्टम् इदम् इत्यस्य प्रशस्योत्तरं प्रपञ्चयति कालम् इति । कालम् आत्मन् स्वस्मिन् प्राप्तं लीनत्वेन स्थितं कर्म जीवादृष्टं स्वभावं च आत्मनि जीवे लीनत्वेन स्थितं यदृच्छया स्वैरितया उपाददे सृष्ट्य्-अर्थम् अङ्गीकृतवान् । तच् च न स्वतः, किन्तु माययैव । विबुभूषुः विविधं भवितुम् इच्छुः ॥२१॥

———————————————————————————————————————

॥ २.५.२२ ॥

कालाद् गुण-व्यतिकरः परिणामः स्वभावतः ।

कर्मणो जन्म महतः पुरुषाधिष्ठिताद् अभूत् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्रकृतेः परिणामः स्वभावतः ।

गुण-काल-स्वभावेभ्य ईशेनाधिष्ठितत्वतः ।
जगद्-आदि महत्-तत्त्वम् अभूत् तस्येच्छया हरेः ॥ इति षाड्गुण्ये ॥२२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गुणानां व्यतिकरः क्षोभः साम्य-त्यागः । स्वभावतः परिणामो रूपान्तरापत्तिः । पुरुष ईश्वरस् तेनाधिष्ठितत्वं त्रयाणां विशेषणम् । महतः महत्-तत्त्वस्य ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कालादीनां प्रयोजनमा । कालाद् इति । अधिष्ठितत्वं तद्-इच्छया प्रवृत्तत्वम् ॥२२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ईश्वरस्य प्रभाव-रूपत्वेन आदौ लीनत्वात् कालः स्वयम् एव प्रथमं कारणम् । ततः स्वभावे परिणाम-हेतौ कर्मण एव धर्म-विशेषे समुद्बुद्धे तद् द्वारा कारणं ततश् च कर्मण्य् अप्य् उद्बुद्धे तद् द्वारा कारणम् इति ज्ञेयम् । पुरुषाधिष्ठिताद् ईश्वरेच्छया प्रवृत्तात् ॥२२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कालादीनां प्रयोजनम् आह । गुणानां व्यतिकरः क्षोभः—स चेह साम्य-त्यागः । परिणामो रूपान्तरापत्तिः । महतो महत्-तत्त्वस्य । पुरुषाधिष्ठिताद् इति त्रयाणां विशेषणम् ॥२२॥

———————————————————————————————————————

॥ २.५.२३ ॥

**महतस् तु विकुर्वाणाद् रजः-सत्त्वोपबृंहितात् । **

तमः-प्रधानस् त्व् अभवद् द्रव्य-ज्ञान-क्रियात्मकः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

भूतानि द्रव्य-नामानि ज्ञानं ज्ञानेन्द्रियाण्य् अपि ।

क्रियां कर्मेन्द्रियाण्य् आहुस् तन्-मूलत्वाद् अहं त्रिधा ॥ इति गारुडे ॥२३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **महत्-तत्त्वाद् विकुर्वाणाद् विक्रियमाणात् तस्य च क्रिया-ज्ञान-शक्तित्वान् त्रिगुणत्वेऽपि रजः-सत्त्वाभ्याम् उपबृंहितत्वम्, अहंकारस्य त्व् आवरकत्वात् तमः-प्रधान त्व् अम् । अत एवाहंकार-कार्येषु तामसम् आकाशादिकं बहु । राजसं सात्त्विकं चाल्पम् । एवं तद्-उपाधिकेषु जीवेष्व् अपि तथैव तमसाधिक्यम् ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तमः-प्रधानः पदार्थ-विशेषः । यद् वा, य इत्य् अध्याहार्यं परेण स इत्य् अनेन योजयितव्यत्वात् । तस्य च महत्-तत्त्वस्य च अत एव तमःप्रधानत्वाद् एव तद्-उपाधिकेषु तम् औपाधिकेषु ॥२३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विकुर्वाणाद् विशिष्टं क्रियमाणाद् इत्य् अर्थः । तमः-प्रधानस् त्व् अभवद् इत्य् अत्र य इत्य् अध्याहार्यम् । परेण स इत्य् अनेन योजयितव्यत्वात् ॥२३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विकुर्वाणात् कालादिभिर् विक्रियमाणात् रजः-सत्त्वाभ्याम् उपबृंहिताद् वर्धिताद् इति महत्-तत्त्वस्य त्रिगुणत्वेऽपि क्रिया-ज्ञान-शक्तित्वात् रजः-सत्त्वयोर् आधिक्यम् । तथा-भूतान् महतः सकाशात् तमः-प्रधानः पदार्थ-विशेषः कश्चिद् अभवत् । यद् वा, ये इत्य् अध्याहार्यम् । परेण स इत्य् अनेन योजयितव्यत्वात् । द्रव्यम् अधिभूतं ज्ञानम् अधिदैवं क्रिया अध्यात्मं तद्-आत्मकस् त्रितय-कारणम् इत्य् अर्थः ॥२३॥

