विषयः
परीक्षितो गङ्गा-तटे प्रायोपवेशनम्, ऋषि-समागमः, शुकागमनम्, राज्ञः प्रश्नश् च ।
॥ १.१९.१ ॥
सूत उवाच—
मही-पतिस् त्व् अथ तत्-कर्म गर्ह्यं
विचिन्तयन्न् आत्म-कृतं सुदुर्मनाः।
अहो मया नीचम् अनार्य-वत् कृतं
निरागसि ब्रह्मणि गूढ-तेजसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
प्रायोपविष्टे गङ्गायां राज्ञि योगि-जनावृते ।
शुकस्यागमनं तत्र प्रोक्तम् एकोनविंशके ॥
स्व-कृतं तत्-कर्म मुनि-स्कन्धे सर्प-प्रक्षेपणं गर्ह्यं निन्द्यं चिन्तयन् सुदुर्मना जातः । चिन्ताम् एवाह साधार्भ्याम्—अहो इति । नीचं पापम् । अमीवम् इति पाठे स एवार्थः । ब्रह्मणि ब्राह्मणे । गूडं गुप्तं तेजो यस्य तस्मिन् ॥ ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
राजानुतप्य निर्विद्य कृते प्रायोपवेशने ।
ऊनविंशे मुनीन्द्राणां सदसि श्री-शुकागमः ॥
अथ स्व-गृहागमन-काले एव सुदुर्र्मना अभूत् । चिन्ताम् आह सार्धं द्वाभ्याम् । नीचं निन्द्यं कर्म । अमीवम् इति पाठे पापम् । ब्रह्मणि ब्राह्मणे ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
नृपेऽनुतप्य निर्विद्य प्राय-भृत्यूनविंशके ।
आजग्मुर् मुनयस् तत्र ततः श्री-बादरायणिः ॥ \
अथ गृहागम-काले एव राज्ञश् चिन्ताम् आह—महीति सार्ध-द्वयेन । तत्-कर्म तद् अंसे सर्प-निक्षेप-रूपं गर्ह्यं निन्द्यं, सुदुर्मना बभूवेति शेषः ॥१॥
॥ १.१९.२ ॥
ध्रुवं ततो मे कृत-देव-हेलनाद्
दुरत्ययं व्यसनं नाति-दीर्घात् ।
तद् अस्तु कामं ह्य् अघ-निष्कृताय मे
यथा न कुर्यां पुनर् एवम् अद्धा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृतं यद् देव-हेलनम् ईश्वरावज्ञा-पापम् इत्य् अर्थः । तस्मान् मे व्यसनं भविष्यति तत् तु नातिदीर्घात् कालाद् अचिराद् एवास्तु तत्राप्य् अद्धा साक्षान् ममैव न पुत्रादि-द्वारेणेति प्रार्थना । कामम् असङ्कोचतः । एवं प्रार्थनायाः प्रयोजनम् । अघस्य निष्कृताय प्रायश्चित्ताय । यथा पुनर् एवं न कुर्याम् इति ॥२॥
———————————————————————————————————————
सनातन गोस्वामी (दिग्-दर्षिनी) : नातिदीर्घाद् अचिराद् एवास्तु तत्रापि अद्धा साक्षात् न पुत्रादि-द्वारेणेत्य् अस्यार्थः ॥२॥ (बृ।भा। २.१.३०)
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अद्धा साक्षात् देवास् तु, न तु पुत्रादि-द्वारेण ॥२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यद्-ब्राह्मणावज्ञान-रूपं कर्म कृतं तद् एव देवस्य हरेर् हेलनं ततो हेतोर् दुरत्ययं दुष्परिहरं व्यसनं दुःखं नातिदीर्घाद् अधुनैव मे भविष्यति । तद् अप्य् अद्धा साक्षाद् एव, न तु पुत्रादि-द्वारा, तद्-व्यसनं मेऽघ-निष्कृताय कामं यथेष्टम् अस्तु, यथा पुनर् एवम् अघम् अहं न कुर्याम् ॥२॥
———————————————————————————————————————
॥ १.१९.३ ॥
अद्यैव राज्यं बलम् ऋद्ध-कोशं
प्रकोपित-ब्रह्म-कुलानलो मे।
दहत्व् अभद्रस्य पुनर् न मेऽभूत्
पापीयसी धीर् द्विज-देव-गोभ्यः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं साक्षात् स्वस्यैव व्यसनं संप्रार्थ्य ततः प्राग् एव किंचित् प्रार्थयते । अद्यैव मे राज्यादि दहतु प्रकोपितं ब्रह्म-कुलम् एवानलः । पुनर् द्विजादीन् पीडयितुं धीर् मे मा भून् न भवेद् इत्य् अर्थः ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अद्यैवेति । दहतु मे मत्तः सकाशाद् दग्धवद् अपयात्व् इत्य् अर्थः । राज्यादाव् अपरेषां द्विजादीनां सद्-भावेन तथाभिप्रेतुम् अयुक्तत्वात् ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **द्विज-देवता दुःखयितुं धीर् न मे अभूत् न भवेत् ॥३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **व्यसनं सञ्चिन्त्य ततः पूर्वं तन्-निष्कृति प्रार्थयते—प्रकोपितो ब्रह्म-कुल-रूपोऽनलोऽद्यैव मे राज्यादीन् दहतु । अभद्रस्य मे पुनः पापीयसी धीर् न भवेत् द्विजादीन् अवज्ञातुम् ॥३॥
———————————————————————————————————————
॥ १.१९.४ ॥
स चिन्तयन्न् इत्थम् अथाशृणोद् यथा
मुनेः सुतोक्तो निरृतिस् तक्षकाख्यः।
स साधु मेने न चिरेण तक्षका-
नलं प्रसक्तस्य विरक्ति-कारणम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इत्थं चिन्तयन् स राजा मुनेः सुतेनोक्तः सप्तमेऽहनि निरृतिर् मृत्युर् यथा भविष्यति तथाशृणोत् । शमीक-प्रेषित-शिष्याच् छ्रुत्वा च स तक्षकस्य विषाग्निं साधु मेने । यतो विषयेषु प्रसक्तस्य विरक्ति-कारणम् ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मुनेः सुतेनोक्तः सप्तमेऽहनि तक्षकाख्यो निरृतिर् मृत्युर् यथा भविष्यति तथा अशृणोत्—शमीक-प्रेषिताच् छिष्यात् गौर-मुखात् । यथा—भो राजन् ! अज्ञानेन बालकेन दत्तम् अभिशापं श्रुत्वा मुहुर् अनुतप्तस् तं च सन्तर्ज्यास्मद्-गुरुः प्रतीकारम् अपश्यन् । खिद्यन् त्वयि कारुण्य-पूर्णो मां प्राहिणोत् । राजा ज्ञात्वा पर-लोकार्थं किम् अपि यतताम् इत्य् एतद् अर्थम् । इत्य् उक्त्वा गते तस्मिन् राजा स्वापराधं क्षमयन् तत्र जिगमिषुर् अपि मुनेर् जनिष्यमाणं लज्जा-सङ्कोचादिकं स्वस्य च शापान्तान् इच्चां विचार्य न जगाम । यतः स तक्षकस्य वियाग्निं साधु मेने । कीदृशम् ? विषये प्रयुक्तस्य मम विषक्ति-कारणम् ॥४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स राजा इत्थं चिन्तयन् मुनेः सुतेनोक्तः सप्तमे ऽहनि तक्षकाख्यो निरृतिर् मृत्युर् यथा भविष्यति, तथाशृणोत् । हे राजन्! मत्सुतो बालस्तुभ्यम् अशपत्, स मया तिरस्कृतः, किन्तु तच्-छापस्य दुर्निवारत्वात्-त्वया परलोकोपायो विचारणीय इति शमीकेन प्रेषिताच्-छिष्यात् श्रुतवानित्य् अर्थः । स्व-दोष-क्षमणाय मुनेर् अन्तिकं जिगमिषुर् अपि तस्य सङ्कोचं शाप-मोक्षणञ्चान् इच्छन् न जगाम, किन्तु न चिरेण शीघ्रतयैव तद्-विषाग्निं साधु मेने, यतो राज्ये प्रसक्तस्य स्वस्य विरक्ति-कारणम् इति । यो मां कृपालुर् ब्रह्मास्त्रानलाद् गर्भेऽरक्षत् तं विस्मृत्य राज्ये सक्तं मां धिग् अस्तु । तस्मात् सर्वं विहाय तम् एव सम्भावयिष्यानीति निरधारयद् इत्य् अर्थः ॥४॥
———————————————————————————————————————
॥ १.१९.५ ॥
अथो विहायेमम् अमुं च लोकं
विमर्शितौ हेयतया पुरस्तात्।
कृष्णाङ्घ्रि-सेवाम् अधिमन्यमान
उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथो अनन्तरम् उभौ लोकौ पुरस्ताद् राज्य-मध्य एव हेयतया विचारितौ विहाय श्री-कृष्णाङ्घ्रि-सेवाम् एवाधिमन्यमानः सर्व-पुरुषार्थादिकां जानन् प्रायम् अनशनं तस्मिन्न् इत्य् अर्थः । तत्-सङ्कल्पेनोपविशद् इति यावत् । यद् वा प्रायं प्रकृष्टम् अयनं शरणं यथा भवति तथा ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इमम् आमुं च लोकं विहाय । कुतः ? पुरस्तात् शापात् पूर्वम् एव हेयतया उभौ विमर्शितौ विचारितौ । अतः अधि सर्व-पुरुषार्थाधिकां मन्यमानः प्रायम् अनशनं प्रत्युपविशत् सङ्कल्पेनोपाविवेश ॥५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तदेव् आह—अथो तद् अन्तरम् एव इमम् अमुं चोभौ लोकौ पुरस्तात् शापात् प्राग् एव हेयतया विमर्शितौ विहाय प्रायम् अनशनं प्रत्युपाविशत् सङ्कल्पेनोप विवेश । अमर्त्यनद्यां श्री-गङ्गायां । कीदृशः? कृष्णस्याङ्घ्रि-सेवाम् एवाभिमन्यमानः सर्व-पुमर्थ-शिरोमणित्वेन जानन् ॥५॥
———————————————————————————————————————
॥ १.१९.६ ॥
या वै लसच्-छ्री-तुलसी-विमिश्र-
कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री।
पुनाति लोकान् उभयत्र सेशान्
कस् तां न सेवेत मरिष्यमाणः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अमर्त्य-नद्याम् इति विशेषणस्य फलम् आह । या गङ्गा लसन्ती श्रीर् यस्यास् तुलस्यास् तया विमिश्रा ये कृष्णाङ्घ्रि-रेणवस् तैर् अभ्यधिकं सर्वोत्कृष्टं यद् अम्बु तस्य नेत्री तद् वाहिनी । उभयत्र अन्तर् बहिश् च सेशान् लोक-पालैः सहितान् लोकान् पुनाति । मरिष्यमाण आसन्न-मरणः । मरणस्यानियत-कालत्वाद् सर्वेऽपि तथा । अतस् तां को न सेवेत ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रायोपवेशश् चायं तस्याम् अमर्त्य-नद्याम् एव युक्तः । यतस् तस्यां तद्-अभीष्टस्य श्री-कृष्णस्य सम्बन्धः सर्वेषां पावनत्वं च स्फुटं दृश्यत इत्य् आस्तां तस्य ब्राह्मणापराध-कलूष-भीतस्य श्री-कृष्णस्याङ्घ्रि-सेवाम् एव च सर्वाधिक-पुरुषार्थतया लिप्सोर् वार्ता सर्वस्यापि जीवस्य तत्राप्य् आसन्न-मरणस्य सैवाश्रयितुं योग्येत्य् आह—या वै इति । या वै तादृशत्वेन स्वयं प्रसिद्धाः । पुनर् लसत्-श्रियस् तदानीं प्रचुरतया वृन्दावन-जाता यास् तुलस्यस् ताभिर् विमिश्राः पूर्वं निमिश्री-भूता ऐक्यं प्राप्ता या वृन्दावन-स्थिताः स्वयं-भगवतः श्री-कृष्णस्याङ्घ्रि-रेणवस् तैर् अभ्यधिकं यमुना-रूपम् अम्बु । तस्यापि नेत्री वोढ्रीत्य् अर्थः । अभ्यधिकत्वं चोक्तम् आदि-वाराहे—
गङ्गा-शत-गुणा पूण्या माथुरे मम मण्डले ।
यमुना विश्रुता देवी नात्र कार्या विचरणा ॥ इति ।
जल-प्रवाह-रूपा गङ्गा ह्य् अत्र वोढ्री । बाह्यं च तादृग् अम्बु । ततो भिनाम् एवोपपद्यत इति । नेत्रीति सदैव तन्-नयनं लभ्यत इति च तथा व्याख्यातम् । कृष्ण-शब्दश् च रूढ्या श्री-गोपाल एवाधिकं प्रसिद्ध इति तु तथा व्याख्यातम् एव । अभेदे हि तादृग् अम्बु-रूपेत्य् एवावक्ष्यद् इति ॥६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अमर्त्य-नद्यां गङ्गायाम् एव कुतः ? तत्राह—अभ्यधिकं सर्वोत्कृष्टं यद् अम्बु, तस्य नेत्री तद्-वाहिनी । उभयत्र ऊर्ध्वाधोऽन्तर् बहिश् च ॥६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् अमर्त्य-नद्याम् एव कुतः? तत्राह—येति । तेनाभ्य् अधिकं निखिल-श्रेष्ठं यद् अम्बु तन्-नेत्री तद्वाहिनी । उभयत्र उर्द्ध्वाधोऽन्तर्बहिश् च सेशान् सपालान् लोकान् पुनाति, तां मरिष्यमाणः कोन सेवेत अपितु सर्वः स्वकल्याणाय ताम् एव सेवेतेत्य् अर्थः ॥६॥
———————————————————————————————————————
॥ १.१९.७ ॥
इति व्यवच्छिद्य स पाण्डवेयः
प्रायोपवेशं प्रति विष्णु-पद्याम्।
दधौ मुकुन्दाङ्घ्रिम् अनन्य-भावो
मुनि-व्रतो मुक्त-समस्त-सङ्गः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इत्य् एवं विष्णु-पद्यां गङ्गायां प्रायोपवेशं प्रति व्यवच्छिद्य निश्चित्य । पाण्डवेय इति तत्-कुलौचित्यं दर्शयति । नास्त्य् अन्यस्मिन् भावो यस्य सः । कुतः ? मुनि-व्रत उपशान्तः । तत् कुतः ? मुक्तः समस्त-सङ्गो येन सः ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कीदृशः सन् दध्यौ ? तत्राह—मुक्तेति अनन्येति च ॥७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **व्यवच्छिद्य निश्चित्य प्रायोपवेशं प्रति लक्षीकृत्येत्य् अर्थः । न अन्यस्मिन् कर्म-ज्ञान-देवतान्तरे भावो यस्य सः ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **व्यवच्छिद्य विनिर्धार्घ्य प्रायोपवेशं प्रति लक्षीकृत्य् एत्य् अर्थः । अनन्य-भावः कृष्णैकनिष्ठः ॥७॥
———————————————————————————————————————
॥ १.१९.८-१० ॥
तत्रोपजग्मुर् भुवनं पुनाना
महानुभावा मुनयः स-शिष्याः ।
प्रायेण तीर्थाभिगमापदेशैः
स्वयं हि तीर्थानि पुनन्ति सन्तः ॥
अत्रिर् वसिष्ठश् च्यवनः शरद्वान्
अरिष्टनेमिर् भृगुर् अङ्गिराश् च ।
पराशरो गाधि-सुतोऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ ॥
मेधातिथिर् देवल आर्ष्टिषेणो
भारद्वाजो गौतमः पिप्पलादः ।
मैत्रेय और्वः कवषः कुम्भयोनिर्
द्वैपायनो भगवान् नारदश् च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तदा तद्-दर्शनार्थं मुनय उपागता न तु तीर्थ-स्नानार्थम् । कृतार्थ-त्वात् । ननु तादृशानाम् अपि तीर्थ-यात्रा दृश्यते तत्राह—प्रायेणेति । तीर्थ-यात्रा-व्याजैः ॥८-१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रेति साक्षाच् छ्री-भगवत्-पाद-सम्बन्धीनि गङ्गादीनि विनेति ज्ञेयम् । तेषू तेषाम् अपि परमादरात् । किं वा, उत्प्रेक्षा-मात्रम् इदम्, न तु तेषाम् अप्य् अभिप्रायः । ताम् एवाह—प्रायेणेति ॥८-१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र तदा तद्-दर्शनार्थं मुनय आगताः, न तु तीर्थ-स्नानार्थं कृतार्थत्वात् । ननु, तादृशानाम् अपि तीर्थ-यात्रा दृश्यते ? तत्राह—प्रायेणेति । तीर्थ-यात्रा-व्याजैः । तेन तीर्थेभ्योऽपि परीक्षितो दर्शनं ते ह्य् अधिकं गूढं निरनैषुर् इति भावः । अकस्माद् उद्भूत-गति-स्वानन्दण्यथानुपपत्त्या सर्वज्ञतया भावि वृत्तान्तं ज्ञात्वा श्री-भागवतामृत-पानार्थम् इति भावः ॥८-१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्र तदा तद्-दर्शनाय मुनय उप-जग्मुर् न तु तीर्थ-स्नानाय कृतार्थत्वात् । ननु तादृशानाम् अपि तीर्थयात्रा दृष्टा? तत्राह—प्रायेणेति । तीर्थयात्राया अपदेशैर् व्याजैर् इति । तेन परीक्षितो महा-भागवतस्य दर्शनं तीर्थेभ्योऽप्य् अधिकं तैर् अन्तर् निश्चितम् इति भावः । अकस्माद् अद्भुतेन महानन्देन भावि-श्री-भागवत-पारायणम् अनुमाय तेषाम् आगमनम् अभूद् इति बोध्यम् ॥८॥
