विषयः
परीक्षितो राज्य-लाभः, दिग्-विजयः, भूमि-धर्म-संवाद-श्रवणं च ।
॥ १.१६.१ ॥
सूत उवाच—
ततः परीक्षिद् द्विज-वर्य-शिक्षया
महीं महा-भागवतः शशास ह ।
यथा हि सूत्याम् अभिजात-कोविदाः
समादिशन् विप्र महद्-गुणस् तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततश् च षोडशे भूमि-धर्मयोः कलि-खिन्नयोः ।
संवादे वर्ण्यते प्राप्तिः पालकस्य परीक्षितः ॥
द्विज-वर्याणां शिक्षया सद्-उपदेशेन । सूत्यां जन्मनि । अभिजात-कोविदा जात-कर्म-विदः । हे **विप्र **! महतां गुणा यस्मिन् सः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
परीक्षितो दिग्-विजयो धर्म-प्रश्नः क्षितिं प्रति ।
तस्याः कृष्ण-वियुक्तायाः शोकोक्तिः षोडशेऽभवत् ॥
हे विप्र! तथैव महतां गुणा यस्मिन् सः अभूत् ॥१॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :
परीक्षिततो दिग्विजयोऽत्र षोडशे, प्रश्नश् च धर्मस्य वसुन्धरां प्रति ।
गोविन्द-पादाम्बुज-सङ्ग-विच्युतेः, शोकश् च तस्या विविधोऽभिधीयते ॥
द्विज-वर्याणां शिक्षयोपदेशेन, सूत्यां जन्मनि । अभिजात-कोविदा दैवज्ञा यथा समादिशन्न् ऊचुस् तथैव परीक्षिन्महद्-गुणोऽभवत् । महतां युधिष्ठिरादीनां गुणा यस्मिन् सः ॥१-२॥
———————————————————————————————————————
॥ १.१६.२ ॥
स उत्तरस्य तनयाम् उपयेम इरावतीम् ।
जनमेजयादींश् चतुरस् तस्याम् उत्पादयत् सुतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जनमेजयादीन् इत्य् अक्षराधिक्यं छान्दसम् । उत्पादयन्न् इति पाट्ःए हेतौ शतृ-प्रत्ययः । सुतान् उत्पादयितुम् उपयेम इति वाक्य-योजना ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स उत्तरस्य तनयाम् इति पूर्व-कथा [राज्याभिषेकात् प्राक्] ब्रह्मचर्ये राज्याभिषेकायोगात्1 ॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **जनमेजयादीन् इति । प्रधाने कर्मण्य् अभिधेयेऽन्यादीन् आहुर् द्वि-कर्मणाम् इतिवन् नवाक्षरैक-पादोऽनुष्टुब्-विशेषोऽयम् ॥२॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
———————————————————————————————————————
॥ १.१६.३ ॥
आजहाराश्व-मेधांस् त्रीन् गङ्गायां भूरि-दक्षिणान् ।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षि-गोचराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आजहार कृतवान् इत्य् अर्थः । शारद्वतं कृपम् । यत्र येष्व् अश्वमेधेषु देवा दृष्टि-गोचरा बभूवुः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शारद्वतं कृपम् ॥३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : आजहार कृतवान् । शारद्वतं कृपम् ॥३-४॥
———————————————————————————————————————
॥ १.१६.४ ॥
निजग्राहौजसा वीरः कलिं दिग्-विजये क्वचित् ।
नृप-लिङ्ग-धरं शूद्रं घ्नन्तं गो-मिथुनं पदा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निजग्राह निगृहीतवान् । कलिम् एव निर्दिशति—नृपेति ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी): न व्याख्यातम्।
———————————————————————————————————————
॥ १.१६.५ ॥
शौनक उवाच—
कस्य हेतोर् निजग्राह कलिं दिग्विजये नृपः ।
नृदेव-चिह्न-धृक् शूद्रः कोऽसौ2** गां यः पदाहनत् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : कोऽसाव् इत्य् आक्षेपः, कलिम् इत्य् उक्तत्वात् ॥५॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : कस्य हेतोर् इति । अयम् अर्थः—कलिं कस्माद् धेतोः केवलं निजग्राह, न तु हतवान् । यतोऽसौ शूद्रः अतिकुत्सितः । यो गां पदाहनद् अहन्न् इति ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निजग्राह न तु हतवान् । यतोऽसौ शूद्रकः अतिकुत्सितो हन्तुम् एवोचितः ॥५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **केवलं निजग्राह, न तु तं जघान ॥५॥
———————————————————————————————————————
॥ १.१६.६ ॥
तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ॥
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ।
मध्वाचार्यः (भागवत-तात्पर्यम्) : अथ इति पक्षान्तरे । वा यदि । यद्य्-अर्थे च विकल्पार्थे वा-शब्दः समुदीर्यते इति नाम-महोदधौ ॥६॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य विष्णोः पदाम्भोजयोर् मकरन्दः, तं लिहन्त्य् आस्वादयन्ति ये, तेषां सतां महतां वा कथाश्रयम् इति समासान् निष्कृतस्यानुषङ्गः । तर्हि कथ्यताम् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : यदि कृष्ण-कथाश्रयं भवति, तर्हि तद्-अन्यद् अपि कथ्यताम् इत्य् अर्थः ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् कलि-निग्रहणं सतां कथाश्रयम् इत्य् अनेन समास-गतेनाप्य् अन्वयः ॥६॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत् कलि-निग्रहणं, सतां कथाश्रयम् इत्य् अनेन समासगतेनान्वयः, सापेक्षकत्वात् ॥६॥
———————————————————————————————————————
॥ १.१६.७ ॥
किम् अन्यैर् असद्-आलापैर् आयुषो यद् असद्-व्ययः ॥
क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् ।
