विषयः
सूतोक्तिः, राज्ञः सृष्टिविषयकः प्रश्नः, शुकस्य मङ्गलाचरणपूर्वकं कथारम्भश् च ।
॥ २.४.१ ॥
सूत उवाच—
वैयासकेर् इति वचस् तत्त्व-निश्चयम् आत्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **
तुर्ये परीक्षिता पृष्टं सृष्ट्य्-आदि हरि-चेष्टितम् ।
शुकेन ब्रह्म-तत्-पुत्र-संवादेनोपवर्ण्यते ॥१॥
राज्ञः प्रश्नं कथयितुं तस्य प्राक्तनीं स्थितिम् आह चतुर्भिः । वैयासकेः शुकस्य इति एवंभूतम् आत्मनस् तत्त्वस्य निश्चयो यस्मात् तद्-वच उपधार्य आकलय्य । सतीं कृष्ण एव सेव्यो नान्य इत्य् एवंभूताम् ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्रह्म-पुत्रे । नारदः ॥ सतीं विद्यमानाम् एव मतिं विशेषेणाधात् । यत औत्तरेय उत्तराया गर्भे प्रविष्टं कृष्णं तद् अवधि सदा स्मरन्न् एवेत्य् अर्थः । यद् वा, सतीम् अव्यभिचारिणीम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सती विद्यमाना कृष्णे या मतिस् ताम् एव **व्यधात् **विशेषेण अधात् । अकाम इत्य्-आदिना सामान्याकारेणोपधारितेऽपि विशेषे तात्पर्य्यावगमात् कृष्णे इति विशेषोक्तिः ॥१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **
चतुर्थे तु शुकः प्रोक्तः सृष्टि-लीलां परीक्षिता ।
ब्रह्म-नारद-संवादेनाह नत्वा गुरुं हरिम् ॥ओ॥
आत्मनस् तत्त्वस्य निश्चयो यस्मात्, तत् । कृष्णे सतीं विद्यमानाम् एव मतिं विशेषेण अधात् । यत औत्तरेयः, उत्तराया गर्भे प्रविष्टं कृष्णं तद्-अवधि सदा स्मरन्न् एवेत्य् अर्थः । यद् वा—सतीम् अव्यभिचारिणीम् ॥१॥
———————————————————————————————————————
॥ २.४.२ ॥
आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु ।
राज्ये चाविकले1** नित्यं विरूढां ममतां जहौ ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अन्येषां नित्यं निरूढां तदा विशेषतो जहौ ॥२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्मा देहः । पशवो गजादयः ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जहौ यः पूर्वम् एवेति शेयम् । विमर्शितौ हेयतया पुरस्तात् इत्य् उक्तेः । निरूढां दृढी-भूताम् ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **जहौ यः पूर्वम् एवेति ज्ञेयम् । विमर्शितो हेयतया पुरस्तात् [भा।पु। १.१९.५] इत्य् उक्तेः॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आत्मा देहः ॥२॥
———————————————————————————————————————
॥ २.४.३ ॥
पप्रच्छ चेमम् एवार्थं यन्2** मां पृच्छथ सत्तमाः ।**
कृष्णानुभाव-श्रवणे श्रद्दधानो महा-मनाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इमम् एवार्थं हरि-लीला-लक्षणम् ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यन् मां पृच्छथेति । आयुर् हरति वै पुंसाम् इत्य्-आदि-वाक्यैर् व्यञ्जितां कृष्ण-कथां ब्रूहीति यत् पृच्छथेमम् एवार्थं राजा शुकं पप्रच्छेत्य् अन्वयः । हे सत्तमा इति । शुद्ध-व्यवहार-प्रष्टारः सन्तः सामान्यतो धर्म-कथा-प्रष्टारः सत्तराः श्री-कृष्ण-कथा-प्रष्ट्वत्वाद् यूयं सत्तमा इति भावः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यन् मां पृच्छथेति आयुर् हरति वै पुंसाम् इत्य् आदि-वाक्यैर् व्यञ्जितां कृष्ण-कथां ब्रूहीति यत् पृच्छथ । इदम् एवार्थं राजा शुकं पप्रच्छेत्य् अर्थः ॥३॥
———————————————————————————————————————
॥ २.४.४ ॥
संस्थां विज्ञाय सन्न्यस्य कर्म त्रै-वर्गिकं च यत् ।
वासुदेवे भगवति आत्म-भावं दृढं गतः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
आप्तेः सर्व-गुणानां य आत्म-नामतया हरिम् ।
उपास्ते नित्यशो विद्वान् आप्त-कामस् तदा भवेत् ॥ इति वामने ॥४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संस्थां मृत्युम् । त्रैवर्गिकं धर्मार्थ-काम-प्रधानम् । सन्न्यस्य त्यक्त्वा आत्म-भावं परम-प्रेम्णा भगवद्-आत्मत्वं गतः प्राप्तः सन् पप्रच्छ ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पूर्वं सिद्धम् अपि तदा दृष्टं प्राप्तस्तद्वार्थं चकारेत्यर्थः ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मनो भावं प्रेमाणम् एव दृढं यथा स्यात् तथा गतः प्राप्तः॥४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **संस्थां मृत्युम् । सन्न्यस्य त्यक्त्वा । आत्मनो भावं प्रेमाणं पूर्व-सिद्धम् अपि तदा दृढं गतः प्राप्तः ॥४॥
———————————————————————————————————————
॥ २.४.५ ॥
राजोवाच—
समीचीनं वचो ब्रह्मन् सर्व-ज्ञस्य तवानघ ।
तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मह्यं मम तमोऽज्ञानं विशीर्यते नश्यति तव कथयतः सतः । अतः समीचीनम् ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे ब्रह्मन्न् इति । साक्षाद् ब्रह्म-स्वरूप एव त्वम् असीति भावः ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यतो ममापि तमो विशीर्यते अतो हरेः कथां कथयतः कथयितुम् आरभमाणस्य सर्वज्ञस्य तव वचः समीचीनम् इत्य् एव योज्यम् ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तमोऽज्ञानम् । मह्यं मम ॥५॥
———————————————————————————————————————
॥ २.४.६ ॥
भूय एव विवित्सामि3** भगवान् आत्म-मायया ।**
यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरैः4** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनश् च वेदितुम् इच्छामि । इदं दुर्विभाव्यम् अवितर्क्यं विश्वं यथा सृजति ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भूय एवेत्य् अत्र राज्ञोयम् अभिप्रायः । म्रियमाणस्य मम कृत्यानि श्रवण-कीर्तन-स्मरणान्येवोक्तानि तेषु च विषयाः कृष्ण-लीला-रूप-गुणाद्यास् तत्र प्रथमं माया-शक्तिम् अतस्तस्य सृष्ट्यादि-लीला जिज्ञास्यास् ततश् च चिच्-छक्तिमतो गोवर्द्धनोद्धरणाद्या इति भूय एव पुनर् अपि विवित्सामि । इड-भाव आर्षः ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भूय इति । एतद् अपि ज्ञातुम् इच्छामीत्य् अर्थः । आपाततः साक्षात् श्री-कृष्ण-चरित-श्रवणे तद्-वियोग-दुःख-बुद्धिः स्याद् इति निज-धैर्यापादनाय तद्-ऐश्वर्य-विशेष-प्रश्नोऽयं ज्ञेयः ॥६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भूय एवेत्य् अत्र राज्ञोऽयम् अभिप्रायः—मिर्यमाणस्य मम कृत्यानि श्रवण-कीर्तन-स्मरणान्य् एवोक्तानि । तेषां च विषयाः कृष्ण-लीला-रूप-गुणाद्याः । तत्र प्रथमं माया-शक्तिमतस् तस्य सृष्ट्य्-आदि-लीला जिज्ञास्या । ततश् च चिच्-छक्तिमतो गोवर्धनोद्धरणाद्या इति । भूय एव पुनर् अपि विवित्सामि वेदितुम् इच्छामि । इड-भाव आर्षः । दुर्विभाव्यं ध्यातुम् अशक्यम् ॥६॥
———————————————————————————————————————
॥ २.४.७-८ ॥
यथा गोपायति विभुर् यथा संयच्छते पुनः ।
यां यां शक्तिम् उपाश्रित्य पुरु-शक्तिः परः पुमान् ।
आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥5
नूनं भगवतो ब्रह्मन् हरेर् अद्भुत-कर्मणः ।
दुर्विभाव्यम् इवाभाति कविभिश् चापि चेष्टितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गोपायति पालयति । संयच्छते संहरते । पुरु-शक्तिर् बहु-शक्तिमान् । क्रीडन् यथा करोति । आत्मानं ब्रह्मादि-रूपिणं क्रीडयन् विकरोति विविधं करोति ॥७-८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुरवो बह्व्यश् चिन्-मया जीवा अन्तरङ्गा बहिरङ्गाः तटस्थाभिधानाः शक्तयो यस्य सः इति **विश्वनाथः **। क्रीडन् माया-शक्त्या सह दीव्यन्न् आत्मानं करोति महद् अहंकारादि-रूपत्वेन सृजतीति सर्ग-प्रश्नः । तथा क्रीडयन् ब्रह्म-मरीच्यादीन्देवयन् विकरोति आत्मानं देव-तिर्यग्-नरादि-रूपत्वेन सृजतीति विसर्ग-प्रश्नः ।
नन्व् इदं त्वं प्रायः सर्वं जानास्येव तत् किं पृच्छसीति तत्राह । नूनं निश्चितम् एव भगवतश्वेष्टितम् इदं सृष्ट्यादि-चरितं कविभिश् चापि न्यायादि-शास्त्र-कृद्भिर् अपि दुर्विभाव्यम् इव विभाति तैर् अपि परमाण्वादि-द्वारा सृष्ट्यादि-कथनाद् भवद् अभिप्रायाज्ञानाहुर् विभाव्यं दुर्ज्ञेयं ममाज्ञस्यात्र का कथेति भावः ॥७-८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथेति सार्ध-द्विकम् ॥७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गोपायति पालयति । संयच्छते संहरति । पुरवो बह्व्यश् चिन्मया जीवा अन्तरङ्गा बहिरङ्गाः तटस्थाभिधानाः शक्तयो यस्य सः । क्रीडन् माया-शक्त्या सह दीव्यन् । आत्मानं करोति महद्-अहङ्कारादि-रूपत्वेन सृजतीति सर्ग-प्रश्नः । तथा क्रीडयन् ब्रह्म-मरीच्य्-आदीन् देवयन् विकरोति आत्मानं देव-तिर्यङ्-नरादि-रूपत्वेन सृजतीति विसर्ग-प्रश्नः ॥७-८॥
———————————————————————————————————————
॥ २.४.९ ॥
यथा गुणांस् तु प्रकृतेर् युगपत् क्रमशोऽपि वा ।
बिभर्ति भूरिशस् त्व् एकः कुर्वन् कर्माणि जन्मभिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एकः पुरुष-रूपेण युगपत्, जन्मभिर् ब्रह्माद्य्-अवतारैः क्रमशो वा यथा प्रकृतेर् गुणान् गृह्णाति ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यथैका पुरुष-रूपेण युगपत् प्रकृतेर् गुणान्विभर्त्ति तत्रालिप्त एवेक्षणादिभिर् धारयति पालयति च । तथा जन्मभिर् ब्रह्म-मरीच्यादि-प्रादुर् भावैर् भूरिशो बहु-रूपं क्रमशोऽपि वा बिभर्ति । कीदृशः कर्माणि कुर्वन् । ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यथा एकः पुरुष-रूपेण युगपत् प्रकृतेर् गुणान् बिभर्ति, तत्रालिप्त एव ईक्षणादिभिर् धारयति पालयति च, तथा जन्मभिर् ब्रह्म-मरीच्य्-आद्य्-प्रादुर्भावैर् भूरिशो बहु-रूपः । क्रमशोऽपि क्रमेणापि वा बिभर्ति । कीदृशः ? कर्माणि सृष्ट्य्-आदीनि कुर्वन् ॥९॥
———————————————————————————————————————
॥ २.४.१० ॥
विचिकित्सितम् एतन् मे ब्रवीतु भगवान् यथा ।
शाब्दे ब्रह्मणि निष्णातः परस्मिंश् च भवान् खलु ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विचिकित्सितं सन्दिग्धम् । शाब्दे ब्रह्मणि विचारेण निष्णातः परस्मिन्न् अनुभवेन ॥१०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु कविभिश् चापि दुर्विभाव्यम् इदं चेद् अहं जानामीति तत्त्वं कथं जानासि तत्राह । यथा भगवान् कृष्णस्तद् भक्तो भवान् अपि तथेत्य् अर्थः । तत्रापि शब्दे ब्रह्मणि वेदे परस्मिन् ब्रह्मणि कृष्णे चानुभवेन अपरे शास्त्र-कर्तारस्तु श्री-कृष्णं नैवानुभवन्तीति ते न जानन्ति किं विधत्ते किमाचष्टे इत्य्-आदि-भगवद् उक्तेर् भगवान् एव वेदार्थं जानाति तत्कृपया तद्भक्ताश् च नान्य इति भावः । इह चिच्-छक्ति-प्राधान्येन कृष्ण-रासाद्य् अवतार-लीला इव माया-शक्ति-प्राधान्येन पुरुषाद्य् अवतार-लीला ब्रह्माण्ड-निर्माणाद्या अपि वैष्णवैः श्रव्या एव नात्र कटाक्षः कार्य इति श्रोतृवक्त्रोः परीक्षिच्-छुकयोर् अभिप्रायो वेदितव्यः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विचिकित्सितं सन्दिग्धम् । ननु कविभिश् चापि दुर्विभाव्यम् इदं चेत्, अहं जानामीति तत्, त्वं कथं जानासि ? तत्राह—यथा भगवान् कृष्णस् तद्-भक्तो भवान् अपि तथेत्य् अर्थः । तत्रापि शाब्दे ब्रह्मणि वेदे विचारेण निष्णातः, परस्मिन् ब्रह्मणि कृष्णे च खल्व् अनुभवेन, इत्य् एवम् अपरे शास्त्र-कर्तारस् तु नैवानुभवन्ति, ते न जानन्ति ।