गाधि-सुतो विश्वामित्रः, रामो जामदग्न्यः, इन्द्र-प्रमदश् चेन्-मवाहश् च तौ ॥९-१०॥
———————————————————————————————————————
॥ १.१९.११ ॥
अन्ये च देवर्षि-ब्रह्मर्षि-वर्या
राजर्षि-वर्या अरुणादयश् च।
नानार्षेय-प्रवरान् समेतान्
अभ्यर्च्य राजा शिरसा ववन्दे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अरुणादयः काण्डर्षित्व-विशेषेण पृथक् निर्दिष्टाः । नाना यान्य् आर्षेयाणि ऋषीणां गोत्राणि तेषु प्रवरान् श्रेष्ठान् । शिरसा भुवं स्पृष्ट्वा ववन्दे ॥ ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अरुणोदयः काण्डर्षित्व-विशेषेण पृथण्-निर्दिष्टाः ॥११॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नाना-भूतान्यार्षेयाणि ऋषि-गोत्राणि तेषु प्रवरान् ॥११॥
———————————————————————————————————————
॥ १.१९.१२ ॥
सुखोपविष्टेष्व् अथ तेषु भूयः
**कृत-प्रणामः स्व-चिकीर्षितं यत् । **
विज्ञापयाम् आस विविक्त-चेता
उपस्थितोऽग्रेऽभिगृहीत-पाणिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विज्ञापनार्थं पुनः कृत-प्रणामः । विविक्तं शुद्धं चेतो यस्य । अभिगृहीतौ संयोजितौ पाणी येन सः । स्व-चिकीर्षितं प्रायोपवेशेनादि युक्तम् अयुक्तं वेति विज्ञापयाम् आस ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विज्ञापयामासेति वक्ष्यमाणम् इत्य् एव ज्ञेयम् ॥१२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अभिगृहीत-पाणिः कृताञ्जलिः ॥१२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विज्ञापनार्थं भूयः कृत-प्रणामः । विविक्त-चेताः शुद्ध-हृत् । अभिगृहीतौ योजितौ पाणी येन सः ॥१२॥
———————————————————————————————————————
॥ १.१९.१३ ॥
राजोवाच—
अहो वयं धन्यतमा नृपाणां
महत्तमानुग्रहणीय-शीलाः ।
राज्ञां कुलं ब्राह्मण-पाद-शौचाद्
दूराद् विसृष्टं बत गर्ह्य-कर्म ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुमोदनेनानुग्रहम् आलक्ष्यात्मानं श्लाघते—अहो इति । नृपाणां मध्ये महत्तमैर् अनुग्रहणीयं शीलं वृत्तं येषां ते । एतच् च राज्ञाम् अतिदुर्लभम् इत्य् आह । ब्राह्मणानां पाद-शौचात् पाद-क्षालनोदकात्, दूराद् उच्छिष्ट-विण्-मूत्र-पादाम्भांसि समुत्सृजेद् इति स्मृतेः, दूरे हि तैस् तद् विसृज्यते । ततोऽपि दूराद् एव विसृष्टं क्षिप्तम् । तत्रापि स्थातुम् अयोग्यम् इत्य् अर्थः । गर्ह्यं कर्म यस्येन्त्य् आत्मानम् उद्दिश्योक्तम् ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अहो आश्चर्यम् । किम् आश्चर्यम् ? तत्राह—नृपाणां मध्ये वयं पाण्डवाः । महत्तमानां भवताम् अनुग्रहं शीलयन्ति ये स्वायम्भुवादयस् तादृशाः सन्तो धन्यतमा जाता इति शेषः । स्वतस् तु नृपाणां कुलम् ईदृशम् इत्य् आह—राज्ञाम् इति । यतो गर्ह्यं कर्म हिंसादि-लक्षणं यस्य तादृशम् इति ॥१३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्वस्मिन् मुनीनां स्वाभाविकम् अनुग्रहम् आलक्ष्याह—अहो इति । महत्तमानाम् अनुग्रहणीयम् अनुग्रहार्हं शीलं येषां ते । एतच् च राज्ञाम् अतिदुर्लभम् इत्य् आह—राज्ञाम् इति । दूराद् उच्छिष्ट-विण्-मूत्र-पादाम्भांसि समुत्सृजेत् इति स्मृतेः । आश्रमाद् दूर-स्थ-पाद-शौच-स्थलाद् अपि आराद् दूरे राज्ञां कुलं विसृष्टम् । तैर् ब्राह्मणैस् तत्रापि स्थातुम् अन्नौज्ञानाद् इत्य् अर्थः । यतो गर्ह्य-कर्म सर्वतोऽप्य् अपवित्रम् ॥१३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्वस्मिन् मुनीनाम् अनुग्रहम् आलक्ष्याह—अहो इति । राज्ञां मध्ये वयं धन्यतमाः, यतो महत्-तमानाम् अनुग्रहणीयं शीलं येषां ते । महद् अनुग्रहो राज्ञां दुर्लभ इत्य् आह—यतो राज्ञां कुलं ब्राह्मणानां पाद-शोचाच् चरण-प्रक्षालन-जलाद् आराद् दूरे तैर् विसृष्टं त्यक्तम् । दूराद् उच्छिष्ट-विण्-मूत्र-पादाम्भांसि समुत्सृजेत् इति स्मरणात् । तत्रापि स्थातुम् अयोग्यम् इत्य् अर्थः । यतो गर्ह्य कर्म सर्वतोऽप्य् अशुचि इत्य् अर्थः । राज्ञस् तथोक्तिः दैन्याद् एव, अन्यथा राज-कुलेन स-ब्राह्मणानां व्यवहारोक्तेयो व्याकुप्येयुः ॥१३॥
———————————————————————————————————————
॥ १.१९.१४ ॥
तस्यैव मेऽघस्य परावरेशो
व्यासक्त-चित्तस्य गृहेष्व् अभीक्ष्णम् ।
निर्वेद-मूलो द्विज-शाप-रूपो
यत्र प्रसक्तो भयम्1** आशु धत्ते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां तावद् अनुग्रहः, ब्रह्म-शापोऽपि भगवत्-प्रसादाद् एव जात इत्य् आह—तस्य गर्ह्य-कर्मण एव । अतोऽघस्य पापात्मनो गृहेष्व् आसक्त-चित्तस्य मे स्व-प्राप्तये परावराणाम् ईश एव द्विज-शापतया बभूव । यत्र यस्मिन् शापे सति गृहेषु प्रसक्तो भयं धत्ते निर्विण्णो भवति । यतो निर्वेद-मूलो निर्वेदो वैराग्यं मूलं प्राप्ति-कारणं यस्मिन् । स्वस्य वैराग्य-प्राप्यत्वात् तस्य च भय-मूलत्वात्, तद्-अर्थं द्विज-शापं कारितवान् इत्य् अर्थः ॥१४॥
दिग्दर्शिनी (बृ।भा। २.१.२९): तस्यायम् अर्थः—तस्य गृह्य-कर्मण एव अतोऽघस्य पापात्मनः गृहेष्व् आसक्त-चित्तस्य स्व-प्राप्तये परावराणाम् ईशः श्री-कृष्ण एव द्विज-शापतया बभूव । यत्र यस्मिन् शापेसति गुहेषु प्रसक्तो जनो भयं धत्ते निर्विण्णो भवति । यतो निर्वेद-मूलः निर्वेदो वैराग्यं मूलं प्राप्ति-कारणं यस्मिन्, सः । स्वस्य वैराग्य-प्राप्तत्वात् तस्य च भय-मूलत्वात् तद्-अर्थं द्विज-शापं कारितवान् इति ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रापीदम् आश्चर्यम् इत्य् आह—तस्यैवेति । भगवद्-अनुग्रह-शीलानां वंशे गणनीयस्यापि मे मम अभीक्ष्णं गृहेषु व्यासक्त-चित्तस्य, तत्राप्य् अघस्य तादृश-ब्राह्मणापराध-कर्तुः । परावरेशस् तु नूनं भगवद्-अनुगृहीत-वंशजोऽयम् इत्य् आमृश्य स्वयं द्विज-शाप-रूपस् तद्-अपदेशः सन् निर्वेदोऽन्यत्रानासङ्ग एव मूलम् अवष्टम्भको यस्य स्वस्मिन्न् आसङ्गस्य तद्-रूपोऽभवत् । तर्हि किं स्यात् ? तत्राह—यत्र परावरेशे प्रसक्तः शीघ्रम् एव अभयं तच्-चरणारविन्द-प्राप्त्या भयाभावं धत्ते—मर्त्यो मृत्यु-व्याल-भीतः पलायन् [भा।पु। १०.३.२१] इत्य्-आदेः । अतोऽकस्माद् भवताम् अप्य् आगमनं तत्-प्रेरणयैव जातम् इति भावः । वक्ष्यते च श्री-शुकदेवम् उपलक्ष्य—अपि मे भगवान् प्रीतः [भा।पु। १.१९.३५-३६] इत्य्-आदि द्वाभ्याम् ॥१४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्यैव गर्ह्य-कर्मणो मम, तत्रापि अघस्य, ब्राह्मण-गले सर्प-निःक्षेपेण अवमाननात् । एवं पतित-पावनत्व-ख्यापनार्थं परावरेशो भगवान् एव द्विज-शाप-रूपः सन् मत्-पार्श्वम् आगतः । निर्वेद-मूलः निर्वेदस्य मूलं कारणम् इत्य् अर्थः । पुंस्त्वम् आर्षम् । भवद्-विध-महत्-समागमाद् अनुमीयते । यत्र भगवान् आयाति तत्रैव तद्-तद्-भक्ताः स्वत एवायान्तीत्य् अर्थः । यत्र परावरेशे प्रसक्त आसक्तो जन आशु शीघ्रम् एवाभयं भयाभावं धत्ते ॥१४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्यैव गर्ह्य-कर्मणस् तत्रापि ब्राह्मण-कण्ठ-निक्षिप्त-मृतोरगत्वात् अघस्य पापात्मनो मे द्विज -शाप-रूपः सन् परावरेशः कृष्ण एव पतित-पावनत्व-ख्यापनायान्तिकम् आगतो युष्माकं तद्-भक्तानाम् आगमनाद् अनुमितः । यत्र परावरेशे प्रसक्तो जन आशु शीघ्रम् अभयं धत्ते ॥१४॥