———————————————————————————————————————

॥ २.५.२४ ॥

सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा ।

वैकारिकस् तैजसश् च तामसश् चेति यद्-भिदा ।

द्रव्य-शक्तिः क्रिया-शक्तिर् ज्ञान-शक्तिर् इति प्रभो ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

विशिष्ट-कार्य-शक्तित्वाद् देवा वैकारिकाः स्मृताः ।
अतिजाज्वल्यमानत्वात् तैजसानीन्द्रियाण्य् अपि ।
तामसानि तु भूतानि यतस् तावन् न तूभयम् ॥ इति पाद्मे ॥२४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स च विकुर्वन् रूपान्तरं गच्छन् । त्रैविध्यम् एवाह । वैकारिकः सात्त्विकः । तैजसो राजसः । यद्-भिदा यस्य भेदः । द्रव्य-शक्तिर् इत्य् आदीनि प्रातिलोम्येन त्रयाणां लक्षणानि । द्रव्ये महा-भूताख्ये शक्तिर् यस्य । क्रियासु इन्द्रियेषु शक्तिर् यस्य । ज्ञानेषु वेदेषु शक्तिर् यस्य । हे प्रभो बोद्धुं शक्त ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सोऽहम् इति सार्धकम् । करणं कारक-चेष्टा-विक्षेप इति यावत् । विगतो विक्षेपो यस्मात् तत् शान्त-स्वभावं सत्त्वम् इत्य् अर्थः, तेन चरति प्रवर्तते—वैकारिक इत्य् अर्थः । तैजस इति क्षोभकत्वात् तेजो रजस् तत्र भवस् तैजसः । तामसस् तु स्पष्टार्थः । किन्तु रजस एव विकार-हेतुत्वात् सत्त्वे तमसि च कार्योत्पत्तये तद्-अंश-समवायो ज्ञेयः ॥२४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्रिधेति त्रैविध्यम् एवाह । वैकारिकः सात्त्विकः । तैजसो राजसः । यद्-भिदा यस्य भेदः । द्रव्य-शक्तिर् इत्य् आदीनि प्रातिलोम्येन त्रयाणां लक्षणानि । द्रव्येषु महा-भूतेषु आकाशादिषु शक्तिर् उत्पादन-सामर्थ्यं यस्य सः । क्रियासु इन्द्रियेषु तथा ज्ञानेषु शक्तिर् यस्य सः । हे प्रभो नारद ! त्वम् अत्र प्रभवसि सर्वं जानास्य् एवेत्य् अर्थः । अत्र साम्यावस्थं गुण-त्रयम् एव प्रधानं तस्य कालेन सत्त्वांशस्योद्रेको महत्-तत्त्वं रजोऽंशस्योद्रेको महत्-तत्त्व-भेदः सूत्र-तत्त्वम् । तमोऽंशस्योद्रेकोऽहंकार-तत्त्वम् । अतोऽहंकार-कार्येषु तामसम् आकाशादिकं बहु, राजसं सात्त्विकं चाल्पम् । एवं तद्-उपाधिकेषु जीवेष्व् अपि तामसाधिक्यम् ॥२४॥

———————————————————————————————————————

॥ २.५.२५ ॥

तामसाद् अपि भूतादेर् विकुर्वाणाद् अभून् नभः ।

तस्य मात्रागुणः शब्दो लिङ्गं यद् द्रष्टृ-दृश्ययोः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

ज्ञानेन्द्रियाणां देवानां ज्ञान-शक्तिर् उदीरिता ।

क्रिया कर्मेन्द्रियाणां च भूतानां द्रव्य-शक्तितः ॥ इति स्कान्दे ।
द्रव्यं तु द्रवण-प्राप्यं द्वयोर् विवदमानयोः ।
पूर्व-वेगाभिसम्बन्धाद् आकाशस् तु प्रदेशतः ॥ इति प्रकाश-संहितायाम् ॥२५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भूतादेर् इति तामसस्य विशेषणम् । ननु तामसात् प्रथमं शब्दो भवतीति प्रसिद्धम् ? सत्यम् । स तु तस्य नभसो मात्रा सूक्ष्मं रूपम् । गुणश् चासाधारणो व्यावर्तको धर्मः शब्द-द्वारा नभ उत्पद्यत इत्य् अर्थः । एवम् एव स्पर्शादिष्व् अपि द्रष्टव्यम् । शब्दस्य लक्षणं लिङ्गम् इति । कुड्याद्य्-अन्तरितेन केनचित् उच्चैर् गजो गज इत्य् उक्ते यो गज-द्रष्टा यश् च तेन दृश्यो गजस् तयोर् लिङ्गं बोधकम् । लिङ्ग-विशेषणत्वाद् यच्-छब्दस्य षण्ढत्वम् ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति । नन्व् इति । इत्य् अर्थ इति । शब्दादी-नामाकाशादि-सूक्ष्म-रूपत्वेन कारणत्वं सत्येवाकाशे शब्दानुभवात् कार्यत्वम् अपीति भावः । विश्वनाथस् तु पुरा-वृत्तेषु परोक्षोऽपि यो वसुदेव-दशरथादिर् द्रष्टा यश् च तेन दृश्यः कृष्ण-रामादिस् तयोर् द्वयोर् अपि यल्-लिङ्गं य एव शब्दो ज्ञापकः इत्य् आह ॥२५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कारणाश्रयायाम् उद्भवावस्थायां तद्-आत्मकः सन्-मात्रा कार्याश्रयायाम् उद्भूतावस्थायां स्वतस् तु गुणः । दृष्ट-दृश्ययोर् यल्-लिङ्गं बोधकं तद् एव च शब्द इत्य् अर्थः ॥२५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भूतादेर् इति तामसस्य विशेषणम् । ननु तामसाहंकारात् प्रथमं शब्दो भवतीति प्रसिद्धम् ? सत्यम् । स तु तस्य नभसो मात्रा सूक्ष्मं रूपम् । गुणश् चासाधारणो व्यावर्तको धर्मः । शब्द-द्वारा नभ उत्पद्यत इत्य् अर्थः । एवम् एव स्पर्शादिष्व् अपि द्रष्टव्यम् । शब्दस्य लक्षणम् आह—लिङ्गम् इति । पुरावृत्तेषु परोक्षोऽपि यो वसुदेव-दशरथादिर् द्रष्टा, यश् च तेन दृश्यः कृष्ण-रामादिस् तयो तयोर् द्वयोर् अपि यल् लिङ्गं, स एव शब्दो ज्ञापकः । लिङ्ग-विशेषणत्वाद् यच्-छब्दस्य षण्डत्वम् ॥२५॥