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥
[भा।पु। ११.२१.४२] इति भगवद्-उक्तेः ।
इह चिच्-छक्ति-प्राधान्येन कृष्ण-रामाद्य्-अवतार-लीला इव माया-शक्ति-प्राधान्येन पुरुषावतार-लीला ब्रह्माण्ड-निर्माणाद्या वैष्णवैः श्रव्या एव, नात्र कटाक्षः कार्य इति श्रोतृ-वक्त्रोः परीक्षित्-शुकयोर् अभिप्रायो वेदितव्यः ॥१०॥
———————————————————————————————————————
॥ २.४.११ ॥
सूत उवाच—
इत्य् उपामन्त्रितो राज्ञा गुणानुकथने हरेः ।
हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपामन्त्रितः प्रार्थितः । प्रचक्रमे देवता-गुरु-नमस्कारादि-रूपम् उपक्रमं कृतवान् इत्य् अर्थः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हृषीकेशम् इति । सर्वेन्द्रिय-प्रवर्तकम् इति । मद्वाचि स एव स्थित्वा प्रतिवदत्व् इत्य् अभिप्रायेण प्रचक्रमे इत्य् अर्थः इति । देवतैव गुरुर् इति तन्न् अतिरूपं मङ्गलम् गुरुर् ब्रह्मा गुरुर् विष्णुः इत्याद्य् उक्तेः । यद् वा, गुरुर् व्यासो देवता परमात्मा तन्न् अतिरूपं वा मङ्गलं चकारेति भावः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हृषीकेशं सर्वेन्द्रिय-प्रवर्तकम् इति—मद्-वाचि स एव स्थित्वा प्रतिवदत्व् इत्य् अभिप्रायेण । प्रचक्रमे देवता-गुरु-नमस्कार-पूर्वकम् उपक्रमं कृतवान् इत्य् अर्थः ॥११॥
———————————————————————————————————————
॥ २.४.१२ ॥
श्री-शुक उवाच—
**नमः परस्मै पुरुषाय भूयसे **
सद्-उद्भव-स्थान-निरोध-लीलया ।
**गृहीत-शक्ति-त्रितयाय देहिनां **
अन्तर्-भवायानुपलक्ष्य-वर्त्मने ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह त्रयोदशभिः । परस्मै सर्वोत्तमाय । तत्र हेतुः—भूयसे अपरिमित-महिम्ने । तद् दर्शयति । सतः प्रपञ्चस्य उद्भवादिषु निमित्त-भूता या लीला तया गृहीतं ब्रह्मादि-रूपेण रज-आदि शक्ति-त्रितयं येन तस्मै । अन्तर्भवाय अन्तर्यामिणे । अत एव सर्वान्तरत्वाद् अनुपलक्ष्यं6 वर्त्म यस्य ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एवं मङ्गलम् एव । तत्र सर्वोत्तमत्वे । तत् अपरिमित-महिमत्वम् । अत एवान्तर्यामि त्वाद् एव । अत्र विश्वनाथः—परस्मै पुरुषाय पुरुषोत्तमाय श्री-कृष्णायः नमः । यस्मात् क्षरमतीतोहम् इत्य्-आदि तद् उक्तेः । पुरुषोत्तमत्वं तत्रैव नान्यत्रेति हरिर् यथैकः पुरुषोत्तमः स्मृतः इति महाकव्युक्तेश् व । प्रथमैश्वर्यम् आह—भूयसे पुरुषाद्य् अवतारैर् अपरिमित-महिम्ने । तत्र पुरुषावतार-लीलाम् आह । देहिनां ब्रह्मादीनां समष्टि-व्यष्टीनाम् अन्तर्भवाय अनुपलक्ष्यं योगिभिर् अपि दुर्ज्ञेयं वर्त्म भक्ति-योग-लक्षणं यस्य तस्मै ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र प्रथमं भगवत्-तत्त्वं विवृण्वन् नमस्करोति—नम इति त्रयोदशभिः । परस्मै स्वयं भगवते श्री-कृष्णाय । यतः भूयसे सर्वतः परिपूर्णय । अतो ह्य् अंशतः पुरुषादि-रूपाय स्वतस् त्व् अनुपलक्ष्य-वर्त्मने ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवाह त्रयोदशभिः । परस्मै पुरुषाय पुरुषोत्तमाय श्री-कृष्णाय नमः । प्रथमम् ऐश्वर्यम् आह—भूयसे पुरुषाद्य्-अवतार-लीलाम् आह—समुद्भवेति । शक्ति-त्रितयं रजः-सत्त्व-तमः । द्वितीय-तृतीय-पुरुषावतार-लीलाम् आह—देहिनां ब्रह्मादीनां समष्टि-व्यष्टीनाम् अन्तर्भवाय अन्तर्यामिणे । अनुपलक्ष्यंयोगिभिर् अपि दुर्ज्ञेयं वर्त्म भक्ति-योगो यस्य तस्मै ॥१२॥
———————————————————————————————————————
॥ २.४.१३ ॥
**भूयो नमः सद्-वृजिन-च्छिदेऽसतां **
असम्भवायाखिल-सत्त्व-मूर्तये ।
**पुंसां पुनः पारमहंस्य आश्रमे **
व्यवस्थितानाम् अनुमृग्य-दाशुषे ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अखिल-सत्त्व-मूर्तये पूर्ण-साधु-भाव-स्वरूपाय ।
निःशेष-गुण-पूर्णत्वात् सत्त्व इत्य् एव तं विदुः ॥ इति महा-संहितायाम् ॥१३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विचित्र-फल-दातृत्वम् अनुस्मरन् प्रणमति । भूयः पुनश् च नमः । सतां धर्म-वर्तिनां वृजिन-च्छिदे दुःख-हन्त्रे । असताम् अधर्म-शीलानाम् असंभवायानुद्भव-हेतवे । अखिल-सत्त्व-मूर्तये, तत्-तद्-देवतादि-रूपेण तत्-तत्-फलदायेत्य् अर्थः । समग्र-सत्त्व-मूर्तये इति वा । पुनर्7 इति पूर्वोक्तोभय-वैलक्षण्यम् आह ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । तत् तद् देवताभक्त-रूपेणार्चयित्वा तत् तद् देवता-रूपेण फलदातापि स एव यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति । इत्यारम्य लभते च ततः कामान् मयैव विहितान् हितान् इत्यन्त श्री-मुखोक्तेः । श्लेषेण तम् अग्र-सत्त्व-मूर्तये शुद्ध-सत्त्वमूतय इति । विश्वनाथः—कृपा-माधुर्यम् आह । सद्-वृजिनच्छिदे राम-कृष्णाद्य् अवतारैः स्वभक्त-दुःखच्छिदे असतां पापिनामभक्त-राक्षसासुरादीनाम् अपि स्वकर्तृकवधेना-सम्यग्-भव-दुःख-निवर्तकाय व्यवस्थितानां विशेषतोवस्थितानां भक्ति-मिश्र-ज्ञानिनां शुद्ध-भक्तानां चानुमृग्यो ब्रह्मानन्दः प्रेमानन्दश् च तस्य दात्रे । सन्दर्भः । सतां वेदानुवर्तिनामसतां तद्बहिर् मुखानां दैत्यादीनामप्य् असम्भवाय मुक्तिदाय पुंसां पुनर् इति । तत्रानुमृग्यं भक्ति-योगैकसाध्यं स्वचरणारविन्दम् एव ज्ञेयम् । तथा परमहंसानाम् इति—कुन्ती-वाक्यात् । परमहंस-महामुनीनाम् अमलात्मनां भक्ति-योग-विधानार्थम् इति । प्रथमे परमहंस-महामुनीनाम् अन्वेषणीय-चरणौ चलयन् सहश्रीः इति तृतीये च निरूपितत्वात् ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र स्व-प्रयोजनं लीलावतारं दर्शयन्न् आह—भूय इति द्वाभ्याम् । सतां वेद-मार्गानुसारिणां देवादीनां दुःख-हन्त्रे । असतां तद्-बहिर्-मुखानां दैत्यादीनाम् अपि असम्भवाय मुक्ति-दाय । पुंसां पुनर् इति । अत्रानुमृग्यं भक्ति-योगैक-स्वाद्यं8 स्व-चरणारविन्दम् एव ज्ञेयम् ।
