विषयः
शुकप्रवचनम्— तत्रादौ ध्यानविधिः, भगवतो विराड्रूपस्य वर्णनं च ।
॥ २.१.१ ॥
श्री-शुक उवाच—
वरीयान् एष ते प्रश्नः कृतो लोक-हितं1** नृप ।**
आत्मवित्-सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यः पर इति ॥१॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **
श्री-गणेशाय नमः ।
द्वितीये2 तु दशाध्यायैः श्री-भागवतम् आदितः ।
उद्देश-लक्षणोक्तिभ्यां3 सङ्क्षेपेणोपवर्ण्यते ॥इ॥
तत्र तु प्रथमेऽध्याये कीर्तन-श्रवणादिभिः ।
स्थविष्ठे भगवद्-रूपे मनसो धारणोच्यते ॥इइ॥
यन्-नाम-कीर्तनं दान-तपो-योगादि-सत्-फलम् ।
तं नित्यं परमानन्दं हरिं नर नम स्मर ॥इइइ॥
अथ द्वितीय-स्कन्ध-व्याख्या ।
उक्तः पूर्वम् उपोद्घातः4 सप्रसङ्गः शुकागमः ।
राज्ञा पृष्टं नॄणां कृत्यम् अथाह शुक-सन्-मुनिः ॥इव्॥
राज्ञः प्रश्नम् अभिनन्दति—वरीयान् इति । ते त्वया । पुंसां श्रोतव्यादिषु5 मध्ये यः परः श्रेष्ठ-गोचरः प्रश्नः कृत एष वरीयान् । यतो लोक-हितम् एतत्, मोक्ष-हेतुत्वात् । आत्म-विदां मुक्तानां च संमतो यतः ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **
ॐ स्वस्ति
श्री गणेशाय नमः ।
वन्देऽहं पार्वती-सूनुं सर्व-विघ्नोपशान्तये ।
श्री-गुरून् सर्वतो नत्वारम्भे टीकां मनोहराम् ॥१॥
ब्रह्मर्षीणां समाजे यो राजानं च परीक्षितम् ।
गङ्गा-तटे समुद्धर्तुं शुक-रूपेण केशवः ॥२॥
समाजगाम सच्छास्त्रोपदेशेन स्वयं हरिः ।
तं वन्देऽभीप्सितार्थाप्त्यै नन्द-सूनुं जगद्-गुरुम् ॥३॥
अधुना द्वितीय-स्कन्ध-प्रकाशः क्रियतेतराम ।
गिर गुरुं च सन्ध्या मनं तथा ॥४॥
अत्र श्री-शुकागमनाहादविस्मृत-स्वेष्ट-प्रणतिः श्रीधराचार्योऽध्याय-गणना-पुरःसरं व्याख्यातुम् आरभते । द्वितीये विति । नाम-मात्रेण वस्तु-सण्कीर्तनम्-उद्देशः सण्कीर्तन त्व् अम्-उद्देशत्वम्-इत्य्-उक्ते ताल्वोष्ठपुट-व्यापारेणोच्चारणं सण्कीर्तनम् । इह वंशे पाटयमाने दलद्वय-विभाग-जन्य-चटचट-शब्देऽतिव्याप्ति-वारणाय सम्पदम् । काकरवेऽतिव्याप्ति-वारणाय नाम-पदम् । लक्षण-वाक्येऽतिव्याप्ति-वारणाय मात्र-पदम् । बन्ध्यात्मजेऽतिव्याप्ति-वारणाय पदार्थ-पदम् । असाधारण-धर्मो लक्षणम् । असाधारणत्वं नाम लक्ष्यतावच्छेदक-समनियतत्वम्, लक्ष्यतावच्छेदक-समनियतत्वं नाम लक्ष्यतावच्छेदक-व्याप्यत्वे सति लक्ष्यतावच्छेदक-व्यापकत्वम् यथा-गन्धवत् त्वं पृथिव्या लक्षणं लक्ष्या पृथिवी लक्ष्यता पृथिव्यां लक्ष्यतावच्छेदकं पृथिवीत्वं यत्र यत्र गन्धवत्त्वं तत्र तत्र पृथिवीत्वम् इति कृत्वा गन्धे लक्ष्यतावच्छेदक-व्याप्यत्वम् अस्ति एवं यत्र यत्र लक्ष्यतावच्छेदकं पृथिवीत्वं तत्र तत्र गन्ध इति कृत्वा गन्धे लक्ष्यतावच्छेदक-व्यापकत्वम् अप्य् अस्तीति व्याप्यस्य वचनं पूर्वं व्यापकस्य ततः परम् इत्य्-उक्तेर् गन्धवत्त्वपृथिवीत्वयोर् व्याप्यव्यापकत्वम् अनुसन्धेयम् । तथा च इदं श्री-भागवतम् इति कथनम्-उद्देशः । असाधारण-धर्मोऽत्र सर्गादि-दशकम् एव न ज्ञेयस् तस्यान्यत्रापि महापुराणे विद्यमानत्वात् । किं तु हयग्रीव-ब्रह्म-विद्यादिर् एव तस्यैवासाधारण-धर्मत्वात् । यद्य् अप्य् अत्र तन्नोक्तं तथापि बीज-भूत-भगवद्-उपदिष्ट-चतुःश्लोक्यां तद् अस्त्य् एव वटकणिकायां वट इव तच् च श्री-गुरु-प्रसादं विना दुर्ज्ञेयं—
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३]
इति श्वेताश्वतरोक्तेः । यथा हि भगवान् एव वस्तुतः सद् असच् च यत् इत्य्-आदि हयग्रीव-ब्रह्म-विद्या, अहम् एवासम् एवाग्रे नान्यद् यत् सद्-असत्-परम् [भा।पु। २.९.३२] इत्य् अनेन यथा कथञ्चिद् असूचि गायत्र्या ब्रह्म-विद्या-रूपत्वेन तेनारम्भोऽप्य् असूच्य् एव । तमाः-शब्देन वृत्र-वधाद्य् अप्य् असूचि तमसा त्वाष्ट्र-मूर्तिना इत्य् अत्र तमः-शब्दस्य वृत्रे प्रयुज्यमानत्वात् । तमो राहुर् यथास्त्य् अपि न प्रतीयेत इत्य् अनेन तद्-वधो ध्वनितः । अप्रतीतिर् हि नष्टस्यैव वस्तुनो भवतीत्य् अलम् अपूर्व-विचारेण । अल्पाक्षरैर् बह्व्-अर्थाभिधानं संक्षेपः ॥१॥
तत्र दशाध्यायेषु आदिनामननग्रहः ॥२॥
पुनरागत-स्मृतिः श्रीधरो मङ्गलं वस्तुनिर् देशात्म-कमाचरति । यन् नामेति । दानं च तपश् च योग आदिर् यस्य तीर्थ-यात्रादेस् सयोगादिश् च तेभ्यः सच्छ्रेष्ठं फलं यस्य । तत् तथा-गो-कोटि-दानं ग्रहणेषु काशी प्रयाग-गङ्गा-युत-कल्प-वासः । यज्ञा-युतं मेरु-सुवर्ण-दानं गोविन्दनाम-स्मरेण तुल्यम्॥ इति पाण्डव-गीतोक्तेः । हे नरेति स्वात्मानम्-उद्दिश्योक्तं तं नम नमस्कुरु स्मर चेत्यन्वयः ॥३॥ वर्णनीयमर्थं मनसि निधाय तद्-अर्थम्-अर्थान्तर-कल्पनम्-उपोद्धातः उपोद्धात-रूपः । अथ शुकश् चासौ सन्-मुनिश् चेति तथा कृत्यम्-अन्तकृत्यम् ॥४॥ आदिना मन्तव्यादि-ग्रहः । श्रेष्ठः श्री-कृष्णः गोचरो विषयो यस्य स श्रेष्ठ-गोचरः ।
अत्र [कृष्ण-]सन्दर्भः । अपि मे भगवान्-प्रीतः कृष्णः पाण्डु-सुत-प्रियः इत्य्-आदिना श्री-कृष्ण एव स्व-रतिं राजा ध्रियमाणां श्रोतव्यादि-प्रश्नेनैवान्त-काले श्री-कृष्ण एव मय्य् उपदिश्यताम् इति राजाभिप्रायानन्तरं श्री-शुक उवाच—वरीयान् इति । ते त्वया पुंसां श्रोतव्यादिषु मध्ये यः परः श्री-कृष्ण-कथा-श्रवणाभिप्रायेण परमः प्रश्नः कृत एष तु वरीयान्6 सर्वावतारावतारि-प्रश्नेभ्यः परम-महान् । स च लोकहितं यथा स्यात् तथैव कृतः त्वं तु तथाभूत-श्री-कृष्णैक-निर्बद्ध-प्रेमत्वात् कृतार्थं एवेति भावः । तद् उक्तम् । वैयासकेर् इति वचस् तत्त्व-निश्चयम्-आत्मनः ॥ उपधार्य मतिं कृष्ण औत्तरेयः सतीं व्यधात् इति सती विद्यमाना श्री-कृष्णे या मतिस्ताम् एव विशेषेण धृतवान् इत्य् अर्थः । एतद् एव व्यक्ती-करिष्यते राजा हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गलाः । कथयस्व महाभाग यथाहम् अखिलात्मनि ॥ कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् इति एवम् एव कथितो वंश-विस्तारः इत्य्-आदि । अनन्तर सम्यग्-व्यवसिता बुद्धिः इत्य्-आदि । पूर्वं मया नानावतारादि-कथाभिर् अभिनन्दितस्यापि या श्रीमद्-वसुदेव-नन्दनस्यैव कथायां नैष्ठिकी स्थायि-रूपा रतिर् जाता एषा बुद्धिस् तु सम्यग्-व्यवसिता परम-रस-विदग्धेत्य् अर्थः । यद् वा, यः प्रश्नोऽपि श्रोतव्यादिषु परः यस्य प्रश्नस्य श्रवणादौ परम-पुरुषार्थः । विश्वनाथः—पूर्व-स्कन्धाते ततः पृच्छामि संसिद्धिम् इति पुरुषस्येह यत् कृत्यम् इति वाक्याभ्यां सम्य-सिद्धिः कात्र साधनं च किम् इति तत्रापि श्रव्यजप्यादिकं किन् तथैवाश्रव्याजप्यादिकं च किम् इति राज्ञः प्रश्नम्-अभिनन्दति । वरीया श्रेष्ठस्ते त्वया कृतः एष प्रश्न एव लोकानां हितं न चायं प्राकृतः प्रश्न इत्य् आह–आत्म-विदामेषां युष्मत्सभोपविष्टानां संमतः एतद् अर्थम् एवैतेषाम् अत्रागमनाद् इति भावः । यतः श्रोतव्यादिष्व् इति सतां प्रश्नोऽपि श्रूयते कीर्त्यते स्मर्यते इत्यतः श्रोतव्यादिषु प्रश्नेषु मध्ये यः प्रश्नः पर इतोऽन्यस्योत्कृष्टस्याभावात्सर्वान्तिमः । इमं प्रश्नम् एव श्रुत्वा कीर्तयित्वा स्मृत्वा पुमांसः सर्वतोऽप्य् अति-कृतार्था भवन्ति । पुनर् एतत् प्रश्नस्योत्तरं मया दत्तं श्रुत्वा त्वं कृतार्थी भविष्यतीति भविष्यसीति भावः । इत्थम् एवाग्रे वक्ष्यते—
वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि ॥
वक्तारं पृच्छकं श्रोतृस्तत्पाद-सलिलं यथा॥ [भा।पु। १०.१.१६] इति नृपेति ।
लोकहित-करणेनैवं नृपत्वं सत्स्यतीति भावः ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **
द्वितीय-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
अथ द्वितीय-स्कन्धस्य क्रम-सन्दर्भः । अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः [भा।पु। १.१९.३५] इत्य्-आदिना श्री-कृष्ण एव स्व-रतिं व्यज्य म्रियमाणानां श्रोतव्यादि-प्रश्नेनैवान्त-काले श्री-कृष्ण एव मय्य् उपदिश्यताम् इति श्री-राजाभिप्रायानन्तरं श्री-शुक उवाच—वरीयान् एष इति ।
ते त्वया । पुंसां श्रोतव्यादिषु मध्ये यः परः श्री-कृष्ण-श्रवणाभिप्रायेण परमः प्रश्नः कृतः । एष तु वरीयान् । यद् वा, त्वया कृतः यः प्रश्नोऽपि श्रोतव्यादिषु परः । यस्य प्रश्नस्य श्रवणादौ परम-पुरुषार्थः सिध्यतीत्य् अर्थः । एष एव वरीयान् सर्वावतारावतारि-प्रश्नेभ्यः परम-महान् । स च लोक-हितं यथा स्यात् तथैव कृतः । त्वं तु तथाभूत-श्री-कृष्णैक-निबद्ध-प्रेमत्वात् कृतार्तह् एवेति भावः ।
वैयासकेर् इति वचस्-तत्त्व-निश्चयम् आत्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ [भा।पु। २.४.१] इति ।
अत्र सती विद्यमाना कृष्णे या मतिस् ताम् एव विशेषेण धृतवान् इत्य् अर्थः । एतद् एव व्यक्तीकरिष्यते राज्ञा—
हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गला ।
कथयस्व महाभाग यथाहम् अखिलात्मनि ।
कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् ॥ इति [भा।पु। २.८.२]
एवम् एव कथितो वंश-विस्तारः [भा।पु। १०.१.१] इत्य् आद्य्-अनन्तरं सम्यग्-व्यवसिता बुद्धिः [भा।पु। १०.१.१५] इत्य्-आदि । अत्र पूर्वं मया नानावतारादि-कथाभिर् अभिनन्दितस्यापि या श्रीमद्-वसुदेव-नन्दनस्यैव कथायां नैष्ठिकी स्थायि-रूपा रतिर् जाता, एषा बुद्धिस् तु सम्यग्-व्यवसिता परम-विदग्धेत्य् अर्थः । यद् वा, यः प्रश्नेऽपि श्रोतव्यादिषु परः । यस्य प्रश्नस्यापि श्रवणादौ परम-पुरुषार्थः सिध्यतीत्य् अर्थः ॥१॥ [कृष्ण-सन्दर्भ ५२-५३]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
गोप-रामाजन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
दशाध्याये द्वितीयेऽस्मिंश् चक्रे नारायणादितः ।
प्रवृत्तस्यास्य शास्त्रस्य प्रक्रमं व्यास-नन्दनः ॥
अध्यायैस् त्रिभिर् उत्कर्षो भक्तेर् एकेन संनतिः ।
हरेर् धातुर् नारदस्य संवादस् त्रिभिर् उच्यते ॥
प्रश्ना एकेन विष्णूपदेश एकेन धातरि ।
एकेन लक्षणान्य् अस्य दशेति स्कन्ध-सङ्ग्रहः ॥
तत्र तु प्रथमेऽध्याये यमाद्य्-अष्टाङ्ग-योगिनः ।
वैराज-मूर्तेः पाताल-पाद-मूलादि-धारणा ॥ओ॥
पूर्व-कन्धान्ते—अतः पृच्छामि संसिद्धिम् इति, पुरुषस्येह यत् कार्यं [भा।पु।
१.१९.३७] इति वाक्याभ्याम् । सम्यक् सिद्धिः का ? अत्र साधनं च किम् ? इति तत्रापि श्रव्य-जप्यादिकं किम् ? तत्रैवाश्रव्याजप्यादिकं च किम् ? इति राज्ञः प्रश्नम् अभिनन्दति । वरीयान् श्रेष्ठः । ते त्वया कृतः प्रश्न एवं लोकानां हितम् । न चायं प्राकृतः प्रश्नः इत्य् आह । आत्म-विदाम् एषां युष्मत्-सभोपविष्टानां संमतः । एतद्-अर्थम् एवैतेषाम् अत्रागमनाद् इति भावः । यतः श्रोतव्यादिष्व् इति सतां प्रश्नोऽपि श्रूयते कीर्त्यते स्मर्यते इत्य् अतः श्रोतव्यादिषु प्रश्नेषु मध्ये यः प्रश्नः परः । इतोऽन्यस्योत्कृष्टस्याभावात् सर्वान्तिमः । इमं प्रश्नम् एव श्रुत्वा कीर्तयित्वा स्मृत्वा पुमांसः सर्वोत्ऽप्य् अतिकृतार्था भवन्ति । किं पुनर् एतत्-प्रश्नस्योत्तरं मया दत्तं श्रुत्वा त्वं कृतार्थो भविष्यसीति भावः । इत्थम् एवाग्रेऽपि वक्ष्यते—
वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि ।
वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा ॥ [भा।पु। १०.१.१६] इति ॥१॥
———————————————————————————————————————
॥ २.१.२ ॥
श्रोतव्यादीनि राजेन्द्र नॄणां सन्ति सहस्रशः ।
अपश्यताम् आत्म-तत्त्वं गृहेषु गृह-मेधिनाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तावत् स्वाभाविक-क्रियाणाम् अनर्थ-हेतुत्वं वदन् ब्रूहि यद् वा, विपर्ययं [भा।पु। १.१९.३०] इत्य् अस्योत्तरम् आह—श्रोतव्यादीनीति त्रिभिः । गृहेषु सक्तानाम् अत एव गृह-मेधिनां तद्-गत-पञ्च-सूना-पराणाम्7 । मेधतिर् हिंसार्थः ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र तावत् द्वितीय-स्कन्धे आदौ भगवच्-चरण-प्राप्तिर् एव संसिद्धिः । तत्र कृत्यं तन्-नाम-लीला-श्रवण-कीर्तनाद्य् एव सर्वोत्कृष्टम् इत्य् अग्रे प्रतिपादयिष्यन् प्रथमं ब्रूहि यद् वा विपर्ययम् [भा।पु। १.१९.३०] इत्य् अस्योत्तरत्वेन कर्म-योगम् आह—**श्रोतव्यादीनि **इति ।
“आत्मनां तत्त्वं कवयः किं कुर्महे ? किम् उदर्को भविष्यामः ? कथं निस्तारं प्राप्नुम ?” इत्य् अपश्यतां किं तु गृहेषु सक्तानां मेधृ हिंसायाम् । राजेन्द्रेति । राज्ञाम् एव बहु-कार्याकुलत्वाद् आत्म-तत्त्व-ज्ञानं न भवति किम् उत राजेन्द्रस्येति भावः । पञ्च-सूनास् तु।
कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति । इति स्मृतेः ।
सूना वध-स्थानम् । यद् वा, आत्म-तत्त्वं भगवत्-तत्त्वम् । तस्माद् इत्य् उपसंहरिष्यमाणत्वात् । तद् अपश्यतां परम-श्रोतव्यत्वेनाजानताम् इत्य् अर्थः ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र भगवद्-आविर्भाव-मात्रस्य श्रवणादेर् आवश्यकत्वेन कैमुत्यम् आह—श्रोतव्यादीनीति चतुर्भिः । आत्म-तत्त्वं भगवत्-तत्त्वम् । तस्माद् इत्य् उपसंहरिष्यमाणत्वात् । तद् अपश्यतां परम-श्रोतव्यत्वेनाजानताम् इत्य् अर्थः ॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवच्-चरण-प्राप्तिर् एव संसिद्धिस् तत्र कृत्यं तन्-नाम-लीला-श्रवण-कीर्तनाद् एव सर्वोत्कृष्टम् इत्य् अग्रे प्रतिपादयिष्यन् प्रथमं—ब्रूहि यद् वा, विपर्ययम् इत्य् अस्योत्तरत्वेन कर्म-योगम् आह—श्रोतव्यादीनीति त्रिभिः । आत्मनां तत्त्वं—के वयम् ? किं कुर्महे ? किम् उदर्का भविष्यामः ? कथं निस्तारं प्राप्नुमः ? इत्य् अपश्यतां किन्तु गृहेषु सक्तानां गृह-मेधिनां गृह-गत-पञ्च-सूना-परायणानाम् । मेधृ हिंसायाम् ॥२॥
———————————————————————————————————————
॥ २.१.३ ॥
निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।
दिवा चार्थेहया राजन् कुटुम्ब-भरणेन वा ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अपश्यतां निद्रया ॥३॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तैश् च8 वृथैवायुर् व्ययो भवतीत्य् आह । नक्तं रात्रौ यद् वय आयुस् तन् निद्रया व्यवायेन रत्या वा ह्रियते । दिवा अह्नि यद् वयस् तद् अर्थार्थम् उद्यमेन, सिद्धेऽर्थे कुटुम्ब-पोषणेन वेति । च-काराव् अनुक्त-समुच्चयार्थौ ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तैः श्रोतव्यादिभिः । रत्येति । कर्मिणां स्त्री-सङ्गस्यानिषिद्धत्वात् कर्म-योगे कुटुम्ब-भरणस्य विहितत्वात् अप्य् अकार्य-शतं कृत्वा भर्तव्या मनुर् अब्रवीत् इत्य्-उक्तेः ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अतिप्राकृतानां तु निद्रयेत्य् आदि ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेषां वृथैवायुर् व्ययो भवतीत्य् आह । नक्तं यद् वयस् तन्-निद्रया ह्रियते इति। रात्रेः प्रायः कर्मानर्हकालत्वात् । व्यवायेन रमणेन वेति । कर्मिणां स्त्री-सङ्गस्यानिषिद्धत्वात् । अर्थेहया अर्थ-स्पृहया । अर्थान् विना कर्मासिद्धेः । सिद्धे चार्थे कुटुम्ब-भरणेन वेति । कर्म-योगे कुटुम्ब-भरणस्य विहितत्वात् ॥३॥
———————————————————————————————————————
॥ २.१.४ ॥
देहापत्य-कलत्रादिष्व् आत्म-सैन्येष्व्9** असत्स्व् अपि ।**
**तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति ॥ **
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **असत्सु अभद्रेषु सद्-भावे साधु-भावे चेति वचनात् ॥४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु नश्वर-कुटुम्बाद्य्-अर्थं कथम् आयुर्-व्ययं कुर्यात् ? तत्राह । देहादिषु आत्मनः सैन्येषु परिकरेष्व् असत्सु मिथ्या-भूतेष्व् अपि प्रमत्तः प्रसक्तस् तेषां पित्रादि-दृष्टान्तेन नाशं पश्यन्न् अपि नानुसन्धत्ते ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति–नन्व् इति । असत्सु जीवात्मनो देहादि-सम्बन्धाभावान् मिथ्याभूतेष्वपि तेषु प्रमत्तः प्रसक्तः । यद्वासत्स्वसाधुष्वपि बहिर् मुखत्वाद् असमर्थेष्वपीत्य् अर्थः नानुसन्धत्ते । यद् वा, मोह-मद्य-पानोन्मत्तत्वान् नानुसन्धत्ते तद् उक्तं भतृहरिणा—
\
आदित्यस्य गतागतैर् अहरहः संक्षीयते जीवितं \ व्यापारैर् बहु-कार्य-भार-गुरुभिः कालो न विज्ञायते । \ दृष्ट्वा रोग-जरा-विपत्ति-मरणं त्रासश् च नोत्पद्यते
पीत्वा मोह-मयीं प्रमाद-मदिराम् उन्मत्त-भूतं जगत् । [वैराग्य-शतक ४३] इति ।
तेनायं कालेनैव अस्य ते भगवद् भक्तस् तु भगवद् उन्मुखैर् देहादिभिर् अप्रमत्तः कालम् अपि जयतीति भावः ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अपश्यताम् आत्म-तत्त्वम् इति यद् उक्तं तद् विवृणोति । देहादिषु आत्मनः सैन्येषु स्व-सैन्य-तुल्येषु । कालेन सह योद्धुम् इवेति भावः । असत्स्व् अपि जीवात्मनो देहादि-सम्बन्धाभावान् मिथ्याभूतेष्व् अपि तेषु प्रमत्तः प्रसक्तः । यद् वा, असत्स्व् अपि असाधुष्व् अपि बहिर्मुखत्वाद् अस्मर्थेष्व् अपीत्य् अर्थः । प्रमत्तः अनवहितः । यतस् तेषां निधनं कालनैव नाशम् । अनष्टानाम् अपि पित्रादि-दृष्टान्तेन नाशम् । पश्यन्न् अपि नानुसन्धत्ते । तेनायं कालेनैव ग्रस्यते । भगवद्-भक्तस् तु भगवद्-उन्मुखैर् देहादिभिर् अप्रमत्तः कालम् अपि जयतीति भावः ॥४॥
———————————————————————————————————————
॥ २.१.५ ॥
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम्10** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं विपर्यय-प्रश्नोत्तरम् उक्त्वा, श्रोतव्यादि-प्रश्नस्योत्तरम् आह—तस्माद् इति । हे भारत भरत-वंश्य । सर्वात्मेति प्रेष्ठत्वम्11 आह । भगवान् इति सौन्दर्यम् । ईश्वर इत्य् आवश्यकत्वम् । हरिर् इति बन्ध-हारित्वम् । अभयं मोक्षम् इच्छता ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतः कृतार्थी भवितुं कर्मादि-कम-कुर्वाणा भक्तिम् एव कुर्वीरन्न् इत्य् आह—तस्माद् इति । भारतेति । भरत-वंशस्य हरि-भक्तत्वेन त्वां प्रत्यहं भगवत् तत्त्वम् अवश्यं वदामीति भावः । अभयं स्वपराभवाभावं यद्वाभयं सर्व-भयनिवारक-सर्वानन्द-मय-पुरुषार्थम् गतवान् अभयं हरिम् इति वक्ष्यमाणत्वात् मर्त्यो मृत्यु-व्यालभीतः पलायन् इत्य्-आद्य्-उक्तेश् चाभयं श्री-कृष्णम् इत्य् अर्थः । अत्र हरिर् इति विशेष्य-पदं सर्वात्मेत्य्-आदि-विशेषण-त्रयेण मोक्षाभिसन्धिनी रागानुगा वैधी चेति भक्तिर् व्यञ्जिता । तत्र प्रथमायाम् अभयं मोक्षम् इच्छता सर्वेषाम् आत्मा परमात्मा हरिः श्रोतव्य इति द्वितीयायाम् अभयं निष्कृपं यथा स्यात् तथा इच्छता लोभवता पुंसा भगवान् अतिसुन्दरो नन्दसूनुः श्रोतव्य इति । भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्क-कीर्तिषु इत्य् अमरः । तृतीयायां न बिभेत्य् अस्माद् इत्य् अभयो हरिर् एव मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् इत्य् अग्रिम-श्लोके वक्ष्यमाणत्वात् । इच्छताम् अभयम् आत्म-त्राणम् इच्छता वा ईश्वरो हरिर् ईशितव्येन पुंसा श्रोतव्य इत्य्-आदि कीर्तितव्यश् च स्मर्तव्यश् चेति च-काराभ्यां श्रवणानन्तरं कीर्तन-श्रवणयोर् एव कालत्वं विहितम् इति श्रोतव्यादि-प्रश्नस्योत्तरम् उक्तम् ॥५॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : त्रिवर्गम् आह—तस्माद् इति । तस्माद् यस्माद् अन्येषां सदोषत्वात् सर्वात्मत्वाद् आत्मीयत्वं भगवत्त्वाद् रमणीयत्वम् ईश्वरत्वाद् वरदत्वम् । श्रवणादि-प्रवृत्ति-हेतुः । अभयं मोक्षम् ॥५॥ [मु।फ। ७.९६]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अभयं सर्व-दुःख-निवारक-सर्वानन्द-मय-पुरुषार्थम् । गतवान् अभयं हरिं [भा।पु। २.१.१३] इति वक्ष्यमाणात् । मर्त्यो मृत्यु-व्याल-भीतः [भा।पु। १०.३.२१] इत्य् आदेश् च ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतः कृतार्थीभवितुं कर्मादिकम् अकुर्वाणा भक्तिम् एव कुर्वीरन्न् इत्य् आह तस्माद् इति । हे भारत ! भरत-वंश्य ! अभयं स्व-पराभवाभवम् इच्छता पुंसा हरिः श्रोतव्यः । अत्र हरिर् इति विशेष्य-पदम् । सर्वात्मेत्य् आदि-विशेषण-त्रयेण मोक्षाभिसन्धिनी रागानुगा वैधी च भक्तिर् व्यञ्जिता । तत्र प्रथमायां—अभयं मोक्षम् इच्छता सर्वेषाम् आत्मा परमात्मा हरिः श्रोतव्य इति । द्वितीयायाम् अभयं निष्कम्पं यथा स्यात् तथा इच्छता लोभवता पुंसा । भगवान् अतिसुन्दरो नन्द-सूनुः श्रोतव्य इति । भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्क-कीर्तिषु इत्य् अमरः । तृतीयायां, न बिभेत्य् अस्माद् इत्य् अभयो हरिर् एव । मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिं [भा।पु। २.१.१३] इत्य् अग्रिम-श्लोक-दृष्टेस् तम् इच्छता, अभयम् आत्म-त्राणम् इच्छता वा । ईश्वरो हरिर् ईशितव्येन पुंसा शोतव्य इत्य् आदि कीर्तितव्यश् च स्मर्तव्यश् चेति च-काराभ्यां श्रवणानन्तरं कीर्तन-स्मरणयोर् एक-कालत्वं विहितम् इति श्रोतव्यादि प्रश्नस्योत्तरम् उक्तम् ॥५॥
———————————————————————————————————————
॥ २.१.६ ॥
एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया ।
जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतः परम् अन्यच् छ्रेयो नास्तीत्य् आह—एतावान् एव जन्मनो लाभः फलम् । तम् आह—नारायण-स्मृतिर् इति । साङ्ख्यादिभिः साध्य इति तेषां स्वातन्त्र्येण लाभत्वं वारयति । साङ्ख्यम् आत्मानात्म-विवेकः । योगोऽष्टाङ्गः । अन्ते तु स्मृतिः परो लाभः, न तन्-महिमा वक्तुं शक्य इत्य् अर्थः ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतो भगवच् छ्रवणादेः । इत्य् अर्थ इति । अन्ते या मतिः सा गतिः इति न्यायेन साक्षाच् छ्री-हरि-प्रापकत्वाद् इति भावः । विश्वनाथः—ज्ञानि-कर्मि-प्रभृतयोन्येऽपि साधु-सङ्ग-वशाद्यदि भक्ता भवन्ति न पुनः कर्मादिकं कुर्वन्ति तदा तेऽपि कृतार्था इत्याह—एतावान् इति । साङ्ख्य-योग-स्वधर्म-निष्ठाभिर् एतावान् जन्मनो लाभः परः श्रेष्ठः कोऽसावन्ते प्रत्यासत्तिन्यायेन ज्ञान-कर्म-योगानाम् अवसाने सनकादि-नव-योगेश्वर-प्राचीन-बर्हिः प्रभृतीनाम् इव नारायण-स्मृतिः शुद्धा भक्तिर् यदि स्यात् । अन्त इति । यदि पुनर् अपि भक्तिं त्यक्त्वा ज्ञानादिषु निष्ठिता न भवन्तीत्य् अर्थः । अत एवम् एव वक्ष्यते ।
एतावान् एव यजताम् इह निःश्रेयसोदयः ।
भगवत्य् अचलो भावो यद् भागवत् असङ्गतः ॥ [भा।पु। २.३.११] इति ॥६॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : एतावान् इति । साङ्ख्यं प्रकृति-पुरुष-विवेकः । योगश् चित्त-वृत्ति-निरोधः । स्व-धर्म-परिनिष्ठा नित्य-नैमित्तिकानुष्ठानम् । एभिर् एतावान् परो जन्म-लाभः, जन्मनः साफल्यं यद् अन्ते नारायण-स्मृतिः ॥६॥ [मु।फ। ९.२]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ज्ञानि-कर्मि-प्रभृतयोऽन्येऽपि साधु-सङ्ग-वशाद् यदि भक्ता भवन्ति, न पुनः कर्मादिकं कुर्वन्ति, तदा तेऽपि कृतार्था इत्य् आह—एतावान् इति । **साङ्ख्य-योग-स्वधर्म-निष्ठाभिः, **विशेषेण तृतीया, जटाभिस् तापसम् अद्राक्षीत् इतिवत् । तथा च तैर् विशिष्टानां पुंसां एतावान् जन्मनो लाभः परः श्रेष्ठः । कोऽसौ ? अन्ते प्रत्यासत्ति-न्यायेन ज्ञान-योग-कर्मणाम् अवसाने सनकादि-नव-योगेश्वर-प्राचीनबर्हिः-प्रभृतीनाम् इव नारायण-स्मृतिः शुद्धा भक्तिर् यदि स्यात् । अन्ते इति—यदि पुनर् अपि भक्तिं त्यक्त्वा ज्ञानादिषु निष्ठिता न भवन्तीत्य् अर्थः । अत एवम् एव वक्ष्यते—
एतावान् एव यजताम् इह निःश्रेयसोदयः ।
भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥ [भा।पु। २.३.११] इति ।
जन्मन एवान्ते नारायण-स्मृतिः परो लाभ इति च केचिद् आहुः ॥६॥
———————————————————————————————————————
॥ २.१.७ ॥
प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः ।
नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ध्यापेक्षया प्रायेण । नैर्गुण्य-स्था मुक्ताः । एतत् सामगा यन् नास्त इति श्रुतेः ॥७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र सद्-आचारं प्रमाणयति—प्रायेणेति । विधि-षेधतो विधि-निषेधाभ्यां निवृत्ता नैर्गुण्ये ब्रह्मणि स्थिता अपि । स्म प्रसिद्धम् ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **संसिद्धिस् तु भगवद् रूप-गुण-माधुर्यानुभव एव स च ब्रह्म-सायुज्याद् अप्य् अतिश्रेष्ठ इति महद् अनुभव-प्रमाणेनाह । प्रायेणेति । नैर्गुण्ये स्थिता मुक्ता अपीत्य् अर्थः । गुणानुकथन एव रमन्ते न तु निर्विशेष-ब्रह्म-सुखेऽपीत्य् अर्थः । प्रायेणान्ये जीवन् मुक्तास्ततो निकृष्टाः सायुज्यार्थं गुणानुकथनं कुर्वन्ति न तु तत्र रमन्ते ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एव कैमुत्येन दर्शयति—प्रायेणेति ॥७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संसिद्धिस् तु भगवद्-रूप-गुण-माधुर्यानुभव एव । स च ब्रह्म-सायुज्याद् अप्य् अतिश्रेष्ठ इति महद्-अनुभव-प्रमाणेनाह—प्रायेणेति । विधि-षेधतः विधि-निषेधाभ्यां निवृत्ता नैर्गुण्ये स्थितामुक्ता अपीत्य् अर्थः । गुणानुकथने एव रमन्ते, न तु निर्विशेष-ब्रह्म-सुखेऽपीत्य् अर्थः । प्रायेण्अ इत्य् अनेन अन्ये जीवन्-मुक्तास् ततो निकृष्टाः सायुज्यार्थं गुणानुकथनं कुर्वन्ति, न तु तत्र रमन्ते ॥७॥
