१५ पाण्डव-प्रयाणम्

विषयः

अर्जुनाद् यदु-कुल-संहारं भगवतस् तिरोधानं च श्रुत्वा
पाण्डवानां हिमालय-दिशि महा-प्रयाणम् ।

॥ १.१५.१ ॥

सूत उवाच—

एवं कृष्ण-सखः कृष्णो भ्रात्रा राज्ञाविकल्पितः ।

नाना-शङ्कास्पदं रूपं कृष्ण-विश्लेष-कर्शितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

कलि-प्रवेशम् आलक्ष्य धुरं न्यस्य परीक्षिति ।
आरुरोह नृपः स्वर्गम् इति पञ्चदशेऽब्रवीत् ॥

कृष्णोऽर्जुनः आविकल्पित इति छेदः, नाना-शङ्कास्पदं रूपम् आलक्ष्य विकल्पित इत्य् अर्थः । प्रतिभाषितुं नाशक्नोत् [१.१५.२] इत्य् उत्तरेणान्वयः । तत्र हेतवः—कृष्ण-विश्लेषेण कर्शितः कृशः कृतः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

श्रुत्वा नृपः पञ्चदशे विलापं

धनञ्जयस्याथ कलेः प्रवेशम् ।

आलक्ष्य राज्येष्व् अभिषिच्य पौत्रं

विरज्य भीमादि-युतः प्रतस्थे ॥

कृष्णोऽर्जुनः** विकल्पितः** एवम्-भूतो वा त्वम् एवम्-भूतो वा इति विकल्प-विषयीकृतः । तत्र हेतुः—नाना-शङ्कास्पदं रूपं दधान इति शेषः । कर्शितः कृशः कृतः ॥१॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) :

विलापम् आकर्ण्य धनञ्जयस्य प्रविष्टम् आलक्ष्य कलिं विरक्तः ।
पौत्रं स्व-राज्ये विनिवेश्य राजा सहानुजः पञ्चदशे प्रतस्थे ॥

कृष्णोऽर्जुनो विकल्पितस् त्वम् ईदृशो वेदृशो वेति विकल्प-विषयतां नीतः, यद् असौ नाना-शङ्कास्पद-रूपं धारयन्न् इति शेषः ॥१॥

———————————————————————————————————————

**॥ १.१५.२ ॥ **

शोकेन शुष्यद्-वदन- हृत्-सरोजो हत-प्रभः ।

विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शोकेन हेतुना । वदनंहृच् च ते एव सरोजेशुष्यती वदन-हृत् सरोजे यस्य सः । हता प्रभा तेजो यस्य सः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शोकेन हेतुना शुष्यन्ती वदन-हृद्-रूपे सरोजे यस्य ॥२॥

———————————————————————————————————————

**॥ १.१५.३ ॥ **

कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः ।

परोक्षेण समुन्नद्ध- प्रणयौत्कण्ठ्य-कातरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शुचः शोकाश्रूणि यान्य् उद्गच्छन्ति, तानि नेत्रयोर् एव संस्तभ्य गलितानि च पाणिना आमृज्य परोक्षेण दर्शनागोचरेण श्री-कृष्णेन हेतुना समुन्नद्धम् अधिकं यत् प्रेमौत्कण्ठ्यं, तेन कातरो व्याकुलः सन् नृपम् इत्य् आह [४] इत्य् उत्तरेणान्वयः ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुचः शोकाश्रूणि यान्य् उद्गच्छन्ति, तानि नेत्रयोर् एव संस्तभ्य गलितानि च पाणिना आमृज्य परोक्षेण परोक्षी-भूतेन कृष्णेन हेतुनेत्य् अर्थः ॥३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शुचः शोकाश्रूणि नेत्रयोः संस्तभ्य, गलितानि च पाणिना आमृज्य, परोक्षेण दृग्-अगोचरेण कृष्णेन हेतुना ॥३॥

———————————————————————————————————————

**॥ १.१५.४ ॥ **

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।

नृपम् अग्रजम् इत्य् आह बाष्प-गद्गदया गिरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सख्यं हितैषिताम् । मैत्रीम् उपकारिताम् । सौहृदं सुहृत्त्वं । चात् संबन्धितां च । बाष्पेण कण्ठावरोधाद् गद्गदया ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भः २७१) : कृष्णोऽर्जुनः । अविकल्पित इति च्छेदः । नाना-शङ्कास्पदं रूपम् आलक्ष्य विकल्पित इत्य् अर्थः । शुचः शोकाश्रूणि आमृज्य च । परोक्षेण दर्शनागोचरेण श्री-कृष्णेन हेतुना । अत एवानिष्ट-शङ्काया अभावात् नात्र करुण-रसावकाशः । तद्-अभावश् चैषाम् ऐश्वर्य-ज्ञान-समुद्भाविनां भवत्य् एव इति । वञ्चितोऽहम् [भा।पु। १.१५.५] इत्य्-आदिकं वक्ष्यमाणं विलापम् ॥१-४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रेम्णा परस्पर-प्राणत्वं परस्पर-हितैषित्वं सख्यम्मैत्रीं दास्य-मिश्रं सख्यम् । सौहृदं वात्सल्य-मिश्रं सख्यम् ॥४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **प्रेम्णा मिथः-प्राणत्वं सख्यं, दास्य-मिश्रं तन्-मैत्री, वात्सल्य-मिश्रं तत् सौहृदम् ॥४॥

———————————————————————————————————————

॥ १.१५.५ ॥

अर्जुन उवाच—

वञ्चितोऽहं महा-राज हरिणा बन्धु-रूपिणा ।

येन मेऽपहृतं तेजो देव-विस्मापनं महत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येन मां वञ्चयता । देवान् विस्मापयति यत् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वञ्चितस् त्यक्तः । येन मां त्यक्तवता मम तेजोऽपहृतं, तेन तद्-दत्तम् एव तेज इति भावः ॥५॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : वञ्चितः प्रतारितः, यन् मां विहाय यादवान् नीत्वान्तर्दधे इति । येन देव-विस्मापनं मे महत् तेजः अपहृतम् ॥५॥

———————————————————————————————————————

**॥ १.१५.६ ॥ **

यस्य क्षण-वियोगेन लोको ह्य् अप्रिय-दर्शनः ।

उक्थेन रहितो ह्य् एष मृतकः प्रोच्यते यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य क्षण-वियोगेन इत्य्-आदि यच्-छब्दानां तेनाहम् अद्य मुषित [१३] इति सप्तम-श्लोक-स्थेन तच्-छब्देन सम्बन्धः । प्रियस्याप्य् अप्रियत्वे दृष्टान्तः—उक्थेन प्राणेन । एष पित्रादिः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य क्षण-वियोगेन इत्य्-आदि । यच्-छब्दानां तेनाहम् अद्य मुषितः [१३] इति सप्तम-श्लोक-स्थेन तच्-छब्देनान्वयः । प्रियस्याप्य् अप्रियत्वे दृष्टान्तः उक्थेन प्राणेन । एष पित्रादिः ॥६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यस्येति—यच्-छब्दानां तेनाहम् अद्य मुषितः इति [भा।पु। १.१५.१३] सप्तम-पद्य-स्थितेन तच्-छब्देन सम्बन्धः । एष लोकः । प्रियस्याप्रियत्वे दृष्टान्तः—यथा उक्थेन प्राणेन रहितः पित्रादिर् मृतक उच्यते, तद्वत् ॥६॥

———————————————————————————————————————

**॥ १.१५.७ ॥ **

यत्-संश्रयाद् द्रुपद-गेहम् उपागतानां
राज्ञां स्वयंवर-मुखे स्मर-दुर्मदानाम् ।
तेजो हृतं खलु मयाभिहतश् च मत्स्यः
सज्जीकृतेन धनुषाधिगता च कृष्णा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-कृष्णोपकारान् अनुस्मरति—यत्-संश्रयाद् इति दशभिः । यस्य संश्रयाद् बलात् स्मरेण कामेन दुर्मदानाम् अतिमत्तानां तेजः प्रभावो हृतं धनुर् ग्रहेणैव । पश्चात् तद्-धनुः सज्जी-कृतं च । तेन च मत्स्यो यन्त्रोपरि भ्रमन् विद्धः । ततस् तान् विजित्य [कृष्णा चाधिगता] द्रौपदी प्राप्ता च ॥७॥

———————————————————————————————————————

कैवल्य-दीपिका : तत्रार्जुनः ।** तत्र** द्रौपदी-स्वयंवरे । कृष्णोपकारं स्मरत्य् अर्जुनः—यत् संश्रयाद् इति ॥७॥** **[मु।फ। १३.१]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य आश्रयात् स्वयंवरे राज्ञां तेजो हृत्वा [कृष्णा चाधिगता] द्रौपदी प्राप्ता ॥७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उपकारान् स्मरति—यद् इति दशभिः । मत्स्यो यन्त्रोपरि भ्रमन् निहतो विद्धः, कृष्णा द्रौपदी चाधिगता लब्धा ॥७॥

———————————————————————————————————————

**॥ १.१५.८ ॥ **

यत्-सन्निधाव् अहम् उ खाण्डवम् अग्नयेऽदाम्

इन्द्रं च सामर-गणं तरसा विजित्य ।

लब्धा सभा मय-कृताद्भुत-शिल्प-माया

दिग्भ्योऽहरन् नृपतयो बलिम् अध्वरे ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उ इति विस्मये । खाण्डवम् इन्द्रस्य वनम् अग्नयेऽदां दत्तवान् अस्मि । खाण्डव-दाहे रक्षितेन मयेन कृता च **सभा लब्धाअद्भुत-शिल्प-**रूपा माया यसां सा । **ते अध्वरे **यागे राजसूये ॥८॥

———————————————————————————————————————

कैवल्य-दीपिका : खाण्डव-दहने । राजसूये च कृष्णोपकारं स्मरति—यत्-सन्निधाव् इति । अहो युधिष्ठिरः अहम् अदां दत्तवान् । मयेन कृता अद्भुता शिल्प-माया यस्यां सभायाम् ॥८॥** **[मु।फ। १३.२]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उ इति विस्मये । खाण्डवम् इन्द्रस्य वनम् । खाण्डव-दाहे रक्षितेन मयेन कृता सभा लब्धाअद्भुते शिल्प-माये यस्यां सा अध्वरे राजसूये ॥८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : उ विस्मये । खाण्डवम् इन्द्रस्य वन-महाग्नयेऽ**दां **दत्तवान् अस्मि । खाण्डव-दाहे रक्षितेन मयेन कृता सभा लब्धा, अद्भूते शिल्प-माये यस्यां सा, अध्वरे राजसूये ॥८॥

———————————————————————————————————————

**॥ १.१५.९ ॥ **

यत्-तेजसा नृप-शिरो-ऽङ्घ्रिम् अहन् मखार्थम्

आर्योऽनुजस् तव गजायुत-सत्त्व-वीर्यः ।

तेनाहृताः प्रमथ-नाथ-मखाय भूपा

यन्-मोचितास् तद् अनयन् बलिम् अध्वरे ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्तर-श्लोको विगीतस् तथापि व्याखायते । नृप-शिरः-स्वङ्घिर् यस्य तं जरासन्धं तवानुजो भीमो मखार्थमहन् हतवान् । तन्-निर्जयं विना राजसूय-मखानुपपत्तेः । गजायुतस्येव सत्त्वम् उत्साह-शक्तिर् वीर्यं बलं च यस्य सः । तं हत्वा प्रमथ-नाथो महा-भैरवस् तस्य मखाय ये राजानस् तेनाहृतास् ते च यद् यस्मान् मोचितास् तत् तस्माद् तेऽध्वरे बलिम् आनीतवन्तः ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृपाणां तत्-सजातीयानां प्राकृतानां शिरस् तु अङ्घ्रिर् यस्य तं जरासन्धम् । तव्आनुजो भीमः । मखार्थं तन्-निर्जयं विना राजसूय-मखानुपपत्तेः गजायुतस्येवसत्त्वम् उत्साह-शक्तिः वीर्यं बलं च यस्य सः । प्रमथ-नाथो भैरवस् तस्य मखाय ये राजानः तेनाहृताः यद्य् अस्मान् मोचिताः तस्मात् तेऽध्वरे बलिम् आनीतवन्तः ॥९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : नृपाणां तत्-सजातीयानां शिरःस्व् अङ्घ्रिर् यस्य, तं मगधेन्द्रं तवानुजो मद्-आर्यो भीमोऽहन् । मखार्थं तद्-धननं विना मखासिद्धेः । कीदृशः? गजायुतस्य इव सत्त्व-वीर्ये उत्साह-बले यस्य सः । तेन मागधेन्द्रेण प्रमथ-नाथ-मखाय ये भूपा आहृताः, ते यन्-मोचिताः, तत् तेऽध्वरे बलिम् अनयन् ॥९॥


**॥ १.१५.१० ॥ **

पत्न्यास् तवाधिमख-कॢप्त-महाभिषेक-

श्लाघिष्ठ-चारु-कवरं कितवैः सभायाम् ।

स्पृष्टं विकीर्य पदयोः पतिताश्रु-मुख्या

यस् तत्-स्त्रियोऽकृत हतेश-विमुक्त-केशाः ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **यत्-पदयोः पतिताश्रु-प्रधानः । यैः कवरं स्पृष्टं तत्-स्त्रियः तत्-पदयोः पतित्वाद् एव । विमुक्त-केश्योऽन्य-कृतः ॥१०॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यैः कितवैर् दुःशासनादिभिस् तव पत्न्याः कवरं विकीर्य उन्मुच्य स्पृष्टम् आकृष्टं तेषां स्त्रियो हतेशाः । अत एव वैधव्याद् विमुक्त-केशा अकृत चकार । कथं-भूतं कवरम् ? अधि मखं राजसूयम् अधिकृत्य कॢप्तो रचितो यो महाभिषेकः, तेन श्लाघ्यतमंचारु रम्यम्, यत्-स्मरणात् तदानीम् एवास्मत्-कृपया प्राप्तस्य श्री-कृष्णस्य मनने पदयोः पतितान्य् अश्रूणि मुखाद् यस्याः पत्न्याः । पद-शब्द-सापेक्षस्यापि पतित-शब्दस्य अश्रु-पदेन समासो नित्य-सापेक्षितत्वात् ॥१०॥