———————————————————————————————————————
॥ १.१९.१५ ॥
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तान् प्रार्थयते—तम् इति द्वाभ्याम् । तं मा माम् उपयातं शरणागतं प्रतियन्तु जानन्तु । देवी देवता-रूपा गङ्गा च प्रत्येतु । वा-शब्दः प्रतिक्रियानादरे । गाथाः कथाः ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रतियन्तु अङ्गीकुर्वन्तु । तत एव हेतोर् ईशेधृत-चित्तं सन्तं माङ्गङ्गा-देवी चाङ्गीकरोतु ॥१५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तान् प्रार्थयते द्वाभ्याम् । तं मा माम् । उपयातं शरणागतं प्रतियन्तु जानन्तु । देवी देवता-रूपा गङ्गा च प्रत्येतु । वा-शब्दः प्रतिक्रियेऽनादरे । गाथाः कथाः ॥१५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मुनीन् प्रार्थयते द्वाभ्यां—हे विप्राः! तं माम् उपयातं शरणागतं भवन्तः प्रतियन्तु, गङ्गा-देवी च प्रत्येतु, कुहकः कपट-रूपः ॥१५॥
॥ १.१९.१६ ॥
पुनश् च भूयाद् भगवत्य् अनन्ते
रतिः प्रसङ्गश् च तद्-आश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स आश्रयो येषां तेषु प्रकृष्टः सङ्गो भूयात् । तस्यां तस्यां सृष्टौ जन्मनि ॥१६॥
———————————————————————————————————————
कैवल्य-दीपिका : पुनश् चेति । एवं जीवन्मुक्तं लक्षयित्वा तन्-माहात्म्यं ब्रुवाणः, तत्-सङ्गिनः पुरुषान् स्तौति—पुनश् च इति । पुनर् जन्मान्तरे तद्-आश्रयेषु भगवद्-आश्रयेषु । प्रकृष्ट-सङ्गो यां यां सृष्टिम् उपयामि, तत्र तत्र महत्-सङ्गो भूयात् । तज्-जन्म-विशेषं प्रार्थयन् नमो द्विजेभ्यः इति पुरः-स्थितान् ऋषीन् राजानम् अपि ॥१६॥ [मु।फ। १९.४१]
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सृष्टिं जन्म । अन्यत्र सर्वत्र तु मैत्री अविषमा-दृष्टिर् अस्तु । ब्राह्मणेषु त्व् आदर-विशेषोऽस्त्व् इत्य् आह—नम इति ॥१६॥ (प्रीति-सन्दर्भ ४४)
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनश् च पुनर् अपि । यां यां सृष्टिं जन्म प्राप्नोमि, तस्यां भगवति रतिः । तद्-भक्तेषु प्रकृष्टः सङ्गः । सर्व-जीवेषु मैत्री इति मद्-वाञ्छित-त्रयं भूयात् इति प्रार्थ्य प्रणमन्न् आह—नम इति । यद् वा, ब्राह्मणान् आदर-जातानुताप आह—ब्राह्मणेभ्यो नमो भूयाद् इति वाञ्छित-चतुष्टयं च ॥१६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुनश् च पुनर् अपि यां यां सृष्टिं जन्मोपयामि, तस्यां तस्याम् अनन्ते भगवति वतिर् मे भूयात्-तद् आश्रयेषु महत्सु प्रसङ्गश् च, सर्वत्र मैत्री चेति त्रयं प्रार्थ्य नमस्करोति नम इति ॥१६॥
———————————————————————————————————————
॥ १.१९.१७ ॥
इति स्म राजाध्यवसाय-युक्तः
प्राचीन-मूलेषु कुशेषु धीरः ।
उदङ्-मुखो दक्षिण-कूल आस्ते
समुद्र-पत्न्याः स्व-सुत-न्यस्त-भारः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **गङ्गायाम् उदक एव किञ्चिद् दक्षिण-भागे प्रसादे तथा हि महाभारते ॥१७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अध्यवसायो निश्चयः । प्राचीनानि प्राग्-अग्राणि मूलानि येषां, तेषु प्राग्-अग्रेषु कुशेष्वास्ते स्म । स्व-सुते जमनेजये न्यस्तो भारो राज्यं येन सः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : मूलम् अन्तः । अन्तश् चाग्रेऽपि _। _तस्माल् लक्षणया प्राग्-अग्रेष्व् इत्य् एवं व्याख्यातम् ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुद्र-पत्न्या गङ्गायाः ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इत्य् एवम् अध्यवसायेन युक्तो राजा समुद्र-पत्न्याः श्री-गङ्गायाः, स्वसुते जनमेजये न्यस्तो राज्य-भारो येन सः आस्ते स्म ॥१७॥
———————————————————————————————————————
॥ १.१९.१८ ॥
एवं च तस्मिन् नर-देव-देवे
प्रायोपविष्टे दिवि देव-सङ्घाः ।
प्रशस्य भूमौ व्यकिरन् प्रसूनैर्
मुदा मुहुर् दुन्दुभयश् च नेदुः ॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुदा व्यकिरन् । देव-सङ्घैर् वादिता दुन्दुभयो नेदुः ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रसूनैः प्रसूनानीत्य् अर्थः ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यकिरन् वृष्टिम् अकुर्वन् । नेदुः स्वयम् एव ॥१८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रशस्य प्रायोपवेशं संस्तूय, व्यकिरन् वृष्टिम् अकुर्वन् नेदुः स्वयम् एव ॥१८॥
———————————————————————————————————————
॥ १.१९.१९ ॥
महर्षयो वै समुपागता ये
प्रशस्य साध्व् इत्य् अनुमोदमानाः ।
ऊचुः प्रजानुग्रह-शील-सारा
यद् उत्तम-श्लोक-गुणाभिरूपम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजानुग्रहे शीलं स्वभावः सारो बलं च येषाम् । उत्तम-श्लोक-गुणैर् अभिरूपं सुन्दरम् इव ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : _सुन्दरम् इव _**इति टीकायाम् इव-शब्दो वाक्यालङ्कारः ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यतः । प्रजानुग्रहेशीलं सारो बलं च येषां ते । तस्मात् उत्तमः-श्लोकस्य श्री-कृष्णस्येव गुणैर् अभिरूपं सुन्दरं राजानम् ऊचुः । यद् वा, यद् उत्तमः-श्लोक-गुणानुरूपं भवेत्, तद् एव ऊचुः ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **महर्षयश् च देव-कृतं राज्ञः पूजनं साध्व् इति प्रशस्यानुमोदमानः । सन्तः उत्तमः-श्लोकस्य गुणानुरूपं यत् स्यात्-तद् एवोचुः । कीदृशाः? प्रजानुग्रहे शीलं सारो बलं च येषां ते ॥१९॥
———————————————————————————————————————
॥ १.१९.२० ॥
न वा इदं राजर्षि-वर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राज-किरीट-जुष्टं