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ [भा।पु। १.८.२०]
इत्य् आदि कुन्ती-वाक्यात् प्रथमे ।
तस्मिन् ययौ परमहंस-महा-मुनीनाम्
अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ [भा।पु। ३.१५.३७]
इति तृतीये च निरूपितत्वात् ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कृपा-माधुर्यम् आह । भूयः पुनर् अपि नमः । सद्-वृजिन-च्छिदे राम-कृष्णाद्य्-अवतारैः स्व-भक्त-दुःख-हन्त्रे । असतां पापिनां, अभक्त-राक्षसासुरादीनाम् अपि स्व-कर्तृक-वधेन असम्भवाय सम्यग्-भव-दुःख-निवर्तकाय । खिलं निकृष्टं, प्राकृतं सत्त्वम् । अखिलं प्रकृष्टम् अप्राकृतं सत्त्वम् । शुद्ध्-सत्त्वम् एव मूर्तिः शरीरं यस्य तस्मै । परम-हंसानां भावः पारमहंस्यं तस्मिन् विषये य आश्रयस् तत्र विशेषतोऽवस्थितानां भक्ति-मिश्र-ज्ञानिनां शुद्ध-भक्तानां चान्मृग्यो यो ब्रह्मानन्दः प्रेमानन्दश् च तस्य तस्य दाशुषे दात्रे ॥१३॥
———————————————————————————————————————
॥ २.४.१४ ॥
**नमो नमस् तेऽस्त्व् ऋषभाय सात्वतां **
विदूर-काष्ठाय र्मुहुः कुयोगिनाम् ।
**निरस्त-साम्यातिशयेन राधसा **
स्व-धामनि ब्रह्मणि रंस्यते नमः ॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सात्त्वतां भक्तानाम् ऋषभाय9 पालकाय । कुयोगिनां भक्ति-हीनानां विदूरा काष्ठा दिग् अपि यस्य । दुर्ज्ञेयेत्य् अर्थः । तद् एवं वैषम्य-प्रतीताव् अपि निर्दोषत्वायाचिन्त्यम् ऐश्चर्यम् आह । निरस्तं साम्यम् अतिशयश् च यस्य यद् अपेक्षया अन्यस्य साम्यम् अतिशयश् च नास्ति, तेन राधसा ऐश्वर्येण स्व-धामनि स्व-स्वरूपे ब्रह्मणि रममाणाय ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । दुराराध्यमसाधुभिः इत्य् उक्तेर् अयं भावः । **विश्वनाथः **ऐश्वर्य-माधुर्ययोः परिपूर्णत्वम् आह । नमो नम इति । वीप्सया निरन्तरम् एव नम इत्य् अर्थः । ते तुभ्यम् इति । युष्मत् प्रयोगेण साक्षात् कारात् स्वेष्टद् एव त्वं ध्वनितम् । सात्वतां यादव-विशेषाणां वृषभाय देवकीनन्दनाय सात्वतां भक्तानां पालकायेत्य् अर्थस्तु पूर्व-श्लोके व्यञ्जित एव । कुयोगिनां भक्ति-हीनानां विदूरकाष्टाय तेषां दूरे वा गुप्तो वा त्वं न च वर्तस इत्य् अर्थः । स्वधामनि मथुरा-मण्डले रंस्यते रममाणाय रमणोचिततनैः सहेत्य् अर्थतो गम्यम् । खधामनि कीदृशे ब्रह्मणि ब्रह्म-स्वरूपे तासां मध्ये साक्षाद् ब्रह्म-गोपालपुरी इति गोपाल-तापनीय-श्रुतेः। अत्र राधसेऽत्यैश्वर्य रंस्थत इति माधुर्यम् । यद् वा, स्वधामनि वृन्दावने राधसा राधया सह रंस्यते क्रीडते कीदृशे स्वधामनि ब्रह्मणि सर्वोत्कृष्टे लोकेषु पृथिवी धन्या तत्र वृन्दावनं महत् इत्य् उक्तेः । किं भूतेन राधसा निरस्तौ साम्यातिशयौ तौल्याधिक्ये यस्य तेन—
न राधासदृशी काचिद् देवताभ्यधिका कुतः ।
अनेक-कोटि-ब्रह्माण्ड-पतिर् यस्या वशे हरिः ॥ इत्य्-आदि-पुराणात् ।
सान्तोऽपि राधधातु-निष्पन्नो राधः-शब्दो राधा-वाचकः समानार्थ-प्रत्यय-निष्पन्नत्वात् । द्विरूप-कोशे अवर्णान्तासंतयोः मनश् च मनसा सह इत्य्-आदि-प्रयोग-दर्शनात् । सन्दर्भस् तु । अन्तरङ्ग-प्रयोजनम् आह—सात्वतां यादवान् आमृषभाय तैः सह नाना-विहारार्थम् अवतीर्णाय तथापि कुयोगिनां तद्बहिर् मुख-योग-निष्ठानाम् । पुनश् च यथावद् एव स्थितिम् एव दर्शयति । ब्रह्मणि ब्रह्म-स्वरूपे । स्वधामनि वैकुण्ठे । रंस्यते तत्पश्चाद् रममाणाय ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रान्तरङ्ग-प्रयोजनम् आह । सात्वतां यादवानाम् ऋषभाय, तैः सह नाना-विहारार्थम् अवतीर्णाय । तथापि कुयोगिनां तद्-बहिर्-मुख-योग-निष्ठानां विदूर-काष्ठाय । पुनश् च, यथावद् अवस्थितिम् एव दर्शयति—निरस्तेति । ब्रह्मणि ब्रह्म-स्वरूपे स्व-धामनि स्वकीये वैकुण्ठे रंस्यते तत्-पश्चात् रममाणाय ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऐश्वर्य-माधुर्ययोः परिपूर्णत्वम् आह—नमो नम इति वीप्सया निरन्तरम् एव नम इत्य् अर्थः । ते तुभ्यम् इति युष्मत्-पद-प्रयोगेण साक्षात्कारात् स्वेष्ट-देवत्वं ध्वनितम् । सात्वतां यादव-विशेषाणाम् । ऋषभाय देवकी-नन्दनाय । सात्वतां भक्तानां पालकायेत्य् अर्थस् तु पूर्व-श्लोके व्यञ्जित एव । कुयोगिनां भक्ति-हीनानां विदूरा काष्ठा दिग् अपि यस्य तस्मै । न च त्वं दूरे वा गुप्तो वा वर्तस इत्य् आह—निरस्तं साम्यम् अतिशयश् च यस्य, यद् अपेक्षया अन्यस्य साम्यम् अतिशयश् च नास्ति तेन । राधसा ऐश्वर्येण । स्व-धामनि मथुरा-मण्डले । रंस्यते रममाणाय । रमणोचित-जनैः सहेत्य् अर्थतो गम्यम् । स्व-धामनि कीदृशे ? ब्रह्मणि ब्रह्म-स्वरूपे । तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी हि [गो।ता।उ। २.२९] इति गोपाल-तापिनी-श्रुतेः । अत्र राध्सेत्य् ऐश्वर्यं रंस्यत इति माधुर्यम् ॥१४॥