———————————————————————————————————————

कैवल्य-दीपिका : पत्न्या इति । अधि मखं राजसूयम् अधिकृत्य क्रमो रचितो यो महाभिषेकः, तेन श्लाघिष्ठं श्लाघ्यवत्तं यत् चारु-कवरं केश-पाशः कितवैः दुःशासनादिभिः विकीर्य उन्मुच्य स्पृष्टं पतिताश्रु-मुखं यस्याः, तया पतितं पदयोः सापेक्षत्वेऽपि समासः । तदानीम् एव स्मरणात् पुर-स्थितस्य कृष्णस्य पदयोः । तत्-स्त्रियः तेषां कितवानां स्त्रियः । अकृत कृतवान् । हतैर् ईशैर् हेतु-भूतैर् विमुक्त-केशाः ॥१०॥** **[मु।फ। १३.३]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस् तव पत्न्याः सम्बद्धे तेषां कितवानां स्त्रियो हतेश-विमुक्त-केशा अकृत । कीदृश्याः ? पत्न्याः कवरं विकीर्य पश्चाद् वनान्तर्गतस्य कृष्णस्य पादयोः पतिताश्रु-मुख्याः । कीदृशं कवरम् ? **कितवैःस्पृष्टंद्यूत-सभायाम् **आकृष्टम् इति योज्यम् ॥१०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यैः कितवैर् दुःशासनादिभिस् तव पत्न्या अधि-मखं राजसूये कृत-महाभिषेकेण प्रशस्तं कवरं विकीर्यउन्मुच्य स्पृष्टम् आकृष्टम् । तेषां स्त्रियो हतेशा अत एव वैधव्याद् विमुक्त-केशाश्अकृत । यस् तवानुज इति पूर्वस्यैवानुषङ्गः । कीदृश्याः ? स्मरणात् प्राप्तस्य कृष्णस्य नमने पदयोः पतितानि अश्रूणि मुखाद् यस्याः । पद-शब्द-सापेक्षस्यापि पतित-शब्दस्य अश्रु-पदेन समासो नित्य-सापेक्षत्वात् । पदयोः पतिता चासौ अश्रु-मुखी चेति, तस्या इति वा ॥१०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यैः कितवैर् दुःशासनाद्यैस् तव पत्न्याः कवरं विकीर्य उन्मुच्य स्पृष्टम् आकृष्टं, तेषां स्त्रियो हतेशाः, तत एव वैधव्यान् मुक्त-केशाश् चाकृत चकार तवानुज [९] इति पूर्वस्यैवानुषङ्गः । कवरं कीदृशम् ? इत्य् आह—अधि मखं राजसूयम् अधिकृत्य कॢप्तो यो महाभिषेकः, तेन श्लाघिष्ठं चारु रम्यं च । पत्न्याः कीदृश्याः? तदा स्मरणात् प्राप्तस्य कृष्णस्य प्रणामे पदयोः पतितान्य् अश्रूणि मुखाद् यस्याः । पद-शब्द-सापेक्षस्यापि पतित-शब्द्याश्रु-पदेन समासः, समस्तस्य असमस्तेन नित्याकाङ्क्षणे सङ्गतिर् इति वचनात् ॥१०॥

———————————————————————————————————————

**॥ १.१५.११ ॥ **

यो नो जुगोप वन एत्य दुरन्त-कृच्छ्राद्

दुर्वाससोऽरि-रचिताद् अयुताग्र-भुग् यः ।

शाकान्न-शिष्टम् उपयुज्य यतस् त्रि-लोकीं

तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शिष्याणाम् अयुतस्याग्रे तत्-पङ्क्तौ भुङ्क्ते यस् तस्माद् दुर्वाससो हेतोर् अरिणा दुर्योधनेन रचितं यद् दुरन्तं कृच्छ्रं शाप-लक्षणं, तस्मात् सकाशान् नोऽस्मान् वनम् एत्य जुगोप । किं कृत्वा ? शाकम् एव अन्नं तस्मिन्न् एव पात्रेऽविशिष्टमुपयुज्य जग्ध्वा । यत उपयोगात् सलिलेविनिमग्नो मुनीनां सङ्घस्त्रिलोकीं तृप्ताम् अमंस्त

एवं हि भारते कथा—कदाचिद् दुर्वासा दुर्योधनेनातिथ्यं कृतम् । तेन च परितुष्टेन “वरं वृणीष्व” इत्य् उक्ते, दुर्वाससः शापात् पाण्डवा नश्येयुर् इति मनसि विधाय दुर्योधनेनोक्तम्—“युधिष्ठिरोऽस्मत्-कुल-मुख्यः । अतस् तस्यापि भवतैवम् एव शिष्यायुत-सहितेनातिथिना भवितव्यम्, किं तु द्रौपदी यथा क्षुधा न सीदेत्, तथा तस्यां भुक्तवत्यां तद्-गृहं गन्तव्यम्” इति । ततश् च तथैव दुर्वाससि प्राप्ते परमादरेण युधिष्ठिरेण “माध्याह्निकं कृत्वा आगम्यताम्” इति विज्ञापितो मुनि-सङ्घोऽधमर्षणाय जले निममज्ज । तत्र चिन्तातुरया द्रौपद्या स्मृत-मात्रः श्री-कृष्णोऽङ्क-स्थां रुक्मिणीं हित्वा तत्-क्षणम् एव भक्त-वत्सलतया चागतः । तया चावेदिते वृत्तान्ते भगवतोक्तं—“हे द्रौपदि ! अहं च बुभुक्षितोऽस्मि । प्रथमं मां भोजयति” । तया चातिलज्जयोक्तं—स्वामिन्, मद्-भोजन-पर्यन्तम् अक्षयम् अप्य् अन्नं सूर्य-दत्त-स्थाल्यां मया च सर्वान् संभोज्य भुक्तम्, अतो नास्त्य् अन्नम्" इति । तथाप्य् अतिनिर्बन्धेन स्थालीम् आनाय्य तत्-कण्ठ-लग्नं किंचिच् छाकान्नं प्राश्योक्तम् “अनेन विश्वात्मा भगवान् प्रीयताम्” । “अथ भोक्तुं मुनि-सङ्घम् आह्वय” इति भीमं प्रहितवान् । स च तावतातितृप्तो वृथा-पाक-भयेन पलायित इति ॥११॥

———————————————————————————————————————

**कैवल्य-दीपिका : **दुर्वाससः शापे कृष्णोपकारं स्मरति—यो नो जुगोप इति । वन-वासस् तावत् कृच्छ्रं, तत्रापि दुर्वाससा दुरन्तं कृच्छ्रम् । स च अरिणा दुर्योधनेन रचितः । वन-वास-स्थान् पाण्डवान् युधिष्ठिर-द्रौपदी-भोजनानतरं “याचस्व इति प्रार्थितः यावद् द्रौपदी न भुङ्क्ते तावद् अक्षयम् अन्नम्” इति हि सूर्येण वरो दत्तः । यो दुर्वासा **अयुताग्र-भुक् शिष्याणाम् अयुतस्याग्रे भुङ्क्ते । किं कृत्वा कृष्णो जुगोप ? शाकान्न-शिष्टम् उपभुज्य तदानीम् एव द्रौपदी-स्मरणाद् आगत्य शाक-रूपस्यान्नस्य यच् छिष्टं पात्रे लग्नं, तत् स्वयं भुक्त्वा यतो भोजनाद् दुर्वासाः त्रिलोकीं तृप्ताम् अमंस्त । न केवलम् आत्मानं “स-शिष्यं तु सलिले स्नात्वा भोक्तुम् आगच्छत” इति युधिष्ठिर-वचनाद् यत्र स्नातुं गतः, तत्र कीदृशः विनिमग्नः शिष्य-सहितः आत्मा यस्य स तथा ॥११॥ **[मु।फ। १३.४]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्वाससो हेतोर् अरिणा रचितं यद् दुरन्तं कृच्छ्रं शाप-लक्षणम्, तस्मात् सकाशान् नोऽस्मान् वने एत्य जुगोप । यः शिष्याणाम् अयुतस्य अग्रे अग्र-पङ्क्तौ भुङ्क्ते । शाकम् एवान्नं तस्मिन् पात्रेऽवशिष्टम् उपयुज्य जग्ध्वा, यत उपयोगात् सलिले विनिमग्नो मुनीनां सङ्घास् त्रिलोकीं तृप्ताम् अमंस्त

एवं हि भारते कथा—कदाचिद् दुर्वाससो दुर्योधनेनातिथ्यं कृतम् । तेन च परितुष्टेन “वरं वृणीष्व” इत्य् उक्ते, “दुर्वाससः शापात् पाण्डवा नश्येयुः” इति मनसि विधाय दुर्योधनेनोक्तम्—“युधिष्ठिरोऽस्मत्-कुल-मुख्यः, अतस् तस्यापि भवतैवम् एव शिष्यायुत-सहितेनातिथिना भवितव्यम्, किं तु द्रौपदी यथा क्षुधया न सीदेत्, तथा तस्यां भुक्तवत्यां तद्-गृहं गन्तव्यम्” इति । ततश् च तथैव दुर्वाससि प्राप्ते परमादरेण युधिष्ठिरेण “माध्याह्निकं कृत्वा आगम्यताम्” इति विज्ञापितो मुनि-सङ्घोऽघ-मर्षणाय जले निममज्ज । तत्र चिन्तातुरया द्रौपद्या स्मृत-मात्रः श्री-कृष्णोऽङ्क-स्थां रुक्मिणीं हित्वा तत्-क्षणम् एव भक्त-वत्सल आगतः । तया चावेदिते वृत्तान्ते भगवतोक्तं—“हे द्रौपदि ! अहं च बुभुक्षितोऽस्मि । प्रथमं मां भोजय” इति । तया चातिलज्जयोक्तं—“अहो मदीयम् अभाग्यं भाग्यं च, यतस् त्रैलोक्य-नाथो यज्ञ-पुरुषो मद्-गृहम् आगतो भोजनं प्रार्थयति” इति मनसि विधायोक्तं—“स्वामिन् ! मद्-भोजन-पर्यन्तम् अक्षय्यम् अन्नं सूर्य-दत्त-स्थाल्यां मया च सर्वान् भोजयित्वा भुक्तम्, अतो नास्त्य् अन्नम्” इत्य् अश्रु-पातं चकार । तथाप्य् अतिनिर्बन्धेन पाक-स्थालीम् आनय्य तत्-कण्ठ-लग्न-शाकान्नं प्राश्योक्तं “भोक्तुं मुनि-सङ्घम् आह्वय” इति । अथ भीमं च प्रहितवान् । भीमेन गत्वोक्तं—“स्वामिन् ! भोजनार्थम् आगम्यताम् । कथं विलम्बं क्रियते ?” स च तावता अतितृप्तः वृथा-पाक-भयात् पलायित इति ॥११॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) **: यो वनम् एत्य दुर्वाससो हेतोर् अरिणा दुर्योधनेन रचिताच् छाप-रूपाद् दुरन्त-कृच्छान् नोऽस्मान् जुगोप रक्षितवान् । कीदृशो दुर्वासाः? अयुताग्र-भुक् शिष्यायुत-पङ्क्तौ यो भुङ्क्ते । किं कृत्वा जुगोप? इत्य् अत्राह—**शाकान्न-शिष्टम् उपयुज्य **इति । यतः शिष्ट-शाकान्नोपयोगात् सलिले विनिमग्नो मुनीनां सङ्घस् त्रिलोकीं तृप्ताम् अमंस्त

एवम् आख्यायिका भारतेऽस्ति—आतिथ्येन परितुष्टो दुर्वासा “वरं वृणीष्व” इति दुर्योधनम् उवाच। तेन च “एतत्-कोपात् पाण्डवा विनश्येयुः” इति विचार्य, “अस्मन्-मुख्यस्य युधिष्ठिरस्यापि आतिथ्यम् अयुत-शिष्येण भवता ग्राह्यं, किन्तु पाञ्चाली यथा क्षुत्-पीडिता न स्यात् तस्यां भुक्तवत्यां गन्तव्यम्” इति वृतम् । तथैव दुर्वाससि प्राप्तेऽत्यादरेण नृपेण “माध्याह्निकं विधायागम्यताम्” इत्य् उक्तः । स-शिष्य-गणः स मुनिर् अघमर्षणाय जले न्यमज्जत् । ततश् चिन्तातुरया पाञ्चाल्या स्मृत-मात्रो हरिर् आगत्य श्रुत-वृत्तान्तोऽपि क्षुधितोऽस्मि भोजय माम् इत्य् उक्तवान् । तया चातिलज्जितया भगवन् मद्-भोजनात् पूर्वं रविदत्तायां स्थाल्यां सर्वं स्याद् अहन्तु सर्वान् भोजयैत्वा भुक्तवती, अतः किञ्चित्-तत्र नास्तीत्युक्तोपि अतिनिर्बन्धादानीतायां तस्यां शाकलेशं प्राप्तं प्राश्य विश्वात्म् आहं तृप्तोऽस्मीत्य् उत्त्वा तस्यां आहूयतां मुनि-सङ्घ इत्य् उक्तवान् । स च विश्वान्तर्वर्तित्वात्-तावता तृप्तो वृथा पाक-भयात् पलाय गत इति ॥११॥

———————————————————————————————————————

**॥ १.१५.१२ ॥ **

यत्-तेजसाथ भगवान् युधि शूल-पाणिर्

विस्मापितः स-गिरिजोऽस्त्रम् अदान् निजं मे ।

अन्येऽपि चाहम् अमुनैव कलेवरेण

प्राप्तो महेन्द्र-भवने महद्1-आसनार्धम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गिरिजा-सहितो विस्मापितः सन् निजं पाशुपतम् अस्त्रम्अन्येऽपि लोकपाला निजान्य् अस्त्राण्य् अदुः । अन्यद् अप्य् आश्चर्यम् आह—अमुना इति । महत इन्द्रस्य आसनार्धम् ॥१२॥

———————————————————————————————————————

**कैवल्य-दीपिका : दिव्यास्त्र-लाभे कृष्णोपकारं स्मरति श्लोक-द्वयेन—यत्-तेजसा इति । अन्येऽपि लोक-पाला निजान्य् अस्त्राण्य् अदुः । अहं च महेन्द्रस्य आसनार्धम् प्राप्तः ॥१२॥ **[मु।फ। १३.५]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्-तेजसा इति । पूर्ववल् लौकिक-लीला-मयत्वेनैव ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गिरिजया दुर्गया सहितः विस्मापितः सन् निजं पाशुपतम् अस्त्रम् । अन्येऽपि लोकपालाः निजास्त्राण्य् अदुः । महत इन्द्रस्य आसनार्धम् ॥१२॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : स-गिरिजः स-दुर्गः शूलपाणिः शिवो विस्मितः सन् निजम् अस्त्रं पाशुपतं मेऽदात्अन्ये च लोकपाला निजान्य् अस्त्राण्य् अदुः, महत इन्द्रस्य आसनार्धम् ॥१२॥


**॥ १.१५.१३ ॥ **

तत्रैव मे विहरतो भुज-दण्ड-युग्मं

गाण्डीव-लक्षणम् अराति-वधाय देवाः ।

सेन्द्राः श्रिता यद्-अनुभावितम् आजमीढ

तेनाहम् अद्य मुषितः पुरुषेण भूम्ना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रैव स्वर्गे क्रीडितो गाण्डीवं लक्षणं चिह्नं यस्य तत् । अरातयो निवात-कवचा दैत्याः, तेषां वधार्थम् आश्रितवन्तः । येन अनुभावितं प्रभाव-युक्तं कृतम् । हे आजमीड युधिष्ठिर । तेनमुषितो वञ्चितोऽस्मि । भूम्ना निज-महिमावस्थानेन ॥१३॥

———————————————————————————————————————

कैवल्य-दीपिका : तत्र इति । तत्रैव स्वर्गे । अरातयो निवात-कवच-नामानो दैत्याः । यद्-अनुभावितं येन कृष्णेन प्रभाववत् कृतम् । भुज-दण्ड-युग्मं श्रिताः शरणं जग्मुः। हे आजमीढ ! युधिष्ठिर ! तेन इत्य्-आदि सर्व-वाक्य-शेषः । भूम्ना अपरिच्छिन्नेन वाप्य् अभिव्यञ्जकं विना न दृश्यत इति मुषितत्वम् । अस्मद्-आदि-देहानां त्व् अनुमापकत्वम् । न तु कृष्ण-तदेहवः प्रत्यक्षत्वापादकत्वम् ॥१३॥** **[मु।फ। १३.६]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भूम्ना सर्वतो महत्तमेन ॥१३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अरातयो निवात-कवचादयो दैत्याः, तेषां वधाययेन कृष्णेन अनुभावितं प्रभाव-युक्तं कृतम् । भूम्ना अतिशयेन अहं मुषितस् त्यक्तः ॥१३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : तत्रैव इन्द्र-लोके विहरतो मे भुज-दण्ड-युग्मं सेन्द्रा देवा अरातीनां निवातक-वचादीनां वधाय आश्रिताः । कीदृशं तद्-युग्मं? येन कृष्णेन अनुभावितं योजित-प्रभावम्, तेन पुरुषोत्तमेन अहम् अद्य मुषितो वञ्चितः ॥१३॥


