१८ अष्टादशोऽध्यायः

विषयः

परीक्षिते मुनि-कुमार-शापः ।

॥ १.१८.१ ॥

सूत उवाच—

यो वै द्रौण्य्-अस्त्र-विप्लुष्टो न मातुर् उदरे मृतः ।
अनुग्रहाद् भगवतः कृष्णस्याद्भुत-कर्मणः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

राज्ञस् त्व् अष्टदशे तस्य ब्रह्म-शापो निरूप्यते ।

स चानुग्रह एवास्य जातो वैराग्यम् आवहन् ॥

परीक्षितो निर्याणम् इत्य् आश्चर्यं वक्तुं तत्-संभावनाय जन्माश्चर्यम् अनुस्मरयति—यो वा इति । विप्लुष्टो निर्दग्धः सन् ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टदशे मुनेः कण्ठे सर्पं बद्ध्वा गृहागतः ।

अनुतप्यन् नृपस् तस्य पुत्राच् छापम् अथाशृणोत् ॥

परीक्षितः कलि-निग्रह-श्रवणेनातिविस्मितान् मुनीन् प्रति तस्य जन्मावधि भगवत्-प्राप्ति-पर्यन्तं सर्वम् एव चरित्रम् अत्यद्भुतं सङ्क्षेपेण गणयन्न् आह—यो वा इति । विप्लुष्टो निर्दग्धः ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

अष्टादशे पिपासार्तः कण्ठे बद्धोरगं मुनेः । \ गृहागतो नृपः शप्तस् तत्-पुत्रेणेति वर्ण्यते ॥ \

परीक्षिता कलेर् निग्रहं श्रुत्वातिविस्मितान् शौनकादीन् प्रति कृष्ण-कृपा-भाजनस्य जन्मादि-निर्याणान्तं चरितम् अत्याश्चर्यं सङ्क्षेपेणाह—यो वा इत्य्-आदिभिः ॥१-२॥

———————————————————————————————————————

॥ १.१८.२ ॥

ब्रह्म-कोपोत्थिताद् यस् तु तक्षकात् प्राण-विप्लवात् ।
न सम्मुमोहोरु-भयाद् भगवत्य् अर्पिताशयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-कोपाद् उत्थितात् तक्षकाद् यः प्राण-विप्लवः प्राण-नाशः, तस्माद् यद् उरु भयं, तस्मान् न संमुमोह । तत्र हेतुः—यस् तु भगवत्य् एव अर्पिताशय इति ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।

———————————————————————————————————————

॥ १.१८.३ ॥

उत्सृज्य सर्वतः सङ्गं विज्ञाताजित-संस्थितिः1** ।**

वैयासकेर् जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विज्ञानम् आत्म-योगं स्यात्, ज्ञानं साधारणं स्मृतम् इति भागवत-तन्त्रे ॥३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किन्तु उत्सृज्येति । वैयासकेः शुकस्य शिष्यः सन् । विज्ञाता अजितस्य हरेः संस्थितिस् तत्त्वं येन सः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैयासकेः शुकस्य शिष्यः सन् विज्ञाता अजितस्य हरेः संस्थितिस् तत्त्वं येन सः । विज्ञातोऽनुभव-गोचरीकृतोऽजितः संस्थितौ मरण-काले येन स इति वा ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यो वैयासकेः शुकस्य शिष्यः सन् सर्वतः सङ्गम् उत्सृज्य गङ्गायां स्व-कलेवरं जहौ । विज्ञातोऽनुभूतोऽजितः कृष्णो यस्यां, तादृशी संस्थितिर् अन्त्यावस्था यस्य सः ॥३॥

———————————————————————————————————————

॥ १.१८.४ ॥

नोत्तमश्लोक-वार्तानां जुषतां तत्-कथामृतम् ।
स्यात् सम्भ्रमोऽन्त-कालेऽपि स्मरतां तत्-पदाम्बुजम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न चैतच् चित्रम् इत्य् आह । उत्तम-श्लोकस्य एव वार्ता येषु, अत एव नित्यं तत्-कथा-रूपम् अमृतं जुषतां सम्भ्रमो मोहो न स्यात् ॥४॥

———————————————————————————————————————

कैवल्य-दीपिका : नोत्तम इति । उत्तमः श्लोको वार्ता-वृत्तिर् येषां, ते तथा । अत एव तत्-कृतम् अमृतं सेवनेनैवाजरामरत्वम् । अत एव अन्त-कालेऽपि नो सम्भ्रमः न व्याकुलत्वं देहस्यानात्मत्वात् कुत्सित-देहान्तर-लाभ इति चेत् तन् न स्मरतां तत्-पदाम्बुजम् । तद् उक्तं गीतासु यं यं वापि [गीता ८.७] इति ॥४॥ [मु।फ। १९.१४]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नैतच् चित्रम् इत्य् आह—नोत्तमेति । उत्तम-श्लोकस्य वार्तैव वार्ता जीवन-हेतुर् येषां, तेषाम् ॥४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **न चैतद् आश्चर्यम् इत्य् आह—उत्तम-श्लोकस्य कृष्णस्य वार्तैव वार्ता जीवन-हेतुर् येषाम् ॥४॥

———————————————————————————————————————

॥ १.१८.५ ॥

तावत् कलिर् न प्रभवेत् प्रविष्टोऽपीह सर्वतः ।
यावद् ईशो महान् उर्व्याम् आभिमन्यव एक-राट् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्मिन् रज्ञि सुतरां तन् न चित्रम् इत्य् आशयेनाह—तावद् इति । अभिमन्योः पुत्र एक-राट् चक्रवर्ती ईशः पतिर् यावत् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तावत् कलिर् न प्रभवेद् इति दत्तानाम् अपि तेषां स्थानानां तत्-प्रभावेणानुद्भवात् _॥_५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **राज्ञा निगृहीतस्य कलेस् ततः परं कीदृशी स्थितिर् अभूत् ? इत्य् अपेक्षायाम् आह—तावद् इति ॥५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परीक्षिता निगृहीतस्य कलेः कीदृशी स्थितिर् अभूत् ? तत्राह—तावद् इति ॥५॥

———————————————————————————————————————

॥ १.१८.६ ॥

यस्मिन्न् अहनि यर्ह्य् एव भगवान् उत्ससर्ज गाम् ।
तदैवेहानुवृत्तोऽसाव् अधर्म-प्रभवः कलिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तदा कलेर् अप्रवेश एवास्तु, इह प्रविष्टोऽपि न प्राभवद् इति कुतः ? तत्राह—यस्मिन्न् अहनि । यर्हि यस्मिन्न् एव क्षणे । गां पृथ्वीम् । अनुवृत्तः प्रविष्टः । अधर्मस्य प्रभवो यस्मिन् ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रवेश-कालम् आह—यस्मिन्न् इति ॥६॥2

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कलेः प्रवेश-कालम् आह—यस्मिन्न् इति । गां पृथ्वीम् ॥६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रवेश-समयं कलेर् आह—यस्मिन्न् इति, गां भूमिम् ॥६॥

———————————————————————————————————————

॥ १.१८.७ ॥

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सार-भुक् ।
कुशलान्य् आशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् अधर्म-हेतुं कलिं सर्वथा किं न हतवांस् तत्राह—नानुद्वेष्टीति । सारङ्गो भ्रमर इव सार-ग्राही । सारम् आह—यत् यस्मिन् कुशलानि पुण्यान्य् आशु सङ्कल्प-मात्रेण फलन्ति, इतराणि पापान्य् आशु न सिध्यन्ति । यस् तानि कृतान्य् एव सिध्यन्ति, न तु सङ्कल्पित-मात्राणीति ॥७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सारम् एवाह—कुशलानीति । लोको विकर्म-निरतः कुशले प्रमत्तः [भा।पु। ३.९.१७, १०.७०.२६] इत्य् आद्य् अनुसारेण सर्व-मङ्गल-मयानि भगवत्-कीर्तनादीनि । आशु सङ्कल्प-मात्रेण कलाव् अपि सिध्यन्त्य् एव । कलिं सभाजयन्त्य् आर्याः [भा।पु। ११.५.३६] इत्य् आदेः, कलौ तद् धरि-कीर्तनात् [भा।पु। १२.३.५२] इत्य् आदेः, श्रुतेऽनुपठितो ध्यातः [भा।पु। ११.२.१२] इत्य् आदेः, सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा।पु। १.१.२] इत्य् आदेः, यस्यां वै श्रूयमानायां [भा।पु। १.७.७] इत्य् आदेश् च । इतराणि कर्माणि तु कृतान्य् अपि न सिध्यन्ति ।

अतः कलौ तपो-योग-विद्या-यज्ञादिकाः क्रियाः ।
साङ्गा भवन्ति न कृताः कुशलैर् वापि देहिभिः ॥ इति ब्रह्म-वैवर्तात् ।

ततो महा-फलानां तत्-कीर्तनादीनां सिद्धिश् चेन् मा सिध्यन्तु नाम तुच्छ-फलान्य् अन्यानीति तद्-अभिप्रायः ॥७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निगृहीते कलौ राज्ञः कीदृशो भाव आसीद् इत्य् अपेक्षायाम् आह—सारङ्गो भ्रमर इव सारग्राही । सारम् आह—यत् यस्मिन् कुशलानि पुण्यानि आशु सङ्कल्प-मात्रेण फलन्ति इतराणि पापानि आशु न सिद्ध्यन्ति । कृतान्य् एव सिद्ध्यन्ति न त्व् अकृतानीति । तेन कुषलान्य् अकृतान्य् अपि सिध्यन्तीति लभ्यते । अकृतत्वं खल्व् इह सङ्कल्पितत्वं व्याख्यातम् ॥७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु स्वनिगृहीते कलौ परीक्षितः कथं वृत्तिर् अभूत्-तत्राह—नान्व् इति । यतः सारङ्गो भृङ्ग इव सारग्राही । सारम् आह—यद्य् अत्र कलौ कुशलानि कीर्तनादि-प्रधानानि भगवद् अर्चन-रूपाणि कर्माणि, लोको विकर्म-निरतः कुशले प्रमत्तः, कर्मण्ययं त्वद् उदिते भवद् अर्चने स्वे [भा।पु। ३.९.१७] इति वक्ष्यमाणात्, तान्य् आशु सिध्यन्ति फलन्ति, इतराणि तु तपो-योगादीनि कृतान्यपि न सिध्यन्ति । भावान्तरं च राज्ञस् तत्रासीदित्य् आह—बालेषु विवेकशून्येषु शूरेण कलिना किम् अनिष्टं? न किम् अपि । यतो धीरेषु विवेकिषु भीरुणा यः कलिः प्रमत्तेष्व् अप्रमत्तः बालेष्व् एव हि वृकः शूरः ॥७-९॥