इहोपहूतो भगवान् मृत्युः शामित्र-कर्मणि ॥७॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **अन्यथा चेद् आयुषोऽसद्-व्ययः इत्य् अर्थः ॥७॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नो चेत् किम् अन्यैर् असद्भिर् आलापैः ? यद् यैर् आयुषो वृथा क्षयः । अस्माकम् अयं सत्र-प्रयत्नेऽपि हरि-कथामृत-पानार्थ एवेत्य् आह—सार्धाभ्याम् । क्षुद्रम् अल्पम् आयुर् येषाम् । अतो मर्त्यानां मरण-धर्मवताम् । तथापि ऋतं सत्यं मोक्षम् इच्छताम् ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ऋतं परम-सत्यं श्री-भगवन्तम् इच्छतां क्षुद्रायुषाम् अन्यैः किम् ? ननु तादृशानां श्री-भगवत्-कथा-श्रवणम् अपि सम्पन्नं न स्याद् इत्य् आशङ्क्याह—इहेति ॥७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तदाश्रयणं न चेत्, तर्ह्य् असद्-आलापैः किं? यत आयुषोऽसद्-व्ययो वृथैव क्षयः । ऋतं सत्य-वस्तु श्री-कृष्णम् इत्य् अर्थः । ननु नश्वर-देहानां कृष्ण-कथा-भाग्य-लाभोऽपि कथं सेत्स्यति ? इत्य् अत आह—इह क्षेत्रे शमितुर् इदं शामित्रं कर्म पशु-हिंसनं तत्र तद्-अर्थं मृत्युर् उपहूतः ॥७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ननु नश्वर-शरीराणां कथं बृहत्-कथा-लाभः? तत्राह—इह क्षेत्रे, शमितुर् यागीय-पशु-मारकस्येदं शामित्रं कर्म, तस्मिन् निमित्ते भगवान् कालोऽस्माभिर् उपहूतः ॥७॥
———————————————————————————————————————
॥ १.१६.८ ॥
न3** कश्चिन् म्रियते तावद् यावद् आस्त इहान्तकः ।**
एतद्-अर्थं हि भगवान् आहूतः परमर्षिभिः ।
अहो नृ-लोके पीयेत हरि-लीलामृतं वचः4** ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **एतद्-अर्थं मृत्युर् उपहूतः । अहो न्र् लोके पीयेतेति ॥८॥
———————————————————————————————————————
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यो मृत्युः स इह सत्रे शमितुर् इदं शामित्रं कर्म पशु-हिंसनं तद्-अर्थम् उपहूतः । ततः किम् ? अत आह—न कश्चिद् इति । ततोऽपि किम् ? अत आह—अहो नृ-लोके हरि-लीलामृतं वचः पीयेतेतु एतद्-अर्थम् । हरि-लीलैवां यस्मिंस् तत् ॥९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यावद् इह हरि-कथायाम् आस्ते तावद् इह कश्चिन् न म्रियेत । तच् चैषां श्रोतॄणां मरण-निवारण-कारणं मृत्य्व्-आह्वानं निर्विघ्न-हरि-कथामृत-पानार्थम् एवेत्य् आह—एतद्-अर्थम् इति ॥८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततः किम् ? अत आह—न कश्चिद् इति । ततोऽपि किम् ? अत आह—अहो इति ॥८॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ततः किम्? अत आह—न कश्चिद् इति ॥८॥
———————————————————————————————————————
॥ १.१६.९ ॥
मन्दस्य मन्द-प्रज्ञस्य वयो मन्दायुषश् च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थ-कर्मभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-अभावे वृथैव जीवनम् इत्य् आह । मन्दस्यालसय । नक्तं रात्रौ यद् वय आयुस् तन् निद्रया ह्रियते । दिवा अह्नि च यद् वयस् तद् व्यर्थ-कर्मभिर् अपह्रियते ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्यथा आयुषो वैयर्थ्यम् इत्य् आह—मन्दस्येति ॥९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ततोऽपि किम्? अत आह—अहो इति, इतरथायुषो वैयर्थ्यम् इत्य् आह—मन्दस्येति ॥९॥
———————————————————————————————————————
॥ १.१६.१० ॥
सूत उवाच—
यदा परीक्षित् कुरु-जाङ्गलेऽवसत्
कलिं प्रविष्टं निज-चक्रवर्तिते ।
निशम्य वार्ताम् अनतिप्रियां ततः
शरासनं संयुग-शौण्डिर् आददे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तावत् कलि-निग्रह-प्रसङ्गम् आह—यदेति । यदा जिज-चक्रवर्तिते स्व-सेनया पालिते देशे कलिं प्रविष्टं शुश्राव5, तदा ताम् अनतिप्रियां वार्तां किंचित् प्रियां च युद्ध-कौतुक-संपत्तेः निशम्य ततः शरासनं दुष्ट-निग्रहार्थम् आददे । संयुगे शौण्डिर् युद्धे प्रगल्भः । पाठन्तरे6 युद्धे शौरिः कृष्ण-तुल्यः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यदा निज-चक्र-वर्तिते स्व-सेनया पालिते देशे कलिं प्रविष्टम् एव अनतिप्रियां वार्तां तज्-जिघांसया किञ्चित् प्रियां च निशम्य शरासनम् आददे तदैव पुरात् दिग्-विजयाय निर्गत इत्य् अन्वयः । अत्र प्रविष्टः कलिर् एवानतिप्रिया वार्तेत्य् अनुवाद-विधेय-भावो विवक्षितो ज्ञेयः । शौण्डिः प्रगल्भः । संयुग-शौरिर् इति पाठे संयुगे शौरि-तुल्यः ॥१०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **निजचक्रेण स्वसैन्येन वर्तिते पालिते कुरु-जाङ्गले प्रविष्टं कलिं तस्यान् अतिप्रियां संयुग-शौण्डित्वात् किञ्चित्-प्रियां वार्तां च निशम्य ततः शरासनं धनुर् आददे, शौण्डिर् निपुणः ॥१०॥
———————————————————————————————————————
॥ १.१६.११ ॥
स्वलङ्कृतं श्याम-तुरङ्ग-योजितं
रथं मृगेन्द्र-ध्वजम् आश्रितः पुरात् ।
वृतो रथाश्व-द्विपपत्ति-युक्तया
स्व-सेनया दिग्-विजयाय निर्गतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च दिग्विजयाय निर्गतः ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत एव दिग्-विजयाय तत्-तद्-दिक्-स्थित-दुष्ट-राजादि-वशीकाराय ॥११॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **रथम् आस्थितः सेनयावृतो दिग्विजयाय पुरान्-निर्गतः ॥११॥
———————————————————————————————————————
॥ १.१६.१३ ॥
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भद्राश्वादीनि पूर्व-पश्चिम-दक्षिणोत्तरतः समुद्र-लग्नानि वर्षाणि । मेरोः सर्वत इलावृतम् ॥ तत उत्तरतो रम्यकं हिरण्मयं च । दक्षिणतो हरिवर्षं किंपुरुषं च ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च तत्-प्रभावेण निह्नुत-स्व-प्रभावे सति भारतवर्ष-मात्राधिकारिणि कलौ प्रसङ्गतो भद्राश्वादीन्य् अपि जेतुं गतः । क्रमस्त्व् अत्र न विवक्षितः ॥१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **भद्राश्वादीनि पूर्व-पश्चिम-दक्षिणोत्तरतः समुद्र-लग्नानि वर्षाणि, मेरोः समन्ताद् इलावृतं, तत उत्तरोत्तरात् रम्यकं हिरन्मयं च । दक्षिणतो हरि-वर्षं किम्-पुरुषं चोत्तर-कुर्व्-आख्यानि ॥१३॥
