०२ योगिमुक्तिः

विषयः

योगिनां योग-धारणयोत्क्रमण-प्रकारस्य वर्णनं सद्यो-मुक्ति-क्रम-मुक्त्योर् निरूपणं च ।

॥ २.२.१ ॥

श्री-शुक उवाच—

एवं पुरा धारणयात्म-योनिर्

नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।

तथा ससर्जेदम् अमोघ-दृष्टिर्

यथाप्ययात् प्राग् व्यवसाय-बुद्धिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **

द्वितीये तु ततः स्थूल-धारणातो जितं मनः ।

सर्व-साक्षिणि सर्वेशे विष्णौ धार्यम् इतीर्यते ॥*॥

दृश्याऌअम्बन-रूपैवम् उक्ता वैराज-धारणा ।

इहोच्यते तु तत्-साध्या सर्वान्तर्यामि-धारणा ॥*॥

तत्र तावत् पूर्वोक्त-धारणाया अवान्तर-फलम् आह—एवं या धारणा, तया तुष्टाद् धरेः पुरा प्रलय-समये नष्टां सृष्टि-स्मृतिंप्रत्यवरुध्य लब्ध्वा, ब्रह्मा अप्ययात् प्रागिदं विश्वं यथा आसीत् तथा ससर्जव्यवसायात्मिका बुद्धिर् यस्य सः । अत एव अमोघा दृष्टिर् यस्येति। अतस् तया धारणया विश्व-सृष्टि-सामर्थ्यं भवति ॥१॥

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :एवं धारणया भक्ति-लक्षणयेत्य् अर्थः । तुष्टात् श्री-कृष्णात्, भक्त्यैवासौ तुष्टो भवति । आत्म-योनिः पुरा नष्टां स्मृतिम् आसाद्य यथा पूर्वम् आसीत्, **तथेदं **विश्वं ससर्ज ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः पूर्वोक्तायाः । तया वैराज-धारणया साध्या । तत्र धारणाद्वय-मध्ये अवान्तरमानुषङ्गिकम् । व्यवसाये भगवत् प्रेरणावशास्त्रक्ष्याम्य् एवेति निश्चये बुद्धिर् यस्य सः । यद् वा, व्यवसायो निश्चय एवम् एतत् स्रष्टव्यम् इत्य् एवं तदात्मिका निश्चिता बुद्धिर् यस्य स तथा । अत एव व्यवसाय-बुद्धित्वाद् एव अमोघा सफला अतः सफल-दृष्टित्वात् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **

द्वितीये चिद्-घन-वपुर् धारणा सिद्ध-योगिनः ।

देहं जिहासोः सायुज्य-प्राप्ताव् उक्तं सृति-द्वयम् ॥*॥

भगवत्-तत्त्वम् इहारोप्य दृशाप्राकृत-वस्तुषु ।

धारणोक्ताथ तत्-साध्या भगवद्-धारणोच्यते ॥*॥

उक्त-धारणाया अवान्तर-फलम् आह । प्रत्यवरुद्ध्य प्राप्य । तुष्टात् परमेश्वरात् । अप्ययात् प्रलयात् प्राग् इदं विश्वं यथासीत् तथा ससर्ज । **व्यवसाये **भगवत्-प्रेरणा-वशात् स्रक्ष्याम्य् एवेति निश्चये बुद्धिर् यस्य सः ॥१॥

———————————————————————————————————————

॥ २.२.२ ॥

शाब्दस्य हि ब्रह्मण एष पन्था

यन् नामभिर् ध्यायति धीर् अपार्थैः ।

परिभ्रमंस् तत्र न विन्दतेऽर्थान्

माया-मये वासनया शयानः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **एष हरिः । यद् अपार्थैर् ध्यायति तत्रार्थान् न विन्देत ।

सर्व-नामा यतो विष्णुस् तद्-अन्यार्थान् न तु स्मरेत् ।
स्मरंस् तु यावद्-अर्थः स्याद् अन्यथा स्वात्महा स्मृतः ॥ इति ब्रह्माण्डे ॥२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपासना-फलाद् अपि विरक्तस्य शुद्धात्म-धारणायाम् अधिकारः । अतो वैराग्यार्थं सर्वं कर्म-फलं निन्दति । शाब्दं शब्द-मयं ब्रह्म वेद । तस्य एष पन्थाः कर्म-फल-बोध-प्रकारः । कोऽसौ ? [अपार्थैः] अर्थ-शून्यैर् एव स्वर्गादि-नामभिः साधकस्य धीर् ध्यायति तत्-तद्-इच्छां करोतीति यत् । अपार्थत्वम् एवाह—तत्र मायामये पथि सुखम् इति वासनया शयानः स्वप्नान् पश्यन्न् इव परिभ्रमन्नर्थान् न विन्दति । तत्-तल्-लोकं प्राप्तोऽपि निरवद्यं सुखं न लभत इत्य् अर्थः ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति एवं पुण्यचितो लोकः क्षोयते इति श्रुतेः क्षयिष्णुत्वोक्तेर् इति भावः । अत्र विश्वनाथोऽवतरणिकाम् आह । अत्रा म्रियमाणः किं कुर्वीतेति प्रश्ने स्वर्ग-साधकं यागादिकं कुर्वीतात्र सर्वो वेदः प्रमाणम् इत्य् आचिख्यासुंस् तत्र काश्चन प्रत्य् आह–शाब्दस्येति ॥२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्मात् श्री-कृष्ण एव भजनीय इत्य् आह—शाब्दस्य हीत्य्-आदि । शाब्दस्य ब्रह्मणो वेदस्यैष एव पन्थाः । कोऽसौ ? तत्राह—नामभिः श्री-कृष्ण-वासुदेव-नारायणादिभिर् नामभिर् धीर् धारणा-शीलः पुरुषः, ध्यायति चिन्तयतीति धीः । कीदृशैः ? अप अपकृष्टा अर्थाः पुरुषार्थाः धर्माः कामादयो येभ्यस् तथा तैः । कुतस् तेषाम् अपकृष्टत्वम् ? इत्य् आह—परिभ्रमंस् तत्रेत्य्-आदि । तत्र तेषु धर्म-कामादिषु परिभ्रमन्न् अर्थान् प्रेम-लक्षण-भक्ति-योग-सम्बन्धिनो भावनान् विन्दते । तेषां माया-मयत्वाद् इत्य् आह—माया-मये माया-स्वरूप आमयो यत्रेति । तत्रेत्य् अस्य विशेषणं, वासनया तत्-तद्-वासनया शयानो निद्रित इव ॥२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **शाब्दस्येति । यत् यस्मात् यं श्रुत्वेत्य् अर्थः ॥२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत्र म्रियमाणः किं कुर्वीत ? इति प्रश्ने स्वर्ग-साधनं यागादिकं कर्मैव कुर्वीत, अत्र वेदः सर्व एव प्रमाणम् इत्य् आचिख्यासूंस् तत्र कांश्चन प्रत्य् आह । शाब्दं शब्द-मयं ब्रह्म वेद । तस्य एष पन्थाः । कोऽसौ ? यन्-नामभिर् नाम-मात्रैर् एव स्वर्गादिभिर् धीः साधकस्य बुद्धिर् ध्यायति । स्वर्गे सुखम् एव प्राप्स्यामीति विचारयति, वृथैव यतोऽप्य् अर्थैः । अपार्थत्वम् एवाह—मायामये तत्र स्वर्गादौ, सुखम् इति वासनया, शयानः स्वप्नान् पश्यन्न् इव परिभ्रमन्न् अर्थान् न विन्दति । तत्-तल्-लोकं प्राप्तोऽपि क्षयिष्णुत्वान् निरवद्यं सुखं न लभत इत्य् अर्थः ॥२॥

———————————————————————————————————————

॥ २.२.३ ॥

अतः कविर् नामसु यावद्-अर्थः

स्याद् अप्रमत्तो व्यवसाय-बुद्धिः ।

सिद्धेऽन्यथार्थे न यतेत तत्र

परिश्रमं तत्र समीक्षमाणः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तर्हि सर्वथा कर्म-फल-त्यागे सद्य एव देह-पातः स्याद् इत्य् आशङ्क्याह । अतः कविर् नामसु नाम-मात्रेषु भोग्येषु यावतार्थेनार्थो देह-निर्वाहो यस्य स तथा-भूतः स्यात् । अप्रमत्तस् तावन्-मात्रेऽप्य् अनासक्तः । व्यवसाय-बुद्धिर् नेदं सुखम् इति निश्चयवान्। तदापि तत्र तस्मिन्न् अर्थेऽन्यथैव सिद्धे सति तत्र यत्ने **परिश्रमं पश्यन् न यतेत **॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति तर्हीति । अर्थे देह-निर्वाहे अत्र विश्वनाथः—एवं योग-प्रसङ्ग एव कर्मिणां मत-मति-बहिरङ्गत्वेन स्पष्टम् एव विनिन्द्य कर्म-फलेषु वैराग्यं भक्त-ज्ञानिनोर् अपि साधारणम् । योगारूढानाम्-अवश्य-कर्तव्यत्वेनाह । अतो बुद्धिमान् भोगार्थं न ध्यायेत् न यतेत च । किं तु । कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता इत्य् उक्तन्यायेन नामसु भोग्य-वस्तुषु यावतार्थेन स्वीकृतेनार्थः । स्व-कृत्य-निष्पत्त्य् अर्थं देह-निर्वाहस्तावान् अर्थो ग्राह्यो तस्य तथाभूतः स्यात् । यतोऽयमप्रमत्तः स्व-साधन-सिद्धौ सावधानः । किञ् च विघ्न-बाहुल्य-दर्शनेऽपि स्व-योगान् न

परावर्तेतेत्य् आह–व्यवसाय-बुद्धिः यद् भवेत् तद् भवतु मया तु यन् निश्चितं तनिश्चितम् एवेति दृढ-विचार इत्य् अर्थः । किञ् च । यावद् अर्थतापि सुकुमारस्यैवोक्ता न तु स्वतः समर्थस्येत्य् आह अन्यथा प्रकारान्तरेणार्थे स्व-देह-निर्वाहे सिद्धे सति तत्र पिष्टषेषणन्यायेन न यतेत । यतस् तत्र यत्ने परिश्रमं धनिक-जनोपासनादिकम् ॥३॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्माद् योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् [भा।पु। २.१.११] इति पूर्वोक्त-रीत्या प्रथमं श्री-कृष्ण-नामभ्यां स एव कार्य इत्य् आह—अत इत्य्-आदि । अतः कारणात् कविर् विचक्षणो जनो नामसु भगवन्-नामसु यावद्-अर्थः स्यात्, यावत् साकल्ये, सर्वार्थः स्यात् । नाम-ग्रहणेनैव सर्वार्थ-सिद्धो भवति । यद् वा, यावान् अर्थो यत्रेति सप्तम्य्-अन्य-पदार्थः—अर्थ-स्फूर्ति-पर्यन्तं नामसु भवेद् इत्य् अर्थः । अर्थस् तु श्री-कृष्ण एव, तावद् एव नामसु भाव्यम्, यावद्-अर्थः फलम् इति वा ।

**अप्रमत्त **एव व्यवसाय-बुद्धिः । व्यवसायो व्यवहारः । एतद् विना परस्परासिद्धे कर्मणि न यतेत । अत उक्तं—तस्यैव हेतोः प्रयतेत कोविदः [भा।पु। १.५.१८] इत्य्-आदि । यतस् तस्मिन्न् अर्थे परिश्रमम् आयासं समीक्षमाणः । एतेन व्यवसायः सन् भगवन्-नाम-सङ्कीर्तनं कुर्याद् इत्य् अर्थः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं योग-प्रसङ्ग एव कर्मिणां मतम् अतिबहिरङ्गत्वेन स्पष्टम् एव विनिन्दा कर्म-फलेषु वैराग्यं भक्त-ज्ञानिनोर् अपि साधारणं योगारूढानाम् अवश्य-कर्तव्यत्वेनाह । अतो बुद्धिमान् भोगार्थं न ध्यायेत्, न यतेत च, किन्तु कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता [१.२.१०]इत्य् उक्त-न्यायेन । नामसु भोग्य-वस्तुषु यावतार्थेन स्वीकृतेन अर्थः स्वीकृत्य्-अनिष्पत्त्य्-अर्थं देह-निर्वाहस् तावान् अर्थो ग्राह्यो यस्य तथा-भूतः स्यात् । यतोऽयम् अप्रमत्तः स्व-साधन-सिद्धौ सावधानः । किं च, विघ्न-बाहुल्य-दर्शनेऽपि स्व-योगान् न परावर्ततेत्य् आह—व्यवसाय-बुद्धिः । “यद् भवेत् तद् भवतु, मया तु यन् निश्चितं तन् निश्चितम् एव” इति दृढ-विचार इत्य् अर्थः । किं च, यावद्-अर्थतापि कस्यचिद् इति सुकुमारस्यैवोक्ता, न तु स्वतः-समर्थस्येत्य् आह—अन्यथा प्रकारान्तरेण अर्थे स्व-देह-निर्वाहे सिद्धे सति तत्र पिष्ट-पेषण-न्यायेन न यतेत । यतस् तत्र यत्ने परिश्रमं धनिक-जनोपासनादिकम् ॥३॥

———————————————————————————————————————

॥ २.२.४ ॥

सत्यां क्षितौ किं कशिपोः प्रयासैर्

बाहौ स्व-सिद्धे ह्य् उपबर्हणैः किम् ।

सत्य् अञ्जलौ किं पुरुधान्न-पात्र्या

दिग्-वल्कलादौ सति किं दुकूलैः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्यथा-सिद्धिम् आह द्वाभ्याम्—सत्याम् इति । कशिपोः शय्यायाः । स्वतः सिद्धे बाहौ सति उपबर्हणैर् उच्छीर्षकैः । पुरुधा बहु-प्रकारया अन्न-पात्र्या भोजन-पात्रेण ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समर्थस्यान्यथासिद्धिम् आह—सत्याम् इति । देव-निर्मितायां क्षितौ सत्याम् । बाहौ भुजे । उच्छीर्षकैः शिरः-पीठैः ॥४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि व्यवसायेन विना देह-यात्रा सम्पद्यताम् ? तत्राह—सत्यां क्षिताव् इत्य्-आदि ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **समर्थस्यान्यथा-सिद्धिम् आह—सत्याम् इति । कशिपोः शय्यायाः । उपबर्हणैर् उच्छीर्षकैः । पुरुधा पुरु बहुः, प्रकारे धा । अन्न-पात्र्या भोजन-पात्रेण ॥४॥

———————————————————————————————————————

॥ २.२.५ ॥

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां

नैवाङ्घ्रिपाः पर-भृतः सरितोऽप्य् अशुष्यन् ।

रुद्धा गुहाः किम् अजितोऽवति नोपसन्नान्

कस्माद् भजन्ति कवयो धन-दुर्मदान्धान् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु दिक्-सद्-भावो नाम नग्न त्व् अम् एव, वल्कलम् अन्नं तोयं वास-स्थानं तु याच्ञा-प्रयत्नं विना कथं प्राप्येत ? तत्राह । चीराणि वस्त्र-खण्डानि । परान् बिभ्रति पुष्णन्ति फलादिभिर् ये । गुहाः गिरि-दर्यः । ननु कदाचिद् एषाम् अलाभे किं कार्यं ? तत्राह—अजितो हरिर् उपसन्नान् शरणागतान् किं नावति न रक्षति ? किं-शब्दस्य पूर्वत्रापि सम्बन्धः । धनेन यो दुर्मदस् तेन अन्धान् नष्ट-विवेकान् ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति । नन्व् इति । पुनराक्षिपति नन्व् इति । विश्वनाथस्तु—ननु शीतत्राणोपायः कस्तत्र साक्षेपं क्रुध्यन् निवाह—चीराणीति । ननु ततोऽपि जाठरानलो दुर्वारस् तत्र तथैवाह—अङ्घ्रिपा अपि किं नैव भिक्षां ददति मनुष्याः खलु मा ददतु नामेति भावः । तर्हि पानार्थं जलं तु मृग्यम् एवेति चेद्-विक्तव बुद्धिम् इत्य् आह—सरितोपीति । ननु शिलावर्षात् त्राणार्थं पर्णशाला काचिद् अपेक्षितैवेति चेत् तत्राह—रुद्धा इति । गुहां प्रविश्य व्याघ्रादयः खादन्तीति चेत् तत्राह—किमजित इति । व्याघ्रादीनाम् अपि स एवान्तर्यामी भक्त-वत्सलस्तान् कथं तत्र प्रेरयिष्यतीति भावः । न ह्यजित-भक्तं कोप्यभिभवितुं शक्यादित्य् अर्थः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु शीत-त्राणोपायः कः ? तत्र साक्षेपं क्रुध्यन्न् इवाह—चीराणि वस्त्र-खण्डानि । ननु ततोऽपि जठरानलो दुर्वारः ? तत्र तथैवाह—अङ्घ्रिपा अपि किं नैव भिक्षां दिशन्ति ददति ? मनुष्याः खलु मा ददतु नामेति भावः । यतः परान् बिभ्रति पुष्णन्तीति । तर्हि पानार्थं जलं तु मृग्यम् एवेति चेत् ? धिक् तव बुद्धिम् इत्य् आह—सरितोऽपीति । ननु शिला-वर्षात् त्राणार्थं पर्ण-शाला काचिद् अपेक्षितव्यैव इति चेत् ? तत्राह—रुद्धा इति । गुहां प्रविश्य व्याघ्रादयः खादन्ति चेत् ? तत्राह—किम् अजित इति । व्याघ्रादीनाम् अपि स एवान्तर्यामी भक्त-वत्सलस् तान् कथं तत्र प्रेरयिष्यतीतीति भावः ॥५॥