———————————————————————————————————————

॥ १.१८.८ ॥

किं नु बालेषु शूरेण कलिना धीर-भीरुणा ।
अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु दोषाधिक्याद् द्वेष एव युक्तः, न, धीरेषु तस्याकिञ्चित्-करत्वाद् इत्य् आह—किं न्व् इति । किं नु तेन भवेत् । बालेष्व् अधीरेषु । अप्रमत्तोऽवहितः सन् यो वृक इव वर्तते ॥८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **बालेषु तद्-अबुधेषु । धीरास् तत्र बुधाः । तद्-अबुधत्वाद् एव प्रमत्तेषु ॥८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्योऽपि राज्ञोऽभिप्राय आसीद् इत्य् आह—बालेष्व् अविवेकेषु शूरेण कलिना किं न किम् अप्य् अनिष्टम् । यतो धीरेषु विवेकिषु भक्त-जनेषु च भीरुणा । बालकेष्वेव वृकः शूरः ॥८॥

———————————————————————————————————————

॥ १.१८.९ ॥

उपवर्णितम् एतद् वः पुण्यं पारीक्षितं मया ।
वासुदेव-कथोपेतम् आख्यानं यद् अपृच्छत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पारिक्षीतम् आख्यानम् । अपृच्छत पृष्टवन्तो यूयम् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ १.१८.१० ॥

या याः कथा भगवतः कथनीयोरु-कर्मणः ।
गुण-कर्माश्रयाः पुम्भिः संसेव्यास् ता बुभूषुभिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं बहुना नरैर् एतावद् एव कर्तव्यम् इति सर्व-शास्त्रार्थ-सारं कथयति—या या इति । कथनीयान्य् उरूणि कर्माणि यस्य तस्य गुण-कर्म-विषयाः । बुभूषिभिः सद्-भावम् इच्छद्भिः ॥१०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **या यास् ताः सर्वा अपि । किम् उत श्री-वसुदेव-नन्दन-सम्बन्धिन्य इत्य् अर्थः । गुण-कर्माश्रयास् तत्-तद्-गुण-सूचक-कर्माश्रयाः ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **बुभूषुभिः स्व-सत्ताम् इच्छद्भिः । अन्यथा जीवन्-मृतत्वं स्याद् इति भावः ॥१०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **बुभूषुभिः सत्ताम् इच्छुभिः, इतरथा जीवन्मृततापत्तिः ॥१०॥

———————————————————————————————————————

॥ १.१८.११ ॥

ऋषय ऊचुः—

सूत जीव समाः सौम्य शाश्वतीर् विशदं यशः ।
यस् त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनर् विस्तरेण कथनार्थं सूतोक्तिं तत्-सङ्गं चाभिनन्दन्ति—सूतेति त्रिभिः । शाश्वतीः समा अनन्तान् वत्सरान् जीव । अत्यन्त-संयोगे द्वितीया । विशुद्धः यशः कीर्तयसि । तच् चास्माकं मर्त्यानाम् अमृतं मरण-निवर्तकम् ॥११॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **जीव मर्त्य-लोके वर्तस्वेत्य् अर्थः ॥११॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **शाश्वतीः समाः असङ्ख्येयान् सम्वत्सरान् जीव, कालाध्वनोर् अत्यन्त-संयोगे द्वितीया, विशदम् अविद्या-निवर्तकं, मर्त्यानाम् अप्य् अमृतं मृत्यु-निवर्तकम् ॥११॥

———————————————————————————————————————

॥ १.१८.१२ ॥

कर्मण्य् अस्मिन्न् अनाश्वासे धूम-धूम्रात्मनां भवान् ।
आपाययति गोविन्द-पाद-पद्मासवं मधु ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अस्मिन् कर्मणि सत्रेऽनाश्वासेऽविश्वनसीये, वैगुण्य-बाहुल्येन फल-निश्चयाभावात् । धूमेन धूम्रो विवर्ण आत्मा शरीरं येषां तान् अस्मान् । कर्मणि षष्ठी । आसवं मकरन्दम् । मधु मधुरम् ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : अनाश्वास अविश्वसनीये, वैगुण्य-बाहुल्येन कृषिवत् फल-निश्चयाभावात् । अनेन भक्तेर् विश्वसनीयत्वं ध्वनितम् । धूमेनधूम्रौ विरञ्जितौ आत्मानौ शरीर-चित्ते येषाम् , कर्मणि षष्ठी, तान् अस्मान् इत्य् अर्थः । पाद-पद्मस्य यशो-रूपम् आसवं मकरन्दं मधु मधुरम् । अत्र सत्रवत् कर्मान्तरम्, यशः-श्रवणवद् भक्त्य्-अन्तरं चेति ज्ञेयम् ।

तद् एवं भक्तिं विना कर्मादिभिर् अस्माकं दुःखम् एवासीद् इति व्यतिरेकत्वम् अत्र गम्यते । तद् उक्तं—यशः-श्रियाम् एव परिश्रमः परः [भा।पु। १२.१२.४०] इत्य्-आदि । अतो वै कवयो नित्यं [भा।पु। १.२.२२] इत्य्-आदि च । ब्रह्म-वैवर्ते च शिवं प्रति श्री-विष्णु-वाक्यम्—

यदि मां प्राप्तुम् इच्छन्ति प्राप्नुवन्त्य् एव नान्यथा ।
कलौ कलुष-चित्तानां वृथायुः-प्रभृतीनि च ।
भवन्ति वर्णाश्रमिणां न तु मच्-छरणार्थिनाम् ॥ इति ॥१२॥ [भक्ति।स। ९९]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कर्मण्य् अस्मिन् सत्रे अनाश्वासे अविश्वसनीये, वैगुण्य-बाहुल्येन फल-निश्चयाभावात् । तेन भक्तेर् विश्वसनीयत्वम् उक्तम् । धूमेन धूम्रा विवर्णा आत्मनश्चक्षुर् आद्य्-अवयवा देहा येषां तेषाम् । कर्मणि षष्ठी । भक्तेः साक्षात्-फलदत्वम् आह—आप्यायतीतिआसवं मकरन्द-रूपम्, मधु मादकम् इति, तद्-इतर-सर्व-सुख-दुःखानुभवात् प्रतिक्षणं तदीय-स्वादुत्वानुभवाच् च ॥१२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अस्मिन् सत्रे कर्मणि अनाश्वासे वैगुण्य-भूम्ना फलानिश्चयाद् अविश्वसनीये, धूमेन होमाद् उत्थितेन धूम्रा धूसरा आत्मानश् चक्षुराद्य् अवयवा देहा येषां तेषां, कर्मणि षष्ठी, अत्र भक्तिर् विश्वसनीयत्वं दर्शितं, तस्याः साक्षात्-फलदत्वम् आह—आपाययतीति । आसवं मकरन्द-रूपं मधु मादकम् इति तद् अन्य-सर्वान् अनुभवात् प्रतिक्षण-तत्-स्वादानुभवाच् च ॥१२॥

———————————————————————————————————————

॥ १.१८.१३ ॥

तुलयाम लवेनापि न स्वर्गं नापुनर् भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवत्-सङ्गिनो विष्णु-भक्ताः, तेषां सङ्गस्य यो लवोऽत्यल्पः कालः, तेनापि स्वर्गं न तुलयाम समं न पश्याम । न च [अपुनर्भवं] अपवर्गम् । संभावनायां लोट् । मर्त्यानां तुच्छा आशिषो राज्याद्या न तुलयामेति किम् उ वक्तव्यम् ? ॥१३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तुलयामेति तैः । तत्र सम्भावनायां लोड् इति । तुलयितुं सम्भावनाम् अपि न कुर्मः । किम् उत तुलनां कुर्म इत्य् अर्थः ॥१३॥3

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्मात् तादृश-साधु-सङ्ग-महा-निधेर् माहात्म्यम् अस्मद्-अनुभव-गोचरी-कृतं कियद् ब्रुमः? इत्य् आहुः । भगवत्-सङ्गिनो भक्ताः, तेषां सङ्गस्य यो लवोऽत्यल्पः कालः, तेन स्वर्गं कर्म-फलम्,अपुनर्भवं मोक्षं च ज्ञान-फलं न तुलयाम, मर्त्यानां तुच्छा आशिषो राज्याद्याः किम् उत वक्तव्यं न तुलयामेति । यतः साधु-सङ्गेन परम-दुर्लभाया भक्तेर् अङ्कुरो ह्य् उद्भवतीति भावः ।

तत्र भक्तेः साधनस्यापि साधु-सङ्गस्य लवेनापि कर्म-ज्ञानादेः फलं सम्पूर्णम् अपि न तुलयाम, किमुत बहु-काल-व्यापिना साधु-सङ्गेन, किमुततरां तत्-फल-भूतया भक्त्या, किमुततमां भक्ति-फलेन प्रेम्नेति च कैमुत्यातिशयो द्योतितो भवति । तथात्र सम्भावनार्थ-कलोटातोलने सम्भावनाम् एव न कुर्मः । न हि मेरुणा सर्षपं कश्चित् तुलयतीति द्योत्यते । बहु-वचनेन बहूनां सम्मत्या नैषोऽर्थः केनचिद् अप्रमाणीकर्तुं शक्यत इति व्यज्याते । भगवत्-सङ्गि-सङ्गस्य इत्य् अनेन –