———————————————————————————————————————
॥ १.१६.१४ ॥7
तत्र तत्रोपशृण्वानः स्व-पूर्वेषां महात्मनाम् ।
_नगरांश् च वनांश् चैव नदीश् च विमलोदकाः ।_
_पुरुषान् देव-कल्पांश् च नारीश् च प्रिय-दर्शनाः ॥_
_अदृष्ट-पूर्वान् सुभगान् स ददर्श धनञ्जयः ।_
_सदनानि च शुभ्राणि नारीश् चाप्सरसां निभाः ॥_
प्रगीयमाणं च यशः कृष्ण-माहात्म्य-सूचकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रगीयमानं यशः । यश-आदीनि शृण्वंस् तेभ्यो ददाव् इति तृतीयेनान्वयः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स्व-पूर्वेषां युधिष्ठिरादीनां स्वस्य च कृष्ण-माहात्म्य-सूचकं **यशः **शृन्वन् ॥१४॥
———————————————————————————————————————
॥ १.१६.१५ ॥
आत्मानं च परित्रातम् अश्वत्थाम्नोऽस्त्र-तेजसः ।
स्नेहं च वृष्णि-पार्थानां तेषां भक्तिं च केशवे ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद्-यशसा कथं तन्-माहात्म्यं सूच्यते? तत्राह—आत्मानं चेति ॥१५॥
———————————————————————————————————————
॥ १.१६.१६ ॥
तेभ्यः परम-सन्तुष्टः प्रीत्य्-उज्जृम्भित-लोचनः ।
महा-धनानि वासांसि ददौ हारान् महा-मनाः ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तेभ्यो यशो-गायकेभ्यः ॥१६॥
———————————————————————————————————————
॥ १.१६.१७ ॥
सारथ्य-पारषद-सेवन-सख्य-दौत्य-
वीरासनानुगमन-स्तवन-प्रणामान् ।
स्निग्धेषु पाण्डुषु जगत्-प्रणतिं च विष्णोर्
भक्तिं करोति नृ-पतिश् चरणारविन्दे8** ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर् विशेषतो भक्तिं करोति ॥१७॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, स्निग्धेषु पाण्डवेषु विष्णोर् यानि सारथ्यादीनि कर्माणि, तानि शृण्वन्,9 तथा विष्णोर् जगत्-कर्तृकां प्रणतिं च शृण्वन्, नृपतिः परीक्षिद् विष्णोश् चरणारविन्दे भक्तिं करोति स्म । पारषदम् इति रेफ-षारयोर् विश्लेषश् छान्दसः । तत्र पार्षदं सभा-पतित्वम् । सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्ग-हस्तस्य तिष्ठतो जागरणम् ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (प्रीति-सन्दर्भः, १२९) : मैत्री-वश्यत्वम् **आह—सारथ्य- इत्य्-आदि । स्निग्धेषु पाण्डुषु विष्णोर् यानि सारथ्यादीनि कर्माणि, तानि शृण्वंस् तथा विष्णोर् जगत्-कर्तृकां प्रणतिं च शृण्वन् नृपतिः परीक्षिद् विष्णोश् चरणारविन्दे भक्तिं करोति । पारषदं पार्षदत्वं सभा-पतित्वम् । सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्ग-हस्तस्य तिष्ठतो जागरणम् ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, स्निग्धेषु पाण्डवेषु विष्णोर् यानि सारथ्यादीनि कर्माणि तानि शृण्वन्, तथा विष्णोर् जगत्-कर्तृकां प्रणतिं च शृण्वन् । तत्र पार्षदं सभा-पतित्वम् । सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्ग-हस्तस्य तिष्ठतो जागरणम् ॥१७॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किं च, स्निग्धेषु पाण्डुषु विष्णु-कर्तृकाणि सारथ्यादीनि । जगत्-कर्तृकां विष्णोः प्रणतिं च शृन्वन् नृपतिः परीक्षित् भक्तिं करोति, पार्षदं स-दम्पतित्वं, सेवनम् आज्ञा-पालनं । वीरासनं खड्ग-हस्ततया तिष्ठतो निशि जागरः ॥१७॥
———————————————————————————————————————
॥ १.१६.१८ ॥
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् ।
नातिदूरे किलाश्चर्यं यद् आसीत् तन् निबोध मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वृत्तिम् अनु वर्तमानस्य सतः । नातिदूरे शीघ्रम् एव ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **जित्वा च निवृत्ति-समये क्वचिन् निह्नुत्य भ्रमन् स्व-राज्यस्य नातिदूर एव साक्षात् कलिं ददर्श । तद्-दूर-गमने पुनः कृत-धार्ष्ट्यत्वाद् इति ज्ञेयम् । तथैवाह—तस्येति ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्व् इति शेषः । अन्वहम् अनु वर्तमानस्य ॥१८॥
———————————————————————————————————————
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अन्व् अहम् अनुवर्तमानस्य ॥१८॥
———————————————————————————————————————
॥ १.१६.१९ ॥
धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् ।
पृच्छति स्माश्रु-वदनां विवत्साम् इव मातरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्मो वृष-रूपः । विच्छायां हत-प्रभाम् । गां गो-रूपां पृथ्वीम् । विवत्सां नष्टापत्याम् ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **काम् इव कां तत्राह— विवत्साम् इव मातरम् इति । यथा नष्टापत्यां स्व-मातरं कोऽपि पृच्छति तथा ताम् अपृच्छद् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्म इति । युगारम्भ-क्षणत एव धर्म-पृथ्वी-कलयस् तथा-भूती-भवन्तो लोकैर् अदृश्या अपि दिदृक्षणीयत्वाद् अनुध्यायतः परीक्षितो योगज-नेत्राभ्यां दृष्टा ज्ञेयाः । धर्मो वृष-रूपः विच्छायां हत-प्रभाम् ॥१९॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **धर्मो वृष-रूपः, विच्छायां हत-प्रभां, विवत्सां हतापत्याम् ॥१९॥
———————————————————————————————————————
॥ १.१६.२० ॥
धर्म उवाच—
**कच्चिद् भद्रेऽनामयम् आत्मनस् ते **
विच्छायासि म्लायतेषन् मुखेन ।