———————————————————————————————————————

॥ २.२.६ ॥

एवं स्व-चित्ते स्वत एव सिद्ध

आत्मा प्रियोऽर्थो भगवान् अनन्तः ।

तं निर्वृतो नियतार्थो भजेत

संसार-हेतूपरमश् च यत्र ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **एतम् इतस् तं प्रेत्याभिसम्भवितास्मीति नियतार्थः ॥६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तदा तेन किं कर्तव्यं ? हरिस् तु सेव्य इत्य् आह—एवं विरक्तः संस् तं भजेत । भजनीयत्वे हेतवः—स्व-चित्ते स्वत एव सिद्धः । यत आत्मा, अत एव प्रियः । प्रियस्य च सेवा सुख-रूपैव । अर्थः सत्यो न त्व् अनात्मवन् मिथ्या । भगवान् भजनीय-गुणश् च अनन्तश् च नित्यः । य एवंभूतस् तं भजेत । नियतार्थो निश्चित-स्वरूपः । तद्-अनुभवानन्देन निर्वृतः सन्न् इति स्वतः-सुखात्मत्वं दर्शितम् । किं च, यत्र यस्मिन् भजने सति संसार-हेतोर् अविद्याया उपरमो नाशो भवति ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तदा बनाद्य् एकान्त-देश-प्राप्ति-समये तेन विरक्तेन न केवलं सुखात्मतैवान्यद् अप्य् आधिक्यमस्तीत्य् आह । किं च इति। विश्वनाथः—ननु तर्हि भजनीयेश्वरस्य तद् भजनोपकरणानाञ्चान्वेषणं तु कर्तव्यम् एव योगिभिर् इति चेत् तत्राह—स्वचित्ते स्वत एव सिद्धो यत आत्मा चित्ताधिष्ठाता वासुदेव इति । नाप्य् आवाहनादि-श्रम इति भावः । किं च, तस्य भजनं स्वत एव भवितुम् उचितम् इत्य् आह—प्रिय इत्य्-आदि-चतुर्-विशेषणैः । प्रियः स्व-भावत एव प्रेमास्पदम् न च प्रेमास्पदत्वेऽपि पति-पुत्रादि-रूपोऽनर्थः यतोर्थः परम-वस्तु-रूपः । वस्तु-रूपत्वेऽपि न केवलम्-अन्तरात्मैव यतो भगवान् सौन्दर्यादि-गुणवत् त्वेन दृश्यः । न च तत्र देश-नियम इत्य् आह । अनन्तः । सर्व-व्यापकत्वात्-सर्वत्रैव देशे स्थितः । न च भजने श्रमः कोऽपीत्य् आह—निर्वृत्तिः । भजनानन्द-मयः सन् नियतः प्रेमैव भक्तावनुसंहितार्थः प्रयोजनं यस्य तथाभूतः सन् । यद् वा, नित्यम् एतावन्ति नामानि ग्रहीतव्यानि एतावती कथा श्रोतव्या एतावत्यः प्रणतयः कार्या एतावत् कालं ध्यानं कर्तव्यम् इत्य् एवं नियम-युक्तानि कीर्तन-श्रवणादीनि यस्य तथाभूतः सन्भजेत । यत्र भजने संसार-हेतोर् अविद्या या उपरमश्र भवेद् इत्य् अनुसंहितं फलं भक्तमते ज्ञानि-योगिनोर् मते तु संसार-हेतू-परम एवानुसंहितं फलम् । चकारः पाद-पूरणे । नियतार्थो निश्चल-रूप इत्य् अर्थः ॥६॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं विषयेषु वैराग्यं बोधं हरिर् एव सेव्य इति वैराग्यस्य च फलं हरि-भजनम् एवेति दर्शयति—एवम् इति द्वाभ्याम् ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं तत्र तत्र भगवत्य् एव तात्पर्ये सति **स्व-चित्तेस्वत एव सिद्धः **श्री-भगवान् एव परम-पुरुषार्थतया सेव्यः । किं तत्-तद्-आग्रहेण ? इत्य् आह—एवं स्व-चित्ते इति । तस्माद् भारत सर्वात्मा [भा।पु। २.१.५] इत्य्-आदिना यद् उक्तं तद् एव पुनर् निर्णीयत इति भावः । -शब्देनानुषङ्गिकम् एवाविद्या-निवृत्तिः फलम् इति बोधितम् ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि भजनीयेश्वरस्य तद्-भजनोपकरणानां चान्वेषणं तु कर्तव्यम् एव योगिभिर् इति चेत् ? तत्राह—स्व-चित्ते स्वत एव सिद्धो यत आत्मा चित्ताधिष्ठाता वासुदेव इति नाप्य् आवाहनादि-श्रम इति भावः । किं च, तस्य भजनं स्वत एव भवितुम् उचितम् इत्य् आह—प्रिय इत्य् आदिभिश् चतुर्भिर् विशेषणैः । प्रियः स्वभावत एव प्रेमास्पदम् । न च प्रेमास्पदत्वेऽपि पति-पुत्रादि-रूपोऽनर्थः, यतोऽर्थः परम-वस्तु-रूपः परम-वस्तु-रूपत्वेऽपि न केवलम् अन्तरात्मैव, यतो भगवान् सौन्दर्यादि-गुणवत्त्वेन दृश्यः । न च तत्र देश-नियम इत्य् आह—अनन्तः सर्व-व्यापकत्वात् सर्वत्रैव देशे स्थितः । न च भजने श्रमः कोऽपीत्य् आह—निर्वृतो भजनानन्द-मग्नः सन्, नियतः प्रेमैव भक्ताव् अनुसंहितोऽर्थः प्रयोजनं यस्य तथा-भूतः सन् ।

यद् वा, नित्यम् एतावन्ति नामानि गृहीतव्यानि, एतावती कथा श्रोतव्या, एतावत्यः प्रणतयः कर्तव्याः, एतावत् कालं ध्यानं कर्तव्यम् इत्य् एवं नियम-युक्तानि कीर्तन-श्रवणादीनि, यस्य तथा-भूतः सन् भजेतयत्र भजने संसार-हेतोर् अविद्यायाः **उपरमश् च **भवेद् इत्य् अननुसंहितं फलं भक्त-मते । ज्ञानि-योगिनोर् मते तु संसार-हेतूपरम एवानुसंहितं फलम् । -कारः पाद-पूरणे । नियतार्थो निश्चल-स्वरूप इत्य् अर्थः ॥६॥

———————————————————————————————————————

॥ २.२.७ ॥

कस् तां त्व् अनादृत्य परानुचिन्ताम्

ऋते पशून् असतीं नाम कुर्यात् ।

पश्यञ् जनं पतितं वैतरण्यां

स्व-कर्मजान् परितापाञ्-जुषाणम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

यथैकस् तु बहून् सुप्तान् असुप्तः पश्यति प्रभुः ।

एवम् ईशो बहून् जीवान् अज्ञान् पश्यति नित्य-दृक् ॥ इति व्योम-संहितायाम् ।

स्वप्नेन शारीरम् अभिप्रहत्य् आसुप्तः सुप्तान् अभिचाकशीतीति च ।

यथेष्ट-भवनाद् विष्णुर् अनुभूः परिकीर्तितः ।
उदधिः कर्मणाम् ईशः सर्वः पूर्ण-गुणो यतः ।
सत्यः केवल-सारत्नान् नियमो नियते रजः ॥ इति बृहत्-संहितायाम् ॥७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् एवान्य-चिन्ता-निन्दया द्रढयति—क इति । तां तथा-भूतां परस्य हरेर् अनुचिन्तां धारणाम् अनादृत्य पशून् कर्म-जडान् विना । यथा, पशुर् एवायं स देवानाम् इति श्रुतेः । असतीं विषय-चिन्तां को नाम कुर्यात् ? तया चिन्तया वैतरण्यां पतितं, तत्र च स्व-कर्मजान् आध्यात्मिकादि-क्लेशान् सेवमानं जनंपश्यन् । वैतरणी यमस्य द्वार-स्था नदी तत्-तुल्यत्वात् संसृतिर् वैतरणी ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतद् एव हरिभजनम् एव । स कर्मजडः देवानां पशुर् एव पशुर्यथा स्वामिव्यापारक्लिष्टः सर्वदा तिष्ठति तथा सोपीति श्रुतिपदार्थः तत्तुल्यत्वात् । वैतरणी यथा दुःखेन तीर्यते वितरणेन दानेन च तथा भवोपीति भावः ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **व्यतिरेकेण तद् एव द्रढयति—कस् ताम् इति ॥७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **व्यतिरेकेण तद् एवाह—क इति । परस्य हरेः । अनुचिन्तां तां प्रसिद्धां भक्तिम् अनादृत्यपशून् कर्म-जडान् विना । पशुर् एव स देवानाम् इति श्रुतेः । असतीं विषय-चिन्तां को नाम कुर्यात् ? ॥७॥

———————————————————————————————————————

॥ २.२.८ ॥

केचित् स्व-देहान्तर्-हृदयावकाशे

प्रादेश-मात्रं पुरुषं वसन्तम् ।

चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख-

गदा-धरं धारणया स्मरन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् एव धारणां स-विशेषणाम् आह—केचिद् इति षड्भिः । स्व-देहस्यान्तर् मध्ये तद् धृदयं तत्र योऽवकाशस् तस्मिन् वसन्तम्प्रादेशस् तर्जन्य्-अङ्गुष्ठयोर् विस्तारः, स एव मात्रा प्रमाणं1 यस्येति हृदय-परिमाणं तत्रोपचर्यते । कञ्जं पद्मम् । रथाङ्गं चक्रम् ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवं च वैराग्यं भक्तेर् अन्वय-व्यतिरेकी च प्रदर्श्य पुनर् अपि योगिनां पूर्वोक्त-धारणातोप्यतिश्रेष्ठाम्-अन्तर्यामिणश् चिद्धन-रूपस्य धारणाम् आह । केचिद् इति । पूर्वोक्त-वैराज-धारणानिष्ठेभ्योप्यपि-श्रेष्ठा इत्य् अर्थः । किम्वा वक्ष्यमाण-वाक्यानुसारेण वैराज-धारणाभ्यासेन शुद्ध-चित्ता एवं तद्-अन्तर्यामिणश् चिद्-धन-रूपस्य धारणां कुर्यर् इत्य् अभिप्रायेणाह । केचिद् इति । अत्र धारणायां चतुर्-विधा योगिनः सम्भवन्ति । तत्र प्रथमा भगवद् रूपम्-अनालम्ब्य-मानाः प्राणमनोधारणावन्तः श्री-भागवता सन्मता विगीता एव । द्वितीयाः पूर्वोक्त-वैराज-धारणया शुद्ध-चित्ताः मृणाल-गौरायत-शेष-भोग इत्य् आदि तृतीय-स्कन्धोक्त-तद्-अन्तर्यामि-धारणावन्तः । तृतीया वैराज-धारणानन्तर-व्यष्टि-विराड्-अन्तर्यामि-चतुर्-भुज-रूप-धारणावन्तः चतुर्थाः । स्वत एव शुद्ध-चित्ताः । प्रथमत एव व्यष्टन्तर्यामि-चतुर्-भुज-धारणावन्तस्त एवात्र केचिच् छब्देनोच्यन्ते । प्रादेशमात्रम् इति प्रादेश-प्रमाण-हृदय-ध्येयत्वात् पुरुषं तावन् मात्र-प्रदेशेऽप्य् अचिन्त्य-शक्त्या पञ्च-दश-वर्षीय-पुरुषाकार-प्रमाणम् । सन्तं वयसि कैशोरे इत्य् उक्तेः । अत एव स्वामि-चरणैर् उक्तं हृदय-प्रमाणं तत्र भगवत्य् उपचर्यते इति । वसन्तं तत्रान्तर्यामितया कृतवासम् ॥८॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : केचिद् इत्य्-आदिना उदाहरण-दर्शनेन न केवलं नामान्य् एव कीर्तयेत्, ध्यायेच् च । स्व-देह-मध्ये यद् धृदयं तस्य अवकाशे वसन्तम् चतुर्-भुजं पुरुषं चिन्तयन्ति । तद्-विशेषणानि—प्रादेश-मात्रं प्रकृष्ट आदेश आज्ञा प्रादेशो वेदः, स एव मात्रा प्रमाणं यस्य । अन्यानि स्पष्टानि । एतच् चतुर्भुज-ध्यानं मुमुक्षु-परम् । वक्ष्यति चैकादशे [भा।पु। ११.११.४६] । अत एव श्रीधर-स्वामि-मतं न भवति, अत एव वक्ष्यति, अमुनी भगवद्-रूपे [भा।पु। २.१०.३५] इत्य्-आदि ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (परमात्म-सन्दर्भः (५): **प्रादेशस् तर्जन्य्-अङ्गुष्ठयोर् विस्तारः, तत्-प्रमाणं, हृद्य् अपेक्षया मनुष्याधिकारत्वात् [वे।सू। १.३.२५] इति न्यायेन ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तत्राप्य् एक-देशिनां मतम् आह—केचिद् इत्य्-आदि-सार्ध-चतुष्कैः व्यष्ट्य्-अन्तर्यामिण एव धारणेयम् । गर्भोदक-शायि-रूप-समष्ट्य्-अन्तर्यामि-धारणा तु तृतीय-स्कन्धे तत्-तद्-वर्णनानुसारेण ज्ञेया । सैव सूचिता तं सत्यम् आनन्द-निधिं भजेत [भा।पु। २.१.३९] इत्य् अनेनेति ॥८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं च वैराग्यं भक्तेर् अन्वय-व्यतिरेकौ च प्रदर्श्य, पुनर् अपि योगिनां पूर्वोक्त-धारणतोऽप्य् अतिश्रैष्ठ्यम् अन्तर्यामिणश् चिद्-घन-रूपस्य धारणाम् आह—केचिद् इति । पूर्वोक्त-वैराज-धारणा-निष्ठेभ्योऽप्य् अतिश्रेष्ठा इत्य् अर्थः । किं वा, वक्ष्यमाण-वाक्यानुसारेण वैराज-धारणाभ्यासेन शुद्ध-चित्ता एवं तद्-अन्तर्यामिणश् चिद्-घन-रूपस्य धारणां कुर्युर् इत्य् अभिप्रायेणाह—केचिद् इति ।

अत्र धारणायां चतुर्-विधा योगिनः सम्भवन्ति । तत्र प्रथमाः—भगवद्-रूपम् अनालम्बमानाः प्राण-मनो-धारणावन्तः श्री-भागवतासम्मता विगीता एव । द्वितीयाः—पूर्वोक्त-वैराज-धारणया शुद्ध-चित्ताः, मृणाल-गौरायत-शेष-भोग- [भा।पु। ३.८.२३] इत्य्-आदि तृतीय-स्कन्धोक्त-तद्-अन्तर्यामि-चतुर्भुज-रूप-धारणावन्तः । तृतीयाः—वैराज-धारणानन्तर-व्यष्टि-विराड् अन्तर्यामि-चतुर्भुज-रूप-धारणावन्तः । चतुर्थाः—स्वत एव शुद्ध-चित्ताः ।

प्रथमत एव व्यष्ट्य्-अन्तर्यामि-चतुर्भुज-धारणावन्त एवात्र केचित्-शब्देनोच्यन्ते । प्रादेश-मात्रम् इति प्रादेश-प्रमाण-हृदये ध्येयत्वात् । पुरुषं तावन्-मात्रम् इति प्रदेशोऽप्य् अचिन्त्य-शक्त्या पञ्चदश-वर्षीय-पुरुषाकार-प्रमाणम् । सन्तं वयसि कैशोरे [भा।पु। ३.२८.१७] इत्य् उक्तेः । वसन्तं तत्रान्त्र्यामितया कृत-वासम् ॥८॥

———————————————————————————————————————

॥ २.२.९ ॥

प्रसन्न-वक्त्रं नलिनायतेक्षणं

कदम्ब-किञ्जल्क-पिशङ्ग-वाससम्

लसन्-महा-रत्न-हिरण्मयाङ्गदं

स्फुरन्-महा-रत्न-किरीट-कुण्डलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नलिनं पद्मं तद्वत् प्रसन्नेआयते दीर्घे ईक्षणे यस्य । कदम्ब-कुसुमस्य किञ्जल्काः केसरास् तद्वत् पिशङ्गे पीते वाससी यस्य । लसन्ति महा-रत्नानि येषु तानि सुवर्णमयान्य् अङ्गदानि यस्य । स्फुरन्ति च तानि महा-रत्नानि च तन्-मयानि किरीट-कुण्डलानि यस्य ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महा-रत्नानि पद्म-रागादीनि ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-रत्नानि पद्म-रागादीनि ॥९॥

———————————————————————————————————————

॥ २.२.१० ॥

उन्निद्र-हृत्-पङ्कज-कर्णिकालये

योगेश्वरास्थापित-पाद-पल्लवम् ।

श्री-लक्ष्मणं कौस्तुभ-रत्न-कन्धरम्

अम्लान-लक्ष्म्या वन-मालयाचितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उन्निद्रं विकसितं यद् धृत्-पङ्कजं, तस्य कर्णिका एव आलयः स्थानं, तस्मिन् । योगेश्वरैर् आस्थापितौ पाद-पल्लवौ यस्य । श्रीर् एव लक्ष्म चिह्नं तद्-युक्तम् । पामादि-विहितो मत्व्-अर्थीयो न-प्रत्ययः । कौस्तुभ-रत्नं कन्धरायां यस्य । अम्लाना लक्ष्मीः शोभा यस्यास् तया वन-मालया आचितं व्याप्तम् ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **योगेश्वरेत्य् उक्तेस्तद् भक्तान् योगेश्वरान् अपि ध्यायेद् इति भावः । वामस्तनोर्द्धूलक्ष्मीरेखायुक्तम् इत्य् अर्थः । कौस्तुभ-रत्नं तद्-ग्रथित-हिरण्मय-सूत्र-सहितम् ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उन्निद्रं विकसितं हृत्-पङ्कजं तस्य कर्णिकैवालयः, तत्र योगेश्वरैर् आस्थापितौ पाद-पल्लवौ यस्य तम् इति । तद्-भक्तान् योगेश्वरान् अपि ध्यायेद् इति भावः । श्री-लक्ष्मणं श्रीर् एव लक्ष्म वाम-स्तनोर्ध्वे लक्ष्मी-रेखा-युक्तम् । पामादि-विहितो मत्व्-अर्थीयो न-प्रत्ययः । कौस्तुभ-रत्नं तद्-ग्रथन-हिरण्मय-सूत्रं कन्धरायाः यस्य तम् । आचितं व्याप्तम् ॥१०॥

———————————————————————————————————————

॥ २.२.११ ॥

विभूषितं मेखलयाङ्गुलीयकैर्

महा-धनैर् नूपुर-कङ्कणादिभिः ।

स्निग्धामलाकुञ्चित-नील-कुन्तलैर्2

विरोचमानानन-हास-पेशलम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्निग्धत्वादि-विशिष्टैः कुन्तलैर् विरोचमाने आनने यो हासस् तेन पेशलं सुन्दरम् ॥११॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महा-धनैर् बहु-मूल्यैः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **महा-धनैर् बहु-मूल्यैः । स्निग्धत्वादि-विशिष्टैः कुन्तलैर् विरोचमाने आनने यो हासस् तेन पेशलं मनोहरम् ॥११॥

———————————————————————————————————————

॥ २.२.१२ ॥

अदीन-लीला-हसितेक्षणोल्लसद्-

भ्रू-भङ्ग-संसूचित-भूर्य्-अनुग्रहम्

ईक्षेत चिन्तामयम् एनम् ईश्वरं

यावन् मनो3** धारणयावतिष्ठते ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **चिन्तामयं चिन्ता-प्रधानम् ।

