विषयः
नाना-विध-कामना-सिद्धये नाना-देवानाम् उपासनम्,
शौनक-प्रश्नः— तत्र भगवत्-सेवा-परायणेन्द्रियाणां प्रशंसनं च ।
॥ २.३.१ ॥
श्री-शुक उवाच—
एवम् एतन् निगदितं पृष्टवान् यद् भवान् मम ।
नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
तृतीये विष्णु-भक्तेषु वैशिष्ट्यं शृण्वतां मुनेः ।
भक्त्य्-उद्रेकेण तत्-कर्म-श्रवणादर ईर्यते ॥*॥
इदानीम् अन्य-देवता-भजनस्यापि पुत्रादि-भजनवद् एव तुच्छ-फलत्वेन हेयत्वं वक्तुं पूर्वोक्तम् अनुवदति—एवम् इति । ममेति माम् । कदाचिद् दैव-योगेन मनुष्यत्वं प्राप्तेषु जीवेषु ये मनीषिणस् तेषां तत्रापि ये म्रियमाणास् तेषां विशेषत एवम् एतद् धरि-कथा-श्रवणादिकं निगदितं विहितम् इत्य् अर्थः ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मुनेः सकाशाद् विष्णु-भक्तेर् आधिक्यं शृण्वतो राज्ञो विष्णु-कर्म-श्रवणादरो वर्ण्यते । म्रियमाणानां नृणां कृत्यं यत्-पृष्टं तद् एतत् । योगिमते सृति-द्वयं निगदितम् । तथा तेष्व् एव मनुष्येषु मध्ये ये मनीषिणो म्रियमाणा भवद् विधास् तेषाम् एतच् छ्रवण-कीर्तन-स्मरण-कथामृतादि निगदितम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **
तृतीये तु नृणां क्षुल्ल-फलैर् अन्य-सुरार्चना ।
तथैवेन्द्रिय-वैफल्यं चोक्तं भक्तिम् ऋते हरेः ॥*॥
म्रियमाणानां नृणां कृत्यं यत् पृष्टं तद् एतत् योग-मते सृति-द्वयं निगदितम् । तथा तेष्व् एव मनुष्येषु मध्ये ये मनीषिणो म्रियमाणास् तेषां भवद्-विधानाम् एवम् एतत् श्रवण-कीर्तन-स्मरण-कथामृतादि निगदितम् ॥१॥
———————————————————————————————————————
॥ २.३.२ ॥
ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिम् ।
इन्द्रम् इन्द्रिय-कामस् तु प्रजा-कामः प्रजापतीन् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्मणस्पतिं वेदस्य पतिं ब्रह्माणम् । इन्द्रिय-पाटव-क्âमस् त्व् इन्द्रम् । प्रजा-कामः प्रजापतीन् दक्षादीन् ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ये च तेष्व् एव मनुष्येषु मन्दधियस् तेषां च कृत्यं शृण्व् इत्य् आह यद् वा, किं वा भजनीयम् इति यत्-पृष्टं तत्र प्रथमं मन्दधियां भजनीयान् आह ब्रह्म-वर्चस इत्य्-आदिना काम-कामो यजेत्सोमम् इत्यन्तेन । प्रजाकामो जनकामः । प्रजां तु जन-पुत्रयोः इति यादवः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ये च तेष्व् एव मनुष्येषु मध्ये मन्द-धियस् तेषां च कृत्यं शृण्व् इत्य् आह । यद् वा, किं वा भजनीयम् इति यत् पृष्टं तत्र प्रथमं मन्द-धियां भजनीयान् आह—ब्रह्म-वर्चसेत्य्-आदिना, काम-कामो यजेत् सोमम् [२.३.९ब्] इत्य् अन्तेन । ब्रह्मणः पतिं वेद-पतिं ब्रह्माणं प्रजापतीन् दक्षादीन् ॥२॥
———————————————————————————————————————
॥ २.३.३ ॥
देवीं मायां तु श्री-कामस् तेजस्-कामो विभावसुम् ।
वसु-कामो वसून् रुद्रान् वीर्य-कामोऽथ वीर्यवान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मायां दुर्गाम् । विभाव-सुतम् अग्निम् । वसुकामो धनार्थी । वीर्यं प्रभावस् तत्-कामो वीर्यवान् सन् रुद्रान् यजेत् ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **श्रीर् लक्ष्मीः शोभा च । तेजो बले प्रभावे च ज्योतिष्य् अर्चिषि रेतसि इति कोशात् । प्रभावेच्छुः । वसु हिरण्यं गावश् चेति । वीर्य-कामो बहु-स्त्री-सम्भोगार्थं शुक्राधिक्यकामः । वीर्यं पराक्रमे रेतस्यन्न-माहात्म्ययोर् अपि इति च ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वीर्यवान् गलच्-छेदनादि-साहसवान् इत्य् अर्थः ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मायां दुर्गाम् । विभाव-सुतम् अग्निम् । वीर्यवान् बलवान् पुरुषः । वीर्य-कामः बहु-स्त्री-सम्भोगार्थं शुक्राधिक्य-कामश् चेत् रुद्रान् यजेत् ॥३॥
———————————————————————————————————————
॥ २.३.४ ॥
अन्नाद्य-कामस् त्व् अदितिं स्वर्ग-कामोऽदितेः सुतान् ।
विश्वान् देवान् राज्य-कामः साध्यान् संसाधको विशाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्नाद्यं भोज्यं भक्ष्यं च । अदितेः सुतान् द्वादशादित्यान् । विशां देश-स्थ-प्रजानां स्वाधीनताम् इच्छन् साध्यान् यजेत् ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यतेऽपूपादि तद्-भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते संयावादि तद्-भोज्यम् इति विवेकः । साध्यान्साध्य-संज्ञान् ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्नाद्यं भोज्यं भक्ष्यं च अदितेः पुत्रान् द्वादशादित्यान् विशां कृषि-वाणिज्य-दीनां साधकः साधने प्रवृत्तः साध्यान् ॥४॥
———————————————————————————————————————
॥ २.३.५ ॥
आयुष्-कामोऽश्विनौ देवौ पुष्टि-काम इलां यजेत् ।
प्रतिष्ठा-कामः पुरुषो रोदसी लोक-मातरौ ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इलां पृथ्वीम् । प्रतिष्ठा स्थानाद् अप्रच्युतिः । रोदसी द्याव्-आभूमी ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुष्टिर् देह-पुष्टिः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इलां पृथ्वीम् । प्रतिष्ठा स्वपदाद् अप्रच्युतिः । रोदसी द्याव्-आपृथिव्यौ ॥५॥
———————————————————————————————————————
॥ २.३.६ ॥
रूपाभिकामो गन्धर्वान् स्त्री-कामोऽप्सर उर्वशीम् ।
आधिपत्य-कामः सर्वेषां यजेत परमेष्ठिनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अप्सराश् चासाव् उर्वशी च ताम् ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **परमेष्ठिनं ब्रह्माणम् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अप्सराश् चासाव् उर्वशी च ताम् ॥६॥
———————————————————————————————————————
॥ २.३.७ ॥
यज्ञं यजेद् यशस्-कामः कोश-कामः प्रचेतसम् ।
विद्या-कामस् तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यज्ञं यज्ञोपाधिं विष्णुम् । कोशो वसु-सञ्चयः । वसु-काम इत्य् अत्र धन-मात्रम् इति भेदः । दाम्पत्यम् अन्योन्य-प्रीतिस् तद् एवार्थो यस्य सः ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यज्ञं तन् नामानम् इन्द्रं वा ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यज्ञं यज्ञ-संज्ञम् इन्द्रम् । दाम्पत्यं स्त्री-पुरुषयोः परस्परोपरि प्रीतिः ॥७॥
———————————————————————————————————————
॥ २.३.८ ॥
धर्मार्थ उत्तम-श्लोकं तन्तुः तन्वन् पितॄन् यजेत् ।
रक्षा-कामः पुण्य-जनान् ओजस्-कामो मरुद्-गणान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्मार्थो धर्म-कामः । उत्तमः-श्लोकोपाधिं विष्णुम् । तन्तुं तन्वन् सन्तान-वृद्धिम् अन्विच्छन् । रक्षा बाधा-निवृत्तिस् तत्-कामः । पुण्य-जनान् यक्षान् । ओजो बलं तत्-कामो मरुद्-गणान् देवान् ॥८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कोश–कामो निधिकामः । प्रचेतसं वरुणम् ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उत्तमः-श्लोकाः पुण्य-श्लोका धार्मिका नलादयस् तद्-उपाधिं तद्-अधिष्ठानकं विष्णुम् इत्य् अर्थः ।उत्तमः-श्लोको धर्माचरण-ख्यातिर् वा ॥८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उत्तमः-श्लोकं धर्मम् । तन्तुं तन्वन् सन्तान-वृद्धिम् इच्छन् । पुण्य-जनान् यक्षान् । मरुद्-गणान् देवान् ॥८॥