सद्यो जहुर् भगवत्-पार्श्व-कामाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवत्सु पाण्डोर् वंश्येषु । येजहुर् इति युधिष्ठिराद्य्-अभिप्रायेण ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवत्-पार्श्व-कामा इत्य् अत्र तत्-सामीप्य-कामनापि व्याख्येया । तत्-प्रीति-विशेषातिशयवतां हि तेषां तत्-कृतार्ति-भरेणैव तत्-स्फूर्ताव् अप्य् अतृप्तौ सत्यां तत्-सामीप्य-प्राप्तेश् च तत्-प्राप्ति-विघातक-संसार-बन्धन-त्रोटनस्य च प्रार्थनं दृश्यते, पितृ-मातृ-प्रीत्य्-एक-सुखिनां विदूर-बन्धानां बालकानाम् इव । एवम् एवोक्तं श्री-प्रह्लादेन—त्रस्तोऽस्म्य् अहं कृपण-वत्सल [भा।पु। ७.९.१६] इत्य् आदौ, तेऽङ्घ्रि-मूलं प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु इति ॥२०॥
कृष्ण-सन्दर्भः (४७): भवत्सु पाण्डोर् वंश्येषु ये जहुर् इति श्री-युधिष्ठिराद्य्-अभिप्रायेण । अत एव तत्र स्थितानां सर्व-श्रोतॄणाम् अपि श्री-कृष्ण एव तात्पर्यम् आयाति ॥२०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ये युधिष्ठिराद्याः ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भवत्सु भारतेषु तत्रापि कृष्णं समनुव्रतेषु पाण्डवेषु युधिष्ठिरादिषु ॥२०॥
———————————————————————————————————————
॥ १.१९.२१ ॥
सर्वे वयं तावद् इहास्महेऽथ
कलेवरं यावद् असौ विहाय ।
लोकं परं विरजस्कं विशोकं
यास्यत्य् अयं भागवत-प्रधानः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परस्परं संमन्त्र्यन्ते—सर्व इति । परं श्रेष्ठं लोकम् । तत्र हेतुः—विरजस्कं निर्मायं विशोकं च यास्यतीति । कुलस् तत्राह—अयम् इति ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **लोक-शब्देन चात्र नान्यल् लक्ष्यते, भगवत्-पार्श्व-कामा [भा।पु। १.१९.२०] इति तेषाम् एवोक्ति-स्वारस्यात् । भागवत-प्रधान इति च । तस्माद् अन्ते चेद् ब्रह्म-कैवल्यं मन्यते, तथापि क्रम-भगवत्-प्राप्ति-रीत्या तद्-अनन्तरं भगवत्-प्राप्तिस् त्व् अवश्यं मन्येतैव । यथाजामिलस्य दर्शितम् ॥२१॥ [प्रीति-सन्दर्भ ५३]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **राज्ञोऽध्यवसायं श्रुत्वा स्वेषाम् अप्य् अध्यवसायं राजानं श्रावयन्तः परस्परं मन्त्रयन्ते—सर्वे इति ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मुनयो राज्ञोऽध्यवसायं पश्यन्तः स्वेषां च तत्-पोषकं तं श्रावयन्तो मिथो मन्त्रयन्ते—सर्वे वयम् इति ॥२१॥
———————————————————————————————————————
॥ १.१९.२२ ॥
आश्रुत्य तद् ऋषि-गण-वचः परीक्षित्
समं मधु-च्युद् गुरु चाव्यलीकम् ।
आभाषतैनान् अभिनन्द्य युक्तान्
शुश्रूषमाणश् चरितानि विष्णोः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आश्रुत्याकर्ण्य । समं पक्ष-पात-शून्यम् । मधु-च्युद् अमृत-स्रावि । गुरु गम्भीरार्थम् । अव्यलीकं सत्यम् ॥२२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मधुच्युत् मनोहर-शब्दम् । गुरु महतार्थेन प्रयुक्तम् ॥२२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **समं पक्षपात-शून्यं वयम् आस्महे इति । मधु-च्युद् अमृत-स्रावि—भागवत-प्रधान इति । गुरु गम्भीरार्थम् । विरजस्कं लोकम् इति । अव्यलीकं सत्यं लोकं यास्यतीति ऋषि-गण-वचश् चतुष्टयम् आश्रुत्य । विरजस्कं लोकं भगवल्-लोकम् एवेति पूर्व-श्लोकोक्ताभ्यां भवत्स्व् इति भगवत्-पार्श्व-कामा इति पदाभ्यां व्याख्येयम् ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **समं वयम् इह तावद् आस्महे इत्य् एवं पक्षपात-रहितं । मधुच्युत् भागवत-प्रधान इत्य् अमृत-स्रावि । गुरु-विरजस्कं लोकम् इति गम्भीरार्थकम् । अव्यलीकं यास्यत्ययम् इति सत्यम् इत्य् एवं चतुष्टयम् ऋषि-गण-वचः आश्रुत्य परीक्षिद् एतान्-ऋषीनाभाषत ॥२२॥
———————————————————————————————————————
॥ १.१९.२३ ॥
समागताः सर्वत एव सर्वे
वेदा यथा मूर्ति-धरास् त्रि-पृष्ठे ।
नेहाथ नामुत्र च कश्चनार्थ
ऋते परानुग्रहम् आत्म-शीलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रयाणां लोकानां पृष्ठे उपरि सत्य-लोके वेदा यथा मूर्ति-धरा भवन्ति, तत्-तुल्याः । ज्ञानातिशयम् उक्त्वा कृपालुताम् आह—नेहेति । भवतां प्रयोजनं परानुग्रहं विना नास्ति । तर्हि स एवार्थः स्यात् ? न, आत्म-शीलं स्व-स्वभावम् ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अर्थः प्रार्थनीयं वस्तु । परानुग्रहश् च न विचार-पूर्वक इत्य् आह—आत्म-शीलम् इति ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्रयाणां लोकानाम् उपरि पृष्ठे सत्य-लोके । ज्ञानातिशयताम् उक्त्वा कृपालुतातिशयताम् आह—नेहेति । परानुग्रहं विना । तर्हि स एवार्थः स्यात् ? न, आत्म-शीलं स्व-स्वभावम् ॥२३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एयाणां लोकानां पृष्ठे उपरि सत्य-लोके यथा वेदा मूर्ति-धरास् तथा तत्-तुल्या भवन्तः । ज्ञानातिशयम् उक्त्वा दयालुताम् आह—नेहेति । तर्हि परानुग्रह एवार्थः स्यात्-तत्राह—आत्म-शीलं स्वभावः ॥२३॥
———————————————————————————————————————
॥ १.१९.२४ ॥
ततश् च वः पृच्छ्यम् इमं विपृच्छे
विश्रभ्य विप्रा इति-कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश् च कृत्यं
शुद्धं च तत्रामृशताभियुक्ताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृच्छ्यं प्रष्टव्यम् । विश्रभ्य विश्वासं कृत्वा । एवं कर्तव्यम् इत्य् अस्य भाव इति-कृत्यता तस्मिन् विषये । सर्वात्मना सर्वावस्थासु यत् कृत्यं, विशेषतश् च म्रियमाणैस् तच् च शुद्धं पाप-संपर्क-रहितम् आमृशत विचारयत ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विश्रभ्येति, कृष्णाङ्घ्रि-सेवाम् एवैत उपदेक्ष्यन्तीत्य् अभिप्रायात् । शुद्धम् इति कनिष्ठ-मध्यम-साधन-मिश्रता-रहितं सर्वोत्तमम् इत्य् अर्थः । तच् च कृष्णाङ्घ्रि-सेवा-रूपम् एवेति गूढोऽभिप्रायः ॥२४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इमं वो युष्माकम् अप्य् अनुग्रहं विपृच्छे—किम्-आकारः स चिकीर्षितव्य इति पृच्छामि । पृच्छ्यं प्रष्टुम् अर्हम्, तत्रैवाध्यवसायार्थम् इति भावः । विश्रभ्य तत्रैव मे विश्वासो भावीति जानीतेति भावः । इतिकृत्या एवं कर्तव्यास् तपो-योग-ज्ञानादयस् तेषां भाव इति-कृत्यता । तस्यां सत्यां म्रियमाणैर् जनैस् तपो-योगादीनाम् एवं-कर्तव्यत्वे सति सर्वात्मना मम यत्र शुद्धं कृत्यम्, अत्र आमृषत विचारयत—सर्वैक-वाक्यतया निश्चित्य कर्तुम् आज्ञापयतेति भावः ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इमं वोऽनुग्रहं विपृच्छे, कीदृशः स मयि चिकीर्षितव्य इति विपृच्छामि । पृच्छ्यं तत्रैवाध्यवसायार्थं प्रष्टुं योग्यम् इत्य् अर्थः । विश्रभ्य तत्रैव मे विश्वासो भावीति बोध्यम् इत्य् अर्थः । इति कृत्या एवं कर्म-तपो-योगादयः कार्यास् तेषां भाव इति-कृत्यता तस्यां विषये सर्वात्मना सर्वास्ववस्थासु यत् कृत्यं विशेषतो म्रियमाणैश् च यत्, तच् च शुद्धं हिंसा-शून्यम् आमृशत विचारयत । सर्वैकमत्या निश्चित्यानुष्ठातुम् आज्ञापयेतेति भावः ॥२४॥