यस्मात् स चिन्तितो विष्णुश् चिन्तितं प्रददात्य् अजः ।
तस्माच् चिन्ता-मयं देअं वदन्ति ज्ञान-चक्षुषः ॥ इति च ॥१२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अदीनम् उदारं यल्-लीला-हसितं तेन यद् ईक्षणं तस्मिन्न् उल्लसन्तो यो भ्रू-भङ्गा भ्रू-विक्षेपास् तैः संसूचितो भूरिर् अनुग्रहो येन । चिन्तामयं चिन्तया आविर्भवन्तम् ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **धारणया कृत्वा मनो यावद् अवतिष्ठते निश्चलं भवति तावद् ईक्षेतेत्य् अन्वयः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अदीनम् अतिमाधुर्यं यल्-लीला-हसितं तद्-युक्तम् ईक्षणम् उल्लसन्न् उल्लासं प्राप्नुवन् भ्रू-भङ्गश् च ताभ्यां संसूचितो भूरिर् अनुग्रहो येन तम् । चिन्तामयं चिन्तयैवाविर्भवन्तम् ॥१२॥

———————————————————————————————————————

॥ २.२.१३ ॥

एकैकशोऽङ्गानि धियानुभावयेत्

पादादि यावद् धसितं गदाभृतः

जितं जितं स्थानम् अपोह्य धारयेत्

परं परं शुद्ध्यति धीर् यथा यथा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्यैव ध्यानम् आह—एकैकश इति । अनुभावयेद् ध्यायेत् । यद् यज् जितम् अयत्नतः स्फुरितं पादगुल्फादि-स्थानम् अवयवस् तत् तद् अपोह्य त्यक्त्वा परं परं जङ्घाजान्वादि धारयेद् ध्यायेत् । शुध्यति4 तस्मिन् निश्चला भवति ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद् वा, यथा-यथा धीः शुध्यति विषय-लाम्पट्यं यजति तथा-तथा धारयेद् इति । चित्त-शुद्धि-तारतम्येनैव ध्यान-तारतम्यम् उक्तं तेनात्यन्ताशुद्ध-चित्तस्य नात्राधिकारः । किं तु वैराग्य-धारणायाम् एवेति ध्वनितम् ॥१३॥

———————————————————————————————————————

कैवल्य-दीपिका : अवयवशो रूपं क्रमेण चिन्त्यम् इत्य् उक्तम् । तस्यावधिम् आह—एकैक इति । अपोह्य त्यक्त्वा पादौ ध्यायन्तो धीर् यदा शुद्ध्यति ध्येयं विनावतिष्ठते तदा गुल्फौ ध्यायेत् । गुल्फौ ध्यायन्ती यदा प्राग्वत् तदा जह्न्वे ध्यायेद् इत्य्-आदि क्रमेण हसितं त्यक्त्वा निर्विषयैवावतिष्ठते स समाधिः ॥१३॥ [मु।फ। २.३२]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एकैकशोऽङ्गानीत्य् अभ्यास-दार्ढ्यथार्थं, अभ्यासे सति सर्वावयवम् एकदापि ध्यायेद् इत्य् अर्थः । यथैव धीः शुध्यति प्रसीदति, तथैव ध्यायेद् इत्य् अर्थः । नात्र एकैकशो नियमः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्यैव ध्यानम् आह—एकैकश इति । न निश्चितम् । भावये ध्यायेत् । जितं जितं ध्यानेनाभ्यस्तम् । स्थानं पा-गुल्फादि । अपोह्य त्यक्त्वा । परं परं जङ्घा-जन्व्-आदि धारयेत्, स्व-मनः प्रयोज्य ग्राहयेद् इत्य् अर्थः । यथा यथा धीश् च सुध्यति विषय-लाम्पट्यं त्यजति, तथा तथा धारयेद् इति चित्त-शुद्धि-तारतम्येनैव ध्यान-तारतम्यम् उक्तम् । तेनात्यन्ताशुद्ध-चित्तस्य नात्राधिकारः, किन्तु वैराज-धारणायाम् एवेति व्यञ्जितम् ॥१३॥

———————————————————————————————————————

॥ २.२.१४ ॥

यावन् न जायेत परावरेऽस्मिन्

विश्वेश्वरे द्रष्टरि भक्ति-योगः ।

तावत् स्थवीयः पुरुषस्य रूपं

क्रियावसाने प्रयतः स्मरेत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वोक्त-वैराज-धारणाया एतद् धारणाङ्गत्वम् आह— यावद् इति । परे ब्रह्मादयोऽवरे यस्मात् । कुतः ? विश्वेश्वरे द्रष्टरि न तु दृश्ये, चैतन्य-घनत्वात् । भक्ति-योगः प्रेम-लक्षणः । क्रियावसाने आवश्यक-कर्मानुष्ठानानन्तरम् । अनेन कर्मापि भक्ति-योग-पर्यन्तम् एवेत्य् उक्तम् । प्रयतो नियम-तत्-परः ॥१४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत एवाशुद्ध-चित्तत्वादेतद् रूपं ध्यातुं यावन् न शक्रुयात् तावद् वैराज-रूपम् एव ध्यायेद् इत्य् अभिप्रेत्य् आह । पूर्वोक्तेत्यादि । अवरेऽर्वाचीनाः । अनेन क्रियावसान इति कथनेन ॥१४॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : एवं सपरिकरां भक्तिं निरूप्य तत्र मुमुक्षोः प्रवृत्ति-विशेषार्थं तन्-माहात्म्यम् आह—विष्णु-भक्तीति । तत्राप्य् अष्टादशभिः पूर्व-रङ्गं विधास्यन् प्रथमेन भक्तेर् गहनत्वम् आह—यावद् इति । परावरे कार्य-कारण-रूपे अस्मिन् शास्त्र-प्रसिद्धे विश्वेश्वरे विश्वस्य प्रथम-कारणे द्रष्टरि साक्षित्वेन निष्पादित-कार्ये भक्ति-योगः । तल्-लीला-श्रवणादिभिर् विना स्थातुम् अशक्तिः । स्थवीयः षोडश-कलं स्थूलत्वं नाम-रूपादिमत्त्वम् । तच् चान्यत्रान्यस्माद् अतिशयितम् इतीयसून् प्रत्ययः5क्रियावसाने षोडशोपचार-पूजानन्तरम् । प्रयतः पूत-चित्तः । एवं-भूतो शक्ति-योग इयता प्रबन्धेन निष्पाद्यत इत्य् अस्य सहसा दुर्लभत्वात् गहनत्वम् इत्य् अर्थः ॥१४॥ [मु।फ। ६.१]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु पूर्वम् उक्तं विराड्-देहानुध्यानम् इदानीम् एव कथयति, कोऽर्थ इत्य् आशङ्क्यः—यावद् इत्य्-आदि । परावरेऽस्मिन् विश्वेश्वरे श्री-कृष्णे द्रष्टरि भक्ति-योगो यावन् न जायेत, तावत् प्राग्-उक्तं स्थूल-रूपं स्मरेत । भक्ति-योगे सति तदा तद्-रूप-ध्यानम् अकिञ्चित्-करम् इत्य् अर्थः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भः २७) : परे ब्रह्मादयोऽवरे यस्मात् । कुतः ? विश्वेश्वरे द्रष्टरि, न तु दृश्ये, चैतन्य-घनत्वात् । **भक्ति-योगः,**केचित् स्वदेहान्तर्-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तं चतुर्भुजम् [भा।पु। २.२.८] इत्य्-आदिनोक्त-साधन-लक्षणाभिनिवेशः । क्रियावसाने आवश्यक-कर्मानुष्ठानानन्तरम् । अनेन कर्मापि भक्ति-योग-पर्यन्तम् इत्य् उक्तम् ॥१४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यावद् इति । भक्ति-योगः—केचिद् स्व-देहान्तः [भा।पु। २.२.८]इत्य् आदिनोक्त-साधनाभिनिवेशः । अन्यत् तैः ॥१४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव अशुद्ध-चित्तत्वद् एतद्-रूपं यावद् ध्यातुं न शक्नुयात्, तावद् वैराज-रूपम् एव ध्यायेद् इत्य् आह—यावद् इति । परे ब्रह्मादयोऽवरे यस्मात् । कुतः ? विश्वेश्वरे द्रष्टरि, न तु दृश्ये । भक्ति-योगो योगाङ्ग-भूत-ध्यान-लक्षणः। क्रियावसाने आवश्यक-कर्मानुष्ठानानन्तरम् ॥१४॥

———————————————————————————————————————

॥ २.२.१५ ॥

स्थिरं सुखं चासनम् आस्थितो यतिर्

यदा जिहासुर् इमम् अङ्ग लोकम् ।

काले च देशे च मनो न सज्जयेत्

प्राणान् नियच्छेन् मनसा जितासुः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भक्त्या प्राणं वशं नीत्वा जित-प्राणो भवत्य् उत इति षाड्गुण्ये ॥१५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं तावद् आसन्न-मृत्योः पुंसः कृत्यम् उक्तम्, इदानीं तस्यैव स्वयं देहं त्यक्तुम् इच्छतः कृत्यम् आह—स्थिरम् इति सार्धैश् चतुर्भिः । अङ्ग हे राजन्, एवंभूतो यतिर् यदा इमं लोकं देहं जिहासुर् हातुम् इच्छति, तदा देशे पुण्य-क्षेत्रे काले चोत्तरायणादौ मनो न सज्जयेत् सङ्गं न प्रापयेत् । न हि देश-कालौ योगिनः सिद्धि-हेतू, किंतु योग एवेति दृढ-निश्चयो भूत्वा स्थिरं सुख-करं चासनम् आस्थितः प्राणान् नियच्छेद् इत्य् अर्थः ॥१५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अङ्गेति संबुद्ध्य् अर्थेऽव्ययम् । इत्य् अर्थ इति । प्राणायामं कुर्याद् इति भावः । जितासुर् जितेन्द्रियः असुः प्राणेन्द्रिय-बले इति कोशात् । अत्र विश्वनाथेन प्राणान् इति पठित्वा व्याख्यातम् । तथा हि—प्राणान्-इन्द्रियाणि मनः नियच्छेत् प्राणान् मनोनियम्यान्कुर्यादित्य् अर्थः । तेन नियन्तरि मनसीन्द्रियाणि प्रविलापयेद् इति घोतितम् ॥१५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्ति-योगो वाञ्छ्यते यदि, तदा स्वच्छन्द-मृत्युश् च भवतोऽतिमुमुर्षोः परीक्षितः प्रत्य् अयथार्थम् आह—स्थिरं सुखम् इत्य्-आदि । यावत् त्वां तक्षको न दशति, तावत् तथानुध्यानेन त्वं स्वच्छन्दं शरीरं त्यजेः ॥१५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : *अनन्तरं पूर्ववच् च यदि महत्-कृपा-विशेषेण दिव्य-दृष्टिता भवति, तदा विशेषोपलब्धिश् च भवेत् । न चेन्, निर्विशेष-चिन्-मात्र-ब्रह्मानुभवेन तल्-लीन एव भवति । तथैव निदिध्यासनम् अपि तेषाम् । तद् यथा—स्थिरं सुखं चासनम् इत्य्-आदिना ॥१५॥ [भक्ति-सन्दर्भः २८, २१५]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ तस्यैव भक्ति-मिश्र-योगिनः स्वयं देह-त्याग-कृत्यम् आह—स्थिरम् इति। लोकं देहम् । यदा जिहासुर् भवेत्, तदा देशे पुण्य-क्षेत्रे, काले चोत्तरायणादौ, मनो न सज्जयेत् सङ्गं न प्रापयेत् । योगिनः काल-देशौ न सिद्धि-हेतू, किन्तु योग एवेति दृढ-निश्चयो भूत्वा, प्राणान् इन्द्रियाणि मनसा नियच्छेत् । प्राणान् मनो-नियमान् कुर्याद् इत्य् अर्थः । तेन नियन्तरि मनसीन्द्रियाणि प्रविलापयेद् इति द्योतितम् ॥१५॥

———————————————————————————————————————

॥ २.२.१६ ॥

मनः स्व-बुद्ध्यामलया नियम्य

क्षेत्र-ज्ञ एतां निलयेत् तम् आत्मनि ।

आत्मानम् आत्मन्य् अवरुध्य धीरो

लब्धोपशान्तिर् विरमेत कृत्यात् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

जीवस्थो भगवान् विष्णुः क्षेत्रज्ञ इति गीयते ।

देहस्थोऽपि स एवात्मा व्याप्तोऽप्य् आत्मेति भण्यते ॥ इति तत्त्व-निर्णये ।
हरौ हरेर् भवेन् नीतिस् तद् एकत्वस्य चिन्तनम् ।
अन्यत्र तन्-निमित्त्य्-आदि-चिन्तनं नाभिरुच्यते ॥ इति प्रकाश-संहितायाम् ॥१६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् गृहीत-विषयं मनो बुद्ध्या निश्चय-रूपया नियम्य तन्मात्रं कृत्वा, एतां बुद्धिं क्षेत्र-ज्ञे बुद्ध्य्-आदि-द्रष्टरि निलयेत् प्रविलापयेत् । तं च क्षेत्रज्ञम् आत्मनि शुद्धे6 । तं च शुद्धम् आत्मानम् आत्मैवाहम् इत्य् आत्मनि शुद्धे7 ब्रह्मण्य् अवरुध्य एकीकृत्य लब्धोपशान्तिः प्राप्त-निर्वृतिः सन् कृत्याद् विरमेत, ततः परं प्राप्याभावात् ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततस् तन् मनः स्व-बुद्ध्या नियम्येति मनो बुद्धौ प्रविलापयेद् इति भावः । बुद्ध्यादि-द्रष्टरि जीवे शुद्धे शुद्ध-जीवेन्तर्यामिणि वा शुद्धे शोधि-सत्वं पदार्थे अग्रे शुद्धे ब्रह्मणि शोधित-तत्-पदार्थ इति केचित् । ततः शुद्ध-ब्रह्मणः परमन्यत् प्राप्यं नास्ति तस्यैव परमावधित्वाद् इति ॥१६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथा मन इति । एतां बुद्धिं क्षेत्रज्ञे बुद्ध्य्-आदि-द्रष्टरि निलयेत्, प्रविलापयेत् । तं च क्षेत्रज्ञं स्व्अरूप-भूतया बुद्ध्या आत्मनि तद्-द्रष्टृत्वादि-रहिते शुद्धे जीवे । तं च शुद्ध-सत्त्वम् आत्मानम् आत्मनि ब्रह्मण्य् अवरुध्य तद्-एकत्वेन विचिन्त्य लब्धोपशान्तिः प्राप्त-निर्वृतिः सन् कृत्याद् विरमेत, तस्य ततः परं प्राप्याभावात्॥१६॥ [भक्ति-सन्दर्भः २१५]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् गृहीत-विषयं मनो बुद्ध्या निश्चय-रूपया नियम्य तन्मात्रं कृत्वा, एतां बुद्धिं क्षेत्र-ज्ञे बुद्ध्य्-आदि-द्रष्टरि निलयेत् प्रविलापयेत् । तं च क्षेत्र-ज्ञम् आत्मनि शुद्धे। तं च शुद्धम् आत्मानम् आत्मैवाहम् इत्य् आत्मनि शुद्धेब्रह्मण्य् अवरुध्य एकीकृत्य लब्धोपशान्तिः प्राप्त-निर्वृतिः सन् कृत्याद् विरमेत, ततः परं प्राप्याभावात् ॥१६॥

———————————————————————————————————————

॥ २.२.१७ ॥

न यत्र कालोऽनिमिषां परः प्रभुः

कुतो नु देवा जगतां य ईशिरे ।

न यत्र सत्त्वं न रजस् तमश् च

न वै विकारो न महान् प्रधानम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **कालो वायुः ।

हरिश् च प्रकृतिश् चैव ब्रह्म-वायु तथैव च ।
सुपर्ण-शेष-रुदाश् च शकः सूर्य-यमाव् अपि ॥
अग्निर् यमानुजश् चैव काल-शब्दो रताः क्रमात् ।
पूर्वोक्तास् त्व् अपरोक्तानां प्रभवः सर्वशो मता ॥ इत्य् उद्दाम-संहितायाम् ॥१७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह—न यत्रेति । यत्र आत्म-स्वरूपे कालो न प्रभुः किम् अपि कर्तुं न समर्थः । अत एव देवा न प्रभव इत्य् आह—अनिमिषां8 देवानां परः प्रभुः कालोऽपि यत्र न प्रभुः, तत्र कुतो नु देवाः प्रभवेयुः ? देव-नियम्यानां तु जगतां प्राणिनां का वार्ता ? इत्य् आह—जगताम् इति9 । कुतो न प्रभवन्ति ? इत्य् अपेक्षायां निरुपाधित्वाद् इत्य् आह—न यत्रेति । यद् वा, जगत्-कारणान्य् अपि न यस्य सृष्ट्य्-आदौ प्रभवन्तीत्य् आह—न यत्रेति । विकारोऽहंकारः ॥१७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव ब्रह्म-स्वरूपम् एव । अत एव कालस्याप्रभुत्वम् एव । अनिमिषाम् इति षष्ठ्यां तं क्विब्-अन्त-मिषे रूपम् । जगतां प्राकृत-जगत्स्व् एव ईशिरे ऐश्यं चक्रिरे देवा इन्द्राद्याः ।

ननु देवास् तत्त्वाभिमानिनो जगत्-कारणीभूतास् तत्र कथं न प्रभवेयुः ? इति तत्राह—यद् वेति । अत्र [प्रीति-] सन्दर्भः—पूर्वोक्त-धारणा-फलं द्विविधं ब्रह्म-कैवल्य-प्राप्तिर् वैकुण्ठ-प्राप्तिश् च, भक्ति-सिद्ध-ज्ञान-निष्ठत्वाद् भक्ति-मय-ज्ञान-निष्ठत्वाच् च । अत उत्तरावस्थाम् अजामिलादि-न्यायेन तत्रैव वैकुण्ठाभिव्यक्ति-दर्शनार्थम् आह—न यत्र इति युग्मकेन । अत्र वैकुण्ठस्य सच्-चिद्-आनन्द-रूपत्वं श्री-भगवतैवोक्तम् तद् यथा ।

एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विदन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥ [भ।पु। ११.२०.३७]]

मे पथः ज्ञान-भक्ति-कर्म-लक्षणान् मत्-प्राप्त्य्-उपायान् । ज्ञान-कर्मणोर् अपि भक्तेषु भक्तः प्रथमतः क्वचित् किञ्चित् साहाय्य-कारित्वात् क्षेमं मद्-भक्ति-मङ्गलमयं _मत्-स्थानं परमं ब्रह्म _इति जानन्ति । इत्थम् एवोदाहरिष्यते च । इति सञ्चित्य भगवान् महा-कारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥

सत्यं ज्ञानम्-अनन्तं यद्-ब्रह्म ज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ इति ।

उभयत्रापि चकारादध्याहारादिना त्व् अर्थान्तरं कष्टं भवति । तैर् एव च व्याख्यातम् । तमसः प्रकृतेः परम् इति । वैकुण्ठस्यापि विशेषणीकृत्येति ॥१७॥