———————————————————————————————————————
॥ २.३.९ ॥
राज्य-कामो मनून् देवान् निरृतिं त्व् अभिचरन् यजेत् ।
काम-कामो यजेत् सोमम् अकामः पुरुषं परम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राज्यं राजत्वं तत्-कामो मनून् देवान् मन्वन्तर-पालान् । राज्ञः कर्म राज्यं तत्-कामो विश्वान् देवान् इति विशेषः । अभिचरन् शत्रु-मरणम् इच्छन् निरृतिं राक्षसम् । काम-कामो भोगेच्छुः । अकामो वैराग्य-कामः । पुरुषं परं प्रकृति-व्यतिरेकोपाधिम् ईश्वरम् ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उत्तम-श्लोकाः पुण्य-श्लोका धार्मिका नलादयस्तद् उपाधि तद्-अधिष्ठानकं विष्णुम् इति सन्दर्भः ॥९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अकामः सर्व-कामना-क्षय-कामः । अत्र टीकायां—पुरुषं परं प्रकृति-व्यतिरेकोपाधिम् ईश्वरम् इत्य् एषा । प्रकृतेः सकाशाद् यो व्यतिरेकः पूर्वं तत्-सम्बन्धम् आरोप्य पश्चात् तद्-अभाव-चिन्तनम् । वस्तुत एव तद्-अभावात् सोऽप्य् उपाधिर् यस्य तम् इत्य् अर्थः । प्रकृत्येकोपाधिम् इति तु पाठः क्वचित् ॥९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **राज्यं राजत्वं तत्-कामो मनून् देवान् मन्वन्तर-पालान् । राज्ञः कर्म राज्यं तत्-कामो विश्वान् देवान् इति विशेषः । अभिचरन् शत्रु-मरणम् इच्छन् । निरृतिं राक्षसम् । काम-कामः काम-भोगेच्छुः । एवं मन्द-धियां कृत्यम् उक्त्वा उदार-धियां कृत्यम् आह । अकामः कामनाक्षय-कामः परं पुरुषं पुरुषोत्तमं भगवन्तम् इत्य् अर्थः ॥९॥
———————————————————————————————————————
॥ २.३.१० ॥
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
**तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ \
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अकामो धर्म-कामो वा मोक्ष-कामोऽपि यो भवेत् ।
अथवा सर्व-कामो यः स विष्णुं पुरुषं यजेत् ॥ इति स्कान्दे ।
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अकाम एकान्त-भक्तः उक्तानुक्त-सर्व-कामो वा पुरुषं पूर्णं निरुपाधिम् ॥१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-काम इत्य् अनेनैव सकाम-सामान्ये लब्धे मोक्ष-काम इति पृथग् उपादानं तद्-अधिकारिणां वयं निष्कामा इत्य् अभिमान-खण्डनार्थम् । किं वा, सर्व-काम इत्य् अपि मोक्ष-कामस्य सकामत्वातिशय-ज्ञापनार्थम् । तथा च स्वस्य दुःख-हानेच्छा सुख-प्राप्तीच्छा च काम उच्यते । सा सा च स्वस्य तात्कालिक-किञ्चिन् मात्र-दुःख-खण्डनार्थं नश्वर-स्वर्गादि-सुखार्थं च प्रवृत्तेभ्यः कर्मिभ्यो देवतान्तरोपासकेभ्यश् च ज्ञानाधि-कारिणां स्वीय-संसार-दुःख-खण्डने प्रवृत्तानां ब्रह्म-सुखम्-अनुबुभूषूणाम् अधिकैव दृश्यते भक्तानां तु भजनीय-परमेश्वर-सुखार्थम् एव प्रवृत्तानां निष्कामता तद्-वचनैर् एवावसीयते । तानि च यथा—
नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।
तेषु तेष्व् अच्युता भक्तिर् अच्युतास्तु सदा त्वयि ॥ [वि।पु। १.२०.१८] इति ।
स्व-कर्म-फल-निर्दिष्टां यां यां योनिं व्रजाम्य् अहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर् दृढास्तु मे ॥ इति ।
तन् नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ इति ।** **
प्रायोपवेशारम्भे राज्ञोऽपि वचनं यथा ।
पुनश् च भूयाद् भगवत्य् अनन्ते
रतिः प्रसङ्गश् च तदाश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
मैत्र्यस् तु सर्वत्र नमो द्विजेभ्यः ॥ [भा।पु। १.१९.१६] इति ।
उदार-धीः सुबुद्धिः । काम-राहित्ये साहित्ये वा भक्तेर् भगवद् विषयत्वम् एव सुबुद्धित्वचिह्नं तदभाव एव मन्द-बुद्धित्व-चिह्नम् इत्य् अर्थः । तीव्रेण ज्ञान-कर्माद्य् अमिश्रेण मेघाद्य् अमिश्र एव सौरकिरणो यथा तीव्रः स्यात् तथेत्य् अर्थः । सन्दर्भस्तु—एवं प्राक्तनाध्यायाभ्यां कर्म-योग-ज्ञानेभ्यः श्रेष्ठत्वम् उक्त्वा तद्-उत्तराध्यायेऽपि सर्व-देवोपासनेभ्यः । श्रेष्ठत्व-वचनेन भगवद् भक्ति-योगस्यैवामिधेयत्वम् आह—अकाम इति । तीव्रेण दृढेन स्व-भावत एवानुपघात्येनेति विघ्नानवकाशतोक्ता । कामना तु यादृच्छिकेनापि स्यात् । यथोक्तं भारते—
भक्त-क्षणः क्षणोः विष्णोः स्मृतिः सेवा स्व-वेश्मनि ।
स्व-भोज्यस्यार्पणं दान-फलम् इन्द्रादि-दुर्लभम् ॥ इति** ।**
तद् उक्तं श्री-कर्दमं प्रति श्री-कपिलेन–न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् [भा।पु। ३.२१.२४] इति । अथवा यत् तत् कामस् तीव्रेणैव यजेत । ततश् च शुद्ध-भक्ति-सम्पादनायैवान्ते पर्यवसिष्यत्य् असाव् इत्य् अभिप्रायेण स-विशेषणम् उपदिष्टम् । तद् अनेनैकान्त-भक्ते मुमुक्षौ वा तद् भक्ति-योगस्यैवाभिधेयत्वं किं वक्तव्यम् ? अपि तु सर्वकामेष्वपीति तद् एव सर्वथापि निर्णीतम् । यद् वाकामत्वं भजनीय-परम-पुरुष-सुख-मात्र-स्व-सुखत्वं भक्ति-मात्र-कामत्वे व्याख्याते धर्म-पुरुषार्थिन्य् अतिव्याप्तिः । स्यात् तीव्रेण सर्वेषु साध्येषु परम-साधकतमत्वेन ॥१०॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : अतः परं शुद्ध-भक्तिं स्तौति—अकाम इति । अकामो भक्ति-मात्र-कामः । सर्वेषु उक्तानुक्तेषु कामो यस्य । भक्ति-योगः श्रद्धा-भक्तिः परं पुरुषं विष्णुम् ॥१०॥ [मु।फ। ६.३५]
———————————————————————————————————————
**सनातन-गोस्वामी : **[ह।भ।वि। ११.५७५] अकाम एकान्त-भक्तः । सर्व-कामः ब्रह्म-वर्चस-कामस् तु [भा।पु। २.३.२] इत्य्-आद्य्-अष्ट-श्लोक-ब्रह्म-वर्चस-कामः । उक्तानुक्ताखिल-कामो वा । उदार-धीर् महा-बुद्धिश् चेत्, तदा परं पुरुषं श्री-कृष्णं भजेत् । तीव्रेण दृढेन । यद् वा, अकामो वैराग्य-कामः । उदार-धीः भगवद्-एक-प्राप्ति-कामो वा । अन्यत् समानम् ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं प्राक्तनाध्यायाभ्यां कर्म-योग-ज्ञानेभ्यः श्रेष्ठत्वम् उक्त्वा तद्-उत्तराध्यायेऽपि सर्व-देवतोपासनेभ्यः श्रेष्ठत्व-प्रवचनेन भगवद्-भक्ति-योगस्यैवाभिधेयत्वम् आह—ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिं [भा।पु। २.३.२] इत्य्-आद्य्-अनन्तरम्—अकामः सर्व-कामो वेति ।
टीका च—अकाम एकान्त-भक्तः उक्तानुक्त-कामो वा सर्व-कामो वा । पुरुषं पूर्णं निरुपाधिम् इत्य् एषा । तीव्रेण दृढेन स्वभावत एव अनुपघात्येनेति विघ्नानवकाशतोक्ता । कामना तु यथा कथञ्चित् कृतेनापि स्यात् । यथोक्तं भारते—
भक्तेः क्षणः क्षणो विष्णोः स्मृतिः सेवा स्व-वेश्मनि ।
स्व-भोज्यस्यार्पणं दानं फलम् इन्द्रादि-दुर्लभम् ॥1
तद् उक्तं श्री-कपिलेन श्री-कर्दमं प्रति—न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् [भा।पु। ६.२१.२४] इति ।
अथवा यत्-तत्-कामस् तीव्रेणैव यजेत, ततश् च शुद्ध-भक्ति-सम्पादनायैवान्ते पर्यवसिष्यत्य् असाव् इत्य् अभिप्रायेण स-विशेषणम् उपदिष्टम् । तद् अनेन एकान्त-भक्ते मुमुक्षौ वा तद्-भक्ति-योगस्यैवाभिधेयत्वं किं वक्तव्यम् ? अपि तु सर्व-कामेष्व् अपीति तद् एव सर्वथापि निर्णीतम्।