———————————————————————————————————————

॥ २.५.२६ ॥

नभसोऽथ विकुर्वाणाद् अभूत् स्पर्श-गुणोऽनिलः ।

परान्वयाच् छब्दवांश् च प्राण ओजः सहो बलम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **पञ्चेन्द्रियाभिमेयत्वान् मात्रा-गुण इतीरितः इति मात्स्ये । शब्देनैव परो द्रष्टा ज्ञायते जगद् एव च इति विष्णु-संहितायाम् ॥२६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परस्य नभसः कारणत्वेनान्वयाच् छब्दवांश् च वायुः । तस्यैव लक्षणं प्राणो देह-धारणम् । ओजः-सहोबलानीन्द्रिय-मनः-शरीराणां पाटवानि तेषां हेतुर् इत्य् अर्थः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परस्य नभसः कारणत्वेनान्वयाच् छब्दवांश् च वायुः । वायोश् च लक्षणं प्राणो देह-धारणम् । ओजः-सहोबलानीन्द्रिय-मनः-शरीराणां पाटवानि, तेषां हेतुर् इत्य् अर्थः ॥२६॥

———————————————————————————————————————

॥ २.५.२७ ॥

वायोर् अपि विकुर्वाणात् काल-कर्म-स्वभावतः ।

उदपद्यत तेजो वै रूपवत् स्पर्श-शब्दवत् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

सर्व-चेष्टयितृत्वात् तु प्राणोभिभव-शक्तितः ।

ओजस् त्व् अनभिबाव्यत्वात् सहश् च स्वेच्छयाकृतेः ।
बलं विधारकत्वाच् च विधूतिर् वायुर् उच्यते ॥ इति भारते ॥२७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उदपद्यत उत्पन्नम् । स्वतो रूपवत् तेजो वायु-नभसोः कारण-भूतयोर् अन्वयात् स्पर्श-शब्दवच् च । एवम् अम्भसः पृथिव्याश् च परान्वयाधिक्याद् गुणाधिक्यम् ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्वतो रूपवत्-तेजो वायु-नभसोः कारण-भूतयोर् अन्वयात् स्पर्श-शब्दवच् च । एवम् अम्भसः पृथिव्याश् च परान्वयाधिक्याद् गुणाधिक्यम् ॥२७॥

———————————————————————————————————————

॥ २.५.२८ ॥

तेजसस् तु विकुर्वाणाद् आसीद् अम्भो रसात्मकम् ।

रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **घोषः शब्दः ॥२८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । प्राणस्य देह-धारणे ओज-आदीनां च कारणे लक्षणा कार्यार्थानुपपत्त्येति भावः । यद् वा, प्राणादि-रूपोऽनिल इत्य् अर्थः ॥२६-२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ २.५.२९ ॥

विशेषस् तु11** विकुर्वाणाद् अम्भसो गन्धवान् अभूत् ।**

परान्वयाद् रस-स्पर्श- शब्द-रूप-गुणान्वितः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विशेषः पृथ्वी । पृथिव्याश् च परान्वयाधिक्याद् गुणाधिक्यम् ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विशेषेण शेषाः स्वगुण-गन्धेतराः सर्व-भूत-गुणाः शब्दादयोऽपि यत्र स-विशेषो विशिष्यते सर्व-भूत-गुण-धारणेनोत्कर्षं प्राप्नोतीति वा विशेषः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विशेषः पृथिवी ॥२९॥

———————————————————————————————————————

॥ २.५.३० ॥

वैकारिकान्12** मनो जज्ञे देवा वैकारिका दश ।**

दिग्-वातार्क-प्रचेतोऽश्वि- वह्नीन्द्रोपेन्द्र-मित्र-काः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