———————————————————————————————————————
॥ २.१.८ ॥
इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
अधीतवान् द्वापरादौ पितुर् द्वैपायनाद् अहम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **द्वापरे च आदौ च । कृष्णावतारापेक्षया । व्यासः षट्-शत-वर्षीयो धृतराष्ट्रम् अजीजनद् इति स्कान्दे ॥८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किम् इदम् अपूर्वं कथयसि ? सत्यम् अपूर्वम् एवेदम् इत्य् आह । इदं भगवत्-प्रोक्तं तन्-नामैक-प्रधानं पुराणं ब्रह्म-संमितं सर्व-वेद-तुल्यम् । यद् वा, ब्रह्म सम्यक् मितं येन । कुतस् त्वया प्राप्त-मत आह—अधीतवान् इति । द्वैपायनात् पितुः । कदा ? द्वापरादौ द्वापरः आदिर् यस्य कालस्य तस्मिन् द्वापरान्ते इत्य् अर्थः । शन्तनु-सम-काले व्यासावतार-प्रसिद्धेः ॥८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किमिदम् अश्रुत-पूर्वं कथयसि सत्यम् अपूर्वम् एवेदम् इत्याह—भागवतं भगवन्त मधिकृत्य कृतं, भगवता प्रोक्तं वा भगवत इदम् इति वा शास्त्रम् इदं युष्मद् अस्मत् प्रश्नोत्तर-विराजि श्री-भगवल्-लीला-मयमन्तर् भूत-युष्मदादि-जन्मस्थिति-संस्थिति-कथा-प्रपञ्चमध्यात्मदीपं सर्वोपनिषत् सार-रस-रूप-मनादि-सिद्धम् एव मत् पित्रा बादरायणेनाविर् भावितम् । अधीतवान् इति । शास्त्रस्यार्थे बुद्धि-बलेन स्वयं प्राप्तुमशक्य इति भावः । कृष्णावतारादन्-अतिपूर्वम् एव सत्यवत्यां द्वैपायनस्य प्रादुर्भावाद् द्रापरादाव् इति न सङ्गच्छते । तस्माद् दापरशब्दे नाव टापां न ने दियनगमा दरले दार्थः । यथा वृक्षाग्रे पक्षी खड्गाग्रं मास्पृशीत्यादावन्तेऽप्य् अग्र-व्यवहारस् तद्वद् अत्रापीति । यद् वा, द्वापर आदिर् यस्य सन्ध्यांशस्य स तथा ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्म-सम्मितं नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य तुल्यम्—कृष्णे स्वधामोपगते [भा।पु। १.३.४३] इत्य् आदेः । द्वापरादौ ब्रह्म-शाखादिवत् तद्-अग्रत्व-व्यवहारेण द्वापरान्त इत्य् अर्थः । यद् वा, द्वापर एवादिर् यस्य तत्र तदीयान्ते सन्ध्यांश इत्य् अर्थः ॥८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किम् इदम् अश्रुतचरम् अपूर्वं कथयसि ? सत्यम् अपूर्वम् एवेदम् इत्य् आह । भागवतं भगवन्तम् अधिकृत्य कृतं भगवता प्रोक्तं वा, भगवत इदम् इति वा । शास्त्रम् इदं युष्मद्-अस्मत्-प्रश्नोत्तर-विराजि श्री-भगवल्-लीलामयम् अन्तर्भूत-युष्मद्-आदि-जन्म-स्थिति-संस्थिति-कथा-प्रपञ्चम् अध्यात्म-दीप्तं सर्वोपनिषत्-सार-स्वरूपम् अनादि-सिद्धम् एव मत्-पित्रा बादरायणेनाविर्भावितम् । ब्रह्म-सस्मितं पर-ब्रह्म-तुल्यं ब्रह्मापि सम्यक्मितं येनेति वा । कुतस् त्वया प्राप्तम् ? तत आह—अधीतवान् इति । अस्य शास्त्रस्यार्थो बुद्धि-बलेन स्वयं ज्ञातुम् अशक्य इति भावः । कृष्णावताराद् अनतिपूर्वम् एव सत्यवत्यां द्वैपायनस्य प्रादुर्भावात् द्वापरादाव् इति न सङ्गच्छते, तस्माद् द्वापर-शब्देनात्र द्वापरान्त एव लक्ष्यते । ततश् च द्वापरस्य द्वापरान्तस्य आदौ द्वापरोपान्त इत्य् अर्थो व्याख्येयः ॥८॥
———————————————————————————————————————
॥ २.१.९-१० ॥
परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।
गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥**
तद् अहं तेऽभिधास्यामि महा-पौरुषिको भवान् ।
यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : परिनिष्ठितोऽपि मुक्तिर् अस्य भविष्यतीति निश्चितोऽपि । उदरं संशयः प्रोक्तः परिनिष्ठा-विनिश्चय इत्य् अभिधाने ।
ऋष्य्-उक्तम् आदेवताश् च विमुक्तौ परिनिश्चिताः ।
तथाप्य् अधिक-सौख्यार्थं यतन्ते शुभ-कर्मसु ।
विमुक्तास् तु स्वभावेन नित्यं ध्यानादि-तत्परा ॥ इति गारुडे ॥९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सिद्धस्य तव कुतोऽध्ययने प्रवृत्तिः ? तत्राह—परिणिष्ठितोऽपीति । **गृहीत-चेता **आकृष्ट-चित्तः ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु त्वम् अतिप्रसिद्धो जन्मत एव ब्रह्मानुभवी गृहात् परिव्रज्य गतोऽनुव्रजन्तं पितरम् अपि नैव पर्यचैषीः । संप्रति कथम् एवं ब्रूष इत्य् अभिप्रायेण शण्कते—सिद्धस्येति । आकृष्टचेता इति ब्रह्मानुभवाद् अपि लीलाया माधुर्याधिक्येऽहम् एव प्रमाणम् इति भावः । राजर्षे इति । एतच् च ब्रह्मर्षय एव जानन्ति न तु प्रायो राजर्षय इति भावः ॥ तर्हीदम् अपूर्वं वस्त्व् अहम् अपि लभेयेत्यत आमूलचूलम् एव मामेनदास्वादयेत्य् अपेक्षायामाह । तदहम् इति । महापुरुषं कृष्णं प्राप्तुमर्हसीति महापौरुषिकः । यद् वा, विनयादित्वात्स्वार्थे ठक् । उत्तरपद [xxx] श्री-भागवतं श्रावयामासेति ज्ञेयम् अत एव प्रथम द्वादशयोर् अपि शुक-प्रोक्तत्वे अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु इति वचनं सम्यग्-उपपद्यते ॥९-१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : परिणिष्ठितोऽपि नैर्गुण्ये इत्य् आदौ, **तद् अहं तेऽभिधास्यामि **इत्य् अन्तेन। यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती इति श्री-भागवतस्य परम-महिमानम् उक्त्वा, तद्-अनन्तरं श्री-भागवतम् उपक्रममाण एव तस्य नानाङ्गवतः श्रीमन्-मुखतया तन्-नाम-कीर्तनम् एवोपदिशति ॥९-१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु त्वम् अतिप्रसिद्धः । जन्मत एव ब्रह्मानुभवी गृहात् परिव्रज्य गतः । अनुव्रजन्तं पितरम् अपि नैव पर्यचैषीः । सम्प्रति कथम् एवं ब्रूषे ? इत्य् अत आह—परिनिष्ठित इति । गृहीत-चेता आकृष्ट-चित्तः । ब्रह्मानुभवाद् अपि लीलाया माधुर्याधिकोऽहम् एव प्रमाणम् इति भावः । तर्हीदम् अपूर्वं वस्त्व् अहम् अपि लभेयेत्य् अत आमूल-चूलम् एव माम् एनदेवास्वादयेत्य् आकाङ्क्षायाम् आह—तद् अहम् इति । महा-पुरुषं श्री-कृष्णं प्राप्तुम् अर्हसीति महा-पौरुषिकः । यद् वा, विनयादित्वात् स्वार्थे ठक् उत्तर-पद-वृद्धिः । यस्य यस्मिन् श्री-भागवते । यद् वा, श्रद्दधतां मध्ये यस्य तव मतिः सती । ततश् च जन्माद्य् अस्य [१.१.१] इत्य् आरभ्य विष्णु-रातम् अमूमुचत् [१२.१३.२१] इत्य् अन्तं सर्वम् एव श्री-भागवतं श्रावयामास इति ज्ञेयम् । अत एव प्रथम-द्वादशयोर् अपि शुक-प्रोक्तत्वे अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु इति वचनं सम्यग् उपपद्यते ॥९-१०॥
———————————————————————————————————————
॥ २.१.११ ॥
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं12** हरेर् नामानुकीर्तनम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **साधकानां सिद्धानां च नातः परम् अन्यच्-छ्रेयोऽस्तीत्य् आह—एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव । योगिनां ज्ञानिनां फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नन्व् अत्र शास्त्रे भक्तिर् अभिधेयेत्य् अवनम् यत एव तत्रापि भक्त्य् अङ्गेषु मध्ये महाराज-चक्रवर्ति-वत्किम् एकं मुख्यत्वेन निर्णीयते तत्राह—नामानुकीर्तनम् इति । सर्वेषु भक्त्य्-अङ्गेषु मध्ये श्रवण-कीर्तन-स्मरणानि त्रीणि मुख्यानि तस्माद् भारतेति श्लोके नोक्तानि तेषु त्रिष्व् अपि मध्ये कीर्तनं कीर्तनेऽपि नाम-लीला-गुणादि-संबन्धिनि तस्मिन् नाम-कीर्तनं तत्रानुकीर्तनं स्व-भक्त्य्-अनुरूप-नाम-कीर्तनं निरन्तर-कीर्तनं वा निर्णीतं पूर्वाचार्यैर् अपि न केवलं मयैवाधुना निर्णीयत इति तेनात्र प्रमाणं न प्रष्टव्यम् इति भावः । कीदृशम् अकुतोभयं काल-देश-पात्रोपकरणादि-शुद्ध्यशुद्धि-गतभयाभावस्य का वार्ता भगवत् सेवादि-कम-सहमाना म्लेच्छा अपि यत्र नैव विप्रतिद्यन्ते इति भावः । किं च, । साधकानां सिद्धानां च मुमुक्षणां मुक्तानां च नातः परमन्यच्छ्रेय इत्य् आह–निर्विद्यमानानाम् अर्थान् मोक्ष-पर्यन्त-सर्व-कामेभ्य इति इच्छताम् इत्य् अर्थात् तान् एव कामान् इति प्रविश पिण्डीम् इति वल्लभ्यते । ततश् च निर्विद्यमानानाम् एकान्त-भक्तानाम् इच्छतां स्वर्गमोक्षादि-कामिनां योगिनाम्-आत्मारामाणां च एतद् एव निर्णीतं यथायोगं साधनत्वेन फलत्वेन चेति भावः ।
अत्र सन्दर्भः–परिनिष्ठितोऽपि नैर्गुण्ये इत्य्-आदौ, तद् अहं तेऽभिधास्यामि इत्य्-अन्तेन, यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती इति श्री-भागवतस्य परम-महिमानम् उक्त्वा तदनन्तरं श्री-भागवतम् उपक्रममाण एव तस्य नानाङ्गवतस् तन् नाम-कीर्तनम् एवोपदिशति । तत्रापि सर्वोषाम् एव परम-साधनत्वेन परम-साध्यत्वेन चोपदिशति । एतन् निविद्यमानानाम् इति टीका च साधकानां सिद्धानां च नातः परम् अन्यच् छ्रेयोऽस्तीत्य् आह–एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव, निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव, योगिनां ज्ञानिनां फलं चैतद् एव नात्र प्रमाणं वक्तव्यम् इत्य् अर्थं इत्येषा नाम-कीर्तनं चेदमुच्चैर् एव प्रशस्तम्, नामान्य् अनन्तस्य हत-त्रपः पठन् इत्य्-आद्य्-उक्तेः । अत्र पाद्मोक्त-दशापराधाः परित्याज्याः यथा श्री-सनत्-कुमार-वाक्यम्—
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांशुलः ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ इति ।
अपराधाश् चैते ।
सतां निन्दा नाम्नः परमम् अपराधं वितनुते \
यतः ख्यातिं यातं कथमु सहते तद्-विगर्हणम् १। \ शिवस्य श्री-विष्णोर् य इह गुणनामादि सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः २।
गुरोर् अवज्ञा ३। श्रुति-शास्त्र-निन्दनम् ४।
तथार्थवादो ५। हरि-नाम्नि कल्पनम् ६।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ७।
धर्म-व्रत-त्याग-हुतादि-सर्व-शुभ-क्रिया-साम्यम् अपि प्रमादः ८। अश्रद्दधाने विमुखेऽप्य् अशृण्वति यश् चोपदेशः शिव-नामापराधः ९।
श्रुत्वापि नाम-माहात्म्यं यः प्रीति-रहितोऽधमः ।
अहं ममापि परमो नाम्नि सोऽप्य् अपराध-कृत् ॥ इति १०।
अत्र सर्वापराध-कृद् अपीत्य् आदौ श्री-विष्णु-यामल-वाक्यम् अनुसन्धेयम् ।
मम नामानि लोकेऽस्मिं श्रद्धयायस् तु कीर्तयेत् ।
तस्यापराध-कोटीस् तु क्षमाम्य् एव न संशयः ॥ इति ।
सतां निन्देत्यनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस् तु यथा स्कान्दे मार्कण्डेय-भगीरथ-संवादे
निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्द्धं महारौरव-संज्ञिते ॥
हन्ति निन्दन्ति यो द्वेष्टि वैष्णवान् नाभिनन्दति ।
क्रुध्यते याति नो हर्षे दर्शने पतनानि षट् ॥ इति ।
तन् निन्दा-श्रवणेऽपि दोष उक्तः । निन्दां भगवतः शृण्वंस्तत् परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः इति । ततोऽपगमश् चायम् असमर्थस्यैव समर्थनं तु निन्दक-जिह्वा छेत्तव्या तत्राप्य् असमर्थनं तु स्व-प्राण-परित्यागः कर्तव्यः । यथोक्तं देव्या—
कर्णौ पिधाय निरयाद् यद् अकल्प ईशे
धर्मावितर्य् असृणिभिर् नृभिर् अस्य माने ।
जिह्वां प्रसह्य रुशतीम् असतां प्रभुश्
चेच् छिद्याद् असून् अपि ततो विसृजेत् स धर्मः ॥ इति ।
शिवस्य श्री-विष्णोर् इत्य् अत्रैवम् अनुसन्धेयं श्रूयते हि । यद् यद् विभूतिमत्सत्वं मम तेजोऽंश-सम्भवम् । इति । ब्रह्मा भवोहम् अपि यस्य कलाः कलायाः इति । यत्-पाद-निःसृत-सरित् प्रवरोदकेन तीर्थेन मुर्ध्नि कृतेन शिवः शिवोऽभूत् । इति ।
सृजामि तन् नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ इति ।
तथा माध्व-भाष्य-धृतानि वचनानि । ब्रह्माण्डे । रुजं द्रावयते यस्माद् रुद्रस्तस्माज् जनार्दनः । ईशनाद् एव चेशानो महादेवो महत्त्वतः १ पिबन्ति येन वा नाकं मुक्ताः संसार सागरात् । तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः २ शिवः सुखात्मकत्वेन सर्व-संरोधनाद्धरः ॥ कृत्यात्मकम् इमं देहं स्थितेर् अन्ते प्रवर्तयन् ॥ कृत्तिवासास्ततो देवो विरिञ्चिस् तु विरेचनात् । बृहणाद् ब्रह्मनामासाव् ऐश्वर्यादिन्द्र उच्यते । एवं नानाविधैः शब्दैर् एक एव त्रि-विक्रमः ॥ वेदेषु च पुराणेषु गीयते पुरुषोत्तमः इति । वामने—