———————————————————————————————————————
॥ १.१९.२५ ॥
तत्राभवद् भगवान् व्यास-पुत्रो
यदृच्छया गाम् अटमानोऽनपेक्षः ।
अलक्ष्य-लिङ्गो निज-लाभ-तुष्टो
वृतश् च बालैर् अवधूत-वेषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ** **तत्र तेषु याग-योग-तपो-दानादिभिर् विवदमानेषु सत्सु यदृच्छया गां पर्यटन् व्यास-पुत्रस् तत्राभवत् प्राप्तः । न लक्ष्यम् आश्रमादि-लिङ्गं यस्य । अवधूतोऽवज्ञया जनैस् त्यक्तो यस् तस्येव वेषो यस्य सः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र याग-योग-तपो-दानादि-व्यवस्थास्व् ऐकमत्याभावेन सर्वेषु मुनिषु तदैव स्व-स्व-मनसा श्री-शुकागमनम् ईहमानेषु नेत्रैश् च तद्-वर्त्म-निरीक्षमाणेषु सत्सु, व्यास-पुत्रस् तत्राभवत् प्राप्तः ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्र किम् अस्योपदेश्यम् इत्य् अलब्धैकमत्ये सर्व-सारज्ञः शुकश् चेद् आगच्छेत् तद् एनम् उपदिशेत्, अस्माकं च तच्-छ्रवणेन परानन्दः स्याद् इति तद् आगतिम् अपेक्षमाणे मुनि-समाजे व्यास-पुत्रोऽभवत् । जन्मारभ्य श्री-कृष्णैक-निष्ठोऽधुना त्यक्तराज्यो गृहीत-प्रायः परीक्षित्-तत्-कथाश्रवणातियोग्योऽस्ति तं मद् अधीतं श्री-कृष्ण-चरितामृतवाष महा-पुराणं श्रावयिष्यामीति निश्चित्य स्वयम् आगमद् इत्य् अर्थः । अनपेक्षो निष्पृहः । मतान्तराणि च मुन्यन्तराणां तुच्छत्वाद् अनिच्छत् यतो निजस्य स्व-प्रभोः कृष्णस्य लाभेन सदैव साक्षात्-कारेण तुष्टः । न लक्ष्यत् लिङ्गम् आश्रम-चिह्नं यस्य सः, अवधूतो जनैर् अवज्ञातो वेषो यस्य सः ॥२५॥
॥ १.१९.२६ ॥
तं द्व्यष्ट-वर्षं सुकुमार-पाद-
करोरु-बाह्व्-अंस-कपोल-गात्रम् ।
चार्व्-आयताक्षोन्नस-तुल्य-कर्ण-
सुभ्र्व्-आननं कम्बु-सुजात-कण्ठम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तम् इत्य्-आदीनां प्रत्युत्थिता इति तृतीय-श्लोकेनान्वयः । द्वि-गुणान्य् अष्टौ वर्षाणि यस्य । सुकुमारौ कोमलौ पादौ कराव् ऊरू बाहू अंसौ कपोलौ गात्रं च यस्य । चारुणी आयते आक्षिणी यस्मिन् । उन्नता नासा यस्मिन् । लम्ब-ह्रस्वादि-वैषम्यं विना तुल्यौ कर्णौ यस्मिन् । शोभने च भ्रुवौ यस्मिन् एवं-भूतम् आननं यस्य । कम्बुवद्-रेखा-त्रयाङ्कितः सुष्ठु जातः कण्ठो यस्य ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **षोडश-वर्ष-वयसम् । चारुणी आयते अक्षिणी यस्मिन्, उन्नता नासा यस्मिन् । लम्ब-ह्रस्वादि-वैषम्यं विना तुल्यौ कर्णौ यस्मिन्, शोभने भ्रुवौ यस्मिन्, तथा-भूतम् आननं यस्य तम् । कम्बुः शङ्खः तद्वद् रेखा-त्रयाङ्कितः सुजातः कण्ठो यस्य तम् ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तं प्रति मुनय उत्थिता इति तृतीयेन सम्बन्धः । द्विगुणितान्यष्टौ वर्षाणि यस्य षोडश-वर्षवयसम् इत्य् अर्थः । सुकुमारौ कोमलौ पादौ कराव् ऊरूबाहू अंसौ कपोलौ गात्रं च यस्य तं । चारूणि आयते दीर्घे अक्षिणी यस्मिन् । उन्नता नासा यस्मिन्, ह्रस्वादि-वैषम्यं विना तुल्यौ कर्णौ यस्मिन् । शोभने भ्रुवौ यस्मिन् । तादृश-माननं यस्य तं । कम्बुवद् रेखात्रयाञ्चितः सुजातः कोमलः कण्ठो यस्य तम् ॥२६॥
———————————————————————————————————————
॥ १.१९.२७ ॥
निगूढ-जत्रुं पृथु-तुङ्ग-वक्षसम्
आवर्त-नाभिं वलि-वल्गूदरं च ।
दिग्-अम्बरं वक्त्र-विकीर्ण-केशं
प्रलम्ब-बाहुं स्वमरोत्तमाभम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कण्ठस्याधो-भागयोः स्थिते ते अस्थिनी जत्रुणी । मांसेन निगूढे जत्रुणी यस्य । पृथु विस्तीर्णं तुङ्गम् उन्नतं च वक्षो यस्य । आवर्तवन् नाभिर् यस्य । वलिभिस् तिर्यङ्-निम्न-रेखाभिर् वल्गु रम्यम् उदरं यस्य । दिश एवाम्बरं यस्य । वक्रा विकीर्णाः केशा यस्य । प्रलम्बौ बाहू यस्य । स्वमरेषु श्रेष्ठ-देवेषु **उत्तमो **हरिस् तद्वद् आभा यस्य तम् ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निगूढे मांसले जत्रुणी कण्ठस्याधो-भागयोः स्थिते अस्थिनी यस्य तम् । स्वमरेषु देव-श्रेष्ठेष्व् अप्य् उत्तमः श्री-कृष्णः, तत्-तुल्य-कान्तिम् ॥२७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मांसलत्वान्-निगूढे जक्रुणी कण्ठस्याधोभागयोः स्थिते अस्थिनी यस्य तं । पृथु विस्तीर्णं तुङ्गं च वक्षो यस्य तम् । आवर्त इव नाभिर् यस्य तं, वलिभि-स्त्रि-सृभिर् वल्गु मनोज्ञम् उदरं यस्य तं । स्वमरेषु देव-श्रेष्ठेषु ब्रह्मादिषूत्तमः श्री-कृष्णस् तद् आभं, हृद्-विभात-कृष्णत्वात् समुच्छलितया तत्-कान्त्या लब्धतत्-सारूप्यम् इत्य् अर्थः ॥२७॥
———————————————————————————————————————
॥ १.१९.२८ ॥
श्यामं सदापीव्य-वयो-ऽङ्ग-लक्ष्म्या
स्त्रीणां मनो-ज्ञं रुचिर-स्मितेन ।
प्रत्युत्थितास् ते मुनयः स्वासनेभ्यस्
तल्-लक्षण-ज्ञा अपि गूढ-वर्चसम् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **कैशोर-यौवनाभ्यन्तःकाल आपीव्यम् उच्यत इत्य् अभिधानम् ॥२८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सदा अपीव्यम् अत्युत्तमं यद् वयो यौवनं तेन याङ्ग-लक्ष्मीर् देह-कान्तिस् तया रुचिर-स्मितेन च । गूढ-वर्चसम् अपि प्रत्युत्थितास् तं दृष्ट्वा प्रत्युद्गमं कृतवान्त इत्य् अर्थः ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यतः सदा स्थिरम् एव यद् अपीव्यम् अत्युत्तमं वयो नव-यौवनं तेन या अङ्गस्य लक्ष्मीः शोभा तया रुचिरेण स्वाभाविकेन स्मितेन स्त्रीणां मनोज्ञं मनोहरं गूढ-वर्चसम् अपि तं दृष्ट्वा ॥२८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद् आह—श्यामम् इति । सदा स्थिरम् एव यत् अपीच्यं कमनीयं वयो नव-यौवनं तेन याङ्गानां लक्ष्मीस् तया रुचिरेण स्वभाव-सिद्धेन स्मितेन च स्त्रीणां युवतीनां मनोज्ञं चित्त-हरं तं गूढवर्चसम् अपि वीक्ष्य ॥२८॥
———————————————————————————————————————