**॥ १.१५.१४ ॥ **

यद्-बान्धवः कुरु-बलाब्धिम् अनन्त-पारम्

एको रथेन ततरेऽहम् अतीर्य-सत्त्वम् ।

प्रत्याहृतं बहु धनं च मया परेषां

तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्-बान्धव इत्य्-आदि-श्लोक-त्रयस्यापि तेन मुषितोऽहम् [१३] इति पूर्वेणैव संबन्धः । श्री-कृष्ण-बान्धव एक एव अहं कौरव-सैन्याब्धिं नास्त्य् अन्तो गाम्भीर्येण, पारं च देशतो यस्य तं ततरे तीर्णवान् उत्तर-गो-ग्रहे । अतीर्याणि दुस्तराणि सत्त्वानि तिमिङ्गिलादीनि भीष्मादि-रूपाणि यस्मिन् । परैर् नीतं गो-धनं प्रत्याहृतम्परेषां च शिरोभ्यः सकाशात् तेजास्पदं प्रभावस्यास्पदम् उष्णीष-रूपं मणिमयं मुकुट-रत्न-रूपं च बहु-धनं तान् मोहनास्त्रेण मोहयित्वा हृतम् । यद्-बान्धवेन मया ॥१४॥

———————————————————————————————————————

**कैवल्य-दीपिका : **गो-ग्रहणे कृष्णोपकारं स्मरति—यद्-बान्धव इति । यद् बान्धवः कृष्ण-सहायः । अनन्त-गाम्भीर्यस्यावधिः पारो विस्तारस्य यस्य तम् । ततरे तीर्णवान् । अनार्य-सत्त्वम् हिंस्र-गजादिकम् । पुरु बहु धनम्परैर् आहृतं गो-धनं परेषांमणिमयं मुकुटादि धनं च हृतम् । तद् धि **तेजास्-पदं तद्-धरणे तेजो-हरणात् ॥१४॥ **[मु।फ। १३.७]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यः श्री-कृष्ण एव बान्धवो यस्य सोऽहम् एक एव कुरु-सैन्याब्धिं ततरे तीर्णवान् उत्तर-गो-ग्रहे । नास्त्य् अन्तो गाम्भीर्येण पारं च देशतो यस्य तम् । अतीर्याणि दुस्तराणि सत्त्वानि भीष्मादि-तिमिङ्गिलादीनि यस्मिंस् तम् । गो-धनं प्रत्याहृतम् । तथा तान् मोहनास्त्रेण मोहयित्वा शिरोभ्यः सकाशात् तेजस्पदम् उष्णीषं च हृतम् ॥१४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उत्तर-गो-ग्रहे य एव बान्धवो यस्य सोऽहम् एक एव रथेन कुरु-सैन्याद्धिं ततरे तीर्णवान् गाम्भीर्याद्-विस्तीर्णत्वाच्-चान्तपार-शून्यम् । अतार्याणि सत्त्वानि भीष्म-द्रोणादि-रूप-तिमिङ्गिलादीनि यत्र तत् । विराट-राजस्य गो-धनं मया प्रत्याहृतं, परेषां मोहनास्त्रेण मोहितानां शिरोभ्यस् तेजम्पदम् उष्णीषं च हृतम् ॥१४॥

यद्-बान्धवः कुरु-बलाब्धिम् अनन्त-पारम्

एको रथेन ततरेऽहम् अतीर्य-सत्त्वम् ।

प्रत्याहृतं बहु धनं च मया परेषां

तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥

———————————————————————————————————————

**॥ १.१५.१५ ॥ **

यो भीष्म-कर्ण-गुरु-शल्य-चमूष्व् अदभ्र-

राजन्य-वर्य-रथ-मण्डल-मण्डितासु ।

अग्रे-चरो मम विभो रथ-यूथपानाम्

आयुर् मनांसि च दृशा सह ओज आर्च्छत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अदभ्रा अनल्पा ये राजन्य-वर्यास् तेषां रथ-मण्डलैर् मण्डितासु भीष्मादीनां चमूषु सारथि-रूपेण ममागोचरः सन् । हे विभो ! तेषां रथ-यूथपानाम् आयुर्-आदीन् यो दृशा दृष्ट्यैव आर्च्छत् हृतवान् । मनांसि इत्य् उत्साहादि-शक्तिम् । सह बलम् । ओजः शस्त्रादि-कौशलम् ॥१५॥

———————————————————————————————————————

कैवल्य-दीपिका : कुरुक्षेत्र-युद्धे कृष्णोपकारं स्मरति—यो भीष्म इति श्लोक-त्रयेण । दृशा दर्शनेन । आर्च्छद् आकृष्टवान् । आयुर् मनांसि सह ओजश् च सह । कर्मेन्द्रियाणां शक्तिः मनांसि त्रीण्य् अन्तः-करणानि ॥१५॥ [मु।फ। १३.८]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्रे-चरः सारथि-रूपेणाग्रे स्थितः सन्, हे विभो! स्वाचिन्त्य-प्रभावेण आयुः प्रारब्ध-कर्म स्व-सौन्दर्येण भीष्मादीनां तेषां मनांसि स्व-सामर्थ्य-ज्ञापनेन सहो मनः-पाटव-लक्षणं युद्धोत्साहं तेज इन्द्रिय-पाटव-लक्षणं शस्त्रादि-ग्रहण-सामर्थ्यं दृशा स्व-दृष्ट्यैव आर्च्छत् जहार ॥१५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **हे विभो महाराज! अदभ्राणाम् अनल्पानां राजन्य-वर्याणां रथ-मण्डलैर् मण्डितासु भीष्मादीनां चमूषु ये मम सारथिः सन्न् अग्रेसरस् तेषां रथ-युथपानां सेनापतीनाम् आयूर् आदीनि दृशैवार्च्छत् जहार, स्वाचिन्त्य-शक्त्या आयुर् आरब्ध-कर्म स्व-सौन्दर्षेण भीष्मादीनां मनांसि, स्वसामर्थ्य-ज्ञापनेन सहो मनः-पाटव-रूप-युद्धोत्साहम्, ओजः करण-पाटव-रूप-शस्त्रादि-ग्रहण-सामर्थ्यम् ॥१५॥

———————————————————————————————————————

**॥ १.१५.१६ ॥ **

यद्-दोःषु मा प्रणिहितं गुरु-भीष्म-कर्ण-

नप्तृ-त्रिगर्त-शल्य-सैन्धव-बाह्लिकाद्यैः ।

अस्त्राण्य् अमोघ-महिमानि निरूपितानि

नोपस्पृशुर् नृहरि-दासम् इवासुराणि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य दोःषु भुजेषु **मा **मां प्रणिहितं स्थापितं तैर् एव गुर्व्-आदिभिर् निरूपितानि प्रयुक्तान्य् अस्त्राणिन स्पृशन्ति स्मगुरुर् द्रोणः । त्रिगर्तस् त्रिगर्त-देशाधिपतिः सुशर्मा । शलः शल्यः । सैन्धवः सिन्धु-देशाधिपतिर् जयद्रथः । बाह्लिकः शन्तनोर् भात्रा । अमोघो महिमा येषां तथा-भूतान्य् अपि । पाठान्तरे2ऽपि स एवार्थः । प्रतीकाराकरणेऽप्य् अस्पर्शे दृष्टान्तः—नृहरि-दासं प्रह्लादम् इवेति ॥१६॥

———————————————————————————————————————

कैवल्य-दीपिका : कुरुक्षेत्र-युद्धे कृष्णोपकारं स्मरति—यो भीष्म इति श्लोक-त्रयेण । दृशा दर्शनेन । आर्च्छद् आकृष्टवान् । आयुर् मनांसि सह ओजश् च सह । कर्मेन्द्रियाणां शक्तिः मनांसि त्रीण्य् अन्तः-करणानि ॥१६॥ [मु।फ। १३.९]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य दोःषु भूजेषु मा मां प्रणिहितं स्थापितं तेनैवेत्य् अर्थः, गुर्व्-आदिभिर्निरूपितानि प्रयुक्तानि अस्त्राणि न स्पृशन्ति स्मगुरुर् द्रोणः । नप्ता भूरिश्रवाः । त्रिगर्तः त्रिगर्त-देशाधिपतिः सुशर्मा । शलः शल्यः । सैन्धवः सिन्धु-देशाधिपतिः जयद्रथः । बाह्लीकः शन्तनोर्भ्राता, अमोघ-महिमणि“महितानि च” इति पाठश् च । प्रतीकाराकरणेऽप्य् अस्पर्शे दृष्टान्तः—नृहरि-दासं प्रह्लादम् इवेति ॥१६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : यस्य दोःषु भुजेषु प्रणिहितं तेनैव स्थापितं मां गुर्व्-आदिभिर् निरूपितानि प्रयुक्तान्य् अस्त्राणि नोपस्पृशुःअमोघो महिमा येषां, तादृशान्य् अपि । गुरुर् द्रोणः । त्रिगर्तः सुशर्मा, शलः शल्यः, सैन्धवो जयद्रथः, वाह्लीकः शन्तनोर् भ्राता । तत्र दृष्टान्तः—आसुराणि शस्त्राणि नृहरिदासं प्रह्लादम् इव ॥१६॥

———————————————————————————————————————

**॥ १.१५.१७ ॥ **

सौत्ये वृतः कुमतिनात्मद ईश्वरो मे

यत्-पाद-पद्मम् अभवाय भजन्ति भव्याः ।

मां श्रान्त-वाहम् अरयो रथिनो भुवि-ष्ठं

न प्राहरन् यद्-अनुभाव-निरस्त-चित्ताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्वापराधम् अनुस्मरन् सन्तप्यमान आह । सौत्ये सारथ्ये कुमतिना मे मया स वृतः । कुमतिमत्त्वम् एवाह—आत्म-द इत्य्-आदिना । अभवाय मोक्षाय । भव्याः श्रेष्ठाः । श्रान्ता वाहा अश्वा यस्य तं माम् । जयद्रथ-वधे हि जल-पानं विनाश्वाः श्रान्ताः, ततो रथाद् अवतीर्य बाणैर् भुवं भित्त्वा मया जलं संपादितम् । तदा यस्यानुभावेननिरस्त-चित्ता अरयो मां न प्रहृतवन्तः स सौत्ये वृत इति कुमतित्वम् ॥१७॥

———————————————————————————————————————

कैवल्य-दीपिका : सौत्य इति । सौत्ये सारथित्वे मे मया कुमतिना वृतः । स ईश्वर आत्मानम् ईश्वरत्वं वृतो ददाति भजन्ति च भव्याःअभवाय यस्य पाद-पद्मम् यस्यानुभावेन निरस्त-चिन्ता उन्मनीकृता अरयो न प्राहरन् । स सूतः कृतः । आत्मानं निन्दति ॥१७॥ [मु।फ। १३.१०]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद्-विरहेण तद्-ऐश्वर्य-स्मृत्या दास्य-भावस्यैवोदयात् स्वाभाविकस्य सख्य-भावस्यापलापात् तत्-कार्य-सारथ्यादिकम् अपराधत्वेन निश्चिन्वन् अनुतप्यमान आह—सौत्ये सारथ्ये अभवाय मोक्षाय भव्या भजन्ति अहन्त्व-भव्यस् तम् एव भजनम् अकारयम् । एतावद् अपराधवत्य् अपि मयि तस्य दयां शृण्वत्य् आह—श्रान्ता वाहा अश्वा यस्य तं मां जयद्रथ-वधे हि जल-पानं विना अश्वाः श्रान्ताः, ततो रथाद् अवतीर्य बाणैर् भुवं भित्त्वा जलं सम्पादितं मया तदा यस्यानुभावेन निरस्त-चित्ता अरयो न प्राहरन् ॥१७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विच्छेदोदित-दैन्येन दास्योदयात् सख्य-कार्य-सारथ्यादिकम् अपराधत्वेन संभाव्यानुतप्यमानः प्राह—सौत्ये इति । कुमतिना मया य ईश्वरः सौत्ये सूत-कर्मणि सारथ्ये वृतःअभवाय मोक्षाय, अहन्त्व-भव्यो यत्, तम् एव भजनम् अकारयम् इति भावः । एवम् अपराधिन्य् अपि मयि तस्य कारुण्यं शृण्व् इत्य् आह—श्रान्ता वाहा यस्य तं मां भुविष्ठं जयद्रथ-वधे रथाद् अवतीर्य श्रान्ताश्व-जल-पानाय बाणैर् भुवं भित्त्वा सम्पादित-जलं रथिनोऽरयो न प्राहरन् । कुतः? इत्य् अत्राह—यद् इति ॥१७॥

———————————————————————————————————————

**॥ १.१५.१८ ॥ **

नर्माण्य् उदार-रुचिर-स्मित-शोभितानि

हे पार्थ हेऽर्जुन सखे कुरु-नन्दनेति ।

सञ्जल्पितानि नर-देव हृदि-स्पृशानि

स्मर्तुर् लुठन्ति हृदयं मम माधवस्य ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे नर-देव !उदारं गम्भीरं रुचिरं च यत् स्मितं, तेन शोभितानि नर्माणि परिहास-वाक्यानि, तथा कार्य-प्रस्तावेषु, हे पार्थ ! इत्य्-आदीनि मधुराक्षराणि सञ्जल्पितानि च हृदि-स्पृशानि मनोज्ञानि माधवस्य यान्य् एतानि तानीदानीं स्मर्तुर् मम हृदयं लुठन्ति लोठयन्ति क्षोभयन्ति । णिज्-अभाव आर्षः ॥१८॥

———————————————————————————————————————

कैवल्य-दीपिका : कृष्णेन सहवासं स्मरति श्लोक-द्वयेन—नर्माणि इति । नर्माणि परिहास-वचांसि । हे पार्थ इत्य्-आदि सम्बोधन-पूर्वकं सञ्जल्पितानि उदार-वचांसि मम हृदयं लुठन्ति शोकेन इतस् ततः पातयन्ति ॥१८॥ [मु।फ। १३.११]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मधुराक्षरत्वात् हृदि-स्पृशानि लुठन्ति लोठयन्ति, णिज्-अभाव आर्षः ॥१८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उदारं गम्भीरं रुचिरं यत् स्मितं तेन शोभितानि । मधुराक्षरत्वान् हृदिस्पृशानि लुठन्ति आकर्षन्ति ॥१८॥

———————————————————————————————————————

**॥ १.१५.१९ ॥ **

शय्यासनाटन-विकत्थन-भोजनादिष्व्

ऐक्याद् वयस्य ऋतवान् इति विप्रलब्धः ।

सख्युः सखेव पितृवत् तनयस्य सर्वं

सेहे महान् महितया कुमतेर् अघं मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विकत्थनं स्व-गुण-श्लाघनादि । शय्यादिष्व् ऐक्याद् अव्यतिरेकाद् धेतोः । कदाचिद् व्यभिचारं दृष्ट्वा हे वयस्य, ऋतवान् सत्य-युक्तस् त्वम् इति वक्रोक्तया विप्रलब्धस् तिरस्-कृतोऽपि । “ऋभुमान्” इति पाठे ऋभवो देवाः सेवकाः सन्ति यस्य सः। असौ महान् अपि मया वयस्य इति मत्वा विप्रलब्धस् तिरस्-कृत इत्य् अर्थः । “ऋतमान्” इति पाठे वत्त्वाभाव आर्षः । मे अघम् अपराधम् असहत्महितया महत्त्वेन । एक-पद्ये अतिमहत्त्वेनेत्य् अर्थः । सख्युर् अघं सखेवतनयस्य अघं पितेव ॥१९॥