न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः ।
योषित्-सङ्गाद् यथा पुंसस् तथा तत्-सङ्गि-सङ्गतः ॥

इति योषित्-सङ्गाद् अपि योषित्-सङ्गिनां सङ्गो यथातिनिन्द्य उक्तः, तथैव भगवत्-सङ्गाद् अपि भगवत्-सङ्गिनां सङ्गोऽतिवन्द्योऽतिप्रशस्योऽत्यभिलषणीय इति बोध्यते ॥१३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सत्-प्रसङ्गस्य महान्तं महिमानम् आह—तुलयामेति । सम्भावनायां लोट् । भगवत्-सङ्गिनां वैष्णवानां यः श्री-कृष्ण-कथामृतवर्षी सङ्गस् तस्य लवेन किञ्चित् कालेनापि स्वर्गं कर्म-फलम् अपवर्गं च ज्ञान-फलं सुखैश्वर्य-प्रधानं मोक्षं न तुलयाम, तुलने सम्भावनाम् अपि न कुर्म इत्य् अर्थः । न हि कर्पूर-मरीचैलाभावितेन सिता-पानकेन क्षारोदकं तक्रं वा केचित्-तुलयेयुः । एवं सति मर्त्यानाम् आशिषस् तुच्छा राज्यादिकाः किम् उतेति । इह भक्ति-हेतोः सत्-सङ्गस्य लवोऽपि चेत्-तस्मिन्न् असम्भाव्यस् तर्हि बहु-काल-तत्-सङ्गो दूरे, तत्-फल-भूता भक्तिस् त्व् अतिदूरे स्थाप्यते इति लव-शब्दात् बहु-सम्मतत्वान्-नात्र सन्देह-गन्धोऽपीति बहु-वचनात् । भगवत्-सङ्गाद् अपि सत्-सङ्गस्यातिबलीयस् त्वम् अग्नि-सङ्गाद् अपि तत्-प्रतप्तायः पिण्ड-सङ्गवद् इति च सङ्गि-सङ्ग-शब्दात् सूच्यते ॥१३॥

———————————————————————————————————————

॥ १.१८.१४ ॥

को नाम तृप्येद् रसवित् कथायां

महत्तमैकान्त-परायणस्य ।

नान्तं गुणानाम् अगुणस्य जग्मुर्

योगेश्वरा ये भव-पाद्म-मुख्याः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं सत्-सङ्गम् अभिनन्द्य श्रवणौत्सुक्यम् आविष्-कुर्वन्ति—को नामेति । रसविद् रसज्ञः । महत्तमानाम् एकान्तेन परम् अयनम् आश्रयो यस् तस्य कथायाम् । अगुणस्य प्राकृत-गुण-रहितस्य । कल्याण-गुणानाम् अन्तं ये योगेश्वरास् तेऽपि न जग्मुर् एतावन्त इति न परिगणयां चक्रुः । भवः शिवः पाद्मो ब्रह्मा च मुख्यौ येषां ते ॥१४॥

———————————————————————————————————————

कैवल्य-दीपिका : एवं भक्त्य्-अङ्गान्य् उक्त्वा तेषु सर्वशः स्तोतव्येषु प्राधान्यात् त्रिवर्गम् एव स्तौति । वर्गस्येति । महिमेति शेषः । तेष्व् अपि श्रवण-माहात्म्यम् आह—अथेति । को नाम इति । महत्तमा एकान्तेन नियमेन परायणं परम आश्रयो यस्य स तथा । महत्तमैः कथ्यमानः प्रत्यक्ष इव भवतीति भावः । अन्तं निश्चयम् इदं रूपम् ईदृशं रूपम् इत्थं चमत्कारोतीत्य्-आदि । अगुणस्य गुण-सुखाधिक-स्वरूप-सुख-लुब्धत्वाद् अगृहीत-गुणस्य स्वरूप-सुखम् एव गुणेष्व् अभिव्यक्तम् अन्यान् सुखयति । अभिव्यक्ति-तारतम्यात् सुख-तारतम्यम् । भवो रुद्रः । पाद्मो ब्रह्मा । मुख्य-शब्दात् सनकादयः योगस्य समाधेः । ईश्वरावशीकृतः समाधयः । समाधि-बलात् कलित-सकल-पदार्था अपि विष्णु-गुणान् न कलयन्तीत्य् अर्थः ॥१४॥ [मु।फ। ८.१]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **योगस्य भक्ति-योगस्य । ईश्वरा दातुम् अदातुं च समर्थाः _॥_१४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु सत्यम् एव प्रशस्यते साधु-सङ्गो यतस् तं विना कृष्ण-कथास्वादो न लभ्यते, स युष्माभिर् लब्ध एवेति । किं पुनस् तस्यैव पौनःपुन्येन ? इत्य् अत आह—को नामेति । रसविद् रसज्ञश् चेत् तदा को नाम महत्तमानाम् एकान्तेन परम् अयनम् आश्रयो यस् तस्य कथायां तृप्येद् इति महा-माधुर्यम् उक्तम् । महैश्वर्यं चाह—नान्तम् इति । यतः अगुणस्य प्राकृत-गुण-रहितस्य गुणानां चिन्-मयानाम् अन्तं ये योगेश्वरास् तेऽपि न जग्मुः ॥१४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु सत्-प्रसङ्गात् कृष्ण-कथा-रसास्वादो लभ्यते, स च भवद्भिर् लब्ध एवेति चेत्-तत्राह—को नामेति । को रसवित् कृष्णस्य कथायां तृप्येत्? न तृप्येद् इत्य् अर्थः । कीदृशस्य? महत्तमानां श्री-नारदादीनाम् एकान्तेन परायणस्य परमाश्रयस्य तैः सम्यक् निश्चयेन परत्वेनाश्रितस्य् एत्य् अर्थः । सर्वेश्वरस्य नित्य-मूर्तेर् अतिमनोज्ञस्येति भावः । न च सकृत्-सत्-प्रसङ्गेन कृत्स्नस् तदास्वादो लभ्येत, तासाम् आनन्त्यात्-तच्-चानन्त-गुण-हेतुकत्वाद् इति भावेनाह—अगुणस्य माया-गन्ध-शून्यस्य तस्य गुणानां सार्वैश्वर्य-सार्वज्ञ्य-सौहार्द-भक्त-बन्धुत्वादीनां स्वरूपानुबन्धिताम् अन्तं पारत् योगेश्वरा अपि न जन्मुः, तथा च सर्वदैव सत्-सङ्गः प्रार्थ्य इति ॥१४॥


॥ १.१८.१५ ॥

तन् नो भवान् वै भगवत्-प्रधानो

महत्तमैकान्त-परायणस्य ।

हरेर् उदारं चरितं विशुद्धं

शुश्रूषतां नो वितनोतु विद्वन् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नोऽस्माकं मध्ये भगवान् प्रधानं सेव्यो यस्य स भवान् नः शुश्रूषतां हरेश् चरितं विस्तारयतु ॥१५॥

———————————————————————————————————————

कैवल्य-दीपिका : तन् न इति । भगवत्-प्रधान इति बहुव्रीहिः । महत्तम- इति तत्पुरुषः । विशुद्धं कर्त्र्-अन्तरासङ्कीर्णम् ॥१५॥ [मु।फ। ८.२]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नोऽस्माकं मध्ये भगवान् प्रधानं सेव्यो यस्य सः भवान् । नोऽस्माकं शुश्रूषतां सम्बन्धेन । विशुद्धं मायातीतम् ॥१५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्-तस्माद् भवान् नोऽस्माकं मध्ये भगवत्-प्रधानो हरिस्वामिकस् तद् एकान्ती । हे उदार दातः! उदारो दातृ-महतोः इत्य् अमरः । हरेर् आचरितं शुश्रुषतां नः सम्बन्धे वितनोतु विस्तारयतु, यद् वा उदारं महत्, स्फुटम् अन्यत् ॥१५॥

———————————————————————————————————————

॥ १.१८.१६ ॥

स वै महा-भागवतः परीक्षिद्

येनापवर्गाख्यम् अदभ्र-बुद्धिः ।

ज्ञानेन वैयासकि-शब्दितेन

भेजे खगेन्द्र-ध्वज-पाद-मूलम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तच् च शुक-परीक्षित्-संवादेन कथयेत्य् आहुः—स वा इति द्वाभ्याम् । वैयासकिना श्री-शुकेन शब्दितेन कथितेन येन ज्ञानेन ज्ञान-साधनेनापवर्ग इत्य् आख्या यस्य तत् खगेन्द्र-ध्वजस्य हरेः पाद-मूलं भेजे ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु ज्ञानाद् एव मोक्ष इति ज्ञानाय तत्-फलाय मोक्षाय च कथं न स्पृहयथेति चेद् अस्माकं भक्तानां भगवच्-चरितास्वादनं ज्ञानं तत्-फलं भगवत्-पद-प्राप्तिर् एव मोक्ष इति परीक्षिद्-दृष्ट्यैवाहुः । तच्-चरितं भवान् वितनोतु येन स वै परीक्षित् खगेन्द्र-ध्वजस्य भगवतः पाद-मूलं प्राप ।