यद् वा, अकामत्वं भजनीय-परम-पुरुष-सुख-मात्र-स्व-सुखत्वम् । भक्ति-मात्र-कामत्वे व्याख्यायते धर्म-पुरुषार्थिन्य् अतिव्याप्तिः स्यात् । तीव्रेण सर्वेषु परम-साधकतमेन ॥१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न केवलम् अकाम एव परम-पुरुषं यजेद् अपि तु उक्तानुक्त-सर्व-कामोऽपि निष्कामश् च भगवन्तम् एव यजेद् इत्य् आह—अकाम एकान्त-भक्त इति श्रीधर-स्वामि-चरणाः। अकामो भजनीय-परम-पुरुष-सुख-मात्र-स्व-सुख इति सन्दर्भः । सर्व-काम इत्य् अनेनैव स-काम-सामान्ये लब्धे मोक्ष-काम इति पृथग्-उपादानं तद्-अधिकारिणां वयं निष्कामाः इत्य् अभिमान-खण्डनार्थम् । किं वा, सर्व-कामेभ्योऽपि मोक्ष-कामस्य सकामत्वातिशय-ज्ञापनार्थम् । तथा च—स्वस्य दुःख-हानेच्छा सुख-प्राप्तीच्छा च काम उच्यते । सा सा च स्वस्य तात्कालिक-किञ्चिन्-मात्र-दुःख-खण्डनार्थं नश्वर-स्वर्गादि-सुखार्थं च प्रवृत्तेभ्यः कर्मिभ्यो देवतान्तरोपासकेभ्यश् च ज्ञानाधिकारिणां स्वीय-संसार-दुःख-खण्डने प्रवृत्तानां निष्कामता तद्-वचनैर् एवावसीयते । तानि च यथा—
नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।
तेषु तेष्व् अच्युता भक्तिर् अच्युतास्तु सदा त्वयि ॥ [वि।पु। १.२०.१८] इति ।
स्व-कर्म-फल-निर्दिष्टां यां यां योनिं व्रजाम्य् अहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर् दृढास्तु मे ॥ इति ।
तन् नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ इति ।
प्रायोपवेशारम्भे राज्ञोऽपि वचनं यथा—
पुनश् च भूयाद् भगवत्य् अनन्ते
रतिः प्रसङ्गश् च तद्-आश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥ [भा।पु। १.१९.१६] इति ।
उदार-धीः सुबुद्धिः । काम-राहित्ये काम-साहित्ये वा भक्तेर् भगवद्-विषयत्वम् एव सुबुद्धित्व-चिह्नम् । तद्-अभाव एव मन्द-बुद्धित्व-चिह्नम् इत्य् अर्थः । तीव्रेण ज्ञान-कर्माद्य्-अमिश्रेण मेघाद्य्-अमिश्र एव सौर-किरणो यथा तीव्रः स्यात् तथेत्य् अर्थः ॥१०॥
———————————————————————————————————————
॥ २.३.११॥
एतावान् एव यजताम् इह निःश्रेयसोदयः ।
भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वोक्त-नाना-देवता-यजनस्यापि संयोग-पृथक्त्वेन2 भक्ति-योग-फलत्वम् आह—एतावान् इति । इन्द्रादीन् अपि यजताम् इह तत्-तद्-यजनेन भागवतानां सङ्गतो भगवत्य् अचलो भावो भक्तिर् भवतीति यत् एतावान् एव निःश्रेयसस्य परम-पुरुषार्थस्योदयो लाभः। अन्यत् तु सर्वं तुच्छम् इत्य् अर्थः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किं च, एतावान् इति । इत्य् अर्थ इति । हरि-भक्तिं विना फलान्तरस्य क्षयिष्णुत्वात् तुच्छत्वम् इति भावः । अत्र इन्द्रम् इन्द्रिय-कामस्तु इत्याद्य् उक्त पाटवादिकं पृथक्त्वेन फलं भागवत-संयोगे तु भावः फलं खादिरयूपसंयोगे यागस्य फल-वैशिष्ट्यवद् इति सन्दर्भः । एकस्य तूभयत्त्वे संयोग-पृथक्त्वम् इति जैमिनि-सूत्रम् । तद् अर्थस्तु एकस्य कर्मण उभयत्वेऽनेक-फल-सम्बन्धे संयोग उभय-सम्बन्ध-बोधक-वाक्यं तस्य पृथक्त्वे भेदः स हेतुः । यथा ज्योतिष्टोमादि-कर्मणां कर्मणा पितृलोकः इत्य्-आदि-श्रुतेः स्वर्गादि-हेतुत्वेऽपि यज्ञेन इत्य्-आदि-श्रुर्ज्ञानार्थत्वं तद्वद् अत्रेन्द्रादि-यजनस्येन्द्रिय-पाटवादि-हेतुत्वेऽपि भागवत-संगतो भक्ति-फलकत्वम् अपीत्य् अर्थः । खादिरो यूपो भवति, खादिरं वीर्य-कामस्य यूपं कुर्वीत इत्य् उभय-विध-वाक्योपलब्धेः खादिरस्योभयार्थता यथा तथात्रापीत्य् अप्य् अत्रानुसन्धेयम् ।
विश्वनाथस् तु—ननूक्त-लक्षणानां देवतान्तर-भक्तानां लब्धं तत् तत् कामानामन्ते खलु का गतिः स्याद् इति चेन्न कापि किन्तु यादृच्छिकमहत् कृपा स्यात् तदैव भक्तिः स्याद् इत्य् आह—एतावान् एव । यजतां देवतान्तर-याजिनां निःश्रेयसोदयः कोऽसौ यद्यदि भागवतानां संगतो हेतो-भगवति भावः सेव्यत्वकामना स्याद् अन्यथा न निःश्रेयसं तत् तद् देवतानाम् अपि निःश्रेयसाभावाद् इति भावः । तद् उक्तं भगवता—
येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता ९.२३-२४] इति ।
इति देवतान्तरस्य यजनं तु न हि भगवद् भाव-कारणं किं तु भागवत-सङ्ग एव स च यदृच्छयैव भवेद् इति प्राक्-प्रतिपादितम् ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **किं च, एतावान् इति । टीका च—पूर्वोक्त-नानादेवता-यजनस्यापि संह्योग-पृथक्त्वेन भक्ति-योग-फलत्वम् आह एतावान् इति । इन्द्रादीन् अपि यजताम् इह तत्-तद्-यजने भागवतानां सङ्गतो भावो भक्तिर् भवतीति यद् एतावान् एव निःश्रेयसस्य परम-पुरुषार्थसोदयः लाभः अन्यत् तु सर्वं तुच्छम् इत्य् अर्थः इत्य् एषा ।
अत्र इन्द्रम् इन्द्रिय-कामस् त्व् इत्य्-आद्य् उक्तम् । इन्द्रिय-पाटवादिकं पृथक्त्वेन फलम् । भागवतेन संयोगे तु भावः फलं खादिर-यूप-संयोगे यागस्य फल-वैशिष्ट्यवद् इति ज्ञेयम् ॥११॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननूक्त-लक्षणानां देवान्तर-भक्तानां लब्ध-तत्-तत्-कामानाम् अन्ते खलु का गतिः स्याद् इति चेत् ? न कापि । किन्तु यदि यादृच्छिक-महत्-कृपा स्यात्, तदैव भक्तिः स्याद् इत्य् आह—एतावान् एव यजतां देवतान्तर्-याजिनां निःश्रेयसोदयः । कोऽसौ ? यत् यदि भागवतानां सङ्गतो हेतोर् भगवति भावः सेव्यत्व-भावना स्यात्, अन्यथा न निःश्रेयसं, तत्-तद्-देवतानाम् अपि निःश्रेयसाभावाद् इति भावः । यद् उक्तं भगवता—
येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता ९.२३-२४] इति ।
देवतान्तरस्य यजनं तु नैव भगवद्-भाव-कारणम्, किन्तु भागवत-सङ्ग एव । स च यदृच्छयैव भवेद् इति प्राक् प्रतिपादितम् ॥११॥
———————————————————————————————————————
॥ २.३.१२ ॥
ज्ञानं यद् आ प्रतिनिवृत्त-गुणोर्मि-चक्रम्
आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः ।
कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः
को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भागवत-सङ्गत इत्य् अनेन सूचितां हरि-कथा-रतिं स्तौति—ज्ञानम् इति । यत्3 यासु कथासु ज्ञानं भवति । कीदृशम् ? आ सर्वतः प्रतिनिवृत्तम् उपरतं गुणोर्मीणां रागादीनां4 चक्रं5 समूहो यस्मात् तत् । उत अनन्तरम् । तद्-धेतुर् आत्म-प्रसादश् च । यत्र यासु मनः-प्रसाद-हेतुः, गुणेषु विषयेष्व् असङ्गो वैराग्यं च । “उभयत्र” इति पाठे इहामुत्र च गुणेष्व् असङ्गः । कैवल्यम् इत्य् एव संमतः पन्थाः यो भक्ति-योगः । निर्वृतः श्रवण-सुखेन । अन्यत्रानिर्वृत इति वा । तासु हरि-कथासु को रतिं न कुर्यात् ? ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु यावज् जीवं यो यमाश्रितस् तस्यान्ते खल्वाश्रयान्तरान् औचित्यम् एव तस्मात् सर्व-कालम् एव तत् तद् देवोपासकस्यान्ते भागवत सङ्गादपि भगवति भावः कथं कर्तुम् उचित इति चेद् देवतान्तरोपासकः खलु को वराको यतो ब्रह्मोपासकोऽपि भगवति शुद्धां भक्तिं करोतीत्यत्र क्रमरीतिं दर्शयन्न् आह । ज्ञानं यदा स्यात् कीदृशं प्रति-निवृत्तम् उपरतं गुणोर्मीणां रागादीनां चक्रं समूहो यस्मात् तत् । तदात्म प्रसादः स्यात् यत्रात्म-प्रसादे सति गुणेष्व् असङ्गो वैराग्यम् । कीदृशः कैवल्ये संमतः पन्था अथ तद्-अनन्तरं भक्ति-योगः स्यात् । भक्ति-योगस्य यादृच्छिकतायाः प्राक् प्रति-पादितत्वाद् असङ्ग-कार्यत्वं नाशङ्कनीयम् । भगवत् कृपया सनकादीनाम् इव भागवत-कृपया शुकस्येव कीर्तनादि-रूपः । ततः कः खलु निर्वृतो भक्ति-सुखे निमग्नः । रतिम् आसक्तिं यो रतिं न कुर्यात्स त्व-निर्वृत इति भावः । अत्र कर्म-ज्ञान-योग-देवतान्तरोपासनेभ्यः शुद्ध-भक्तेर् उत्कर्ष इति तथा तत् तत् साध्यं केवलया भक्त्यैव सिध्यतीति तथा तत् तत् साधनवतामप्यन्ते पुनर् भक्त्यैव निःश्रेयसम् इति । कर्म-ज्ञानादि-निरपेक्षा स्मरण-कीर्तन-श्रवण-प्रधाना शुद्धा भक्तिर् एव प्रेम-भक्ति-साधनम् इति शुकदेवस्य स्वाभिमतम् । तत्रापि नाम-कीर्तनं सर्वोत्कृष्टतमम् इति वस्तु-पञ्चकं निरूपितम् इति प्रकरणार्थ-संक्षेपः । सन्दर्भस्तु—प्रपञ्चातीतत्वात् कैवल्य-रूप एव विद्वद्भिः संमतः पन्था भगवत् प्राप्त्य् उपायश् चेत्यर्थः । एको नारायणो देवः इत्यादौ । परापराणाम्-परम आस्ते कैवल्य-संज्ञितः इत्य् उक्त-दिशा कैवल्याय श्री-नारायणं लब्धं संमतः पन्था उपायो यो भक्ति-भोगस् तत्-प्रेमा स च यत्रेति वा ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ज्ञानम् इति । प्रपञ्चातीतत्वात् कैवल्य-रूप एव विद्वद्भिः सम्मतः पन्थाः भगवत्-प्राप्त्य्-उपायश् चेत्य् अर्थः । एको नारायणो देवः [भा।पु। ११.९.१६] इत्य् आदौ, परावराणां परम आस्ते कैवल्य-संज्ञितः [भा।पु। ११.९.१८] इत्य्-उक्त-दिशा कैवल्याय श्री-नारायणं लब्धुं सम्मतः पन्था उपायो यो भक्ति-योगस् तत् प्रेमा, स च यत्रेति ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु, यावज् जीवन-पर्यन्तं यो यम् आश्रितस् तस्यान्ते खल्व् आश्रयान्तरानौचित्यम् एव, तस्मात् सर्व-कालम् एव तत् तद् एवोपासकस्यान्ते भागवत-सङ्गाद् अपि भगवति भावः कथं कर्तुम् उचित इति चेत् ? देवतान्तरोपासकः खलु को वराकः ? यतो ब्रह्मोपासकोऽपि भगवति शुद्धां भक्तिं करोतीत्य् अत्र क्रम-रीतिं दर्शयन्न् आह—ज्ञानं यदा स्यात् । कीदृशम् ? प्रतिनिवृत्तम् उपरतं गुणोर्मीणां चक्रं समूहो यस्मात् तत् तद् आत्म-प्रसादः स्यात् । यत्र आत्म-प्रसादे सति गुणेषु असङ्गो वैराग्यम् । उभयत्रेति पाठे इहामुत्र च गुणेष्व् असङ्गः । कीदृशः ? कैवल्ये सम्मतः पन्थाः ।
अथ तद्-अनन्तरं च भक्ति-योगः । भक्ति-योगस्य यादृच्छिकत्यायाः प्राक् प्रतिपादितत्वाद् असङ्ग-कार्यत्वं नाशङ्कनीयम् । भगवत्-कृपया सनकादीनाम् इव भागवत-कृपया सनकादीनाम् इव भागवत-कृपया शुकस्येव कीर्तनादि-रूपः । अतः कः खलु निर्वृतः भक्ति-सुखे निमग्नः । रतिम् आसक्तिम् । यो रतिं न कुर्यात्, स तु अनिर्वृतः इति भावः ।
अत्र कर्म-ज्ञान-योग-देवतान्तरोपासनेभ्यः शुद्ध-भक्तेर् उत्कर्ष इति । तथा तत्-तत्-साध्यं केवलया भक्त्यैव सिध्यतीति, तथा तत्-तत्-साधनवताम् अप्य् अन्ते पुनर् भक्त्यैव निःश्रेयसम् इति कर्म-ज्ञानादि-निरपेक्षा निष्कामा श्रवण-कीर्तन-स्मरण-प्रधाना शुद्धा भक्तिर् एव प्रेम-भक्ति-साधनम् इति शुकदेवस्य स्वाभिमतम् । तत्रापि नाम-कीर्तनं सर्वोत्कृष्टतमम् इति वस्तु-पञ्चकं निरूपितम् इति प्रकरणार्थ-सङ्क्षेपः ॥१२॥
———————————————————————————————————————
॥ २.३.१३ ॥
शौनक उवाच—
इत्य् अभिव्याहृतं राजा निशम्य भरतर्षभः ।
किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अभिव्याहृतम् उक्तम् । ऋसिं पर-ब्रह्म-दर्शिनम् । कविं शब्द-ब्रह्म-निष्णातम् ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ऋषिं पर-ब्रह्म-दर्शिनम् । कवि-मृषिष्व् अपि मध्ये तद्-वर्णनातिशय-चतुरम् ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इत्य् अभीत्ति । सम्भाव्यैवेदं पृच्छति ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किम् अन्यत् पृष्टवान् इति । उक्तेनैतेनैव सर्व-जिज्ञासित-सिद्धेर् इति विस्मयः सूचितः । ऋषिं पर-ब्रह्म-दर्शिनम् । कविम् ऋषिष्व् अपि मध्ये तद्-वर्णनातिशय-चतुरम् ॥१३॥
———————————————————————————————————————
॥ २.३.१४ ॥
एतच् छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।
कथा हरि-कथोदर्काः सतां स्युः सदसि ध्रुवम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्रवणेच्छायां हेतुः—हरि-कथा एव उदर्कः उत्तर-फलं यासु ताः कथाः सतां भागवतानां सदसि सभायां स्युः ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **श्रवण-कीर्तनादीन्य् एव स्व-कर्तव्यत्वेन ज्ञात्वापि राज्ञा यद् अन्यत् पृष्टं तस्मात् तेषाम् एव श्रवणादीनां विषयाः कृष्ण-कथा एव प्रष्टव्या भविष्यतीत्य् आशयेन् आह—एतद् इति । न च सर्ग-विसर्ग-मन्वन्तर-नाना-राजादि-कथानाम् अपि तद् अन्यकथात्वं वाच्यम् इत्य् आह । कथा अपि हरि-कथा एवोदर्क उत्तर-फलं यासु ताः सर्गादि-कथानाम् अपि कृष्ण-कथायाम् एव पर्यवसितत्वात्ता अपि श्रवणादि-विषया इति भावः । सतां सदसि प्राचीनार् वाचीनेषु मध्ये हे सूतेति कथनात् सूतस्य तु राज-वंश-कथा-ज्ञत्वम् अस्ति न तु हरि-कथाभिज्ञत्वम् इत्याक्षेपवारणायाह—हे विद्वन्न् इति । व्यास-शिष्यत्वात् त्वं सर्व-ज्ञासीति भावः ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कथा इति । लौकिक-कथा अपि हरि-कथास् त्व् आदित एव तद्-रूपाः स्युर् इत्य् अर्थः ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्रवना-कीर्तनादीन्य् एव स्व-कर्तव्यत्वेन ज्ञात्वापि राज्ञा यद् अन्यत् पृष्टं, तस्मात् तेषाम् एव श्रवणादीनां विषयाः कृष्ण-कथा एव प्रष्टव्या भविष्यन्तीत्य् आशयेनाह—एतद् इति । न च सर्ग-विसर्ग-मन्वन्तर-नाना-राजादि-कथानाम् अपि कृष्ण-कथायाम् एव पर्यवसितत्वात् ता अपि श्रवणादि-विषयाः इति भावः ॥१४॥
———————————————————————————————————————
॥ २.३.१५ ॥
स वै भागवतो राजा पाण्डवेयो महा-रथः ।
बाल-क्रीडनकैः क्रीडन् कृष्ण-क्रीडां य आददे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति—स वा इति द्वाभ्याम् । कृष्ण-पूजादि-रूपां क्रीडां यः स्वीकृतवान् ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सा सभा सर्वतः श्रेष्ठा यत्र श्रोता वक्ता च सर्वतोऽपि विलक्षण इत्य् आह—स वा इति । य इति । या या श्री-कृष्णस्य वृन्दावनादौ बाल-क्रीडा श्रुतास्ति तत्-प्रेमावेशेन तत्-सख्यादि-भाववान् तां ताम् एव क्रीडां कृतवान् इत्य् अर्थः । बालानां क्रीडनकैः क्रीडा-साधनैर् गोवत्सादि-प्रति-कृतिभिः ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स वा इति । या या श्री-कृष्णस्य वृन्दावनादौ बाल-क्रीडा श्रुतास्ति, तत्-प्रेमावेशेन तत्-सख्यादि-भाववान् तां ताम् एव क्रीडां यः कृतवान् इत्य् अर्थः ॥१५॥ [श्री-कृष्ण-सन्दर्भ ४९]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सतां सदसि प्राचीनार्वाचीनेषु मध्ये, सा सभा सर्वतः श्रेष्ठा, यत्र श्रोता वक्ता च सर्वतोऽपि विलक्षण इत्य् आह—स वा इति द्वाभ्याम् । कृष्ण-क्रीडां कृष्ण-क्रीडानुकरणम् ॥१५॥
———————————————————————————————————————
॥ २.३.१६ ॥
वैयासकिश् च भगवान् वासुदेव-परायणः ।