———————————————————————————————————————
॥ २.४.१५ ॥
यत्-कीर्तनं10** यत्-स्मरणं यद्-ईक्षणं**
यद्-वन्दनं यच्-छ्रवणं यद्-अर्हणम् ।
**लोकस्य सद्यो विधुनोति कल्मषं **
तस्मै सुभद्र-श्रवसे नमो नमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्व-साधनेभ्यो भक्तेः श्रैष्ट्यम् अनुस्मरन् प्रणमति—यत्-कीर्तनम् इति द्वाभ्याम् । अर्हणं पूजनम् । सुभद्रं मङ्गलं श्रवो यशो यस्य तस्मै ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद्-ईक्षणं यत्-प्रतिमादेर् अवलोकनम् । एतेन तत्प्राप्ति-प्रतिबन्धकं कल्मषं तत्कीर्तनादिभिर् एव नश्यतीत्य् उक्तम् ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **न केवलम् अवतार-समय एव तस्य तादृशत्वं किन्त्व् अन्यदापित्य् आह—यत्-कीर्तनम् इति । यच्-छब्दावृत्त्यैक-वचनेन च सकृत् तत्-तन्मात्रम् अपीत्य् अभिहितम् ॥१५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्-प्राप्ति-प्रतिबन्धकं कल्मषं तत्-कीर्तनादिभिर् एव नश्यतीत्य् आह—यद् इति । यद्-ईक्षणं यत्-प्रतिमावलोकनम् । सुभद्रं सुमङ्गलं श्रवो यशो यस्येति कीर्ति-म्ढुर्यम् उक्तम् ॥१५॥
———————————————————————————————————————
॥ २.४.१६ ॥
**विचक्षणा यच्-चरणोपसादनात् **
सङ्गं व्युदस्योभयतोऽन्तर्-आत्मनः ।
**विन्दन्ति हि ब्रह्म-गतिं गत-क्लमास् **
तस्मै सुभद्र-श्रवसे नमो नमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विचक्षणा विवेकिनो यस्य चरणयोर् उपसादना उपसत्तेर् भजनाद् अन्तरात्मनो मनस उभयत्रेह च परत्र च सङ्गं व्युदस्य निरस्य । गत-क्लमाः प्रयास-रहिताः ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **गतक्लमा इत्य् उक्तेर् अन्ये त्वभजन्तः श्रमम् एव लभन्ते । श्रेयःसृतिं भक्तिम् उदस्य ते विभो इत्याद्य् उक्तेः । ब्रह्म-रूपा चासौ गतिस्ताम् । गतिर् गम्यो लोको वा ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **शरणागति-मात्रम् अपि यस्य सिद्धि-करम् इत्य् आह—विचक्षणा इति । तथोक्तं श्री-गीतान्ते—मन्-मना भव [गीता १८.६५] इत्य् आदि सर्व-धर्मान् [गीता १८.६६] इत्य् आदि च ब्रह्म-गतिं ब्रह्म-स्वरूपा च सा गतिः गम्यो लोकश् च ताम् ॥१६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वीत-कल्मषा ज्ञानिनोऽपि यम् एव भजन्तीत्य् आह—विचक्षणा इति । उभयतः इह परत्र च । व्युदस्य निरस्य । अन्तर्-आत्मनोऽन्तः-करणस्य । गत-क्लमा इत्य् अन्ये त्व् अभजन्तः श्रमम् एव लभन्ते । श्रेयः-सृतिं भक्तिम् उदस्य [भा।पु। १०.१४.४] इत्य् आदेः ॥१६॥
———————————————————————————————————————
॥ २.४.१७ ॥
**तपस्विनो दान-परा यशस्विनो **
मनस्विनो मन्त्र-विदः सुमङ्गलाः ।
**क्षेमं न विन्दन्ति विना यद्-अर्पणं **
तस्मै सुभद्र-श्रवसे नमो नमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भक्ति-शून्यानां सर्व-साधन-वैफल्यं दर्शयन् नमति— तपस्विन इति । मनस्विनो योगिनः । सुमङ्गलाः सदाचाराः । यस्मिंस् तप-आद्य्-अर्पणं विना । सुभद्र-श्रवसे इत्य् आवृत्तिर् यशः-श्रवणादेः प्राधान्य-ज्ञापनाय ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किं बहुना भक्तिं विना महात्मनोऽपि विफल-साधना विगीता एव भवन्तीत्य् आह । तपस्विनो ज्ञानिनः दानपराः कर्मिणः यशस्विनः कर्मि-विशेषा अश्वमेधादिकारः मन्त्र-विदः आगमीयाः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं बहुना, भक्तिं विना महात्मानोऽपि विफल-साधना विगीता एव भवन्तीत्य् आह—तपस्विनो ज्ञानिनः । दान-पराः कर्मिणः । यशस्विनः कर्मि-विशेषाः अश्वमेधादि-कर्तारः । मनस्विनो योगिनः । मन्त्र-विद आगमीयाः । सुमङ्गलाः सदाचाराः । सुभद्र-श्रवसे इत्य् आवृत्तिर् यशः-श्रवणादेः प्राधान्य-ज्ञापनाय ॥१७॥
———————————————————————————————————————
॥ २.४.१८ ॥
किरात11-हूणान्ध्र-पुलिन्द-पुल्कशा **
आभीर-शुम्भा यवनाः खसादयः12 ।**
**येऽन्ये च पापा यद्-अपाश्रयाश्रयाः **
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भक्तेः परम-शुद्धि-हेतुत्वं दर्शयन्न् आह । किरातादयो ये पाप-जातयोऽन्ये च ये कर्मतः पाप-रूपास् ते यद्-उपाश्रया भागवतास् तद्-आश्रयाः सन्तः शुध्यन्ति । असम्भावना-शङ्कां परिहरति, प्रभविष्णवे प्रभवन-शीलायेति ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शुध्यन्ति निष्पापा भवन्ति न तु वस्तुतस्तजातित्यागो भवति यत् तु वैष्णवे जातिबुद्धिर् इति विष्णु-धर्मोक्तिः सा हि तस्यादराधिक्यमतिरस्कार्यत्वं वक्ति अन्यथा नारद-विदरादौ विप्र क्षत्तर् इत्य्-आदि संबुद्धि-श्रवणाद् व्यस-मैत्रेयादीनाम् अपि पातकित्वं स्याद् इति । किराताद्य् उत्पत्तिस् तु मन्वादिभ्योऽवसेया विस्तरभियात्र नोक्ता । यद् वा, किरातादयो विजयध्वजेनोक्ता ग्राह्याः शबरात् पराशव्यां जाताः किराताः आङ्घ्रकाः । वैदेहात् पुष्कसीजाताः हूणाः । वैश्याब्राह्मणीजातो वैदेहस्तत् पुत्राश्चान्ध्राः । अज्ञात-विप्रादिभवा मधुपायिनः । ततः किरातीजाताः पुलिन्दाः । निषादाच्-छूद्राजातः पुल्कसः । ब्राह्मणाद् वैश्याजातोम्बष्ठः । ब्राह्मणादम्बष्ठ्यां जाता आभीराः । कङ्का अपि नीचजातय एव यवनान् नृपाद् वैश्यां जाता यवनाः श्मश्रुलाः । एवं खसादयः । आदिना कुरुविन्दडोम्बादयः । इति तीर्थः । असम्भावना शङ्का कथं ते शुध्यन्ति विना तपश्चर्यादिनेत्य् एवं रूपा शङ्का ताम् प्रभविष्णवे कर्तुम् अकर्तुम् अन्यथाकर्तुं समर्थायेत्य् अर्थः ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भक्ताश्रितानां पप-जीवानाम् अपि परम-शुद्धौ हेतुत्वं दर्शयन्न् आह—किरातेति । अत्र यद् अपाश्रयाश्रयत्वं व्यवहारेच्छयैव । परमार्थेच्छुत्वे तु पूर्वेषाम् अपि भगवद्-अपाश्रयाणां तत्-पूर्वं भक्तान्तराश्रयत्वं विद्यत एवेति न विशेषः स्यात् ॥