ननु द्वादश-स्कन्धे परीक्षिद्-अपवर्गं प्रापेति प्रसिद्धिः सत्यम् । अपवर्ग इत्य् आख्या यस्य तद्-भक्तैर् भगवत्-पाद-मूलम् एवापवर्ग उच्यते । वक्ष्यते च पञ्चम-स्कन्धे, यथावर्ण-विधानम् अपवर्गश् च भवति योऽसौ भगवति भक्ति-योगः [भा।पु। ५.१९.१९-२०] इति । येन कथम्-भूतेन वैयासकि-शब्दितेन । यथैव तत्-पाद-मूलम् अपवर्ग-शब्देनोच्यते तथैव तच्-चरितम् अपि ज्ञान-शब्देन वैयासकिनोच्यते । अतो ज्ञानेन परीक्षिद्-अपवर्गं प्रापेति प्रसिद्धिर् नानृतेत्य् अर्थः । एतेन स प्रेत्य गतवान् यथा [भा।पु। १.१२.२] इति प्रश्नस्योत्तरम् उक्तम् ॥१६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भक्त-कथा खलु भगवत्-कथा-संपृक्ता शिखरिणीवातिस्वाद्वी ताप-हरा च तवेदतः तां ब्रूहीत्य् आह—स वै इति । येन हरेर् उदार-चरितेन परीक्षित् खगेन्द्र-ध्वजस्य कृष्णस्य पाद-मूलं भेजे, तद्-भवान् वितनोतु । कीदृशेन? ज्ञायतेऽनुभूयते हरिर् अनेनेति ज्ञानं तेन, वैयासकिना शब्दितेनोपदिष्टेन । पाद-मूलं विशिनष्टि—अपवर्गाख्यम् इति मायापवर्जनात्-तन्-नामकम् इत्य् अर्थः । एतेन स प्रेत्य गतवान् यथा [भा।पु। १.१२.२] इत्य् एतद्-विशदी-भूतम् ॥१६॥

———————————————————————————————————————

॥ १.१८.१७ ॥

तन् नः परं पुण्यम् असंवृतार्थम्

आख्यानम् अत्यद्भुत-योग-निष्ठम् ।

आख्याह्य् अनन्ताचरितोपपन्नं

पारीक्षितं भागवताभिरामम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् संवृतार्थं यथा तथा आख्याहि । तद् एव निर्दिशन्ति । परीक्षिते कथितं पारीक्षितम् आख्यानं श्री-भागवतं पुराणम् । परं पुण्यं सत्त्व-शोधकम् । अत्युद्भुते योगे निष्ठा यस्य । अनतस्याचरितैर् उपपन्नं युक्तम् । अत एव भागवतानाम् अभिरामं प्रियम् । एतैर् विशेषेणः कर्म-ज्ञान-भक्ति-योग-प्रकाशत्वं दर्शितम् ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तन् नः परम् इत्य् अत्रावन्तर-तात्पर्येण धर्म-ज्ञान-प्रकाशकत्वेऽपि मुख्य-तात्पर्येण भक्तेर् एव प्रकाशकत्वम् आह—भागवताभिरामम् इति । अत एतत् प्राग् उक्तम्—स वै महा-भागवतः [भा।पु। १.१८.१६] इत्य्-आदि । यद् वा, परं पुण्यं परम-शोधकम् । यतोऽत्यद्भुत-योगो भक्ति-योगस् तन्-निष्ठम् इत्य्-आदि ॥१७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **असंवृतार्थं यथा स्यात् तथाख्याहि । अत्यद्भूते योगे भक्तौ निष्ठा यस्य । आख्यानं श्री-भागवतम् । यतो भागवतानां भक्तानाम् अभिरामं प्रियं पारीक्षितं परिक्षिते कथितम् ॥१७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत् परीक्षितम् आख्यानम् आख्याहि, असंवृतार्थं यथा स्यात्-तथा, अत्यद्भुतस्य भक्ति-योगस्य निष्ठा स्थितिर् यत्र तत् । अतो भागवतानाम् अभिरामं मनोहरम् । महद्भिः सत्-कृतं श्री-भागवत-व्याख्यानाय दत्तासनं स्वं श्लाघते—अहो इति आश्चर्ये । हेति हर्षे, सूतजातित्वाद्-विलोमजाताः प्रतिलोमजा अपि वयं ज्ञान-वृद्धानां भवताम् अनुवृत्त्या सेवया जन्म-भृतः सफल-जन्मानो जाता आस्मः । यतो महत्तमानां भवादृशानाम् अभिधान-योगो लौकिकोऽपि सम्भाषण-सम्बन्धः दौष्कुल्यमाधिं दुष्कुलत्व-जन्यां मनः-पीडां विधुनोति विनाशयति ॥१७–१८॥

———————————————————————————————————————

॥ १.१८.१८ ॥

सूत उवाच—

अहो वयं जन्म-भृतोऽद्य हास्म

वृद्धानुवृत्त्यापि विलोम-जाताः ।

दौष्कुल्यम् आधिं विधुनोति शीघ्रं

महत्तमानाम् अभिधान-योगः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-भागवत-व्याख्याने लब्ध-प्रसङ्गं महताम् आदर-पात्रम् आत्मानं श्लाघते द्वाभ्याम् । अहो इत्य् आश्चर्यम् । ह इति हर्षे । वयम् इति बहु-वचनं श्लाघायाम् । प्रतिलोम-जा अप्य् अद्य जन्म-भृतः स-फल-जन्मान आस्म जाताः । वृद्धानाम् अनुवृत्त्या आदरेण । ज्ञान-वृद्धः शुकस् तस्य सेवयेति वा । यतो दुष्कुलत्वं तन्-निमित्तम् आधिं च मनः-पीडां महत्तमानाम् अभिधान-योगो योगो लौकिकोऽपि संभाषण-लक्षणः संबन्धो विधुनोत्य् अपनयति ॥१८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तादृश-ब्रह्मर्षीन् प्रति स्वयं तादृश-महा-पुराणम् उपदेष्टुं सङ्कुचंस् तत्र तन्-महिमानम् एवावलम्बते—अहो इति युग्मकेन विलोम-जाता अपि वयम् अदयैव जन्म-भृत उत्तम-जन्मान्तरं लब्धवन्त आस्म, द्विजत्ववत् । कथम् ? वृद्धानां महत्तमानां भवताम् अनुवृत्त्यैतन् महा-पुराण-कथन-प्रवर्तनात्मकेनाङ्गीकारेण । यद् वा, केन कदा ? वृद्धानां श्री-शुकदेवादीनां भवतां यानुवृत्तिर् अनुगतिस् तया हेतुना । अद्यास्मिन्न् एतादृश-भवद्-अङ्गीकार-समये । विलोमजत्वानुवृत्तौ तत्रायोग्यत्वाद् इति भावः । तत्र कैमुत्यं महत्तमानाम् अभिधान-योगो नाम श्रवणम् अपि दौष्कुल्यं तद्-आधिं च विधुनोतीति ॥१८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-भागवताख्याने ऋषिभिर् दत्त-योग्यता-कमात्मानम् अभिनन्दति । विलोमजा निन्द्या अपि अद्य जन्म-भृतः सफल-जन्मानः । आस्म जाताः । ह स्पष्टम् । वृद्धानां ज्ञान-वृद्धस्य शुकस्य वा अनुवृत्त्या । यतो दुष्कुलत्वं तन्-निमित्तम् आधिं च मनः-पीडां महत्तमानाम् अभिधान-योगः लौकिकोऽपि सम्भाषण-लक्षण-सम्बन्धः विधुनोति ॥१८॥

———————————————————————————————————————

॥ १.१८.१९ ॥

कुतः पुनर् गृणतो नाम तस्य

महत्तमैकान्त-परायणस्य ।

योऽनन्त-शक्तिर् भगवान् अनन्तो

महद्-गुणत्वाद् यम् अनन्तम् आहुः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अनन्तोद्देशतः कालतश् च ॥१९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुतः पुनः किं पुनर् वक्तव्यं तस्याननतस्य नाम गृणतः पुंसो महत्तमैकान्त-योगो दौष्कुल्यं विधुनोतीति । यद् वा, नाम गृणतः पुनः कुतो दौष्कुल्यम् इति । यद् वा, गृणतः पुंसस् तस्य नाम दौष्कुल्यं विधुनोतीति किं वक्तव्यम् इति कैमुत्य-न्यायम् एवाह । अनन्ताः शक्तयो यस्य । स्वतोऽप्य् अनन्तः । किं च, महत्सु गुणा यस्य स महद्-गुणः तस्य भावस् तस्मात् । यं गुणतोऽप्य् अनन्तम् आहुः ॥१९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं सति तस्य महत्तमाभिधान-योगवतः पुनर् महत्तमानाम् एकान्त-परायणस्य गाढ-तत्परस्य सतोऽत एव गृणतः, तेषां महत्तमानां नाम कीर्तयतः पुंसः कीर्तितं नाम कर्तृ दौष्कुल्यादिकं विधुनोतीति कुतः पुनर् वक्तव्यम् ? सुतराम् एव तत् स्याद् इति भावः । तत्र हेतुः—अतिशयो यो भगवान् अनन्त-स्वरूपस् तथानन्त-शक्तिश् च स्यात् । तम् अपि यं महत्सु अभिव्यक्ता गुणा यस्य ताद्र्शत्वाद् एव हेतोर् अनन्तम् आहुः—तत् तया यद् अस्ति सर्वे तेषु यदि तद्-गुणा नाभिव्यक्ता अभविष्यन्, तदा तद्-अज्ञानात् तम् अपि तथा नावदिष्यन्न् इत्य् अर्थः । पूर्वेण यच्-छब्देन तच्-छब्दो लभ्यते । परेण तु प्रसिद्धः सूच्यते । तस्मात् तादृश-गुणानां भवद्-विधानाम् एव प्रभावोऽयं—यद् वयम् अप्य् अत्र योग्या जाता इति भावः । येषां संस्मरणात् पुंसां [भा।पु। १.१९.३३] इत्य्-आदिवत् । अत्र प्रस्तुतस्य वृद्धानुवृत्ति-महिम्न उपक्रान्तत्वेन उपसंहारेऽन्यमहिम-परत्वे वाक्य-भेदः स्याद् इति नान्यथा व्याख्यातम् । निज-योग्यतान्तर-सूचने धार्ष्ट्यं स्याद् इति च ॥१९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कुतः पुनः वक्तव्यं गृणतः कीर्तयतः पुंसः नाम कर्तृ-दौष्कुल्यं विधुनोति । ननु दौष्कुल्यारम्भकं पापं प्रारब्धम् एव, तस्य नाशं विना कथं दौष्कुल्य-धूननम् ? प्रारब्धस्य तु भोगेनैव नाश इति प्रसिद्धेः । नामतः कथं खण्डयतु ? इत्य् अत आह—यो भगवान् अनन्त-शक्तिर् इति । शक्तीनाम् आनन्त्याद् भक्त-प्रारब्ध-नाशिन्य् अपि काचित् शक्तिर् अस्त्य् एवेति भावः । तथा च महत्सु स्व-भक्तेषु गुणा यस्य स महद्-गुणस् तस्य भावस् तत्त्वम् । तस्माद् यम् अनन्तम् आहुर् इति । तेन तद्-भक्तेषु तदीय-गुण-सङ्क्रमात् तस्मिन्न् इव तद्-भक्तेऽपि प्रारब्धं न तिष्ठति ॥१९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु दौष्कुल्यारम्भत्वके प्रारब्धे स्थिते तत्-कार्यं तत् कथं विधूतं स्याद् इति चेत्—सतां प्रारब्ध-हरत्व-शक्तिर् भगवद्-दत्तास्तीति भावेनाह—कुत इति । तस्य कृष्णस्य नाम कर्तृ गृणतो महत्तम-सदसि तं कीर्तयतः पुंसो दौष्कुल्यं विधुनोतीति पुनः कुतः किं वाच्यम् इत्य् अर्थः । कृष्ण-प्रभावम् आह—य इति । भगवान् षडैश्वर्य-पूर्णः, अनन्तो विभुः । महत्सु गुणा यस्य तत्त्वाद्यम् अनन्तम् आहुः, तथा च भक्त-प्रारब्ध-हर्तृ-स्व-शक्तेस्तेन महत्तम् एष्व् अर्पितत्वात् तत्-प्रसङ्गाद् अस्माकं दौष्कुल्यारम्भक-तन्-नाशः सांप्रत इति भावः ॥१९॥