न तु नारायणादीनां नाम्नाम् अन्यत्र संशयः ॥
अन्य नाम्नां किल गतिर् विष्णुर् एव प्रकीर्त्तितः ॥ इति स्कान्दे ।
ऋते नारायणादीनि नामानि पुरुषोत्तमः ॥
अदादन्यत्र भगवान् राज-वर्ते स्वकं वपुः ॥ इति ब्राह्मे ।
चतुर्मुखः सदानन्दो ब्रह्मणः पद्मभूर् इति ।
उग्रो भस्म-धरो नग्नः कपालीति शिवस्य च ॥
विशेष-नामानि ददौ स्वकीयान्य् अपि केशवः ॥ इति ।
तद् एवं श्री-विष्णोः सर्वात्मकत्वेन प्रसिद्धात् तस्मात् सकाशाच् छिवस्य गुणनाम् आदिकं भिन्नं शक्त्यन्तर-सिद्धम् इति यो धियापि पश्येद् इत्य् अर्थः । द्वयोः भेदतात्पर्येण षष्ठ्यन्तत्वे सति श्री-विष्णोश् चेत्य् अपेक्ष्य च शब्दः क्रियते तत्प्राधान्य-विवक्षयैव श्री-शब्दश् च तत्रैव दत्तः । अत एव शिव-नामापराध इति शिव-शब्देन मुख्यतया श्री-विष्णुर् एव प्रतिपादित इत्य् अभिप्रेतं सहस्र-नामादौ च स्थाणु-शिवादि-शब्दास् तथैव ॥ गुरोर् अवज्ञानादर इति । अथ श्रुति-शास्त्र-निन्दनम् । यथा पाखण्ड-मार्गेण दत्तात्रेय-र्षभदेवोपासकानां पाखण्डिनाम् । अथार्थवादः स्तुतिमात्रम् इदम् इति मननं कल्पनं तन् माहात्म्ये गौण्यताकरणाय गत्यन्तरचिनतनम् । यथोक्तं कौर्मे व्यास-गीतायाम्—
देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटि-गुणाधिकम् ॥ इति ।
यत् तु विष्णु-पार्षदेभ्यः श्रुत-नाम-माहात्म्यस्याप्य् अजामिलस्य । सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे इति वाक्यं तत् खलु स्वदौरात्म्यमात्र-दृष्ट्या नाम-माहात्म्य-दृष्ट्यात्वग्रे वक्ष्यते । तथापि मे दुर्भगस्य इत्य्-आदि-द्वयम् । नाम्नो बलाद् इति । यद्यपि भगवन् नाम्नो बलेनापि कृतस्य पापस्य तन् नाम्ना क्षयस् तथापि येन नाम्नो बलेन परम-पुरुषार्थ-स्वरूपं सञ्चिदानन्द-सान्द्रं साक्षाच्छ्री-भगवच् चरणार-विन्दं साधयितुं प्रवृत्तस्तेनैव परमघृणास्पदं पापं विषयं साधयतीति परमदौरात्म्यम् । ततः कदर्थयत्येतन् नाम चेति ततः पाप-कोटि-महत् तमस्यापराधस्यापातो बाढम् एव ततो यमैर् बहुभिर् यम-नियमादिभिः कृत-प्रायश्चित्तस्य क्रमेण प्राप्ताधिकारैर् अनेकैर् अपि दण्डधरैर् वा कृत-दण्डस्य तस्य शुद्ध-भावो युक्त एव । नामापराध-युक्तानाम् इत्य्-आदि-वक्ष्यमाणानुसारेण पुनर् अपि सन्तत-नाम-कीर्तनमात्रस्य तत्र प्रायश्चित्तत्वात् सर्वापराध-कृद्-अपीत्य् आद्युक्तानुसारेण नामापराध-युक्तस्य भगवद् भक्तिमतोऽप्य् अधः पात-लक्षण-भोग-नियमाञ्च तत्रन्द्रस्याश्वमेधाख्य-भगवद् यजन-बलेन वृत्रहत्या प्रवृत्तिस् तु लोकोपद्रव-शान्तिं तदीयासुरतावखण्डनं चेच्छूनामृषीणामाज्ञाकृतत्वान् न दोष इति मन्तव्यम् । अथ धर्म-व्रत-त्यागेति । धर्मादिभिः साम्य-मननम् अपि प्रमादोऽपराधो भवतीत्य् अर्थः । अत एव—
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरि-नामानि कीर्तितानि न संशयः ॥
इत्य् अतिदेशेनापि नाम्न एव प्राधान्यभायाति । उक्तं हि । मधुर-मधुरम् एतत् इत्य्-आदौ सकल-निगम-वल्ली सत्-फलम् इति । तथा श्री-विष्णुधर्मे—
ऋग्-वेदो हि यजुर् वेदः साम-वेदो ह्य् अथर्वणः ।
आधीतास्तेन येनोक्तं हरिर् इत्य् अक्षरद्वयम् ॥
स्कान्दे पार्वत्य् उक्तौ ।
मा ऋचो मा यजुस्तात मा साम पठ किं च, न ।
गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥
पाद्मो रामाष्टोत्तर-शत-नाम-स्तोत्रे विष्णोर् एकैक-नामापि सर्व-वेदाधिकं स्मृतम् इति । अथाश्रधाने इत्य् आदिनोपदेष्टुर् अपराधं दर्शयित्वोपदेशस्याह—श्रुत्वेति यातः अहं ममादि-परमोऽहन्ताममताधेकतात्पर्यत्वेन तस्मिन् ननादरवान् इत्य् अर्थः। नामैकं यस्य वाचि स्मरण-पथ-गतम् इत्यादौ देह-द्रविणादि-निमित्तक-पाखण्ड-शब्देन च दशापराधा लक्ष्यन्ते । पाखण्डमयत्वात् तेषां तथा तद्-विधानादेवापराधानन्तरम् उक्तं पाझे वैशाख-माहात्म्ये—
अवमन्य च ये यान्ति भगवत् कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ इति ।
एतेषां चापराधानाम् अनन्य-प्रायश्चित्तत्वम् एवोक्तं तत्रैव—
नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्ति-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।
अत्र सत्-प्रभृतिष्व् अपराधेषु तत्-सन्तोषणार्थम् एव सन्तत-नाम-कीर्तनादिकं समुचितम् । अम्बरीष-चरितादौ तदेकक्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नाम-कौमुद्याम् महद्-अपराधस्य भोग एव निवर्तकस् तद्-अनुग्रहो वा इति । तस्माद् गत्य्-अन्तराभावात् साधूक्तम् एतन् निर्विद्यामानानाम् इति ॥११॥
———————————————————————————————————————
हेमाद्रि (कैवल्य-दीपिका-टीका) : एतद् इति । योगिनः समाहिताः ॥११॥ [मु।फ। ८.३२]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रापि सर्वेषाम् एव परम-साधनत्वेन परम-साध्यत्वेन चोपदिशति—एतन् निर्विद्यमानानाम् इति । टीका च—साधकानां सिद्धानां च नातः परम् अन्यच्-छ्रेयोऽस्तीत्य् आह एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव । योगिनां ज्ञानिनां फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः । इत्य् एषा ।
नाम-कीर्तनं चेदम् उच्चैर् एव प्रशस्तम्**—**नामान्य् अनन्तस्य हत-त्रपः पठन् [भा।पु। १.५.११] इत्य् आदौ ।
अथ पाद्मोक्ता दशाप्य् अपराधाः परित्याज्याः । यथा सनत्-कुमार-वाक्यम्—
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ इति ।
अपराधाश् चैते—
सतां निन्दा नाम्नः परमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥
गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनं
तथार्थ-वादो हरि-नाम्नि कल्पनम् ।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ॥
धर्म-व्रत-त्याग-हुतादि-सर्व-
शुभ-क्रिया-साम्यम् अपि प्रमादः ।
अश्रद्दधाने विमुखेऽप्य् अशृण्वति
यश् चोपदेशः शिव-नामापराधः ॥
श्रुत्वापि नाम-माहात्म्ये
यः प्रीति-रहितोऽधमः ।
अहं-ममादि-परमो
नाम्नि सोऽप्य् अपराध-कृत् ॥ इति ।
अत्र सर्वापराध-कृद् अपीत्यादौ श्री-विष्णु-यामल-वाक्यम् अप्य् अनुसन्धेयम्—
मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् ।
तस्यापराध-कोटीस् तु क्षमाम्य् एव न संशयः ॥ इति ।
सतां निन्दा इत्य् अनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस् तु यथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे—
निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्धं महारौरव-संज्ञिते ॥
हन्ति निन्दन्ति वै द्वेष्टि वैष्णवान् नाभिनन्दति ।
क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ इति ।
तन्-निन्दा-श्रवणेऽपि दोष उक्तः—
निन्दां भगवतः शृण्वन् तत्-परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥ [भा।पु। १०.७६.२६] इति ।
ततोऽपगमश् चासमर्थस्यैव । समर्थेन तु निन्दक-जिह्वा छेत्तव्या । तत्राप्य् असमर्थन-स्वप्राण-परित्यागोऽपि कर्तव्यः । यथोक्तं देव्या—
कर्णौ पिधाय निरयाद् यद् अकल्प ईशे
धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने ।
छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज्
जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः ॥ [भा।पु। ४.४.१७] इति ।
शिवस्य श्री-विष्णोर् इत्य् अत्रैवम् अनुसन्धेयम् । श्रूयतेऽपि—
यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ [गीता १०.४१] इति ।
ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः ॥ [भा।पु। १०.६८.२६] इति ।
यत्-पाद-निःसृत-सरित्-प्रवरोदकेन
तीर्थेन मूर्ध्नाधिकृतेन शिवः शिवोऽभूत् ॥ [भा।पु। ३.२८.२२] इति ।
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ [भा।पु। २.६.३०]
तथा माध्व-भाष्य-दर्शितानि वचनानि ब्रह्माण्डे—
रुजं द्रावयते यस्माद् रुद्रस् तस्माज् जनार्दनः ।
ईशनाद् एव चेशानो महा-देवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसार-सागरात् ।
तद्-आधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥
शिवः सुखात्मकत्वेन सर्व-सरोधनाद् धरः ।
कृत्यात्मकम् इमं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास् ततो देवो विरिञ्चिश् च विरेचनात् ।
बृंहणाद् ब्रह्म-नामासौ ऐश्वर्याद् इन्द्र उच्यते ॥
एवं नाना-विधैः शब्दैर् एक एव त्रिविक्रमः ।
वेदेषु च पुराणेषु गीयते पुरुषोत्तमः ॥ इति ।
वामने—
न तु नारायणादीनां नाम्नाम् अन्यत्र संशयः ।
अन्य-नाम्नां गतिर् विष्णुर् एक एव प्रकीर्तितः ॥ इति ।
स्कान्दे—
ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
अदाद् अन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति ।
ब्राह्मे—
चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूर् इति।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेष्-नामानि ददौ स्वकीयान्य् अपि केशवः ॥ इति ।
तद् एवं श्री-विष्णोः सर्वात्मकत्वेन प्रसिद्धत्वात् तस्मात् सकाशात् शिवस्य गुण-नामादिकं भिन्नं शक्त्य्-अन्तर-सिद्धम् इति यो धियापि पश्येद् इत्य् अर्थः । द्वयोर् अभेद-तात्पर्येण षष्ठ्य्-अन्तत्वे सति श्री-विष्णोश् चेत्य् अपेक्ष्य च-शब्दः क्रियेत । तत्-प्राधान्य-विवक्षयैव श्री-शब्दश् च तत्रैव दत्तः । अत एव शिव-नामापराध इति शिव-शब्देन मुख्यतया श्री-विष्णुर् एव प्रतिपादित इत्य् अभिप्रेतम् । सहस्र-नामादौ च स्थाणु-शिवादि-शब्दास् तथैव ।
अथ श्रुति-शास्त्र-निन्दनम्— यथा पाषण्ड-मार्गेण दत्तात्रेय-र्षभ-देवोपासकानां पाषण्डिनाम् ।
तथार्थ-वादः स्तुति-मात्रम् इदम् इति मननम् । कल्पनं तन्-माहात्म्य-गौणताकरणाय गत्य्-अन्तर-चिन्तनम् । यथोक्तं कौर्मे व्यास-गीतायां—
देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटि-गुणाधिकम् ॥ इति ।
यत् तु श्रुत-नाम्-माहात्म्यस्याप्य् अजामिलस्य सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे [भा।पु। ६.२.२७] इत्य् एतद् वाक्यं तत् खलु स्व-दौरात्म्य-मात्र-दृष्ट्या । नाम-माहात्म्य-दृष्ट्या त्व् अग्रे वक्ष्यते तथापि मे दुर्भगस्य [भा।पु। ६.२.३०] इत्य् आदि द्वयम् ।
नाम्नो बलाद् इति । यद्यî भवेन् नाम्नो बलेनापि कृतस्य पापस्य तेन नाम्ना क्षयः । तथापि येन नाम्नो बलेन परम-पुरुषार्थ-स्वरूपं सच्-चिद्-आनन्द-सान्द्रं साक्षाच्-छ्री-भगवच्-चरणारविन्दं साधयितुं प्रवृत्तस् तेनैव परम-घृणास्पदं पाप-विषयं साधयतीति परम-दौरात्म्यम् । ततः कदर्थयत्य् एव तं तन् नाम चेति तत्-पाप-कोटि-महत्तमस्यापराधस्यापातो बाढम् एव । ततो यमैर् बहुभिर् यम-नियमादिभिः कृत-प्रायश्चित्तस्य क्रमेण पात्पाधिकारैर् अनेकैर् अपि दण्ड-धरैर् वा कृत-दण्डस्य तस्य शुद्ध्य्-अभावो युक्त एव । नामापराध-युक्तानाम् इत्य् आदि वक्ष्यमाणानुसारेण पुनर् अपि सतत-नाम-कीर्तन-मात्रस्य तत्र प्रायश्चित्तत्वात् । सर्वापराध-कृदपीत्य् आद्य् उक्त्य्-अनुसारेण नामापराध-युक्तस्य भगवद्-भक्तिमतोऽप्य् अधःपात-लक्षण-भोग-नियमाच् च । तत इन्द्रस्याश्वमेधाख्य-भगवद्-यजन-बलेन वृत्र-हत्या-प्रवृत्तिस् तु लोकोपद्रव-शान्तिं तदीयासुर-भाव-खण्डनं चेच्छूआम् ऋषीणाम् अङ्गीकृतत्वान् न दोष इति मन्तव्यम् ।
अथ धर्म-व्रत-त्यागेति धर्मादिभिः साम्य-मननम् अपि प्रमादः । अपराधो भवतीत्य् अर्थः । अत एव च—
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरि-नामानि कीर्तितानि न संशयः ॥
इत्य् अतिदेशेनापि नाम्न एव माहात्म्यम् आयाति । उक्तं हि मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् इति ।
तथा श्री-विष्णु-धर्मे—
ऋग्-वेदो हि यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः ।
अधीतास् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥
स्कान्दे पार्वत्य्-उक्तौ—
मा ऋचो मा यजुस् तात मा साम पठ किं च, न ।
गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥
पाद्मे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे—
विष्णोर् एकैक-नामैव सर्व-वेदाधिकं मतं ॥ [प।पु। ६.२५४.२७] इति ।