———————————————————————————————————————

कैवल्य-दीपिका : तत्रापि न यत्र इति तटस्थस्य, परं पदम् इति स्वरूपस्य, तत् परं पदं वैष्णवम् आमनन्ति । विष्णुनाधिष्ठितेन राजाधिष्ठितवत् । ब्रह्मादि-पदानाम् अपि विष्णुनाधिष्ठितत्वात् परम् इत्य् उक्तं विष्णुनैवाधिष्ठितम् इत्य् अर्थः । यत्र पदे कालो नास्ति यः अनिमिषां ब्रह्मादीनां परः प्रभुः संहर्ता महा-प्रलयेऽपि नाशो नास्त्य् एवेएत्य् अर्थः । अत एव कालाभावे किं पुनर् न्यायेन देवा अपि तत्र न सन्तीत्य् आह—कुतोऽन्व् इति । तथा देवाभावे जीवा अपि न सन्तीत्य् आह—जगताम् इति । ये देवा जगताम् उच्चावचां गतिं गच्छतां जीवानाम् ईशाः । तेषां वार्ता तत् कृत-विघ्न-गन्धोऽपि नास्तीत्य् आह—ईशिरे इत्य् अनित्यत्व-द्योतनार्थं लिट्-प्रयोगः ॥

यत्र च पदे सत्त्वादिर् नास्तिसत्त्वम् इन्द्रिय-देवता-रूपं, रज इन्द्रियं, तम इन्द्रियार्थ-रूपं, निराकारोऽहङ्कारस् तेषां त्रयाणां कारणं महान् बुद्धि-तत्त्वं तद् अहङ्कारस्य, प्रधानम् अव्यक्तं तन् महतः, सत्त्वाद्य्-अभावाद् एतत् प्राप्तवतां पुनर् जन्मादि-शङ्का-बीज-लेशोऽपि नास्तीत्य् अर्थः ॥१७॥ [मु।फ। १.७]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं सति किं स्यात् ? इत्य् आह—न यत्रेति द्वाभ्याम् ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्-फलं च द्विविधम्—ब्रह्म-कैवल्य-प्राप्तिः, वैकुण्ठ-प्राप्तिश् च, भक्ति-सिद्ध-ज्ञान-निष्ठत्वात्, भक्ति-मय-ज्ञान-निष्ठत्वात् । अथोत्तरावस्थाम् अजामिलादि-न्यायेन तत्रैव वैकुण्ठाभिव्यक्ति-दर्शनार्थम् आह—न यत्रेति युग्मकेन ।

अत्र वैकुण्ठस्य सच्-चिद्-आनन्द-रूपत्वं श्री-भगवतैवोक्तम् । तद् यथा—

एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥ [भा।पु। ११.२०.३७॥

इत्य् अत्र मे पथः—ज्ञान-कर्म-भक्ति-लक्षणान् मत्-प्राप्त्य्-उपायान् । ज्ञान-कर्मणोर् अपि भक्तेषु भक्तेः प्रथमतः क्वचित् कदाचित् किञ्चित् साहाय्य-कारित्वात् । क्षेमं मद्-भक्ति-मङ्गल-मयं यत् स्थानं परमं ब्रह्म इति विदुर् जानन्ति ।

इत्थम् एवोदाहरिष्यते च—

इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [भा।पु। १०.२८.१५-१६] इति ।

उभयत्रापि च-काराद्य् अध्याहारादिना त्व्-अर्थान्तरं कष्टं भवति । तैर् एव च तमसः प्रकृतेः परम् इति वैकुण्ट्ःअस्यापि विशेषणत्वेन व्याख्यातम् इति ॥१७॥ [भगवत्-सन्दर्भ ७३]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न च युक्तं कोऽप्य् अतिक्रम्यतीत्य् आह । यत्र प्राप्त-ब्रह्म-स्वरूपे तस्मिन् अनिमिषांदेवानाम् अपि परः शास्ता कालोन प्रभुः, तत्र कुतो नु देवाः प्रभवेयुः ? ये देवा इन्द्राद्याः जगतां प्राकृत-जगत्स्व् एव, ईशिरे ईशांश्चक्रिरे । ननु तद् एव ब्रह्म किं-स्वरूपम् ? तत्राह—न यत्र सत्त्वम् इति । यत्र ब्रह्मणि । विकारोऽहंकारः ॥१७॥

———————————————————————————————————————

॥ २.२.१८ ॥

परं पदं वैष्णवम् आमनन्ति तद्

यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः

विसृज्य दौरात्म्यम् अनन्य-सौहृदा

हृदोपगुह्यार्ह-पदं पदे पदे ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निरुपाधित्वं कुतः ? इत्य् अत आह—परम् इति । यद् यस्मात् अतद् आत्म-व्यतिरिक्तं नेति नेतीत्य् एवम् उत्स्रष्टुम् इच्छवो दौरात्म्यं देहाद्य्-आत्मत्वं विसृज्य, अर्हस्य पूज्यस्य श्री-विष्णोः पदं पदे पदे क्षणे क्षणे हृदा उपगुह्य आश्लिष्य, नान्यस्मिन् सौहृदं येषां तथा-भूताः सन्तः, तद् वैष्णवं पदम् अत एव परं सर्वतः श्रेष्ठम् आमनन्ति इत्य् अन्वयः ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **[क्रम-सन्दर्भ] परं पदम् इति । अतच् चिद्-व्यतिरिक्तं नेति-नेतीत्य् एवम् उत्स्रष्टुम् इच्छवो दौरात्म्यं भगवद्-आत्मनोर् अभेद-दृष्टिं विसृज्य अर्हस्य श्री-भगवतः पदं चरणारविन्दं पदे पदे प्रतिक्षणं हृदोपगुह्य आश्लिष्य अनन्य-सौहृदा नान्यस्मिन् सौहृदं येषां तथाभूताः सन्तो यद् आमनन्ति, तद् एव वैष्णवं पदं श्री-वैकुण्ठाख्यम् इति ब्रह्म-स्वरूपम् एव तद् इति तात्पर्यम् । अनेन भक्ति-लक्षण-साधन-लिङ्गेन निराकार-रूपम् अर्थान्तरं निरस्तम् ।

अत्र निराकार-परायणस्यापि मुक्ता-फल-टीका-कृतो दैवा-व्यञ्जिता गीर् यथा तत्-परं पदं वैष्णवम् आमनन्ति अधिकृताधिष्ठित-राजाधिष्ठितत्ववत् । ब्रह्मादि-पदानाम् अपि विष्णुना अधिष्ठितत्वात् परम् इत्य् उक्तम् । विष्णुना इवाधिष्ठितम् । इत्य् अर्थ इति । अत एव श्रुताव् अपि तस्य स्व-महिमैक-प्रतिष्ठितत्वम् । स भगवान् कस्मिन् प्रतिष्ठितः इति स्वे महिम्नि [छा।उ। ७.२४.१] इति ।

विश्वनाथस् तु—सत्त्वादयः कथं न सन्तीत्यत आह—परं प्रधानात् परम् । अत एव वैष्णवं पदं विष्णोर् निर्विशेष-स्वरूपं तत्-प्रसिद्धम् एव । तद् अपि भगवद् भक्ता नारदादय एव यथा जानन्ति न तथा ज्ञानिनोपीत्य् आह । यद्-ब्रह्म नेति-नेतीत्य् एवम् एनत् तद्-व्यतिरिक्तं वस्तु उत्सिसृक्षवः आ सम्यग् एवामनन्ति जानन्ति । किं कृत्वा दौरात्म्यं केवलं ज्ञानिनाम् इव निर्बुद्धित्वं विसृज्य कीदृशा अनन्य-सौहृदा विष्णु-सम्बन्ध-व्यतिरिक्त-वस्तुनि स्नेहाभाववन्तः । अर्हस्य पूज्यस्य श्री-विष्णोः पदं चरणारविन्दं पदे-पदे क्षणे-क्षणे हृदोपगुह्य इदम् अस्माकं सर्व-स्वम् इत्य् आलिङ्ग्य । अत्र तद्-उत्सृजन्त इत्यन् उक्ते यदा स्व-प्रभोर् ब्रह्म-स्वरूपं केवलम् अनुबुभूषन्ति तदात त्यक्तुम् इच्छवो भवन्ति सर्वथा तु भगवत् सेवोपकरणत्वात् । दृश्यं जगन् न त्यजन्तीत्य् अर्थालभ्यते । दौरास्यम् इति । विष्णोर् देहे मायिकत्व-बुद्धिमतो दुरात्मान एव ज्ञेयाः ॥१८॥

———————————————————————————————————————

कैवल्य-दीपिका: एवं दुःखं नास्तीत्य् उक्त्वा सुखम् अस्तीत्य् आह—यन् नेति इति । यद् विष्णु-पदं हृदा मनसा उपगूह्याश्लिष्य अनन्य-सौहृदा भवन्ति, अन्यत्र विषये प्रीतिं परित्यजन्ति तादृक् सुखाभावात् । तद् धि पदे पदे क्षणे क्षणे अर्ह-पदम् अर्हणस्यादरस्य स्थानम् उत्तरोत्तर-चमत्करणीयत्वात् । दौरात्म्यं विसृज्य अनादि-दुर्वासना-वासितत्वं त्यक्त्वा विषयान्तर-स्मृतिर् अपि नास्तीत्य् अर्थः, नेति नेति इत्य् उपनिषद्-उपदेश-विश्वास-बलात्10उत्सिसृक्षवः स्वेच्छयैवोत्सृष्टवन्तः । नित्य-निरतिशय-सुखानुभव-रूपेऽनुभविता अनुभवनम् अनुभवनीय इति कर्तृ-करण-कर्माणि अतच्-छब्देनोच्यन्ते । तानि ह्य् अनुभवार्थम् उपादीयन्ते, सत्य् अनुभवे तु त्यज्यन्ते असत्यत्वाद् अन्तरायत्वाच् च ॥१८॥ [मु।फ। १.८]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अनन्य-सौहृदा एकान्त-भक्त्या अर्ह-पदं श्री-भगवत्-पदं पदे पदे क्षणे क्षणे उपगुह्य आलिङ्ग्य दौरात्म्यम् देहाध्यासम् उत्सृज्य वैष्णवं श्री-कृष्ण-लोकम् आमनन्ति प्राप्नुवन्ति । धातूनाम् अनेकार्थत्वाद् आङ्-पूर्वो मनुर् उत्-प्राप्तौ । कीदृशाः सन्तः ? नेति नेति कृत्वा अतत् तद् विना यद् अन्यत्, तद्**-उत्सिसृक्षवः** । तन् न यत्र काल [भा।पु। १.११.६] इत्य्-आदि । सुसमञ्जसम् एव द्वयम् ॥१८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **परं पदम् इति । अतच् चिद्-व्यतिरिक्तं **नेति नेतीत्य् **एवम् उत्स्रष्टुम् इच्छवो दौरात्म्यं भगवद्-आत्मनोर् अभेद-दृष्टिं विसृज्य, अर्हस्य श्री-भगवतः, पदं चरणारविन्दं, पदे पदे प्रतिक्षणं हृदा उपगुह्य आश्लिष्य, नान्यस्मिन् सौहृदं येषां तथाभूताः सन्तोयद् आमनन्ति जानन्ति, तद् वैष्णवं पदं श्री-वैकुण्ठम् इति ब्रह्म-स्वरूपम् एव तद् इति तात्पर्यम् । अनेन प्रेम-लक्षण-साधन-लिङ्गेन निराकार-रूपम् अर्थान्तरं निरस्तम् ।

अत्र निराकार-परायणस्यापि मुक्ता-फल-टीका-कृतो दैवाभिव्यञ्जिता गीर् यथा—तत् परं पदं वैष्णवम् आमनन्ति, अधिकृताधिष्ठित-राजाधिष्ठितत्ववत् । ब्रह्मादि-पदानाम् अपि । विष्णुनाधिष्ठितत्वात् परम् इत्य् उक्तम् । विष्णुनैवाधिष्ठितम् इत्य् अर्थ इति ।

अत एव श्रुताव् अपि तस्य स्व-महिमैक-प्रतिष्ठितत्वं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [छा।उ। ७.२४.१] इति । अत एवोक्तं क इत्था वेद यत्र सः [क।उ। १.२.२५] इति ॥१८॥ [भगवत्-सन्दर्भः ५९ (७३)]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सत्त्वादयः कथं न सन्ति ? इत्य् अत आह—परं प्रधानात् परम्, अत एव वैष्णवं पदं विष्णोर् निर्विशेष-स्वरूपम् । तत् प्रसिद्धम् एव । तद् अपि भगवद्-भक्ता नारदादय एव यथा जानन्ति, न तथा ज्ञानिनोऽपीत्य् आह—यद् ब्रह्म नेति नेतीत्य् एवम् अतत् तद्-व्यतिरिक्तं वस्तु उत्सिसृक्षवः आ सम्यग् एव आमनन्ति जानन्ति । किं कृत्वा ? दौरात्म्यं केवलं ज्ञानिनाम् इव निर्बुद्धित्वं विसृज्य । कीदृशाः ? अनन्य-सौहृदा विष्णु-सम्बन्ध-व्यतिरिक्त-वस्तुनि स्नेहाभाववन्तः । अर्हस्य पूज्यस्य श्री-विष्णोः पदं चरणारविन्दं पदे पदे क्षणे क्षणे हृदा उपगुह्य इदम् एवास्माकं सर्वस्वम् इत्य् आलिङ्ग्य । तत्र तद् उत्सृजन्ते इत्य् अनुक्तेर् यदा स्व-प्रभोर् ब्रह्म-स्वरूपं केवलम् अनुबुभूषन्ति, तदा अतत् त्यक्तुम् इच्छवो भवन्ति, सर्वथा तु भगवत्-सेवोपकरणत्वात् दृश्यं जगन् न त्यजन्तीत्य् अर्थो लभ्यते । दौरात्म्यम् इति विष्णोर् देहे मायिकत्व-बुद्धिमन्तो दुरात्मन एव ज्ञेयाः ॥१८॥

———————————————————————————————————————

॥ २.२.१९ ॥

इत्थं मुनिस् तूपरमेद् व्यवस्थितो

विज्ञान-दृग्-वीर्य-सुरन्धिताशयः ।

स्व-पार्ष्णिनापीड्य गुदं ततोऽनिलं

स्थानेषु षट्सून्नमयेज् जित-क्लमः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्माद् इत्थं11 ब्रह्मत्वेन व्यवस्थितो मुनिर् उपरमेत्तु-शब्देन यदि प्रयास्यन्[भा।पु। २.२.२२] इति वक्ष्यमाणात् स-कामाद् विशेष12 उक्तः । तम् आह—विज्ञायतेऽनेनेति विज्ञानं शास्त्रं, तेन जाता दृग् ज्ञानं, तस्य वीर्यं बलं, तेन सुरन्धिता विहिंसिता आशया विषय-वासना यस्य सः । इदानीं तस्य देह-त्याग-प्रकारम् आह—स्व-पार्ष्णिना पाद-मूलेन गुदं मूलाधारम् आपीड्य निरुध्य अनिलं प्राणम् उन्नमयेद् ऊर्ध्वं नयेत् । जितः क्लमो येन । षट्सु स्थानेषु नाभ्य्-आदिषु13 ॥१९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तं विशेषम् । षट्सु नाभि-हृद्-उरस्तालु-मूल-भ्रूमध्य-ब्रह्मरङ्घ्रेषु ॥१९॥

———————————————————————————————————————

कैवल्य-दीपिका: एवम् अस्य द्विविधं लक्षणम् उक्त्वाऽत्राधिकारिणम् आह—इत्थम् इति । इत्थं व्यवस्थितः अनेन प्रकारेण व्यवस्थाम् आपन्नो मुनिर् उपरमेत्, न किञ्चित् कुर्यात् । यतो विज्ञानस्य विशुद्ध-ज्ञान-रूपस्य विष्णोर् दृग् दर्शनं साक्षात्कारः । तस्य वीर्यं बलं, तेन सुरन्धितो यथा पुनर् नोदेति, तथा हिंसित आशयो जीवत्वोपाधिर् येन स तथा ।

अयम् अर्थः—वक्ष्यमाण-भूमिकोपासना-क्रम-बलात् सत्त्व-पुरुषान्यता-ख्यातिम् आपन्नस् ताम् अपि सायुज्यार्थी निरोद्धु-काम इत्य् एताम् अवस्थाम् आपन्नो मुनिः अत्राधिक्रियते, नान्यः14 । अवश्यं चाधिकारि-निर्धारणार्थम् इत्थम् इत्य्-आदि ज्ञेयम् । अन्यथास्योद्धरणं निष्प्रयोजनं स्यात् ॥१९॥ [मु।फ। १.९]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इत्थम् इत्य् अर्धकम् ॥१९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदानीं तस्य देह-त्यागे प्रकारम् आह—स्व-पार्ष्णिना पाद-मूलेन । गुदं मूलाधारम् आपीड्य निरुध्य, अनिलं प्राणं षट्सु स्थानेषु नाभि-हृद्-उरस्-तालु-मूल-भ्रू-मध्य-ब्रह्म-रन्ध्रेषु उन्नमयेत् । तत्र प्रथमं नाभेर् अधः स्वाधिष्ठान-चक्रेऽधिरोप्य उरसि कण्ठाद् अधो-देश-स्थिते विशुद्ध-चक्रे ॥१९॥

———————————————————————————————————————

॥ २.२.२० ॥

नाभ्यां स्थितं हृद्य् अधिरोप्य तस्माद्

उदान-गत्योरसि तं नयेन् मुनिः ।

ततोऽनुसन्धाय धिया मनस्वी

स्व-तालु-मूलं शनकैर् नयेत ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **उदान-गत्या ब्रह्मणाज्ञा । अथैकयोर्ध्व उदान इति श्रुतेः ।

प्राणापानाव् इडायां च पिङ्गलायां च सर्वतः ।
ध्यानः सन्धिषु सर्वत्र उदानो ब्रह्म-नाडिगः ।
सर्वत्रैव समानं तु समं चरति सर्वगः ॥ इति भारते ॥२०॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाभ्यां मणिपूरके स्थितं हृदि अनाहत-चक्रेऽधिरोप्यउरसि कण्ठाद् अधो-देशे स्थिते विशुद्ध-चक्रे । मनस्वी जित-चित्तः । स्व-तालु-मूलं तस्यैव चक्रस्याग्र-देशम् । ततो बहुधा गमन-संभवाच् छनकैर् इत्य् उक्तम् ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र प्रथमं नाभेर् अधः स्वाधिष्ठान-चक्राद् उपरि नाभ्यां तस्यैव चक्रस्य विशुद्धि-चक्रस्य ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत इति सार्धकम् ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनस्वी जित-चित्तः । स्व-तालु-मूलं तस्यैव चक्रस्याग्र-देशम् । ततो बहुधा गमन-सम्भवाच् छनकैर् इत्य् उक्तम् ॥२०॥