अनाद्य्-अनन्तोऽपि हरिर् वैकारिक-गणेष्व् अजः ।

अवतीर्णः पदाङ्गुष्ठम् अध्यास्ते विश्व-भुग् विभुः ॥
पाद-देवस् तु यज्ञोऽन्यस् तं प्रविश्य हरिः स्वयम् ।
सर्वं विधारयन् देहं वर्ततेऽनन्त-शक्ति-धृक् ॥ इति वह्नि-पुराणे ॥३०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मनः-शब्देनैव तद्-अधिष्ठाता चन्द्रोऽपि द्रष्टव्यः । अन्ये च दश देवा वैकारिकाः सात्त्विकाहंकार-कार्याः । तान् आह । दिशश् च वातश् च अर्कश् च प्रचेताश् च अश्विनौ च, एते पञ्च श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानाम् अधिष्ठातारः । वह्निश् च इन्द्रश् च उपेन्द्रश् च मित्रश् च कश् च प्रजापतिः, एते पञ्च वाक्-पाणि-पाद-पायूपस्थानाम् अधिष्ठातारः ॥३०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वैकारिकात् सात्त्विकाहं कारात् ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मनसश् च सात्त्विकत्वं चित्तात् नातिभिन्नावस्थायां ज्ञेयम् । चित्तं तु यथा कापिलेये—स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः [भा।पु। ३.२६.२२] इति । उपेन्द्रोऽयं तद्-आवेशो देवता-विशेषः—यदैते [भा।पु। २.५.३२] इत्य्-आदिना वक्ष्यमाणेन तस्यापि भगवद्-धीन-शक्तित्वेनावगमात् ॥३०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वैकारिकात् सात्त्विकाहंकारात् । मनः-शब्देनैव तद्-अधिष्ठाता चन्द्रोऽपि द्रष्टव्यः । देवान् एवाह—दिशश् च वातश् च अर्कश् च प्रचेताश् च वरुणश् च अश्विनौ च, एते पञ्च श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानाम् अधिष्ठातारः । वह्निश् च इन्द्रश् च उपेन्द्रश् च मित्रश् च कश् च प्रजापतिश् च, एते पञ्च वाक्-पाणि-पाद-पायूपस्थानाम् अधिष्ठातारः ॥३०॥

———————————————————————————————————————

॥ २.५.३१ ॥

तैजसात् तु विकुर्वाणाद् इन्द्रियाणि दशाभवन् ।

ज्ञान-शक्तिः क्रिया-शक्तिर् बुद्धिः प्राणश् च तैजसौ ।

श्रोत्रं त्वग्-घ्राण-दृग्-जिह्वा वाग्-दोर्-मेढ्राङ्घ्रि-पायवः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यतो ज्ञान-शक्तिर् बुद्धिः क्रिया-शक्तिः प्राणश् च तैजसाहंकार-कार्यौ । अतो ज्ञान-क्रियाविशेष-रूपाणीन्द्रियाण्य् अपि तैजसाद् अभवन्न् इत्य् अर्थः । तान्य् आह—श्रोत्रम् इति । दोः पाणिः । मेढ्रम् उपस्थः । क्रमस् त्व् अत्र13 न विवक्षितह् ॥३१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । अत्र तामसाहंकार-कार्योऽप्य् अनिलः प्राण-रूपेण तैजसाहंकार-कार्योऽपि भवतीति भावः ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तैजसाद् इति सार्धकम् । प्राणस्य तैजसत्वात् तदीय-क्रिया-शक्ति-मताम् इन्द्रियाणां तैजसत्त्वं तथा बुद्धेस् तैजसत्वात् तदीय-ज्ञान-शक्तिमताम् इन्द्रियाणां तैजसत्वम् इत्य् अर्थः ।

संशयोऽथ विपर्यासो निश्चयः स्मृतिर् एव च ।
स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् ॥ [भा।पु। ३.२६.२२] इति तृतीयोक्तेः ॥३१॥14

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तैजसात् राजसाहंकारात् दशाभवन् । तत्र पञ्च-ज्ञान-शक्तिर् बुद्धिः, पञ्च-क्रिया-शक्तिः प्राणः । बुद्धि-प्राणौ तु तैजसौ, अतः पञ्च-श्रोत्रादयो बुद्धि-विशेषः । पञ्च-वाग्-आदयः प्राण-विशेषा इत्य् अर्थः । तत्र तामसाहंकार-कार्योऽनिल एव प्राण-रूपेण तैजसाहङ्कार-कार्योऽपि भवतीति ज्ञेयम् । दोः पाणिः । मेढ्र उपस्थः । पायुर् गुदम् । क्रमस् त्व् अत्रन विवक्षितह् ॥३१॥

———————————————————————————————————————

॥ २.५.३२ ॥

यदैतेऽसङ्गता15भावा भूतेन्द्रिय-मनो-गुणाः ।

यदायतन-निर्माणे न शेकुर् ब्रह्म-वित्तम ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं कारण-सृष्टिम् उक्त्वा कार्य-सृष्टिम् आह । यदा एते असङ्गता अमीलिता आसन्, अत एव यदा आयतनस्य शरीरस्य निर्माणे न शेकुः ॥३२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **असङ्गता अमिलिताः ॥३२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यदेति युग्मकम् ॥३२॥