———————————————————————————————————————

कैवल्य-दीपिका : शय्या- इति । विकत्थनं कला-कौशल-दर्शनम् । ऐक्याद् अविनाभावात् । हे वयस्य ! ऋतवांस् त्वं सत्य-युक्तस् त्वम् इति लक्षणा मूलात्यन्त-तिरस्कृता । विवक्षित-वाच्येन ध्वनिना विप्रलम्भ उपहसितः कृष्णः मे अघम् अपराधं सेहेमहान् महितया महत्त्वातिशयेन हि महत्त्वम् ।१९॥ [मु।फ। १३.१२]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐक्यात् परस्पर-प्राणैक्याद् ऋतवांस् त्वम् एव सत्यवादीति वक्रोक्त्या विप्रलब्धस् तिरस्कृतोऽपि । “ऋभुमान्” इति पाठे ऋभवो देवाः सेवकाः सन्ति यस्य, असाव् अपि तिरस्कृतः । तद् अपि महितया स्व-महत्त्वेन ॥१९॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : शय्या इति । विकत्थनं अश्लाघा, ऐक्यान् मिथश् चित्ताभेदात् त्वम् एव ऋतवान् सत्यवादीति वक्रोक्त्या विप्रलब्धोऽवज्ञातोऽपि स महान् तत् सर्वं मे मम अघम् अपराधं महितया स्व-महत्त्वेन सेहे इति प्राग्वद् दास्योदयः ॥१९॥

———————————————————————————————————————

**॥ १.१५.२० ॥ **

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन

सख्या प्रियेण सुहृदा हृदयेन शून्यः ।

अध्वन्य् उरुक्रम-परिग्रहम् अङ्ग रक्षन्

गोपैर् असद्भिर् अबलेव विनिर्जितोऽस्मि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वया शङ्कितं पराजयं चापि प्राप्तोऽहम् इत्य् आह । तेन सख्या रहितोऽतो हृदयेन शून्यःअङ्ग ! हे राजन् ! उरुक्रमस्य परिग्रहं षोडश-सहस्र-स्त्री-लक्षणम् । असद्भिर् नीचैः अबला योषेव ॥२०॥

———————————————————————————————————————

कैवल्य-दीपिका : कृष्ण-वियोग-फलं कथयति—सोऽहम् इति द्वयेन । सख्यम् उपकारेण । प्रियत्वं निरुपधि प्रेमास्पदत्वेन । सुहृत्त्वं प्रत्युपकारानपेक्षम् । उपकर्तृत्वेन उरुक्रम-परिग्रहम् कृष्ण-वल्लभा-वर्गः ॥२०॥ [मु।फ। १३.१३]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : सोऽहम् इत्य् एकादश-क्रम-व्याख्यायां त्वं तु मद्-धर्मम् आस्थाय [भा।पु। ११.३०.४९] इत्य् आदौ, राजन् परस्य [भा।पु। ११.३१.११] इत्य्-आदौ मायिक-लीलामयत्वेनैवेति दर्शयिष्यते ब्रह्म-पुराणस्यात्रैवार्थे तात्पर्यम् अवगम्यते । अर्जुनं प्रति व्यास-वचनम्, यथा—

तत् त्वया न हि कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव ।
तेनाप्य् अखिल-नाथेन सर्वं तद् उपसंहृतम् ॥ इति ।

अखिलः पूर्ण एव नाथः पतिः कृष्णः, तेन तत् सर्वं तत्-प्रिया-वृन्दम् उप निकट एव सम्यक्-प्रकारेण अपहृतम् । अर्जुन-सकाशाद् गृहीतम् इत्य् एवं व्याख्येयम् ॥२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वया शङ्कितं पराजयं च प्राप्तोऽस्मीत्य् आह, तेन सख्या रहितः अतो हृदयेन मनसा शून्यः मूर्छित-प्राय इत्य् अर्थः, उरुक्रमस्य परिग्रहं षोडश-सहस्र-स्त्री-लक्षणम् असद्भिर् नीचैः वस्तुतस् तु न विद्यन्ते सन्तो येभ्यस् तैर् गां पृथ्वी द्यां च पान्तीति तैः गोप-जातित्वाच् च गोपैः ताः स्व-प्रेयसीर् अप्रकट-प्रकाशे प्रवेशनार्थं तत्-तद्-रूपेण भगवतैव तासाम् आकर्षणात् । न वयं साध्वि साम्राज्यं [भा।पु। १०.८३.४१] इत्य् आदौ, कामयामह एतस्य इत्य् अनेन,

व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा।पु। १०.८३.४३]

इति तासां वाक्येन व्रज-स्त्री-वाञ्छित एव भगवत्-स्वरूपः तासां मनोरथोऽवगतः । अन्यथा तासां भगवद्-उपभुक्त-देहानां साक्षाल्-लक्ष्मी-रूपाणां नीच-स्पर्शे सद्य एवान्तर्धानं स्याद् इत्य् अतः प्रकाशान्तरेण तासां व्रज-स्त्रीत्व-प्राप्तिर् इति ज्ञेयम् । विष्णु-पुराण-ब्रह्म-पुराणयोर् अप्य् अत्रैवऋथे तात्पर्यम् अवगम्यते । यथा तत्र तत्रार्जुनं प्रति व्यास-वचनम्,

एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् ।
भर्तारं प्राप्य ता याता दस्यु-हस्ता वराङ्गनाः । [वि।पु। ५.३८.८४]

इति पुरा देव्योऽष्टावक्र-मुनिं स्तुत्वा विष्णुर् वः पतिर् भविष्यतीति तस्माद् वरं प्राप्य तद्-अङ्ग-वक्रिम-दर्शनोत्थाद् उपहासाद् दस्यु-हस्ता भविष्यथा इत्य् अभिशापं च प्राप्य पुनः प्रसादिताच् च तस्माच् छापान्तं च प्रापुर् अतो भर्तारं प्राप्य दस्यु-हस्तं गता इति मुनेः शाप-प्रसादयोर् अमोघत्वाद् दस्यु-हस्त-गतत्वं भर्तुः प्राप्तिश् च तासां तन्त्रेणैवाभूत्, स्व-भर्तुः कृष्णस्यैव दस्यु-रूपत्वट् । अतस् तत्रैव पुनर् वचनान्तरं च यथा,

तत् त्वया न हि कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव ।
तेनाप्य् अखिल-नाथेन सर्वं तद् उपसंहृतम् ॥ [वि।पु। ५.३८.८५] इति ।

अखिलः पूर्ण एव नाथः पतिः कृष्णस् तेन तत् सर्वं स्व-प्रिया-वृन्दम् उप निकट एव सम्यक् प्रकारेण हृतम् अर्जुनात् सकाशात् गृहीतम् इत्य् एव व्याक्येयम् ॥२०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **त्वया शङ्कितम् अधमैः पराजयं च प्राप्तोऽस्मीत्य् आह—पुरुषोत्तमेन तेन सख्या रहितस् ततो हृदयेन चित्तेन च शून्यः । अध्वनि मार्गे उरु-क्रमस्य तस्य सख्युः परिग्रहं षोडश-सहस्र-पत्नी-रूपं रक्षन्न् अहम् असद्भिर् गोपैर् लुण्ठाकैः अवलेव स्त्रीव विनिर्जितोऽस्मीति सर्वं मत्-सामर्थ्यं तद्-दत्तमासीत्तेन विना तु तत् परिक्षीणम् इति भावः । अत्र स्फुटार्थो न ग्राह्यः, रेमे रमाभिः [भा।पु। १०.५९.४३] इत्य् उक्तेः, लक्ष्मी-रूपाणां तासाम् असद्भिः स्पर्शासम्भवात्, तत्-सन्निकर्षेऽन्तर्धान-सम्भवाच् च । ततश् चायम् एवार्थः— न वयं साध्वि! साम्राज्यम् [भा।पु। १०.८३४१] इत्य्-आदौ व्रजस्त्रियो यद् वाञ्छन्ति [भा।पु। १०.८३.४३] इति द्रौपदीं प्रति तासां वाक्याद्-व्रजदेवी-वाञ्छिते गोपवेशेऽतिमनोज्ञे कृष्णेऽभिलाषोभूत्—इति प्रतीतेस् तत्-सम्पादनाय गोपैः पृथिव्या दिवश् च पालकैर् गोप-वेशैः कृष्णस्य प्रकाशेरसद्भिः सत्तमैस् तासाम् अर्जुनादाकर्षणं रूपान्तरैर् व्रज-देवीत्व-प्रापणं तद् इदम् अर्जुनस्याप्य् अविदितम् इति प्रतीत-रूपतया तन्-निवेदनम् इति सुष्ठु । श्री-विष्णु-पुराणत्यापि अस्मिन्न् एवार्थे तात्पर्यम्—

एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् ।
भर्तारं प्राप्य ता याता दस्यु-हस्ता वराङ्गनाः ॥ [वि।पु। ५.३८.८४] इति,

तत्रार्जुनं प्रति व्यास-वाक्यम् । पुरा देवोऽष्टावक्रं स्तुत्वा विष्णुर् वः पतिर् भविष्यतीति तस्माद् वरं तच्-छरीर-वक्रत्व-वीक्षणोद्गतेन हासेन कुपितत्-तस्माद्-दस्यु-हस्ता भविष्यथेति शापं च प्राप्य पुनः प्रसादितात्-तस्माच्-छापान्तं प्रापुः । अतो मुनिशाप-प्रसादयोर् अव्यर्थत्वाद्-दस्यु-हस्तत्व-भर्तृ-प्राप्त्योस् तन्त्रेणैवोक्तिः, भर्तुर् एव दस्युत्वात् । अतस् तत्रैव तं प्रति तद्-वाक्यं—

त्वया तु न हि कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव!
तेनाप्य् अखिल-नाथेन सर्वं तद् उपसंहृतम् ॥ [वि।पु। ५.३८.८५] इति ।

तेन कृष्णेन सर्वं तत्स्वपत्नी-वृन्दम् उप स्वसन्निधौ सम्यक् त्वत्तो हृतं गृहीतम् इति ताश् चैता रमासु प्रविष्टा बोध्याः ॥२०॥


**॥ १.१५.२१ ॥ **

तद् वै धनुस् त इषवः स रथो हयास् ते

सोऽहं रथी नृपतयो यत आनमन्ति ।

सर्वं क्षणेन तद् अभूद् असद् ईश-रिक्तं

भस्मन् हुतं कुहक-राद्धम् इवोप्तम् ऊष्याम् ॥

**मध्वाचार्यः (भागवत-तात्पर्यम्) : **स रथोऽहयास् त इति तादृशा इत्य् अर्थः । त इषवः इतीव ।

सदृशे वा प्रधाने वा कारणे वा तद् इत्य् अयम् ।
शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः ॥ इति ब्रह्म-तर्के ।

तद्-रथ-हयानां दाहोक्तेः ॥२१॥

———————————————————————————————————————

कैवल्य-दीपिका : तद् इति । यतो धनुर्-आदेः असद् अप्रयोजकम् । ईशेन रिक्तं हीनं यथा ऊष्याम् ऊषर-भूम्न्याम् उप्तम्कुहकेन कपटेन राद्धं प्राप्तम् । तद् एव भस्मनि हुतम् । एतद् यथात्यन्तम् अप्रयोजकम् इदम् इत्य् अर्थः ॥२१॥ [मु।फ। १३.१४]

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-कृष्ण-वियोग एवात्र हेतुर् नान्य इत्य् आह—तद् इति । यतो येभ्यो नृपतयआनमन्तिईशेन रिक्तं शून्यम् असत्-कार्याक्षमं सन् मन्त्र-विधानैर् अपि भस्मनिहुतम् इव । अतिप्रीताद् अपि कुहकान् मायाविनः सकाशाद् राद्धं लब्धं यथा असत् । सम्यक् कर्षणादिनाप्य् ऊषर-भूमाव् उप्तं बीजम् इव ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

तद् वै धनुस् त इषवः स रथो हयास् ते

सोऽहं रथी नृपतयो यत आनमन्ति ।

सर्वं क्षणेन तद् अभूद् असद् ईश-रिक्तं

भस्मन् हुतं कुहक-राद्धम् इवोप्तम् ऊष्याम् ॥

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-कृष्ण-वियोग एवात्र हेतुर् नान्य इत्य् आह—तद् इति। यतो धनुर्-आदिभ्यो हेतुभ्यो माम् आनमन्ति तत् सर्वम् ईशेन रिक्तम् असत् कार्याक्षमम्। भस्मनि हुतम् इति निष्फलत्वे कुहकान् मायाविनः सकाशात् राद्धं प्राप्तम् इत्य् अवस्तु-भूतत्वे ऊष्याम् ऊषर-भूमौ उप्तम् इति नश्यद् अवस्थत्वे दृष्टान्तः ॥२१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृष्ण-विच्छेद एवात्र हेतुर् नान्यद् इत्य् आह—तद् इति । यतो धनुर्-आदेर् हेतोर् मां नृपतया आनमन्ति, तत् सर्वम् ईशेन कृष्णेन रिक्तम् असत् कार्याक्षमम् अभूत् । तत्र दृष्टान्तः—यथा सन्-मन्त्रादि-विधानैर् अपि भस्मनि हुतं व्यर्थम् । कुहक-राद्धं मायावि-लब्धम् । उष्यां सम्यक् कर्षणादिभिर् ऊषर-भूमाव् उप्तं च तद्वत् ॥२१॥

———————————————————————————————————————

**॥ १.१५.२२-२३ ॥ **

राजंस् त्वयानुपृष्टानां सुहृदां नः सुहृत्-पुरे ।

विप्र-शाप-विमूढानां निघ्नतां मुष्टिभिर् मिथः ॥

वारुणीं मदिरां पीत्वा मदोन्मथित-चेतसाम् ।

अजानताम् इवान्योन्यं चतुः-पञ्चावशेषिताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सुहृत्-पुरे त्वया पृष्टानां नः सुहृदां मध्ये चत्वारः पं च वावशेषिताः । तत्र हेतुः—विप्र-शापेत्य् आदि । वारुणीम् अन्नमयीम् । अजानताम् इवान्योन्यम् एरका-मुष्टिभिर् निघ्नताम् ॥२२-२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एरका-मुष्टिभिर् मिथो निघ्नतां सुहृतां मध्ये चत्वारः पं च वा अवशेषिताः ॥२२-२३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एरकामुष्टिभिर् मिथो निघ्नतां सुहृदां मध्ये चत्वरः पं च वावशेषिता इत्य् उत्तरेणान्वयः । तत्र बीजम् आह—विप्रेति ॥२२॥ \

\

वारुणीमन्नमयीन् ॥२३॥

———————————————————————————————————————

॥ १.१५.२४ ॥

प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अवशेषिता इत्य् अनेनोक्तं हेतु-कर्तारम् आह त्रिभिः—प्रयेणेति । भावयन्ति पालयन्ति ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रायेणेति दुःखोक्तिर् इयं तादृश-लीला-दृष्ट्य्-अनुसारेणैव ॥२४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **केनावशेषिता इत्य् अपेक्षायाम् आह—प्रयेणेति । एतद् यदु-कुल-संहरणम् । प्राय-ग्रहणं लोकोक्ति-रीत्यैव, न तु सिद्धान्त-रीत्येत्य् आह—मिथ इति । यत् यतो निमित्त-भूताद् भावयन्ति पालयन्ति ॥२४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **केनावशेषिता इत्य् अपेक्षायाम् आह—प्रायेणेति । एतद्-यदु-कुल-संहरणं, लोकरीत्यैवेदं न तु वस्तुत इत्य् आह—मिथ इति । यद्-यतो निमित्ताद्-भावयन्ति पालयन्ति ॥२४॥

———————————————————————————————————————

॥ १.१५.२५ ॥

जलौकसां जले यद्वन् महान्तोऽदन्त्य् अणीयसः ।

दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **जलौकसां मत्स्यादीनां मध्ये महान्तः स्थूला अणीयसः सूक्ष्माद् यथादन्ति भक्षयन्ति ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **जलौकसां मत्स्यादीनां मध्ये महान्तः स्थूला अणीयसः सूक्ष्मान् यथा भक्षयन्ति, बलिनस् तुल्य-बलास् तु मिथः परस्परम् एव । ये यान् शक्नुवन्तीत्य् अर्थः ॥२५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **जलौकसां मत्स्यादीनां मध्ये महान्तः स्थूला यथाणीयसः सूक्ष्मानदन्ति तद्वत् ये महान्तो बलिनस्ते तु मिथः ये यान् शक्नुवन्तीत्य् अर्थः ॥२५॥

