१७ अथ सप्तदशोऽध्यायः

विषयः

परीक्षिद्-धर्म-संवादः, कलि-निग्रहणं च ।

॥ १.१७.१ ॥

सूत उवाच—

तत्र गो-मिथुनं राजा हन्यमानम् अनाथवत् ।
दण्ड-हस्तं च वृषलं ददृशे नृप-लाञ्छनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ततः सप्तदशे राज्ञः कलेर् निग्रह उच्यते । \ तस्यैवं वीर्यभाजोऽपि वैराग्यं वक्तुम् अद्भुतम् ॥

हन्यमानं ताड्यमानम् ॥१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रैवाकस्माद् वृषले समागते राजापि समागत इत्य् आह—तत्रेति ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

परीक्षिद्-धर्मयोः प्रोक्तम् उक्ति-प्रत्युक्ति-कौतुकम् ।

निग्रहानुग्रहौ राज्ञा कलेः सप्तदशे ततः ॥

हन्यमानं ताड्यमानम् । नृप-लाञ्छनम् इति सत्य-त्रेता-द्वापरादि-युग-मर्यादानां भङ्गे स्वातन्त्र्य-सूचकम् ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

प्रश्नोत्तराणि चित्राणि परीक्षिद्-धर्मयोर् द्वयोः । \ कलौ दण्डदये राज्ञेत्य् एषा सप्तदशे कथा ॥ \

हन्यमानं ताड्यमानं, नृपस्य लाञ्छनं चिह्नं मुकुटादि यस्य तम् इति सत्यादि-युग-मर्यादा-विभञ्जेन स्वातन्त्र्यं व्यज्यते ॥१॥

———————————————————————————————————————

॥ १.१७.२ ॥

वृषं मृणाल-धवलं मेहन्तम् इव बिभ्यतम् ।
वेपमानं पदैकेन सीदन्तं शूद्र-ताडितम् ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **बिभ्यतम् इव मेहन्तम् ॥२॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मृणालं पद्म-कन्दस् तत्वद् धवलम् । भयान् मेहन्तं मूत्रयन्तम् । इवेत्य् अनेन पादावशेषो धर्मो भयान् मूत्रयन्न् इव प्रतिक्षणं क्षीयमाणांशस् तस्याप्य् अनिर्वाहात् कम्पमान इवेति दर्शितम् ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मेहन्तं मूत्रयन्तम् इवेति पादावशिष्टोऽपि धर्मः प्रतिक्षणं क्षरन्न् इवेत्य् उत्प्रेक्षायां नश्यद्-अवस्थ इत्य् अर्थः । वेपमानम् इति सोऽपि नाना-विघ्नैर् अनिष्पन्न इव कलिना क्रियते इति सूच्यते ॥२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मेहन्तं मूत्रयन्तम् इति पदावशिष्टस्यापि धर्मस्य प्रतिक्षणं क्षरदवस्थोत्प्रेक्ष्यते । वेपमानम् इति तादृशस्यापि प्रत्युहैः कलि-कृतैर् अनिष्पत्तिर् यज्यते । धर्म-दुहां हविर् दोग्ध्रीं, सत्यादि-प्रसव-विरहाद्-विवत्सां, धर्मक्षयाद् अश्रु-वदनां यज्ञ-विरहात् क्षामां कृशां, युवसं यज्ञ-भागम् ॥२-३॥

———————————————————————————————————————

॥ १.१७.३ ॥

गां च धर्म-दुघां दीनां भृशं शूद्र-पदाहताम् ।
विवत्साम् आश्रु-वदनां क्षामां यवसम् इच्छतीम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्म-दुघां हविर् दोग्ध्रीम् । क्षामां कृशाम् । यवसं तृणम् । अत्र सस्यादि-प्रसव-क्षयाद् विवत्सेव । यज्ञाद्य्-अभावात् कृशा । अत एव यज्ञ-भागम् इच्छन्ती पृथ्वीति सूचितम् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्म-दुघां हविर् दोग्ध्रीं शस्यादि-प्रसव-क्षयाद् विवत्सां धर्म-क्षयेणाश्रु-वदनां यज्ञाभावात् क्षामां कृशाम् । यवसं यज्ञ-भागम् ॥३॥

———————————————————————————————————————

॥ १.१७.४ ॥

पप्रच्छ रथम् आरूढः कार्तस्वर-परिच्छदम् ।
मेघ-गम्भीरया वाचा समारोपित-कार्मुकः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) :कार्तस्वरं **सुवर्णं तन्-मयः परिच्छदः परिकरो यस्य, स्वर्ण-निबद्धम् इत्य् अर्थः । सज्जी-कृत-कार्मुकः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कार्तस्वरं सुवर्णम् । सज्जीकृत-कार्मुक इति कलेः पलायनाशङ्कया ॥४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कार्त-स्वरं सुवर्णं परिच्छदः परिकरो यस्य तं रथम् आरूढः । समारोपितेति कलेः पलायनाशङ्कया ॥४॥

———————————————————————————————————————

॥ १.१७.५ ॥

कस् त्वं मच्-छरणे लोके बलाद् धंस्य् अबलान् बली ।
नर-देवोऽसि वेषेण नटवत् कर्मणाद्विजः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हंसि घातयसि । राजाहम् इति चेत् तत्राह । नट इव वेष-मात्रेण नर-देवोऽसि । कर्मणा त्व् अद्विजः शूद्रः ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अद्विजो द्विज-विरोधी ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कस् त्वं रे मद्-अग्रे हंसि? नर-देवोऽहम् इति चेन् मयि नर-देवे विद्यमाने त्वं कुतस्त्यो नर-देवः? नटवद्-वेषेणेति चेन् नहि नहि कर्मणा त्वम् अद्विजः शूद्रः । नटो ह्य् अनुकार्यस्यैव कर्म अभिनयतीति भावः ॥५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कस् त्वं रे मे पुरस्ताद् अवलान् हंसि? नर-देवोऽहम् इति चेन्मयि नर-देवे सति त्वं कुतन्त्योऽसि? नटवद्-वेशेनेति चेन् न कर्मणा दुर्बल-वाधनेन त्वम-द्विजः शूद्रोऽसि । नटः खल्व् अनुकार्यस्यैव कर्माभिनयेद् इति भावः ॥५॥

———————————————————————————————————————

॥ १.१७.६ ॥

यस् त्वं कृष्णे गते दूरं सह-गाण्डीव-धन्वना ।
शोच्योऽस्य् अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अशोच्यान् निरपराधान् रहसि यस् त्वं प्रहरन् प्रहरसि स शोच्यः सापराधोऽस्य् अतो वधम् अर्हसि ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यथा त्वं देशस्य राजा, तथैवाहम् अपि सम्प्रति कालस्य राजेति मयि तव विक्रमो न भविष्यतीत्य् अत आह—यस् त्वम् इति ॥ गाण्डीव-धन्वना अर्जुनेन सह कृष्णे दूरं गते सतीति एतावद्-दिनं त्वं क्वासीर् इति भावः । नन्व् आसम् एव किन्तु ताभ्यां भयेन न प्राभूवम् । अधुना तु कस्माद् बिभेमि इति सत्यम् । शोच्योऽसि अधुना त्वं मर्तुम् एवेच्छसीति भावः ॥६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु यथा त्वं देशस्य, तथाहं संप्रति-कालस्य राजेति न ते मयि प्रभावो भावीति चेत्-तत्राह—यस् त्वं गाण्डीव-धन्वना सह कृष्णे दूरं गते सतीत्येतावत् कालं क्वासीर् इति भावः ।

ननु स्थितोऽप्य् अहं ताभ्यां भयान्न् आत्मानं प्राकाशयं, तद्-विहीने लोके स्वतन्त्रोऽहम् अधुना कस्माद्-विभेमि? तत्राह—शोच्योऽसीति । त्वम् इदानीं मर्तुम् इच्छसीति भावः ॥६॥