उरुगाय-गुणोदाराः सतां6** स्युर् हि समागमे ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उरुगायस्य गुणैर् उदारा महत्यः कथाः स्युः ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भगवान् सर्वज्ञः सतां समागमे सति उरुभिर् वेदविद्भिर् गीयत इति उरुगायः श्री-कृष्णास् तस्य गुणा एवोदारा मनोरथ-प्रदातारः तत्रत्यानां जनिष्यमाणानां च जनानां ध्रुवं स्युर् अतस्तान् गुणानत्र प्रवर्तयेति । तेन कृष्ण-कथोदर्काः कथाश् च भक्तेर् आस्वादनीया इति भावः ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत एव स वै भागवतो राजा [भा।पु। २.३.१५] इत्य्-आद्य्-अनन्तरं राज्ञा समान-वासनात्वेनैव तम् आह—वैयासकिश् चेति । च-शब्दः प्राग्-वर्णितेन समान-वासन त्व् अं बोधयति । तस्मात् श्री-वसुदेव-नन्दनत्वेनैवात्रापि वासुदेव-शब्दो व्याख्येयः । अन्येषाम् अपि सतां समागमे तावद् उरुगायस्य गुणोदाराः कथा भवन्ति । तयोस् तु श्री-कृष्ण-चरित-प्रधाना एव ता भवेयुर् इति भावः ॥१६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवान् सर्वज्ञः । सतां समागमे सति, उरुगायस्य कृष्णस्य गुणाएव उदारा मनो-वाञ्छितार्थ-प्रदातारः । तत्रत्यानां जनिष्यमाणानां च ध्रुवं स्युः । अतस् तान् गुणान् अत्र प्रवर्तयति । तेन कृष्ण-कथोदर्काः कथाश् च भक्तैर् आस्वादनीया इति भावः॥१६॥
———————————————————————————————————————
॥ २.३.१७ ॥
आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ ।
तस्य र्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तस्यायुषः उत्तमः-श्लोक-वार्तया ऋते यः क्षणः स नीत एव वृथा ॥१७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, वृथैव क्षीयमाणम् आयुर् हरि-कथया सफलं कुर्व् इत्य् आशयेनाह त्रिभिः—आयुर् इति । असौ सूर्यः उद्यन्न् उद्गच्छन्न् अस्तम् अदर्शनं च यन् गच्छन् । यत् येन क्षणो नीतस् तस्य आयूः ऋते वर्जयित्वा वृथैव हरति ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नत्र विलम्बः कार्य इत्य् आह—किं चेति । हरति वृथागामित्वाद् बलादाच्छिनत्तीव । यद् वा, क्षणोऽपि निमेष-त्रयम् अपि तावतैव कालेन सर्वमायुः सफलं भवति । एकस्याम् एव शाखायां फलितायां वृक्षोयं फलवान् इति यथोच्यते । प्रतिशाखं फलवत् त्वे कैमुत्यम् इव सर्वस्यायुषः कृष्ण-वार्तायुक्तत्वम् अपेक्ष्यम् । नन्व् एवं चेदायुर् हरणाभावात् कृष्ण-वार्तयापि तत्-क्षणे जनो न म्रियेत् । सत्यम् । सत्-पात्री-कृत-वित्तो जनोऽक्षय-वित्तो यथोच्यते परत्र तद्-भोगानन्त्य् अप्राप्तेः—
स मम ब्राह्मणे दानं द्वि-गुणं ब्राह्मण-ब्रुवे ।
अधीते शत-साहस्रम् अनन्तं वेद-पारगे ॥ इति स्मृतेः ।
अब्राह्मणे ब्राह्मणेतरे सत्-कर्मणि लिङ्गिजनादौ । ब्राह्मण-ब्रुवे कुत्सित-विप्रे । अधीते शास्त्राध्येतरि । वेद-पारगे वेदार्थ-ज्ञानवति इति । तथैव कृष्ण-सात्-कृत-खायुर्जनः परत्र तत्-पार्षदत्वप्राप्त्या ध्रुवम् अक्षयायुर् भवतीति । कृष्ण-भक्तस्यायुर् हरणाभावो ज्ञेयः । जरा-मरण-रोगादिकं तु भक्त्य् उत्कर्ष-वृद्ध्यर्थं मतान्तरोत्थानाभावार्थं च स्व-भक्ते रहस्यत्व-रक्षणार्थं च भगवद् इच्छयैव भवति न तु तत्र काल-कर्मादेर् वस्तुतः कारणतेत्य् उपपादितं भीष्म-निर्याणाध्याये ॥१७॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : एवम् अन्वय-मुखेन प्राग्-वर्गान् उक्त्वा व्यतिरेक-मुखेन दर्शयन्न् आह—आयुर् इति । उद्यन् उदयन् । अस्तं पश्चिमाद्रिं च यन् गच्छन् । असाव् अभिनयेन सूर्यं दर्शयति । तस्य र्ते तस्यायुर् विना यद् येन । हृतम् अपि तस्यायुः सफलत्वाद् अहृतवद् इत्य् अर्थः । अत्र वार्तयेत्य् अन्यं प्रति गुणाभिधानम् एकम् अङ्खम् इत्य् अभिप्रेतम् । उत्तरत्र गाथोपगानम् एकाकिनः ॥१७॥ [मु।फ। ७.८०]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अनन्तरं श्री-शौनकेनापि व्यतिरेकोक्त्या तस्यैवाभिधेयत्वं दृढीकृतम् । यथाह—आयुर् हरतीति । असौ सूर्य उद्यन् उद्गच्छन् अस्तं च यन् गच्छन् हरति वृथा-गामित्वाद् आच्छिनत्तीव । यत्-क्षणोऽपि येन नीतःउत्तमः-श्लोक-वार्तयातस्य आयुः ऋते वर्जयित्वा, तावतैव सर्व-साफल्यात् । यद्यपि क्षणं भगवद्-वार्तयापि सर्वम् आयुः सामान्याकारेण सफलं जायते, एकस्यां शाखायां फलितायाम् अखण्ड-वृक्षवत्, तथापि प्रति-विशेषावस्थम् अपि सफलं जायताम् इत्य् एतद् अर्थं मम प्रश्न इति भावः ॥१७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नात्र विलम्बः कार्य इत्य् आह—आयुर् इति । असौ सूर्यः उद्यन् उदयं प्राप्नुवन्, अस्तम् अदर्शनं च यन् गच्छन् । तस्य आयुर् ऋते विना । यत् येन क्षणोऽवसरः । यद् वा, क्षणोऽपि निमेष-त्रयम् अपि, तावतैव कालेन सर्वम् आयुः सफलं भवति । एकस्याम् एव शाखायां फलितायां वृक्षोऽयं फलवान् इति यथोच्यते, प्रतिशाखं फलवत्त्वे कैमुत्यम् इव, सर्वस्यायुषः कृष्ण-वार्तायुक्तत्वम् अपेक्ष्यम् । नन्व् एवं चेत् आयुर् हरणाभावात् कृष्ण-वार्तायापि तत्-क्षणे जनो न म्रियते ? सत्यम् । सत्-पात्रीकृत-वित्तो जनोऽषय-वित्तो यथोच्यते, परत्र तद्-भोगानन्त्य-प्राप्तेः ।
समम् अब्राह्मणे दानं द्विगुणं ब्राह्मण-ब्रुवे ।
अधीते शत-साहस्रम् अनन्तं वेद-पारगे ॥ इति स्मृतेः ।
तथैव कृष्ण-सात्कृत-स्वायुर्जनः परत्र तत्-पार्षदत्व-प्राप्त्या ध्रुवम् अक्षयम् आयुर् भवतीति कृष्ण-भक्तस्यायुर् हरणाभावो ज्ञेयः । जरा-मरण-रोगादिकं तु भक्त्य्-उत्कण्ठा-वृद्ध्य्-अर्थम् । मतान्तरोत्खाताभावार्थं च, स्व-भक्ते रहस्यत्व-रक्षणार्थं च भगवद्-इच्छयैव भवति । न तु तत्र वस्तुतः काल-कर्मादेः कारणतेत्य् उपपादितं भीष्म-निर्याणाध्याये ॥१७॥
———————————————————————————————————————
॥ २.३.१८ ॥
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्य् उत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु जीवनम् एव तेसाम् आयुषः फलम् अस्ति ? तत्राह—तरव इति । ननु तेषां श्वासो नास्ति, तर्हि भस्त्राश् चर्म-कोशाः । ननु तासाम् आहारादिकं नास्ति, तत्राह—न खादन्ति नाश्नन्ति। न मेहन्ति न रेतः-सेकं मैथुनं न कुर्वन्ति किम् ? उत अपि । नराकारं पशुं मत्वाह—अपरे इति ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । मनुष्येभ्योऽपि तेषां तरु-भस्त्रा-ग्राम-पशूनां जीवनाधिक्य-श्वासाधिक्य-खादनाद्य्-आधिक्यानि सन्तीत्य् अतस् ते नराकाराः पशव एवेति भावः ॥१८॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : ननु कथम् आयुषो वैयर्थ्यं भोग-सद्भावात् ? इत्य् अत आह—तरव इति । उत अहो ॥१८॥ [मु।फ। ७.८१]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रायुर् एक-देशेऽपि तत्-सम्बन्ध-बहिर्-भूतान् निन्दंस् तद् एव द्रढयति—तरव इति द्वयेन । न च तरूणां श्वासो नास्तीति तेषु न्यून त्व् अं वाच्यम् । सत्य् अपि श्वासे सफल-जीवनाभाव-दर्शनात् सोऽयम् अकिञ्चित्कर इत्य् आह—भस्त्रा इति । ननु तरूणां रसादि-भोगो नास्ति ? तत्राह—न खादन्तीति । न मेहन्ति न मैथुनं कुर्वन्ति । तान् अपि नराकारान् पशून् मत्वाह—अपर इति ॥१८॥ [भक्ति-सन्दर्भ ३४]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न चायुर् हरणाभावस्य मर्त्य-लोके जीवनम् एव फलम् इत्य् अत आह—तरव इति । प्रत्युत मनुष्येभ्योऽपि तेषां जीवनाधिक्यम् । ननु तेषां श्वासो नास्ति ? इत्य् अत आह—भस्त्रा इति । प्रत्युत मनुष्येभ्योऽपि भस्त्राणां श्वासाधिक्यम् । ननु तेषाम् आहारादिकं नास्तीति ? तत्राह—न खादन्तीति । न मेहन्ति स्त्री-सम्भोगं न कुर्वन्ति । मेहनं रेतः-सेकः । प्रत्युत मनुष्येभ्योऽपि तेषां खादनाद्य्-आधिक्यम् । अपरे इत्य् अनेन तेषाम् अपि नराकार-पशुत्वं व्यञ्जितम् ॥१८॥