१८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्ति-गन्धेनापि केवलेन युक्ताश् चेत् पापात्मनो विगीता अपि कृतार्था भवन्तीत्य् आह । किरातादयो ये जातित एव पापाः । अन्ये च ये कर्मत एव पापास् ते च शुध्यन्ति । यद्-उपाश्रया वैष्णवा एव गुरुत्वेनाश्रया येषां ते तथा-भूताः सन्त इति सद्-गुरु-चरणाश्रय-मात्रेणैव जाति-कर्मभ्यां सकाशात् पापिनः शुध्यन्तीति प्रारब्धाप्रारब्ध-पाप-नाशकत्वं भक्तेर् व्यञ्जितम् । तथा हि, किरातादीनाम् अशुद्धौ दुर्जातिर् एव कारणम् । दुर्जात्य्-आरम्भकं यत् पापं तत् प्रारब्धम् एव । शुध्यन्तीति शुद्धान्यथानुपपत्त्या च प्रारब्ध-पाप-नाशोऽवगम्यत एव । तथापि ते तज्-जातित्वेन यद् आख्यायन्ते तद्-व्यवहारत एव, न तु तत् परमार्थत इति ज्ञेयम् । अर्च्ये विष्णौ शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिः इति तेषु जाति-बुद्धेर् निषेधात् । तथैतादृश-दुर्जातयोऽपि भक्तिम् उपदेष्टव्या इति विधिश् च प्राप्तः । वक्ष्यते चैकादशे—स्त्रियः शूद्रादयश् चापि तेऽनुकम्पा भवादृशां [भा।पु। ११.५.४] इत्य् अत्रादि-पदेन दुर्जातय एव लभ्यन्ते । अत्रास्मभावनादि-सर्वापेक्षापरिहारार्थम् आह प्रभविष्णवे इति । एषाप्य् एका भगवतः प्रभुता स्वाभाविकी नात्र युक्तिर् योजनीयेति भावः ॥१८॥
———————————————————————————————————————
॥ २.४.१९ ॥
स एष आत्मात्मवताम् अधीश्वरस्
त्रयीमयो धर्ममयस् तपोमयः ।
गत-व्यलीकैर् अज-शङ्करादिभिर्
वितर्क्य-लिङ्गो भगवान् प्रसीदताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्वोपास्यत्वम् अनुस्मरन् प्रार्थयते । स एष आत्मवतां धीराणाम् आत्मा । आत्मत्वेनोपास्य इति अर्थः । त्रयीमयत्वादि-विशेषणैस् तत्-तन्-13मार्गेणोपास्यत्वं विवक्षितम् । गत-व्यलीकैर् निष्कपटैर् भक्तैर् वितर्क्यम् अत्याश्चर्येण वीक्षणीयं लिङ्गं मूर्तिर् यस्य स प्रसीदतु ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । आत्मैव भगवान्हरिर्ने तु भिन्न इत्येवमुपास्य इति भावः । निष्कपटैर्मोक्षपर्यन्तकामनाशून्यैः परमभक्तैः ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रत्यक्षवत् स्फुरणात् स एष इत्य् उक्तम् । त्रयी-मयः कर्म-काण्डोपास्यः । धर्म-मयः मन्व्-आदि-धर्म-शास्त्रोपास्यः । तपो-मयः उपासना-काण्डोपास्यः । गत-व्यलीकैः प्रोज्झित-कैतवैः मोक्ष-पर्यन्त-कामना-शून्यैः परम-भक्तैः ॥१९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं श्लोक-द्वयेन व्यतिर् एकान्वयाभ्यां भक्ति-मताम् एव सर्वोत्कर्षम् अभिव्यज्य, परेषाम् अप्य् अयम् एव प्रतिस्वार्थ-सिद्धये उपास्य इत्य् आह । स प्रसिद्धेः । एषः अधीश्वरः । आत्मवतां ज्ञानिनां योगिनां च आत्मा आत्मत्वेनोपास्यः । त्रयीमय-त्वादि-विशेषणैस् तत्-तन्-मार्गेणोपास्यत्वम् । न च कैर् अप्य् एष ज्ञातुं शक्यः इत्य् आह—गत-व्यलीकैर् निष्कपटैर् वितर्क्यम् एव, न तु निश्चयेन ज्ञातुं शक्यं लिङ्गं लक्षणम् अपि, किम् उत लिङ्ग-गम्यं स्वरूपं यस्य सः । स-कपट-नामात्मवतादीनां का वार्तेति भावः ॥१९॥
———————————————————————————————————————
॥ २.४.२० ॥
श्रियः पतिर् यज्ञ-पतिः प्रजा-पतिर्
धियां पतिर् लोक-पतिर् धरा-पतिः ।
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्व-पालकत्वम् अनुस्मरन्न् आह—श्रिय इति । गतिश् च सर्वापत्सु रक्षकः ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एवं निजोपास्य-विशेषं रहस्यत्वेनाभिव्यज्य परम-प्रेमावेशेनैव व्यञ्जयन्न् आह । श्रियः सर्व-सम्पदाधिष्ठात्र्याः पतिः स्वामी । अतो यज्ञानां सर्व-श्रेयः-साधनानां च पतिः फलदातातः प्रजानां सर्वासाम् एव पतिर् ईश्वरः । यतो धियां पतिस् तासाम् अन्तर्यामी च ततस् ततश् च तासां ये लोकाभोग्यभुवनानि तेषाम् अपि पतिर् भोक्ता च य एव च धरापतिः कृपयावतीर्य धरापतित्वं लीलां च व्यजितवान् इत्य् अर्थः । कोसाव् इत्य् अपेक्षायाम् आह । पतिः पालको गतिर् नित्याश्रयश् च तत्र प्रमाणम् आह । सतां तद् अनुभविनां पतिराश्रय इति । वस्तुतस्तु लोक-पतिर् इत्य् उक्तेर् एव सर्व-पतित्वमायाति सर्वस्य श्र्यादेर् लोकान्तः-पातित्वात् तद् अपि पार्थक्येन पतित्व-वर्णनं प्रेमावेशाद् एव हेत्वन्तरानुपलब्धेर् इति ध्येयम् ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं निजोपास्य-विशेषं रहस्यत्वेनाभिव्यज्य परम-प्रेमावेशेनैव प्रकटं व्यञ्जयन्न् आह । श्रियः सर्व-सम्पद्-अधिष्ठात्र्याः पतिः स्वामी । अतः यज्ञानां सर्व-श्रेयः-साधनानां च पतिः फल-दाता । अतः प्रजानां सर्वासाम् एव पतिरीश्वरः । यतो धियां पतिः तासाम् अन्तर्यामी च ततस् ततश् च तासां ये लोका भोग्य-भुवनानि तेषाम् अपि पतिर् भोक्ता । य एव च धरा-पतिः कृपयाऽवतीर्य धरापतित्व-लीलां च व्यञ्जितवान् इत्य् अर्थः । कोऽसौ इत्य् अपेक्षायाम् आह—पतिर् इति । पतिः पालकः गतिः नित्याश्रयश् च । तत्र प्रमाणम् आह—सतां तद्-अनुभविनां पतिर् आश्रय इति ॥२०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्व-पालकत्वम् आह—श्रिय इति । तत्रापि विशेषम् आह । पतिर् गतिश् च प्राप्यश् च । अप्रकट-प्रकाशे स यादव-रूपत्वेनेत्य् अर्थः ॥२०॥