———————————————————————————————————————

॥ १.१७.७ ॥

त्वं वा मृणाल-धवलः पादैर् न्यूनः पदा चरन् ।
वृष-रूपेण किं कश्चिद् देवो नः परिखेदयन् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वृषं प्रत्य् आह । त्वां वा कः । स्वयम् एव संभावयति । किं कश्चिद् देवो वृष-रूपेणास्मान् परिखेदयन् वर्तसे ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भवतु, क्षणं तव प्रथमम् अपराधं विमृशामीति मनसि कृत्वा वृषं प्रत्याह—त्वं वेति । नोऽस्मान् खेदयितुं किं कश्चिद् देवोऽसि । नैतादृशः कृशो1 दुःखी मया स्वप्नेऽपि दृष्ट इति भावः ॥७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भवत्वस्यापराधं क्षणं विचारयामीति हृदि निधाय वृषं पृच्छति—त्वं वेति । मृणाल-धवलः पद्मकन्द-शुभ्रस् त्वं को वा? स्वयं सम्भावयन्न् आह—पादैस् त्रिभिर् न्यूनः पदैकेन चरन् नः खेदयितुं किं कश्चिद्-देवोऽसीति न त्वादृशो दुःखितो वृषो मया क्वापि दृष्ट इति भावः ॥७॥

———————————————————————————————————————

॥ १.१७.८ ॥

न जातु कौरवेन्द्राणां दोर् दण्ड-परिरम्भिते ।
भू-तलेऽनुपतन्त्य् अस्मिन् विना ते प्राणिनां शुचः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दोर्दण्डैःपरिरम्भिते परिरम्भितवत् सुरक्षिते ते शुचोऽश्रूणि विना अन्येषाम् अश्रूणि नानुपतन्तीति खेद-हेतुत्वं दर्शितम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वय्य् एव राजनि सति वयम् एवं दुःखिनः साम्प्रतं समभूमेति चेत् तत्र सानुतापं साटोपं चाह—न जात्व् इति । परिरम्भिते परिरम्भितवत् सुरक्षिते तव शुचः अश्रूणि विना अन्येषाम् अश्रूणि न पतन्ति ॥८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु त्वय् एव राज्ञि सति वयम् एव दुःखिनः संप्रति जाता इति चेत्-तत्र सानुतापाटोपम् आह—नेति । परिरम्भिते परिरब्धव-स्तुवत् सुगोपिते भूतले ते तव शुचोऽश्रुणि विनान्येषां प्राणिनां शुचो नानुपन्ति ॥८॥

———————————————————————————————————————

॥ १.१७.९ ॥

मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् ।
मा रोदीर् अम्ब भद्रं ते खलानां मयि शास्तरि ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवम् उक्ते पुनर् अपि शोचन्तं प्रत्य् आह । भो सुरभेः पुत्र, मा शुचः शोकं मा कुरु । व्येतु अपयातु । गां प्रत्य् आह । हे अम्ब मातः, शास्तरि मयि जीवति सति ते भद्रम् एवातो मा रोदीः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् अलीकम् इदम् इति स्वम् इव रूदन्तीं गां दर्शयन्तं वृषं साश्वासम् आह—भोः सुरभेः पुत्र! मा शुचः, मा शोचः । भयं व्येत्व् इति अधुनैवेमं हन्मीति भावः । गां प्रत्याह—मेति । मयि जीवति सति ॥९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु मृषैवैतत्, मत्-सदृशीं धेनुं च पश्येति वदन्तं वृषम् आश्वासयन्न् आह—हे सौरभेय सुरभि-पुत्र! त्वं मा शुचः शोकं मा कृथाः, वृषलात् ते भयं व्येतु । धेनुं प्रत्य् आह—हे अम्ब! त्वं मा रोदीः, मयि खलानां शास्तरि सति ते भद्रम् । अधुनैवेमं हन्मीति भावः ॥९॥

———————————————————————————————————————

॥ १.१७.१०-११ ॥

यस्य राष्ट्रे प्रजाः सर्वास् त्रस्यन्ते साध्व्य् असाधुभिः ।
तस्य मत्तस्य नश्यन्ति कीर्तिर् आयुर् भगो गतिः ॥**

एष राज्ञां परो धर्मो ह्य् आर्तानाम् आर्ति-निग्रहः ।
अत एनं वधिष्यामि भूत-द्रुहम् असत्तमम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मद्-धितार्थम् एवैनं हनिष्यामि न तवोपकाराएत्य् आह—यस्येति द्वाभ्याम् । हे साध्वि, सर्वा याः काश्चिद् अपीत्य् अर्थः । असाधुभिस् त्रस्यन्ते पीडयन्त इत्य् अर्थः । भगो भाग्यम् । गतिः पर-लोकः ॥१०॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् अस्मत्-सम्बन्धेनैनं घातयन्न् एतद्-वध-भागिनाव् आवां मा कुर्व् इत्य् अत आह—यस्येति । अतः स्व-हितार्थम् एवैनं हन्मि । न चात्र युष्मद्-अनुरोध इति भावः ॥१०-११॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् अस्मत्-सुखायैनं निघ्नन्न् एतद्-वध-दोष-भाजावावां करोषीत्य् अत आह—यस्येति । हे साध्वि धेनो! भगो भाग्यं गतिः परलोकः, तथा च स्वहितायैनं हन्मि, नात्र युष्मद्-दोष इति ॥१०॥ \

\

एनं युष्मत्-पीडकं शूद्रम् ॥११॥

———————————————————————————————————————

॥ १.१७.१२ ॥

कोऽवृश्चत् तव पादांस् त्रीन् सौरभेय चतुष्-पद ।
मा भूवंस् त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनर् अपि शोचन्तं वृषं प्रत्य् आह । कः अवृश्चच् चिच्छेद । त्वादृशास् त्वद्-विधा दुःखिताः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अवृश्चच्चिच्-छेद त्वादृशाः दुःखिताश् चतुष्पदो मा भूवन्न भवन्तु ॥१२॥

———————————————————————————————————————

॥ १.१७.१३ ॥

आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् ।
आत्म-वैरूप्य-कर्तारं पार्थानां कीर्ति-दूषणम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वो भद्रम् अस्तु । आत्मनस् तव पाद-च्छेदेन वैरूप्यं कृतवन्तं कीर्तिं दूसयतीति तथा तम् आख्यायि ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किन्तु तव मुखात् किञ्चित् श्रुत्वैवैनं वधिष्यामि इत्य् अत आह—आख्याहीति । ननु मम किम् अपि विवक्षितं नास्तीति तत्राह—हे वृष! वो युष्माकं साधूनां निरपराधानां भद्रं सुखेऽपि दुःखेऽपि सदा भद्रम् एव । किन्त्व् अस्माकं पार्थानां कीर्तिं दूषयति यस् तम् आख्याहि । तम् एव कम्? आत्मनस् तव पाद-च्छेदेन वैरूप्यं कृतवन्तम् ॥१३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **आत्मनस् तव वैरूप्य-कर्तारं त्वत्-पादच्-छेदकं पार्थानां कीर्तिं दूयषतीति तम् । ननु तद् आख्याने सति तस्मात्-तव भयं वा स्यात्-ततः किं तेनेति चेत्-तत्राह—निरागसि जने योऽघम् अपराधं युञ्जन्भवेद् अस्य सर्वतो मत्-सकाशाद्-भयम् ॥१३-१४॥

———————————————————————————————————————

॥ १.१७.१४ ॥

जनेऽनागस्य् अघं युञ्जन् सर्वतोऽस्य च मद्-भयम् ।
साधूनां भद्रम् एव स्याद् असाधु-दमने कृते ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु तदाख्याने कृते कथं भद्रं स्याद् इत्य् अत आह । यस्माद् अनागसि जने योऽघं दुःखं युञ्जन् कुर्वन् भवत्य् अस्यैवं-भूतस्य मत्तः सकाशात् सर्वत्रापि भयं भवति, ततः साधूनां भद्रं भवेद् एवेति ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न च कथिते सति त्वत्त एवास्य भयं किन्त्व् अकथनेऽपि सर्वत एवेत्य् आह—निरागसि जने योऽघं युञ्जन् भवेत् अस्य सर्वत एव हेतुभ्यो मत्-सकाशाद् भयम् ॥१४॥

———————————————————————————————————————

॥ १.१७.१५ ॥

अनागःस्व् इह भूतेषु य आगस्-कृन् निरङ्कुशः ।
आहर्तास्मि भुजं साक्षाद् अमर्त्यस्यापि साङ्गदम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतस्य दण्डेऽहम् असमर्थ इति माशाङ्कीर् इत्य् आह—अनागःस्व् इति । आगस्कृद् अपराध-कर्ता । तस्य अमर्त्यस्य देवस्यापि भुजम् आहर्तास्म्य् आहरिष्यामि । साङ्गदम् इत्य् अनेन मूलत उत्पाट्याहरिष्यामीति दर्शितम् ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यदि त्वत्तोऽपि महा-प्रभावी बलवांश् च स्यात्, तदा किं भवेत् ? अत आह—अनागःस्व् इति । साक्षाद् अमर्त्यस्यापि देवस्यापि । साङ्गदम् इति मूलत एव छित्त्वा आहरिष्यामीति देवासुर-नरादिषु मत्-तुल्यो बलिष्ठः प्रभावी वा कोऽपि नास्तीति भावः ॥१५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु त्वत्तोऽप्य् अतिबली चेत् स्यात्-तदा किं भावि? तत्राह–अनागःस्थिति । साक्षाद् अमर्त्तस्येति—स सुर-मनुष्येषु मत्समोऽतिबली न कोऽप्यस्तीति । साङ्गदम् इति मूलतश् छित्त्वाहर्ताश्मीति भावः ॥१५॥