॥ १.१९.२९ ॥
स विष्णु-रातोऽतिथय आगताय
तस्मै सपर्यां शिरसाजहार ।
ततो निवृत्ता ह्य् अबुधाः स्त्रियोऽर्भका
महासने सोपविवेश पूजितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शिरसैव सप्रयाम् आजहारात्म-निवेदनं कृतवान् । तेन सहागताः स्त्र्य्-आदयो निवृत्ताः । स चोपविवेश । सन्धिर् आर्षः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विष्णुरातः परीक्षित् शिरसा सपर्याम् आजहार नति-पूर्विकां पूजां चकार, ततः स्त्र्य्-आदयो निवृत्ता बभूवुः । स च शुको महासने विष्णुरातेन पूजाङ्गत्वेनार्पिते उपविवेश । सन्धिर् आर्षः ॥२९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स विष्णुरातः परीक्षित्-तस्मै ब्रह्मरातायातिथये शुकाय शिरसा सपर्यां पूजाम् आजहार । साक्षात्-कन्दर्पोऽयम् इति स्त्रियो, विक्षिप्तोऽयम् इत्य् अर्भकाश् चाबुधाः अमुम् अनुवृत्ता निवृत्ताः । मुनिभ्यो भयेनापलायन्त । स च पूजितः मुनि-कर्तृका मुनि-कर्मिका च प्रणति-परिष्वङ्ग-क्षेम-प्रश्नाः पूजा जाता यस्य सः । तेन च सर्वे मुनयस् तं प्रणेमुः, तेन चाश्लिष्टाः पृष्टक्षेमाश् च बभूवुः । श्री-नारद-पराशर-बादरायणादयस् तु साश्रं सगद्-गदम् आश्लिष्य शिरो जिघ्रन्तः क्षेमं पप्रच्छुर् इत्य् अर्थः । स च तान् ववन्दे इति बोध्यम् । ईदृशः सन् महति देशिक-योग्ये आसने तदाज्ञया सर्वाभ्यर्थनया चोपविवेश । सोऽचि लोपे चेत् पाद-पूरणम् [पा। ६.१.१३४] इति सूत्रात् सन्धिः ॥२९॥
———————————————————————————————————————
॥ १.१९.३० ॥
स संवृतस् तत्र महान् महीयसां
ब्रह्मर्षि-राजर्षि-देवर्षि-सङ्घैः ।
व्यरोचतालं भगवान् यथेन्दुर्
ग्रहर्क्ष-तारा-निकरैः परीतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स भगवान् ब्रह्मर्ष्य्-आदि-सङ्घैः संवृतः सन्नलं व्यरोचत् । ग्रहाः शुक्रादयः । ऋक्षाण्य् अश्विन्य्-आदीनि । अन्यास् ताराः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्र तस्मिन् महासने उपविष्टः महीयसाम् अपि महान्स भगवान् शुकः ब्रह्मर्ष्य्-आदिभिः स-वृतः यथा ग्रहादिभिः परीते इन्दुस् तद्वद् अलं व्यरोचत । ग्रहाः शुक्राद्याः नक्षत्राण्य् अश्विन्य्-आदीनि, तारास् तद्-अन्याः । ब्रह्मर्षयो वशिष्ठादयः राजर्षय आर्ष्टिषेणादयः । देवर्षयो नारदादयः ॥३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्रोपविष्टस्य शोभाम् आह—स इति । ग्रहाः शुक्रादयः, ऋक्षाणि अश्विन्यादीनि, ताराः तद् अन्याः । अत्र नारदादिभ्योऽपि तस्योत्कर्षो नन्द-सुतैकान्तित्वाद् बोध्यः ॥३०॥
———————————————————————————————————————
॥ १.१९.३१ ॥
प्रशान्तम् आसीनम् अकुण्ठ-मेधसं
मुनिं नृपो भागवतोऽभ्युपेत्य ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलिर्
नत्वा गिरा सूनृतयान्वपृच्छत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न कुण्ठा सर्वार्येषु मेधा यस्य तम् । प्रणम्य प्रश्नार्थं पुनर् नत्वा ॥३ ॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रश्नार्थं पुनर् नत्वा सूनृतया मधुरया गिराऽकुण्ठ-मेधसं न कुण्ठा सर्वार्थेषु मेधा यस्य तम् अन्वपृच्छत् ॥३१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न कुण्ठा निखिलेष्व् अर्थेषु मेधा यस्य तम् । प्रश्नार्थं पुनर्नत्वा ॥३१॥
———————————————————————————————————————
॥ १.१९.३२-३३ ॥
परीक्षिद् उवाच—
अहो अद्य वयं ब्रह्मन् सत्-सेव्याः क्षत्र-बन्धवः ।
कृपयातिथि-रूपेण भवद्भिस् तीर्थकाः कृताः ॥
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सूनृतां गिरिम् आह—अहो इति पञ्चभिः । सतां सेव्या जाताः । यतः अतिथि-रूपेण हेतुना तीर्थका योग्याः कृताः ॥३२॥३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सतां सदाचाराणां सेव्या आदर-योग्याः ॥३२-३३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवाह—अहो इत्य् अष्टभिः । हे ब्रह्मन्! क्षत्र-बन्धवो वयं सतां सेव्या आदरणीया जाताः, यतोऽतिथि-रूपेण भवद्भिस् तीर्थकाः कृटः पवित्रीकृताः ॥३२॥ येषां स्मरणात् यत्-कर्तृकात् यत्-कर्मकाद् वा । गृहा अपि किं पुनः कलत्र-पुत्र-देहाः ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तां गिरम् आह—अहो इति पञ्चभिः । क्षत्र-बन्धवोऽपि वयम् अद्य सत्-सेव्याः, सन्तः सेव्याः येषां ते सत्-सेवाधिकारिणो जाता इत्य् अर्थः । तीर्थका इति तीर्थानि कृतानि, स्वार्थिकाः प्रकृतितो लिङ्ग-वचनान्यतिवर्तन्ते इति भाष्योक्तेः पुंस्त्वम् । यत्र भवताम् आगमस् तन्-निन्द्यम् अपि स्थानं जन-पावनं भवतीत्य् अर्थः ॥३२॥ \
\
येषाम् इति यत्-कर्मकाद्-यत्-कर्तृकाद् वा स्मरणाद् इत्य् अर्थः, गृहा अपि किं पुनः दारापत्य-शरीराणीत्य् अर्थः ॥३३॥
———————————————————————————————————————
॥ १.१९.३४ ॥
सान्निध्यात् ते महा-योगिन् पातकानि महान्त्य् अपि ।
सद्यो नश्यन्ति वै पुंसां विष्णोर् इव सुरेतराः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विष्णोः सान्निध्याद् असुरादय2 इव ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सुरेतरो दैत्यादयः ॥३४॥
———————————————————————————————————————
॥ १.१९.३५ ॥
अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः ।
पैतृ-ष्वसेय-प्रीत्य्-अर्थं तद्-गोत्रस्यात्त-बान्धवः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पाण्डु-सुतानां प्रियोऽतस् तेषां पैतृष्वस्त्रेयानां प्रीत्य्-अर्थं तद्-गोत्रस्य मे आत्तं स्वीकृतं बान्धवं बन्धु-कृत्यं येन सः ॥३५॥
———————————————————————————————————————
**जीव-गोस्वामी (कृष्ण-सन्दर्भः, ४८) : **तेषां पैतृ-ष्वसेयाणां पाण्डु-सुतानां गोत्रस्य मे आत्तं स्वीकृतं बान्धवं बन्धु-कृत्यं येन ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पैतृ-ष्वस्रेयादीनां युधिष्ठिरादीनां तद्-गोत्रस्यापि मे आत्तं स्वीकृतं बान्धवं बन्धु-कृत्यं येन सः । तस्मात् तेनैव त्वं मन्-निस्तारार्थं प्रेषितोऽसीत्य् अनुमीयते इति भावः ॥३५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पैतृस्व् अस्रयाणां युधिष्ठिरादीनां प्रीतये तद्-गोत्रस्यापि ममात्तम् अङ्गीकृतं बान्धवं बन्धु-कृत्यं येन सः, तथा च तेन त्वं मदुन्धाराय इह प्रेषितोऽसीति भावः ॥३५॥
———————————————————————————————————————
॥ १.१९.३६ ॥