———————————————————————————————————————
॥ २.३.१९ ॥
श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः ।
न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह श्वादिभिः संस्तुतः सदृशो निरूपितः । यस्य कर्ण-पथं कदाचिद् अपि नागतः । स अवज्ञास्यदत्वाच् छ्वभिः कश्मल-विषयासक्तत्वाद् विड्-वराहैर् ग्राम-सूकराइः, कण्टकवद् दुःखद-विषयासक्तत्वाद् उष्ट्रैः, भार-वाहित्वात् खरैस् तुल्य इत्य् अर्थः ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव नराकार-पशुत्वम् एव । तेषां पशुत्वेऽप्य् अतिगर्हणीयत्वम् आह–श्वादिभिः संस्तुतः सम्यक् स्तुतः । अस्माकं चतुर्णाम् अपि धर्मानयम् एक एव धत्ते । वयं तु परस्पर-धर्म-ग्रहणेऽप्य् असमर्था इति । तथायं मनुष्योऽपि भूत्वा वयं तु पशवो भूत्वा पश्व्-अन्तरस्यैकस्यापि धर्मं धर्तुं न शक्नुम इति । तथायं शास्त्रादिष्टं स्व-धर्मम् अप्य् उल्लङ्घ्यातिरागेणैव धत्ते । वयं तु नियति-कृते स्व-स्व-धर्मे एव पतिता इति । तथायम् असद्-धर्मे जनिष्यमाणं नरकं ज्ञात्वा वयं तु मूढा एवेति चतुर्की स्तुतिः । तेषां श्वादीनां धर्मा निर्हेतु-रोषणत्वामेध्य-भोजित्व-महाभारवाहित्व-स्व-स्त्रीपाद-ताडितत्वादयः । यस्य कार्य-पथे जातु कदाचिद् अपि नोपेतो गतः गदाग्रज इति । गदस्य रोगस्थाग्रे प्रतियोद्धेव जायते प्रादुर्भवतीति श्लेषेण तदैव ते क्रोधादयः पुरुषस्य रोगा नश्यन्तीति भावः ॥१९॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : विड्-वराहो ग्राम्य-शूकरः । श्वादिभिः सह संस्तुतः तत्-प्रस्तावे गृहीत-नामा ॥१९॥ [मु।फ। ७.८२]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवाह—श्व-विड्-वराह इति । श्वादि-तुल्यैस् तत्-परिकरैः सम्यक्-स्तुतोऽप्य् असौ पुरुषः पशुः । तेषाम् एव मध्ये श्रेष्ठश् चेत् तर्हि महा-पशुर् एवेत्य् अर्थः । यद् वा, श्वादिभिः सम्स्तुतः सम्यक् स्तुतः सर्वेषाम् अस्माकं यत्-किञ्चिद् गुणादिकं तत् सर्वम् अनेन धृतम् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेषां पशुत्वेऽप्य् अतिगर्हणीयत्वम् आह—श्वादिभिः सम्यक् स्तुतः । अस्माकं चतुर्णाम् अपि धर्मानयम् एक एव धत्ते । वयं तु परस्पर-धर्मेऽप्य् असमर्था इति । तथा अयं मनुष्योऽपि भूत्वा । वयं तु पशवोऽपि भूत्वा, पश्व्-अन्तरस्यैकस्यापि धर्मं धर्तुं न शक्नुम इति । तथायं शास्त्रादिष्टं स्व-धर्मम् अप्य् उल्लङ्घ्य अतिरागेणैव धत्ते, वयं तु नियति-कृते स्व-स्व-धर्म एव पतित इति । तथायम् अस्मद्-धर्मे जनिष्यमाणं नरकं ज्ञात्वापि । वयं तु ंऊढा एवेति—चतुर्धा स्तुतिः । तेषां श्वादीनां धर्मास् तु निर्हेतु-रोषणत्वामेध्य-भोजित्व-महाभार-वाहित्व-स्वस्त्री-पाद-ताडितत्वादयः । यस्य कर्ण-पथे जातु कदाचिद् अपि न उपेतो गतः । गदाग्रज इति गदस्य रोगस्याग्रे प्रतियोद्धेव जायते प्रादुर्भवतीति, श्लेषेण तदैव ते क्रोधादयः पुरुषस्य रोगान् नश्यन्तीति भावः ॥१९॥
———————————————————————————————————————
॥ २.३.२० ॥
बिले बतोरुक्रम-विक्रमान् ये
न शृण्वतः कर्ण-पुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्य् उरुगाय-गाथाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्याङ्गानि च निष्फलानीत्य् आह—बिले इति पञ्चभिः । बतेति खेदे । न शृण्वतोऽशृण्वतो नरस्य ये कर्ण-पुटे ते बिले वृथा-रन्ध्रे । न चेद् उपगायति तस्य जिह्वा असती दुष्टा दर्दुरो भेकस् तदीया जिह्वेव ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्याङ्गिनः पुरुषस्य निन्दां कृत्वा प्रत्येकतद् अङ्गानि निन्दति । बिले एव ग्राम्य-वार्ताभुजग-गृह-तुल्ये । श्लेषणासती स्त्रीव तस्य सुकृत-सर्वस्वं विप्लावयति । अत्र यद्यपि पुरुषो भुजाद्य् एकाङ्ग-कृतयापि भक्त्या कृतार्थ एव भवति तद् अपि तस्याङ्गान्तराणि तु व्यर्थान्य् एव भवन्तीत्य् आशयेनाङ्गानां निन्दा ज्ञेया ॥२०॥
———————————————————————————————————————
**हेमाद्रि (कैवल्य-दीपिका-टीका) : **बिलेति । बिले च्छिद्रे न त्व् इन्द्रिये । बत कष्टं न शृण्वत इति नर-विशेषणम् । अत्र कर्ण-पथोपेत इति न शृण्वतो ये [इति च] कथा-श्रवणम् उक्तम् । दर्दूरो मण्डूकः । च-शब्दश् चेद्-अर्थे गाथाः कथाः ॥२०॥ [मु।फ। ७.८३]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथायुर्-विशेषावस्था-वैफल्य-दृष्टान्तत्वेन तत्-तद्-अङ्ग-विशेष-वैफल्यम् आह—बिले बतेति त्रिभिः । न शृण्वतः अशृण्वतो नरस्य ये कर्ण-पुटे ते बिले ते वृथा-रन्ध्रे इत्य् अर्थः । असती दुष्टा । न योपेति क्वचित् पाठः, स तु स्वाम्य्-असम्मतः । पूर्ववत् यत्-तच्-छब्दाभ्याम् अनन्वयात् । चेच्-छब्दाध्याहाराच् च ॥२०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं पुरुषम् अङ्गिनं निन्दित्वा, प्रत्येक-भक्त्या विना प्रत्येक-तद्-अङ्गानि निन्दति—बिले इति पञ्चभिः । बत खेदे । न शृण्वतः अशृण्वतः पुंसो ये कर्ण-पुटे ते बिले एव । ग्राम्य-वार्ता-भुजङ्ग-गृह-तुल्ये । दर्दुरो भेकः । तदीयेवासती-भूता दुष्टा वा श्लेषेण असती स्त्री इव तस्य सुकृत-सर्वस्वं विप्लावयति । अत्र यद्यपि भुजाद्य्-एकाङ्ग-कृतयापि भक्त्या पुरुषः कृतार्थ एव भवति । तद् अपि तस्याङ्गान्तराणि तु व्यर्थान्य् एव भवन्तीत्य् आशयेनाङ्गानां निन्दा ज्ञेया ॥२०॥
———————————————————————————————————————
॥ २.३.२१॥
भारः परं पट्ट-किरीट-जुष्टम्
अप्य् उत्तमाङ्गं न नमेन् मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर् लसत्-काञ्चन-कङ्कणौ वा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पट्ट-वस्त्रोष्णीषेण किरीटेन च जुष्टम् अपि शिरो यदि न नमेत् तर्हि केवलं भार एव । शवो मृतकस् तत्-कर-तुल्यौ । लसती काञ्चन-कङ्कणे ययोस् तौ । अप्य्-अर्थे वा-शब्दः॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भार एव संसार-सिन्धौ प्रविशन्तं तम् अधिकं निमज् जयतीति भावः । मृतक-करतुल्यत्वाद् देव-पित्रादयोऽपि तदृत् तं जलादिकं न ग्रहन्तीति भावः ॥२१॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : पट्ट-वस्त्रं शवस्य इमौ शावौ । वा-शब्दो यद्य्-अर्थे ॥२१॥ [मु।फ। ७.८४]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भारः परम् इति । पट्ट-वस्त्रौष्णीषेण किरीटेन वा जुष्टम् अपि । अप्य् अर्थे वा शब्दः ॥२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उत्तमाङ्गं शिरः पट्ट-वस्त्रोष्णीषेण च किरीटेन च जुष्टम् अपि परं केवलं भारः । संसार-सिन्धौ प्रविशन्तं तम् अधिकं निमज्जयतीति भावः । शवो मृतकस् तत्-सम्बन्धिनाव् इति—देव-पित्रादयोऽपि तद् दत्तं जलादिकम् अशुचित्वान् न गृह्णन्तीति भावः । वा-शब्दोऽप्य्-अर्थे ॥२१॥