अथ अश्रद्दधाने इत्य् आदिनोपदेष्टुर् अपराधं दर्शयित्वोपदेशस्याह— श्रुत्वेति । यतः अहं-ममादि-परमः अहन्ता-ममताद्य्-एक-तात्पर्येण तस्मिन्न् अनादरवान् इत्य् अर्थः । नामैकं यस्य वाचि स्मरण-पथ-गतम् इत्य् आदौ देह-द्रविणादि-निमित्तक-पाषण्ड-शब्देनन् च दशापराधा लक्ष्यन्ते पाषण्ड-मयत्वात् तेषाम् । तथा तद्-विधानाम् एवापराधान्तरम् उक्तं पाद्म-वैशाख-माहात्म्ये—
अवमन्य च ये यान्ति भगवत्-कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ [प।पु। ५.९६.६३] इति ।
एषां चापराधानाम् अनन्य-प्रायश्चित्तत्वम् एवोक्तं तत्रैव—
नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।
अत्र स्त-प्रभृतिष्व् अपराधे तु तत्-सन्तोषार्थम् एव सन्तत-नाम-कीर्तनादिकं समुचितम् । अम्बरीष-चरितादौ तद्-एक-क्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नाम-कौमुद्याम्—महद्-अपराधस्य भोग एव निवर्तकः तद्-अनुग्रहो वा इति । तस्माद् अगत्य्-अन्तराभावात् साधूक्तम् एतन्-निर्विद्यमानानां [भा।पु। २.१.११] इति ॥११॥ [भक्ति-सन्दर्भ २६५]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् अत्र शास्त्रे भक्तिर् अभिधेयेत्य् अवगम्यत एव । तत्रापि भक्त्य्-अङ्गेषु मध्ये महाराज-चक्रवर्तिवत् किम् एकं मुख्यत्वेन निर्णीयते ? तत्राह—नामानुकीर्तनम् इति । सर्वेषु भक्त्य्-अङ्गेषु मध्ये श्रवण-कीर्तन-स्मरणानि त्रीणि मुख्यानि—तस्माद् भारत इति श्लोकेनोक्तानि । तेषु त्रिष्व् अपि मध्ये कीर्तनम् । कीर्तनेऽपि नाम-लीला-गुणादि-सम्बन्धिनि तत्राप्य् अनुकीर्तनं स्व-भक्त्य्-अनुरूप-नाम-कीर्तनं निरन्तर-कीर्तनं वा । निर्णीतं पूर्वाचार्यैर् अपि, न केवलं मयैवाधुना निर्णीयत इति । तेनात्र प्रमाणं न प्रष्टव्यम् इति भावः । कीदृशम् ? अकुतोभयम् इति । काल-देश-पात्रोपकरणाविशुद्ध्य्-अशुद्धि-गत-भयाभावस्य का वार्ता ? भगवत्-सेवादिकम् असहमाना म्लेच्छा अपि यत्र नैव विप्रतिपद्यन्ते इति भावः ।
किं च, साधकानां सिद्धानां च नातः परम् अधिकं श्रेयः इत्य् आह—निर्विद्यमानानाम् अर्थान् मोक्ष-पर्यन्त-सर्व-कामेभ्य इति । इच्छताम् इति अर्थात् तान् एव कामान् इति प्रविश पिण्डीन् इतिवल् लभ्यते । ततश् च निर्विद्यमानानाम् एकान्त-भक्तानाम् इच्छतां स्वर्ग-मोक्षादि-कामिनाम्, योगिनाम् आत्मारामाणां च एतद् एव निर्णीतम् । यथायोग्यं साधनत्वेन फलत्वेन चेति भावः ॥११॥
———————————————————————————————————————
॥ २.१.१२ ॥
किं प्रमत्तस्य बहुभिः परोक्षैर् हायनैर् इह ।
वरं मुहूर्तं विदितं घटेत श्रेयसे यतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अल्पम् एवायुर् अवशिष्टं किम् अहं साधयेयम् ? इति मा शुच इत्य् आह—किम् इति त्रिभिः। परोक्षैर् अलक्षितैर् हायनैर् वर्षैः । विदितं वृथा यातीति ज्ञातम् । यतो येन ज्ञानेन। घटेत यत्नं कुर्यात् ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **श्रेयसे नाम-कीर्तनादि-रूपाय ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **किम् इत्य् अस्य टीकायां—अल्पम् एवायुर् अवशिष्टम् । किम् अहं साधयेयम् ? इति मा शुच इति । मा शोचीर् इत्य् अर्थः । श्रेयसे नाम-कीर्तनादि-रूपाय ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हन्त हन्त ! अल्पम् एवायुर् अवशिष्टं किम् अहं साधयेयम् ? इति मा शुच इत्य् आह—किम् इति त्रिभिः । परोक्षैः वृथा यान्तीति अविदितैर् हायनैर् वर्षैः । विदितं तु मुहूर्तम् अपि वरम् । यतो वेदनेन । घटेत सयत्नो भवेत् ॥१२॥
———————————————————————————————————————
॥ २.१.१३ ॥
खट्वाङ्गो नाम राजर्षिर् ज्ञात्वेयत्ताम् इहायुषः13** ।**
मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **खट्वाङ्गो हि देव-पक्षे स्थित्वा दैत्यान् अजयत्, ततः प्रसन्नैर् देवैर् वरं वृणीष्व इत्य् उक्ते तेनोक्तं प्रथमं तावन् ममायुः कथ्यताम् इति, ततो देवैर् उक्तं तत् तु मुहूर्त-मात्रम् अस्तीति, ततोऽतिशीघ्रं विमानेन भुवम् आगत्य हरिं शरणं गत इति । यत इयं स्वर्ग-भुमी रजोऽधिका । कर्म-भूमिः प्र्थ्वी ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र खट्वाङ्ग-चरितं प्रमाणयति । खट्वाङ्ग इति ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **खट्वाङ्ग इत्य् अस्य टीकायां भुवम् आगत्य इति महा-विषय-दर्शनेन—चित्त-विक्षेपात् ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र खट्वाङ्ग-चरितं प्रमाणयति—खट्वाङ्गोऽपि देव-पक्षे स्थित्वा दैत्यान् अजयत्, ततः प्रसन्नैर् देवैर् वरं वृणीष्वेत्य् उक्तस् तान् आह—प्रथमं तावन् ममायुः कथ्यताम् इति । तैर् उक्तं—मुहूर्त-मात्रं तत् । ततस् तूष्णीम् एव शीघ्रं भुवम् आगत्य हरिं शरणं गत इति ॥१३॥
[अत्रानुरूपार्थकं भा। ९.९.४३, ११.२३.३० पद्ये द्रष्टव्ये ।]
———————————————————————————————————————
॥ २.१.१४ ॥
तवाप्य् एतर्हि कौरव्य सप्ताहं जीवितावधिः ।
उपकल्पय तत् सर्वं तावद् यत् साम्परायिकम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तव तु एतर्ह्य् अपीदानीम् अपि । तावद् इति तावता कालेन साम्परायिकं पारलौकिकं साधनं सम्पादय ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कौरव्येति । तव तु राज्ञः साम्पराय-साधन-सम्पादनं न दुष्करमाज्ञयैव सर्व-व्यवहार-सिद्धेर् इति भावः । सप्तानाम्-अह्नां समाहारः सप्ताहम् । रात्राह्नाहाः पुंसि इति त्वार्षत्वान् न ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यत् तु पूर्वम् इति लङ्घित-मर्यादं तक्षकः सप्तमेऽहनि [भा।पु। १.१८.३७] इति बटु-वचनं, यच् चेदानीम् अपि सप्ताहं जीवितावधिः इति श्री-शुक-वचनं, तद् उभयम् अपि श्री-भगवतैव तत्-तद्-आगमनस्य शीघ्र-घटनया घटत इति ज्ञेयम् । तत् सर्वं श्रवण-कीर्तनादि-रूपं—श्रोतव्यादीनि राजेन्द्र [भा।पु। २.१.२] इत्य् आद्य् उक्तेन न्यायेन, न ह्य् अतोऽन्यः शिवः पन्थाः [भा।पु। २.१.३३] इत्य्-आदि-वक्ष्यमाणेन च ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तवापि तव तु । अत एतर्ह्य् अपि समये । यत् साम्परायिकं पारलौकिकं साधनम् । तत् तावत् सर्वम् उपकल्पय कुरु ॥१४॥
———————————————————————————————————————
॥ २.१.१५ ॥
अन्त-काले तु पुरुष आगते गत-साध्वसः ।
छिन्द्याद् असङ्ग-शस्त्रेण स्पृहां देहेऽनु ये च तम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र वैराग्यं तावद् आह—अन्त-काल इति । गत-साध्वसो मृत्यु-भय-शून्यः । असङ्गो नाम अनासक्तिस् तेन शस्त्रेण स्पृहां सुखेच्छां, तं देहम् अनु ये पुत्र-कलत्रादयस् तेष्व् अपि स्पृहां छिन्द्यात् ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्रान्तकाले म्रियमाणेन किं कर्तव्यम् इति प्रश्ने योगेनैव स्वेच्छया देहं परित्यज्य सुखेनैव ब्रह्म-पदं प्रवेष्टं योगाभ्यास एव कर्तव्य इत्याचिख्यासूनां तन् महासदः स्थानां केषाञ् चिन्मतम्-अष्टाङ्ग-योगं स्वमतस्य शुद्ध-भक्ति-योगस्य पुनर् अपि द्वितीयाध्यायान्ते वक्तव्यस्योत्कर्षार्थम् आह । अन्तकाल इति ॥१५॥
———————————————————————————————————————
कैवल्य-दीपिका: तीव्राधिमात्रम् आह—अन्त-काल इति । गत-साध्वसः त्यक्त-मरण-भयः । असङ्ग-शस्त्रेण, असङ्गो ह्य् अयं पुरुषः [बृ।आ।उ। ४.३.१५] इत्य् उपदेश-दाऋढ्येन । तं देहम् अनु ये पुत्र-कलत्रादयस् तेषु ॥१५॥ [मु।फ। २.३९]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत एवान्त-काले इत्य्-आदि मध्यमं प्रकरणं केषाञ्चिद् अन्येषाम् एव साधनत्वेन ज्ञेयम् ॥१५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र म्रियमाणस्य किं कर्तव्यम् ? इति प्रश्ने, योगेनैव स्वेच्छया देहं परित्याज्य सुखेनैव ब्रह्म-पदं प्रवेष्टुं योगाभ्यास एव कर्तव्यः इत्य् आचिख्यसूनां तन्-महा-सदः-स्थानां केषांचिन् मतम् अष्टाङ्ग-योगं, स्वमतस्य शुद्ध-भक्ति-योगस्य पुनर् अपि द्वितीयाध्यायान्ते वक्तव्यस्योत्कर्षार्थम् आह—अन्त-काल इति । गत-साध्वसः मृत्यु-भय-शून्यः असङ्गोऽनासक्तिः । देहे तथा तं देहम् अनु ये पुत्र-कलत्रादयस् तेष्व् अपि ॥१५॥
———————————————————————————————————————
॥ २.१.१६-१७ ॥
गृहात् प्रव्रजितो धीरः पुण्य-तीर्थ-जलाप्लुतः ।
शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥**
अभ्यसेन् मनसा शुद्धं त्रिवृद्-ब्रह्माक्षरं परम् ।
मनो यच्छेज् जित-श्वासो ब्रह्म-बीजम् अविस्मरन् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च गृहात् प्रव्रजितो निर्गतः । गृहे स्थितस्य पुनर् अप्य् आसक्ति-सम्भवात् । तत्राष्टाङ्ग-योगम्14 आह । धीर इति ब्रह्मचर्यादि-यमोपलक्षणम् । पुण्य-तीर्थेति स्नानादि-नियमोपलक्षणम् । आसनम् आह—शुचाव् इति । विविक्ते एकान्ते । विधिवत् कुशाजिन-चैलैः क्रमेण निर्मिते ॥१६॥
जप-गर्भं प्राणायामं15 वक्तुं जप्यम् आह । त्रिवृद्-ब्रह्माक्षरं त्रिवृत् त्रिभिर् अकारादिभिर् वर्तितं ग्रथितं ब्रह्माक्षरं प्रणवं मनसाऽभ्यसेद् आवर्तयेत् । मनसेन्द्रिय-प्रत्याहारं वक्तुं प्राणायामेन मनो-नियमनम् आह । मनो यच्छेद् वशीकुर्यात् । ब्रह्म-बीजं प्रणवम् अविस्मरन्न् एव जित-श्वासः सन् ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आसन्नमरणस्यान्यद् अपि कृत्यम् आह किं च इति। तत्र गृहेतरे देशे । ब्रह्मणो वेदस्य बीजं कारणम् । ओंकार-प्रथमा वेदाः इत्य् उक्तेः ॥१६-१७॥
———————————————————————————————————————
कैवल्य-दीपिका: प्रव्रजितः सन्न्यस्य निर्गतः । धीरो गृहस्यास्मर्ता विधिवत्, नात्युच्-छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् [गीता ६.१२] इति । मनसा न तु वाचा । शुद्धम् उदात्तादि-धर्म-रहितम् । त्रिवृत् त्रिभिर् अ-कार-उ-कार-म-कारैर् वर्तितं ग्रथितम् । ब्रह्मणः प्रथमं रूपम् । अक्षरं वर्णं परं स्फोटात्मकम् । यच्छेत् स्थिरीकुर्यात् । जित-श्वासः प्राणायामैः । ब्रह्म-बीजम् ओंकारम् **अविस्मरन् **। स एव जप-गर्भः प्राणायामः ॥१६-१७॥ [मु।फ। २.४०-४१]
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **गृहाद् इति युग्मकम् ॥१६-१७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धीर इति ब्रह्मचर्यादि-यमः प्रथमः । पुण्य-तीर्थ-स्नानादिर् नियमो द्वितीयः । विधिवत् कुशाजिना-चैलैः क्रमेण कल्पिते आसने आसीन इत्य् आसनं तृतीयम् । त्रिभिर् अकारादिभिर् वृद् वर्तनं ग्रथनं यस्य तद् ब्रह्माक्षरं प्रणवम् अभ्यसेद् आवर्तयेज् जपेद् इति प्राणायामश् चतुर्थः । प्राणायाम-बाहुल्येनैव प्रथमं मनो यच्छेत् निश्चलीकुर्याद् इत्य् अर्थः । ब्रह्म-बीजं प्रणवम् ॥१६-१७॥
———————————————————————————————————————
॥ २.१.१८ ॥
नियच्छेद् विषयेभ्योऽक्षान् मनसा बुद्धि-सारथिः ।
मनः कर्मभिर् आक्षिप्तं शुभार्थे धारयेद् धिया ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **शुभार्थे भगवति ॥१८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रत्याहारम्16 आह । नियच्छेन् निगृह्णीयात् । अक्षान् इन्द्रियाणि । निश्चयात्मिका बुद्धिः सारथिर् यस्य सः । धारणाम्17 आह—मन इति । पुनश् च कर्मभिस् तद्-वासनाभिर् आक्षिप्तम् आकृष्टम् । शुभार्थे भगवद्-रूपे ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आकृष्टं प्राचीन-कर्मणां प्राबल्यात्-प्राणायामैर् अपि सम्यङ् निश्चली-कर्तृमशक्यम् इत्य् अर्थः ॥१८॥
———————————————————————————————————————
कैवल्य-दीपिका: अक्षान् इन्द्रियाश्वान् । मनसा प्रग्रहेण । कर्मभिः कर्म-वासनाभिः । आक्षिप्तं इतस् ततो नीतम् । शुभार्थे धारयेत् । हृदय-पुण्डरीके मूर्ध-ज्योतिषि नाभि-चक्रे नासिकाग्रे अन्यस्मिन् वा पाप-क्षय-करे वस्तुनि चतुर्भुजादौ बध्नीयात् ॥१८॥ [मु।फ। २.४२]
———————————————————————————————————————