———————————————————————————————————————

॥ २.२.२१ ॥

तस्माद् भ्रुवोर् अन्तरम् उन्नयेत

निरुद्ध-सप्तायतनोऽनपेक्षः ।

स्थित्वा मुहूर्तार्धम् अकुण्ठ-दृष्टिर्

निर्भिद्य मूर्धन् विसृजेत् परं गतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : परं चिन्तयेत् ॥२१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् भ्रुवोर् अन्तरम् आज्ञा-चक्रम् । निरुद्धानि श्रोत्रे नेत्रे नासिके मुखं चेत्य् एवं सप्तास्व् अयनानि15 प्राण-मार्गा येन सः । अनपेक्षश् चेत् परं ब्रह्म गतः सन् मूर्धन् मूर्धनि ब्रह्म-रन्ध्रे निर्भिद्य देहम् इन्द्रियाणि च विसृजेत् ॥२१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनपेक्षः क्रमम् उक्तवत् पारमेष्ठ्यादि-पद-भोग-कौतुकानपेक्षः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद्भ्रुवोर् अन्तरम् आज्ञा-चक्रम् । निरुद्धानि सप्तास्व् अयनानि श्रोत्रे नेत्रे नासिके मुखं चेत्य् एवं सप्त प्राण-मार्गा येन सः । अनपेक्षः मूर्धन् मूर्धनि ब्रह्म-रन्ध्रे निर्भिद्य देहम् इन्द्रियाणि च विसृजेत् ॥२१॥

———————————————————————————————————————

॥ २.२.२२ ॥

यदि प्रयास्यन् नृप पारमेष्ठ्यं

वैहायसानाम् उत यद् विहारम् ।

अष्टाधिपत्यं गुण-सन्निवाये

सहैव गच्छेन् मनसेन्द्रियैश् च ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

चिन्तात्राणीन्द्रियाण्य् आहुर् मुक्तानाम् अन्यदैव तु ।

तान्य् एव जड-युक्तानि ह्य् अभिन्नानि स्वरूपतः ॥ इति ब्राह्मे ॥२२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सद्यो-मुक्तिम् उक्त्वा क्रम-मुक्ति-प्रकारम् आह—यदीति दशभिः । यदि तु पारमेष्ठ्यं16 पदं प्रयास्यन् भवति । उतवैहायसानां खेचराणां सिद्धानां यद् विहारं क्रीडा-स्थानम् । कीदृशम् ? अष्टाव् आधिपत्यान्य् अणिमाद्य्-ऐश्वर्याणि यस्मिंस् तद् अपि प्रयास्यन् । क्व ? गुण-सन्निवाये गुण-समुदाय-रूपे ब्रह्माण्डे । सर्वत्रेत्य् अर्थः । तर्हि देह-त्यागावसरे मनश् चेन्द्रियाणि च न त्यजेत्, किन्तु तैः सहैव तत्-तल्-लोक-भोगार्थं गच्छेत् ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । यस्मिल् लोके गमनेच्छा भवेत् तत्र सर्वत्रेति भावः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इति सद्यो-मुक्तिम् उक्त्वा क्रम-मुक्तिम् आह—यदीति । पारमेष्ठ्यं ब्रह्म-पदं यदि प्रयास्यन् भवेत् । तथा वैहायसानां खेचराणां, यद्विहारं विहरत्य् अस्मिन्न् इति विहारं क्रीडा-स्थानम् । कीदृशम् ? अष्टाव् आधिपत्यान्य् अणिमाद्य्-ऐश्वर्याणि यस्मिन् तच् च प्रयास्यन् । क्व ? गुण-सन्निवाये गुण-समुदाय-रूपे ब्रह्माण्डे सर्वत्रेत्य् अर्थः । तर्हि देह-त्यागावसरे मनश् चेन्द्रियाणि च न त्यजेत्, किन्तु तैः सहैव तत्-तल्-लोक-भोगार्थं गच्छेत् ॥२२॥

———————————————————————————————————————

॥ २.२.२३ ॥

योगेश्वराणां गतिम् आहुर् अन्तर्-

बहिस्-त्रि-लोक्याः पवनान्तर्-आत्मनाम् ।

न कर्मभिस् तां गतिम् आप्नुवन्ति

विद्या-तपो-योग-समाधि-भाजाम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **पवनस्याप्य् अन्तरात्मा यस् तं पवनश् चान्तरात्मा चेति व ।

इयुस्वीन् कर्मणा लोकान् ज्ञानेनैव तद्-उत्तरान् ।
तत्र मुख्या हरिं यान्ति तद् अन्ये वायुनेव तु ॥
अपक्वायेन ते यान्ति वायुं वा हरिम् एव वा ।
स्थान-मात्राश्रितास् ते तु पुनर् जनि-विवर्जिताः ॥ इति ब्रह्म-तर्के ॥२३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यतः कर्म-गतिवन् न योग-गतिः परिच्छिन्नेत्य् आह । योगेश्वराणां त्रिलोक्या अन्तर्-बहिश् च महर्-लोकादिषु ब्रह्माण्डाद् बहिश् च गतिम् आहुः । अत्र हेतुः—पवनस्यान्तः आत्मा लिङ्ग-शरीरं येषाम् इति । विद्या उपासना, तपो भगवद्-धर्मः, योगोऽष्टाङ्गः, समाधिर् ज्ञानं, तान् ये भजन्ति, तेषां या गतिस् ताम् ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र बाह्याभ्यन्तर् अगमने ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भोगेऽपि योगिनो न कर्मिभिः साधारण्यम् इत्य् आह—योगेश्वराणां त्रिलोक्या अन्तर्-बहिश् च महर्-लोकादिषु ब्रह्माण्डाद् बहिश् च गतिम् आहुः । अत्र हेतुः—पवनस्यान्तरात्मा लिङ्ग-शरीरं येषां तेषाम् । विद्या भगवद्-उपासना, तपो भगवद्-धर्मः, योगोऽष्टाङ्गः, समाधिर् ज्ञानं, तान् ये भजन्ति, तेषां या गतिस् ताम् ॥२३॥

———————————————————————————————————————

॥ २.२.२४ ॥

वैश्वानरं याति विहायसा गतः

सुषुम्णया ब्रह्म-पथेन शोचिषा ।

विधूत-कल्कोऽथ हरेर् उदस्तात्

प्रयाति चक्रं नृप शैशुमारम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **हरेः शिशुमारं चक्रम् । वैश्वानरोदस्तात् ।

वैश्वानरे द्यु-नद्यां वा सूर्ये वा देह एव वा ।
गच्छन् वैश्वानरं याति तस्मान् मार्गः स ईरितः ॥
दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः ।
नाड्योऽथ मध्यमाः प्रोक्ताः सुषुम्णा वेद-पारगैः ॥ इति भागवत-तन्त्रे ।
देवयानस्य मार्ग-स्था अहः-शब्दाभिसंज्ञिताः ।
पितृ-यानस्य मार्ग-स्था रात्रि-शब्दाह्वया मताः ॥ इति बृहत्-तन्त्रे ।

शतायुर् मरणं चैव कालिकं परमावृतिर् इत्य् अभिधाने । पिङ्गलाभिः शतायुषा । अहः-संज्ञं देवयानम् इतीडाभी रात्रि-संज्ञं पितृ-यानम् । विष्णुवत्ता ब्रह्म-यानो विशेषेण सुखं यतः ।

पिङ्गला देव-यानं स्यात् पिङ्गाख्य-सुखदं यतः ।
इडान्न-दानात् पितॄणाम् एवं मार्गाः प्रकीर्तिताः ॥ इति ब्रह्म-तर्के ॥२४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ताम् आह17—वैश्वानरम् इत्य् अष्टभिः । विहायसा आकाशेन, तत्र च ब्रह्म-लोक-पथेनगतः सन् प्रथमं वैश्वानरम् अग्न्य्-अभिमानिनीं देवतां याति । केनोपायेन ? सुषुम्नया नाड्या । सा च देहाद् बहिर् अपि विततास्तीत्य् आह । शोचिषा ज्योतिर्-मय्या विधूतस् त्यक्तः कल्को18 मलो येन सः, क्वाप्य् असज्जमान इत्य् अर्थः । उदस्ताद् उपरिष्टाद् वर्तमानं हरेः संबन्धि तारा-रूपम्, नारायणाधिष्ठितम् इत्य् अर्थः । शैशुमारं चक्रं पञ्चम-स्कन्धे वक्ष्यमाणं शिशुमाराश्रयं ज्योतिश् चक्रम् । चक्र-स्थान्य् आदित्य्-आदि-ध्रुवान्तानि पदानि प्रयाति इत्य् अर्थः ॥२४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तां गतिम् । इत्य् अर्थ इति । हृदये नारायणः इत्य् उक्तेर् इति भावः । इत्य् अर्थ इति । शिशुमार-चक्र-गतानि सूर्यादि-स्थानानि गच्छति योग-बलेनेति भावः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र प्रथमं वैश्वानरम् अग्न्य्-अभिमानिनीं देवतां याति । विहायसा आकाशेनैव । सुषुम्नया नाड्या । सा च देहाद् बहिर् अपि विततास्तीत्य् आह—शोचिषा ज्योतिर्-मय्या विधूत-कल्कः त्यक्त-मालिन्यः, क्वाप्य् असज्जमान इत्य् अर्थः । अथ हरेर् भगवतः सम्बन्धि उदस्ताद् इत ऊर्ध्वं स्थितं चक्रं शैशुमारं शिशुमाराकारम् । चक्र-स्थान्य् आदित्यादीनि ध्रुवान्तानि पदानि प्रयाति इत्य् अर्थः ॥२४॥

———————————————————————————————————————

॥ २.२.२५ ॥

तद् विश्व-नाभिं त्व् अतिवर्त्य विष्णोर्

अणीयसा विरजेनात्मनैकः ।

नमस्कृतं ब्रह्म-विदाम् उपैति

कल्पायुषो यद् विबुधा रमन्ते ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

अशेष-जगद्-आधारः शिशुमारो हरिः परः ।

सर्वे ब्रह्म-विदो नत्वा तं यान्ति परमं पदम् ॥ इति ब्रह्माण्डे ।

तद् विष्णोर् विश्वाधारं रूपं प्रतिपद्य यत्र कल्पायुषस् तं महर्-लोकम् उपैति ।

मन्वन्तरायुषः स्वर्ग्या महर्-लोके तु काल्पिकाः ।
आब्रह्मओ जनाद्यास् तु महर्-लोकेऽपि ये वराः ॥ इति ब्राह्मे ॥२५॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् विष्णोश् चक्रम्19विश्वस्य नाभिं सूर्याद्य्-आश्रय-भूतम् । आविष्ट-लिङ्गत्वान् नाभि-शब्दस्य20 न षण्ढत्वम् । अतिवर्त्य अतिक्रम्य । परतः स्वर्गिणां गत्य्-अभावाद् एक एव निर्मलेन लिङ्ग-शरीरेण ब्रह्मविदां स्थानम् अन्यैर् नमस्कृतं महर्-लोकम् उपैतियत् यस्मिन् विबुधा महा-कल्पायुषो भृग्व्-आदयः ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आविष्ट-लिङ्गत्वाद् अजह-लिङ्गत्वात् । षण्ढत्वं क्लीबत्वं नेत्य् अर्थः । नाभिर् मुख्य-नृपे चक्र-मध्य-क्षत्रिययोः पुमाम् इति मेदिनी ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च **तद् विष्णोश् **चक्रम् अतिवर्त्य अतिक्रम्य । कीदृशम् ? विश्वस्य नाभिं विश्वात्मक-पुरुषस्य नाभि-स्थानीयं, अणीयसा अणिमादि-सिद्धिमत्त्वाद् अतिसूक्ष्मेण, विरजेन निर्मलेन लिङ्ग-शरीरेण सह, अतः परत्र स्वर्गिणां गत्य्-अभावात् एकः, नमस्कृतं पूज्यं, ब्रह्म-विदां स्थानं महर्-लोकम् उपैति । यद् यस्मिन् विबुधा महा-कल्पायुषो रमन्ते खेलन्ति ॥२५॥

———————————————————————————————————————

॥ २.२.२६ ॥

अथो अनन्तस्य मुखानलेन

दन्दह्यमानं स निरीक्ष्य विश्वम् ।

निर्याति सिद्धेश्वर-जुष्ट-धिष्ण्यं

यद् द्वैपरार्ध्यं तद् उ पारमेष्ठ्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथो21 अनन्तरं कल्पान्ते स विश्वं त्रैलोक्यम् अतिशयेन दह्यमानंनिरीक्ष्य, तत्राप्य् ऊष्म-प्राप्तेः । यत्द्विपरार्ध-स्थायि तत् पारमेष्ठ्यं पदं प्रति निर्यातिसिद्धेश्वरैर् जुष्टानि धिष्ण्यानि विमानानि यस्मिंस् तत् । इति श्रैष्ठ्यं सूचितम् ॥२६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्रापि महर्-लोकेऽपि उष्मा वह्न्य् उत्थम् औष्ण्यम् । पारमेष्ठ्यं सप्त-लोकं प्रति ॥२६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथो लीला-गृहीत-शरीरेण तद्-भोगानन्तरम् ॥२६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अत आह—अथो अनन्तरम् । यदि कल्प-पर्यन्तं कौतुक-वशात् तत्रैव स्थातुम् इच्छति, तदा कल्पान्ते सति । विश्वं लोक-त्रयम् । निर्याति उष्णीभूतात् महर्-लोकाद् ऊर्ध्वं यद् द्वैपरार्ध-पर्यन्त-स्थायि तत् पारमेष्ठ्यं सत्य-लोकं प्रति याति । सिद्धेश्वरैर् जुष्टानि धिष्ण्यानि विमानानि यस्मिंस् तत् ॥२६॥

———————————————————————————————————————

॥ २.२.२७ ॥

न यत्र शोको न जरा न मृत्युर्

नार्तिर् न चोद्वेग ऋते कुतश्चित् ।

यच् चित्ततोऽदः कृपयानिदं-विदां

दुरन्त-दुःख-प्रभवानुदर्शनात् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ऋते सत्य-लोके । अनिदं-विदाम् अब्रह्म-विदाम् । दुरन्त-दुःखं च प्रभवश् च।

सर्व-दुःख-विहीना ये मुक्ताः प्रायस् तु तादृशाः ।
अमुक्तास् तु जनाद्येषु विशेषेण तु सत्यगाः ॥ इति वाराहे ।
विष्णोर् लोकं तदैवैके यान्ति कालान्तरे परे ।
आज्ञयैव हरेः केचित् पूर्तेः केचिद् अञ्जसा ।
विहृतैवान्य-लोकेषु मुच्यन्ते ब्रह्मणा सह ॥ इति वामने ॥२७॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह—न यत्रेति । अर्तिर् दुःखम् । उद्वेगो भयम् । किन्तु चित्ततो हेतोर् यद् दुःखम् अदः, ऋते तद् एकं विना । तत् कुतो भवति ? अनिदं-विदाम् इदं भगवतो ध्यानम् अजानतां प्राणिनां दुरन्त-दुःखो यः प्रभवो जन्म तस्यानुदर्शनात् तेषां कृपया

यद् वा, चित्त-तोदो मनः-पीडेति यत्, तद् विना कुतश्चिद् अपि यत्र शोकादयो न सन्तीति । तत्र ब्रह्म-लोकं गतानां त्रिविधा गतिः । ये पुण्योत्कर्षेण गतास् ते कल्पान्तरे पुण्य-तारतम्येनाधिकारिका भवन्ति । ये तु हिरण्यगर्भाद्य्-उपासना-बलेन गतास् ते ब्रह्मणा सह मुच्यन्ते । ये तु भगवद्-उपासकास् ते स्वेच्छया ब्रह्माण्डं भित्त्वा वैष्णवं पदम् आरुहन्ति ॥२७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव सत्य-लोक-माहात्म्यम् एव उत्तानार्थम् आह । यद् वेति । तत्र व्याजस्तुतौ सत्य-लोकस्था महा-कृपालवो धन्या एवेति भावः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सप्त-लोकस्य माहात्म्यम् आह—न यत्रेति । आर्तिर् दुःखम् । उद्वेगो भयम् । किन्तु चित्ततो हेतोर् यद् दुःखं, अदःऋते तद् एकं विना । तद् एव किम् ? कथं वा भवेत् ? तत्राह—अनिदं-विदाम् इमं वैष्णवं योगम् अजानतां त्रिलोक-स्थ-जनानाम् । दुरन्त-दुःखो यः प्रभवः संसारस् तस्य अनुदर्शनाद् या कृपा, तया । तेन व्याज-स्तुत्या सत्य-लोक-स्थास् ते महा-कृपालवो धन्या एवेति भावः ॥२७॥

———————————————————————————————————————

॥ २.२.२८ ॥

ततो विशेषं प्रतिपद्य निर्भयस्

तेनात्मनापोऽनल-मूर्तिर् अत्वरन् ।

ज्योतिर्मयो वायुम् उपेत्य काले

वाय्व्-आत्मना खं बृहद् आत्म-लिङ्गम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ब्रह्मणा सह विशेषं पृथिवीं तेनात्मना पृथिव्य्-आत्मना । ज्योतिर्मयः अग्नि-प्रधानः । आकाशवत् सर्व-गतश् च नित्य इति । परमात्म-सदृशं किञ्चित् ।

ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम् ।
परमात्मानम् आविश्य वारिस्थं तत्-समन्विताः ॥
अग्निस्थं तद्-युताश् चैव तेन नीताश् च वायुगम् ।
नभो-गतं तेन नीता मनः-स्थं तद्-युतस् तथा ॥
ततो बुद्धि-स्थम् ईशेशं ततोऽहङ्कार-गं हरिम् ।
ततो विज्ञान-नामानं महत्-तत्त्व-गतं हरिम् ॥
तत् आनन्द-नामानम् अव्यक्त-स्थं जनार्दनम् ।
प्राप्तान् आवृत्तिम् आयान्ति शान्ति-भूता निरामयाः ॥
येषां पदान्तरापेक्षा वाय्व्-आदीनां महात्मनाम् ।
आवृत्य ते पुनर् यान्ति ज्ञानिनोऽपि निरामयाः ।
अनावृत्तिम् असंमूढाः परानन्दैक-भागिनः ॥ इति ब्रह्म-तर्के ।
भूम्य्-अब्ज-मग्न-नामानं प्राणम् अग्न्य्-आदि-संस्थितम् ।
मानसं मन-आदि-स्थं विज्ञानं महति स्थितम् ॥
आनन्दम् अव्यक्त-गतं क्रमशो यान्ति देवताः ।
ब्रह्माद्याः केचिद् एवात्र तद् अन्ये क्रमशोऽपरान् ॥ इति बृहत्-तन्त्रे ॥२८॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र प्रस्तुतस्य भगवद्-भक्तस्य ब्रह्माण्ड-भेदन-प्रकारम् आह—तत इत्य्-आदिना । तत्रेयं प्रक्रिया—ईश्वराधिष्ठितायाः प्रकृतेः केनचिद् अंशेन महत्-तत्त्वं भवति । तस्यांशेनाहंकारः । तस्यांशेन शब्द-तन्मात्र-द्वारा नभः । तस्यांशेन स्पर्श-तन्मात्र-द्वारा वायुः । तस्यांशेन रूप-तन्मात्र-द्वारा तेजः । तस्यांशेन रस-तन्मात्र-द्वारा आपः । तद्-अंशेन गन्ध-तन्मात्र-द्वारा पृथ्वी । तैश् च मिलितैश् चतुर्दश-भुवनात्मकं विराट्-शरीरम् । तस्य च पञ्चाशत्-कोटि-योजन-विशालस्य पृथिव्य् एवाण्ड-कटाह-विशेष-शब्द-वाच्या कोटि-योजन-विशालं प्रथमावरणम् । पञ्चाशत्-कोटि-योजन-विशालम् इत्य् एके । ततश् चाबादीनां ये परिणता अंशास् तान्य् एवोत्तरोत्तरं दश-गुणान्य् आवरणानि । अष्टमं तु प्रकृत्य्-आवरणं व्यापकम् एव। तद् एवं स्थिते पृथिव्य्-आद्य्-आवरण-भेद-प्रकारः कथ्यते । ततो विशेषं प्रतिपद्य22 लिङ्ग-देहेन पृथिव्य्-आत्मतां प्राप्येत्य् अर्थः । एवम् उत्तरत्रापि द्रष्टव्यम् । निर्भयः कथं यास्याम् इति शङ्का-शून्यः । तेन आत्मना प्र्थिवी-रूपेण तन्-निरन्तरा अपः प्रतिपद्य । अत्वरंस् त्वराम् अकुर्वन् तत्-तद्-आत्मत्वेन क्लेद-दाहादि-शङ्काभावाद् यथेष्टं भोगान् भुञ्जान इत्य् अर्थः । एवं ज्योतिर्मयः सन् । काले भोगावसाने । बृहद् आत्मने लिङ्गं परमात्म-मूर्तित्वेनोपासनेषूक्तम् । यद् वा, वेद-शब्दात्मना23 तस्य प्रमापकम् इति ॥२८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र त्रिषु प्रस्तुतस्य ये तु भगवद् उपासका इत्य् उक्तस्य । इत्य् अर्थ इति । तस्य लिङ्ग-देह एव पृथिवी-रूपो भूत्वा पृथिव्यां प्रविशतीति भावः । उत्तरत्रापि जलादिष्व् अपि । इत्य् अर्थ इति । घ्राण-रसनादीन्द्रियैर् गन्ध-रसादीन् विचित्र-भोग्य-विषयान् सेवमान एव यातीति भावः । खं ब्रह्मेत्य् उपासीत इति श्रुतेर् आत्म-मूर्तित्वम् । लिङ्गं मूर्ति-लक्ष्म-शेफ-ज्ञापकेषु कारणे इति कोशात् । अर्थान्तरम् आह—यद् वा इति वेद-शब्दात्मना सगुणी-भूत-शब्द-रूप-वेद-रूपेण तस्य ब्रह्मणो प्रमापकं ज्ञापकम् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततो विशेषम् इति । अत्र टीकायाम् एक-ब्रह्माण्ड-पक्ष एव सङमितः । बहु-ब्रह्माण्ड-पक्षस् त्व् एवम्—ब्रह्माण्डानि खल्व् एकत्रैवानुच्च-नीचत्वेन मण्डलीभूय वर्तन्ते । तेषां पृथिव्य्-आवरणं प्रत्येकं पृथग् एव । जलावरणं तु तन्-मण्डलाद् बहिः पूर्वावरणाद् दश-गुणम् एकम् एव । यस्योपरि च सर्व-ब्रह्माण्ड-कारणं कारणार्णव-शाय्य् एक एक शेते । यत् तु मण्डलाभ्यन्तरेऽपि यत् किञ्चिज् जलं प्रविशति तत्त्वावरण-संज्ञं न भवति अनिश्चय-मानत्वात् । तद् एवम् एवाहङ्काराद्य्-आवरणानां सर्व-भूतावरकत्वं सङ्गच्छेत इति । विशेषं प्रतिपद्य—प्राचीन-स्थूल-देहे इव तत्र लिङ्ग-देहावेशं कृत्वा । पुनश् च तेन विशेषाविष्टेन लिङ्ग-देहाख्येनैवात्मना अपो जलावरणं प्रतिपद्य प्राचीन-स्थूल-देहत इव विशेषत उत्क्रम-पूर्वकं तत्र तद्-आवेशं कृत्वा । पुनश् च पूर्ववद् अनल-मूर्तिः सन्न् इत्य् आदि योज्यम् । तत्र तत्र लोक-विशेषेषु भोगश् चेल् लीला-शरीरम् अपि मन्तव्यम् ॥२८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ तत्रैव यदि महा-कल्प-पर्यन्तं स्थातुम् इच्छति, तदा ब्रह्मणा सहैव मुच्यते, यदि च तद्-अन्तर् एव मोक्षम् इच्छति, तदा सप्तावरणानि निभिद्यैव ब्रह्म प्रविशतीति तत्-प्रकारम् आह—ततो विशेषं पञ्चाशत्-कोटि-योजन-विशालस्य ब्रह्माण्डस्य प्रथमावरण-रूपां पृथिवीं पञ्चाशत्-कोटि-योजन-प्रमाणां प्रतिपद्य प्राप्य । केन प्रकारेण ? तेनात्मना पृथिवी-रूपेण । एवम् उत्तरत्रापि द्रष्टव्यम् । निर्भयः तत्-तद्-आत्मत्वेन क्लेद-दाहादि-शङ्का-शून्य इत्य् अर्थः । ततोऽपः पृथिवी-दश-गुण-प्रमाणाः प्रतिपद्य अवात्मनेति शेषः । ततोऽनल-मूर्तिर् जल-दश-गुणं तेज आवरणं प्राप्येत्य् अर्थः । अत्वरन् भवेत् । तत्र तत्र पृथिवी-जनादिषु घ्राण-रसनादीन्द्रियैर् गन्ध-रसादीन् विचित्र-भोग-विषयान् भोक्तुम् एवेति भावः । ततो ज्योतिर्मयः काले वाय्व्-आत्मना वायुं तेजो-दश-गुणम् उपेत्य खं वायु-दश-गुणम् आकाशं बृहद्-आत्मनो लिङ्गं परमात्म-मूर्तित्वेनोपासनेषूक्तम् । यद् वा—वेद-शब्दात्मना तत्-प्रमाणकम् इति ॥२८॥

———————————————————————————————————————

॥ २.२.२९ ॥

घ्राणेन गन्धं रसनेन वै रसं

रूपं च दृष्ट्या श्वसनं त्वचैव ।

श्रोत्रेण चोपेत्य नभो-गुणत्वं

प्राणेन चाकूतिम् उपैति योगी ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **

पञ्चेन्द्रियैर् ये विषया एष्टव्याःसर्वतो वराः ।

मानसांश्चाखिलान् प्राप्य मुक्तौ मोदन्ति देवताः ।
तथोद्रिक्त-निजानन्दा नित्यानन्दा असंवृताः ॥ इति षाड्गुण्ये ॥२९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इन्द्रियार्थानां भूत-सूक्ष्माणाम् अतिक्रमम् आह । घ्राणेनाधिष्ठितेन गन्धम्24 उपेत्य । श्वसनं स्पर्शम् । नभो-गुणत्वं शब्दात्मताम् । प्राणेन तत्-तत्-कर्मेन्द्रियेण । आकूतिं तत्-तत्-क्रियाम् ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पृथिव्याद्य् आवरणेषु गन्धादयः सन्ति तेषाम् अतिक्रमं पूर्वम् अनुक्तं सम्प्रत्य् आह—घ्राणेनेति ॥२९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **घ्राणेन गन्धम् इति । अनेनाकाशा-वरणाद् बहिर् एव सूक्ष्म-रूपाण्य् आवरणानि लभ्यन्ते । युक्तं चेदम् । कारण-कारणानां बहिर्-बहिर्-अवस्थान-प्राप्तेः, व्यवहितानाम् अपि कारणानाम् अंशम् अंशम् उपादयेश्वरेण तत्-तत्-कार्य-सृष्टेः, यथा गन्ध-तन्मात्रस्य जलस्य चांशम् उपादाय तेन पृथिवी सृष्टेत्य् आदि । किन्तु गन्ध-तन्-मात्रादीनां सूक्ष्मत्वेनानुपलभ्यमानत्वाद् आकाश-तुल्यत्वम् इति आकाशान्तर्-गणनाद् अष्टाव् एवावरणान्य् अवसीयन्ते । वाक्यम् इदं त्व् एवं विवेचनीयम् । तत्र घ्राणेनेति घ्राण-द्वारा गन्धम् आविश्येत्य् अर्थः । एवम् उत्तरत्रापि ॥२९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इन्द्रियार्थानां भूत-सूक्ष्माणाम् अतिक्रमम् आह—घ्राणेन्द्रियेण ग्राह्यं गन्धम् उपेत्य । एवं रसनेनेत्य् आदि । श्वसनं स्पर्शम् । नभो-गुणत्वं नभो-गुणं शब्दम् । प्राणेन कर्मेन्द्रियेण । आकूतिं तत्-तत्-क्रियाम् । अत्र पृथिव्य्-आद्य्-अवरणेष्व् एव गन्धादयः सन्ति च तेषाम् अतिक्रमं पूर्वम् अनुक्तं सम्प्रत्य् आहेति ज्ञेयम् ॥२९॥

———————————————————————————————————————

॥ २.२.३० ॥

स भूत-सूक्ष्मेन्द्रिय-सन्निकर्षं

मनोमयं देवमयं विकार्यम् ।

संसाद्य गत्या सह तेन याति

विज्ञान-तत्त्वं गुण-सन्निरोधम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भूत-सूक्ष्मेन्द्रियैश् च सह अनादिर् भगवान् आकाशगो मनो-मयं याति । नादवत्त्वात् सनातनः । नादेन तेन महता सनातन इति स्मृत इति मोक्ष-धर्मे विविध-कार्य-युक्तं विकार्यम् । देव-मयं देव-प्रधानम् ।

मनः-स्थितो हरिर् नित्यं सर्व-देवेषु संस्थितः ।
देव प्रधानकान् लोकान् करोत्य् अनुगतः सदा ॥ इति वाराहे ।

भूत-सूक्ष्माणि पञ्च-भूतानि जीवाश् च । पञ्च-भूतैश् च शब्दाद्यैर् इन्द्रियैर् जीव-राशिभिः । युक्त आकाशगो विष्णुर् मनः-स्थम् उपगच्छतीति वामने । योसावनादि-मनो-मयस् तम् इति वा। विपर्ययश् चेत् तस्यैव गन्तृत्वम् इति ज्ञापयितुम् । मतिस्थेन तेन मनः-स्थेन च सह-विज्ञान-तत्त्वं याति । गुण-संनिरोधं निर्गुणं वासुदेवम् ॥३०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं स्थूल-सूक्ष्म-भूतातिक्रमम् उक्त्वा तद्-आवरण-भूताहंकार-प्राप्त्या महद्-आदि-प्राप्तिम् आह । स योगी विकार्यं संसाद्य विज्ञान-तत्त्वं याति । विविधं कार्यम् अस्येति विकार्योऽहंकारः । स त्रिविधः, तामसो राजसः सात्त्विक इति । तत्र तामसाज् जडानि भूत-सूक्ष्माणि जायन्ते । राजसाद् बहिर्-मुखानि दशेन्द्रियाणि । सात्त्विकान् मन इन्द्रिय-देवताश् च । तेषां लयश् च तत्-तद्-अहंकारे । तत्र भूत-सूक्ष्माणाम् इन्द्रियाणां च सन्निकर्षं लय-स्थानं तामसं, राजसं च मनोमयं देवमयं च सात्त्विकं प्राप्य । गत्या एवं गमनेन । तेनाहंकारेण सह विज्ञान-तत्त्वं महत्-तत्त्वं25 याति । ततो गुणानां26 सन्निरोधो लयो यस्मिंस् तत् प्रधानं याति ॥३०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एवम् इत्थं तद् आवरण-भूतः स्थूल-सूक्ष्म-भूतानाम् आवरण-भूतो योऽहंकारस् तस्य प्राप्त्या तत्-तद् अहंकारे यतो यतो यस्योद्भवस् तत्र तत्राहंकारे ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तेनाहङ्कारेण सहेति तल्-लग्नं विज्ञान-तत्त्वम् इत्य् अर्थः ॥३०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं स्थूल-सूक्ष्म-भूतातिक्रमम् उक्त्वा तद्-आवरण-भूताहंकार-प्राप्त्या महद्-आदि-प्राप्तिम् आह—स योगी । विविधं कार्यम् अस्येति विकार्योऽहंकारः । संसाद्य प्राप्य । तं कीदृशम् ? भूत-सूक्ष्माणाम् इन्द्रियाणां च सन्निकार्षो लयो यत्र तम् । तामसाहंकारे भूत-सूक्ष्माणि । राजसाहंकारे इन्द्रियाणि प्र्विलाप्येत्य् अर्थः । पुनः कीदृशम् ? मनो-मयं देव-मयम् । सात्त्विकाहंकारे मनो-देवताश् च प्रविलाप्येत्य् अर्थः । ततश् चावशिष्टेन तेनाहंकारेण सह गत्या विज्ञान-तत्त्वं महत्-तत्त्वंयाति । अहंकारं महत्-तत्त्वे प्रविलापयतीत्य् अर्थः । ततस् तेन महत्-तत्त्वेन गुणाः संनिरुध्यन्ते येन तत् प्रधानं याति । महत्-तत्त्वं प्रधाने विलापयतीत्य् अर्थः ॥३०॥

———————————————————————————————————————

॥ २.२.३१ ॥

तेनात्मनात्मानम् उपैति शान्तम्

आनन्दम् आनन्दमयोऽवसाने

एतां गतिं भागवतीं गतो यः

स वै पुनर् नेह विषज्जतेऽङ्ग ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एतां गतिं गतो न विषज्जते । वासुदेवाश्रित्य ब्रह्माद्य्-आमुक्त-बन्धणाः ।

भेद-दृष्ट्याभिमानेन चावृत्तिं नैव यान्ति ते ।
भुञ्जते तु पृथग् भोगान्नानन्दस् तत्-स्वरूपकम् ।
स्वरूपं च पृथक् तेषाम् आविष्ट-ग्रहवद् भवेत् ॥ इति ब्रह्माण्डे ॥३१॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेनात्मना प्रधान-रूपेण आनन्दमयः सन्न् उपाधीनाम् अवसाने शान्तम् अविकृतम् आनन्दं परम् आत्मानम् उपैतिन विषज्जते नावर्तते इत्य् अर्थः ॥३१॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् तेन प्रधानेन सहात्मना स्व-स्व-रूपेणात्मानं परं ब्रह्म आदि-पुरुषम् आनन्द-रूपम् उपैति । प्रकृत्य् आवरणात् परत्र कारणार्णवशायि-महा-पुरुषस्य स्थितेः। ततोऽवसाने आनन्दमय इति तस्मिन्न् एव सायुज्यं प्राप्येत्य् अर्थः । इत्य् अर्थ इति । मां प्राप्य न निवर्तते मृत्यु-संसार-वर्मनि इति भगवद् उक्तेर् अयं भावः । अत्र सन्दर्भः । तेनात्मना शुद्धेन स्व-रूपेण प्रधान-भावेशितेन पुनस् तत उत्क्रमितेन आत्मानं परमात्मानं परम-वैकुण्ठ-नाथम् इत्य् अर्थः, भागवतीं गतिम् इत्य् उक्तेः । ततो विशेषम् इत्य् अत्र टीकावतारिकायां, ये तु भगवद् उपासकास् ते स्वेच्छयो ब्रह्माण्डं भित्त्वा वैष्णवं पदम् आरोहन्तीति । तस्मात् तन्-मतेऽपि प्रकृत्य्-आवरणाद् बहिर् महा-वैकुण्ठ-लोकः प्रकृत्य्-आवरणस्य च व्यापकत्वं चापेक्षिकम् इति ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तेनात्मनेति । आत्मना शुद्धेन स्वरूपेण । तेन प्रधानम् आवेशितेन पुनस् तत उत्क्रमितेन । आत्मानं परमात्मानं परम-वैकुण्ठ-नाथम् इत्य् अर्थः, भागवतीं गतिम् इत्य् उक्तेः । ततो विशेषं [भा।पु। २.२.२८] इत्य् अत्र टीकावतारिकायां च, ये तु भगवद्-उपासकास् ते स्वेच्छया ब्रह्माण्डं भित्त्वा वैष्णवं पदम् आरोहन्ति इति । तस्मात् तन्-मतेऽपि प्रकृत्य्-आवरणाद् बहिर् महा-वैकुण्ठ-लोकः । प्रकृत्य्-आवरणस्य व्यापकत्वं चापेक्षिकम् इति ॥३१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततस् तेन प्रधानेन सह अत्मना स्व-स्वरूपेण । आत्मानं परं ब्रह्म । आदि-पुरुषम् आनन्द-रूपम् उपैति । प्रकृत्य्-आवरणात् परत्र कारणार्णव-शायि-महा-पुरुषस्य स्थितेः । ततोऽवसाने आनन्द-मय इति तस्मिन्न् एव सायुज्यं प्राप्नोतीत्य् अर्थः । न विषज्जते इह संसार नावर्तते ॥३१॥

———————————————————————————————————————

॥ २.२.३२ ॥

एते सृती ते नृप वेद-गीते

त्वयाभिपृष्टे च सनातने च ।

ये वै पुरा ब्रह्मण आह तुष्ट

आराधितो भगवान् वासुदेवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सृती मार्गौ, प्रकाराव् इत्य् अर्थः । हे नृप! [अनपेक्षो] निर्भिद्यमूर्धन् विसृजेत् परं गतः [भा।पु। २.२.२१] इति या सद्यो-मुक्तिः, सैका सृतिः । यदि प्रयास्यन्न् [भा।पु। २.२.२२] इत्य्-आदिना क्रम-मुक्तिश् च द्वितीया सृतिः । एते सृती वेदेन गीते उक्ते, न तु स्वोत्प्रेक्षिते । तत्र,

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य ह्र्दि श्रिताः ।
अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते [क।उ। २.३.१४] इति सद्यो-मुक्तिः।