———————————————————————————————————————

॥ २.५.३३ ॥

तदा संहत्य चान्योन्यं भगवच्-छक्ति-चोदिताः ।

सद्-असत्त्वम् उपादाय चोभयं ससृजुर् ह्य् अदः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **सद्-असत्त्वं व्यक्ताव्यक्तत्वम् । नः भयम् अदो ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्तीति जीवानां भय-कारणम् । तत्र हि संसृतिः ।

आकाश-वायु त्व् अव्यक्त इतरेऽण्डे प्रकाशिताः ।
तथात्वाद् वाद्य-भूतानाम् अण्ड-स्थानां च सा गतिः ॥ इति मात्स्ये ॥३३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तदा सद्-असत्त्वं16 प्रधान-गुण-भावम् उपादाय स्वीकृत्य । उभयं समष्टि-व्यष्ट्य्-आत्मकं शरीरम्17 ॥३३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सद्-असत्त्वं मुख्य-गौणत्वं शरीरं ब्रह्माण्डाख्यं समष्टिः प्रतिजीवं व्यष्टिः भगवतस् तत्त्व-वर्ग-प्रविष्ट-भगवद् अंश-प्रथम-पुरुषस्य शक्त्या संहननकारिण्या चोदिताः यद् वा, न्यूनाधिक-भावम् आदाय अर्द्धम् अर्द्धम् आकाशादेर् आत्मीयभागोऽर्द्धेर्द्धे त्व् अन्यभूत-चतुष्टयाष्टमाष्टम् अभागमादायेति पञ्ची-करणं सूचितम् ॥३३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सद्-असत्त्वं मुख्य-गौणत्वम् । भगवतः तत्त्व-वर्ग-प्रविष्ट-भगवद्-अंश-प्रथम-पुरुषस्य शक्त्या संहनन-कारिण्या चोदिताः प्रयोजिताः ॥३३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तदा भगवतस् तेष्व् एव प्रविष्टस्य, शक्त्या संहनन-कारिण्या चोदिताः योजिताः सन्तः, सद्-असत्त्वं मुख्य-गौण-भावम् उपादाय स्वीकृत्य उभयं समष्टि-व्यष्ट्य्-आत्मकम् अदः अण्ड-रूपं शरीरं ससृजुः ॥३३॥

———————————————————————————————————————

॥ २.५.३४ ॥

वर्ष-पूग-सहस्रान्ते तद् अण्डम् उदके शयम् ।

काल-कर्म-स्वभाव-स्थो जीवोऽजीवम् अजीवयत् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **काल-कर्म-स्वभावस्थः अजीवः परमेश्वरः । अजीवं स्वात्मानम् अजीजनत् । तद्-अण्डं यथा स्वात्मानं प्रसूते तथा चकार ।

यः प्राण-धारणं प्राण-प्रसादात् कुरुतेऽनिशम् ।
स जीव इति सन्दिष्टस् तद्-अन्योऽजीव उच्यते ॥
यत्-प्रसादात् स तु प्राणः कुरुते स्वस्य धऋअणम् ॥ इति वायु-प्रोक्ते ।
काल-कर्म-स्वभावस्थो वासुदेवः परः पुमान् ।
अकरोद् अण्डम् उद्बुद्धम् आत्म-प्रसव-कारणम् ॥ इति ब्रह्माण्डे ।

जीव इति वा ।

प्राणं धारयते यस्मात् स जीवः परमेश्वरः ।
अजीवोऽपि महा-तेजास् त्व् अथवा जीवयन् जगत् ॥ इति स्कान्दे ॥३४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काल-कर्म-स्वभावान् अधिष्ठाय स्थितो जीवयतीति जीवः परमात्मा अजीवम् अचेतनम् अजीवयच् चेतयति स्म ॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वर्ष-पूगैवर्ष-समूहैर् यत् सहस्रं तदन्ते सहस्र-वर्षान्ते इत्य् अर्थः । जीवो हिरण्यगर्भान्तर्यामी पुरुषः जीवयतीति व्युत्पत्तेः । अजीवमन् अभिव्यक्त-जीवत्वाद् अचेतनं तद्-अण्डम् ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च वर्षेति । अजीवम् अनभिव्यक्त-जीवत्वाद् अचेतनं तद् अण्डम् । यः पूर्वं सृष्टि-कार्ये काल-कर्म-स्वभावान् एवोपायीकृत्य स्थितः पुरुष स एव जीवो जीवन-हेतुः स्वांशेन तत् प्रविश्य जीव-समष्ट्य्-अभिव्यञ्जकः सन् अजीवयत् ॥३४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वर्ष-पूगैर् वर्ष-समूहैर् यत् सहस्रं तद्-अन्ते सहस्र-वर्षान्ते इत्य् अर्थः । जीवो हिरण्यगर्भान्तर्यामी पुरुषः । जीवयतीति व्युत्पत्तेः । तस्यात्मा शरीरम् इति श्रुतेः । अजीवम् अचेतनम् अण्डम् अजीवयत् चेतयति स्मेति परमेश्वरस्यान्वय उक्तः ॥३४॥