———————————————————————————————————————

॥ १.१७.१६ ॥

राज्ञो हि परमो धर्मः स्व-धर्म-स्थानुपालनम् ।
शासतोऽन्यान् यथा-शास्त्रम् अनापद्य् उत्पथान् इह ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् एकस्य निग्रहेणान्यस्यानुग्रहे तव किं प्रयोजनम् ? तत्राह—राज्ञो हीति । अन्यान् अधर्मिष्ठान् । शासतो दण्डयतः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु एकस्य निग्रहे अन्यस्यानुग्रहे तव किं प्रयोजनं ? तत्राह—राज्ञो हीति । अन्यान् अधर्मिष्ठान् शासतः दण्डयतः ॥१६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् एकस्य दण्डे परस्यानुग्रहे तव कोऽर्थः? तत्राह—राज्ञो हीति । अन्याननापद्युत्पथान् वेद-मार्गोल्लङ्घिनोऽधर्मिष्ठान् यथा-शास्त्रं शासतो । दण्डयतः ॥१६॥

———————————————————————————————————————

॥ १.१७.१७ ॥

धर्म उवाच—

एतद् वः पाण्डवेयानां युक्तम् आर्ताभयं वचः ।
येषां गुण-गणैः कृष्णो दौत्यादौ भगवान् कृतः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अर्तानाम् अभयं यस्मात् तद् वचो वो युष्माकं युक्तम् उचितम् एव ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **येषां गुण-गणैर् इति प्रेमात्मकैर् इत्य् अर्थः । कृष्णस्य प्रेमैक-वश्यत्वात् तस्यार्जुनस्य पौत्रत्वं तत्-तुल्य एव तवापि गुणैर् अधीन एव कृष्णो वर्तत इति त्वद्-अशक्यं किम् अपि नास्तीति भावः ॥१७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गुण-गणैः प्रेममयैर् इत्य् अर्थः, प्रेमवश्यत्वात् कृष्णस्य, तथा च तेषां पौत्रस्य तद्-वत् कृष्ण-निष्ठस्य तवापि न किञ्चिद् अशक्यम् इति भावः ॥१७॥

———————————————————————————————————————

॥ १.१७.१८ ॥

न वयं क्लेश-बीजानि यतः स्युः पुरुषर्षभ ।
पुरुषं तं विजानीमो वाक्य-भेद-विमोहिताः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वयं तु यतः पुरुषात् प्राणिनां क्लेश-हेतवो भवेयुस् तं पुरुषं न विजानीमः । यतो वादिनां वाक्य-भेदैर् विमोहिताः ॥१८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र साक्षाद्-धिंसा-कर्तृ-गतः प्रश्नोऽयम् इति ज्ञात्वापि सूचकता न युक्तेति तस्यापि गौणत्वं मत्वा तत्-प्रयोजक-कर्तृ-गतत्वेन सिद्धान्तयन्न् अप्य् अनिर्धारितम् इवाह—न वयम् इति त्रिभिः । वयम् ईश्वर-वादिनो ये च वक्य-भेद-विमोहितास् ते सर्वेऽपि तं पुरुषम् ईश्वरं न विजानीमः सर्वागोचरत्वात् ॥१८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, यतः पुरुषात् क्लेश-बीजानि स्युस् तं पुरुषं वयं न जानीमः । ननु कथम् एवम् अपलपसि त्वत्-क्लेश-दायी पुरुषोऽयं मया दृश्यत एव । सत्यम् असौ मम क्लेशदः, किन्तु मम क्लेशस्य बीजं किञ्चिद् अवश्यं भविष्यति । यतोऽयं ममैव क्लेशदो नान्यस्य । अतः क्लेश-बीजं यतो भवति तं पुरुषं न जानीम इत्य् अर्थः । ननु शास्त्रज्ञा यूयं कथं न जानीथ? सत्यम् । बहु-शास्त्र-ज्ञानम् एव तद्-अनिर्धारे कारणम् इत्य् आह—वादिनां वाक्य-भेदैर् विमोहिता इति ॥१८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कोऽवृश्चद् इति राज्ञा यत् पृष्टं तत्राह—यतः पुरुषात् क्लेश-वीजानि दुःख-कारणनि स्युस्तं वयं न जानीमः । आस्माच्-छूद्राद् अस्माकं क्लेश एव, तद्-वीजानि यस्मात् स त्वन्यः, तं न विद्म इत्य् अर्थः । ननु प्राज्ञ शूयं, कथं तं न जानीथ? तत्राह—वाक्येति ॥१८॥

———————————————————————————————————————

॥ १.१७.१९ ॥

केचिद् विकल्प-वसना आहुर् आत्मानम् आत्मनः ।
दैवम् अन्येऽपरे कर्म स्वभावम् अपरे प्रभुम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वाक्य-भेदान् एवाह । विकल्पं भेदं वसते आच्छादयन्ति ये योगिनस् ते आत्मानम् एवात्मनः प्रभुं सुख-दुःख-प्रदम् आहुः । तद् उक्तम्, आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मन [गीता ६.५] इति । यद् वा, विकल्पैः कुतर्कैः प्रावृता नास्तिकाः । एवं हि ते वदन्ति । न तावद् देवतादीनां प्रभुत्वं कर्माधीनत्वात् । न च कर्मणः स्वाधीनत्वाद् अचेतनत्वाच् च । अतः स्वयम् एव प्रभुर् न चान्यः कश्चिद् इति । अन्ये दैवज्ञा दैवं ग्रहादि-रूपां देवताम् । परे तु मीमांसकाः कर्म । अपरे लौकायतिकाः स्वभावम् ॥१९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वाक्य-भेद-विमोहितान् गणयति केचिद् इत्य् एकेन । एते सर्वे वैदिका एव ग्राह्याः । वेद-वाक्यस्यैव प्रामाण्यात् । परे कर्मेति । अपरे साङ्ख्याः ॥१९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वाक्य-भेदान् एवाह । केचिद् विकल्पं भेदं वसते आच्छादयन्ति ये योगिनस् ते आत्मानम् एवात्मनः प्रभुं सुख-दुःख-प्रदम् आहुः । यद् उक्तम्—आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मन [गीता ६.५] इति ।

यद् वा, केचिद् विकल्पं जीवेश्वरादि-भेदं वसते आच्छादयन्तीति तथा-भूता भवन्तीत्य् अन्वयः । तत्रार्थे अद्वैत-वादिनस् ते हि सुख-दुःख-बीजम् आत्मानम् एवाहुः । एवं ते वदन्ति—न तावद् देवतादीनां प्रभुत्वं कर्माधीनत्वात् । न च कर्मणः स्वाधीनत्वात् । अतः स्वयम् एव प्रभुर् न चान्यः कश्चिद् इति । अन्ये दैवज्ञा दैवं ग्रहादि-रूपां देवताम् । परे तु मीमांसकाः कर्म । अपरे लौकायतिकाः स्वभावम् ॥१९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वाक्य-भेदानाह—केचिद् इति । विकल्प-वसना जीवेश-भेदाच्-छादकाः कचिन्-निरीश्वराः कापिला आत्मानम् एवात्मनः क्लेशादि-हेतुम् आहुः—प्रकृतावासज्याता क्लेशवान् भवति तद्-विवेकात्-तस्यां विरज्य तु क्लेशाभाववान् इति तत्-सिद्धान्तां । अन्ये दैवज्ञा दैवं तद्-धेतुम् आहुः—क्रूरा ग्रहाः क्लेशदाः, पूजिताः शुभास् तु क्लेश-हरा इति तत्-सिद्धान्तात् । परे कर्मठाः कर्मैव तद्-धेतुम् आहुः—अशुभात् कर्मणः क्लेशः, शुभात् तु सुख-शब्दितः स्वर्गः इति तत्-सिद्धान्तात् । अपरे बौद्धास् तु स्वभावम् एव प्रभुम् आहुः—न खलु कारणात् कार्योत्पत्तिर् इति नियमः, कृतेऽपि क्लेशनाशके साधने तद् अक्षयाद्-विनापि तत्-साधनं तत्-क्षयाच्-चासकृत्-सम्भोगेऽपि सति सन्तानादयात् स्वेदजादीनाम् अकस्माज्-जन्माच् च । तस्मात् स्वभावाद् एव क्लेश-तद् अभावौ इति तत् सिद्धान्तात् ॥१९॥