तेऽर्चिर् अभिसंभवन्ति [बृ।आ।उ। ६.२.१५] इत्य्-आदिना क्रम-मुक्तिश् च वेदेनोक्ता । यद् वा, न कर्मभिस् तां गतिम् आप्नुवन्ति [भा।पु। २.२.२३] इति दक्षिण-मार्गस्यापि सूचितत्वाद् एते सृती इति द्वि-वचनम् । त्वयाऽभिपृष्टेयच् छ्रोतव्यं[भा।पु। १.१९.३८] इत्य्-आदि-प्रश्नेन, अर्थान् मुक्ति-विषये द्वे अपि सृती पृष्टे । ब्रूहि यद् वा विपर्ययं [भा।पु। १.१९.३८] इति दक्षिण-मार्गोऽप्य् अर्थात् पृष्टः । एवं त्वया च ये पृष्टे एते सृती इत्य् अन्वयः ॥३२॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । लक्षणया सृति-पदं प्रकार-परम् इति भावः । प्रकारो भेदः । प्रकारस् तुल्य-भेदयोः इति मेदिनी । सृतिः स्त्री गमने मार्गे इति च । हे नृप इति । नृ-पालनासक्तेन त्वयैतत् काल-पर्यन्तं न ज्ञातम् इति भावः । तत्र द्वयोर् मध्ये अस्य पुंसो हृदि मनसि श्रिताः स्थिता ये ते यदा न त्व-विचारेण प्रमुच्यन्ते नश्यन्ति । कर्म-कर्तरि प्रयोगः । अथ तद्-अनन्तरम् एव मर्त्यो मरण-धर्माप्य् अमृतस् तद्-धर्म-रहितो भवति । अत्रैव देहे ब्रह्मावाप्नोति तद्-रूपो भवतीति श्रुत्य् अर्थः सृति-पदस्य प्रसिद्धार्थत्यागे कारणाभावम्-आलक्ष्याह—यद् वेति । कर्मिणाम् एव ते धूमम्-अभिसम्भवन्ति इत्य्-आदि-श्रुत्या दक्षिण-मार्गस्याभिहितत्वाद् अर्चिरादि-गतिस् तेषां नास्तीत्य् आह—न कर्मभिस्तां गतिम् इति ॥३२॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भागवतास् तु एवं-विधं श्री-कृष्ण-लोकं परम-वैकुण्ठं यान्त्य् एवात्र न सन्देह इति दर्शितम् । सम्प्रति मुमुक्षूणां सद्यो-मुक्ति-क्रमं दर्शयति—इत्थम् [२.२.१९] इत्य्-आदि बहुभिः । हे परीक्षित् ! यदि परं पदं वैष्णवं लोकं गन्तुम् इच्छसि, तदोक्त-प्रकारं भगवद्-भक्ति-लक्षणं धारणादिकं कुर्याः । यदि वा सद्यो-मुक्तिम् इच्छसि, तदैवं कुर्याः । यदि वा क्रम-मुक्तिम् इच्छसि, तदैवम् इति स-विशेषं दर्शयित्वा उपसंहरति—एते इत्य्-आदि । हे नृप ! स्थूल-शरीरान्तर्-हृदय-स्थ-चतुर्भुज-ध्याने सृती वर्त्मनी गदिते । उभयोर् दर्शितः पन्था येनेष्टं तेन गम्यताम् इतिवत् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सृती ब्रह्म-मार्गौ । निर्भिद्यमूर्धन् विसृजेत् परं गतः [भा।पु। २.२.२१] इति यावत् सद्यो-मुक्तिर् एका सृतिः । यदि प्रयास्यन्न् [भा।पु। २.२.२२] इत्य्-आदिना क्रम-मुक्तिश् च द्वितीया सृतिः । एते सृती वेदेन गीते, न तु स्वोत्प्रेक्षिते ।

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य ह्र्दि स्थिताः ।
अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते [क।उ। २.३.१४] इति सद्यो-मुक्तिः ।

तेऽर्चिर् अभिसम्भवन्ति [बृ।आ।उ। ६.२.१५] इत्य्-आदिना क्रम-मुक्तिश् च वेदेनोक्ता । त्वयाऽभिपृष्टे इति “म्रियमानस्य किं कर्तव्यम् ?” इति प्रश्नेनैवैतत् प्रश्न-सिद्धेः ॥३२॥

———————————————————————————————————————

॥ २.२.३३ ॥

न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह ।
वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यद् भगवान् आह अतो भागवताख्यात् ग्रन्थाच् छिवः पन्था न ॥३३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सन्ति संसरतः पुंसो बहवो मोक्ष-मार्गास् तपो-योगादयः, समीचीनस् त्व् अयम् एवेत्य् आह—न हीति । यतोऽनुष्ठिताद् **भक्ति-योगो भवेदतोऽन्यः शिवः **सुख-रूपो निर्विघ्नश् च नास्त्य् एव ॥३३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समीचीनः—सर्व-साध्य-परम-सार-प्रापकः । अयं क इति चेत् तत्राह—यत इति । भक्ति-योगः प्रेमा यच् छब्देनात्र भगवत् सन्तोषार्थं कर्मोच्यते । स वै पुंसां परो धर्मः इत्य् उक्तेः । अत्र पूर्वम् उक्त-लक्षणं सृति-द्वयं यथा मोक्ष-प्रापकं तथायं पन्था भक्ति-योग-प्रापक इति प्रापकस्यास्य पथः परमोत्कर्ष-प्रति-पादनाद् एतत् प्राप्यस्य भक्ति-योगस्यापि सृति-द्वय-प्राप्यान् मोक्षात् परमोत्कर्षो युक्ति-सिद्धः । इति भक्ति-योगस्यास्य प्रेम-लक्षणस्य मोक्ष-साधन त्व् अं न व्याख्यातुं शक्यम् इत्य् अवधेयम् ॥३३॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : शुद्ध-भक्तेर् अन्यम् उपायं षड्भिर् निन्दति । वस्तुतो गहनत्वेन निराकारत्वे प्रतिपत्तये पुनः पुनर् वचनं न दोषायेत्य् आह—न ह्य् अत इति । इह दृष्ट-श्रुत-सुख-रूपाणां संसृतौ । भगवति इति विशेषणं विषय-सौन्दर्याद् एव भक्ति-निर्वाह इत्य् एवम् अर्थं शुकः ॥३३॥ [मु।फ। ६.५०]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ताटस्थ्येनोक्त्वा कदाचिद् अयं विपथ-गामी स्याद् इति पुनर् आशङ्क्य भक्ति-योग एव कर्तव्य इति द्रढयति—न ह्य् अतोऽन्यः शिवः पन्था इत्य्-आदि । हि निश्चये । शिवः सुखदो हि, जानीहीति वा ॥३४॥

———————————————————————————————————————

सनातन-गोस्वामी- [ह।भ।वि। ११.५६६] अधुना सर्व-मार्ग-फलत्वेन भक्तेः सर्व-मार्गाधिकत्वं द्रढयति—न हीति द्वाभ्याम् । सन्ति च संसरतः पुंसो बहवो मोक्ष-मार्गाः, किन्तु यतः पथोऽनुष्ठिताद् भक्ति-योगो भवेत्, अतोऽन्यः शिवः सुख-रूपो निर्विघ्नश् च नास्त्य् एवेत्य् अर्थः ॥३३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ स्थिरं सुखं चासनं [भा।पु। २.२.१५] इत्य्-आदिना यदि प्रयास्यन् नृप पारमेष्ठ्यं [भा।पु। २.२.२३] इत्य्-आदिना च क्रमेण सद्यो-मुक्ति-क्रम-मुक्त्य्-उपायौ ज्ञान-योगाव् उक्त्वा, ततोऽपि श्रेष्ठत्वं भक्ति-योग-हेतु-भगवद्-अर्पित-कर्मणोऽप्य् उक्त्वा साक्षाद्-भक्ति-योगस्य तु कैमुत्यम् एवानीतं, यथा—न हीति । टीका च—

सन्ति संसरतः पुंसो बहवो मोक्ष-मार्गास् तपो-योगादयः, समीचीनस् त्व् अयम् एवेत्य् आह—न हीति । यतोऽनुष्ठिताद् भक्ति-योगो भवेद् अतोऽन्यः शिवः सुख-रूपो निर्विघ्नश् च नास्त्य् एव इत्य् एषा ।

यच्-छब्देनात्र भगवत्-सन्तोषार्थं कर्मोच्यते, स वै पुंसां परो धर्मः [भा।पु। १.२.१३] इत्य् उक्तेः । अन्यत् तैः ॥३३॥ [भक्ति-सन्दर्भ २८]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किन्तु सर्व-साध्य-परम-सार-प्रापकस् त्व् अयम् एव पन्थाः इत्य् आह—न हीति। यतो भक्ति-योगः प्रेमा भवेद् अतोऽन्यः शिवः सुख-रूपो निर्विघ्नश् च पन्था नास्त्य् एव । अत्र पूर्वम् उक्त-लक्षणं सृति-द्वयं यथा मोक्ष-प्रापकं तथायं पन्था भक्ति-योग-प्रापक इति । प्रापकस्यास्य पथः परमोत्कर्ष-प्रतिपादनाद् एतत्-प्राप्यस्य भक्ति-योगस्यापि सृति-द्वय-प्राप्यान् मोक्षात् परमोत्कर्षः युक्ति-सिद्ध इति । भक्ति-योगस्यास्य प्रेम-लक्षणस्य मोक्ष-साधन त्व् अं न व्याख्यातुं शक्यम् इत्य् अवधेयम् ॥३३॥

———————————————————————————————————————

॥ २.२.३४ ॥

भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **तद् भागवतं पुराणम् अपश्यत् ।

नित्य-ज्ञानेन सिद्धिं च पुनः पुनर् अवेक्षते ।
लीलयैव हरिर् देवो दृष्टानां मोहनाय च ॥ इति पाद्मे ॥३४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुत एतत् ? अत आह—भगवान् ब्रह्मा । कूटस्थो निर्विकारः, एकाग्र-चित्तः सन्न् इत्य् अर्थः । त्रिस् त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदम् अन्वीक्ष्य विचार्य । **यत आत्मनि **हरौ रतिर् भवेत्, तद् एव मनीषयाअध्यवस्यत् निश्चितवान् ॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति । यावच् चेतो विकारवत् तावदैकारणं न जायते दति भातः । कानिधनीति कटाः ऽकटोरमीनिचले गठौंऽ दगाटिकोसान सर्व-सारत्वेन स्वाभिमतत्वेन चेमम् एव पन्थानं निश्चिनोष्यन्यं वा तत्र सामान्यस्य वा का कथा भगवान् एव स्वमनीषया प्रथमम् एव निरणैषीद् एवेत्य् आह । भगवान् स्व-प्रकाश-सार्वज्ञ्यादि-गुणः परमेश्वरोऽपि स्व-निःश्वासोद्भूत-ब्रह्म-वेदं कार्त्स्न्येन सामस्त्येन त्रिरन्वीक्ष्येति यथान्ये मुनयः शास्त्रं द्विस्तिरन्वीक्ष्यैव तत् तात्-पर्यं पर्यालोचयन्ति तथैव स मुनिर् भूत्वा सम-चिन्तयत् इति श्रुतेर् भगवान् अपि मुनिलीलत्वे नैव सर्व-वेदाभिधेय-साराकर्षण-लीलया वेदानां दुर्ज्ञेयत्वं लोके व्यञ्जयं स्त्रिर् विचार्येत्य् अर्थः । कर्म-भक्ति-ज्ञान-प्रतिपादकत्वाभिप्रायेण वा त्रिरन्वीक्ष्य अनन्त-वैकुण्ठ-वैभवादिमयानाम्-अनन्त-विरिञ्च-पाठ्य-भेदानां वेदानां तथेक्षणं तेनैव सम्भवतीत्य् आह कूटस्थः । कालव्यापी स कूटस्थ एक-रूपतयैव यः इत्यमरः । अत एवोक्तं स्वयम् एव ।

किं विधत्ते किमाचष्टे किमनूदा विकल्पयेत् ।
इत्यस्य हृदयं लोके नान्यो मद्-वेद कश्चन । इति ।

स तद्-वस्तु अध्यवस्यत् सर्व-वेद-प्रतिपाद्यत्वेन निश्चिकाय । यत आत्मनि स्वस्मिन्न् अतिः प्रेमा भवेत् । प्रेम्णो हि प्रथमावस्था रतिः । सन्दर्भस्तु—स हि भक्ति-योगः सर्व-वेद-सिद्ध इत्य् आह—भगवान् इति । भगवान् ब्रह्मेति स्वामिवत् । अत्राप्य् उपसंहारानुरोधेनात्म-शब्दस्य हरि-वाचकता । निरुक्तञ् च । आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इति । अतोऽग्रे विश्वनाथवदि-द्वितीयोऽर्थः विशेषस् तु निगद-कृद् उपजह्रे भृङ्ग-गवद् वेद-सारम् इति शुकोक्तिर् एव ॥३४॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एव पन्थानं ब्रह्मापि निश्चितवान् इत्य् आह—भगवान् इत्य्-आदि। कार्त्स्न्येन श्री-नारायणो ब्रह्म वेदम् अन्वीक्ष्य भगवता कथितं वेदं पुनः पुनर् आलोक्य, मयादौ ब्रह्मणे प्रोक्तो धर्मो यत्र मद्-आत्मकः [भा।पु। ११.१४.३] इति वक्ष्यमाणो यो वेदः, **अध्यवस्यन् **निश्चितवान्, इयम् एव पन्थानम् इत्य् अर्थः । अतः केवलम् अहम् एव निश्चिनोमीति न, स-प्रमाणम् एवैतद् इति भावः । कोऽसौ पन्थाः ? यत आत्मन् आत्मनि श्री-कृष्णे रतिर् भवेत् । यद् वा, हे आत्मन् ! आत्मीय-रतिर् भवेत् ॥३४॥

सनातन-गोस्वामी- [ह।भ।वि। ११.५६७] अतस् तद् आह—भगवान् ब्रह्मा । कूटस्थो निर्विकारः, एकाग्र-चित्तः सन्न् इत्य् अर्थः । त्रिस् त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदम् अन्वीक्ष्य विचार्य । **यत आत्मनि **हरौ रतिर् भवेत्, तद् एव मनीषया अध्यवस्यत् सन्-मार्गत्वेन सद्-वस्तुत्वेन वा निश्चितवान् । एवं रति-हेतुत्वेन भक्ति-योगस्यैव सन्-मार्गत्वं दर्शितम् । यद् वा, कार्य-कारणयोर् अभेद-विवक्षया रतिर् एव भक्ति-योग इत्य् अभिप्रेतम् । यद् वा, यतो भक्ति-योगात्, तद् इति तम् इति भक्ति-योग-माहात्म्यम् उक्तम् ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स हि भक्ति-योगः सर्व-वेद-सिद्ध इत्य् आह—भगवान् इति । टीका च—

भगवान् ब्रह्मा । कूटस्थो निर्विकारः, एकाग्र-चित्तः सन्न् इत्य् अर्थः । त्रिस् त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदम् अन्वीक्ष्य विचार्य । **यत आत्मनि **हरौ रतिर् भवेत्, तद् एव मनीषया अध्यवस्यत् निश्चितवान् इत्य् एषा ।

त्रिर् अन्वीक्ष्य इति कर्म-ज्ञान-भक्ति-प्रतिपादकतया अभिप्रेत्येति ज्ञेयम् । अत्राप्य् उपसंहारानुरोधेनात्म-शब्दस्य हरि-वाचकता । निरुक्तं च—आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इति ।

अथवा, परम-वेद-विदा स एव मत इत्य् आह—भगवान् स्व-प्रकाश-सार्वज्ञ्यादि-गुणः परमेश्वरोऽपि सर्व-वेदाभिधेय-साराकर्षण-लीलार्थं त्रिर् अन्वीक्ष्य तत्र शास्त्र-विद्-अन्तराणाम् ईक्षणम् अनुकृत्य, अनन्त-वैकुण्ठ-वैभवादि-मयानाम् अनन्त-विरिञ्च-पाठ्य-भेदानां वेदानां तथेक्षणं च तेनैव सम्भवतीत्य् आह—कूटस्थ एक-रूपतयैव काल-व्यापी [अमरः] इति । अत एवोक्तं स्वयम् एव—

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ [भा।पु। ११.२१.४२] इति ।

श्री-शुकेन च—निगम-कृद् उपजह्रे भृङ्गवद् वेद-सारं [भा।पु। ११.२९.४९] इति ॥३४॥ [भक्ति-सन्दर्भ २९]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वं मनीषया सर्व-सारत्वेन स्वाभिमतत्वेन चेमम् एव पन्थानं निश्चिनोषि, अन्यं वा ? तत्र ममान्यस्य वा का कथा ? भगवान् एव स्व-मनीषया प्रथमम् एव निरनेइषीद् एवेत्य् आह—भगवान् स्व-प्रकाश-सार्वज्ञ्यादि-गुणः परमेश्वरोऽपि स्व-निश्वासोद्भूतं ब्रह्म वेदम् । क्आर्त्स्न्येन त्रिर् अन्वीक्ष्य **इति यथान्ये मुनयः शास्त्रं द्वि-त्रिर् अन्वीक्ष्यैव तत्-तात्पर्यं पर्यालोचयन्ति, तथैव स मुनिर् भूत्वा समचिन्तयत् इति श्रुतेर् भगवान् अपि मुनि-लीलत्वेनैव सर्व-वेदाभिधेय-साराकर्षण-लीलया वेदार्थानां दुर्ज्ञेयत्वं लोके व्यञ्जयन् त्रिर् विचार्येत्य् अर्थः ।

अनन्त-वैकुण्ठ-वैभवादि-मयानाम् अनन्त-विरिञ्चि-पाठ्य-भेदानां वेदानां तथेक्षणं च तेनैव सम्भवतीत्य् आह—कूटस्थः । काल-व्यापी स कूटस्थ एक-रूपतयैव यः इत्य् अमरः । अत एवोक्तं स्वयम् एव—

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ [भा।पु। ११.२१.४२] इति ।

स तद् वस्तु अध्यवस्यत् सर्व-वेद-प्रतिपाद्यत्वेन निश्चिकाय, यत आत्मनि स्वस्मिन् रतिः प्रेमा भवेत् । प्रेम्णो हि प्रथमावस्था रतिः ॥३४॥

———————————————————————————————————————

॥ २.२.३५ ॥

भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हरिः ।
दृश्यैर् बुद्ध्य्-आदिभिर् द्रष्टा लक्षणैर् अनुमापकैः ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **लक्षितश् चास्मिन् पुराणे बुद्ध्य्-आदीनां पारवश्य-दर्शनाद् अन्यो नियन्तास्तीति ।