———————————————————————————————————————

॥ २.५.३५ ॥

स एव पुरुषस् तस्माद् अण्डं निर्भिद्य निर्गतः ।

सहस्रोर्व्-अङ्घ्रि-बाह्व्-अक्षः सहस्रानन-शीर्षवान् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

अण्डे जातौ पुमांसौ द्वौ हरिर् ब्रह्मा तथैव च ।

अनादिस् तु हरिस् तत्र ब्रह्मा सादिर् उदाहृतः ॥ इति च ॥३५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निर्भिद्य पृथक् कृत्य स्थित18 इत्य् अर्थः ॥३५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स एव हिरण्यगर्भान्तर्यामी पुरुषस् तस्माद् इति ल्यब्-लोपे पञ्चमी । तं हिरण्यगर्भ प्रविश्य स्थितोऽप्य् अण्डं निर्भिद्य निर्गतस् तद्-बहिः स्थित इति भावः । इत्य् अर्थ इति । कीदृशः सन्न् इत्य् अपेक्षायां कारणार्णव-स्थं तस्य स्वीय-स्वरूपम् आह । सहस्रेति । सहस्रशीर्षा इति श्रुत्य्-अन्तरात् ॥३५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स एव पुरुष इति । जगृहे पौरुषं रूपं [भा।पु। १.३.१] इत्य्-आदि प्रथमे, यद्-रूपं विरूपितं, स एव तत्राप्य् उक्तं, पश्यन्त्य् अदो रूपं [भा।पु। १.३.४] इत्य्-आदि यस्य पुरुषस्यावयवैर् लोकान् कल्पयति, यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः [भा।पु। १.३.३] इति प्रथमे यद् उक्तं तद् अन्यत् । तत् तु तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् [भा।पु। १.३.३] इति यत् तस्यैवानुवादः ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स तत्-तत्-कर्तैव पुरुषः । अण्डं निर्भिद्य तस्मान् निर्गत इति । तद्-अन्तर्-बहिर् व्यप्य स्थित इत्य् अर्थः । तस्य स्वीयं रूपम् आह—सहस्रेति । पुरुषेण नारायणेनाभिष्टौति सहस्र-शीर्षा पुरुष इति श्रुत्य्-अन्तरात् ॥३५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्व-व्यापकत्वाद् अव्यतिरेकम् आह । स एव हिरण्यगर्भान्तर्यामी पुरुषः । तस्माद् इति ल्यब्-लोपे पञ्चमी । त्वं हिरण्यगर्भं प्रविश्य स्थितोऽपि अण्डं निर्भिद्य, निर्गतः तद्-बहिः-स्थितः । कीदृशः सन् ? इत्य् अपेक्षायां कारणार्णवस्थं तस्य स्वीय-निर्गुणं स्वरूपम् आह—सहस्रेति ॥३५॥

———————————————————————————————————————

॥ २.५.३६ ॥

यस्येहावयवैर् लोकान् कल्पयन्ति मनीषिणः ।

कट्य्-आदिभिर् अधः सप्त सप्तोर्ध्वं जघनादिभिः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

हरेर् अवयवैर् लोकाः सृष्टा इति विकल्पनम् ।

साक्षात् सत्यम् अतोऽन्योन्यस्माद् व्यवहारिकम् उच्यते ॥ इति मात्स्ये ॥३६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-अवयवैर् लोक-रचनाम् आह—यस्येति । कटिर् इत्य् ऊरु-मूलयोः पश्चाद्-भागः । जघनं पुरो-भागः अधः सप्त-लोकान् अतलादीन् । ऊर्ध्वं भूर्-आदीन् सप्त ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इह ब्रह्माण्डाभ्यन्तरे यस्य गुणमय-रूपस्यावयवैर् लोकान् कल्पयन्ति स लोकमयः पुमान् विराट्-पुरुष इति षष्ट-श्लोकस्थेनान्वयः । कटिर् इति ऊरु-मूलयोः पश्चाद्-भागो । जघनं पुरोभागः ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कल्पितं रूपम् आह—यस्येति ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इह ब्रह्माण्डाभ्यन्तरे यस्य गुण-मय-रूपस्यावयवैर् लोकान् कल्पयन्ति स लोक-मयः पुमान् विराट् पुरुषः इति षष्ठ-श्लोकस्थेनान्वयः । कटिर् इत्य् ऊरु-मूलयोः पश्चाद्-भागः । जघनं पुरो-भागः । अधः सप्त-लोकान् अतलादीन् । ऊर्ध्वं भूर्-आदीन् ॥३६॥

———————————————————————————————————————

॥ २.५.३७ ॥

पुरुषस्य19मुखं ब्रह्म क्षत्रम् एतस्य बाहवः ।

ऊर्वोर् वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वर्णानां तत उत्पत्तिं दर्शयति—पुरुषस्येति । ब्रह्म ब्राह्मणो मुखम् इति कार्य-कारणयोर् अभेद-विवक्षयोक्तम् । बाहव इति च । क्षत्रं क्षत्रियः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रसङ्गेन वर्णानां परमेश्वराद् उत्पत्तिम् आह । ब्रह्म ब्रह्मणो मुखम् इति कार्य-कारणयोर् अभेद-विवक्षयोक्तम् । क्षत्रं क्षत्रियम् । ब्राह्मणोऽस्य मुखम् आसीद् बाहू राजन्यः कृतः इति श्रुतेः ॥३७॥