———————————————————————————————————————

॥ १.१५.२६ ॥

एवं बलिष्ठैर् यदुभिर् महद्भिर् इतरान् विभुः ।

यदून् यदुभिर् अन्योन्यं भू-भारान् सञ्जहार ह ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं बलिष्ठैर् मदद्भिः पाण्डवैर् दुर्योधन-जरासन्धासीन् निहत्य यदुभिर् इतरान् शाल्वादीन् निहत्य यदून् यदुभिर् अन्योन्यं निहत्य भगवान् भुवो भार-भूतान् संहृतवान् ॥२६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एषाम् अधर्मिकत्वेन भारत्वं च, भू-भार-राज-पृतना यदुभिर् निरस्य [भा।पु। ११.१.३] इत्य् अत्रैकादशे परिहरिष्यते ॥२६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भू-भारान् भू-भार-भूतान् यदून् सञ्जहार इत्य् अर्जुनादीन् प्रति भगवता तल्-लीलायास् तथैव प्रत्यायितत्वात् । तत्-कारणं तत्रैव एकादश्यान्ते व्यक्तीभविष्यति । किं च, तद् अपि भू-भार-भूतान् यदून् इत्य् अर्जुनोक्त्या, न तु भुवोऽलङ्कार-भूतान् यदून्, तन्-नित्य-परिकराणां यदूनाम् । ये तु देवास् तत्रैव यदु-वंशावतारेण प्रविश्योद्भूतास् तेषाम् अपि रजस्-तमो-रहितानां भारत्वेन वक्तुम् अनुचितानाम् अपि स्व-स्व-पद-प्रापणाय तन्-मिषेणैवोपसंहारार्थम् । अष्टादशाक्षौहिणिको मद्-अंशैर् आस्ते बलं दुर्विसाहं यदूनां [भा।पु। ३.३.१४] इत्य् उक्तवता भगवता भारत्वारोपः कृतः ॥२६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं महद्भिर् वलिभिर् यदुभिर् इतरान् भूभारान् यदून् विभुः सञ्जहार । येऽत्र ब्रह्म-निर्देशाद्-देवांशा यदुष्ववतीर्णास् तान् प्राकृतान् एव भूभारान् सञ्जहार, ये तु नित्य-पार्षदा यदवस्ते खलु तद्-भारभूता न भवन्त्य् अपि तु तद् अलङ्कृतय एव, न हि तरुण्या भूषण-भूमा भारत्वायापितु सौख्यायैव, ते हि सार्द्धं तेन द्वार्वत्यम् एवासन्नित्य् एकादशे व्याख्यास्यामः ॥२६॥

———————————————————————————————————————

॥ १.१५.२७ ॥

देश-कालार्थ-युक्तानि हृत्-तापोपशमानि च ।

हरन्ति स्मरतश् चित्तं गोविन्दाभिहितानि मे ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतः परं वक्तुं न शक्नोमीति सूचयन्न् आह । देश-कालोचितार्थ-युक्तानि मनः-पीडोपशम-कऋआणि च गोविन्दस्य वचनानि स्मरतो मे मम चित्तं हरन्त्य् आकर्षन्ति ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अतः परं वक्तुं न शक्नोमि त्वम् अपि किञ्चिन् मा पृच्छेत्य् आह देशेति । यस्मिन् देशे यस्मिन् वा काले यस्मिन् वा अर्थे युक्तानि समुचितानि यानि यानि गोविन्दस्याभिहितानि वचनानि तानि स्मरतो मम हृदयं हरन्ति लुम्पन्ति ॥२७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवं प्रतीतिकं तत्रत्यं कदनम् अभिधाय कृष्णस्य चरितं स्मरन्न् आह—गोविन्दस्याभिहितानि वचांसि स्मरतो मे चित्तं हरन्ति । कीदृंशीत्य् आह—यस्मिन् देशे कालेऽर्थे वा युक्तान्युचितानि ॥२७॥

———————————————————————————————————————

॥ १.१५.२८ ॥

सूत उवाच—

एवं चिन्तयतो जिष्णोः कृष्ण-पाद-सरोरुहम् ।

सौहार्देनातिगाढेन शान्तासीद् विमला मतिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवम् इति सूतोक्तिः । अतिदृढेन स्नेहेन कृष्ण-पाद-सरोरुहं चिन्तयतोऽर्जुनस्य मतिः शान्ता विशोका विमला विरक्ता चासीत् ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवम् इति । शान्ता चेतसि चक्षुषीव भगवद्-आविर्भावेन दुःख-रहिता । अत एव विमला तद्-वृत्ति-भूता ये कालुष्य-विशेषास् तैर् अपि रहिता ॥२८॥ [प्रीति-सन्दर्भः ५२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मतिस् तद्-विरह-सन्तप्तापि शान्ता निरन्तर-तच्-चिन्तन-जनित-स्फूर्ति-लब्धेन तेन निर्वापित-दाहत्वात् शीतलेत्य् अर्थः । अत एव विमला अस्थैर्य-लक्षण-मालिन्यम् अपि तस्या विगतम् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवम् इति सूतोक्तिः । जिष्णोर् मतिर् हरिविर् अह-सन्तप्ता सन्तत-तच्-चिन्ताविर्भूतेन तेन शान्ता निर्वापित-तत्-तापातिशीतासीदित्य् अर्थः । विमला विगतास्थैर्य-मालिन्या ॥२८॥

———————————————————————————————————————

॥ १.१५.२९ ॥

वासुदेवाङ्घ्र्य्-अनुध्यान- परिबृंहित-रंहसा ।

भक्त्या निर्मथिताशेष- कषाय-धिषणोऽर्जुनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मति-वैमल्य-फलम् आह । वासुदेवाङ्घ्र्य्-अनुध्यायेन परिबृंहितं रंहो वेगो यस्यास् तया भक्त्या निर्मथिता उन्मूलिता अशेषा कषायाः कामादयो यस्याः सा धिषणा बुद्धिर् यस्य सः । ज्ञानं पुनर् अध्यगमद् [३०] इत्य् उत्तरेणान्वयः ॥२९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वासुदेवेति पूर्वस्यैव विवरणम् इदं पद्य-द्वयम् । तत्र अनुध्यानं पूर्वोक्ता चिन्तैव । कषायः पूर्वोक्तं मलम् एव ॥२९॥ [प्रीति-सन्दर्भः ५२]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु कामादयः कषाया अपि मल-शब्देनोच्यन्ते, सत्यम् । अर्जुनस्य भगवन्-नित्य-परिकरत्वेन साक्षान् नरावतारत्वेन च तद्-असम्भव एव, महेन्द्रांशत्वेन कषायः सम्भवति चेत्, तद् अपि नैवेत्य् आह—वासुदेवेति । जन्मारभ्यैवोत्पन्नया भक्त्या प्रथमत एव निर्मथिता उन्मूलिता अशेषाः कषायाः कामादयो यस्याः सा धिषणा बुद्धिर् यस्य, तथाभूत एवार्जुनः ॥२९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **निर्मथितोऽशेषः कृत्स्नः कषायो यस्यास् तादृशी धिषणा धीर् यस्य सोऽर्जुनः इति तत्-प्रविष्ट-शक्रांशविषयम् एतत्, स्वयम् अर्जुनस् तु योऽहं तम् अर्जुनं विद्धि योऽर्जुनः सोऽहम् एव च [मौषल। ६२.१] इति मौषलीय-भगवद्-वाक्येन तद्-रूप एवेति न तत्र तादृशत्वं सम्भाव्यम् ॥२९॥

———————————————————————————————————————

॥ १.१५.३० ॥

गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम-मूर्धनि ।

काल-कर्म-तमो-रुद्धं पुनर् अध्यगमत् प्रभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालेन कर्मभिस् तमसा भोगाभिनिवेशेन च रुद्धम् आवृतं सत् ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : गीतं **माम् एवैष्यसि [गीता १८.६५] इत्य् अन्तम् । कालो भगवल्-लीलेच्छा-मयः । कर्म तल्-लीला । तमस् तल्-लीलावेशेन तद्-अनुसन्धानम् । अध्यगमत् तन्-महा-विच्छेदस्य तस्यान्तेऽपि तथा तत्-प्राप्तः **पुनर् **माम् एवैष्यसि इत्य् एतद् वाक्यं यथार्थत्वेनानुभूतवान् ॥३०॥ [प्रीति-सन्दर्भः ५२]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किन्तु प्रियस्य विच्छेद-दवे प्रियोक्ति-स्मृत्यैव सन्धुक्षणम् आतुरस्य इति रीत्या तन्-मुख-चन्द्र-विनिर्गतं सर्व-सन्तापोपशमनं गीतामृतम् एव पातुम् आरेभे इत्य् आह—गीतम् इति । कालादिभिर् अवरुद्धम् अविस्मृतम् । तत्र तमोऽन्धकार-समस् तद्-विरह एव ॥३०॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **किञ् च, भारताहवे भगवतोक्तम् अनुस्मृत्य तद्-विरहतापस् तस्य समशम्यदित्य् आह—गीतम् इति ।

मन्मना भव मद्-भक्तो-मद्-याजी-मां-नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ [गीता ९.३४] इति,

यत्-तेन गीतं तत्-पुनर् अध्यगमत् । हे अर्जुन त्वं संप्रति मा भीतोऽसि, मत्-तिरोधानोत्तरं च माम् एव एष्यसीत्य् अर्थः । तत् कीदृशं? कालेन बहुसम्वत्सरात्मकेन कर्मणा राज्य-व्यापारेण तमसा भोगाभिनिवेशेन चारुद्धम-विस्मृतं तद् अधुना कर्म-तमः-शून्योऽधिकम् अगमद् अन्वभूद् इत्य् अर्थः ॥३०॥

———————————————————————————————————————

॥ १.१५.३१ ॥

विशोको ब्रह्म-सम्पत्त्या सञ्छिन्न-द्वैत-संशयः ।

लीन-प्रकृति-नैर्गुण्याद् अलिङ्गत्वाद् असम्भवः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ज्ञान-फलम् आह—विशोक इति । एतद् एव शोक-हेत्व्-अभावेनोपपादयति । शोकस्य हि हेतुर् द्वैत-भ्रमः, तस्य देहः, तस्य लिङ्गं, तस्य गुणाः, तेषाम् अविद्या । तत्र ब्रह्म-संपत्त्या वेदान्त-श्रवणेन “ब्रह्म् आहम्” इति ज्ञानेन लीना प्रकृतिर् अविद्या यस्मिंस् तन्-नैर्गुण्यं भवति, न तु सुषुप्ति-प्रलययोर् इवाविद्या-शेषः । तस्मान् नैर्गुण्याद् गुण-कार्य-लिङ्ग-नाशः । अलिङ्गत्वाच् चासम्भवः सम्यग् भोगाय भवति, पुनः पुनर् इति सम्भवः स्थूल-देहः, तद्-रहितः । ततश् च तत्-परिच्छेदाभावात् सञ्छिन्नो द्वैत-लक्षणः संशयो भ्रमो यस्य, स विशोको जात इति ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततश् च कृतार्थोऽभवद् इत्य् आह—विशोक इत्य्-आदि । ब्रह्म-सम्पत्त्या श्रीमन्-नराकार-पर-ब्रह्म-साक्षात्कारेण । **सञ्छिन्न **“इयं मम चेतसि स्फूर्तिर् एव । साक्षात्कारस् त्व् अन्यः” इति द्वैते संशयो येन सः । तदा भगवत्-प्राप्तौ नान्यवज्-जन्मान्तर-प्राप्ति-काल-सन्धिर् अप्य् अन्तरायोऽभवद् इत्य् आह—लीनेति । लीना पलायिता प्रकृतिर् गुण-कारणं यस्माद्, एवं-भूतं यन् नैर्गुण्यं, तस्माद् धेतोः, गुण-तत्-कारणातीतत्वाद् इत्य् अर्थः । तथैव अलिङ्गत्वात् प्राकृत-शरीर-रहितत्वाच् च । असम्भवो जन्मान्तर-रहितः । तस्माद् अनन्तरं चक्षुष्य् आविर्भवतीत्य् एव विशेष इति भावः ।

अतः कलिं प्रति श्री-परीक्षिद्-वचनं—यस् त्वं दूरं गते कृष्णे सह गाण्डीव-धन्वना [भा।पु। १.१७.६] इति, एवं येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इति श्री-मुनि-वृन्द-वाक्यं च । तस्मात् सर्वेषां पाण्डवानां तदीयानां च सैव गतिः व्याख्येया ॥३१॥ [प्रीति-सन्दर्भः ५२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र च,

मन्-मना भव मद्-भक्तो मद्-यजी मां नमस्कुरु ।
माम् एवैष्यसि कौन्तेय प्रतिजाने प्रियोऽसि मे ॥ [गीता १८.६५]

इत्य् अत्र पद्ये एष्यसीति भविष्यन्-निर्देशेनेदं द्योतितम्, “हे कौन्तेय ! सम्प्रति त्वं माम् एष्यस्य् एव । यदा तु तव मद्-वियोगो महान् भावी, तदा मां प्राप्तुं यतिष्यमाणस्य तव तद्-उपायम् अहम् अधुनैव स्नेहेन ब्रवीमि” इति स्व-प्राप्त्य्-अर्थं यद् ध्यानम् उक्तं, सम्प्रति तेन मुहुर् अभ्यस्तेन ध्यानेनैव तत्-पार्श्व-गतम् एवात्मणम् अभिमन्यमानस्यापि “मम देह एवान्तरायो यतोऽयं मध्ये मध्ये बहिर् वृत्तिम् अनुभाव्य मां शोकार्णवे क्षिपति । तद् अस्माद् देहाद् आत्मनः पार्थक्यम् आपादयितुं सर्व-शास्त्रास्त्र-विद्यावत् पूर्वाभ्यस्तं योगम् एव लक्षणं3 अनुशीलयामि” इति मनसि निश्चित्य चिन्मय-शरीरोऽपि आत्मानं श्री-कृष्णं नित्य-प्रिय-सखत्वेन नारायण-सखत्वेन वा नानुसन्दधानः प्रेम-वैवश्येन प्राकृतं नरम् एव जानंस् तद्-भावापलापाय क्षण-मात्रेणैव योगारूढो बभूवेत्य् आह—विशोक इति ।

ब्रह्म-सम्पत्त्या प्राप्तया विशोकोऽभूद् इति तद्-अभिमत्य्-अनुसारेणैव सूतोक्तिः, वस्तुतस् तु प्रपञ्च-गतां सम्पत्तिं त्यक्त्वा ब्रह्म-सम्पत्त्या अप्रकट-प्रकाश-गतया श्री-कृष्ण-प्रिय-सखत्व-प्राप्त्या विशोकः विगत-शोकः **सञ्छिन्नो द्वैते संशयः, **“देहेन सह मम सम्बन्धोऽस्ति नास्ति वा” इति सन्देहो यस्य सः । वस्तुतस् तु द्वैते सख्युः श्री-कृष्णात् सकाशात् स्वस्य भिन्नत्वे सति संशयः पूर्वम् आवयोः परस्पर-सख्याद् ऐक्यम् आसीत्, सम्प्रति तु द्वैतं वृत्तम् । तद् अधुना स कृष्णः किं पुनर् अपि सख्य-सुख-मयाद्वैत एव मां नेष्यति ?