**आलक्षये भवतीम् अन्तर् आधिं **
दूरे बन्धुं शोचसि कञ्चनाम्ब ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेआत्मनो देहस्य यद्यपि बहिर् आमयो न लक्ष्यते, तथाप्य् अन्तर् मध्ये आधिः पीडा यस्यास् तां त्वाम् आलक्ष्ये । केन ? यतो विच्छायासि, अत ईषन् म्लायता वैवर्ण्यं भजता मुखेन लिङ्गेन । तत्र कारणानि कल्पयन् पृच्छति—दूरे बन्धुभिर् इत्य्-आदि पञ्चभिः । दूरे स्थितं बन्धुम् ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कच्चिद् इति । अत्रेषच्-छब्दोऽनायासे वर्तते । ईषद्-दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् [पा। ३.३.१२६] इत्य् अत्रेषत्-कर इतिवत् । ततश् चेषद् अनायासेनालक्षय इति योज्यम् ॥२०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनो देहस्य । अनामयम् आरोग्यम् । किं च, अन्तर् मध्ये आधिः पीडा यस्यास् तां तत्र कारणानि कल्पयन् पृच्छति दूरे बन्धुम् इति ॥२०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कच्चित् प्रश्ने, हे भद्रे! ते तव् आत्मनो देहस्यानाम् अयम् आरोग्यम् अस्ति? यद्यपि बहिर्नामयः प्रतीयते, तथापि भवतीम् अन्तराधिं हृद्-गत-व्यथाम् आलक्ष्ये । कुतः विच्छाया हत-प्रभासि? ईषन्-म्लायता वैवर्ण्यवता मुखेन लिङ्गेन तथा ज्ञायसे, तत्र हेतून् विकल्पयन् पृच्छति—दूरे-बन्धुम् इति पञ्चभिः ॥२०॥
———————————————————————————————————————
॥ १.१६.२१ ॥
पादैर् न्यूनं शोचसि मैक-पादम्
आत्मानं वा वृषलैर् भोक्ष्यमाणम् ।
आहो सुरादीन् हृत-यज्ञ-भागान्
प्रजा उत स्विन् मघवत्य् अवर्षति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रिभिः पादैर् न्यूनम् अत एकैक-पादम् । मा मां मल्-लक्षणं जनम् इत्य् अर्थः । वृषलैर् इत ऊर्ध्वं भोक्ष्यमाणम् । पुंस्त्वम् आत्म-पद-विशेषणत्वात् । हृता यज्ञ-भागा येषां तान् । यज्ञाद्य्-अकरणात् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मा माम् । वृषलैर् म्लेच्छैर् अत ऊर्ध्वम् आत्मानं भोक्ष्यमाणम् । पुंस्त्वम् आत्मपद-विशेषणत्वात् ॥२१॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्रिभिः पादैर् न्यूनम् एकपादं मां शोचसि, आत्मानं स्वं चेत उर्द्ध्वं वृषलैः शूद्रैर् भोक्ष्यमाणं । पुंस् त्वम् आत्म-पद-विशेषणत्वात् । अहो किम् वा हत यज्ञ-भागान् सुरादीन् । उतस्विद् अथवा मघवत्य-वर्षति क्लिष्टाः प्रजाः शोचसि? ॥२१॥
———————————————————————————————————————
॥ १.१६.२२ ॥
**अरक्ष्यमाणाः स्त्रिय उर्वि बालान् **
शोचस्य् अथो पुरुषादैर् इवार्तान् ।
**वाचं देवीं ब्रह्म-कुले कुकर्मण्य् **
अब्रह्मण्ये राज-कुले कुलाग्र्यान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे उर्वि पृथ्वि, भर्तृभिर् अरक्षयमाणाः स्त्रियः पितृभिर् अरक्षयंआणान् बालान् प्रत्युत तैर् एव पुरुषादैर् इव निर्दयैर् आर्तान् क्लिष्टान् । वाचं देवीं सरस्वतीं कुकर्मणि दुराचारे स्थिताम् । कुलाग्र्यान् ब्राह्मणोत्तमान् सेवकान् ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भर्तृभिर् अरक्ष्यमाणाः स्त्रियः । पितृभिर् अरक्ष्यमाणान् बालान् प्रत्युत तैर् एव पुरुषादैर् इव निर्दयैर् आर्तान् क्लेशितान् । वाचं पाण्डित्य-लक्षणां सरस्वतीं कुकर्मणि दुराचारे । ब्राह्मण-भक्ति-हीनेऽपि राज-वंशे उत्पन्नान् कुलाग्र्यान् कुलीनत्वेन ख्यापितान् ॥२२॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पतिभिर् अरक्ष्यमाणाः स्त्रियः, पितृभिर् अपाल्यमानान् बालान्, प्रत्युत तैः पुरुषादै राक्षसैर् इव निर्दयैर् आर्तान् क्लेशितान् । वाचं देवीं पाण्डित्य-लक्षणां सरस्वतीं कुकर्मणि दुराचारे ब्रह्म-कुले स्थिताम् । अब्रह्मण्ये विप्र-भक्ति-शून्ये राज-कुले जातान् कुलाग्र्यान् कुलीनत्वेन ख्यातान् शोचसि? ॥२२॥
———————————————————————————————————————
॥ १.१६.२३ ॥
**किं क्षत्र-बन्धून् कलिनोपसृष्टान् **
राष्ट्राणि वा तैर् अवरोपितानि ।
**इतस् ततो वाशन-पान-वासः- **
स्नान-व्यवायोन्मुख-जीव-लोकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसृष्टान् व्याप्तान् । अवरोपितान्य् उद्वासितानि । व्यवायो मैथुनम् । इतस् ततो निषेधानादरेण सर्वतोऽश्नादिष्ऊन्मुखं प्रवर्तमानं जीव-लोकं वा ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसृष्टान् व्याप्तान् । अवरोपितानि उद्वासितानि ॥२३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कलिनोपसृष्टान् व्याप्तान् क्षत्र-बन्धून्, तैर् अवरोपितान्युज्जटितानि राष्ट्राणि वा, इतस् ततो विधि-निषेधान् आदरेणाशनादिषून्मुखं जीव-लोकं वा शोचसि? व्यवायो मैथुनम् ॥२३॥
———————————————————————————————————————
॥ १.१६.२४ ॥
**यद्वाम्ब ते भूरि-भरावतार- **
कृतावतारस्य हरेर् धरित्रि ।