———————————————————————————————————————

॥ २.५.३८ ॥

भूर्-लोकः20** कल्पितः पद्भ्यां भुवर्-लोको**21‘स्य नाभितः ।

हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदानीम् उपासनार्थं लोक-कल्पना-भेदान् दर्शयन् सप्त-लोक-पक्षम् आह द्वाभ्याम् । भूर्-लोकः पातालम् आरभ्य । पद्भ्यां कटि-पर्यन्ताभ्याम् ॥३८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्राह्मणोऽस्य मुखम् आसीद् बाहू राजन्यः इति श्रुति-भेद एवेति ॥३७-३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ २.५.३९ ॥

ग्रीवायां जनलोकोऽस्य तपोलोकः स्तन-द्वयात् ।

मूर्धभिः सत्यलोकस् तु ब्रह्मलोकः सनातनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्तन-द्वयाद् इत्य् उपासनार्थत्वाद् ऊर्ध्वाधो-भाग-वैपरीत्यं न दोषाः । यद् वा, स्तनच्-छब्दं कुर्वद् यद् ओष्ठ-द्वयं तस्माद् इत्य् अर्थः । ब्रह्म-लोको22 वैकुण्ठाख्यः, सनातनो नित्यः, न तु सृज्य-प्रपञ्चान्तर्वर्तीत्य् अर्थः ॥३९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सति गत्यन्तरे वैपरीत्य्-अन्दोषायेति । तत्राह । यद् वेति । इत्य् अर्थ इति । अण्ड-मध्य-वर्तित्वेऽपि भगवान् इव नित्य इति भावः । ब्रह्मणो भगवतो लोको ब्रह्मरूपो वा लोक इति ॥३९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ब्रह्म-लोकः सनातनः इति ब्रह्म-भूतो लोको ब्रह्म-लोकः श्री-कृष्ण-लोक इति । अस्य सनातनत्वे पुरुषावयव-कल्पितत्वं नास्तीति भावः ॥३९॥

———————————————————————————————————————

**जीव-गोस्वामी (भगवत्-सन्दर्भः, ५६) : **वैकुण्ठस्य नित्यत्वम् । टीका च—ब्रह्म-लोकः वैकुण्ठाख्यः । सनातनो नित्यः, न तु सृज्य-प्रपञ्चान्तर्-वर्ति इत्य् एष । ब्रह्म-भूतो लोको ब्रह्म-लोकः ॥३९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्तन-द्वयम् आरभ्य ग्रीवा-पर्यन्तेऽवयवे यथा-क्रमं जन-लोकस् तपो-लोकश् चेत्य् अर्थः । ब्रह्मणो भगवतो लोकः ब्रह्म-स्वरूपो लोक इति वा ॥३९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्तन-द्वयाद् इत्य् उपासनार्थत्वाद् ऊर्ध्वाधो-भाग-वैपरीत्यं न दोषाः । यद् वा, स्तनच्-छब्दं कुर्वद् यद् ओष्ठ-द्वयं तस्माद् इत्य् अर्थः । सत्य-लोकोसप्तमःतद्-उपरि ब्रह्मणो भगवतो लोकः वैकुण्ठः, स तु विराड्-अङ्गत्वेन न ध्येयः, यतः सनातनः, अण्डा-मध्य-वर्तित्वेऽपि भगवान् इव नित्यः ॥३९॥

———————————————————————————————————————

॥ २.५.४०-४१ ॥

तत्-कट्यां चातलं कॢप्तम् ऊरुभ्यां वितलं विभोः ।

जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।

पातालं पाद-तलत इति लोकमयः पुमान् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं चतुर्दश-लोक-पक्षं दर्शयति । तत्र जघनादिभिर् भूरादयः पूर्वोक्ता एव सप्त, कट्य्-आदिभिर् अधः सप्त-लोकान् आह—तत्-कट्याम् इति द्वाभ्याम् । शुद्धं हरि-भक्त-निवासत्वात् ॥४०-४१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र चतुर्दश-लोकपक्षे हरि-भक्ताः प्रह्लाद-बल्यादयस् तेषां निवासत्वात् । यत्र यत्र च मद्-भक्ताः स देशः श्रेयसां पदम् इत्य् उक्तत्वात् ॥ स्वर्लोकोऽप्य् अत्र ब्रह्मलोक-पर्यन्तो ज्ञेयः ॥४०-४१॥

इति श्री-भागवत-भावार्थ-दीपिका-प्रकाशे द्वितीय-स्कन्धे पञ्चमोऽध्यायः ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत् कट्याम् इति युग्मकम् ॥४०-४१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चतुर्दश-लोक-पक्षं दर्शयति । तत्र जघनादिभिर् भूर्-आदयः पूर्वोक्ता एव सप्त । कट्य्-आदिभिर् अधः सप्त-लोकान् आह—तत्-कट्याम् इति द्वाभ्याम् । शुद्धं प्रह्लाद-बलि-प्रभृति-हरि-भक्त-निवासत्वात् ॥४०-४१॥