अन्यथा तेऽव्यक्त-गतेर् दर्शनं नः कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्यथा श्री-कृष्ण-प्रसादं विना । अव्यक्ता गतिर् यस्य । म्रियमाणानां नितरां कथं स्यात् ? वनयिता याचयिता वनयितृतमो वनीयांस् तस्य, अत्युदारतया मां याचेथा इति प्रवर्तकस्येवेत्य् अर्थः ॥३६॥
———————————————————————————————————————
**जीव-गोस्वामी (कृष्ण-सन्दर्भः, ४८) : **ते तव श्री-कृष्णस्यैक-रसिकस्य वनीयसः अत्युदारतया मां याचेथा इति प्रवर्तकस्येत्य् अर्थः ॥३६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वनीयस इति तु च्छन्दसीति हि तृन् तृजन्तादिष्ठेय-सूनौ भवतः, तुरिष्ठेमयःसु [पा। ६.४.१५४] इति च तु-शब्दस्य लोपः स्यात् । ततो निमित्ताभावे नैमित्तिकस्याप्य् अभावात् टेर् लोपाश् च सिध्यन्ति ॥३६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वनयिता याचयिता वनयितृतमो वनीयान् । तुरिष्ठेमयःसु [पा। ६.४.१५४] इति तु-शब्दस्य लोपः । ततो निमित्तापाये नैमित्तिकस्याप्य् अपायात् टेर् लोपाच् च वनीयान् इति सिद्ध्यति । तस्य अत्युदारतया मां याचस्वेति प्रवर्तकस्येत्य् अर्थः ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अन्यथा कृष्णश् चेन्-न प्रेषयेत्-तर्हि ते दर्शनं नः कथं? वनीयसोऽत्युदारतया मां याचस्व इति प्रवर्तयतः इत्य् अर्थः । वनु याचने धातुः, तस्माद्-धेतुम् अण्ण्यन्तात् तृचि वनयिता, ततः क्रियावाचकाद् अपि तुश् छन्दसि [पा। ५.३.५९] इति सूत्रादीयसुनि तुर् इष्टेमेयःसु [पा। ६.४.१५४] इति सूत्रात्-तृ-शब्दस्य लोपः, ततो निमित्ताभावे नैमित्तिकस्याप्य् अभावः इति न्यायादिटो निवृत्तिः, टेर्लोपाण्-णिचश् च, ततो वनीयान्न् इति पद-सिद्धिः ॥३६॥
———————————————————————————————————————
॥ १.१९.३७ ॥
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सम्यक् सिद्धिर् यस्मात् तम् । कार्यं कर्तुं योग्यम्, कर्तव्यं त्व् आवश्यकम् इति भेदः । अत एव सर्वथा म्रियमाणस्य पुरुषस्य यस्मिन् कृते संसिद्धिर् मोक्ष-लक्षणा सिद्धिर् भवति तत् त्वां योगिनां गुरुं पृच्छामि ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **संसिद्धिं सम्यक् सिद्धिः का तां पृच्छामि । इह संसिद्धौ यत् सर्वथा कर्तव्यं साधनं तत् पृच्छामि ॥३७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **संसिद्धिं सम्यक् पुरुषार्थम् । इह सं-सिद्धौ यत् साधनं सर्वथा कर्तव्यं तत् पृच्छामि ॥३७॥
———————————————————————————————————————
॥ १.१९.३८ ॥
यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो ।
स्मर्तव्यं भजनीयं वा ब्रूहि यद् वा विपर्ययम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यच् छ्रोतव्यं यज् जाप्यं यत् कर्तव्यं यत् स्मर्तव्यं यद् आराध्यं तद् ब्रूहि ॥ विपर्ययम् अश्रोतव्यादि ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एव विशिष्याह—यच् छ्रोतव्यम् इति । कर्तव्यम् इति श्रोतव्यादिषु चतुर्ष्व् एवान्वेति । यत् श्रोतव्यं श्रवणार्हं कर्तव्यं यज् जप्यं जपार्हं कर्तव्यं यत् स्मर्तव्यं स्मरणार्हं कर्तव्यं यत् भजनीयं भजनार्हं कर्तव्यम् इत्य् एवम् । विपर्ययम् अश्रोतव्यादि ॥३८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यद् इति—कर्तव्यम् इति श्रोतव्यादिषु चतुर्ष्वन्वेति, यत् श्रवण-योग्यं कर्तव्यम् इत्य् एवं-विधया । विपर्ययम् अश्रोतव्यादि ॥३८॥
———————————————————————————————————————
॥ १.१९.३९ ॥
नूनं भगवतो ब्रह्मन् गृहेषु गृह-मेधिनाम् ।
न लक्ष्यते ह्य् अवस्थानम् अपि गो-दोहनं क्वचित् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तव दर्शनस्य पुनर् दुर्लभत्वाद् इदानीम् एव कथनीयम् इत्य् आशयेनाह—नूनम् इति । गो-दोहन-मात्र-कालम् अपि अस्माकं भाग्य-वशात् त्वद्-दर्शनं जातम् इति भावः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वद्-दर्शनस्य पुनर् दुर्लभत्वाद् इदानीम् एव कथनीयम् इत्य् आशयेनाह—नूनम् इति । गो-दोहन-मात्र-कालम् अपि ॥३९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्वद्-वीक्षायाः पुनर् दौर्लभ्याद् अधुनैव कृपया ब्रूहीति भावेनाह—नूनम् इति । गोदोहनम् अपि कालम् ॥३९॥
———————————————————————————————————————
॥ १.१९.४० ॥
सूत उवाच—
एवम् आभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्म-ज्ञो भगवान् बादरायणिः ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **स्वकृतो गुणस् तस्यैव यतः ॥४०॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवम् अहो इत्य्-आदिकया श्लक्षणया मधुरया गिरा आभाषितोऽभिमुखीकृतः पृष्ठश् च ॥४०॥
आर्यं धर्मजम् आहतारिम् अवनौ कृत्वा परीक्षिन्-नृपं
ब्रह्मास्त्रादिभिरक्षितं कलि-जयाख्यातं च कृत्वा भुवि ।
अन्ते यः शुक-रूपतः स्व-परम-ज्ञानोपदेशेन तं
शापाद् आवद् अमुं नमामि परमानन्दाकृतिं माधवम् ॥
इति श्रीमद्-भागवत-भावार्थ-दीपिकायां श्रीधर-स्वामि-विरचितायां
प्रथम-स्कन्ध-टीकायाम् एकोनविंशोऽध्यायः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
इति कलि-युग-पावन-स्वभजन-विभजन-प्रयोजनावतार-
श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-
विश्व-वैष्णव-राज-सभा-सभाजन-भाजन-
श्री-रूप-सनातनानुशासन-भारती-गर्भे
सप्तम-सन्दर्भात्मक-श्री-भागवत-सन्दर्भे
प्रथम-स्कन्धस्य श्री-क्रम-सन्दर्भः समाप्तः ॥
प्रथम-स्कन्ध-मूल-सङ्ख्या = ९५५
टीका = १७२७
सन्दर्भ-सङ्ख्या = १७००
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्लक्ष्णया मधुरया गिरा ॥४०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकोनविंशः प्रथमे सङ्गतः सङ्गतः सताम् ॥*॥
श्रीधरः-स्वामिनां श्रीमत्-प्रभूणां श्री-मुखाद् गुरोः ।
व्याख्यासु सार-ग्रहणाद् इयं सारार्थ-दर्शिनी ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **श्लक्ष्नया मधुरया गिरा अहो अद्य वयम् [भा। पु। १.१९.३२] इत्य्-आदि । कयाभाषितोऽभिमुखीकृतः पृष्टश् च बादरायणिः भगवान् प्रत्यभाषत ॥४०॥
जयति प्रथम-स्कन्धः, सुमेरुर् इव सुन्दरो वरो लोके ।
यो दयते शश्वद्-गङ्गाम् इव भक्त-बन्धुतां विष्णोः ॥
विद्या-भूषण-भणितां, प्रथम-स्कन्धस्य टिप्पनीम् एताम् ।
सन्तः करुणावन्तो, माधव-हृदया निरीक्षन्ताम् ॥२॥ \
\
इति वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यामुनविंशः ॥१९॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे
**शुकागमनं **नाम एकोनविंशोऽध्यायः ।
॥१९॥