समाधाव् असमाधौ च निःस्वतन्त्रस्य देहिनः ।
अन्यो नियन्ता भगवान् वासुदेवः परः प्रभुः ॥ इति ब्रह्म-तर्के ॥३५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् अनुभूतेऽर्थे रतिर् भवति, अननुभूते तु भगवति कथं रतिः स्यात् ? तत्राह—भगवान् लक्षितो दृष्टः । कथम् ? स्वात्मना क्षेत्र-ज्ञान्तर्यामितया । कैः ? दृश्यैर् बुद्ध्य्-आदिभिः । तद् एव द्वेधा दर्शयति—दृश्यानां जडानां दर्शनं स्व-प्रकाशं द्रष्टारं विना न घटत इत्य् अनुपपत्ति-मुखेन लक्षणैः27 स्व-प्रकाशान्तर्यामि-लक्षकैः। तथा बुद्ध्य्-आदीनि कर्तृ-प्रयोज्यानि, करणत्वाद् वास्यादिवद् इति व्याप्ति-मुखेन अनुमापकैः । स्वतन्त्रश् च कर्तेत्य् एवम् ईश्वर-सिद्धिः ॥३५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आत्मनीति भगवत आत्मत्वं दर्शयति—भगवान् इत्य्-आदि । कथं लक्षितः ? स्वात्मना स्वस्यान्तर्यामि-रूपेण स्थितेनांशेनान्तर्यामिणोऽपि प्रेरकेण । दृश्यैर् बुद्ध्य्-आदिभिर् अनुमापकैर् गुणैः, यतोऽसौ द्रष्टा ॥३५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नन्व् इतरेषां तावत् कथं तस्मिन् भगवति आस्तिक्य-बुद्धिः स्यात्? तत्राह—भगवान् इति । स्वात्मना स्व-चित्तेन प्रथमं द्रष्टा जीवो लक्षितः । कैः ? दृश्यैर् बुद्ध्य्-आदिभिः । तद् एव द्वेधा दर्शयति—दृश्यानां जडानां बुद्ध्य्-आदीनां दर्शनं स्व-प्रकाशं द्रष्टारं विना न घटत इत्य् अनुपपत्ति-द्वारा लक्षणैः स्व-प्रकाश-द्रष्टृ-लक्षकैः, तथा बुद्ध्य्-आदीनि कर्तृ-प्रयोज्यानि करणत्वाद् वास्यादिवद् इति व्याप्ति-द्वारा अनुमापकैर् इति ।

अथ भगवान् अपि लक्षितः । केन ? सर्व-भूतेषु सर्वेषु तेषु द्रष्टृषु प्रविष्टेन स्वात्मना स्वांश-रूपेणान्तर्यामिणा । आदौ सर्वैर् द्रष्टृभिर् अन्तर्यामी लक्षितः, ततस् तेन भगवान् अपि लक्षित इत्य् अर्थः । स तु28 पूर्ववत् द्विधैव लक्ष्यते । तथा हि—कर्तृत्व-भोक्तृत्वयोर् अस्वातन्त्र्य-दर्शनात् कर्मणो जडत्वात् सर्वेषाम् अपि जीवानां तत्र तत्र प्रवृत्तिर् अन्तः-प्रयोजक-विशेषं विना न घटत इत्य् अनुपपत्ति-द्वारान्तर्यामी लक्ष्यते—एष ह्य् अनेनात्मना चक्षुषा दर्शयति, श्रोत्रेण श्रावयति, मनसा मानयति, बुद्ध्या बोधयति, तस्माद् एताव् आहुः—सृतिर् असृतिः इति भाल्लवेय-श्रुतिश् च ।

अथ तस्मै चान्तर्यामित्वैश्वर्याय तेषु यदि सर्वांशेनैव प्रविशति कोऽपि परस् तदा स्वतः-पूर्णत्वाभावाद् अनीश्वरत्वम् एव स्याद् इत्य् अनुपपत्ति-द्वारान्तर्यामि-रूपेण तस्यांशेन भगवान् अपि लक्षितः । अत एव गीतोपनिषत्सु—

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ [गीता १०.४२] इति ।

विष्णु-पुराणे च—स्व-शक्ति-लेशावृत-भूत-सर्गः [वि।पु। ६.५.८४] इति । तथा जीवाः प्रयोजक-कर्तृ-प्रेरित-व्यापाराः, अस्वातन्त्र्यात् । तक्षादि-कर्म-कर-जनवद् इत्य् एवम् अन्तर्यामिणि तत्त्वे व्याप्ति-द्वारा सिद्धे, पुनस् तेनैव भगवान् अपि साध्यते । तुच्छ-वैभव-जीवान्तर्यामि-स्वरूपम् ईश्वर-तत्त्वं निजांशि-तत्त्वाश्रयं तथैव पर्याप्तेः । राज-प्रभुत्वाश्रित-तक्षकादि-कर्म-कर प्रयोजक-प्रभुत्वादिवद् इति ।

अथवात्र,

यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ [भा।पु। ३.३२.३३]

इत्य् एवोदाहरणीयम् । अनेनैव गति-सामान्यं च सिध्यतीति ॥३५॥ [परमात्म-सन्दर्भ ११०]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सा च रतिः । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टं [भा।पु। ३.२५.३८] इति भगवद्-वाक्येनाग्रे प्रतिपादयिष्यमाणा शान्ति-प्रीति-सख्य-वात्सल्य-प्रियताभिधाना पञ्च-विधा भवन्ति । तत्र प्रथमं शान्त्य्-आख्यया रतेर् असाधारण्येन प्रकारं विषयालम्बनं च दर्शयति—भगवान् इति । स्वात्मना स्वस्य जीवस्यात्मना अन्तर्यामिणैव, स्वस्मिन्न् एव सर्व-भूतेषु सर्व-व्यापकत्वात् तद्-अंशी भगवान् हरिः लक्षितः शान्त-भक्तैर् अनुभव-गोचरी-कृत इत्य् अर्थः । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति भगवद्-उक्तेः ।

ननु जीव एव कथं लक्षयितव्यः ? तत्राह—दृश्यैः बुद्ध्य्-आदिभिर् हेतुभिर् द्रष्टा जीवो लक्षितः, दृश्यानां जडानां बुद्ध्य्-आदीनां दर्शनं हि चेतनं द्रष्टारं विना न सम्भवेतित्य् अनुपपत्ति-मुखेन, तथा बुद्ध्य्-आदीनि कर्तृ-प्रयोज्यानि करणत्वाद् वास्यदिवतिति व्याप्ति-मुखेन चानुमितः । तथा अनुमापयन्ति यानि लक्षणानि चिह्नानि तैर् द्रष्टा अन्तर्यामी च लक्षितः । तानि च सर्वस्यापि जीवस्य कर्तृत्व-भोक्तृत्वयोर् अस्वातन्त्र्यं, तथा कर्म-साम्येऽपि फल-तारतम्यं, क्वचित् फलाभावश् चेत्य् आदीनि ज्ञेयानि । तथा हि—जीवाः प्रयोजक-कर्तृ-स्वामिकाः अस्वातन्त्र्यात् यथा-योग्य-स्वामि-दत्त-कर्म-फल-तारतम्य-तद्-अभाववत्त्वाच् च तक्षादि-कर्मक-रजनवत् इति ॥३५॥

———————————————————————————————————————

॥ २.२.३६ ॥

तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नृणाम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यस्माद् भगवतैष एवोक्तस् तस्मात् स एव श्रोतव्यादिः ॥३६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यच् छ्रोतव्यम् इत्य् आदि-प्रश्नोत्तरम् उपसंहरति—तस्माद् इति ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । तद् एव लक्षितत्वम् एव । सन्दर्भः । अथ भगवान् अपि लक्षितः केन सर्व-भूतेषु सर्वेषु तेषु द्रष्टृषु प्रविष्टेन स्वात्मना स्वांश-रूपेण तस्माद् एकेन मनसा भगवान् सात्वतां पतिः ॥ श्रोतव्यः कीर्तितव्यश् च इत्य् अनेनैक-वाक्यत्वाच् छ्रोतव्य इति प्राधान्यात् श्रवण-कीर्तन-स्मरणान्य् उक्तानि पाद-सेवनादीन्य् अपि ज्ञेयानि ॥३६॥

———————————————————————————————————————

हेमाद्रि (कैवल्य-दीपिका-टीका) : तस्माद् इति । तस्माद् यस्माद् भक्ताव् एव वेदस्य तात्पर्यम् । सर्वात्मना सर्वावस्थेनापि सर्व-देशेषु सर्व-कालेषु च ॥३६॥ [मु।फ। ७.९७]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहरति—तस्माद् इत्य्-आदि । भगवान् श्री-कृष्णः ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ किं तत् यतस् तत्र रतिः स्यात् तथैव यच् छ्रोतव्यम् इत्य् आदि-प्रश्नस्योत्तरत्वेनोपसंहरति—तस्माद् इति । च-कारात् पाद-सेवादयोऽपि गृह्यन्ते ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्ति-योगो यतो भवेत् इत्य् अत्र, रतिर् आत्मन् यतो भवेत् इत्य् अत्र च यत्-पद-वाच्यं साधनम् आह—तस्माद् इति । यस्मान् न ह्य् अतोऽन्यः शिवः पन्थास् तस्माद् इत्य् अर्थः । यस्मात् सर्व-भूतेषु भगवान् लक्षितस् तस्माद् इति वा । सर्वत्र सर्वदेति । नात्र देश-काल-नियमोऽपेक्षितव्य इत्य् अर्थः । सर्वेणैवात्मना मनसा न च क्वचन मनो-वृत्तौ ज्ञान-कर्माद्य्-अपेक्षणीयम् इति भावः ।

तस्माद् एकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥ [भा।पु। १.२.१४]

इत्य् अनेनैक-वाक्यत्वात् श्रोतव्य इति प्राधान्यात्, श्रवण-कीर्तन-स्मरणान्य् उक्तानि पाद-सेवनादीन्य् अपि ज्ञेयानि ॥३६॥

———————————————————————————————————————

॥ २.२.३७ ॥

पिबन्ति ये भगवत आत्मनः सतां

कथामृतं श्रवण-पुटेषु सम्भृतम् ।

पुनन्ति ते विषय-विदूषिताशयं

व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्रवणादि-फलम् अभिनयेनाह—पिबन्तीति । सताम् आत्मन आत्मत्वेन प्रकाशमानस्य कथैवामृतम्विषयैर् विदूषितं मलिनीकृतम् आशयं पुनन्ति शोधयन्ति । तस्य चरण-पद्मान्तिकं श्री-विष्णु-पदं व्रजन्ति ॥३७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रीतादि-चतुर्-विधाया रतेः साधारण्येनानुभावम् एव प्रेम्णः साधनं वदंस्तत् फलम् अपि दर्शयति । आत्मनः स्वस्य यो भगवान् उपास्यस्तस्य नारायणस्य रामस्य कृष्णस्य वा कृष्णस्यापि स्वीय-भावानुरूपस्य बालस्य पौगण्डस्य किशोरस्य वा कथामृतं तथा तादृशस्य तस्य सतां भक्तानां नारदादीनां हनुमदादीनां नन्दादीनां श्री-दामादीनां गोपालादीनां च कथामृतं पिबन्तीत्य् अनेन तत्-कतृणां जातरतित्वं व्यञ्जितं तथात्वं एव माधुर्योपलम्भेन पानपद-प्रयोग-सिद्धेः । अजातरतीनां तु तस्मात् सर्वात्मना इत्य् अनेन श्रवण-कीर्तनादीनि रतेः साधनान्युक्तान्य् एव । आशयम् अन्तःकरणं पुनन्ति क्षालयन्तीत्य् अननुसंहितं फलं व्रजन्ति साक्षात् सेवितुम् इत्य् अनुसंहितं फलम् इति । अतः पृच्छामि संसिद्धम् इति प्रश्नस्योत्तरम् उक्तम् । सन्दर्भस् तु सताम् इति व्यधि-करणषष्ट्या सतां स्वस्य यो भगवांस्तस्येत्य् अर्थः । तेषां भगवति स्वामित्वेन ममतास्पदत्वात् पुनन्तीत्यनेन पूर्वोक्त-स्थूल-धारण-मार्गश् च परिहृतः भक्ति-योगस्य स्वतः पावनत्वादलं तत्-प्रयासेनेति । अत्र कथामृतं प्रशस्यमानं श्री-भागवताख्यम् एव मुख्यं यस्यां वै श्रूयमाणायाम् इत्य्-आदिकं च तथैवोक्तम् ॥३७॥

इति श्री-भागवत-भावार्थ-दीपिका-प्रकाशे द्वितीय-स्कन्धे द्वितीयोऽध्यायः ॥२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **रत्य्-उत्पत्तिम् एव श्रवण-प्राधान्येन दर्शयन् तन्-महिम-पराकाष्ठाम् आह—पिबन्तीति । सताम् आत्मनः प्राणेश्वरस्य । यद् वा, व्यधिकरणे षष्ठी सताम् आत्मनः स्वस्य यो भगवांस् तस्येत्य् अर्थः, तेषां भगवति स्वामित्वेन ममतास्पदत्वात् । अत्र कथामृतं प्रक्रम्यमाणं श्री-भागवताख्यम् एव मुख्यम्, यस्यां वै श्रूयमाणायाम् [भा।पु। १.७.७] इत्य्-आदिकं च तथैवोक्तम् इति ॥३७॥ [परमात्म-सन्दर्भ १०८]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्तेः श्रैष्ठ्यं दर्श्यते तत्-फलम् आह—पिबन्तीत्य्-आदि । व्रजन्ति तच्-चरण-सरोरुहम् इत्य् अनेन भक्तेः फलं भगवच्-चरण-फल-प्राप्तिर् एव ॥३७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रीत्य्-आदि-चतुर्विधाया रतेः साधारण्येनानुभावम् एव प्रेम्णः वदन् तत्-फलम् अपि दर्शयति—आत्मनः स्वस्य यो भगवान् उपास्यः तस्य नारायणस्य रामस्य कृष्णस्य वा कृष्णस्यापि स्वीय-भावानुरूपस्य बाल्यस्य पौगण्डस्य किशोरस्य वा कथामृतं, तादृशस्य तस्य सतां भक्तानां नारदादीनां हनूमद्-आदीनां नन्दादीनां श्रीदामादीनां गोप-बालादीनां च कथामृतं पिबन्तीत्य् अनेन तत्-कर्तॄणां जात-रतित्वं व्यञ्जितं, तथात्वे एव माधुर्योपलम्भेन पान-पद-प्रयोग-सिद्धेः । अजात-रतीनां तु—तस्मात् सर्वात्मना [भा।पु। २.२.३६]इत्य् अनेन श्रवण-कीर्तनादीनि रतेः साधनान्य् उक्तान्य् एव । आशयम् अन्तः-करणं पुनन्ति क्षालयन्तीत्य् अननुसंहितं फलं, व्रजन्ति साक्षात् सेवितुम् इत्य् अनुसंहितं फलम् इति, अतः पृच्छामि संसिद्धिं [भा।पु। १.१९.३७] इत्य् अस्य प्रश्नस्योत्तरम् उक्तम् ॥३७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वितीयेऽत्र द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे
महापुरुष-संस्थानुवर्णनं नाम
द्वितीयोऽध्यायः ।

॥२।

———————————————————————————————————————

(२.३)


  1. श्रुतौ तु “अङ्गुष्ठ-मात्रं पुरुषं मध्य आत्मनि संस्थितं” [क।उ। २.१.१२] इत्य् उक्तम् । उभयत्र हृदय-कमलापेक्षया व्यापकस्यैव सूक्ष्मत्वं विवक्षितम् । ↩︎

  2. ‘स्निग्धामलैःऽ इति पाठः । ↩︎

  3. एवंविधम् ईश्वरं यावद् धारणया मनोऽवतिष्ठते निश्चलं भवेत् तावद् ईक्षेतोपासीतेत्य् अर्थः । ↩︎

  4. धीः शुध्यति विषय-लाम्पट्यं त्यजतीति वा ↩︎

  5. पाणिनि ५.३.५७। ↩︎

  6. शुद्धे आत्मन्य् अन्तर्यामिणि । अथ वा शुद्धे शोधितत्वं पदार्थे । ↩︎

  7. शुद्धे ब्रह्मणि शोधित-तत्-पदार्थे । ↩︎

  8. अनिमिषाम् इति मिष-धातोः क्विब्-अन्तस्येदं रूपम् । ↩︎

  9. जगताम् इति कर्मणि षष्ठी । जगन्ति स्व-स्व-कार्ये प्रवर्तयाम् आसुः । ↩︎

  10. बृहद्-आरण्यकोपनिषद् २.६.६ ↩︎

  11. अत्र ब्रह्म-प्राप्ति-प्रकारं वक्तुं तावद् देहाद् उत्क्रान्ति-प्रकारम् आह इति, यद् अन्त-काले इति कर्तव्यम् उक्तं तद् उपसंहरति इत्य् अवतरणे क्वचित् । ↩︎

  12. “सकाशात्” इति पाठः । ↩︎

  13. नाभ्य्-आदिष्व् इति । अत्र परोक्तेषु मणिपूरानाहत-विशुद्ध-तालुमूलाज्ञा-चक्र-ब्रह्मरन्ध्रेष्व् इत्य् अर्थः । ↩︎

  14. योग-दर्शनं १.३-४। ↩︎

  15. ‘सप्तायतनानिऽ इति पाठः । ↩︎

  16. परमेष्ठिनो ब्रह्मणः स्थानम् । ↩︎

  17. अर्चिरादि-मार्ग-प्राशस्त्यं धूम-मार्गं चानुपादेयत्वेनोक्त्वार्चिरादि-मार्गं दर्शयति । सिद्धां। ↩︎

  18. कल्कः पापं स च पुण्यस्याप्य् उपलक्षणंऽतदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैतिऽइत्य् अथर्वणे श्रवणात् । ↩︎

  19. चक्रं शैशुमारं । ↩︎

  20. आविष्ट-लिङ्गत्वाद् इति । अजहल्-लिङ्गत्वाद् इत्य् अर्थः । ↩︎

  21. अथो लीला-गृहीत-शरीरेण तद्-भोगानन्तरम् । क्रम॥ ↩︎

  22. प्रतिपद्येत्य् आदीनां अग्रिम-श्लोक-स्थेन प्राणेनाकूतिम् उपैतीत्य् अनेनान्वयः । ↩︎

  23. स्वगुण-भूतेनेति भावः । ↩︎

  24. घ्राण-द्वारा गन्धम् आविश्येत्य् अर्थः । एवम् उत्तरत्रापि । ↩︎

  25. अहंकारः महत्-तत्त्वे प्रविलापयतीत्य् अर्थः । ↩︎

  26. गुणाः सन्निरुध्यन्ते येन तद् इति वा । महत्-तत्त्वं प्रधाने प्रविलापयतीत्य् अर्थः । ↩︎

  27. लक्षयन्तीति लक्षणानि वेद-वाक्यानि—सत्यं ज्ञानम् अनन्तं, यतो वा इमामि भूतानि इत्य् आदीनि तैः । ↩︎

  28. स च स च इति परमात्म-सन्दर्भे पाठः। ↩︎