———————————————————————————————————————

॥ १.१७.२० ॥

अप्रतर्क्याद् अनिर्देश्याद् इति केष्व् अपि निश्चयः ।
अत्रानुरूपं राजर्षे विमृश स्व-मनीषया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :केष्व् अपि सेश्वरेषु मध्ये । केष्व् अपीति दुर्लभत्वं दर्शितम् । निश्चय इति सिद्धान्तत्वम् । अप्रतर्क्यान् मनोऽगोचराद् अनिर्देश्याद् वचनागोचरात् परमेश्वरात् सर्वं भवतीति विमृश विचार्य स्व-बुद्ध्या ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्वेषाम् ईश्वर-वादित्वं निश्चयेन दर्शयति—अप्रतर्क्याद् इति ॥२०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केष्व् अपि वैष्णवेषु अनिर्देश्यान् निर्देष्टुम् अनर्हात् परमेश्वराद् एव सुख-दुःखादीनि भवन्ति इति निश्चयः । यद् उक्तं श्रुतिभिः—त्वद्-अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् गुण-विगुणान्वयान् इति । तथा,

सुखं दुःखं भवोऽभावो भयं चाभयम् एव च ।
अहिंसा समता तुष्टिस् तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥ [गीता १०.४-५] इति भगवद्-गीताभीश् च।

ननु तर्हि कथं निर्देष्टुम् अनर्हत्वं ? सत्यम्, काल-कर्म-स्वभाव-ग्रह-भूत-नृप-सर्प-रोगादिभ्य एव लोके क्लेशस्य दर्शनात् तेषाम् एव निर्देश्यत्वात् । वस्तुतस् तु तेषाम् अस्वातन्त्र्याच् च भगवत एव सर्वं भवतीति सिद्धान्तात् भगवतः सकाशात् दुःखं भवतीत्य् उपासकानां वक्तुम् अनौचित्याच् च ।

नन्व् एवम् अपि तस्य वैषम्य-नैर्घृण्ये दुर्वारे एव, इत्य् अत आह—अप्रतर्क्याद् इति । अस्मत्-तर्कागोचरत्वात् तस्य तद् अपि न वैषम्य-नैर्घृण्ये इति भावः । यद् उक्तं भीष्मेण,

न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् ।
यद् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ [भा।पु। १.९.१६] इति ।

तद् अपि भक्ताभासस्य मम दैन्य-वर्धनेन स्व-विषयक-स्मरण-वर्धनार्थं वा भक्तोत्तमस्य तव कलि-निग्रहादि-कीर्ति-ख्यापनार्थं वेति हितायैव क्लेश-दानम् ऊह्यत इति ।

नन्व् एषां मतानां मध्ये कस्योपादेयत्वं ? तत्राह—अत्रानुरूपं समुचितं सिद्धान्तं त्वम् एव स्व-मनीषया विचारय । यतस् त्वं राजर्षिर् भवसि । इत्य् उक्त-भङ्ग्या निश्चय-शब्दात् सर्वान्ते कथनाच् च वैष्णव-मतस्य सिद्धान्तत्वम् । अतः केष्व् अपीत्य् अनेन मतस्यास्य दुर्लभत्वं च सूचितम् । तत्र विमृशेत्य् अयं राज्ञो विमर्शः । न तावत् क्लेशानां मिथ्यात्वं प्रकटम् अनुभूयमानत्वात् । न चात्मनस् तत्-कारणत्वं जीवात्मनः पारतन्त्र्यात् । न च ग्रहाणां तेषां काल-चक्राधीनत्वात् । न च कर्मणः जाड्यात् । किं च, साक्षाद्-धर्मस्यास्य किं प्रारब्धम् अप्रारब्धं वा पापम् अस्ति पापवत्त्वे धर्मत्वस्यैवानुपपत्तेः । न च स्वभावस्य तस्यणैकान्तिकत्वात् । तस्माद् भगवत एव कारणत्वं सुस्थिरम् । तद्-विधित्सितं तु सर्वैर् दुर्ज्ञेयम् एवेति भीष्मोक्तिर् एव प्रमाणम् ॥२०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **केष्व् अपि वैदिकेष्व् ईश्वर-निष्ठेष्व् अस्य जीवस्य एष उ एवासाधु कर्मकारयति तम् [कौ।उ। ३.८] इत्य्-आदिषु जीव-कर्मानुसारितया श्रुयमाणाद् अपि अप्रतर्क्याद् अविचिन्त्य-शक्तेर् दुर्बोध-विधित्सितात् अनिर्देश्यात् साकल्येन निर्देष्टुम् अशक्यात् ईश्वराद् एव क्लेश-तत्-क्षयाव् इति निश्चयः । हे राजर्षे! त्वम् एषु पक्षेष्व् अनुरूप-मवाधितं पक्षं स्वमनीषया विमृशस्वेति ॥२०॥

———————————————————————————————————————

॥ १.१७.२१ ॥

सूत उवाच—

एवं धर्मे प्रवदति स सम्राड् द्विज-सत्तमाः ।
समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विखेदो गत-मोहः । पर्यचष्ट प्रत्यभाषत ज्ञातवान् इति वा ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाहितेन लब्ध-समाधानेन मनसापर्यचष्ट प्रत्यभाषत ॥२१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धर्मे एवं प्रवदति सति स सम्राट् परीक्षित् समाहितेन तद् उक्त-पक्ष पञ्चकार्थाभिनिवेशितेन मनसा तं धर्मं पर्यचष्ट ज्ञातवान्, ततो विखेदश् छिन्न-संशयोऽभूत् । एतद् उक्तं भवति-प्रकृति-संसर्ग-विरागयोः पुरुष-कर्तृकयोर् न क्लेश-तत्-क्षय-हेतुत्वं । तत्-संसर्गात् प्रागिव तद्-विरागाद् उत्तरत्रापि पुनस् तत्-संसर्ग-प्रसङ्गात्, उभयोर् विभुत्वेन सदैव सान्निध्यात्, न च ग्रहाणां तेषां काल-चक्राधीनत्वेनास्वातन्त्र्यात्, न च कर्मणः, तस्य क्षण-विनाशित्वात्, न च स्वभावस्य, तस्य जाड्यात्, तस्माद् ईश्वरस्यैव तद्-धेतुत्वं, तस्य चाप्रतर्क्यत्वात् तद्-विधित्सितं दुर्बोधं, न चास्य कर्हिचिद्-राजन् पुमान् वेद विधित्सितम् इति भीष्मोक्तेः । किम् अस्य धर्मस्य स्व-विषयां स्मृतिं वर्धयितुं तत्-क्लेश-रचनं, किम् वा तद्-भृत्यस्य मे कलि-निग्रहादि-यशो-विस्तारार्थम् इति? न च धर्मस्य पापम् अस्ति क्लेशकं, तथात्वे धर्मत्वानुपपत्तेर् इति ॥२१॥

———————————————————————————————————————

॥ १.१७.२२ ॥

राजोवाच—

धर्मं ब्रवीषि धर्म-ज्ञ धर्मोऽसि वृष-रूप-धृक् ।
यद् अधर्म-कृतः स्थानं सूचकस्यापि तद् भवेत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनिर्धारितम् इव ब्रुवन् घातकं जानन्न् अपि न सूचयेद् इत्य् एवं-रूपं धर्मं ब्रवीष्य् अतो धर्मोऽसि । सूचने को दोष इत्य् आह—यद् इति । स्थानं नरकादि ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अयं मां निरपराधम् अपि ताडयतीति मयि राजनि वक्तुम् अर्हन्न् अपि पृष्टोऽपि यन् न ब्रवीषि, यतोऽधर्म-कर्तुर् यत् स्थानं सूचकस्यापि तत् किं पुनर् अभिधायकस्य ? अतस् त्वं साक्षाद्-धर्म एव मयानुमितः ॥२२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्वज्ञातं स्फुटयति—धर्मम् इति । घातकं जानन्न् अपि न ब्रुयाद् इत्य् एव धर्मं ब्रवीष्यते धर्मोऽसि मया ज्ञातः । कुतो न ब्रवीमि? तत्राह—यद् इति । अधर्म-कर्तुर् यत् स्थानं नरकं तत्-सूचकस्यापि भवेत् किं पुनर् वाचकस्येति भावः । अथवेति सर्वं त्वया कथितम् एवेत्य् अर्थः । देवस्य हरेः मायायाः गतिर् भूतानां मनसो वचसश् चागोचरऽस्ति । अप्रतर्क्यानिर्देश्या च सेत्य् अर्थः । मायया स्व-शक्त्या स देवः पालन-संहार-रूपे सुख-दुःखे प्राणिभ्यः कथं ददातीति बोद्धुं वक्तुं च कः समर्थ इति भावः ॥२२-२३॥