———————————————————————————————————————

॥ २.५.४२ ॥

भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोकोऽस्य नाभितः ।

स्वर्-लोकः23** कल्पितो मूर्ध्ना इति वा लोक-कल्पना ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रि-लोक-पक्षम् आह । भूर्-लोकः पातालादि-सहितः ॥४२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पद्भ्यां कटि-पर्यन्ताभ्याम् । नाभितः उदर-पर्यन्ते इत्य् अर्थः । मूर्ध्ना हृद्-आदि-मूर्ध-पर्यन्तेन ॥४२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्रि-लोक-पक्षम् आह । भूर्-लोकः पातालादि-सहितः ॥४२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वितीये पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे
पुरुष-संस्थानुवर्णनं नाम
पञ्चमोऽध्यायः
॥२.५॥

———————————————————————————————————————

(२.६)


  1. अन्तर्भावित-णिज्-अर्थः । ↩︎

  2. “अत्रास्ताम्…वाच्यम्” इति टीकांशः क-ग-घ-कर-लिपिषूपलभ्यते ॥ ↩︎

  3. तेषाम् अन्यतः पराभवो यथा न स्यात् तथा भावयाम् आस । अमोघ-वाञ्छ इत्य् अर्थः । ↩︎

  4. “तद् एतत्…आन्यान्” इत्य् अत्र “तद् एतत् प्रश्न-वाक्यं ब्रह्म-मुखेनैव तद्-उत्तर-वाक्य-द्वारा अन्यान्” इति पाथान्तरं ख-करलिप्यां प्राप्तम् ॥ ↩︎

  5. यथार्कादयस् तत्-प्रकाशितास् तच्-छक्त्यैव तत्-तत्-प्रकाशयन्तीत्य् अर्थः । ↩︎

  6. नमो धीमहीति । मनसा नमनं कुर्वीमहीत्य् अर्थः । ↩︎

  7. परमेश्वरस्यापीत्य् अर्थः । ↩︎

  8. अत्र निर्गुणस्य विभोर् ईश्वरस्येत्य् अन्वयो ज्ञेयः । ↩︎

  9. एवम् उभयोर् एकान्वये एकं गुण-पदम् अधिकं भवतीति भाति, परन्तु गुणाः शुक्ल-रक्त-कृष्ण-वर्णा इति पूर्व-श्लोकोक्तस्य त्रयो गुणा इति-वाक्यस्य विशेषणम् । यद् वाऽगुणोऽप्रधानेऽ इति मेदिनी-कोशात् स्थित्य्-आद्य्-अर्थं मायया गृहीता अप्रधान-रूपा इति पूर्व-श्लोकेनैव सम्बन्धः । अतो न पौनरुक्त्य-शङ्केति दीपि॥ ↩︎

  10. मायेशः स्वया मायया विबुभूषुर् विविधं भवितुम् इच्छुर् यदृच्छया स्वैरितया संकल्प-मात्रेण वात्मनि प्राप्तं लीनं सन्तं कालं क्षोभकं सृष्टि-कालेति व्यवहार-हेतुं, कर्म जीवादृष्टं, स्वभावं मायादीनां परिणामित्वादि-रूपं कारणतया उपाददे सृष्ट्य्-अर्थम् अङ्गीकृतवान् इत्य् अन्वयः । ↩︎

  11. तु-शब्दोऽस्याः सर्व-वैलक्षण्य-द्योतनार्थः ↩︎

  12. वैकारिकाद् इति मनोऽन्तः-करण-चतुष्टयम् । अस्य तात्पर्येण चन्द्रमा मनसो जात इत्य् अस्या ऋचोऽर्थो दर्शितः । ↩︎

  13. क्रमस् तु श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानि वाक्-पाणि-पाद-पायूपस्थाः । ↩︎

  14. प्राणस्येति टीकाया उत्तरांशः केवलं ख-करलिपेर् अधिक-पाठः ॥ ↩︎

  15. ‘असंहताःऽ इति सुबो। पाठः । ↩︎

  16. सद्-असत्त्वं मुख्य-गौण-भावम् । क्रम॥ ↩︎

  17. ब्रह्माण्डाभिधम् । ↩︎

  18. पृथक् कृत्य स्थित इत्य् अर्थो मूल-स्थ-निर्गत इत्य् अस्य । ↩︎

  19. पुरुषस्येत्य् आदिना “ब्राह्मणोऽस्य मुखम् आसीत्” इत्य् अस्या ऋचोऽर्थ उक्तः । ↩︎

  20. भूर्लोक इत्य्-आदिना “नाभ्या आसीत्” इत्य् अस्या ऋचोऽर्थ उक्तह् । ↩︎

  21. भुवर् इत्य् अव्ययं अन्तरीक्ष-लोकस्य नाम । ↩︎

  22. अयं च सत्य-लोकस् तद्-उपरितनः सप्तम इत्य् अर्थः । ↩︎

  23. स्वर्लोके ब्रह्मलोक-पर्यन्तः । ↩︎