———————————————————————————————————————
॥ २.३.२२ ॥
बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर् न निरीक्षतो ये ।
पादौ नृणां तौ द्रुम-जन्म-भाजौ
क्षेत्राणि नानुव्रजतो हरेर् यौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ये नयने विष्णोर् मूर्तीर् न निरीक्षेते, **ते बर्हायिते **मयूर-पिञ्छ-तुल्ये नेत्रे । द्रुमवज् जन्म भजेते इति तथा । वृक्ष-मूल-तुल्याव् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मयूर-पिच्छ-नेत्र-तुल्ये । ताभ्याम् आत्मन उद्धार-पदवीम् अपश्यन्तः संसार-कण्टक-क्षेत्र एव पतन्तीति भावः । इत्य् अर्थ इति । यम-दूतैर् एव कुठारैश् छिद्यमानौ भविष्यत इति भावः ॥२२॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : बर्हं मयूर-पिच्छम् । द्रुम-जन्म वृक्ष-मूलत्वम् ॥२२॥ [मु।फ। ७.८५]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्रुमवज् जन्म-भाजाव् इति तथा वृक्ष-मूल-तुल्याव् इत्य् अर्थः ॥२२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बर्हायिते मयूर-पिञ्छ-तुल्ये इति—ताभ्याम् आत्मनः उद्धार-पदवीम् अपश्यन्तः संसार-कण्टक-क्षेत्रे एव पतन्तीति भावः । **ये नयने **विष्णोर् मूर्तीर् न निरीक्षेते । द्रुम-जन्म भजेते इति तथा तौ । वृक्ष-मूल-तुल्याव् इति—यम-दूतैर् एव कुठारैश् छिद्यमानौ तौ भविष्यत इति भावः ॥२२॥
———————————————————————————————————————
॥ २.३.२३ ॥
जीवञ् छवो भागवताङ्घ्रि-रेणुं
न जातु मर्त्योऽभिलभेत यस् तु ।
श्री-विष्णु-पद्या मनुजस् तुलस्याः
श्वसञ् छवो यस् तु न वेद गन्धम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाभिलभेत अभितो न स्पृशेन् न धारयेत् । श्री-विष्णु-पद्याः श्री-विष्णु-पद-लग्नायाः । न वेदेति अवघ्राय नाभिनन्देद् इत्य् अर्थः ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एकैकान्य् अङ्गानि निन्दित्वा समुदितानि निन्दति—जीवन्न् इति । जीवञ् छवः प्रेत-शरीर-विशेष इव चेष्टमानः । साधून्भीषयते । तत्-प्राणि-कृत-सपर्यादिकम् अपि भगवान् न गृह्णातीति भावः । इत्य् अर्थ इति । यथा शवो गन्धादिभिर् अर्चितोऽपि तन् नाभिनन्दति तद्वत्सोपीति भावः ॥२३॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : नाभिलभेत न स्पृशेत । श्री-शब्दो नाम्नः पूजार्थः । विष्णोः पादौ एति गच्छति इति विष्णु-पादो विष्णु-चरण-स्थेत्य् अर्थः । इलकान्ताव् इति दीर्घोऽप्य् अस्ति अद्-आदौ ॥२३॥ [मु।फ। ७.८६]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तत्-तत्-सर्व-कारण-विशेषं विना तत् तद् अपि न सम्पद्यते । तथा च श्री-वैष्णव-चरण-रजसा सर्वाङ्ग-स्नानम् एव पूर्वोक्तेषु नमस्कारादिषु कारणम् । श्री-चरण-तुलसी-गन्धस् तु हृद्-विकार-कारणम् । हृद्-विकारस् तु पुलकादिषु कारणम् इति ज्ञेयम् इत्य् अभिप्रायेणाह—जीवन्न् इत्य् अर्धेन । यम् एव विना तादृश-हृदयं न जायत इत्य् अभिप्रायेणाह—श्रीति-सार्धेन । श्री-विष्णु-पद्यास् तत्-पद-लग्नायाः ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एकैकान्य् अङ्गानि निन्दित्वा समुदितानि निन्दति । नाभिलभेत अभितो न स्पृशेत्—सर्वाङ्गेषु न धारयेद् इत्य् अर्थः । स जीवञ् छवः—प्रेत-शरीर-विशेष इव चेष्टमानः साधून् भीषयते । तत्-पाणि-कृत-सपर्यादिकम् अपि भगवान् न गृह्णातीति भावः । श्री-विष्णु-पद्या विष्णु-पद-लग्नत्वेन विष्णु-पदीत्य् अभिधानायाः तुलस्या गन्धं न वेद—अवघ्राय नाभिनन्देद् इत्य् अर्थः । श्वसकृत् छवः—पूर्ववत् सोऽपि जीवञ् छव इत्य् अर्थः ॥२३॥
———————————————————————————————————————
॥ २.३.२४ ॥
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अश्मवत् सारो बलं काठिन्यं यस्य । विक्रिया-लक्षणम् आह—अथेति । गात्र-रुहेषु रोमसु हर्ष उद्गमः ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एवं व्यस्त-समस्ततया बाह्यम् अङ्गं प्राधान्येन निन्दित्वाभ्यन्तरम् अपि निन्दति—तद् अश्म-सारं लोहमयम् एव यत् खलु गृह्यमाणैः कीर्त्यमानैर् अपि बहुभिर् हरिनाम-धेयैर् न विक्रियते । विक्रिया-लक्षणम् आह—अथेत्यादि । गावरुहेषु रोमसु हर्षः रोमाञ्चः बहु-नाम-ग्रहणेऽपि चित्त-द्रवाभावो नामापराध-लिङ्गम् इति सन्दर्भः । किं च, अश्रु-पुलकाव् एव चित्त-द्रव-लिङ्गम् इत्य् अपि न शक्यते वक्तुम् । तद् उक्तं श्रीमद्-रूप-गोस्वामि-चरणैः—
निसर्ग-पिच्छिल-स्वान्ते तद्-अभ्यास-परेऽपि च ।
सत्त्वाभासं विनापि स्युः क्वाप्य् अश्रु-पुलकादयः ॥ [भ।र।सि। २.३.८९] इति ।
तथातिगम्भीर-महानुभाव-भक्तेषु हरि-नामभिश् चित्त-द्रवेऽपि बहिर् अश्रु-पुलकादयो न दृश्यन्ते इति । तस्माद् इदम् एवं व्याख्येयम् । यद्-धृदयं न विक्रियेत कदा ? यदा विकारस् तद् अपीत्य् अर्थः । विकार एव कः ? तत्राह—नेत्रे जलम् इति । ततश् च बहिर् अश्रु-पुलकयोः सतोर् अपि यद्-धृदयं न विक्रियेत, तद् अश्म-सारम् इति वाक्यार्थः । ततश् च हृदय-विक्रिया-लक्षणान्य् असाधारणानि शान्ति-नाम-ग्रहणासत्तयादीन्य् एव ज्ञेयानि । तद् उक्तम्—
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शून्यता ।
आशाबन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥
आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले ।
इत्य् आदयोऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥ [भ।र।सि। १.३.२५-२६]
अश्रु-पुलकादीनि तु साधारणान्य् एव । अयम् अर्थः । उत्तमाधिकारिणां निर्मत्सराणां नाम-ग्रहणे सत्य् एव नाम-माधुर्यस्यानुभवः स्यात् तस्मिंश् च सति हृदय-विक्रिया च स्यात् । सत्यां च तस्यां तद्-व्यञ्जकाः क्षान्त्यादयोऽश्रु-पुलकादयश् च भवन्त्येव कनिष्ठाधिकारिणां समत्सराणान्तु सापराध-चित्तत्वान् नाम-ग्रहण-बाहुल्येऽपि तन् माधुर्यानुभवाभावे चित्तं नैव विक्रियेत तद्-व्यञ्जकाः क्षान्त्यादयोऽपि न भवन्ति । तेषाम् एवाश्रु-पुलकादि-सत्त्वेष्यश्म-सार-हृदयतया निन्दैषा । किं च, तेषाम् अपि साधु-सङ्गेनानर्थ-निवृत्ति-निष्ठारुच्यादि-भूमिकारूढानां कालेन चित्त-द्रवे सति चित्तस्याश्म-सारत्वम् अपगच्छत्येव येषां तु चित्त-द्रवे सति चित्तस्याश्म-सारता तिष्ठेद् एव ते तु दुश्चिकित्स्या एव ज्ञयाः । तथा च वक्ष्यते तृतीये सबीज-योग-ध्याने
एवं हरौ भगवति प्रतिलब्ध-भावो
भक्त्या द्रवद्-धृदय उत्पुलका प्रमोदात् ।
औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस्
तच् चापि चित्त-बडिशं शनकैर् वियुक्ते ॥ [भा।पु। ३.२८.३४] इति ।