———————————————————————————————————————

॥ १.१७.२३ ॥

अथवा देव-मायाया नूनं गतिर् अगोचरा ।
चेतसो वचसश् चापि भूतानाम् इति निश्चयः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यद् वा, अज्ञानाद् अप्य् अकथनं भवतीत्य् आह—अथवेति । देवस्य मायाया गतिर् वध्य-घातक-लक्षणा वृत्तिर् भूतानां चेतसो वचसश् चागोचरा सुज्ञेया न भ्वतीति निश्चय इत्य् अर्थः ॥२३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु यत्र कुत्रचिद् धर्मे विशेषतस् तु सर्व-धर्म-रक्षायां प्रमाणीकृतस्य यथार्थ-वचनम् एव युक्तम् । तथा च वयम् ईश्वर-वादिनोऽपि तं न विजानीमा इति कथम् उक्तवन्तस् तत्राह—अथवेति । तस्माद् अधुना देव-माया-कृते कलेः प्रभावे तवाप्य् अयं संशयो युक्त इति भावः । देव-पदं त्व् अत्र तथापि द्योतमानत्वात् तस्य माया-दोषास्पृष्टत्व-निगमनार्थं कृतम् ॥२३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथवेति । त्वया सर्वम् उक्तम् एवेत्य् अर्थः । देव-मायेत्य् आदिना अप्रतर्क्याद् इति तद्-उक्तम् अनुमोदितम् । देवस्य भगवतो मायायाः सर्व-जगत्-पालन-संहार-कारिण्या गतिः भूतानां चेतसोऽगोचरा इति अप्रतर्क्येत्य् अर्थः । वचसोऽगोचरा इति अनिर्देश्येत्य् अर्थः । मायायास् तच्-छक्तित्वात् स देवः पालन-संहार-लक्षणे सुख-दुःखे भूतेभ्यः कथं ददातीति ज्ञातुं वक्तुं च कः शक्नोतीत्य् अर्थः ॥२३॥

———————————————————————————————————————

॥ १.१७.२४ ॥

तपः शौचं दया सत्यम् इति पादाः कृते कृताः ।
अधर्मांशैस् त्रयो भग्नाः स्मय-सङ्ग-मदैस् तव ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्मोऽसाव् इति ज्ञात्वा तस्य पादानुवादेन व्यवस्थाम् आह—तप इति द्वाभ्याम् । अधर्म-पादैस् तव त्रयः पादास् त्रिभिर् अंशैर् भग्नाः । स्मयो विस्मयः ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **माया च धर्माधर्म-लक्षणं क्रम-वशात् समुदिती-भवन्तं जीवानां कर्म-विशेषाम् अनुसृत्य तत्-तद्-युगे तत् तत् प्रवर्तयतीति तस्याश् च न वैषम्यम् इत्य् आह—तप इति द्वाभ्याम् । स्मयो गर्वः । गर्व-द्वारा तपो-नाशकत्वेनेति वक्ष्यमाण-टीका-सङ्गतेः । सङ्गः स्त्रीभिः । मदस् तु पानादिजः । अभ्यर्थित इत्य् अत्र वक्ष्यमाण-तत्-तत्-सङ्गतेर् एव । अधर्मांशैः स्मयाद्य्-अंश-रूपैः । त्रय इति त्रयस् त्रयोऽंशाः भग्नाः । ततश् चतुर्थ-चतुर्थांशैर् एक एव पादोऽवशिष्यते । तत्र च सत्यस्यैवांशोऽवशिष्यत इत्य् अर्थः ॥२४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अहं तु त्वया अकथितम् अपि तव भद्राभद्रं सर्वं जानाम्य् एव तत् शृण्व् इत्य् आह—तप इति द्वाभ्याम् । अधर्मस्य अंशः पादैः स्मयादिभिः । स्मयो गर्वः । सङ्गः स्त्रीभिः । मदो मधु-पानजः । उपलक्षणम् एतद्-धिंसादेर् अपि । ततः सत्यादिनाशकत्वं ज्ञेयम् ॥२४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्वयानुक्तम् अपि तव भद्राभद्रम् अहं जानाम्य् एव, तत्त्वं शृण्वित्य् आह—तप इति द्वाभ्याम् । अधर्मस्यांशैः पादैः स्मयादिभिस् त्रिभिस् तव एयः पादास् तपः-शोचदयारूपा भग्नाः । तेषु स्मयो गर्वः, सङ्गः स्त्रीभिः, मदो मधु-पानजन्यः ॥२४॥

———————————————————————————————————————

॥ १.१७.२५ ॥

इदानीं धर्म पादस् ते सत्यं निर्वर्तयेद् यतः ।
तं जिघृक्षत्य् अधर्मोऽयम् अनृतेनैधितः कलिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं कलौ । हे धर्म, ते पादश् चतुर्थोऽंशस् तत्रापि सत्यम् एवास्ति । यतः सत्याद् भवान् आत्मानं निर्वर्तयेत् कथंचिद् धारयेत् । यद् वा, पुरुषस् त्वां साधयेत् । तम् अपि पादम् अनृतेन संवर्धितः कलिः कलि-रूपोऽयम् अधर्मो ग्रहीतुम् इच्छति, तत्रेयं स्थितिः—कृत-युगे प्रथमं संपूर्णश् चतुष्-पाद् धर्मः । त्रेतायां चतुर्णाम् अपि पादानां मध्ये स्मयेन तपः, सङ्गेन शौचम्, मदेन दया, अनृतेन सत्यम् इत्य् एवं चतुर्थांशो हीयते । द्वापरे त्व् अर्धम् । कलौ चतुर्थोऽंशोऽवशिष्यते सोऽप्य् अन्ते विनङ्क्ष्यतीति ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इदानीं कलौ । हे धर्म ! ते पादश् चतुर्णाम् एव एव तप-आदि-पादानां स्मयादिभिर् भाग-त्रय-ध्वंसाद् अवशिष्टश् चतुर्थैर् अंशैर् एकः । स च प्राधान्येन व्यपदेशो भवति इति न्यायेन सत्यं तप-आदिषु सत्यस्यैव प्राधान्यात् । यतः सत्याद् भवान् आत्मानं निर्वर्तयेत् कथञ्चिद् धारयेत् । यद् वा, पुरुषस् त्वां साधयेत् । तद् अपि पादम् अनृतेन संवर्धितः कलिः कलि-रूपोऽयम् अधर्मो ग्रहीतुम् इच्छति । तत्रेयं द्वादश-स्कन्ध-दृष्ट्या स्थितिः—कृत-युगे प्रथमं संपूर्णश् चतुष्-पाद् धर्मः । त्रेतायां चतुर्णाम् अपि पादानां मध्ये स्मयेन तपः, सङ्गेन शौचम्, मदेन दया, अनृतेन सत्यम् इत्य् एवं चतुर्थोऽंशो हीयते । द्वापरे त्व् अर्धम् । कलौ चतुर्थोऽंशोऽवशिष्यते सोऽप्य् अन्ते नङ्क्ष्यतीति ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इदानीं कलौ, हे धर्म! ते पादश् चतुर्थांशः सत्यम् एवास्ति, यतः सत्याद्-भवान् आत्मानं निर्वर्तयेत् कथञ्चिद् धारयेत् । यद् वा, पुरुषत्वां साधयेत् तम् अपि पादमयम् अधर्मः कलिर् अनृतेनैधितः जिघृक्षति हर्तुम् इच्छति । द्वादश-स्कन्धानुसारेणेयम् अत्र व्यवस्था—कृते चतुष्पाद्-धर्मः पूर्णः, त्रेतायां तपः-शौच-दया-सत्यानां चतुर्णां पादानां क्रमात् स्मयसङ्गमदानृतैश् चतुर्थोंशो ह्रियते, द्वापरे त्व् अर्द्धं । कलौ तेषां चतुर्थोंशोवशिष्यते, स च प्राधान्येन व्यपदेशा भवन्ति इति न्यायात् सत्य-शब्देनोच्यते । तप-आदिषु सत्यस्यैव प्रधानत्वाद् इति ॥२५॥