किं वा, पार्थक्य-लक्षण-द्वैत-दुःख-सिन्धौ निमज्जयिष्यतीति भावना-मयः सन्देहः सञ्छिन्नो यस्य सः । न च तस्य प्राकृत-लोकस्येव4 पुनः संसार आशङ्कनीय इत्य् आह—लीन इति स्पष्टम् । वस्तुतस् तु लीनं सुश्लिष्टं दुर्लक्ष्यं यत् प्रकृतितः स्वभावाद् एव नैर्गुण्यं कृष्ण-सखत्वेन गुणातीतत्वं, तस्माद् एव्आलिङ्गत्वं लिङ्ग-देहाभावः, तत् एव न सम्यग्-भवः संसारो यस्य सः ।

यद् वा, महेन्द्रांश-भूतोऽर्जुनस् तु जीवन्-मुक्तोऽभूद् इत्य् आह—विशोक इति । सञ्छिन्नो द्वैत-संशयः प्रपञ्चानुसन्धान-गत-शोक-मोहादिर् यस्य सः । तत्र हेतुः—लीना ईश्वरे लीनीकृता या प्रकृतिः, तत एव यन् नैर्गुण्यं, तस्मात् । अत एव्आलिङ्गत्वाल् लिङ्ग-देहापगमाद् असम्भवः अपुनर् जन्मेत्य् अर्थः ॥३१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **ततस् तस्य कृष्ण-साक्षात्कारोऽभूद् इत्य् आह—ब्रह्मणः स्व-सखस्य सम्पत्त्या साक्षात्कारेण विशोकः । ततः संछिन्नो द्वैत-संशये यस्य सः । शय्यासनाटन-विकत्थन-भोजनादिष्वैक्याद् इति यन्-मया चित्तैक्यम् अनुभूतम् आसीत्-तस्मिन् सांप्रतिकेन द्वैतेन त्याग-विभातेन चित्त-भेदेन यः संशयस् तदैक्यं सम्पादयिष्यति न वेति भावनामयः सन्देहः, स तस्य सञ्छिन्नस् तथैव तदैक्य-प्राप्तेर् इत्य् अर्थः । न चार्जुनस्यान्यवत् पुरापि संसारोऽस्तीत्य् आह—लीनं सुश्लिष्टं दुर्लक्ष्यं यत् प्रकृत्या स्वभावेनैव नैर्गुण्यं नरावतारत्वात् कृष्ण-सखत्वाच् च गुणातीतत्वं तस्माद् एवालिङ्गत्वाल्-लिङ्ग-शरीर-विरहाद् असम्भवः संसाराभावः सर्वदैवत्य् अर्थः ॥३१॥

———————————————————————————————————————

॥ १.१५.३२ ॥

निशम्य भगवन्-मार्गं संस्थां यदु-कुलस्य च ।

स्वः-पथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतो मार्गम् आलक्ष्य यदु-कुलस्य संस्थां नाशं श्रुत्वा नारदोक्तं चानुस्मृत्य स्वः-पथाय स्वर्ग-मार्गाय । निभृतात्मा निश्चल-चित्तः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवन्-मार्गं निशम्य वितर्क्य । यदु-कुलस्य चसंस्थांनिशम्य श्रुत्वा । श्री-कृष्णस्य नित्य-सामीप्येन सम्यक् स्थितिं वितर्क्येति वास्तवोऽर्थः । स्वः श्री-कृष्ण-धाम, येऽध्यासनं [भा।पु। १.१९.२०] इत्य् आदौ, सद्यो जहुर् भगवत्-पार्श्व-कामा इत्य् अनेन तद्-अर्थम् एव कृत-प्रयत्नत्वात्, ब्रह्मादयो लोकपालाः स्वर् वासम् अभिकाङ्क्षिणः इति श्री-भगवद्-वाक्याच् च ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मार्गं पदवीं चातुर्य-परिपाटीम् इति यावत् । संस्थां वक्ष्यमाण-सिद्धान्तानुसारेण अप्रकट-प्रकाश-गतत्वेन सम्यक् स्थितं स्वान्तर् दशायां तद्-बहिर् दशायां तु नाशं च । स्वः श्री-कृष्णधाम । येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इत्य् उक्तत्वात् । तथा सम्पदः क्रतवो लोका इत्य्-आदिभ्यश् च । युधिष्ठिर इत्य् उपलक्षणम् । पञ्चैव भ्रातरः स्वः-पथाय श्री-कृष्ण-धाम-पथं गन्तुं मतिं चक्रुःनिभृतात्मा अन्यालक्षित-चित्त-व्यापारः ॥३२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **मार्गं पदवीं, संस्थाम् अप्रकट-प्रकाशे सम्यक् स्थितिं निशम्य श्रुत्वा युधिष्ठिरः स्वपथाय श्री-कृष्ण-लोक-मार्गं गन्तुं मतिञ्चक्रे, येऽध्यासनं राज-किरीट-जुष्टं सद्योजहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इत्य् उक्तेः । निभृतात्मान्यालक्षित-चित्त-व्यापारः । युधिष्ठिर इति भीमादीनाम् उपलक्षणम् ॥३२॥

———————————————————————————————————————

॥ १.१५.३३ ॥

पृथाप्य् अनुश्रुत्य धनञ्जयोदितं

नाशं यदूनां भगवद्-गतिं च ताम् ।

एकान्त-भक्त्या भगवत्य् अधोक्षजे

निवेशितात्मोपरराम संसृतेः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तां दुर्विज्ञेयाम् । वक्ष्यति ह्य् एकादशे—

सौदामिन्या यथाकाशे यान्त्या हित्वाभ्र-मण्डलम् । \

गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः ॥ [भा।पु। ११.३१.९] इति ।

संसृतेर् उपरराम जीवन्-मुक्ता बभूव । देहं जहाव् इति वा ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नाशं लोक-दृष्ट्याः, वस्तुतस् त्व् अदर्शनम् एव । भगवत्य् अधोक्षजे निवेशितात्मा इति भगवतः पृथा-ध्यानालम्बनत्वं दर्शयित्वा पृथयानुभूतां स्थितिम् एव दर्शयति । तत्र सौदामिन्या [भा।पु। ११.३१.९] इत्य्-आद्य् एकादश-स्कन्ध-पद्यात्मकं शास्त्रं सौदामिन्या अपि नाशं निषेधयति चेत्, तर्ह्य् अत्रापि तद्-दृष्ट्या सुतराम् एव तन् मन्तव्यम् । तद् उक्तं तत्रैव,

देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि ।
अविज्ञात-गतिं कृष्णं ददृशुश् चातिविस्मिताः ॥ [भा।पु। ११.३१.८] इति ।

संसृतेः प्रपञ्चावतारात् ॥३३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तां प्रसिद्धाम् अन्तर्धान-लक्षणाम् । संसृतेः सम्यक् सरणात् प्रपञ्चे ऽवतारात् उपरराम सद्य एव वान्तर्दधाव् इत्य् अर्थः । तच्-छ्रवण-क्षण एव तद्-वियोग-जनितां दशमीम् अपि दशां दर्शयामासेति वा ॥३३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **नाशम् अदर्शनं, तां प्रसिद्धां तिरोधान-रूपां, संस्कृतेः प्रपञ्च-सञ्चाराद् उपरराम सद्य एवान्तरधात् ॥३३॥

———————————————————————————————————————

॥ १.१५.३४ ॥

ययाहरद् भुवो भारं तां तनुं विजहाव् अजः ।

कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् उक्तम् अपि यादवेभ्यो भगवतो वैलक्षण्यम् अबुद्ध्वा तत्-साम्यं वदतो मन्द-मतीन् प्रति वैलक्षण्यं स्पष्टयति द्वाभ्याम् । यया यादव-रूपया तन्वाभुवोभारङ्कण्टकेन कण्टकम् इवाहरत् । यादव-तनुं भू-भार-तनुं चेति द्वयम् अपि ईश्वरस्य संहार्यत्वेन समम् एव ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ययेति । तनु-रूप-कलेवर-शब्दैर् अत्र श्री-भगवतो भू-भार-जिहीर्षा-लक्षणो देवादि-पिपालयिषा-लक्षणश् च भार एवोच्यते । यथा तृतीये विंशतितमे तत्-तच्-छब्दैर् ब्रह्मणो भार एवोक्तः । यदि तत्रैव तथा व्याख्येयं, तदा सुतराम् एव श्री-भगवतीति । ततश् च तस्य भारस्य भगवति तद्-आभास-रूपत्वात् कण्टक-दृष्टान्तः सुसङ्गत एव । तथा द्वयम् एवेशितुः साम्यम् अपि । तत् तु तृतीय-श्री-परमात्म-सन्दर्भे विवृतम् अस्ति ॥ [कृष्ण-सन्दर्भ १०६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यादवादीनाम् अन्तिम-दशा-श्रवणेन विषीदतः शौनकादीन् आश्वासयन् सिद्धान्त-रहस्यम् आह—ययेति । यया यादवादि-तन्वाभुवः स्व-पाद-भूताया [स्व-पाद-मूलायाः] भारं कण्टकेन सूच्य्-अग्रेण कण्टकम् इव अहरत्, ताम् एव तनुं विजहौ । देवदत्तो वसनं विजहाव् इतिवत् स्व-सङ्गाद् विच्युतीचकारेत्य् अर्थः, न तु यया नित्यं क्रीडति ताम् अपीति भावः । तेन अंशावतरण-समये ये देवा नित्य-भूतेषु प्रविष्टाः, ते एव तेभ्यो योग-बलेन निष्कास्य प्रभासं गमिताः, तद्-देह-त्यागं लोकान् माययैव दर्शयता भगवता मधु-पानानन्तरं देव-रूपीकृत्य स्वर्गं प्रापयामासिरे इत्य् एकादशान्त-व्याख्यानुसृत्या ज्ञेयम् । नित्य-लिला-परिकरा यादवास् तु प्रापञ्चिक-लोकालक्षिताः श्री-कृष्णेन समं द्वारकायाम् एव यथा-पूर्वम् एव खेलन्तीति भागवतामृतोक्त-सिद्धान्ताद् अवगन्तव्यम् ।

द्वयम् इति । भू-भार-भूता असुरा यादवादि-रूपा देवाश् चेति द्वयम् ईशितुः परमेश्वरस्य समम् एव । किन्तु दृष्टान्ते कण्टकत्वेन साम्येऽपि करण-भूतस्य सूच्य्-अग्रस्य उपकारकत्वेनान्तरङ्गत्वं कर्म-भूतस्य कण्टकस्यापकारकत्वेन साम्येऽपि बहिर् अङ्गत्वम् इत्य् अपि ज्ञापितम् । सूच्य्-अग्रे क्षुद्र-शत्रौ च लोमहर्षे च कण्टकः इत्य् अमरः ॥३४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **यादवानां विनाशं श्रुत्वा खिन्नान् शौनकादीन् सिद्धान्त-रहस्येनाश्वासयन्न् आह—ययेति । यया ब्रह्मादेशावतीर्ण-देवांश-यादवतन्वा, जात्यैक-वचनं, परत्राप्येवम् । पद्भ्यां भूमिः [ऋक् ८.४.१९] इति श्रुतेः । स्वपद-भूताया भुवो भारं दैत्य-राजन्य-रूपम् अहरत्, कण्टकेन सूच्यग्रेण कण्टकम् इव—तां तद्-रूपां तनुमजो नित्य-मूर्तिर् भगवान् जहौ स्वसङ्गाद् वियुक्ताञ्चकार । सूच्यग्रे क्षुद्र-शत्रौ च लोमहर्षे च कण्टकः इत्य् अमरः । ईशितुर् जगद्-व्यापारिणः परेशस्य भू-भार-दैत्य-राजन्य-वृन्दं देवांशभूत-यादव-वृन्दं चेति द्वयं समम् उपेक्ष्यतया तुल्यम् इत्य् अर्थः । न चात्राविशेष-प्रतीतेर् देवांश-यादव-रूपां तनुं जहाविति न शक्यं वक्तुम् इति वाच्यम् । अविशेष-स्वीकारे सर्वदा मत्-प्रिया देवि । [प।पु। उत्तरखण्डे ७१] इत्य् उक्ति-व्याकोपात् ॥३४॥

———————————————————————————————————————

॥ १.१५.३५ ॥

यथा मत्स्यादि-रूपाणि धत्ते जह्याद् यथा नटः ।

भू-भारः क्षपितो येन जहौ तच् च कलेवरम् ॥5

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-कृष्ण-मूर्तेर् विशेषम् आह—यथेति । तान्य् अपि तथा धत्ते जहाति च । तद् आह—यथा नटो निज-रूपेण स्थितोऽपि रूपान्तराणि धत्तेऽन्तर् धत्ते च, तथा तद् अपि कलेवरं जहौ, अन्तर् अधाद् इत्य् अर्थः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्स्यादि-रूपाणि मत्स्याद्य्-अवतारेषु तत्-तद्-भारान् । अथ नट-दृष्टान्तेऽपि नटः श्रव्य-रूपकाभिनेता । व्याख्यातं च तैः प्रथमस्यैकादशे—नटा नव-रसाभिनय-चतुराः [१.११.२१] इति । ततो यथा श्रव्य-रूपकाभिनेता नटः स्वरूपेण स्व-वेशेन च स्थित एव पूर्व-वृत्तम् अभिनयेन गायन् नायक-नायिकादि-भावं धत्ते जहाति च, तथेति ।

अथवा, नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता। ७.२५] इति श्री-गीत-वचनेन ।

योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च मत्सराच् च जनार्दनः ॥

इति पाद्मोत्तर-खण्ड-निर्णयेन । मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इति श्री-भागवत-दर्शनेन । आत्म-विनाशाय भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं परम-ब्रह्म-भूतम् अपगत-द्वेषादि-दोषो भगवन्तम् अद्राक्षीत् [वि।पु। ४.१५.१५] इति शिशुपालम् उद्दिश्य विष्णु-पुराण-गद्येन चासुरेषु यद् रूपं स्फुरति, तत् तस्य स्वरूपं न भवति, किन्तु माया-कल्पितम् एव । स्वरूपे दृष्टे द्वेषश् चापयातीति । ततश् चासुरेषु स्फुरत्या यया तन्वा भुवो भार-रूपम् असुर-वृन्दम् अहरत्, तां तनुं विजहौ । पुनस् तत्-प्रत्यायनं न चकारेत्य् अर्थः । भक्ति-दृश्या तनुस् तु तस्य नित्य-सिद्धैवेत्य् आह—अज [गीता। ४.६] इति, देवक्यां देव-रूपिण्यां [भा।पु। १०.३.८] इत्य् आदेः, कृष्णं च तत्र छन्दोभिः स्तूयमानं [भा।पु। १०.२८.१७] इत्य् अत्र गोलोकाधिष्ठातृत्व-निर्देशाच् च ।