अत्र द्रवद्-धृदय इति चित्त-द्रवः । तच् च चित्त-बडिशाम् इति चित्तस्याश्म-सारता बडिशस्य लोहमयत्वात् । अश्म-सारस्य लोहपर्यायत्वात् । प्रतिलब्धो भावो येनेति भावो यमाभास-रूप एव चित्त-द्रवोऽपि तादृश एव ज्ञेय इति यथार्थत्वे शनकैर् वियुक्तं इति तस्य पुरुषार्थ-बुद्ध्या तत् त्यागानुपपत्तेः । अत एव तादृशध्यान-भक्त्याप्ययं भक्त-शब्देन नाभिधीयते । किं तु योगि-शब्देनैव चित्तस्य बडिशत्वेन कठोरत्व-कुटिलत्वाभ्यां तद्-विषयस्य भगवद् अङ्गस्य दुःखदात एव पर्याप्तेर् इति । एवं च सा वाग् यया तस्य गुणान् गृणीते करौ च तत्-कर्म-करौ [भा।पु। १०.८०.३] इत्य्-आदि-वक्ष्यमाण-वाक्यैर् अन्वयेन बिले वतेत्यादि-वाक्यैर् व्यतिरेकेण च भक्तेर् एव शास्त्राभिवेयत्वं दृढी-कृतम् ॥२४॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : अश्म-सारं पाषाणवद् लोहवद् वा कठिनम् । विकृतं कथं लक्ष्यं विक्रिया-योगात् । यदा विकारस् तदा अश्रूणि रोमहर्षश् च ॥२४॥ [मु।फ। ७.८७]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् अश्म-सार इति । अश्मवत् सारो बलं काठिन्यं यस्य । विक्रिया-लक्षणम् अथेति । यदा तद्-विकारो भवेत् तदा नेत्रादौ जलादिकं भवतीत्य् अर्थः । इदम् एवान्वयेन श्रीमता राज्ञा दृढीकरिष्यते—सा वाग् यया तस्य गुणान् गृणीते [भा।पु। १०.८०.३-४] इत्य् आदिभ्याम् ।
तद् एवं श्री-शुक-वाक्यारम्भाध्याय एवाभिधेयत्वेन श्री-भक्तिर् एव लब्धा । टीका च—
तत्र तु प्रथमेऽध्याये कीर्तण-श्रवणादिभिः ।
स्थविष्ठे भगवद्-रूपे मनसो धारणोच्यते ॥
द्वितीये तु ततः स्थूल-धारणातो जितं मनः ।
सर्व-साक्षिणि सवशे विष्णौ धार्यम् इतीर्यते ॥
तृतीये विष्णु-भक्तेस् तु वैशिष्ट्यं शृण्वतो मुनेः ।
भक्त्य्-उद्रेकेण तत्-कर्म-श्रवणादर ईर्यते ॥ इत्य् एषा7 ॥२४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं व्यस्त-समस्ततया बाह्यम् अङ्गं प्राधान्येन निन्दित्वा । अभ्यन्तरम् अपि निन्दति । तद् अश्म-सारं लोह-मयम् एव हृदयम् । यत् खलु गृह्यमाणैः कीर्त्यमानैर् अपि बहुभिर् हरि-नाम-धेयैर् न विक्रियेत । विक्रिया-लक्षणम् आह—अथेत्य् आदि। गात्र-रुहेषु रोमसु हर्षो रोमाञ्चः । बहु-नाम-ग्रहणेऽपि चित्त-द्रवाभावो नामापराध-लिङ्गम् इति सन्दर्भः ।
किं च, अश्रु-पुलकाव् एव चित्त-द्रव-लिङ्गम् इत्य् अपि न शक्यते वक्तुम् । यद् उक्तं श्रीमद्-रूप-गोस्वामि-चरणैः—
निसर्ग-पिच्छिल-स्वान्ते तद्-अभ्यास-परेऽपि च ।
सत्त्वाभासं विनापि स्युः क्वाप्य् अश्रु-पुलकादयः ॥ [भ।र।सि। २.३.८९] इति ।
तथा, अतिगम्भीर-महानुभाव-भक्तेषु हरि-नामभिश् चित्त-द्रवेऽपि बहिर् अश्रु-पुलकादयो न दृश्यन्त इति । तस्मात् पद्यम् इदम् एवं व्याख्येयम् । यद् धृदयं न विक्रियेत । कदा ? यदा विकारस् तदापीत्य् अर्थः । विकार एव कः ? तत्राह—नेत्रे जलम् इति । ततश् च बहिर् अश्रु-पुलकयोः सतोर् अपि यद् धृदयं न विक्रियेत, तद्-अश्म-सारम् इति वाक्यार्थः। ततश् च हृदय-विक्रिया-लक्षणान्य् असाधारणानि क्षान्ति-नाम-ग्रहणासक्त्य्-आदीन्य् एव ज्ञेयानि । यद् उक्तं—
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शुन्यता ।
आशा-बन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥
आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले ।
इत्य् आदयोऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥ [भ।र।सि। १.३.२५-६]
अश्रु-पुलकादीनि तु साधारणान्य् एव ।
अयम् अर्थः—उत्तमाधिकारिणां निर्मत्सराणां नाम-ग्रहणे सत्य् एव नाम-माधुर्यानुभवः स्यात् । सत्यां च तस्यां तद्-व्यञ्जकाः क्षान्त्य्-आदयोऽश्रु-पुलकादयश् च भवन्त्य् एव । कनिष्ठाधिकारिणां स-मत्सराणां तु सापराध-चित्तत्वान् नाम-ग्रहण-बाहुल्येऽपि तन्-माधुर्यानुभवाभावे चित्तं नैव विक्रियेत । तद् व्यञ्जकाः क्षान्त्य्-आदयोऽपि न भवन्ति । तेषाम् एवाश्रु-पुलकादिमत्त्वेऽप्य् अश्म-सार-हृदयतया निन्दैषा ।
किं च, तेषाम् अपि साधु-सङ्गेनानर्थ-निवृत्ति-निष्ठा-रुच्य्-आदि-भूमिकारूढानां कालेन चित्त-द्रवे सति चित्तस्याश्म-सारत्वम् अपगच्छत्य् एव । येषां तु चित्त-द्रवे सति चित्तस्याश्म-सारता तिष्ठेद् एव । ते तु दुश्चिकित्स्या एव ज्ञेयाः । तथा च वक्ष्यते तृतीये स-बीज-योग-ध्याने—
एवं हरौ भगवति प्रतिलब्ध-भावो
भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् ।
औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस्
तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ [भा।पु। ३.२८.३४] इति ।
अत्र द्रवद्-धृदय इति चित्त-द्रवः । तच् च चित्त-बडिशम् इति चित्तस्याश्म-सारता । बडिशस्य लोहमयत्वात् । अश्म-सारस्य लोह-पर्यायत्वात् । प्रतिलब्धो भावो येनेति भावोऽयम् आभास-रूप एव चित्त-द्रवोऽपि तादृश एव ज्ञेयः । यथार्थत्वे शनकैर् वियुङ्क्ते इति तस्य पुरुषार्थ-बुद्ध्या तत्-त्यागानुपपत्तेः । अत एव तादृश-ध्यान-भक्त्याप्य् अयं भक्त-शब्देन नाभिधीयते, किन्तु योगि-शब्देनैव । चित्तस्य बडिशत्वेन कठोरत्व-कुटिलत्वाभ्यां तद्-विषयस्य भगवद्-अङ्गस्य दुःख-दानत एव पर्याप्तेर् इति । एवं च—सा वाग् यया तस्य गुणान् गृणीते करौ च तत्-कर्म-करौ [भा।पु। १०.८०.३] इत्य्-आदि वक्ष्यमाण-वाक्यैर् अन्वयेन । बिले बत इत्य् आदि-वाक्यैर् व्यतिरेकेण च भक्तेर् एव शास्त्राभिधेयत्वं दृढीकृतम् ॥२४॥
———————————————————————————————————————
॥ २.३.२५ ॥
अथाभिधेह्य् अङ्ग मनो-ऽनुकूलं
प्रभाषसे भागवत-प्रधानः ।
यद् आह वैयासकिर् आत्म-विद्या-
विशारदो नृपतिं साधु पृष्टः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्माद् अभक्तस्य सर्वम् एतद् व्यर्थम् । मनसोऽनुकूलं प्रियं च ब्रूषे । अथ अतः साधु पृष्टः सन् वैयासकिर् नृपतिं प्रति यद् आह तद् अभिधेहीति ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् अभिधेहीति । ततोधिकमन्यत् किं वक्तव्यम् अस्तीति भावः ॥२५॥
इति श्री-भागवत-भावार्थ-दीपिका-प्रकाशे द्वितीय-स्कन्धे तृतीयोऽध्यायः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यस्माद् एवं तस्माद् अभिधेहि । ननु किम् अभिदधामीति ? तत्राह त्वं मनोऽनुकूलं प्रभाषसे तस्माद् यद् वैयासकिर् आह तद् एव । ततोऽधिकम् अन्यत् किं वक्तव्यम् अस्तीति भावः ॥२५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वितीयेऽत्र तृतीयोऽपि सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे
महा-पुरुष-संस्थानुवर्णनं नाम
तृतीयोऽध्यायः
॥३॥
———————————————————————————————————————
(२.४)
-
नोत् फ़ोउन्द्। ↩︎
-
संयोग-पृथक्त्वेनेति । सम्बन्धस्य भिन्नत्वेनेत्य् अर्थः । तत्-तद्-देवता-यजने तत्-तद्-उक्त-फल-सिद्धिर् इति पृथक्त्वम् । तत्-तद्-देवता-भजनेन पाप-क्षयात् भागवत-प्रसङ्गः तत्-संगत्या च भगवत्य् अचला भक्तिर् इति संयोगः इति व्याख्यालेशः । अथ वा एकस्य तूभयत्वे संयोग-पृथक्त्वम् । यथा—खादिरो यूपो भवति खादिरो वीर्य-कामस्येति यथैकस्य खदिर-यूपस्य क्रत्व्-अङ्गत्वं वीर्य-साधकत्वं च, तथात्र नाना-देवता-भजनं तत्-तत्-फल-साधकं हरि-भक्ति-फल-साधनं च । तत्रोभय-फल-साधकत्वे स्थिते हरि-भक्ति-कामनयेन्द्रादयो यष्टव्याः नान्य-कामनयेति समुदायार्थः । यथा गोप-कुमारिकाणां कृष्ण-कामनया कात्यायन्य्-अर्चनम् । ↩︎
-
भागवत-सङ्गतो हरि-कथा-प्राप्तिर् इत्य् अर्थाल् लभ्यते । ↩︎
-
आदि-शब्देन जन्म-मरण-शोक-मोह-क्षुधा-पिपासादीनां ग्रहणम् । ↩︎
-
चक्रं पुनः पुनर् आपतनम् । ↩︎
-
‘कथाः स्युः सत्-समागमेऽ इति पाठह् । ‘सताम्ऽ इति पाठे कथा इत्य् अस्याध्याहारः । ↩︎
-
थेसे अरे स्रिधरऽस् इन्त्रोदुच्तोर्य् वेर्सेस् तो थे फ़िर्स्त् थ्रेए छप्तेर्स् ओफ़् थिस् स्कन्ध। ↩︎