———————————————————————————————————————

॥ १.१८.२० ॥

एतावतालं ननु सूचितेन

गुणैर् असाम्यानतिशायनस्य ।

हित्वेतरान् प्रार्थयतो विभूतिर्

यस्याङ्घ्रि-रेणुं जुषतेऽनभीप्सोः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति त्रिभिः—एतावतेति । तस्य यद् असाम्यम् अनतिशायनं च गुणैस् साम्यं तद्-आधिक्यं चान्यस्य नास्तीत्य् अस्यार्थस्य ज्ञानम् एतावता सूचितेनैवालं पर्याप्तं कस् तद् विस्तरो वक्तुं शक्नोति । तद् एवाह । इतरान् ब्रह्मादीन् प्रार्थयमानान् हित्वा विभूतिर् लक्ष्मीर् अनभीप्सोर् अपि यस्याङ्घ्रि-रेणुं सेवत इति ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ तस्यानन्त-गुणत्वं दर्शयति—एतावतेति । असाम्यश् चासाव् अनतिशायनश् चेति । गुणैर् असाम्याधिक्यस्य तस्यैतावता विस्तृतेन माहात्म्य-सूचनेनालम्, न प्रयोजनम् अस्तीत्य् अर्थः । तद् एव योजयति—हित्वेति । विभूतिर् बहिरङ्ग-सम्पत्ति-रूपा । यस्य स्वरूप-शक्त्य्-आदिभिः सम्पन्नस्य ॥२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु के ते गुणास् तत्र तान् वक्तुं कः समर्थः? किन्तु एतावता सूचितेनालं यद्-गुणैर् असाम्यं न अतिशायनं यस्य तस्येति । यस्य सम एव नास्ति अधिकः कुतो भविष्यतीत्य् अर्थः । एवम्-भूतस्य यस्यानभीप्सोर् अपि अङ्घ्रि-रेणुं विभूतिर् लक्ष्मीः सर्व-गुण-पूर्णम् अन्विष्यन्ती जुषते सेवते इतरान् ब्रह्मादीन् प्रार्थयमानान् अपि त्यक्त्वा ॥२०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हरेर् अनन्त-शक्तित्वात् तन्-निरूपणं न कोऽपि शक्नुयात् कर्तुं किन्त्वेतावता सूचनेनालं पर्याप्तं, यस्यान् अभीप्सोर् अपि गुणैर् आकृष्टा विभूतिर् लक्ष्मीर् इतरान् । प्रार्थयतोऽपि ब्रह्मादीन् हित्वाङ्घ्रि-रेणुं जुषते सेवते । कीदृशस्येत्य् आह—साम्येति । साम्यातिशय-शून्यस्येत्य् अर्थः । यस्य समः कोऽपि नास्त्य् अधिकस् तु कुत इत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ १.१८.२१ ॥

अथापि यत्-पाद-नखावसृष्टं

जगद् विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्य् अन्यतमो मुकुन्दात्

को नाम लोके भगवत्-पदार्थः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथेत्य् अर्थान्तरे । यस्य पाद-नख्हाद् अवसृष्टं निःसृतम् अपि विरिञ्चेनोपहृतं समर्पितम् अर्हणाम्भोऽर्घोदकम् ईश-सहितं जगत् पुनाति । विरिञ्चोपहृतं सेशम् इति च तयोर् अप्य् उपासकत्वम् उक्तम् । तस्मान् मुकुन्द-व्यतिरिक्तः को नाम भगवत्-पदस्यार्थः । स एव सर्वेश्वर इत्य् अर्थः ॥२१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य चानन्त-गुणस्य महत्स्व् अभिव्यक्तत्वं दर्शयति—अथेति । सेशं पुनातीत्य् अत्रेशस्यापि पवित्रीकरणम् अखण्डतम-गुणाधिष्ठानत्वेऽपि तद्-आवेश-खण्डनं ज्ञेयम् ॥२१॥ [परमात्म-सन्दर्भ १७]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ इत्य् अर्थान्तरे । यत्-पाद-नखावसृष्टं निःसृतम् अपि विरिञ्चेनोपहृतं समर्पितम् अर्हणाम्भः अर्घ्योदकम् ईशो महादेवस् तत्-सहितं सर्वं जगत् पुनाति तस्मान् मुकुन्द-व्यतिरिक्तः को नाम भगवत्-पदस्यार्थः सर्वेश्वरः स एवेत्य् अर्थः । एवं च जगति सर्वोत्कृष्टा लक्ष्मी-ब्रह्म-शिवा एव तत्-पदं सेवमानास् तस्य महोत्कर्ष सूचयन्तीति वाक्यार्थः ॥२१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य सर्वेश्वरत्वाद् एव सर्वान् विहाय लक्ष्मीस् तम् एव सेवत इत्य् आह— अथापीति । विरिञ्चेनोपहृतम् अर्पितम् अर्हणान्तोऽर्घोदकं कर्तृ यस्य पाद-नखाद् अवसृष्टं निर्गतं सत् सेशं सरुद्रं जगत् पुनाति, तस्मान्-मुकुन्दादन्यतमो लोके भगवत्-पदस्यार्थः को नाम? तथा च लक्ष्मी-ब्रह्म-रुद्राणां सर्वोत्कृष्टानां तत्-पद-सेवकत्वात् स एव सर्वेश्वर इति ॥२१॥

———————————————————————————————————————

॥ १.१८.२२ ॥

यत्रानुरक्ताः सहसैव धीरा

व्यपोह्य देहादिषु सङ्गम् ऊढम् ।

व्रजन्ति तत् पारमहंस्यम् अन्त्यं

यस्मिन्न् अहिंसोपशमः स्व-धर्मः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **परमहंसाश्रमं प्राप्यं सत्यं ब्रह्म ॥२२॥

———————————————————————————————————————

श्रीधर-स्वामी (भावार्थ-दीपिका) : धीराः सन्तः । ऊढं धृतम् । अन्त्यं परमाकाष्टापन्नम् । तद् आह—यस्मिन्न् अहिंसा उपशमश्स्वाभाविको धर्मः ॥२२॥

———————————————————————————————————————

कैवल्य-दीपिका : को नाम इति । पुरा कथानां मध्ये । नरेतरं पाशुम् ॥२२॥ [मु।फ। ८.३]

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः, ७५): अथ [प्रीतेः] प्रथमोदयावस्थाम् आह—यत्र इति । अन्त्यं पारमहंस्यं भागवत-परमहंसत्वम् । तस्यानुषङ्गिको गुणः यस्मिन्न् इति ॥२२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्मात् तम् एव भजेद् इत्य् अभिप्रेत्याह_—_यत्रेति । अन्त्यं पारमहंस्यं भागवत-परमहंसत्वम्—

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.५] इत्य् उक्तेः ।

यस्मिन् यद्-अर्थम् अहिंसया मात्सर्यादि-राहित्येन उपशमो भगवन्-निष्ठा विधीयत इत्य् अर्थः ॥२२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथा दृश्यमाना मनीषिणोऽप्य् अत्रार्थे प्रमाणम् इत्य् आह—यत्रेति । ऊढं धृतम्। अन्त्यं परम-काष्ठापन्नम् । यस्मिन् व्रजने ॥२२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अत एव धीरास् तं भजन्तीत्य् आह—यत्रेति । ऊढम् अनादि-काल-प्राप्तं देहादिषु सङ्गं सहसा ज्ञान-बलेन व्यपोह्य त्यक्त्वा अन्त्यं चतुर्थं, यस्मिन् पारमहंस्ये ऽहिंसादिः स्वाभाविको धर्मः ॥२२॥