———————————————————————————————————————
॥ २.४.२१ ॥
यद्-अङ्घ्र्य्-अभिध्यान-समाधि-धौतया
धियानुपश्यन्ति हि तत्त्वम् आत्मनः ।
वदन्ति चैतत् कवयो यथा-रुचं
स मे मुकुन्दो भगवान् प्रसीदताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ज्ञान-प्रदत्वम् अनुस्मरन्न् आह—यद्-अङ्घ्रीति द्वाभ्याम् । यस्याङ्घ्र्योर् अनुध्यानम् एव समाधिस् तेन धौतया शोधितया । यथा-रुचं14 रुच्य्-अनुसारेण सगुण-निर्गुणादि-भेदैः । यद् वा, रुक् प्रतिभा । यथा-मतीत्य् अर्थः ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स कृष्ण एव मे ज्ञानप्रदो भवत्व् इति प्रार्थनां व्यञ्जयति । यद्-अङ्घ्रीति । चस्त्वर्थेः कवयः स्व-पाण्डित्य-बलेनैव यथारुचं खरुच्यनुरोधेनैवैतत्-परमात्मनस् तत्त्वं स्वरूपं साकारं निराकारं वा जीवात्म-स्वरुपम् अणुप्रमाणं सर्व-गतं वा यद्वैतद् विश्वं मिथ्यैव सत्यम् एव नित्यम् एवेत्य् एवं वदन्ति युक्त्या प्रमाणयन्ति । न तु तेषां धीर्धौतात एवात्मनस् तत्त्वं न पश्यन्तीत्य् अर्थः । अत्र पक्षे तु स्थानेनेति पाठ्यम् । यथारुचि कथनं हि प्रमाणं न भवतीति चेद् आह—स्वामी यद् वेति । इत्य् अर्थ इति । अनन्त-महिमत्वेन स्वमत्यनुसारेणैव वदन्तीति भावः ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तादृशानुभवे कारणम् उपन्यस्यन्न् आह—यद्-अङ्घ्रीति । आत्मनः भगवतः तत्त्वं याथार्थ्यम् । अन्यथा तु कवयः पण्डितम्-मन्या अपि यथा-रुच्य् एव वदन्तीत्य् अर्थः । यद् वा, तथाप्य् अनन्त-महिमत्त्वात् तेऽपि कवयो यथात्म-प्रकाशम् एव वदन्तीति ॥२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स श्री-कृष्ण एव मे ज्ञान-प्रदो भवत्व् इति प्रार्थनां व्यञ्जयति । यद्-अङ्घ्र्योर् अभिध्यानम् एव समाधिर् न तु ततोऽन्यस् तेन शोधितया । च-कारस् त्व्-अर्थे । कवयस् तु स्व-पाण्डित्य-बलेनैव यथा-रुचं स्व-स्व-रुच्य्-अनुसारेण । एतत् परमात्मनस् तत्त्वं स्वरूपम् । साकारं निराकारं जीवात्म-स्वरूपम् अणु-प्रमाणं सर्व-गतं वा । यद् वा—एतद्-विश्वं मिथ्यैव । सत्यम् एव नित्यम् इवेत्य् एवं वदन्ति—युक्त्या प्रतिपादयन्ति, न तु तेषां धीर् धौता, अत आत्मनस् तत्त्वं न पश्यन्ति ॥२१॥
———————————————————————————————————————
॥ २.४.२२ ॥
**प्रचोदिता येन पुरा सरस्वती **
वितन्वताजस्य सतीं स्मृतिं हृदि ।
**स्व-लक्षणा प्रादुरभूत् किलास्यतः **
स मे ऋषीणाम् ऋषभः प्रसीदताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, पुरा कल्पादाव् अजस्य हृदि सतीं सृष्टि-विषयां वितन्वता येन प्रचोदिता सती सरस्वती तस्य मुखतः किल प्रादुर्भूता । स्वानि15लक्षणानि शिक्षाद्य्-उक्तानि यस्याः सा । ऋषीणां ज्ञान-प्रदानाम् ऋसभः श्रेष्ठः ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ तद्-वर्णन-सामग्री मम स एव यथा ब्रह्मणो मुखाद् वेदं प्रवर्त्तयाम् आस तथा मन् मुखात् स्व-लीला-कथां स एव प्रवर्तयत्व् इत्य् अभिप्रेत्याह—किं चेति । स्वान्यसाधारणानि शिक्षाद्य् उक्तानि पाणिन्यादि-प्रणीत-शिक्षादि-ग्रन्थ-प्रोक्तान्य् उदात्तादि-स्वरस्थानाद्य् उपैतानि स्वरस्थान-प्रयत्नादि-युक्तेति यावत् । यद् वा, स्वं श्री-कृष्णं लक्षयत्य् उपास्यत्वेन दर्शयति या सा स्वलक्षणा । तद् उक्तं भगवतैव मयादौ ब्रह्मणे प्रोक्तो धर्मो यस्यां मदात्मकः इति ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तद्-वर्णन-सामग्री मम स एवेत्य् आह—प्रचोदितेति द्वाभ्याम् ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यथा ब्रह्मणो मुखाद् वेदं प्रवर्तयामास, तथा मन्-मुखात् स्व-लीला-कथां स एव प्रवर्तयत्व् इत्य् आशास्ते । येन प्रचोदिता प्रेरिता सरस्वती वेद-रूपा, अजस्य ब्रह्मणः आस्यतः प्रादुरभूत् । येन कीदृशेन ? पुरा कल्पादौ । अजस्य तस्य हृदि सतीं स्मृतिं वितन्वता प्रकाशयता । सरस्वती कथम्भूता ? स्वं श्री-कृष्णं लक्षयति उपास्यत्वेन दर्शयतीति सा । यद् उक्तं भगवतैव—मयादौ ब्रह्मणे प्रोक्तो धर्मो यस्यां मद्-आत्मकः [भा।पु। ११.१४.३] इति ॥२२॥
———————————————————————————————————————
॥ २.४.२३ ॥
**भूतैर् महद्भिर् य इमाः पुरो विभुर् **
निर्माय शेते यद् अमूषु पूरुषः ।
**भुङ्क्ते गुणान् षोडश षोडशात्मकः **
सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदाणीं स्व-वाच्यं श्रोतृ-जनाह्लादिनीं शृङ्गार-करुणादि-शोभां प्रार्थयते—भूतैर् इति । स मे वचांस्य् अलङ्कृषीष्ट अलङ्करोतु । अन्यस्य वचसाम् अन्योन्यालङ्कारासम्भवम् आशङ्क्य तस्यान्तर्यामिताम् आविष्करोति । यो महद्भिर् भूतैर् इमाः पुरः शरीराणि सृष्ट्वा अमूषु पूर्ष्व् अन्तर्यामितया शेते वसति । अत्र पुरुष-समाख्यां प्रमाणयति । यद् यस्मात् पुरुष इति । अत एव य एकादशेन्द्रिय-पञ्चभूत-रूपान् षोडश-गुणान् कला भुङ्क्ते प्रकाशयति पालयतीति वा । तदा त्व् आत्मनेपदम् आर्षम् । अत्र हेतुः— यतः षोडशानाम् आत्मा चेतयिता । स्वार्थे कः । न त्व् अत्र जीवत्वम् उच्यते प्रार्थना-विरोधात् ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्रान्तर्यामित्वे पुरुषसमाख्यां पुरुष-पद-निरुक्तिम् । अत एव पुरुषत्वाद् एव । पूरुष इह दीर्घत्व-मौणादिकत्वात् । तदा तु पालनार्थे भुजोऽनवने इति सूत्रात् । अत्र षोडश-कलाप्रकाशकत्वे अत्र श्लेषेण मद्-वचसाम् अपि गुणानास्वादयन् प्रसीदत्व् इति । तेन