ततश् च, यथा नट ऐन्द्रजालिकः कश्चित् स्व-भक्षकानां बकादीनां निग्रहाय मत्स्याद्य्-आकारान् धत्ते, स्वस्मिन् प्रत्यायति तन्-निग्रहे सति यथा च तानि जहाति, तथा सोऽयम् अजोऽपि येन मायित्वेन लक्ष्यतां प्रापितेन रूपेण भू-भार-रूपासुर-वर्गः क्षपित-तद्-वर्गं क्षपितवान् इत्य् अर्थः । तच् च कलेवरम् अजो जहौ अन्तर्धापितवान् इत्य् अर्थः । किन्तु श्री-गीता-पद्ये योग-माया-समावृतः [गीता। ७.२५] सर्प-कञ्चुकवन्-माया-रचित-वपुर् आभास-समावृत इत्य् अर्थः ॥३५॥ [कृष्ण-सन्दर्भ १०६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कृष्णस् त्व् ऐन्द्र-जालिक-नट इव स्व-देह-त्यागं मिथ्या-भूतम् एव प्रत्याययामासेत्य् आह—यथेति । भगवान् धत्ते जह्यात् न तु धृत्वा जह्याद् इति तनु-त्याग-कालेऽपि तत्-तत्-तनु-धारणम् अस्त्य् एव । ननु कथम् एतद् बोद्धव्यम् इत्य् अत आह—यथा नट ऐन्द्र-जालिकः छेद-दाह-मूर्च्छादिभिः स्व-देहं त्यजति तस्य त्यागं सर्वान् दर्शयति प्रत्याययति च, अथ च स्व-देहं धत्ते एव न तु म्रियते, तथैव मत्स्यादि-रूपाणि मत्स्यादि-शरीराणि स्वीयानि भगवान् धत्ते जह्यात् दधान एव जहाति । तेन नटस्य स्व-शरीर-धारणं सत्यम् एव तत्-त्यागस् तु मिथ्यैव यथा तथैव भगवतोऽपि मत्स्यादि-स्वीय-शरीर-धारणं सत्यम् एव तत्-तत्-त्यागो मिथ्यैवेत्य् अर्थः । यथा च मत्स्यादि-शरीराणि दधान एव जहाति तथैव येन भू-भारः क्षपितस् तच् च कलेवरं जहाव् इति श्री-कृष्ण-कलेवर-त्यागो मिथयैवेति । नराकृति-पर-ब्रह्मत्वादिकम् अपि नट-रूप-नर-धर्मम् एवं भगवान् करोति, न तु तत्त्वेन । स्व-देहस्याभौतिकत्वेन नाशासम्भवात् । यद् उक्तं महाभारते, न भूत-सङ्घ-संस्थानो देहोऽस्य परमात्मनः इति । बृहद्-वैष्णवेऽपि,

यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः ।
स सर्वस्माद् बहिः कार्यः श्रौत-स्मार्त-विधानतः ।
मुखं तस्यावलोक्यापि स-चैलः स्नानम् आचरेद् ॥ इति ।6

वैशम्पायन-सहस्र-नामनि च—अमृतांशोऽमृत-वपुर् इति। अमृतं मरण-रहितं वपुर् यस्य इति तत्र श्री-शङ्कराचार्य-व्याख्या च प्रसिद्धा । अत्र श्लेषेण जह्याद् इति जहातेस् त्यागार्थत्वात् त्यागस्य च दानार्थत्वात् वैकुण्ठादि-धाम-स्थेभ्यो भक्तेभ्यः स्व-शरीर-प्रविष्ट-चरं नारायणादि-रूपं तेषां पालनार्थं ददाव् इत्य् एकादशान्ते व्याख्यास्यते ॥३५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **उक्तम् अर्थं दृष्टान्तान्तरेणह—यथा नटोभिनयाभिज्ञः स्वरूपेण स्थित एव मत्स्य-वक-सारसादि-रूपाणि यथा यथावद्-धत्ते जह्यात्, तथा स भगवान् स्वरूपेण स्थित एव येन देवांश-यादव-रूपेण भू-भारः क्षपितस् तच् च तद् एव कलेवरं जहौ । देव-रूपं तद्-विधाय स्वर्गं प्रापियामास । यावद् अधिकार [वे।सू। ३.३.३३] न्यायेनाधिकारान्ते तेषां विमोक्ष-सम्भवाद् इति भावः । अनायासेन धारणे हाने च दृष्टान्तोऽयम् । अपरे तु यथेन्द्रजालिको नटः स्वरूपेण स्थित एवेन्द्र-जाल-विद्यया स्व-देहच्छेद-दाहादि दर्शयति, तथा भगवान् स्वयं स्थित एव मायया देह-त्यागं लोक-विरागाय । राजन्! परस्य तनु भृज्-जननाप्य् अयेहा माया-विडम्बनम् अवेहि यथा नटस्य [भा।पु। ११.३१.४१] इत्य् एकादशोक्तेरित्य् आहुः । ये खलु श्री-मूर्तेस् त्यागं व्याचक्षते, ते त्व् अपरिशीलित-शास्त्रदेशिका बोध्याः । आत्मभूतायास् तस्यास् त्यागासम्भवात् । आदायान्तरधाद् यस् तु स्व-विम्बं लोक-लोचनम् [भा।पु। ३.२.११] इत्य् उद्धवोक्तेश् च ॥३५॥

———————————————————————————————————————

॥ १.१५.३६ ॥

यदा मुकुन्दो भगवान् इमां महीं

जहौ स्व-तन्वा श्रवणीय-सत्-कथः ।

तदाहर् एवाप्रतिबुद्ध-चेतसाम्

अभद्र-हेतुः कलिर् अन्ववर्तत ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **युधिष्ठिरस्य स्वर्गारोह-प्रसङ्गाय कलि-प्रवेशम् आह—यदेति । स्व-तन्वा जहौ । स-तनोर् एव वैकुण्ठारोहात् । श्रवणार्हा सती कथा यस्य । तदा यद् अहस् तस्मिन्न् एव । अहर् इति लुप्त-सप्तम्य्-अन्तं पदम् । अप्रतिबुद्ध-चेतसाम् अविवेकिनाम् इति । विवेकिनां तु न प्रभुर् इत्य् उक्तम् । अन्ववर्ततेति पूर्वम् एवांशेन प्रविष्ठ्य तेन7 रूपेणानुवृत्तिर् उक्ता ॥३६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यदेति । त्यागोऽत्र स्व-तनु-करणक इति, न तु स्व-तन्वा सहेति व्याख्येयम् । सहेत्य् अध्याहार्यापेक्षागौरवात् । उपपद-विभक्तेः कारक-विभक्तिर् बलीयसीति न्यायाच् च ॥३६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तनु-त्यागस्यावास्तवत्वं स्पष्टयन्न् आह—यदा स्व-तन्वा जहौ स्व-तनोर् एव वैकुण्ठारोहाद् इति श्री-स्वामि-चरणाः । त्यागोऽत्र स्व-तनु-करणक एव, न तु स्व-तन्वा सह महीं जहाव् इति कुव्याख्याया अवकाशः उपपद-विभक्तेः कारक-विभक्तिर् बलीयसी इति न्यायात् ।

प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् ।
आदायान्तरधाद्यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भा।पु। ३.२.११] इति ।

अत्रापि लोक-लोचन-रूपं स्व-बिम्बं निज-मूर्तिं प्रदर्श्य पुनर् आदायैव च अन्तरधात् न तु त्यक्त्वेति सन्दर्भश् च, तदा यद्-अहः तद् अभिव्याप्येत्य् अर्थः । अप्रतिबुद्ध-चेतसाम् इति विवेकिनां तु न प्रभुर् इत्य् अर्थः । चौरो हि निद्रितस्यैव धनम् अपहरति प्रतिबुद्धात् तु बिभेतीत्य् अर्थः ॥३६॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **इमम् एवार्थं स्फुटन्न् आह—यदेति । स्वतन्वा करणेन यद् एमां महीं मुकुन्दो जहौ, तदा यद् अहस् तद् अभिव्याप्य कलिर् अन्ववर्तत प्रविष्टः । अप्रतिबुद्ध चेतसाम् इति सुप्तानाम् इव चौर इत्य् अर्थः । न च स्वतन्वेति सहार्था तृतीयास् तु, उपपद-विभक्तेः कारक-विभक्तिर् वलीयसीति न्यायाद् उक्तप्रमाणाच् च ॥३६॥

———————————————————————————————————————

॥ १.१५.३७ ॥

**युधिष्ठिरस् तत् परिसर्पणं बुधः **

पुरे च राष्ट्रे च गृहे तदात्मनि8** ।**

**विभाव्य लोभानृत-जिह्म-हिंसनाद्य्- **

अधर्म-चक्रं गमनाय पर्यधात् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बुधो युधिष्ठिरः । तस्य कल्ः परिसर्पणं प्रसरणं विलोक्य । कथं-भूतम् ? लोभाद्य्-अधर्म-चक्रं यस्मिन् । जिह्मं कौटिल्यम् । पर्यधात् तद्-उचितं परिधानम् अकरोत् ॥३७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **युधिष्ठिर इत्य् अत्र तस्य त्यागे कलि-परिसर्पणम् उद्दीपन-मात्रम् । वस्तुतस् तु भगवत्-पार्श्व-कामित्वम् एव कारणं ज्ञेयम् ॥३७॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पर्यधात् तद्-उचित-पिधानम् अकरोत् ॥३७॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तस्य कलेः परिसर्पणं प्रवेशं पर्यधादुचित-विधानम् अकरोत् ॥३७॥

———————————————————————————————————————

**॥ १.१५.३८ ॥ **

स्व-राट्9** पौत्रं विनयिनम् आत्मनः सुसमं गुणैः**10** ।
तोय-नीव्याः पतिं भूमेर् अभ्यषिञ्चद् गजाह्वये ॥३८॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्मनः स्वस्य गुणैः सुसमम् अतिसदृशम् । तोयं परिवेषाकारेण सर्वतः स्थितं समुद्रोदकम् एव नीवी परिधान-विशेषो यस्यास् तस्या भूमेः पतित्वेनाभिषिक्तवान् ॥३८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विनियतं स-मर्यादम् । टीकायां सुसममति-सदृशम् इति व्याख्यानात् सोः पूजायां षत्व-निषेधः, सुः पूजायाम् इति कर्म-प्रवचनीय-विधेः ॥३८॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विनियमं राजोचित-विशिष्ट-नियम-युक्तम् आत्मनः स्वस्य गुणैः सुसमम् अतिसदृशं तोयं समुद्रोदकम् एव नीवी परिधान-विशेषो यस्यास् तस्या भूमेः पतित्वेनाभिषिक्तवान् ॥३८॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **विनयिनं राज्योचित-विशिष्ट-नयवन्तम् । आत्मनः स्वस्य गुणैः सुसमम् अतितुल्यं । तोयनीव्याः समुद्र-मेखलायाः ॥३८॥

———————————————————————————————————————

**॥ १.१५.३९ ॥ **

मथुरायां तथा वज्रं शूरसेन-पतिं ततः ।

प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबद् ईश्वरः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वज्रम् अनिरुद्धस्य पुत्रम् । निरूप्य कृत्वेत्य् अर्थः । अपिबद् आत्मनि समारोपयाम् आस । ईश्वरः समर्थः ॥३९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्राजापत्यां चेष्टिं निरूप्येत्य् अन्वयः ॥३९॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वज्रम् अनिरुद्ध-पुत्रम् । निरूप्य कृत्वा । अपिबत् आत्मन्य् आरोपयामास । ईश्वरः समर्थः ॥३९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **वज्रमानिरुद्धिं निरूप्य कृत्वा, अग्नीन् अपिबत् आत्मन्य् आरोपयत् ईश्वरः समर्थः ॥३९-४०॥

———————————————————————————————————————

**॥ १.१५.४० ॥ **

विसृज्य तत्र तत् सर्वं दुकूल-वलयादिकम् ।

निर्ममो निरहङ्कारः सञ्छिन्नाशेष-बन्धनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सञ्छिन्नान्य् अशेषाणि बन्धनान्य् उपाधयो येन ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


**॥ १.१५.४१ ॥ **

वाचं जुहाव मनसि तत् प्राण इतरे च तम् ।

मृत्याव् अपानं सोत्सर्गं तं पञ्चत्वे ह्य् अजोहवीत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एव दर्शयति द्वाभ्याम् । वाचम् इत्य् उपलक्षणम् । सर्वेन्द्रियाणि मनसि प्रविलापितवान् इत्य् अर्थः । तच् च मनः प्राणे, प्राणाधीन-प्रवृत्तित्वात् । तं च प्राणम् इतरे अपाने, तेनाकर्षणात् । अपान-व्यापार उत्सर्गस् तत्-सहितम् अपानं मृत्यौ तद्-अधिष्टातृ-देवतायाम् । अनेनैव वाग्-आदिष्व् अपि तत्-तत्-कर्म-साहित्यं ज्ञेयम् । तं मृत्युं पञ्चत्वे पञ्च-भूतानाम् ऐक्ये देहे । देहस्यैव मृत्युर् नात्मन इति भावितवान् इत्य् अर्थः । अजोहवीद् इति यङ्-लुग्-आन्ताल् लुङि रूपम् ॥४१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वाचम् इति । तत् मनः व्यवहारात्मकं मनो-हंसं न तु परमार्थात्मकम् अपि अग्रेऽनुसन्धानान्तर-विधानात् । पञ्चत्वे पञ्च-भूतानाम् ऐक्य-रूपो यो देहस् तस्मिन्, न तु श्री-कृष्ण-पार्षद-रूपे स्व-देहे इत्य् अर्थः ॥४१॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अर्जुनवद् युधिष्ठिरोऽपि बहिर् अनुसन्धान-निवृत्त्य् अर्थं प्रयतते स्मेत्य् आह—वाचम् इत्य् उपलक्षणं सर्वेन्द्रियाणि मनसि मनोऽधीन-वृत्तित्वात् तच् च मनः प्राणे प्राणाधीन-वृत्तित्त्वात् तस्मिन्न् एव जुहाव समर्पयामास जुहोतेर् दानार्थत्वात् । हे मनस् तुभ्यम् एवेन्द्रियाणि दत्तानि, तवैवैतानि सन्तु, साम्प्रतं ममैतैः प्रयोजनं नास्तीति धारयामास । तेषु स्वत्वाभावेन वस्तुतः सम्प्रदानाभावात् न चतुर्थी । एवम् अग्रेऽपि सर्वत्र ज्ञेयम् । नन्व् अहं कस्य भवामीत्य् अत आह—तन्-मनः प्राणे जुहाव । तं प्राणम् इतरे अपाने तेनाकर्षणात् । अपान-व्यापार उत्सर्गस् तत्-सहितम् अपानं मृत्यौ तद्-अधिष्ठातृ-देवतायाम् । अनेनैव वाग्-आदिष्व् अपि तत्-तत्-कर्म-साहित्यं ज्ञेयम् । तं मृत्युं पञ्चत्वे पञ्च-भूतानाम् ऐक्ये देहे । मृत्यो त्वं देहस्यैव भव इति भावितवान् इत्य् अर्थः ॥४१॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **निर्ममत्वादि-निष्पादकं युधिष्ठिरस्य प्रयत्म् आह—वाचम् इत्य् उपलक्षणं बाह्येन्द्रियाणि मनसि तद् अधिष्ठातरि जुहाव, जुहोर्तेदानार्थत्वाद् अर्पयामासेत्य् अर्थः । तच् च मनस् तद् अधिष्ठातरि प्राणे, तं प्राणम् इतरेऽपाने, तेन प्राणस्याकर्षणाद् अपान-व्यापार उत्सर्गस् तत्-सहितम् अपानं मृत्यावपानाधिष्ठातृदेवे । इत्थं च वागादिष्व् अपि तद्-वृत्ति-साहित्यं बोध्यम् । तं मृत्यु-पञ्चत्वे पृथिव्यादि-पञ्चत्वे, पृथिव्यादि पञ्चके देहे तस्यैव मृत्युना सम्बन्धात् ॥४१॥