कैवल्य-दीपिका: अक्षान् इन्द्रियाश्वान् । मनसा प्रग्रहेण । कर्मभिः कर्म-वासनाभिः । आक्षिप्तं इतस् ततो नीतम् । शुभार्थे धारयेत् । हृदय-पुण्डरीके मूर्ध-ज्योतिषि नाभि-चक्रे नासिकाग्रे अन्यस्मिन् वा पाप-क्षय-करे वस्तुनि चतुर्भुजादौ बध्नीयात् ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च नियतेन मनसा विषयेभ्यः शब्दादिभ्यः सकाशात्, अक्षान् कर्णादीनीन्द्रियाणि नियच्छेद् इति प्रत्याहारः पञ्चमः । निश्चयात्मिका बुद्धिर् एव सारर्थिर् यस्य सः । ततो मनः शुभेऽर्थे भगवद्-रूपे, धिया धारयेद् इति धारणा षष्ठी । कीदृशं मनः ? कर्मभिर् आक्षिप्तं—प्राचीन-कर्मणाम् अतिर्प्राबल्यात् प्राणायामैर् अपि सम्यक् निश्चलीकर्तुम् अशक्यम् इत्य् अर्थः ॥१८॥
———————————————————————————————————————
॥ २.१.१९ ॥
तत्रैकावयवं ध्यायेद् अव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युक्त्वा ततः किं च न न स्मरेत् ।
पदं तत् परमं विष्णोर् मनो यत्र प्रसीदति ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विषयेभ्यो निर्गत्य तत्रैव मनो युङ्क्त्वा अन्यन् न स्मरेत् ॥१९॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ध्यानम्18 आह—तत्र इति । एकम् एकं-पादाद्य्19 अवयवम् । अव्युच्छिन्नेन समग्र-रूपाद् अवियुक्तेन । आश्रय-विशेषेण सामान्यतश् चित्त-स्थिरीकरणं धारणा । अवयव20-विभावनया तद्-दार्ढ्यं ध्यानम् इति भेदः । समाधिम् आह21 । निर्विषयं मनो युंक्त्वा समाधाय । स्थिरीभूते मनसि स्फुरत्-परमानन्द-मात्राकारं कृत्वेत्य् अर्थः । प्रसीदति उपशाम्यति ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र भगवद् रूपे निर्विषयं विषय-स्पर्श-रहितं ततोऽन्यत् किं च, न किम् अपि । इत्य् अर्थ इति । यन् मनसः परमानन्दाकारता तद् एव भगवतो विष्णोः परमं पदं ब्रह्मेति भावः । प्रसीदति उपशाम्यति । यत्र परमानन्दे सति निज-चाञ्चल्यं त्यक्त्वा स्थिरी-भवतीत्य् अर्थः ॥१९॥
———————————————————————————————————————
कैवल्य-दीपिका: तत्रापि क्रमाद् एकैकावयवं ध्यायेत् । अव्युच्छिन्नेन ध्येयान्तर-रहितेन । युक्त्वा समाधाय तच् च निर्विषयं मनः ॥ [मु।फ। २.४३]
पदं विष्णोर् निराकारस्य परमं पदं स्फूर्ति-स्थानम् । यत्र यस्याः दशायाम् । प्रसीदति सत्त्व-मात्र-शेषम् अवतिष्ठते । अयम् अर्थः—उक्त-भूमिकाभ्यास-बलात्, सर्व-वृत्ति-प्रत्यस्त-मये संस्कार-शेषे चेतसि निरुद्धे असम्प्रज्ञात-समाधिना निर्विशेष-चैतन्य-लाभः । ततश् च स संस्कारं चित्तं निवर्तते । तस्मिंश् च निवृत्ते पुरुषः स्वरूपं प्रविष्टः शुद्धः केवलो मुक्त इत्य् उच्यते । तथा च सूत्रं, तदा द्रष्टुः स्वरूपेऽवस्थानम् [यो।सू। १.३], अयम् एव मुक्ति-शब्दार्थः । मुक्तिर् हित्वान्यथा-रूपं स्वरूपेण व्यवस्थितिः [भा।पु। २.१०.७] इत्य् अत्रोक्तः । तद् एवम् आप्लुतो धीर [२.१.१६] इति यम-नियमोपलक्षणम् । आसीन [२.१.१६] इत्य् आसनम् उक्तम् । अभ्यसेद् [२.१.१७] इति प्राणायामः । नियच्छेद् [२.१.१७] इति प्रत्याहारः । ततो धारयेद् [२.१.१८] इत्य् अविषयस्य क्रमाद् विषयी-करण-रूपा धारणा । ध्यायेद् [२.१.१९] इति तस्यैव क्रम-त्यागो ध्यानम् । युक्त्वा [२.१.१९] इति निर्विषयता-रूप-समाधिर् इत्य् अष्टाङ्गो योग उक्तः। शुको राजानं प्रति ॥१९॥ [मु।फ। २.४४]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्रैकावयवम् एकम् एकं भगवद्-अङ्गं ध्यायेद् इति ध्यानं सप्तमम् । आश्रय-विशेषे सामान्यतश् चित्त-स्थिरीकरणं धारणा । अवयव-भावनया तद्-दार्ढ्यं ध्यानम् इति भेदः । अव्युच्छिन्नेन त्स्माद् वियुक्तेन । निर्विषयं विषय-स्पर्श-रहितम् । युक्त्वा संयोज्य । किं च, न ततोऽन्यत् किम् अपि न स्मरेत् । तद् एव विष्णोर् भगवतः पदं स्वरूपं ब्रह्मेत्य् अर्थः । यत्र सति मनः प्रसीदति उपशाम्यतीति समाधिर् अष्टम इत्य् उक्तः ॥१९॥
———————————————————————————————————————
॥ २.१.२० ॥
रजस्-तमोभ्याम् आक्षिप्तं विमूढं मन आत्मनः ।
यच्छेद् धारणया धीरो हन्ति या तत्-कृतं मलम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गुण-वशात् पुनर् अपि क्षोभे सति धारणाम् एव स्थिरीकुर्याद् इत्य् आह । रजसा आक्षिप्तं तमसा विमूढं स्वीयं मनो निरुन्ध्यात् । तत्-कृतं रजस्-तमोभ्यां कृतम् ॥२०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : या धारणा ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अतिविक्षिप्तस्य मूढ-चित्तस्य तु साक्षाच् छ्री-भगवति धारणा न सम्पद्यते । अतस् तस्य विक्षेप-हेतुं तत्-स्थूल-रूपं प्रपञ्चयन् तद्-धारणां योगाभ्यास-यत्नेन सम्पादयति—रज इत्य्-आदिना ॥२०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुण-वशात् पुनर् अपि क्षोभे सति धारणाम् एव स्थिरीकुर्याद् इत्य् आह । रजसा आक्षिप्तम् । तमसा विमूढम् । स्वीयं मनो निरुद्ध्यात् । तत् कृतं रजस्-तमोभ्यां कृतम् ॥२०॥
———————————————————————————————————————
॥ २.१.२१ ॥
यस्यां सन्धार्यमाणायां योगिनो भक्ति-लक्षणः ।22
आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **भद्रं हरिम् ॥२१॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यतो यस्यां क्रियमाणायां भद्रं सुखात्मकम् आश्रयं विषयं पश्यतस् तत्रैव प्रीतिर् भवति ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भक्तिर् एव लक्षणं चिह्नं यस्य सः । भक्ति-मिश्रस्यैव योगस्य मोक्ष-साधकतोक्तेर् न तु भक्ति-रहितस्येति भावः । सुखात्मकं भगवन्तम् ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भक्ति-लक्षणः पूर्वोक्त-धारणादि-रूपः ॥२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यतः यस्यां धारणायाम् । भक्तिर् एव लक्षणं चिह्नं यस्य सः । भक्ति-मिश्रस्यैव योगस्य मोक्ष-साधकतोक्तः, न तु भक्ति-रहितस्येति भावः । योगिनः कीदृशस्य ? भद्रम् आश्रयं भगवन्तम् ईक्षतः धारणया ईक्षमाणस्य ॥२१॥
———————————————————————————————————————
॥ २.१.२२ ॥
राजोवाच—
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
यादृशी वा हरेद् आशु पुरुषस्य मनो-मलम् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यच्-छब्दः प्रश्ने । यतश् चोदेति सूर्य इत्य् आदिवत् । यच्-छब्दस् तु परामर्शे प्रश्नार्थे चाभिभण्यते इत्य् अभिधाने । यथेत्य् अस्य जितासन इत्य् आदि । यत्र स्थूलं यादृशीत्य् अस्य विशेष इत्य् आदि ॥२२॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथा23 यत्र यादृशी चेतिकर्तव्यताविषय-तत्-तद्-विशेषाणां प्रश्नाः ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **राजोवाचेति भक्ति-मिश्र-योगे राज्ञो जिज्ञासेव न तु चिकीर्षा शुकदेव-शिष्यस्य तस्य शुकस्याभिमतायां शुद्ध-भक्ताव् एव प्रवृत्त्य् औचित्यात् इति । कर्तव्यता तत्-करण-रीतिस् तस्या विषये तत्-तद् भेदानां प्रश्नाः ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यथेति । अयम् अपि राज-प्रश्नोऽन्य-हितार्थ एव ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **राजोवाचेति भक्ति-मिश्र-योगे राज्ञो जिज्ञासैव, न तु चिकीर्षा । शुकदेव-शिष्यस्य शुकस्याभिमतायां शुद्ध-भक्ताव् एव प्रवृत्त्य्-औचित्यात् ॥२२॥
———————————————————————————————————————
॥ २.१.२३ ॥
श्री-शुक उवाच—
जितासनो24** जित-श्वासो जित-सङ्गो जितेन्द्रियः ।**
स्थूले भगवतो रूपे मनः सन्धारयेद् धिया ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यथेत्य् अस्योत्तरं—जितासन इति । विषयम्25 आह—स्थूल इति सार्धेन ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत्र सन्मतेत्यस्योत्तरं वदन पूर्वोक्तस्यान्तर्यामिणश् चिद्-धन-स्वरूपे धारणायामसमर्थानामशुद्ध-चित्तानां योगिनां राग-द्वेषादि-मालिन्य-निवृत्त्य् अर्थं वैराज-धारणाम् आह स्थूल इति ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यथा सन्धार्यते [भा।पु। २.१.२२] इत्य् अस्योत्तरम् आह—जितासन इति । यत्र संमता इत्य् अस्योत्तरं वदन् पूर्वोक्तस्यान्तर्यामिणश् चिद्-घन-स्वरूपे धारणायाम् असमर्थानाम् अशुद्ध-चित्तानां योगिनां राग-द्वेषादि-मालिन्य-निवृत्त्य्-अर्थं वैराज-धारणाम् आह—स्थूल इति ॥२३॥
———————————————————————————————————————
॥ २.१.२४ ॥
विशेषस् तस्य देहोऽयं स्थविष्ठश् च स्थवीयसाम् ।
यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विशेषः अण्ड-कोशः ।
शिलावत् तस्य देहोऽयम् अण्ड-कोशस् तु सा वृत्तिः ।
तत् तन्त्रत्वात् संस्थ-दुःख-भोगस्य न क्वचिद् ॥ इति ब्रह्म-वैवर्ते ॥२४॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विशेषो विराड्-देहः अतिस्थूलानाम् अपि स्थूलतरः । सत् कार्य-मात्रम् ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत्रेदं दृश्यत इत्य् अनेन दृश्य-श्रव्यादि-वस्तु-मात्राणां भगवद् विभूतित्वाद् भगवद् रूपत्वेन ध्येयत्वे सति स्पर्द्ध-सूयादयो न क्वापि भवेयुर् इत्य् अतः स्पर्द्धाद्य् अभावे चित्त-शुद्धिश् चित्त-शुद्धौ च चिद्-धनात्मक-श्री-नारायण-मूर्तौ धारणा सुकरा स्याद् इति द्योतितम् ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशेषः **समष्टिर् विराट् । यत्रेदं दृश्यते [व्यज्यते] इत्य् अनेन दृश्य-श्रव्यादि-वस्तु-मात्राणां भगवद्-विभूतित्वाद् भगवद्-रूपत्वेन ध्येयत्वे सति स्पर्धासूयादयो न क्वापि भवेयुर् इति । अतः स्पर्धाद्य्-अभावे चित्त-शुद्धिः, चित्त-शुद्धौ च चिद्-घनात्मक-श्री-नारायण-मूर्तौ धारणा अतिसुकरा स्याद् इति द्योतितम् । सत् कार्य-मात्रम् ॥२४॥
———————————————————————————————————————
॥ २.१.२५ ॥
अण्ड-कोशे शरीरेऽस्मिन् सप्तावरण-संयुते ।
वैराजः26** पुरुषो योऽसौ भगवान् धारणाश्रयः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **
अण्ड-कोषो विराट् प्रोक्ता विशेषेण प्रकाशनात् ।
वैराजस् तद्-गतो विष्णुर् अथ वा सर्वतो वरः ॥ इति भागवत-तन्त्रे ॥२५॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्य चोपलक्षणत्वेन विषयत्वं, वस्तुतस् तु विराड् जीव-नियन्ता भगवान् एव विषय इत्य् आह । अण्ड-कोशान्तर्-वर्तिनि कटाह एव पृथिव्य्-आवरणम् । ततः अप्-तेजो-वाय्व्-आकाशाहंकार-महत्-तत्त्वानीति सप्त ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अस्य च विराङ् देहस्य च अण्ड-कोशस्यान्तर्वर्ती कटाहस्तदाकारः पृथिवी देहो यत्र विश्वं स्थितं स एव पृथिव्यावरणं न तु ततोन्यत् ततस् तेन सहाबादयः सप्त ज्ञेया इत्य् अर्थः । वैराजो हिरण्य-गर्भस्य देहः भगवान् इति हिरण्य-गर्भान्तर्यामी गर्भोदशायी । द्वितीयः पुरुषस् तत्-प्रतिमात्वेनोपास्यमानो वैराजोऽपि भगवच् छब्देनोच्यते ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स एव विशेषः कुत्र को वा ? इत्य् अत आह—अण्ड-कोषे पञ्चाशत्-कोटि-योजन-प्रमाणे ब्रह्माण्डे पृथिव्य्-आप्-तेजो-वाय्व्-आकाशाहङ्कार-महत्तत्त्वानीति सप्तावरणानि, तैर् युते । वैराजो हिरण्यगर्भस्य देहः । भगवान् इति हिरण्यगर्भान्तर्यामी गर्भोदशायी द्वितीयः पुरुषः, तत्-प्रतिमत्वेनोपास्यमानो वैराजोऽपि भगवच्-छब्देनोच्यते ॥२५॥
———————————————————————————————————————
॥ २.१.२६ ॥
पातालम् एतस्य हि पाद-मूलं
पठन्ति पार्ष्णि-प्रपदे रसातलम् ।
महातलं विश्व-सृजोऽथ गुल्फौ
तलातलं वै पुरुषस्य जङ्घे ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **प्रतिमापेक्षयाङ्गानि स्वरूपापेक्षया तज्-जानि तद्-आश्रितानि च ॥२६॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विराड्-देह-तज्-जीव-तद्-अन्तर्यामिणाम् अभेदम् आरोप्योपासनं कर्तव्यम् इत्य् आशयेनाह । पातालं पाद-मूलं पादस्याधो-भागम् । पातालादीनां तद्-अवयवता विधीयते। पातालादीन्य् अतलान्तान्य् अधस्तनाद् आरभ्य सप्त भू-विवराणि । पठन्ति गृणन्तीत्य्-आदि-प्रमाण-प्रदर्शनम् । पार्ष्णि-प्रपदे पादस्य पश्चात्-पुरो-भागौ ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पठन्ति वेदा इति । न त्वम् एव वदामीति प्रमाण-प्रदर्शनम् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य पादादित्वेन किं किं ध्येयम् ? इत्य् अपेक्षायाम् आह—पाद-मूलं पादस्याधो-भागम् । पार्ष्णि-प्रपदे पादस्य पश्चात्-पुरो-भागौ ॥२६॥
———————————————————————————————————————
॥ २.१.२७ ॥
द्वे जानुनी सुतलं विश्व-मूर्तेर्
ऊरु-द्वयं वितलं चातलं च ।
महीतलं तज्-जघनं27** महीपते**