———————————————————————————————————————

॥ १.१८.२३ ॥

अहं हि पृष्टोऽर्यमणो भवद्भिर्

आचक्ष आत्मावगमोऽत्र यावान् ।

नभः पतन्त्य् आत्म-समं पतत्त्रिणस्

तथा समं विष्णु-गतिं विपश्चितः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं स्वभाग्यम् अभिनन्द्य पारीक्षितोपख्यानं वक्तुम् आह—अहं हीति । हे अर्यमणः हे सूर्यास् त्रयी-मूर्तयः, अत्र यावान् आत्मावगमो मम ज्ञानं तावद् आचक्षे प्रवक्ष्यामि । तथाहि । यथा पक्षिणो नभ आत्म-समं स्व-शक्त्य्-अन्रूपम् एवोत्पतन्ति न कृत्स्नम्, तथा विपश्चितोऽपि विष्णोर् गतिं लीलां समं स्वम् अत्यनुरूपम् एव वदन्तीत्य् अर्थः ॥२३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नन्व् अनन्त-गुणस्य तस्य कथं गुण-गणने प्रवृत्तोऽसि ? तत्राह—अहं हीति ॥२३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं स्व-भाग्यम् अभिनन्द्य पारीक्षितोपाख्यानं वक्तुम् आह—अर्यमणः! हे सूर्यास् तत्-तुल्यास् त्रयी-मूर्तयः अत्र यावान् आत्मावगमः मम ज्ञानं तावद् आचक्षे प्रवक्ष्यामि । यथा पक्षिणः आत्म-समं स्व-शक्त्य्-अनुरूपम् एव नभ उत्पतन्ति न तु कृत्स्नं तथा विपश्चितोऽपि विष्णोर् गतिं लीलां समं स्व-मत्य्-अनुरूपम् एव ॥२३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं स्वभाग्यं संश्लाघ्य भगवद् ऐश्वर्यं चोक्त्वाथ शौनक-प्रश्नस्योत्तरञ्चाह—अहं हीति । हे अर्यमणः सूर्य-तुल्याः शौनकादयः! भवद्भिर् यत् पृष्टं तद् अहम् आचक्षे—तत्र यावान्-ममात्मावगमस् तावद् वक्ष्यामि, यथा पतत्रिण आत्म-समं स्व-शक्त्य् अनुरूपम् एव नभ उत्पतन्ति, न तु कृत्स्नं, तथा विपश्चितः समं स्व-बुद्ध्य् अनुरूपम् एव विष्णुगतिं वदन्तीति ॥२३-२४॥

———————————————————————————————————————

॥ १.१८.२४ ॥

एकदा धनुर् उद्यम्य विचरन् मृगयां वने ।
मृगान् अनुगतः श्रान्तः क्षुधितस् तृषितो भृशम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संप्रति कथाम् उपक्षिपति—एकदेति ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ श्री-भगवान् एव स-पार्श्वं नेतुं ब्रह्म-शाप-द्वारा तं विरक्तं सम्पादितवान् । तत्र च श्रीमद्-भागवतं प्रकाशितवान् इति वक्तुं तच्-चरितान्तरम् आह—एकदेत्य् आदिना ॥२४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ १.१८.२५ ॥

जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् ।
ददर्श मुनिम् आसीनं शान्तं मीलित-लोचनम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अचक्षाणोऽपश्यन् तं प्रसिद्धम् आश्रमम् । तस्मिंश् च मुनिं शमीकम् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अचक्षणोऽपश्यन् ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अचक्षाणो ऽपश्यन्, मुनिं शमीकम् ॥२५॥

———————————————————————————————————————

॥ १.१८.२६ ॥

प्रतिरुद्धेन्द्रिय-प्राण- मनो-बुद्धिम् उपारतम् ।
स्थान-त्रयात् परं प्राप्तं ब्रह्म-भूतम् अविक्रियम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ब्रह्म-भूतं ब्रह्मणि भूतम् । स्वतो-मनः स्थितिर् विष्णौ ब्रह्म-भाव उदाहृतः इति ब्रह्माण्डे ॥२६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रतिरुद्धाः प्रत्याहता इन्द्रियादयो येन तम् । अत एवोपरतम् । स्थान-त्रयाच् जाग्रादि-लक्षणात् परं तुरीयं पदं प्राप्तम् । अत एव ब्रम-भूतत्वाद् अविक्रियम् ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मुनिं शमीकम् । स्थान-त्रयात् जाग्रत्-स्वप्न-सुषुप्तितः परं तुरीयं समाधिं प्राप्तम् अत एव ब्रह्म-भूतम् ॥२६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जाग्रदादि-स्थान-त्रयात् परं तुरीयं भूतं सत्यं ब्रह्म प्राप्तम् अनुभवन्तम् इत्य् अर्थः । रुरोर्मृग-विशेंस्येदं रौरवं तेनाजिनेन च छन्नं मुनिं विशुष्यत्तालुः परीक्षित् उदकम् अयाचत ॥२६-२७॥

———————————————————————————————————————

॥ १.१८.२७ ॥

विप्रकीर्ण-जटाच्छन्नं रौरवेणाजिनेन च ।
विशुष्यत्-तालुर् उदकं तथा-भूतम् अयाचत ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विप्रकीर्णाभिर् जटाभिर् आच्छन्नम् । रुरुर् मृग-विशेषस् तस्य चर्मणा चाच्छन्नम् । विशेषेण शुष्यात्-तालु यस्य सः । तथा-भूतं मुनिम् उदकम् अयाचत ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रुरुर् मृग-विशेषस् तस्य चर्मणा च आच्छन्नम् ॥२७॥

———————————————————————————————————————

॥ १.१८.२८ ॥

अलब्ध-तृण-भूम्य्-आदिर् असम्प्राप्तार्घ्य-सूनृतः ।
अवज्ञातम् इवात्मानं मन्यमानश् चुकोप ह ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न लब्धं तृणं तृणासनं भूम्य्-आद्य्-उपवेश-स्थानं च येन सः । न संप्राप्तोऽर्घः सूनृतं प्रिय-वचनं च येन सः ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अलब्धेत्य्-आदि । अत्र तस्येदृश-भावो भगवद्-अनुग्रह-मयः श्री-भगवद्-इच्छयैवेति ज्ञेयम्, तस्यैव मेऽघस्य [भा।पु। १.१९.१४] इत्य्-आदि-वक्ष्यमाणात् ॥२८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अलब्धेति । “ममातिथ्यम् अनेन किम् अपि न कृतम्” इति चुकोप ॥२८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न लब्धं तृणम् आसनाप-भूमिर् दर्शितः स्थलं च येन सः । न प्राप्तोऽर्घः सूनृतं प्रिय-वाक्यं च येन सः । “ममातिथ्यं किम् अप्य् अनेन न कृतम्” इत्य् आत्मानम् अवज्ञातं मन्यमानश् चुकोप ॥२८॥

———————————————————————————————————————

॥ १.१८.२९ ॥

अभूत-पूर्वः सहसा क्षुत्-तृड्भ्याम् अर्दितात्मनः ।
ब्राह्मणं प्रत्य् अभूद् ब्रह्मन्**4** मत्सरो मन्युर् एव च ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) :**अप्रीतिर् मद्-वशो नायम् इति मत्सर ईरित इति नाम-महोदधौ ॥२९॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मत्सरस् तद्-उत्कर्षासहनम् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य ब्राह्मणं प्रति मत्सरः परोत्कर्षासहनं, मनुः क्रोधश् चाभूत् यो ब्राह्मणे कदापि पूर्वं न भूतः । अयं भावः—न चैतद्-विकर्म परीक्षितः कदापि सम्भवति, किन्तु श्री-भागवत-प्रचारणाय तेन शुक-महिम-ख्यातये प्रियस्य तस्य स्वान्तिकानयनाय च भगवतैव तथा रचितम् । तस्यैव मेऽघस्य [भा।पु। १.१९.१४] इत्य्-आदि-तद्वाक्याद् इति ॥२९॥

———————————————————————————————————————

॥ १.१८.३० ॥

स तु ब्रह्म-ऋषेर् अंसे गतासुम् उरगं रुषा ।
विनिर्गच्छन् धनुष्-कोट्या निधाय पुरम् आगतः**5** ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गतासु मृतम् । धनुष्-कोट्या चापाग्रेण ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धनुष्कोट्या धनुर् अग्रेण निधायेति । भो ब्रह्मन्! त्वयाहम् अतिथिर् यथा साधु-संमानितस् तथा त्वाम् अप्य् अनया सुकुमार-मालया सम्मानयामीति भावः ॥३०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गतासुं मृतम् ॥३०॥

———————————————————————————————————————

॥ १.१८.३१ ॥

एष किं निभृताशेष- करणो मीलितेक्षणः ।
मृषा-समाधिर् आहोस्वित् किं नु स्यात् क्षत्र-बन्धुभिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्प-निधाने राज्ञोऽभिप्रायम् आह । एष किं प्रत्याहृत-सर्वेन्द्रियः सन् मीलितेक्षणः स्थितो यद् वा, क्षत्र-बन्धुभिर् आगतैर् गतैर् वा किं नु स्याद् इत्य् अवज्ञया मृषा-समाधिः सन्न् इति जिज्ञासयेत्य् अर्थः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **निर्गमन-समये राजा परामृशति एष इति । निभृताशेष-करणः प्रत्याहृत-सर्वेन्द्रियः । अतः सत्य-समाधिकः आहो स्विन् मृषा समाधिस् तत्र हेतुः किं न्व् इति । अत्र राज्ञो विकर्मेदम् अभाग्योत्थं न ज्ञेयं किन्तु तं शीघ्रं स्व-पार्श्वं नेतुं ब्रह्म-शाप-द्वारा विरक्तं विधाय शुकदेवेन सङ्गतं कृत्वा तत्र श्री-भागवत-रूपेण स्वयम् आविर्भूय जगद् उद्धर्तुं च कलौ जनिष्यमाणान् अपि कांश्चन भक्तान् स्व-कृतां रासादि-लीलाम् आस्वदयितुं च भगवत एवेयम् इच्छेति मनीषिण आहुः । तस्यैव मेऽघस्येत्य् आदि वक्ष्यमाणात् । मच्-छुद्ध-भक्तस्य दैवाद् विकर्मापि शुभोदर्कम् एवेति ज्ञापयितुं—

यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥ [गीता ४.६]

इति श्री-भागवत-रूपेण स्वाविर्भावे कारणाभासं चोत्थापयितुं भगवतैव तस्य तथा भाव उद्भावितः । न च तस्य स्वप्नेऽपि स स्वभावः अभूत-पूर्वम् इत्य् उक्तेः । न च दैवाद् अभाग्य-विशेषोत्थोऽयं तात्कालिको भावस् तत्-फलस्य शुक-समागम-महाभाग्यस्य अनुपपत्तेः । पिपासातिशय एव हेतुर् इति वाच्यम्, तत्-क्षणानन्तरम् एव जलम् अपीतवत एवानुताप-शत-विदीर्यमाणस्य गृहागतस्य सद्य एव प्रायोपवेशात् । इत्य् एवं च जन्मनि मरणे च ब्रह्म-तेजसो मध्य-वयसि कालस्य च निर्जयात् तस्य राज्ञो भगवत्-कृपा-महा-बलवत्त्वं साधारणम् एव द्रष्टव्यम् ॥३१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मृत-सर्प-निक्षेपे राज्ञो भावम् आह—एष किम् इति । निभृताशेषकरणः प्रत्याहृत-निखिलेन्द्रियः सन्-निमीलितेक्षण आहोस्वित् क्षत्रबन्धुं मां वीक्ष्य मृषा-समाधिः सन्न् इति विजिज्ञासया तन्-निक्षेप इत्य् अर्थः ॥३१॥

———————————————————————————————————————

॥ १.१८.३२ ॥

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।
राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य पुत्रः शृङ्गी-नामा । अतितेजस्वी तपो-बल-संपन्नः । अघं दुःखम् । तत्र अर्भक-मध्ये ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य पुत्रः शृङ्गी ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य पुत्रः शृङ्गी नाम, अघमवज्ञां प्रापितम् ॥३२॥

———————————————————————————————————————

॥ १.१८.३३ ॥

अहो अधर्मः पालानां पीव्नां बलि-भुजाम् इव ।
स्वामिन्य् अघं यद् दासानां द्वार-पानां शुनाम् इव ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पलानां राज्ञाम् । पीव्नां पुष्टानाम् । अधर्मम् एव निर्डिशति । स्वामिनि दासानां यद् अघं पापाचरणं बलि-भुजां काकानाम् इव शुनाम् इव चेति ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पालानां राज्ञाम् । पीव्नां पुष्टानाम् । बलि-भुजां काकानाम् ॥३३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पालानां राज्ञां पीव्नां पुष्टानां बलि-भुजां काकानाम् ॥३३॥

———————————————————————————————————————

॥ १.१८.३४ ॥

ब्राह्मणैः क्षत्र-बन्धुर् हि द्वार-पालो6** निरूपितः ।**

स कथं तद्-गृहे द्वाः-स्थः सभाण्डं भोक्तुम् अर्हति ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दासत्वं दर्शयति—ब्राह्मणैर् इति । स-भाण्डं भाण्डे एव स्थितम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गृह-पालः श्वा गृहं प्रविश्य स-ब्ःआण्डं भाण्ड-सहितं घृतादि वस्तु । तेन राज्ञां मुनीनाम् आश्रम-मध्ये सहसा प्रवेशे तत्र जलादि-प्रार्थने च का योग्यतेति भावः ॥३४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **दासत्वम् एवाह—ब्राह्मणैः क्षत्र-बन्धुर् द्वार-पालः श्वा निरूपितः, स कथं तद्-गृहे प्रविश्य स-भाण्डं घृतादि वस्तु भोक्तुम् अर्हति? ॥३४॥

———————————————————————————————————————

॥ १.१८.३५ ॥

कृष्णे गते भगवति शास्तर्य् उत्पथ-गामिनाम् ।
तद् भिन्न-सेतून् अद्याहं शास्मि पश्यत मे बलम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तत्-तद्-अनन्तरम् । अहं शास्मि दण्डयामि ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यद्यप्य् उत्पथ-शास्ता कृष्णोऽधुना प्रत्यक्षो नास्ति, तथापि तदीयत्वाद् अहम् एव दण्डयामीत्य् आह—कृष्णे इति ॥३५॥

———————————————————————————————————————

॥ १.१८.३६ ॥

इत्य् उक्त्वा रोष-ताम्राक्षो वयस्यान् ऋषि-बालकान्7** ।**

कौशिक्य्-आप उपस्पृश्य वाग्-वज्रं विससर्ज ह ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **कौशिकी कुश-पाणिः ॥३६॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इति वयस्यान् उक्त्वा रोषेण ताम्रे अक्षिणी यस्य सः । कौशिकी नदी तस्या अपः । सन्धिर् आर्षः । वाग्-वज्रं शापम् ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वयस्यान् उक्त्वा । कौशिक्याप इति सन्धिर् आर्षः ॥३६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वयस्यान् इत्य् उक्त्वा कोशिक्या अप उपस्पश्याचम्य । सन्धिर् आर्षः ॥३६॥

———————————————————————————————————————

॥ १.१८.३७ ॥

इति लङ्घित-मर्यादं तक्षकः सप्तमेऽहनि ।
दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे तत-द्रुहम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इत्य् एवं सर्प-निक्षेपेण । दङ्क्ष्यति भक्षयिष्यति । पाठान्तरे8 भस्मी-करिष्यति ।स्मेति पाद-पूरणे । कुलस्याङ्गार-तुल्यम् । मे मया । ततेति ह्रस्वत्वम् आर्षम् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इति यतो मत्-पितुर् देहे मृत-सर्पो निक्षिप्तस् तस्माज् जीवन्न् एव सर्प-श्रेष्ठस् तक्षकस् तं दङ्क्ष्यति भक्षयिष्यति । धक्ष्यतीति पाठे भस्मी-करिष्यति । मे मया प्रेरितः । तत-द्रुहं तात-द्रुहम् ॥३७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इति यो मत्-पितुर् गले मृतोरगो निक्षिप्तः, स एव जीवन् तक्षको भूत्वा । तं कुलाङ्गारं राजानं धक्ष्यति भस्मीकरिष्यति, स्मेति पादपूर्तौ ॥३७॥

———————————————————————————————————————

॥ १.१८.३८ ॥

ततोऽभ्येत्याश्रमं बालो गले सर्प-कलेवरम् ।
पितरं वीक्ष्य दुःखार्तो मुक्त-कण्ठो रुरोद ह ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गले इत्य् अलुक् समासः ॥३८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गले-सर्पेत्य् अलुक् समासः ॥३८–३९॥

———————————————————————————————————————

॥ १.१८.३९ ॥

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुत-विलापनम् ।
उन्मील्य शनकैर् नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गले सर्प-कलेवरं यसेत्य् उल्क्-समासः । मुक्त-कण्ठः उच्चैर् इत्य् अर्थः ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ १.१८.४० ॥

विसृज्य पुत्रं पप्रच्छ9** वत्स कस्माद् धि रोदिषि । \ केन वा तेऽप्रतिकृतम्**10** इत्य् उक्तः स न्यवेदयत् ॥४०॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तं सर्पं विसृज्य । केनोपकारः कृतः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विसृज्य सर्पं स्वांसादपनीय ॥४०॥

———————————————————————————————————————

॥ १.१८.४१ ॥

**निशम्य शप्तम् अतद्-अर्हं नरेन्द्रं **

स ब्राह्मणो नात्मजम् अभ्यनन्दत् ।

**अहो बतांहो महद् अद्य ते कृतं **

अल्पीयसि द्रोह उरुर् दमो धृतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनभिननदन-वाक्यम् अहो इत्य्-आदि । बत कष्ठम् । ते त्वया महत् पापं कृतम् । द्रोहे अपराधे । दमो दण्डः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतद्-अर्हं शापायोग्यम् । अनभिनन्दन-वाक्यम् आह—अहो इति । दमो दण्डः ॥४१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अतद् अर्हं शापायोग्यम् । अनभिनन्दन-प्रकारम् आह—अहोवतेत्य् अतिखेदे । अरे अज्ञ! त्वया महद् अंहः पापं कृतं यद् अल्पीयस्यत्य् अल्पे द्रोहेऽपराधे उरुर्महान् दण्डो धृतोऽर्पितः ॥४१॥

———————————————————————————————————————

॥ १.१८.४२ ॥

**न वै नृभिर् नर-देवं पराख्यं **

सम्मातुम् अर्हस्य् अविपक्व-बुद्धे ।

**यत्-तेजसा दुर्विषहेण गुप्ता **

विन्दन्ति भद्राण्य् अकुतोभयाः प्रजाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परो विष्णुर् इत्य् आख्या ख्यातिर् यस्य तं नर-देवम् । नृभिः संमातुं समं द्रष्टुम् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **परो विष्णुर् इत्य् आख्या ख्यातिर् यस्य तं नृभिः संमातुं समं द्रष्टुम् ॥४२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हे अपक्वबुद्धे! परो विष्णुर् इत्य् आख्या यस्य तं विष्ण्वोविष्ट-नर-देवं सं-मातुम् अन्य-नरैस् तुल्यं द्रष्टुम् अर्हसि, तथा स न द्रष्टव्य इत्य् अर्थः । कुत इत्य् अत्राह—यत्-तेजसेति ॥४२॥