———————————————————————————————————————

॥ १.१७.२६ ॥

इयं च भूमिर् भगवता न्यासितोरु-भरा सती ।
श्रीमद्भिस् तत्-पद-न्यासैः सर्वतः कृत-कौतुका ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न्यासितोऽन्योन्य-द्वारेणावतारित उरुर् भरो भारो यस्याः । कृतं कौतुकं मङ्गलं यस्याः सा ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न्यासितः अवतारितः स्वेनान्य-द्वारा च उरुर् भरो भारो यस्याः सा ॥२६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भगवता श्री-कृष्णेन न्यासितोर् उभरावतारिता-सुररूप-महाभारा सती श्रीमद्भिस् तत्-पादन्यासैः कृत-कौतुका रचित-मङ्गलासीत् ॥२६॥

———————————————————————————————————————

॥ १.१७.२७ ॥

शोचत्य् अश्रु-कला साध्वी दुर्भगेवोज्झिता सती ।
अब्रह्मण्या नृप-व्याजाः शूद्रा भोक्ष्यन्ति माम् इति ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अश्रूणि कलयति मुञ्चतीत्य् अश्रु-कला । तेन उज्झिता त्यक्ता सती शूद्रा भोक्षयन्ति माम् इति शोचति ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अश्रूणि कलयति दधातीति ॥२७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अधुना तेनोज्झिता दुर्भगेवाश्रुकला रुदन्ती शूद्रा मां तेक्ष्यन्तीति शोचति ॥२७॥

———————————————————————————————————————

॥ १.१७.२८ ॥

इति धर्मं महीं चैव सान्त्वयित्वा महा-रथः ।
निशातम् आददे खड्गं कलयेऽधर्म-हेतवे ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निशातं निशितम् । अधर्मस्य हेतुर् यः कलिस् तं हन्तुम् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इतीति । ननु जीवानाम् अधर्म एव तत्-तद्-दोष-हेतुर् इत्य् उक्तम् । कथं कलिं हन्यात् तत्र अधर्मस्य हेतवे सहायापेक्षेत्य् अर्थः । वक्ष्यते च—त्वम् अधर्म-बन्धुर् [भा।पु। १.१७.३१] इति ।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कलये कलिं हन्तुं खङ्गम् आददे इत्यत्र राज्ञोऽयम् अभिप्रायः, मत्-पाणिस्थ-खड्ग-दर्शनेनायम् अपि नृप-चिह्न-धारी मया सार्धं द्वन्द्वशो योद्धुम् आयातु, ततश् चैनं शीघ्रम् एव हनिष्यामीति ॥२८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अधर्म-हेतवे कलये तं हन्तुम् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

॥ १.१७.२९ ॥

तं जिघांसुम् अभिप्रेत्य विहाय नृप-लाञ्छनम् ।
तत्-पाद-मूलं शिरसा समगाद् भय-विह्वलः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अभिप्रेत्य ज्ञात्वा ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विहाय नृप-लाञ्छनम् इति । तदा कलिनाप्य् एवं विचारितम् । अनेन सह योद्धुं न मे शक्तिर् न क्षत्रियस्य शरणापत्तिर् उचिता । अतो नृप-चिह्नं विहायैव पादयोर् अस्य पतामीति ॥२९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अभिप्रेत्य ज्ञात्वा, नृप-लाञ्छनं राज-चिह्नं मुकुटादि ॥२९॥

———————————————————————————————————————

॥ १.१७.३० ॥

पतितं पादयोर् वीरः कृपया दीन-वत्सलः ।
शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शरण्य आश्रयार्हः । श्लोक्यः सत्कीर्त्य्-अर्हः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नावधीत् श्लोक्य इति । राज्ञापि विचारितम्, शरणागतोऽयं हन्तुम् अनर्हः, तद् अपि दुष्टम् एवं यदि हन्मि तर्हि शरणागत-वधाज् जातम् अधर्मम् आलम्ब्य मय्य् एवासौ प्रवेक्ष्यति न मरिष्यतीति हसन्न् इवेति कोपान् अपगमात् ईश्वरेण तादृश एव विधिर् निर्मितो यज्-जिघांसोर् अपि मम हस्तात् त्वम् अद्य रक्षितोऽभूर् इति मनोऽनुलापाच् च ॥३०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **श्लोक्यः कीर्त्यर्हो नावधीत् । एवं हि राज्ञा विमृष्टं—शरणागतत्वाद् अयम् अवध्यस् तथापि दुष्टत्वाच्-चेद् एनं वधिष्यामि, तदा तद्-गत-वध-जातम् अधर्मम् आश्रित्यायं मय्य् एव प्रवेक्ष्यति, न मरिष्यतीति सन्न् इवेति क्रोधान् अपगमात् । प्रभोर् इयम् इच्छा यज्-जिघांसोर् मे हस्तात्-त्वम् अद्य रक्षित इति मनसि विमर्शाच् चेति ॥३०॥

———————————————————————————————————————

॥ १.१७.३१ ॥

राजोवाच—

**न ते गुडाकेश-यशो-धराणां **

बद्धाञ्जलेर् वै भयम् अस्ति किञ्चित् ।

**न वर्तितव्यं भवता कथञ्चन **

क्षेत्रे मदीये त्वम् अधर्म-बन्धुः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गुडकेशोऽर्जुनस् तस्य यशो-धरा ये वयं तेषां तान् प्रति बद्धोऽञ्जलिर् येन तस्य ते । किन्तु कथंचन केनाप्य् अंशेन न वर्तितव्यम् । यस्मात् त्वम् अधर्मस्य बन्धुः ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **गुडाकेशस्य यद् यशस् तस्य रक्षण-व्यग्राणाम् इत्य् अर्थः ॥३१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्व-कार्यं विचार्याह—गुडाकेशोऽर्जुनस् तद्-यशोधराणाम् अस्माकम् अग्रतो बद्धाञ्जलेस् तव । किन्तु कथञ्चन केनाप्य् अंशेन न वर्तितव्यं न स्थेयम् ॥३१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **स्व-प्रयोजनं विचार्याह—न ते इति । मदीये क्षेत्रे देशे कथञ्चन केनाप्य् अंशेन न वर्तितव्यं न स्थेयं यतस् त्वम् अधर्म-बन्धुः ॥३१॥

———————————————————————————————————————

॥ १.१७.३२ ॥

**त्वां वर्तमानं नर-देव-देहेष्व् **

अनुप्रवृत्तोऽयम् अधर्म-पूगः ।

**लोभोऽनृतं चौर्यम् अनार्यम् अंहो **

ज्येष्ठा च माया कलहश् च दम्भः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह । राज-देहेषु वर्तमानं त्वाम् अनु सर्वतः प्रवृत्तः । अनार्यं दौर्जन्यम् । अंहः स्वधर्म-त्यागः । ज्येष्ठा अलक्ष्मीः । माया कपटम् ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वत्-प्रवृत्तौ दोषान् शृण्व् इत्य् आह—त्वाम् इति । नराणां देवानां च देहेष्व् इति । देवा अपि त्वद्-आक्रान्त-देहा लोभाद्य्-अधर्मिष्ठा भवन्ति किं पुनर् नरा इति भावः । वर्तमानं त्वाम् अनु सर्वतः प्रवृत्तः । अनार्यं दौर्जन्यम् । अंहः स्व-धर्म-त्यागः । ज्येष्ठा अलक्ष्मीः । माया कपटम् । दम्भोऽहङ्कारः ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नर-देवानां राज्ञां देहेषु वर्तमानं त्वाम् अनुलक्षीकृत्य अनार्यं दौर्जन्य्ं । अंहः स्व-धर्म-त्याग-रूपं पापं, ज्येष्ठा-लक्ष्मीः, माया कपटम् ॥३२॥