नभस्तलं28** नाभि-सरो गृणन्ति ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऊरु-द्वयस्याधो-भागे वितलं, उत्तर-भागे अतलम् इति ज्ञेयम् । नाभिर् एव सरः॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऊरु-द्वयम् इति । तस्याधो-भागे वितलम् ऊर्ध्व-भागे अतलम् इति ज्ञेयम् ॥२७॥
———————————————————————————————————————
॥ २.१.२८ ॥
उरः-स्थलं ज्योतिर्-अनीकम् अस्य
ग्रीवा महर् वदनं वै जनोऽस्य ।
तपो रराटीं विदुर् आदि-पुंसः
सत्यं तु शीर्षाणि सहस्र-शीर्ष्णः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्योतिर्-अनीकं ज्योतिषां समूहं स्वर्गम् । महर्-लोकं ग्रीवेति गृणन्ति29 । तपो-लोकं रराटीं ललाटम् । सत्यं सत्य-लोकम् ॥२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महीतलं भूतलं तज् जधनं कटितटम् । महीपते इति । एतद् ध्याने विशेषतस् त्वया कार्यम् इति भावः । अगाधत्वाद् ब्रह्म-जनक-पद्म-निदानत्वाद्वा नाभिसर इत्य् उक्तम् ॥२७-२८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उरः-स्थलम् इत्य् अस्य टीकायां गृणन्तीत्य् अत्र विदुर् एवान्वेतुं युक्तम् ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्योतिर्-अनीकं ज्योतिषां समूहं स्वर्गम् । रराटीं ललाटम् । सत्यं सत्य-लोकम् ॥२८॥
———————————————————————————————————————
॥ २.१.२९ ॥
इन्द्रादयो बाहव आहुर् उस्राः
कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः ।
नासत्य-दस्रौ परम् अस्य नासे
घ्राणोऽस्य गन्धो मुखम् अग्निर् इद्धः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उस्रा देवाः तेजोमय-शरीरत्वात् ते बाहव इत्य् आहुः । दिशोऽस्मद्-आदि-श्रोत्राधिष्ठात्र्यो देवताः कर्णौ श्रोत्रस्याधिष्ठानम् । शब्दस् तु श्रोत्र-विषयः । स तस्य श्रोत्रेन्द्रियम् । एवं30 नासिकादिष्व् अपि । नासत्य-दस्राव् अश्विनौ31नासे नासा-पुटे । इद्धो दीप्तः ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र व्यष्टि-समष्टि-विराजोर् यद्यपि तुल्यात्माध्यात्म्यादि-विभागस् तथापि समष्टि-विराडयं हिरण्य-गर्भोपासकैर् योगिभिः परमेश्वरत्वेनोपास्य इति । परमेश्वरस्य चेन्द्रियेभ्य एव विराजो विषया भवन्ति । तदीयेन्द्रियाधिष्ठानेभ्यस्त्व् इन्द्रियाणि तद् अधिष्ठात्र्यो देवताश् च स्युर् इति । कार्य-कारणयोर् भेदोपचारादैक्येन दिक् शब्दादिभिः समष्टि-विराजोऽस्य परमेश्वरत्वेन ध्येयत्वात् कर्ण-श्रोत्रादि-कल्पना ज्ञेया ॥२९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इन्द्रादय इति । अत्र टीकायां—एवं नासिकादिष्व् अपि इति प्रायिकम् एव ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उस्रा देवाः । इन्द्रादयो देवा बाहव इत्य् आहुः । दिशोऽस्मद्-आदि-श्रोत्राधिष्ठात्र्यो देवताः । अस्य कर्णौ श्रोत्रस्याधिष्ठानम् । शब्दोऽस्मद्-आदि-श्रोत्र-विषयः । अमुष्य श्रोत्रेन्द्रियम् । एवम् एव सर्वत्र व्यवस्था । अत्र व्यष्टि-समष्टि-विराजोर् यद्यपि तुल्य एवाध्यात्मादि-विभागः, तद् अपि समष्टि-विराड् अयं हिरण्यगर्भोपासकैर् योगिभिः परमेश्वरत्वेनोपास्य इति परमेश्वरस्य इन्द्रियेभ्य एव विराजो विषया भवन्ति । तदीयेन्द्रियाधिष्ठानेभ्यस् त्व् इन्द्रियाणीन्द्रियाधिष्ठात्र्यो देवताश् च स्युर् इति कार्य-कारणयोर् अभेदोपचाराद् ऐक्येन । दिक्-शब्दादिभिः समष्टि-विराजोऽस्य परमेश्वरत्वेन ध्येयत्वात् कर्ण-श्रोत्रादि-कल्पना ज्ञेया । नासत्य-दस्राव् अश्विनौ । नासे नासा-पुटे । इद्धो दीप्तः ॥२९॥
———————————————————————————————————————
॥ २.१.३० ॥
द्यौर् अक्षिणी चक्षुर् अभूत् पतङ्गः
पक्ष्माणि विष्णोर् अहनी उभे च ।
तद्-भ्रू-विजृम्भः परमेष्ठि-धिष्ण्यम्
आपो32‘स्य तालू रस एव जिह्वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्यौर् अन्तरिक्षम् । अक्षिणी नेत्र-गोलके । चक्षुर् इन्द्रियम् । पतङ्गः सूर्यः । अहनी रात्र्य्-अहणी । परमेष्ठि-धिष्ण्यं ब्रह्म-पदम् । तालुर् अधिष्ठानम् । जिह्वा इन्द्रियम् ॥३०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **द्यौर् अन्तरिक्षं तत्रत्यः सूर्यश् चाक्षिणी नेत्र-गोलके । यद् वा, द्युपदेन मञ्चाः क्रोशन्तीति-वत्सूर्यो लक्ष्यते । पतङ्गो रूपं चक्षुर् इन्द्रिम् । अत्र पतङ्ग-पदेन तैजसं रूपं लक्ष्यते न तु सूर्य उच्यते । दिवः सूर्यस्य चाक्षिणी । इति । एतद्वै पौरुषं रूपम् । भूः पादौ । द्यौः शिरः । नभः नाभिः । सूर्योक्षिणी । नासे वायुः । कर्णौ दिशः । प्रभोर् इत्य् अग्रिम-वाक्य-विरोधात् अहनी रात्र्य् अहनी नपुंसकमनपुंसकेन इति नपुंसक-शेषः । लिङ्ग-समवायन्यायेन वाहः पदेन रात्रेर् अपि ग्रहणम् । आपो वरुणः ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **चक्षुषि व्यभिचारात् तत्र हि सूर्यस्यैव हि गोलोकत्वेन प्राप्तत्वात् । तद् एवम् अत्र युक्तिर् नानुसन्धेया किन्तूपासनार्थं शास्त्राज्ञैव कारणम् इति सर्वं समञ्जसम् ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्यौर् अन्तरिक्षम् । तत्रत्यः सूर्यश् चाक्षिणी नेत्र-गोलके । यथा—द्यु-पदेन मञ्चाः क्रोशन्तीति न्यायेन सूर्यो लक्ष्यते । पतङ्गो रूपं चक्षुर् इन्द्रियम् । अत्र पतङ्ग-पदेन तैजसं रूपं लक्ष्यते, न तु सूर्य उच्यते । दिवः सूर्यस्य चाक्षिणी [भा।पु। २.६.३] इति।
एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।
नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ [भा।पु। १२.११.६]
इत्य् आद्य् अग्रिम-वाक्य-विरोधात् । अहनी रात्र्य्-अहणी । मिथुन-गण-लक्षणया लिङ्ग-समवाय-न्यायेनाहः-शब्देन रात्रिर् अप्य् उच्यते । परमेष्ठि-धिष्ण्यं ब्रह्म-पदम् । आपो वरुणम् । तालुर् अधिष्ठानम् । जिह्वा इन्द्रियम् ॥३०॥
———————————————————————————————————————
॥ २.१.३१ ॥
छन्दांस्य् अनन्तस्य शिरो गृणन्ति
दंष्ट्रा यमः स्नेह-कला द्विजानि ।
हासो जनोन्माद-करी च माया
दुरन्त-सर्गो यद्-अपाङ्ग-मोक्षः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **बहु-रूपत्वाद् दंष्ट्रार्यमेन्दु इत्य् आदि ।
प्रतिमापेक्षयाङ्गानि भुवादीनि स्वरूपतः ।
तद्-आश्रितानि तज्-जानि बह्व्-अङ्गत्वं बहुत्वतः ॥ इति ब्रह्म-तर्के ॥३१॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : छन्दांसि वेदाः । शिरो ब्रह्म-रन्ध्रम् । स्नेह-कलाः पुत्रादि-स्नेह-लेशाः । द्विजानि दन्ताः, षण्ढत्वम् आर्षम् । दुरन्तोऽपारः सर्ग इति यत् स तस्य कटाक्षह् ॥३१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **षण्ढत्वं क्लीबत्वम् ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छन्दांसि वेदाः । शिरो ब्रह्म-रन्ध्रम् । स्नेह-कलाः पुत्रादि-स्नेह-लेशाः । द्विजानि दन्ताः, षण्डत्वम् आर्षम् । दुरन्त-सर्ग अपार-संसारः ॥३१॥
———————————————————————————————————————
॥ २.१.३२ ॥
**व्रीडोत्तरौष्ठोऽधर एव लोभो **
धर्मः स्तनोऽधर्म-पथोऽस्य पृष्ठम् ।
**कस् तस्य मेढ्रं वृषणौ च मित्रौ **
कुक्षिः समुद्रा गिरयोऽस्थि-सङ्घाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अधर्म-मार्गोऽस्य पृष्ठ-भागः । कः प्रजापतिः । मित्रौ मित्रा-वरुणौ ॥३२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्तनो दक्षिणः धर्म-स्तनाद् दक्षिणतः इत्य् उक्तेः । मेढ्रं शिश्नः ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मः स्तनो दक्षिणः । धर्म-स्तनाद् दक्षिणतः इत्य् उक्तेह् । कः प्रजा-पतिः । मेढ्रं शिश्नः । मित्रौ मित्रा-वरुणौ । वृषणाव् अण्ड-कोषौ ॥३२॥
———————————————————————————————————————
॥ २.१.३३ ॥
नाड्योऽस्य नद्योऽथ तनू-रुहाणि
मही-रुहा विश्व-तनोर् नृपेन्द्र ।
अनन्त-वीर्यः श्वसितं मातरिश्वा
गतिर् वयः कर्म गुण-प्रवाहः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्तं वीर्यं **यस्य सः । वयः कालस् तस्य गमनम् । **गुण-प्रवाहः **प्राणिनां संसारः कर्म तस्य क्रीडा ॥३३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनन्तः शेषो वा वीर्यं विक्रमो यस्य स तथा । हे नृपेन्द्रेति नर-पालकेषु मुख्यस्य तवैतद् ध्यानम्-अवश्यं कार्यम् इति भावः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्तः शेषो वीर्यं विक्रमो यस्य सः । वयः कालस् तस्य गतिर् गमनम् । गुण-प्रवाहः प्राणिनां संसारः । कर्म क्रीडा ॥३३॥
———————————————————————————————————————
॥ २.१.३४ ॥
ईशस्य केशान् विदुर् अम्बुवाहान्
वासस् तु सन्ध्यां कुरु-वर्य भूम्नः ।
अव्यक्तम् आहुर् हृदयं मनश् च
चन्द्रमाः सर्व-विकार-कोशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूम्नो विभोः । अव्यक्तं प्रधानम् । सः प्रसिद्धश् चन्द्रमास् तदीयं मनः । सर्वेषांविकाराणांकोश इवाश्रय-भूतम् ॥३४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे कुरुवर्येति । शुद्ध-कुलोद् भवत्वात् तुभ्यम् अहं योगि-ध्येय-रूपं वदामीति भावः ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूम्नः विभोः । अव्यक्तं प्रधानम् । तस्य हृदयं बुद्धिः । स प्रसिद्धश् चन्द्रमास् तदीयं मनः । सर्वेषां विकाराणां कोष इवाश्रय-भूतम् ॥३४॥
———————————————————————————————————————
॥ २.१.३५ ॥
**विज्ञान-शक्तिं महिम् आमनन्ति \
सर्वात्मनोऽन्तः-करणं गिरित्रम् । \ अश्वाश्वतर्य्-उष्ट्र-गजा नखानि**33** \ सर्वे मृगाः**34** पशवः**35** श्रोणि-देशे**36** ॥३५॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञान-शक्तिं चित्तम् । महिं महत्-तत्त्वम् । अन्तः-करणम् अहंकारम् । गिरित्रं श्री-रुद्रम् । गर्दभाद् वडवायाम् उत्पन्ना37अश्वतरी ॥३५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **गिरिः कैलासः । सर्वं गिरतीति गिरिः कालो वा । गृणाति तत्त्वम् इति गिरिर् वेदो वा तं तस्मात् तेन वा त्रायते इति गिरित्रो महादेवः । मृगा हरिणादयः पशवो गवादयः श्रोणि-देशे नितम्ब-प्रदेशे उपास्या इति शेषः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञान-शक्तिं चित्तम् । महिं महत्-तत्त्वम् । अन्तः-करणम् अहंकारम् । गिरित्रं श्री-रुद्रम् । गर्दभाद् वडवायाम् उत्पन्नाअश्वतरी ॥३५॥
———————————————————————————————————————
॥ २.१.३६ ॥
वयांसि तद्-व्याकरणं विचित्रं
मनुर् मनीषा मनुजो निवासः ।
गन्धर्व-विद्याधर-चारणाप्सरः
स्वर-स्मृतीर् असुरानीक-वीर्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वयांसि पक्षिणः । तस्य व्याकरणं नाम-रूपे व्याकरवाणीति श्रुत्य्-उक्तं शिल्प-नैपुण्यम् । यथाहुः—
येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः ।
मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ इति ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य शिल्पनै-पुण्ये प्रमाणम् आह । यथाहुर् इति । पुरुषत्वे मनुष्यत्वेऽतिशयेन प्रकट आत्मास्तीति श्रुति-पदार्थः । इत्य् अर्थः इति प्रथमार्थे द्वितीयेति भावः ॥३६॥
मनुः स्वायम्भुवः, मनीषा बुद्धिः, मनुजः पुरुषः, निवास आश्रयः । पुरुषत्वे चाविस्तरामात्मा इति श्रुतेः । गन्धर्वादीनां द्वन्द्वैक्यम् गन्धर्वादयः । स्वर-स्मृतीह् षड्जादि-स्वर-स्मृतय इत्य् अर्थः । असुरानीकं वीर्यं यस्य सः । “स्वरः स्मृतिर् असुरानीक-वर्यः” इति पाठे गन्धर्वादयः स्वरः असुर-समूह-श्रेष्ठः प्रह्लादः, स्मृतिस् तस्येति ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वयांसि पक्षिणस् तस्य व्याकरणं नाम-रूपे व्याकरणानीति श्रुत्य्-उक्तं शिल्प-नैपुण्यम् । यथाहुः—
येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः ।
मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ इति ।
मनुः स्वायम्भुवः । मनीषा विचारवती बुद्धिः । मनुजः पुरुषः । पुरुषत्वे चाविस्तरम् आत्मा इति श्रुतेः । गन्धर्वादीनां द्वन्द्वैक्यम् । गन्धर्वादयः स्वरः षड्-अजादिः । असुरानीक-वर्यः प्रह्लादः स्मृतिः । “स्वर-स्मृतीर् असुरानीक-वीर्यः” इति पाठे स्वराणां स्मृतयः असुरानीकं वीर्यं यस्य सः ॥३६॥
———————————————————————————————————————
॥ २.१.३७ ॥
ब्रह्माननं क्षत्र-भुजो महात्मा
विड् ऊरुर् अङ्घ्रि-श्रित-कृष्ण-वर्णः ।