शरीराणि निरात्मकानि वस्त्रालङ्कारादि-युक्तान्य् अपि सद्भिर् अस्पृश्यानि यथा तथा मद्-वचांसि तद्-विनाभूतानि मा भवन्त्व् इति भावः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदाणीं मद्-वचःसु स्व-सृष्टेष्व् एव स्व-स्थित्यैव श्रोतृ-जनाह्लादिनीं शृङ्गार-करुणादि-रस-ध्वनि-गुणालङ्कार-शोभां तेषां करोत्व् इत्य् आशास्ते—भूतैर् इति । स मे वचांस्य् अलङ्कृषीष्ट तेषु स्वयं निवसन्न् अलङ्करोतु । यथा मनुष्यादि-शरीराणि सृष्ट्वा, तेषु स्वयं वसन्न् एव तानि सफलीकरोतीत्य् आह । यो महद्भिर् भूतैर् इमाः पुरः शरीराणि सृष्ट्वा अमूषु पूर्ष्यु अन्तर्यामितया शेते वसति । अत्र पुरुष-समाख्यां प्रमाणयति । यद् यस्मात् पुरुष इति । अत एव य एकादशेन्द्रिय-पञ्चभूत-रूपान् गुणान् भुङ्क्ते, निर्लेप एव दृष्टैर् आस्वादयति । अत्र श्लेषेण मद्-वचसाम् अपि गुणान् आस्वादयन् प्रसीदत्व् इति भावः । षोडशानाम् आत्मा चेतयिता । स्वार्थे कः । तेन शरीराणि निरात्मकानि वस्त्रालङ्कारादि-युक्तान्य् अपि सद्भिर् अस्पृश्यानि यथा तथा मद्-वचांसि तद्-विना-भूतानि मा भवत्व् इति भावः ॥२३॥
———————————————————————————————————————
॥ २.४.२४ ॥
नमस् तस्मै भगवते वासुदेवाय वेधसे ।
पपुर् ज्ञानम् अयं सौम्या यन्-मुखाम्बुरुहासवम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-व्यासं नमस्करोति—नम इति । सौम्या भक्ताः । यस्य मुखाम्बुरुहे आसवो मकरदस् तम् ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ज्ञान-मयं ज्ञायते भक्ति-तत्त्वम् अनेनेति ज्ञानं भक्ति-योगस् तत्-प्रधानं यत्र तज्-ज्ञान-मयं भागवत-शास्त्रम् इत्य् अर्थः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नम इति टीकायां श्री-व्यासं नमस्करोतीति । पपुर् इत्य् आदि-स्वारस्यात् । उत्तर-वाक्येन तु चतुः-श्लोकी-वक्तारम् इत्य् आयाति ॥२४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुरुं श्री-व्यासं नमस्करोति । वासुदेवाय तद्-अवताराय । वेधसे शास्त्र-कर्त्रे । यन्-मुख-वाङ्-मकरन्दम् । यद् वा, वासुदेवाय कृष्णाय । सौम्याः कृष्ण-कान्ताः । ज्ञान-मयम् इति । नृत्य-गीत-वाद्य-कला-वैदिग्ध्य-रसालङ्कारादि-ज्ञानं सर्वतो विलक्षणम् अशिक्षितम् अपि यं पीत्वैव प्रापुर् वयम् अपि तद्-अनुगास् तत् तद् आप्नुयाम् एवेति भावः इति रहस्यम् ॥२४॥
———————————————————————————————————————
॥ २.४.२५ ॥
एतद् एवात्म-भू राजन् नारदाय विपृच्छते ।
वेद-गर्भोऽभ्यधात् साक्षाद् यद् आह हरिर् आत्मनः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं प्रश्नोत्तरतया ब्रह्म-नारद-संवादं प्रस्तौति—एतद् इति । उत्पत्ति-समय एव वेदा गर्भे यस्य सः । साक्षाद् धरिर् यद् आह तद् आह ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यज् ज्ञान-मयं पुराणम् । हरिः श्री-नारायणः । आत्मन इति द्वितीयार्थे षष्ठी आत्मानं स्वं ब्रह्माणं प्रति चतुः-श्लोकी-रूपेणाह एतद् एव वेद-गर्भो ब्रह्मा आत्मनः परमात्मनः सकाशाद् भवतीति तथाभूतः पृच्छते नारदायाभ्यधाद् अभ्यभाषत । हे राजन्न् इति । वैराग्येण दीप्यमानस्त्वम् एवास्य श्रवणाधिकारीति तुभ्यम् अहं वर्णयामीति भावः ॥२५॥
इति श्री-भागवत-भावार्थ-दीपिका-प्रकाशे द्वितीय-स्कन्धे चतुर्थोऽध्यायः ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मन इति आत्मानं ब्रह्माणां प्रतीत्य् अर्थः ॥२५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदानीं प्रश्नोत्तरतया ब्रह्म-नारद-संवादं प्रस्तौति—एतद् इति । उत्पत्ति-समय एव वेदा गर्भे यस्य । साक्षाद् धरिर् यद् आह । आत्मनः आत्मानं प्रति ॥२५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वितीयेऽत्र चतुर्थोऽपि सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे
महा-पुरुष-संस्थानुवर्णनं नाम
चतुर्थोऽध्यायः
॥४॥
———————————————————————————————————————
(२.५)
-
अविकले अनुपद्रवे, वैर्यादिभिर् अनुपद्रुते वा । ↩︎
-
हे मुनयः, हरि-लीलां ब्रूहीति यत् पृच्छथ इमम् एवार्थम् इति योज्यम् । ↩︎
-
विवित्सामीत्य् अत्र इड्-अभाव आर्षः । ↩︎
-
अधीश्वरैर् ब्रह्मादिभिः । ↩︎
-
श्रीधर रेअद्स् थिस् लिने wइथ् थे फ़ोल्लोwइन्ग् वेर्से। ↩︎
-
अनुपलक्ष्यं योगिभिर् अपि दुर्ज्ञेयम् इत्य् अर्थः । ↩︎
-
पुनः-शब्देनेत्य् अर्थः । अवधारणा-वाचिना पुनः-शब्देनान्य-योगं निवारयति । एतेभ्य एवानुमृग्यं ददाति नान्येभ्य इत्य् अर्थःऽपुनर् अपिऽ इत्य् अपि पाठः ↩︎
-
साध्यं ↩︎
-
ऋषं ज्ञानं भासयति दीपयतीत्य् ऋसभः । ↩︎
-
अस्मिन् पद्ये यच् छब्दावृत्त्या एक-वचनेन च सकृत् तत् तन्मात्रम् अपीत्य् अभिहितम् । ↩︎
-
किरातेति । शबरात् पर्ण-शबरी-जाताः किराताः । वैश्याद् ब्राह्मणी-जातो वैदेहकस् तस्मात् पुल्कसी-जातः हूणाः । वैदेहक-पुत्रा आन्ध्राः । निष्ठ्यात् किराती-जाताः पुलिन्दाः । शूद्राद् ब्राह्मणी-जाताश् चाण्डालास् तम्साज् जाताः पुल्कसाः । ब्राह्मणाद् वैश्यायां जातोऽम्बष्ठः, तस्य कन्यायां ब्राह्मणाज् जाता आभीराः । कङ्काः कर्पराः । नृपाद् वैश्यायां जाता यवनाः । शकास् तुरुष्क-विशेषाः । ↩︎
-
शकादयः इति पाठः । ↩︎
-
तत्-तद् इति । त्रयीमयः कर्म-काण्डोपास्यः । धर्ममयो मन्व्-आदि-धर्म-शास्त्रोपास्यः । तपोमय उपासना-कण्डोपास्य इति । ↩︎
-
रुचिम् अनतिक्रम्येति यथारुचम् इत्य् अव्ययीभावे झयः इति टचि यथारुचम् इति सिध्यति । ↩︎
-
स्वान्य् असाधारणानि । ↩︎