**अन्तर्हितस्य स्मरती विसृष्टा **
कर्माणि निर्वाण-विलम्बितानि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे अम्ब मातः हे धरित्रि, ते तव यो भूरि-भारस् तस्यावतारणार्थं कृतावतारस्य कर्माणि स्मरन्ती तेन विसृष्टा सती शोचसि । निर्वाणं विलम्बितम् आश्रितं येषु तानि । पाठान्तरे निर्वाणं विडम्बितम् उपहसितं यैः । मोक्षाद् अप्य् अधिक-सुखानीत्य् अर्थः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **निर्वाण-विडम्बितानीत्य् अत्र निर्वाणं विडम्बितं यैर् इति विग्रहः । निर्वाणस्य सुखादित्वात् पूर्व-निपातः । डलयोर् एकत्वात् पाठ-द्वयम् अपि समानार्थम् ॥२४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भुवो भारस् तस्य अवतारणार्थं कृतोऽवतारो येन तस्य कर्माणि स्मरन्ती । यतस् तेन त्वं विसृष्टा त्यक्ता । निर्वाणं कैवल्यं विडम्बितं स्व-माधुर्येण उपहासास्पदीकृतं यैस् तानि । ड-लयोर् ऐक्यात् पाठ-द्वयम् अपि समानार्थम् ॥२४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अम्ब हे धरित्रि! अन्तर् हितस्य हरेः कर्माणि स्मरन्ती तेन विसृष्टा त्यक्ता सती शोचसि । कीदृशस्य? इत्य् आह—ते तव भरावताराय कृतोऽवतारः प्राकट्यं येन तस्य । कर्माणि कीदृंशि? इत्य् आह—निर्वाणं विलम्बितम् आश्रितं येषु तानि । यद् वा, ड-लयोर् ऐक्यात् निर्वाणं विडम्बितं स्व-माधुर्येणोपहसितं यैस् तानि ॥२४॥
———————————————————————————————————————
॥ १.१६.२५ ॥
इदं ममाचक्ष्व तवाधि-मूलं
वसुन्धरे येन विकर्शितासि ।
कालेन वा ते बलिनां बलीयसा
सुरार्चितं किं हृतम् अम्ब सौभगम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे अम्ब, ते सौभाग्यं कालेन वा हृतम् ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विकर्शितासि विशेषेण कृशीकृतासि ॥२५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विकर्शितासि विशेषेण कृशीकृतासि ॥२५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विकर्षिता विशेषेण कृषीकृतासि, किम् वा ते सौभगं कालेन हृतम्? ॥२५॥
———————————————————————————————————————
॥ १.१६.२६ ॥
धरण्य् उवाच—
भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि ।
चतुर्भिर् वर्तसे येन पादैर् लोक-सुखावहैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भवान् जानात्य् एव तथापि वक्ष्यामीत्य् आह । येन हेतु-भूतेन त्वं चतुर्भिः पादैर् वर्तसे । यत्र च सत्यादयो महा-गुणा न वियन्ति (न क्षीयन्ते स्म) तेन श्री-निवासेन रहितं लोकं शोचामीति षष्ठेनान्वयः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यद्यप्य् अहं जानामि तद् अपि त्वन्-मुखात् श्रोतुम् इच्छामीत्य् अत आह—चतुर्भिर् इति । येन हेतु-भूतेन त्वं चतुर्भिः पादैर् वर्तसे इति वर्तमान-सामीप्ये वर्तमान-प्रयोगः । तेन श्रीनिवासेन रहितं लोकं शोचामीति षष्ठेनान्वयः ॥२६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :**हे धर्म! यन्-मां पृच्छति तत् सर्वं भवान् वेद, तथापि त्वन्-मुखात् श्रोतव्यम् इति चेत्-तत्राह—येन रक्षकेण त्वं चतुर्भिः दया-सत्य-तपः-शोचैः पादैर् वर्तसेऽवर्तिष्ठाः वर्तमान-सामीप्ये वर्तमानवद् वा [पा।] इति सूत्रं, तेन श्रीनिवासेन रहितं लोकं शोचामीति षष्ठेन सम्बन्धः ॥२६॥
———————————————————————————————————————
॥ १.१६.२७-३० ॥
सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥
ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानोऽनहङ्कृतिः ॥
एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) : **त्यागो मिथ्याभिमान-वर्जनम् । मिथ्याभिमान-विरतिस् त्याग इत्य् अभिधीयते इति नारायणाध्यात्मे । एकान्ततः शुभ-भागित्वं सौभाग्यम् । शुभैक-भागी सुभगो दुर्भगस् तद्-विपर्यय इति गीता-कल्पे ।
शमः प्रियाद् बुद्ध्य्-उत्सादः क्षमा-क्रोधाद्य्-अनुत्थितिः ।
महा-विरोध-कर्तुश् च सहनं तु तितिक्षणम् ॥ इति पाद्मे ।
स्वयं सर्वस्य कर्तृत्वात् कुतस् तस्य प्रियाप्रियः ॥ इति च ।
प्रियम् एव यतः सर्वं प्रियं नास्ति कुत्रचित् ।
स्वयम् एव यतः कर्ता शान्तोतो हरिर् ईश्वरः ॥ इति ब्रह्म-तर्के ।
मानः परेशाम् ।
गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः ।
न विष्णोर् न च मुक्तानां कोऽपि भिन्नेद् गुणो मतः ॥ इति ब्रह्म-तर्के ।
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यं यथार्थ-भाषणम् । शौचं शुद्धत्वम् । दया पर-दुःखासहनम् । क्षान्तिः क्रोध-प्राप्तौ चित्त-संयमनम् । त्यागोऽर्थिषु मुक्त-हस्तता । सन्तोषोऽलं-बुद्धिः । आर्जवम् अवक्रता । शमो मनो-नैश्चल्यम् । दमो बाह्येन्द्रिय-नैश्चल्यम् । तपः स्वधर्मः। साम्यम् अरि-मित्राद्य्-अभावः । तितिक्षा परापराध-सहनम् । उपरतिर् लाभ-प्राप्ताव् औदासीन्यम् । श्रुतं शास्त्र-विचारः ॥२७॥
ज्ञानम् आत्म-विषयम् । विरक्तिर् वैतृष्ण्यम् । ऐश्वर्यं नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्सहः । तेजः प्रभावः । बलं दक्षत्वम् । स्मृतिः कर्तव्याकर्तव्यार्थानु-सन्धानम् । स्वातन्त्र्यम् अपराधीनता । कौशलं क्रिया-निपुणता । कान्तिः सौन्दर्यम् । धैर्यम् अव्याकुलता । मार्दवं चित्ताकाठिन्यम् ॥२८॥
प्रागल्भ्यं प्रतिभातिशयः । प्रश्रयो विनयः । शीलं सुख-भावः । सह-ओजो-बलानि मनसो ज्ञानेद्रियाणां कर्मेन्द्रियाणां च पाटवानि । भगो भोगास्पदत्वम् । गम्भीर्यम् अक्षोभ्यत्वम् । स्थैर्यम् अचञ्चलता । आस्तिक्यं श्रद्धा । कीर्तिर् यशः । मानः पूज्यत्वम् । अनहङ्कृतिर् गर्वाभावः ॥२९॥
एते एकोन-चत्वारिंशत् । अन्ये च ब्रह्मण्य-शरण्यत्वादयो महान्तो गुणा यस्मिन् नित्याः सहजा न वियन्ति न क्षीयन्ते स्म ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र सत्यम् इत्य्-आदि । **सत्यं **यथार्थ-भाषणम् । **शौचं **शुद्धत्वम् । **दया **पर-दुःखासहनम्, अनेन शरणागत-पालकत्वं भक्त-सुहृत्त्वं च । **क्षान्तिः **क्रोधापत्तौ चित्त-संयमः । **त्यागो **वदान्यता । **सन्तोषः **स्वतस् तृप्तिः । आर्जवम् अवक्रता । **शमो **मनो-नैश्चल्यम् अनेन सुदृढत्वं च । **दमो **बाह्येन्द्रिय-नैश्चल्यम् । **तपः **क्षत्रियत्वादि-लीलावतारानुरूपः स्व-धर्मः । **साम्यं **शत्रु-मित्रादि-बुद्ध्य्-अभावः । **तितिक्षा **स्वस्मिन् परापराध-सहनम् । **उपरतिर् **लाभ-प्राप्ताव् औदासीन्यम् । **श्रुतं **शास्त्र-विचारः ।