नानाभिधाभीज्य-गणोपपन्नो
द्रव्यात्मकः कर्म वितान-योगः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मा विप्रः, तस्य्आननं मुखम् । क्षत्रं क्षत्रियो भुजौ यस्य । विड् वैश्य ऊरू यस्य । अङ्घ्री-श्रितः कृष्ण-वर्णः शूद्रो यस्य । नानाभिधा नामानि येषां ते च ते अभीज्या देवाः, तेषां गणैर् वसु-रुद्रादिभिर् उपपन्नो युक्तो द्रव्यात्मको हविः साध्यो वितान-योगो यज्ञ-प्रयोगस् तस्य कर्म कार्यम् । आवश्यकोऽभिप्रेत इत्य् अर्थः ॥३७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अङ्घ्रि-श्रितः अङ्घ्री पादौ श्रितः । कृष्ण-वर्णत्वं शूद्रस्य शुद्धतामसत्वात् । इत्य् अर्थ इति । आवश्यकं कृत्यम् इति भावः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मा विप्रः, तस्य्आननं मुखम् । क्षत्रं क्षत्रियो भुजा यस्य । विड् वैश्य ऊरू यस्य सः । अङ्घ्री-श्रितः कृष्ण-वर्णः शूद्रो यस्य सः । नानाभिधा नामानि येषां ते च ते अभीज्या देवाः, तेषां गणैर् वसु-रुद्रादिभिर् उपपन्नो युक्तः । द्रव्यात्मको हविः साध्यो वितान-योगो यज्ञ-प्रयोगस् तस्य कर्म कार्यम् आवश्यकं कृत्यम् ॥३७॥
———————————————————————————————————————
॥ २.१.३८ ॥
इयान् असाव् ईश्वर-विग्रहस्य
यः सन्निवेशः कथितो मया ते ।
सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे
मनः स्व-बुद्ध्या न यतोऽस्ति किञ्चित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इयान् एतावान् सन्निवेशोऽवयव-संस्थानम् । अस्मिन्स्व-बुद्ध्या मनः सन्धार्यते मुमुक्षुभिः । यतो व्यतिरिक्तं किंचिन् नास्ति तस्मिन् ॥३८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्रायम् अर्थः स्व-चाञ्चल्य-वशाद्य् अत्र यत्र भ्रमति तत्र तत्रैव भगवत इदम् अमुकम्-अङ्गम् इति स्व-बुद्ध्या विचारयेत् । एवञ् च मनसः स्वाभाविकाः सर्व एव विषया भगवद् अङ्गान्येवेति सर्वम् अपि चिन्तनं भगवच् चिन्तनत्वेन पर्यवस्येत् । तथा स्पर्द्धावज्ञादयो भावा नैवोत्पधेरन् । स्पर्द्धादि-विषयानां मनुष्य-गन्धर्वादीनाम् अपि भगवद् अङ्ग-भूतत्वेन ध्यायेदेवेति ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इयान् एतावान् । सन्निवेशः अवयव-संस्थानम् । अस्मिन्वपुषि । **स्व-बुद्ध्या **सारथि-भृतयेत्य् अर्थः । मनः सन्धार्यते योगिभिः । यतो व्यतिरिक्तं **किञ्चिद् अपि नास्ति **तस्मिन् ।
अयम् अर्थः—मनो हि स्व-चाञ्चल्य-वशाद् यत्र यत्र भ्रमति, तत्र तत्रैव भगवत इदम् अमुकम् अङ्गम् इति स्व-बुद्ध्या विचारयेत् । एवं च मनसः स्वाभाविकाः सर्व एव विषया भगवद्-अङ्गान्य् एवेति सर्वम् अपि चिन्तनं भगवच्-चिन्तनत्वेन पर्यवस्येत् । तथा स्पर्धावज्ञादयो भावा नैवोत्पद्येरन्, स्पर्धादि-विषयाणां मनुष्य-गन्धर्वादीनाम् अपि भगवद्-अङ्ग-भूतत्वेन ध्येयत्वाद् एवेति ॥३८॥
———————————————————————————————————————
॥ २.१.३९ ॥
स सर्व-धी-वृत्त्य्-अनुभूत-सर्व
आत्मा यथा स्वप्न-जनेक्षितैकः ।
तं सत्यम् आनन्द-निधिं भजेत
नान्यत्र सज्जेद् यत आत्म-पातः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं चित्त-स्थैर्यार्थं विराड्-देह-जीवेश्वराणाम् अभेदेनोपासनम् उक्तं, तत्र तु देह-जीवाव् ईश्वरे प्रविलाप्य स एव ध्येय इति निर्धारयति—स इति । सर्वेषां धी-वृत्तिभिर्38 अनुभूतं सर्वं येन, स एक एव सर्वान्तर आत्मा, तम् एव सत्यं भजेत । अन्यत्र उपलक्षणे न सज्जेत् । यत आसङ्गाद् आत्मनः पातः संसारो भवति।
एकस्य तत्-तद्-इन्द्रियैः सर्वानुभूतौ दृष्टान्तः—स्वप्न-जनानाम् ईक्षिता यथेति । स्वप्ने हि कदाचिद् बहून् देहान् प्रकल्प्य जीवस् तत्-तद्-इन्द्रियैः सर्वं पश्यति तद्वत् । ईश्वरस्य तु विद्या-शक्तित्वान् न बन्धः ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नन्व् एवं भगवद्-धारणाभ्यासस्यानुषङ्गिकानि फलानि भोगैश्वर्यादीन्य् अवश्यम् उत्पद्यत एव । योगी तानि स्वतः प्राप्तान्य् उपभुञ्जीत न वा ? इति । आद्ये शैथिल्य-प्रसङ्गः । तद् उक्तम्—
यदा न योगोपचितासु चेतो
मायासु सिद्धस्य विषज्जतेऽङ्ग ॥
अनन्य-हेतुष्व् अथ मे गतिः स्याद्
आत्यन्तिकी यत्र न मृत्यु-हासः ॥ [भा।पु। ३.२७.३०] इति ।
द्वितीये–उपस्थित-भोग-त्यागस्य दुष्करत्वम् इति । विवेकेनैव सर्वं सुकरम् इति विवेक-प्रकारं दर्शयति–स योगी, सर्वाभिर् धियां वृत्तिभिर् इन्द्रिय-लक्षणाभिः प्राचीन-सहस्र-सहस्र-जन्म-वर्तिनीभिर् अनुभूतम् एव सर्वं देवेन्द्रत्व-नरेन्द्रत्वादिकं भोगैश्वर्यादिकं येन सः । किं पुनश् चर्वित-चर्वणया ? इति भावः । न च तस्यापि स्थिरत्वम् इत्य् अत्र दृष्टान्तः—आत्मा जीवो यथा स्वप्ने जनानां पात्र-मित्र-सैन्यादीनां तद्-उपलक्षित-राज्यादि-भोगानां च स्व-सृष्टानाम् एक एव ईक्षिता अनुभविता । अतस् तं सत्यं सर्व-काल-देश-वर्तिनम्, आनन्दानां निधिं भगवन्तम् एव भजेत । न त्व् अन्यत्र असार्वदिक्त्वाद् असत्येऽनानन्द-निधौ विषय-सुखे इत्य् अर्थः इति **विश्वनाथः **। तत्र तु त्रयाणां मध्ये तु उपलक्षणे देहादौ विद्यया च तथेतर इत्य् उक्तेर् ईशस्य बन्धो नास्तीत्य् अर्थ इति स्वामि-चरणाः ॥३९॥
इति श्री-भागवत-भावार्थ-दीपिका-प्रकाशे द्वितीय-स्कन्धे प्रथमोऽध्यायः ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं विराड्-धारणाम् उक्त्वा तद्-अपवादेनापि तां पूर्वोक्तां भक्तिम् एवाह—स सर्व- इति । यः सर्व-धी- इत्य् अनुक्तत्वात् **स तं सत्यं भजेत **इति योजयितव्यस्य कर्तुर् विद्यमानत्वात् । अयम् एवार्थः—स तथाभूत-विराड्-धारणा-सिद्धो योगी विराड्-गताभिः सर्वाभीर् धी-वृत्तिभिर् ज्ञानेन्द्रियैर् अनुभूतं सर्वं विराड्-गतं येन तथाभूतः सन्, तं सत्यम् आनन्द-निधिं विराड्-अन्तर्यामिनं श्री-नारायणम् एव भजेत् । अन्यत्र विराड्-गते तद्-धारणावान्तर-फले च कुत्रापि न सज्जते, यतः सज्जमानाद् आत्म-पातः संसार एव स्यात् ।
तस्य सर्वानुभूतौ दृष्टान्तः—आत्म-स्वप्न-द्रष्टा जीवो यथा स्वप्न-गतानां सर्वेषां जनानां तद्-उपलक्षितानां वस्तूनां च, य एक एव ईक्षिता भवतीति, तद्वत् । अत्र तम् इत्य् अनेन स ऐक्षत [बृ।आ।उ। १.२.५, ऐ।उ। १.१.२] इति, स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति, श्रुति-प्रसिद्ध-परानपेक्ष-ज्ञानादि-सिद्धेस् तथा सन्ध्ये सृष्टिर् आह हि [वे।सू। ३.२.१], माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् [वे।सू। ३.२.३] इति न्याय-प्राप्तेन स्वप्नस्यापि कर्तृत्वेन जाग्रद्-आदिमय-जगत्-कर्तृत्वस्य पूर्णत्व-प्राप्ते वैलक्षण्यं दर्शितं सत्यादि-द्वयेन परम-पुरुषार्थत्वं चेति ज्ञेयम् ॥३९॥ [भक्ति-सन्दर्भः २६]]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् एवं भगवद्-धारणाभ्यासस्यानुषङ्गिकापि फलानि भोगैश्वर्यादीनि अवश्यम् उत्पद्यन्त एव योगी तानि स्वतः प्राप्तान्य् उपभुञ्जीत, न वा ? आद्ये योग-शैथिल्य-प्रसङ्गः । यद् उक्तं—
यदा न योगोपचितासु चेतो
मायासु सिद्धस्य विषज्जतेऽङ्ग ।
अनन्य-हेतुष्व् अथ मे गतिः स्याद्
आत्यन्तिकी यत्र न मृत्यु-हासः ॥ [भा।पु। ३.२७.३०] इति सत्यम् ।
द्वितीये उपस्थित-भोग-त्यागस्य दुष्करत्वम् इति । विवेकेनैव सर्वं सुकरम् इति विवेक-प्रकारं दर्शयति । स योगी, सर्वाभिर् धियां वृत्तिभिर् इन्द्रिय-लक्षणाभिः प्राचीन-सहस्र-सहस्र-जन्म-वर्तिनीभिर् अनुभूतम् एव सर्वं देवेन्द्रत्व-नरेन्द्रत्वादिकं भोगैश्वर्यादिकं येन सः । किं पुनश् चर्वित-चर्वणया ? इति भावः । न च तस्यापि स्थिरत्वम् इत्य् अत्र दृष्टान्तः—आत्मा जीवो यथा स्वप्ने जनानां पात्र-मित्र-सैन्यादीनां तद्-उपलक्षित-राज्यादि-भोगानां च स्व-सृष्टानाम् एक एव ईक्षिता अनुभविता । अतस् तं सत्यं सर्व-काल-देश-वर्तिनम्, आनन्दानां निधिं भगवन्तम् एव भजेत । न त्व् अन्यत्र असार्वदिक्त्वाद् असत्येऽनानन्द-निधौ विषय-सुखे इत्य् अर्थः ॥३९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वितीये प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां द्वितीय-स्कन्धे
महापुरुष-संस्थानुवर्णनं नाम
प्रथमोऽध्यायः ।
॥२.१॥
———————————————————————————————————————
(२.२)
-
“लोक-हितः” इति गो।संस्करणे पाठान्तरः। ↩︎
-
यन्-नाम-कीर्तनं दान-तपो-योगादि सत्-फलम् । तं नित्यं परमानन्दं हरिं नरम् अहं भजे ॥ इत्य् आरम्भे श्लोकोऽधिकः पुस्तकान्तरे । ↩︎
-
नाम-मात्रेण वस्तु-सङ्कीर्तनम् उद्देशः । लक्ष्यते ज्ञायते अनेनेति लक्षणम् । असाधारण-धर्म-कथनम् इति यावत् । ↩︎
-
“चिन्तां प्रकृत-सिद्ध्य्-अर्थम् उपोद्घातं विदुर् बुधाः” इति । प्रतिपाद्यम् अर्थं मनस्य् आकलय्य तद्-अर्थम् अर्थान्तर-वर्णनम् उपोद्घातः । ↩︎
-
प्रथम-स्कन्धान्ते यच् छ्रोतव्यम् अथो जाप्यम् [भा।पु। १.१९.३८] इत्य् आद्य् उक्तेषु । ↩︎
-
वर्णाश्रम-साधारण-धर्म-प्रश्नो हि वरः । स्वाश्रम-धर्म-प्रश्नो वरतरस् तत्रापि निष्कामेन तदाचरण-प्रश्नो वरतमः श्री-भगवद्-विषयकः प्रश्नस् तु वरीयान् एवेति चतुर्थ-कोटौ ही यसुन् प्रत्ययः । यः प्रश्नोऽपि श्रोतव्यादिषु परः यस्य प्रश्नस्यापि श्रवणादौ परम-पुरुषार्थः सिध्यतीत्य् अर्थः । (इत्य् अंशः कृष्ण-सन्दर्भे नास्ति।) ↩︎
-
पञ्च-सूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः । कण्डनी चोद-कुम्भश् च बध्यते याश् च वाहयन् ॥ ↩︎
-
तैश् च श्रोतव्य-जाप्यादिभिः । ↩︎
-
“सौख्येषु” इति गो-संस्करणे पाठान्तरः। ↩︎
-
“चेच्छता भवम्” इति चौ।संस्करणे पाठान्तरः । “स्वेच्छया विभुः” इति गो।संस्करणे पाठान्तरः । ↩︎
-
प्रेष्ठत्वम् इति । आत्मनः सर्वापेक्षया प्रियतमत्वस्य श्रुत्या बोधनात् । ↩︎
-
“नृपते गीतं” इति गो।संस्करणे पाठान्तरः । ↩︎
-
इह कर्म-भूमाव् आगत्येति शेषः । ↩︎
-
योगस्याष्टावङ्गानि यथा पातञ्जले—ऽयम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानिऽ इति ↩︎
-
जप-गर्भं प्राणायामम् इति । ‘श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामःऽ इति पातञ्जल-सूत्रम् । तत्र सगर्भ-निर्गर्भ-लक्षणं च—ऽसगर्भो मन्त्र-जापेन निर्गर्भो मात्रहा भवेत्ऽ इति । तत्र प्रणवादि-जप-सह-कृतो जप-गर्भ इति ज्ञेयम् । ↩︎
-
‘स्व-विषयासम्प्रयोगो चित्त-स्वरूपानुकारे इन्द्रियाणां प्रत्याहारःऽ इति । ↩︎
-
‘देश-बन्धश् चित्तस्य धारणाऽ इति । ↩︎
-
‘प्रत्ययैकतानता ध्यानम्ऽ इति । ↩︎
-
पादादीति । वक्ष्यमाण-स्कन्धः ३.२८.२० इत्य् अत्रोक्तदिशेति ज्ञेयम् । ↩︎
-
अवयवेति । अवयवानां पृथक् पृथग् यथाक्रमम् एकैकस्य स्वरूप-चिन्तयेत्य् अर्थः । ↩︎
-
समाधिम् आहेति तद् एवार्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः । ↩︎
-
भक्ति-लक्षणः पूर्वोक्त-धारणादि-रूपः । ↩︎
-
एवं संक्षेपतोऽष्टाङ्ग-योगं श्रुत्वा विस्तरतस् तज्-जिज्ञासुः पृच्छति । अयम् अपि राज-प्रश्नोऽन्य-हितार्थ एव । ↩︎
-
उत्तरम् आह “जितासन” इत्य् आरभ्य, “यावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत्” [भा।पु। २.२.१४] इत्य् अन्तेन । ↩︎
-
यत्र संमतेत्य् अस्योत्तरं स्थूले इति । स्थूले स्थविष्ठे विराड्-देहे । ↩︎
-
बाह्यतः कपित्थाकारेणान्तश्-चरणाद्य्-अवयववता कूर्मोपमेन रूपेण चतुर्-मुखाख्य-स्वाभिमानि-क्षेत्रज्ञ-भोग्यतया च विशेषतो राजत इति विराट् । तत्रोपास्यतया भवो वैराजः । ↩︎
-
जघनं नाभेर् अधोभाग इत्य् अर्थः । ↩︎
-
भूवर्लोकम् । ↩︎
-
गृणन्तीत्य् अत्र विदुर् इत्य् एवान्वेतुं युक्तम् । ↩︎
-
एवं नासिकादिष्व् अपीति प्रायिकम् एव चक्षुषि व्यभिचारात् । तत्र हि सूर्यस्यैव गोलकत्वेन प्राप्तत्वात् । तद् एवम् अत्र युक्तिर् नानुसन्धेया किन्तूपासनार्थं शास्त्राज्ञैव कारणम् इति सर्वं समञ्जसम् । क्रम॥ ↩︎
-
नासत्य इति दस्र इति च द्वौ अश्विनीकुमारौ तन्-नामाभ्याम्। ↩︎
-
आप इत्य् अनेन तद्-अधिष्ठाता वरुणः । ↩︎
-
नखानि नखोपलक्षितानि ऋक्षादीनीति केचित् । ↩︎
-
मृगा हरिणादयः । ↩︎
-
पशवो गवादयः । ↩︎
-
श्रोणि-देशे उपास्यास्तत्त्वेनानुसन्धेया इत्य् अर्थः । ↩︎
-
वडवा घोऋअकी। ↩︎
-
धियां वृत्तिभिर् इन्द्रिय-लक्षणाभिः प्राचीन-सहस्र-जन्म-वर्तिनीभिर् अनुभूतम् एव सर्वं देवेन्द्रत्व-नरेन्द्रत्वादिकं भोगैश्वर्वादिकं येन सः । किम् पुनश् चर्वित-चर्वणयेति भावः । ↩︎