———————————————————————————————————————

॥ १.१८.४३ ॥

**अलक्ष्यमाणे नर-देव-नाम्नि **

रथाङ्ग-पाणाव् अयम् अङ्ग लोकः ।

**तदा हि चौर-प्रचुरो विनङ्क्ष्यत्य् **

अरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अलक्ष्यमानोऽदृश्यमाने । अविवरूथवन् मेष-सङ्घवत् ॥४३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अलक्ष्येति _। _तदा हि तदैवेत्य् अर्थः ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अलक्ष्यमाणे अदृश्यमाने । अविवरूथवत् मेषा-सङ्घवत् ॥४३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अलक्ष्यमाणेऽदृश्यमाने सति । अवि-वरूथवत् मेष-समूहवत् ॥४३॥

———————————————————————————————————————

॥ १.१८.४४ ॥

**तद् अद्य नः पापम् उपैत्य् अनन्वयं **

यन् नष्ट-नाथस्य वसोर् विलुम्पकात् ।

**परस्परं घ्नन्ति शपन्ति वृञ्जते **

पशून् स्त्रियोऽर्थान् पुरु-दस्यवो जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नष्टोनाथो यस्य लोकस्य तस्य वसोर् वसुनो धनस्य विलुम्पकाद् अपहर्तुश् चोरादेर् हेतोर् यत् पापं भविष्यति तद् अस्मान् निमित्तत्वाद् अस्मान् उपैष्यति । अनन्वयं संबन्ध-शून्यम् एव । तद् एव पापं दर्शयति—परस्परम् इति । शपन्ति परुषं वदन्ति । पश्व्-आदीन् वृञ्जतेऽपहरन्ति । पुरु-दस्यवश् चोर-बहुलाः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नष्टो नाथो यस्य तस्य लोकस्य वसोर् वसुनो धनस्य विलुम्पकाद् अपहर्तुश् चौराद् धेतोर् यत् पापं भविष्यति तद् अस्मन्-निमित्तत्वाद् अस्मान् उपैष्यति । **अनन्वयं **सम्बन्ध-शून्यम् एव । तद् एव पापं दर्शयति—परस्परम् इति । विशेषम् आह—वृञ्जते अपहरन्ति ॥४४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नष्टौ नाथो यस्य तस्य लोकस्य वसोर् वसुनो धनस्य विलुम्पकाद् अपहर्तुश् चौराद्-धेतोर् यत् पापं स्यात्-तत्तोऽस्मन् उपैति, अस्मद्-धेतुकत्वाद् अष्मान् आगतं विद्धीत्य् अर्थः । अनन्वयं साक्षात्-सम्बन्ध-शून्यं पापम् आह—पुरुदस्यवः प्रचुर-चौरा जनाः परस्परं घ्नन्तीत्य्-आदि शपन्ति निष्ठुरं भाषम्भे, बृञ्जतेऽपहरन्ति ॥४४॥

———————————————————————————————————————

॥ १.१८.४५ ॥

**तदार्य-धर्मः प्रविलीयते नृणां **

वर्णाश्रमाचार-युतस् त्रयीमयः ।

**ततोऽर्थ-कामाभिनिवेशितात्मनां **

शुनां कपीनाम् इव वर्ण-सङ्करः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आर्य-धर्मः सदाचारः । शुनां कपीनाम् इवार्थ-कामयोर् एवाभिनिवेशित-चित्तानाम् ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आर्य-धर्मः सदाचारः ॥४५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आर्यधर्मः सदाचारः ॥४५॥


॥ १.१८.४६ ॥

धर्म-पालो नर-पतिः स तु सम्राड् बृहच्-छ्रवाः ।

साक्षान् महा-भागवतो राजर्षिर् हय-मेधयाट् ।
क्षुत्-तृट्-श्रम-युतो दीनो नैवास्मच्-छापम् अर्हति ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं राज-मात्रस्य शापानर्हत्वम् उक्त्वा प्रस्तुतं विशेषम् आह—धर्म-पाल इति सार्धेन । हय-मेध-याड् अश्वमेध-याजी । नन्व् एवं-भूतश् चेत् तत् कुतोऽपकृतवांस् तत्राह—क्षुत्-तृड् इति । स्वागत-प्रश्नाभावेनावज्ञातः प्रत्युत शापं कथम् अर्हतीत्य् अर्थः ॥४६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **धर्म-पाल इति । व्यवहारतोऽपि महान् इत्य् आह—हयमेधयाड् इति ॥४६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं राज-मात्रस्य शापानर्हत्वम् उक्त्वा प्रस्तुतेऽतिविशेषम् आह—धर्म-पाल इति ॥४६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं नृप-मात्रस्य पापान् अर्हताम् अभिधाय प्रस्तुतेऽतिविशेषम् आह—धर्मेति सार्धकेन ॥४६॥

———————————————————————————————————————

॥ १.१८.४७ ॥

अपापेषु स्व-भृत्येषु बालेनापक्व-बुद्धिना ।
पापं कृतं तद् भगवान् सर्वात्मा क्षन्तुम् अर्हति ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अस्य महा-पापस्यान्यत् प्रायश्चित्तम् अदृष्ट्वा पापम् आवेदयन् भगवन्तं प्रार्थयते—अपापेष्व् इति ॥४७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सर्वात्मेति । अत्र महतोऽपि तद्-आत्मकत्वात् तद्-द्वारा क्षमापणं युक्तम् एवेत्य् अर्थः ॥४७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एतद्-भक्तापचार-लक्षणं महत् पापं दुर्बोध-विधित्सितः कृष्णश् चेत् क्षमेत, तदास्माकं निस्तारो, नान्यथेत्य् आह—अपापेष्व् इति । भृत्येषु सेवकेषु सर्वात्मास्माकं च हृद्वर्ती ॥४७॥

———————————————————————————————————————

॥ १.१८.४८ ॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।
नास्य तत् प्रतिकुर्वन्ति तद्-भक्ताः प्रभवोऽपि हि ॥**

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राजा चेत् प्रतिशापं दद्यात् तर्हि निष्कृतिर् भवेद् अपि तत् तु न संभवति तस्य महा-भागवतत्वाद् इत्य् आह । तिरस्-कृता निन्दिताः । विप्रलब्धाः वञ्चिताः । क्षिप्ता अवज्ञाताः । हतास् ताडिताः । अस्य तिरस्-कारादि-कर्तुः । न तत् प्रतीकारं कुर्वन्ति । तद्-भक्ता विष्णु-भक्ताः । प्रभवः समर्था अपि ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **राजा चेत् प्रतिशापं दद्यात् तर्हि निष्कृतिर् भवेद् अपि तत् तु न सम्भवति तस्य महा-भागवतत्वाद् इत्य् आह—तिरस्कृता निन्दिताः । विप्रलब्धा वञ्चिताः । क्षिप्ता अवज्ञाताः । हतास् ताडिताः । प्रभवः समर्था अपि । अस्य तिरस्कारादि-कर्तुर् न तत्-प्रतीकारं कुर्वन्ति ॥४८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **परीक्षिच्-चेद् अस्मभ्यं शपेत्-तदा तन्-निष्कृतिः स्याच् च तस्य भक्तत्वान् न सम्भवतीत्य् आह—तिरस्कृत निन्दिताः विप्र-लब्धा वञ्चिताः क्षिप्ता अवज्ञाताः हतास् ताडिताश् चापि तद्-भक्ता अस्य तिरस्कारादि-कर्तुर् न प्रतिकुर्वन्ति ॥४८॥

———————————————————————————————————————

॥ १.१८.४९ ॥

इति पुत्र-कृताघेन सोऽनुतप्तो महा-मुनिः ।
स्वयं विप्रकृतो राज्ञा नैवाघं तद् अचिन्तयत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विप्रकृतोऽपकृतः । अघम् अपराधम् ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यद् विप्रकृतस् तिरस्कृतस् तत् तिरस्करणे अघम् अपराधं न अभावयत् ॥४९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विप्रकृतोऽपकृतः नाचिन्तयत् नामन्यत ॥४९॥

———————————————————————————————————————

॥ १.१८.५० ॥

प्रायशः साधवो लोके परैर् द्वन्द्वेषु योजिताः ।
न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **युक्तं चैतद् इत्य् आह—प्रायश इति । द्वन्द्वेषु सुख-दुःखादिषु । अगुणाश्रयः सुख-दुःखाद्य्-आश्रयो न भवति ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **युक्तं चैतद् इत्य् आह—प्रायश इति । द्वन्द्वेषु सुख-दुःखादिषु । अगुणाश्रयः प्राकृत-सुख-दुःखाद्य्-आश्रयो न भवति ॥५०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **युक्तञ्चैतद् इत्य् आह—प्रायश इति । द्वन्द्वेषु सुख-दुःखादिषु यत आत्मा जीवोऽगुणाश्रयस् तत्त्वतो द्वन्द्वाश्रयो न भवतीति ॥५०॥

\

इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यामष्टादशोऽध्यायः ॥१८॥


इति श्रीमद्-भागवते महा-पुराणे प्रथम-स्कन्धे

विप्र-शापोपलम्भनं नाम

अष्टादशोऽध्यायः

॥१८॥


(१.१९)


  1. ‘विज्ञानाजित-संस्थितिःऽ इति पाठाः । ↩︎

  2. सेए अल्सो १२.२.३। ↩︎

  3. ४.३०.३४ द्रष्टव्यः । ↩︎

  4. ‘प्रत्य् अभूत् तस्यऽ,ऽप्रत्य् अभूद् राज्ञःऽ इति पाठौ । ↩︎

  5. ‘आगतःऽ इति पाठः । ↩︎

  6. ‘गृह-पालःऽ इति पाठः । ↩︎

  7. ‘ऋषि-बालकःऽ इति पाठः । ↩︎

  8. ‘धक्ष्यति स्मऽ इत्य् एवं-रूपे । ↩︎

  9. ‘तं च पप्रच्छऽ इति पाठः । ↩︎

  10. ‘तेऽप्य् अकृतम्ऽ,ऽते विप्रकृतम्ऽ,ऽतेऽपकृतम्ऽ इति पाठाः । ↩︎