**ज्ञानं **पञ्च-विधम्—बुद्धिमत्त्वं कृतज्ञत्वं देश-काल-पात्रज्ञत्वं सर्वज्ञत्वम् आत्मज्ञत्वं च । **विरक्तिर् **असद्-विषय-वैतृष्ण्यम् । **ऐश्वर्यं **नियन्तृत्वम् । **शौर्यं **सङ्ग्रामोत्साहः । **तेजः **प्रभावः । अनेन प्रतापश् च । स च प्रभाव-विख्यातिः । **बलं **दक्षत्वम् । तच् च दुष्कर-क्षिप्र-कारित्वम् । **धृतिर् **इति पाठे क्षोभ-कारणे प्राप्तेऽव्याकुलत्वम् । **स्मृतिः **कर्तव्यार्थानुसन्धानम् । स्वातन्त्र्यम् अपराधीनता ।
**कौशलं **त्रिविधं—क्रिया-निपुणता युगपद्-भूरि-समाधान-कारिता-लक्षणा चातुरी कला-विलास-विद्वत्ता-लक्षणा वैदग्धी च । **कान्तिः **कमनीयता । एषा चतुर्विधा—अवयवस्य हस्ताद्य्-अङ्गादि-लक्षणस्य वर्ण-रस-गन्ध-स्पर्श-शब्दानाम् । तत्र रसश् चाधार-चरण-स्पृष्ट-वस्तु-निष्ठो ज्ञेयः । वयसश् चेति । एतया नारी-गण-मनोहारित्वम् अपि । धैर्यम् अव्याकुलता । **मार्दवं **प्रेमार्द्र-चित्तत्वम् । अनेन प्रेम-वश्यत्वं च ।
**प्रागल्भ्यं **प्रतिभातिशयः । अनेन वावदूकत्वं च । प्रश्रयो विनयः । अनेन ह्रीमत्त्वम् । यथा-युक्त-सर्व-मान-दातृत्वम् । प्रियंवदत्वं च । **शीलं **सु-स्वभावः । अनेन साधु-समाश्रयत्वं च । **सहो **मनः-पाटवम् । **ओजो **ज्ञानेन्द्रिय-पाटवम् । **बलं **कर्मेन्द्रिय-पाटवम् । **भगस् **त्रिविधः—भोगास्पदत्वं सुखित्वं सर्व-समृद्धिमत्त्वं च ।
**गाम्भीर्यं **दुर्विबोधाशयत्वम् । स्थैर्यम् अचञ्चलता । **आस्तिक्यं **शास्त्र-चक्षुष्ट्वम् । **कीर्तिः **साद्गुण्य-ख्यातिः । अनेन रक्त-लोकत्वं च । **मानः **पूज्यत्वम् । **अनहङ्कृतिस् **तथापि गर्व-रहितत्वम् । च-काराद् ब्रह्मण्यत्वम् । सर्व-सिद्धि-निषेवितत्वम् । सच्-चिद्-आनन्द-घन-विग्रहत्वादयो ज्ञेयाः । महत्त्वम् इच्छद्भिः प्रार्थ्या इति महा-गुणा इति च । वरीयस्त्वम् अपि गुणान्तरम् ।
एतेन तेषां गुणानाम् अन्यत्र स्वल्पत्वं चञ्चलत्वं च । तत्रैव पूर्णत्वम् अविनश्वरत्वं चोक्तम् । अत एव श्री-सूत-वाक्यम्—
नित्यं निरीक्षमाणानां यद् अपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ [भा।पु। १.११.२६] इति ।
तथा नित्या इति न वियन्तीति सदा स्वरूप-गुणान्तरम् । अन्ये च जीवालभ्या यथा तत्राविर्भाव-मात्रत्वेऽपि सत्य-सङ्कल्पत्वम् । वशीकृताचिन्त्यमायत्वम् । आविर्भाव-विशेषत्वेऽप्य् अखण्ड-सत्त्व-गुणस्य केवल-स्वयम्-अवलम्बनत्वम् । जगत्-पालकत्वम् । यथा तथा हतारि-स्वर्ग-दातृत्वम् । आत्माराम-गणाकर्षित्वम् । ब्रह्म-रुद्रादि-सेवितत्वम् । परमाचिन्त्य-शक्तित्वम् । आनन्त्येन नित्य-नूतन-सौन्दर्याद्य्-आविर्भावत्वम् । पुरुषावतारत्वेऽपि माया-नियन्तृत्वम् । जगत्-सृष्ट्य्-आदि-कर्तृत्वम् । गुणावतारादि-बीजत्वम् । अनन्त-ब्रह्माण्डाश्रय-रोम-विवरत्वम् । वासुदेवत्व-नारायणत्वादि-लक्षण-भगवत्त्वाविर्भावेऽपि स्वरूप-भूत-परमाचिन्त्याखिल-महा-शक्तिमत्त्वम् । स्वयं भगवल्-लक्ष्ण-कृष्णत्वे तु हतारि-मुक्ति-भक्ति-दायकत्वम् । स्वस्यापि विस्मापक-रूपादि-माधुर्यवत्त्वम् । अनिन्द्रियाचेतन-पर्यन्ताशेष-सुख-दातृ-स्व-सान्निध्यत्वम् इत्य् आदयः । तद् एतद् दिङ्-मात्र-दर्शनम्, यत आह—गुणात्मनस् तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य [भा।पु। १०.१४.७] इत्य्-आदि ॥२७-३१॥ [प्रीति-सन्दर्भः ११६-११७]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं यथार्थ-भाषणम् । शौचं शुद्धत्वम् । दया पर-दुःखासहनम् । अनेन शरणागत-पालकत्वं भक्त-सुहृत्त्वं च । क्षान्तिः क्रोधोत्पत्तौ चित्त-संयमः । त्यागो वदान्यता । सन्तोषः स्वतस् तृप्तिः । आर्जवम् अवक्रता । शमो मनो-नैश्चल्यम्, अनेन सुदृढ-व्रतत्वम् अपि । दमो बाह्येन्द्रिय-नैश्चल्यम् । तपः क्षत्रियत्वादि-लीला-रूपः स्व-धर्मः । साम्यं शत्रु-मित्रादि-बुद्ध्य्-अभावः । तितिक्षा स्वस्मिन् परापराधस्य सहनम् । उपरतिर् भोग-प्राप्ताव् औदासीन्यम् । श्रुतं शास्त्र-विचारः ॥
ज्ञानं सर्वज्ञत्वं कृतज्ञत्वादिकं च । विरक्तिर् वैतृष्ण्यम् । ऐश्वर्यं नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्साहः । तेजः प्रभावः । बलं दक्षत्वम् । स्मृतिः कर्तव्यार्थानुसन्धान-रूपा । स्वातन्त्र्यम् अपराधीनता । कौशलं कला-विलासादि-वैदग्धी । कान्तिः कमनीयता । धैर्यम् अव्याकुलत्वम् । मार्दवं सुकुमारत्वं प्रेमार्द्रत्वं च ॥
प्रागल्भ्यं प्रतिभातिशयः । प्रश्रयो विनयः । सहस्तेजोबलानि मनसो ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च पाटवानि । भगो भोगास्पदत्वम् । गाम्भीर्यम् अक्षोभ्यत्वम् । स्थैर्यम् अचञ्चलता । आस्तिक्यं श्रद्धा । कीर्तिर् यशः । मानः पूज्यत्वम् । अनहङ्कृतिर् गर्वाभावः ।