———————————————————————————————————————

॥ १.१७.३३ ॥

**न वर्तितव्यं तद् अधर्म-बन्धो **

धर्मेण सत्येन च वर्तितव्ये ।

**ब्रह्मावर्ते यत्र यजन्ति यज्ञैर् **

यज्ञेश्वरं यज्ञ-वितान-विज्ञाः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **ब्रह्म-यज्ञा वितान-यज्ञाश् च ॥३३॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् तस्माद् धर्मेण सत्येन च वर्तितव्ये वर्तितुम् अर्हे ब्रह्मावर्ते देशे । यज्ञस्य वितानं विस्तारस् तत्र विज्ञा निपुणाः ॥३३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्मावर्त इत्य् उपलक्षणं यज्ञिय-देशानाम् ॥३३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्मेणेत्य् अनेनैव सिद्धे सत्येन चेति पृथग्-उक्तिः सत्यस्य धर्म-मूलत्व-व्यञ्जिका । स्कन्ध-शाखादिकं विना केवलेन मूलेनापि न प्रायः प्रयोजन-सिद्धिर् इत्य् अतो धर्मेणेति चोक्तम् । वर्तितव्ये वर्तितुं योग्ये ॥३३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धर्मेण सत्येन च वर्तितुं योग्ये ब्रह्मावर्ते त्वया न वर्तितव्यं, यज्ञेश्वरं कृष्णम् ॥३३॥

———————————————————————————————————————

॥ १.१७.३४ ॥

यस्मिन् हरिर् भगवान् इज्यमान \ इज्यात्म2-मूर्तिर् यजतां शं तनोति । \ कामान् अमोघान् स्थिर-जङ्गमानाम् \ अन्तर् बहिर् वायुर् इवैष आत्मा ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **इष्टात्म-मूर्तिः इच्छा-तनुः ॥३४॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इज्या यागस् तद्-रूपा मूर्तिर् यस्य । शं क्षेमं कामांश् च । नन्व् इन्द्रादयो देवा इज्यन्ये नतु हरिस् तत्राह—स्थिरेति । एष स्थावरादीनाम् आत्मेति । तथापि जीववन् न परिच्छिन्न इत्य् आह—अन्तर् बहिर् इति । यथा वयुः प्राण-रूपेणान्तस्थोऽपि बहिर् अप्य् अस्ति तद्वत् सर्वान्तर्यामीश्वरोऽपीति ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नन्व् इन्द्रादयो देवता अपीज्यन्ते न केवलं भगवान् एव तत्राह—इज्यानाम् इन्द्रादीनाम् आत्म-मूर्तिर् अन्तर्यामि-रूपः । ते आत्म-मूर्तयो यस्येति वा । स्थिर-जङ्गमानाम् अस्मत्-प्रजानां कामान् ऐहिकान् शं पारत्रिकं सुखं च तनोति वायुर् इवान्तर् बहिश् च साक्षाद् अनुभूयमानः सन्न् इत्य् अर्थः । त्वयि वर्तमाने तु तथा नैव स्याद् इति भावः ॥३४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् इन्द्रादये पीड्यन्ते न केवलं हरिस् तत्राह—इज्यानां तेषाम् आत्मा प्रवर्तिका मूर्तिर् यस्य सः । स्थिर-जङ्गमानाम् अस्मत्-प्रजानाम् अमोघान् कामान् भोगान् तनोति वायुर् इवान्तर् बहिश् च प्रतीयमानः, त्वयत्र वर्तमाने तथा न भवेद् इति भावः ॥३४॥

———————————————————————————————————————

॥ १.१७.३५ ॥

सूत उवाच—

परीक्षितैवम् आदिष्टः स कलिर् जात-वेपथुः ।
तम् उद्यतासिम् आहेदं दण्ड-पाणिम् इवोद्यतम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उयतासिम् उद्धृत-खड्गम् । दण्ड-पाणिं यमम् । उद्यतम् उद्युक्तम् ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उद्यतासिम् उच्चीकृत-खड्गम् । जात-वेपथुर् इति स्व-रक्षणार्थं बहुतरं बुद्धि-बलं प्रकाशितम् । तद् अपि मम वध एवोपस्थित इति भावः । राज्ञो ह्य् अयम् अभिप्रायः, यदीमां मद्-आज्ञां न पालयति तदा मद्-अभीष्टम् अस्य वधम् अधुनैव करिष्यामि, यदि च पालयति तदास्यावधेऽपि मम कापि क्षतिर् नास्तीति । दण्ड-पाणिं यमम् ॥३५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उद्यतासिं निःसारित-खड्गं, दण्ड-पाणिं यमम् इव ॥३५॥

———————————————————————————————————————

॥ १.१७.३६ ॥

कलिर् उवाच—

यत्र क्व वाथ वत्स्यामि सार्व-भौम तवाज्ञया ।
लक्षये तत्र तत्रापि त्वाम् आत्तेषु-शरासनम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत्र न वस्तव्यम् इति या तवाज्ञा तया यत्र क्वापि वत्स्यामि किन्तु तत्र तत्राप्य् आत्तो गृहीत इषूः शरासनं च येन तं त्वाम् एव लक्षये ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **हे सार्वभौम! सर्वस्या अपि भूमे राजन्! लक्षये साक्षाद् एवम् एव त्वां पश्यामि । तेन सर्वेषां स्थावर-जङ्गमानां युष्मत्-प्रजात्वात् सर्वस्या अपि भूमेस् तवाधिकारात् मम वस्तुं स्थान-भावात् सम्प्रति त्वद्-अग्रे वर्तमानं त्वत्-पादयोः पतितं मां स्व-हस्तेनैव जहीति भावः ॥३६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यत्रेति—हे सार्वभौम सर्व-भूमेर् ईश्वर, ब्रह्मावर्तं, विहार चेद् अन्यत्र कुत्रापि वत्स्यामि, तत्रापि त्वाम् एवात्-तेषुशरासनं पश्यामीति निखिल-पृथ्वीश्वरस्य तव प्रज्ञा मां खेदयिष्यन्तीति भावः ॥३६॥

———————————————————————————————————————

॥ १.१७.३७ ॥

तन् मे धर्म-भृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि ।
यत्रैव नियतो वत्स्य आतिष्ठंस् तेऽनुशासनम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् तस्मात् । नियतो निश्चलः । वत्स्ये वत्स्यामि ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शरणागतं त्वाम् अहं न हन्मीति चेत् तदा हे धर्म-पालकानां श्रेष्ठ! ॥३७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तर्हि यद्-विधेयं तद्-भणेति चेत्-तत्राह—तद् इति । नियतो निश्चलः सन् ॥३७॥

———————————————————————————————————————

॥ १.१७.३८ ॥

सूत उवाच—

अभ्यर्थितस् तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रियः सूना यत्राधर्मश् चतुर् विधः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पानं मद्यादेः । सूना प्राणि-वधः । द्यूतेऽनृतम् । पाने मदः । पूर्वं मदो दया-नाशकत्वेनोक्तेऽत्र तु दर्व-द्वारा तपो-नाशकत्वेन । स्त्रीषु सङ्गः । हिंसायां क्रौर्यं दया-नाशकम् इति ज्ञेयम् । यद्यपि सर्वं सर्वत्र संभवति, तथापि प्राधान्येनानृतदीनां द्यूतादिषु यथा-सङ्ख्यं ज्ञेयम् । द्वादश-स्कन्धे तु सत्यं दया तपो दानम् इति पादा विभोर् नृप [भा।पु। १२.३.१८] इत्य् अत्र दान-शब्देन शौचम् एवोक्तम् । मनः-शुद्धि-रूपत्वाद् भूताभय-दानस्य ।

त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः । \

अधर्म-पादैर् अनृत-हिंसासन्तोष-विग्रहैः ॥ [भा।पु। १२.३.२०]

इत्य् अत्र चासन्तोष-शब्देन तस्य हेतुर् गर्वो लक्ष्यते । विह्रग-शब्देन च तद्-धेतुः स्त्री-सङ्ह इत्य् अविरोधः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **द्यूतं स्पष्टम् । पानं मद्यादेः स्त्रियोऽविवाहिताः शूनाः प्राणि-वधः । यत्र चतुर्विधोऽधर्मा इति । द्यूतेऽनृतं सत्य-नाशकं पाने मदो दया-नाशकः स्त्रीषु सङ्गः शौच-नाशकः प्राणि-हिंसायां तु समुदित एव चतुर्विधोऽधर्मः । न हि प्राणि-हन्तृषु तपः शुचित्वं दया वा । सत्य-वचनं तु तेषु नास्त्य् एवेति ॥३८ ॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पानं मद्यादेः, स्त्रियः पुंश्चल्यः सूना अविहित-हिंसा, यत्र सूनायां चतुर्विधो ऽधर्मः । हि प्राणि-हिंसकेषु तपः-शौच-दया-सत्यानि सन्ति ॥३८॥