इमे च अन्ये च सत्यसङ्कल्पत्वब्रह्मण्यत्वभक्तवात्सल्यादयो नित्याः सर्व-कालवर्तिनो महागुणाः । मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् इति भगवद्-उक्त्या गुणातीतस्यापि तस्य गुणवत्त्वान् महा-गुणाः अप्राकृताश् चिन्-मयाः स्वरूप-भूता इत्य् अर्थः । कर्हिचिन् महा-प्रलयेऽपि न वियन्ति न विगता भवन्ति । तथा हि सत्यं यथार्थ-भाषणम् । तद्-आदीनां गुणानां तदैव नित्यत्वं स्यात् यदि ते महा-प्रलयम् अभिव्याप्य नैरन्तर्येण तत्र श्री-कृष्णे तिष्ठन्ति । तेषां नित्यत्वे सति यान् प्रति भाषणादिकं तेषां तद्-वास-स्थानानाम् अपि नित्यत्वम् उपपन्नम् अतो लीलानां लीला-परिकराणां पार्षदानां धाम्नां च तदीयानां सर्वेषां नित्यत्वं सिद्धम् ॥२७-३०॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **सत्यं यथार्थ-भाषणं, शौचं शुद्धत्वं पावनत्वं वा, द्रव्य-तारतम्यानादरेण भक्ति-मात्र-प्रसन्नत्व-रूपा भाव-शुद्धिर् वा । दया निर्निमित्त-पर-दुःख-परिजिहीर्षा, तया शरण्यत्वं सुहृत्वं च । क्षान्तिः क्रोध-प्राप्तौ चित्त-संयमः, त्यागो याचकेषु मुक्त-हस्तता, सन्तोषः स्वानन्द-पूर्णता, आर्जवं मनो-वाक्-कायैक-रूप्यं, शमो मनो-नैश्चल्यं तेन सुदृढव्रतत्वञ् च, दमो बाह्येन्द्रिय-नैश्चल्यं, तपः क्षत्रियत्वादि-लीलानुगुण-स्वधर्माचारः, साम्यं जाति- गुणादि-वैषम्य-भाजां शरण्यतायाम् अवैशिष्ट्यं शत्रु-मित्रादि-बुद्धि-विरहो वा । तितिक्षा परापराध-सहता, उपरतिर् लाभेम्ष्व् औदासीन्यं, श्रुतं शास्त्र-विचारः ॥२७॥ \
\
ज्ञानं सर्व-साक्षात्कार-रूपं सार्वज्ञ्यं कृतज्ञत्वं च । विरक्तिर् वितृष्णता, ऐश्वर्यं नियन्तृत्वं शौर्यं युद्धोत्साहः, तेजः पराभिभव-सामर्थ्यं बलं सर्व-धारण-शक्तिः, स्मृतिः कर्तव्यानुसन्धिः, स्वातन्त्र्यम् अपराधीनत्वं, कौशलं क्रिया-नैपुण्यं, कान्तिर् यथोचिताङ्ग-सन्-निवेश-लक्षणं सौन्दर्यं, धैर्यम् अभग्न प्रतिज्ञत्वं, मार्दवं सौकुमार्यं, भक्त-विच्छेदासहत्वं वा ॥२८॥ \
\
प्रागल्भ्यं प्रतिभातिशयः, प्रश्रयो विनयित्वं, शीलं शोभन-स्वभावत्वं महतो मन्तरैर् अप्य् अभिमुखैः सह नीरन्ध्र-प्रणयः, सह ओजो बलानि क्रमान्-मनोज्ञानेन्द्रिय-कर्मेन्द्रिय-पाटवानि, भगो भोगास्पदता, गाम्भीर्यं भक्तापराधैस् तत्-प्रदर्शकैश् चाक्षोभ्यत्वं, स्थैर्यं सदैकरस्यम् अचापल्यं वा । आस्तिक्यं शास्त्र-तद् अथानुष्ठाश्रद्धा, कीर्तिः साद्-गुण्यख्यातिः, मानः सर्व-पूज्यत्वम्, अनहङ्कृतिर् अगर्वत्वम् ॥२९॥ \
\
गुणानाम् एषां नित्यताम् आह—इमे चोक्ताः अन्ये चानुक्ताः सत्य-सङ्कल्पत्व-ब्रह्मण्यत्वादयः । यस्मिन्-नित्याः सार्व-कालिकाः महा-गुणाः प्रत्येकं पूर्णाः । महत्त्वम् इच्छद्भिः प्रार्थ्याः स्तुत्याः यान् स्तुवन्तो महत्तां लभन्ते इत्य् अर्थः । कर्हिचिन्-महा-प्रलयेऽपि न वियन्ति स्वाश्रयाद् विगता न भवन्ति, स्वानुबन्धित्वाद्-रवेरिवौष्ण्यादयः ॥३०॥
———————————————————————————————————————
॥ १.१६.३१ ॥
तेनाहं गुण-पात्रेण श्री-निवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेन गुण-पात्रेण गुणालयेन । पाप्मना पाप-हेतुना ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **गुण-पात्रेण गुणालयेन । ईक्षितम् आक्रान्तम् ॥३१॥
———————————————————————————————————————
॥ १.१६.३२ ॥
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।
देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस् तथाश्रमान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मानम् इत्य् आदाव् अपि तेन रहितम् इत्य्-आदि योज्यम् ॥३२॥
———————————————————————————————————————
॥ १.१६.३३ ॥
**ब्रह्मादयो बहु-तिथं यद्-अपाङ्ग-मोक्ष- **
कामास् तपः समचरन् भगवत्-प्रपन्नाः ।
**सा श्रीः स्व-वासम् अरविन्द-वनं विहाय **
यत्-पाद-सौभगम् अलं भजतेऽनुरक्ता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य विरहो दुःसह इत्य् आह चतुर्भिः । ब्रह्मादयो यस्याः श्रियोऽपाङ्ग-मोक्षः स्वस्मिन् दृष्टि-पातस् तत्-कामाः सन्तो बहु-तिथं बहु-कालं तपःसमचरन् सम्यक् चरन्ति स्म । भगवद्भिर् उत्तमैः प्रपन्ना आश्रितापि सा श्रीर् यस्य पाद-लावण्यम् अलमनुरक्ता सती सेवते ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवन्तं प्रपन्ना अपि तस्या अपि प्रेयसीत्वात् यस्याः कृपा-कटाक्ष-कामा ब्रह्मादयोबहु-तिथं बहूनां कालानां पूरणं कालं व्याप्य तपःसमचरन्, सा **स्व-वासम् अरविन्द-वनं विहाय **इति तत्-पादयोः सर्वारविन्द-जाति-शोभातिक्रमे तात्पर्यम् । सापि भजत इति ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहु-तिथं बहु-कालं भगवन्तं प्रपन्ना अपि ब्रह्मादयः स-काम-भक्तत्वात् यद् अपाङ्गेत्य् आदि ॥३३॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तद्-विरहो मे दुःसह इत्य् आह—ब्रह्मेति चतुर्भिः । बहु-तिथं बहु-कालं प्रपन्ना अपि ब्रह्मादयः सकाम-भक्तत्वात्, यद् अपाङ्ग इत्य्-आदि ॥३३॥
———————————————————————————————————————
॥ १.१६.३४ ॥
**तस्याहम् अब्ज-कुलिशाङ्कुश-केतु-केतैः **
श्रीमत्-पदैर् भगवतः समलङ्कृताङ्गी ।
**त्रीन् अत्यरोच उपलभ्य ततो विभूतिं **
लोकान् स मां व्यसृजद् उत्स्मयतीं तद्-अन्ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य भगवतः श्रीमद्भिः पदैः । केतुर् ध्वजः । अब्जादयः केताश् चिह्नानि येषां तैः । यद् वा, अब्जादीनाम् आश्रयैः सम्यग् अलङ्कृतम् अङ्गं यस्याः साहं, ततो भगवतो विभूतिं सम्पदम् उपलभ्य प्राप्य त्रीन् लोकान् अतिक्रम्य अरोचे शोभितवत्य् अस्मि । पश्चात् तस्या विभूतेर् अन्ते नाश-काले प्राप्ते सत्य् उत्स्मयन्तीं गर्वं कुर्वाणां मां स व्यसृजत् त्यक्तवान् ॥३४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्-सम्बन्धेन स्व-विभूत्य्-अतिशयो युक्त एवेत्य् आह—तस्य इति ॥३४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य श्री-कृष्णस्य । केतं चिह्नं त्रीन् लोकान् अतिक्रम्य अरोचे शोभितवत्य् अस्मि । ततः श्री-कृष्णाद् विभूतिं सम्पदम् उपलभ्य प्राप्य तद्-अन्ते विभूतेर् नाश-काले प्राप्स्यमाने उत्स्मयन्तीं मत्-तुल्यो वैकुण्ठोऽपि न भवतीत्य् अन्तर् गर्ववतीम् ॥३४॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यस्य श्री-कृष्णस्य केतुर् ध्वजः केतैश् चिह्नैः । ततः श्री-कृष्णाद्-विभूतिम् उपलभ्य त्रीन् लोकान् अतिक्रम्यारोचे शोभिताहम् आसं, तद् अन्ते विभूतेर् नाशे प्राप्यमाणे उत्स्मयन्ती मत्-समो वैकुण्ठोऽपि न भवेद् इत्य् अन्तर्गर्ववतीं मां व्यसृजद्-विहायान्तरधात् ॥३४॥
———————————————————————————————————————
॥ १.१६.३५ ॥
यो वै ममातिभरम् आसुर-वंश-राज्ञाम्10
अक्षौहिणी-शतम् अपानुदद् आत्म-तन्त्रः ।
त्वां दुःस्थम् ऊन-पदम् आत्मनि पौरुषेण
सम्पादयन् यदुषु रम्यम् अबिभ्रद् अङ्गम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, यो वै आसुरो वंशो येषां तेषां राज्ञाम् अक्षौहिणी-शत-रूपं ममातिभरं भारम् अपनीतवान् । त्वां चोन-पदवत्वाद् दुःस्थं सन्तं पौरुषेण पुरुष-कारणेनात्मनि स्वस्मिन् संपूर्ण-पदं सुस्थं संपादयन् । लक्षण-हेत्वोः क्रियाया इति हेतौ शतृ-प्रत्ययः । संपादयितुम् इत्य् अर्थः । अबिभ्रद् धृतवान् इत्य् अर्थः ॥३५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पूर्वे ये आसुर-वंशा आसन् त एव राजानस् तेषाम् । छिन्न-प्ररूढादिवत् समासः । पाठान्तरे आसुर-वेशाः आसुर-भावं प्रविष्टा इत्य् अर्थः । ऊन-पदं त्वाम् आत्मनि आश्रये सति सम्पादयन् सम्पन्नं पूर्ण-पदं कुर्वन् ॥३५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पूर्वे ये आसुर-वंशा आसन् त एव राजानस् तेषाम् । छिन्न-प्ररूढादिवत् समासः । पाठान्तरे आसुर-वेषाः आसुर-भावः प्रविष्टा इत्य् अर्थः । ऊन-पदं त्वाम् आत्मनि आश्रये सति सम्पादयन् सम्पन्नं पूर्ण-पदं कुर्वन् ॥३५॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यो ममातिभरम् अपानुदन्-निरास्थत्, उनपदं ततो दुःस्थं त्वाम्, आत्मनि स्वस्मिन् यत् पौरुषं तेन सम्पादयन् सम्पूर्ण-पदं सुस्थं च सम्पादयैतुम् इत्य् अर्थः । यदुषु रम्यं लावण्योपेतम् अङ्गं मुर्तिम् अविभ्रत् प्रकटितवान् ॥३५॥
———————————————————————————————————————
॥ १.१६.३६ ॥
**का वा सहेत विरहं पुरुषोत्तमस्य **
प्रेमावलोक-रुचिर-स्मित-वल्गु-जल्पैः ।
स्थैर्यं समानम् अहरन् मधु-मानिनीनां
रोमोत्सवो मम यद्-अङ्घ्रि-विटङ्कितायाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य विरहं का वा सहेत । प्रेमावलोकश् च रुचिर-स्मितं च वल्गु-जल्पश् च तैर् मधु-मानिनीनां सत्यभामादीनां समानं सर्व-सहितं स्थैर्यं स्तब्धत्वं योऽहरत् । यस्याङ्घ्रिणा रजस्य् उत्थितेन विटङ्किताया अलङ्कृतायाः सस्यादि-मिषेण रोमोत्सवो भवति ॥३६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य विरहं का वा सहेत । प्रेमावलोकश् च रुचिरं स्मितं च वल्गु-जल्पश् च तैर् मधु-मानिनीनां मधुवन् मादको मानः पातिव्रत्यादि-गर्वो यासाम् अस्ति तासां सत्यभंआदीनां समानं गर्व-सहितं स्थैर्यं शुद्धत्वं यः अहरत् । यस्याङ्घ्रिणा रजस्युत्थितेन विटङ्कितायाः अलङ्कृतायाः शष्पादिमिषेण रोमोत्सवः भवति ॥३६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मधु-मानिनीनां सत्यभामादीनां स्थैर्यम् अचाञ्चल्यं मान-सहितम् । विटङ्किताया अलङ्कृताया इति तेन तस्य सर्वास्व् अपि प्रेयसीषु मध्ये अहं सदैव स्वाधीन-भर्तृका विरह-रहितैवासम् इति भावः ॥३६॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **पुरुषोत्तमस्य विरहं का वा सहेत, या मधुमानिनीनां सत्यभामादीनां स्थैर्यम् अचापल्यं मानस-हितं प्रेमावलोकाद्यैर् अहरत् । रासोत्सवे ममापि यस् तद् अहरत्, मम कीदृश्याः? इत्य् आह—यद् अङ्घ्रिभ्यां विटङ्कितायाः विभूषितायाः । तत्-प्रेयसीषु मध्ये तच्-चरण-स्पर्श-सौभाग्यायाहं सदैवासं, तद्-विरहम् अधुना कथं सोढुं प्रभवानीति भावः ॥३६॥
———————————————————————————————————————
॥ १.१६.३७ ॥
तयोर् एवं कथयतोः पृथिवी-धर्मयोस् तदा ।
परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथयतोः सतोः प्राचीं पूर्व-वाहिनीं सरस्वतीं कुरुक्षेत्रे ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्राचीं पूर्व-वाहिनीम् ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
प्रथमे षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तयोर् भूमि-धर्मयोः । प्राचीं पूर्व-वाहिनीम् ॥३७॥ \
\
इति श्री-वैष्णवानन्दिन्यां प्रथम-स्कन्ध-टिप्पन्यां षोडशोऽध्यायः ॥१६॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां प्रथम-स्कन्धे
परीक्षिते धर्म-पृथ्वी-संवादो नाम
षोडशोऽध्यायः ।
॥ १.१६ ॥
(१.१७)
-
राज्याभिषेकात् प्राक् इति क्वचित् पाठः । ↩︎
-
“शूद्रकोऽसौ” इति पाठो विश्वनाथेन स्वीकृतः ॥ ↩︎
-
‘यतेत बुद्धिमान् मृत्योर् अभावाय पुरैव हिऽ इति तृतीय-चतुर्थ-चरणौ क्वचित् । ↩︎
-
अत्रऽयस्मिन् पीते कृतं सर्वम् इष्टापूर्तादिकं भवेत्ऽ इत्य् अर्थम् अधिकं क्वचित् । ↩︎
-
इदम् अध्याहृतम्ऽकुरु-जाङ्गलेऽशृणोत्ऽ इति पाठे नाध्याहारापेक्षा । ↩︎
-
‘संयुग-शौरिःऽ इत्य् एवं-रूपे । ↩︎
-
थे फ़ोल्लोwइन्ग् त्wओ वेर्सेस् प्रेचेदे थिस् ओने इन् थे गित प्रेः स् एदितिओन्, बुत् नो ओने सेएम्स् तो हवे चोम्मेन्तेद् ओन् थेम्। ↩︎
-
‘नृ-पतिः स्म पदारविन्देऽ इति पाठः । ↩︎
-
शृण्वन्न् इत्य् अध्याहार-लब्धम् ।ऽस्तवनानि शृण्वन्ऽ इति पाठे तु नाध्याहारापेक्षा । ↩︎
-
‘आसुर-वेश-राज्ञाम्ऽ इति पाठः । ↩︎