———————————————————————————————————————

॥ १.१७.३९ ॥

पुनश् च याचमानाय जात-रूपम् अदात् प्रभुः ।
ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चतुर्विधस्याप्य् एकत्रैवावस्थानं देहीति पुनर् याचमानाय जात-रूपं सुवर्णं दत्तवान् । ततः सुवर्ण-दानाद् अनृतम्, मदम्, कामम् इति स्त्रीषु सङ्गम्, रज इति रजो-मूलां हिंसाम्, एतानि चत्वारि पञ्चमं वैरं चादाद् इति ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भो राजन्न् एतद् वृत्तान्तं श्रुत्वा द्यूतादिकं कोऽपि नानुशीलयिष्यति । किं च, प्रथमं मनसि मत्-प्रवेशस् तत एव लोकाः प्रायो द्यूतादिकं भजन्ते इति । तत्र भवता दीयमानम् अपि स्थान-चतुष्टयम् अदत्तम् एवाभूत् । तस्माद् एवं किम् अपि स्थानम् अहं प्राप्नुयां यल्-लोकैर् दुस्त्यजं स्याद् इति याचमानाय कलये जात-रूपं स्वर्णोपलक्षितं रजतादिकं द्रव्य-मात्रम् एव तद्-वास-स्थानत्वेन अदात् । तत एव हेतोर् धनवत्सु अनृतं मिथ्या मदः पानादि-जनिता मत्तता कामः स्त्री-सङ्गः, रजो गर्व इति चतुर्विधोऽधर्मः तथा पञ्चमं वैरं च स्यात् । मद-कामयोः क्लीबत्वम् आर्षम् ॥३९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नन्व् एतद्-वृत्तान्तं निशम्य सर्वे द्यूतादि त्यजेयुर् अतस् त्वया दत्तम् अप्य् अदत्तम् इति पुनर् याचमानाय कलये जात-रूपं स्वर्णोपलक्षितं धनं तद्-वासार्थम् अदात् । स्वयशो रक्षता मया शरण्यत्वात् संप्रत्ययं न हतो दत्त-स्थानश् च कृतः । यदि मद् आज्ञानुसारी न तिष्ठेत् तदैतद्-वधः सुशक एवेति राज्ञो भावः । तत एव हेतोर् धनिष्व् अनृतादयः । अनृतं मिथ्या, मद आसव-पानजा मत्तता, कामः स्त्री-सङ्गः । रजो गर्व इति चतुर्विधो ऽधर्मः, वैरं च पञ्चमं स्यात् । मद् अकामयोः क्लीवत्वम् आर्षम् ॥३९॥

———————————————————————————————————————

॥ १.१७.४० ॥

अमूनि पं च स्थानानि ह्य् अधर्म-प्रभवः कलिः ।
औत्तरेयेण दत्तानि न्यवसत् तन्-निदेश-कृत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **औत्तरेयेण परीक्षिता । अमून्य् अमीषु स्थानेषु न्यवसद् इत्य् अर्थः । तस्य राज्ञो निदेश-कृद् आज्ञा-कृत् ॥४०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च तत्-क्षणाद् एव तत्र तत्र गतः कलिस् तान्य् अधिष्ठितवान् इत्य् आह—अमूनीति । कालाध्व-भाव-देशानाम् इत्य्-आदि कारिका-बलेन कर्मत्वम् ॥४०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अमूनि अमीष्व् इत्य् अर्थः । यद् वा, काल-भावाध्व-देशानाम् इति कारिकाबलात् कर्मत्वम् ॥४०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अमून्यमीषु ॥४०॥

———————————————————————————————————————

॥ १.१७.४१ ॥

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् ।
विशेषतो धर्म-शीलो राजा लोक-पतिर् गुरुः ॥**

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **विहितातिरेकेण न सेवेतेति ॥४१॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथ इति हेतोः बुभूषुर् उद्भवितुम् इच्छुः । स्त्री-सुवर्णयोर् असेवनं नाम तयोर् अनासक्तिः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्त्रियं परकीयाम् एव न सेवेत । बुभूषुः स्व-क्षेमम् इच्छुः । सुवर्णस्यासेवनं नाम तत्रानासक्तिर् इत्य् एके ॥४१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **बुभूषः स्व-कल्याणेच्छुः, लोकानां पतिः पालकः गुरुर् उपदेष्टा च राजा विशेषतो न सेवेत । सुवर्ण-स्वस्त्रियोर् असेवनम् अनासक्तिः, परस्त्रीणां स्वरूपतस् त्यागः ॥४१॥

———————————————————————————————————————

॥ १.१७.४२ ॥

वृषस्य नष्टांस् त्रीन् पादान् तपः शौचं दयाम् इति ।
प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं कलिं निगृह्य वृषस्य पादान् प्रतिसन्दधे । तप-आदीनि प्रवर्तितवान् इत्य् अर्थः ॥४२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं कलिं निगृह्य वृषस्य पादान् प्रतिसन्दधे तप-आदीनि प्रवर्तितवान् इत्य् अर्थः ॥४२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एवं कलिं निगृह्य वृषस्य पादान् प्रतिसन्दधे । तप-आदीनि प्रवर्तितवान् इत्य् अर्थः ॥४२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं कलिं निगृह्य वृषस्य धर्मस्य त्रीन् पादान् राजा प्रति-सन्दधे, तान् प्रवर्तयामास ॥४२॥

———————————————————————————————————————

॥ १.१७.४३-४४ ॥

स एष एतर्ह्य् अध्यास्त आसनं पार्थिवोचितम् ।
पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥**

आस्तेऽधुना स राजर्षिः कौरवेन्द्र-श्रियोल्लसन् ।
गजाह्वये महा-भागश् चक्रवर्ती बृहच्-छ्रवाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **युष्मदीय-सत्र-प्रवृत्तिर् अपि तत्-प्रभावाद् एवेत्य् आह त्रिभिः । एतर्हीदानीं युधिष्ठिरेणारण्यं प्रवेष्टुम् उच्छता उपन्यस्तं समर्पितम् आसनम् अध्यास्ते । अधुना आस्ते पालयत इति वर्तमान-सामीप्ये वर्तमानवन् निर्देशः स्मेत्य् अध्याहारो वा ॥४३-४४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **युष्मदीय-सत्र-प्रवृत्तिर् अपि तत्-प्रभावाद् एवेत्य् आह—स एष इति त्रिभिः । अध्यास्ते आस्तेऽधुना पालयत इत्य् एषु वर्तमान-सामीप्ये वर्तमान-निर्देशः ॥४३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **युष्मदीय-सत्र-प्रवृत्तिर् अपि तत्-प्रभावाद् एवेत्य् आह—स एष इति त्रिभिः । अध्यास्ते आस्ते अधुना पालयत इत्य् एषु वर्तमान-सामीप्ये वर्तमान-निर्देशः ॥४३-४४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तत्-प्रभावाद् एव भवतां सत्र-प्रवृत्तिर् इत्य् आह—स इति । पितामहेन युधिष्ठिरेणोपन्यस् तं दत्तमासनम् अध्यास्ते ॥४३॥ \

\

अध्यास्ते आस्ते ऽधुना पलयत इत्य् एषु वर्तमान-समीप्ये वर्तमान-निदेर्शः ॥४४॥

———————————————————————————————————————

॥ १.१७.४५ ॥

इत्थम्-भूतानुभावोऽयम् अभिमन्यु-सुतो नृपः ।
यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सत्राय सत्रं कर्तुं दीक्षिता दीक्षां कृतवन्तः ॥४५॥

इति श्रीमद्-भागवते महा-पुराणे प्रथम-स्कन्धे \

भावार्थाख्य-दीपिकायां टीकायां सप्तदशोऽध्यायः ॥१७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्य पालयत इत्य् अत्र सत्रं श्री-बलदेव-दृष्टाद् अन्यज् ज्ञेयम् ॥४५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सत्राय सत्रं कर्तुम् । सत्रम् इदं बलदेव-दृष्टाद् अन्यद् एव ज्ञेयम् ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

प्रथमेऽयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सत्राय सत्रं कर्तुं, सत्रम् इदं सङ्कर्षण-दृष्टाद् अन्यद् बोध्यम् । परीक्षित्-सदृशः कोऽपि नाभून् न च भविष्यति । ये ददर्शोदरे कृष्णं निज-ग्राह च यः कलिम् ॥४५॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे

परीक्षिते कलि-निग्रहो नाम

सप्तदशोऽध्यायः ।

॥१७॥


(१.१८)


  1. वृषो ↩︎

  2. इष्टात्म अप्पेअर्स् तो बे मध्वऽस् रेअदिन्ग्। ↩︎