———————————————————————————————————————

**॥ १.१५.४२ ॥ **

त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वे ञ्जुहोन् मुनिः ।

सर्वम् आत्मन्य् अजुहवीद् ब्रह्मण्य् आत्मानम् अव्यये ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रित्वे गुण-त्रये पञ्चत्वं देहम् । तच् च त्रित्वम् एकत्वे अविद्यायाम् । सर्वं सर्वारोप-हेतुम् अविद्याम् आत्मनि जीवे । अजोहवीद् इति वक्तव्ये अजुहवीद् इत्य् आर्षम् । एवं शोधितम् आत्मानं ब्रह्मण्य् अव्यये कूटस्थे । न तस्यान्यत्र लय इत्य् अर्थः ॥४२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एकत्वे अव्यक्ते । तद् एवम् अयोग्यं तत् सर्वम् अव्यक्ते एव भावयित्वा योग्यं यत् सर्वं तद् आत्मनि भगवत्-पार्षद-रूपे अजुहवीत् धारयामास । तं चात्मानं नराकृतिं पर-ब्रह्मणि समर्पयामास ॥४२॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च पृथिव्यादि-भूत-पञ्चकं क्व स्थास्यतीत्य् अत्राह—त्रित्वे गुण-त्रये तच् च त्रित्वम् एकत्वे व्यष्टि-रूपे मायांशे तत् सर्वम् आत्मनि जीवे अजुहवीद् इत्य् आर्षम् अजोहवीद् इत्य् अर्थः । हे जीव ! तवैतन् मायांश-कृतम् उपाधि-त्रिकम्, एतस्मात् त्वं पृथग्-भूत एव विराजस्व, नैतस्याधीनो भवेति भावः । पञ्चात्मानं ब्रह्मणि । एवं परीक्षिति स्वराज्य-भावं वज्रए च मथुरां समर्प्य तत्-सम्बन्धम् आत्मनो दूरीकृत्य बहिर् निश्चिन्त इव इन्द्रियादीन् अपि तत्-तद्-वशयितरि योग्ये समर्प्य अन्तर् निश्चिन्तो बभूव । तथा हि ब्रह्मणः कृष्णस्यैव जीवो जीवस्यैव व्यष्टि-माया तस्या एव गुण-त्रयं गुणत्रयस्यैव पञ्च-भूतात्मको देहः, देहस्यैव मृत्युर् मृत्योर् एवापानः अपानस्यैव प्राणस् तस्यैव मनः मनस एव इन्द्रियाणि इन्द्रियाणाम् एव विषया राज्यादि-भोगाः तेषां च भोक्ता सम्प्रति परीक्षिद् एव न तु अहम् इति विचारयामास । किन्तु भगवन्-नित्य-परिकरत्वान् नित्य-विग्रहाणाम् अपि तदानीमात्मानं प्राकृत-शरीरं मत्वैवायं विचारोऽप्य् अकिञ्चित्-कर एवेति ज्ञेयम् ॥४२॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **तं च पञ्चत्व-शब्दितं देहं त्रित्वे गुणत्रये, तच् च त्रित्वम् एकत्वे व्यष्टि-रूप प्रकृत्य् अंशे अजुहोत्, तद् एतत् सर्वम् आत्मन्यन्तर्यामिणि, तवैतच्-छक्ति-भूतं मम न किञ्चिद् इत्य् अर्थः । तम् आत्मानं ब्रह्मणि स्वयं भगवति पूर्णे कृष्णे अजुहवीत्, अन्यत्रार्पणं संश्लेषणम् आत्म-ब्रह्मणोस्त्वैक्यं बोध्यम् । यथा परीक्षिति स्वराज्यं समर्प्य बहिर् एवम् इन्द्रियादीनि योग्ये तत्-तद् अधिष्ठातरि समर्प्यान्तश् च निश्चिन्तोऽभूद् इत्य् अर्थः । एषा भावना युधिष्ठिरादिषु भगवत्-पार्षदेषु प्रविष्टान् धर्मादि-देवां शानेव, न तु तद् उपजीव्यांस् तान् उद्दिश्येति बोध्यम् । तत्-पार्षदा देवाः प्रापञ्चिक-देवानाम् आश्रयणीया इति पाद्मे दृष्टत्वात् ॥४२॥

———————————————————————————————————————

**॥ १.१५.४३ ॥ **

चीर-वासा निराहारो बद्ध-वाङ् मुक्त-मूर्धजः ।

दर्शयन्न् आत्मनो रूपं जडोन्मत्त-पिशाचवत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् आत्म-प्रतिपत्तिम् उक्त्वा बाह्य-स्थितिम् आह—चीर-वासा इति द्वाभ्याम् । बद्धवाङ् मनुनी ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं सर्वथा निश्चिन्तस्य तस्य बाह्य-स्थितिम् आह—चीरेति । बद्ध-वाक् मौनी । अनपेक्षमाणः अनुजादि-प्रतीक्षाम् अकुर्वन् ॥४३॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **एवम् उभयथा निश्चितं तस्य ब्राह्मीं स्थितिम् आह—चीरेति सार्द्धाभ्यां बद्धवाक् मौनी ॥४३॥

———————————————————————————————————————

**॥ १.१५.४४ ॥ **

अनवेक्षमाणो11** निरगाद् अशृण्वन् बधिरो यथा ।**

उदीचीं प्रविवेशाशां गत-पूर्वां महात्मभिः ॥

हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनवेक्षमाणोऽनुजादि-प्रतीक्षाम् अकुर्वन् । आशां दिशम् । गत-पूर्वां पूर्वं प्रविष्टम् । महात्मभिर् विवेकविद्भिः । यतो यां दिशं गतः ॥४४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अधुना न्यस्त-समस्त-भारोऽहम् अव्यग्रः क्वापि विविक्ते देशे श्री-कृष्ण-प्राप्त्य्-अर्थम्, मन्-मना भव मद्-भक्त इति भगवद्-उपदिष्टम् एवोपायं करिष्यामीति निश्चिन्वतस् तस्य चेष्टाम् आह—उदीचीम् इति । परं ब्रह्म श्री-कृष्णं ध्यायन् ध्यातुम् ॥४४॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **अनव् एक्षमाणो भीमादि-प्रतीक्षाम् अकुर्वन् परं ब्रह्म श्री-कृष्णं ध्यायन् ध्यातुं यतो यामुदीचीम् ॥४४॥

———————————————————————————————————————

**॥ १.१५.४५ ॥ **

सर्वे तम् अनु निर्जग्मुर् भ्रातरः कृत-निश्चयाः ।

कलिनाधर्म-मित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधर्मो मित्रं यस्य, तेन ॥४५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-कृष्णं प्राप्तुं वयम् अपि तन्-मनस्का एव भवाम इति कृतो निश्चयो यैस् ते ॥४५॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : **कृष्ण-ध्यानम् एव कृष्ण-प्रापकम् इति कृतो निश्चयो यैस् ते । अधर्मो मित्रं यस्य तेन ॥४५॥

———————————————————————————————————————

**॥ १.१५.४६ ॥ **

ते साधु-कृत-सर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः ।

मनसा धारयामासुर् वैकुण्ठ-चरणाम्बुजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : साधु सम्यक् कृताः सर्वेऽर्था धर्मादयो यैः । अत एव वैकुण्ठस्य चरणाम्बुजम् एव आत्यन्तिकं शरणं ज्ञात्वा ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : ते इति । ते पाण्डवाः साधु यथा स्यात्, तथा **कृत-सर्वार्थाः **वशीकृत-धर्मार्थ-काम-मोक्षा अपि वैकुण्ठस्य श्री-कृष्णस्य चरणाम्बुजम् एव आत्यन्तिकं परम-पुरुषार्थं ज्ञात्वा, तद् एव मनसा धारयामासुः ॥४६॥

———————————————————————————————————————

**जीव-गोस्वामी (प्रीति-सन्दर्भः २७२) : **अथ तद्-अनन्तरं [१.१५.१-५ श्लोकेषु वर्णितार्जुन्म-वियोगाद् अनन्तरं] तुष्ट्य्-आत्मक-योगो यथा—ते इति त्रिभिः । ते पाण्डवाः साधु यथा स्यात्, तथा कृत-सर्वार्था वशीकृत-धर्मार्थ-काम-मोक्षा अपि वैकुण्ठस्य श्री-कृष्णस्य चरणाम्बुजम् एव आत्यन्तिकं परम-पुरुषार्थं ज्ञात्वा, तद् एव मनसा धारयामासुः ॥४७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधु यथा स्यात्, तथा कृता अनुष्ठिताः **सर्वेऽर्था **धर्मादयो यैस् तथा-भूता अपि आत्यन्तिकं तेभ्योऽप्य् अत्यन्ताधिकं श्री-कृष्ण-चरणाम्बुजम् एव मनसा निर्धारयामासुः । साधु-कृता धर्मार्थ-काम-मोक्षा यैः । अत एव चरणाम्बुजम् एवात्यन्तिकम् इति श्री-स्वामि-चरणाः ॥४६॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : साधु यथा भवत्य् एवं **कृताः सर्वे ऽर्था **धर्मादयो यैस् ते तादृशा अपि तेभ्योऽप्य् आत्यन्तिकम् अधिकतमं वैकुण्ठस्य कृष्णस्य चरणाम्बुजम् एव ज्ञात्वा मनसा धारयामासुः ॥४६॥

———————————————————————————————————————

**॥ १.१५.४७-४८ ॥ **

तद्-ध्यानोद्रिक्तया भक्त्या विशुद्ध-धिषणाः परे ।

तस्मिन् नारायण-पदे एकान्त-मतयो गतिम् ॥

अवापुर् दुरवापां ते असद्भिर् विषयात्मभिः ।

विधूत-कल्मषास्थानं विरजेनात्मनैव हि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथं-भूते पदे ? विधूत-कल्मषाणाम् आस्थानं निवास-स्थानं यत्, तस्मिन् । विरजेनात्मनैव गतिं प्रापुर् न तु षोडश-कलेन लिङ्गेन । गतेर् वा विशेषणम् । विरजेनात्मनैवावस्थान-रूपां गतिं ते विधूत-कल्मषाः प्रापुर् इति ॥४७-४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायणः श्री-कृष्णः । पुनर् गतिम् एव विशिनष्टि—विधूत-कल्मषं यथा-स्थानं नित्य-श्री-कृष्ण-प्रकाशास्पदं तदीया सभा । आत्मना स्व-शरीरेणैव । तत्र हेतुः—विरजेन अप्राकृतेन । हि-शब्दोऽसम्भवना-निवृत्त्य्-अर्थह् ॥४७-४८॥ [प्रीति-सन्दर्भ २७३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशुद्धा ज्ञान-योगाद्य्-अमिश्रा धिषणा बुद्धिर् येषां ते । अत एव एकान्त-मतयः । गतिं कीदृशीं ? विधूत-कल्मषाणाम् आस्थानं निवास-स्थानम् । यद् वा, विधूत-कल्मषाणाम् आस्थानं सभा सुधर्माभिधाना यत्र, तत् कृष्ण-धामैव गतिम् अवापुः । केन प्रकारेण ? इत्य् अत आह—विरजेन निर्मलेन गुण-मय-धर्मेन्द्राद्य्-अंश-राहित्याद् अप्राकृतेन आत्मना स्व-शरीरेणैव, न तु देह-भङ्गेनेत्य् अर्थः ॥४७-४८॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विशुद्धा मार्जिताः सुखैश्वर्य-वाञ्छातोपनीता धिषणा येषां ते, तत्-सेवा-सुखैक-निष्ठ-धिय इत्य् अर्थः । परे श्रेष्ठे तस्मिन् नारायण-पदे वदर्याश्रमे गतिं प्रापुः ॥४७॥ \

\

कीदृशीं गतिम् ? इत्य् आह—विधूत-कल्मषाणां नित्य-पार्षदानाम् उद्धवादीनाम् आस्थानं सुधर्माख्या सभा यत्र तत् कुशस्थली-नामकं कृष्ण-धामेत्य् अर्थः । केन प्रकारेण ? इत्य् आह—विरजेन निर्मलेन गुणमय-धर्म-मरुद्-इन्द्राद्य्-अंश-विरहद् अमायिकेन आत्मना स्व-स्व-विग्रहेणैव, न तु तद्-भङ्गेनेत्य् अर्थः ॥४८॥

———————————————————————————————————————

।**। १.१५.४९ ॥ **

विदुरोऽपि परित्यज्य प्रभासे देहम् आत्मनः ।

कृष्णावेशेन तच्-चित्तः पितृभिः स्व-क्षयं ययौ ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-कृष्णावेशेन कृष्णे चित्तम् आवेश्य देहं परित्यज्य तच्-चित्त एव संस् तदानीं नेतुम् आगतैः सह स्व-क्षयं स्वाधिकार-स्थानं ययौ ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : विदुरस्य यम-लोक-गतिः स्वाधिकार-पालनार्थं लीलया काय-व्यूहेनेति ज्ञेयम् । तद् इत्थम् एव श्री-भागवत-भारतयोर् अविरोधः स्याद् इति ॥४९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहं परित्यज्य इति । देवता-रूप एव, न तु पार्षद-रूपः । अत एव पितृभिस् तदानीं नेतुम् आगतैः सह । स्व-क्षयं स्वाधिकार-स्थानम् ॥४९॥

———————————————————————————————————————

**बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : विदुरोऽपि देहं परित्यज्य **इति धर्मराज-रूप एव तनु-पार्षद-रूपः, अत एव तदानेतुम् आगतैः पितृभिः सह स्व-क्षयं स्वाधिकार-स्थानं ययौ । पार्षदस् तु तच्-चित्तस् तम् एव प्रापेति ॥४९॥

———————————————————————————————————————

**॥ १.१५.५० ॥ **

द्रौपदी च तद् आज्ञाय पतीनाम् अनपेक्षताम् ।

वासुदेवे भगवति ह्य् एकान्त-मतिर् आप तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं प्रत्य् अनपेक्षतां तदा ज्ञात्वा तम् आप ॥५०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आत्मानं प्रत्य् अनपेक्षमाणानां तत् श्री-कृष्ण-सङ्गमनम् आज्ञाय सम्यक् ज्ञात्वा । वासुदेवे श्री-वसुदेव-नन्दने । हि प्रसिद्धौ । यस्मिन्न् एकान्त-मतिः, तम् एव प्राप्तवती । अत्रान्येन पथा गच्छतोऽप्य् एतान् श्री-द्वारका-नाथः स्वयं स्व-शक्त्या स्व-समीपम् एवानीतवान् इति गम्यते, नित्यं सन्निहितः [वि।पु। ५.३८.१०, भा।पु। ११.३१.२४] इत्य्-आद्य्-उक्तेः ॥५०॥ [प्रीति-सन्दर्भ २७२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रौपदी इति । सुभद्रादीनाम् अप्य् उपलक्षणम् । तम् आप इति देह-त्यागानुक्त्या शरीरेणैवेति ॥५०॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : द्रौपदी इति । चात् सुभद्रापि तम् आप इति विग्रह-त्यागान् अभिधानात् पूर्व-विग्रहैव कृष्णम् आपेत्य् अर्थः ॥५०॥

———————————————————————————————————————

**॥ १.१५.५१ ॥ **

यः श्रद्धयैतद् भगवत्-प्रियाणां

पाण्डोः सुतानाम् इति सम्प्रयाणम् ।

शृणोत्य् अलं स्वस्त्ययनं पवित्रं

लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवं यत् संप्रायणम्अलम् अतिशयेन स्वस्त्य्-अयनं मङ्गलास्पदम् । अलं पवित्रं च ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति एवं सम्प्रयाणम् एव, न तु प्रकारान्तरम् । सिद्धिं सिद्धि-दशाम् ॥५१॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

प्रथमेऽयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : इति गदित-विधं संप्रयाणं, न तु विधान्तरं, सिद्धिं मुक्तिम् ॥५१॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धेपाण्डव-स्वर्गारोहणं नाम

पञ्चदशोऽध्यायः

॥१.१५॥


(१.१६)


  1. अत्र महद् इति पृथक् पदं युक्तम् । अन्यथाऽआन्महतऽ इत्य् आत्वापत्तिः स्यात् । आर्षत्वात् तद्-अभावे महत्य् आसने इत्य् अप्य् अन्वेतुं शक्यम् । ↩︎

  2. ‘अमोघ-महितानिऽ इत्य् एवं-रूपे । ↩︎

  3. रक्षणम् ↩︎

  4. प्राकृताप्राकृत-लोकस्येव ↩︎

  5. इन् थे गीता प्रेः स् एदितिओन् अन्द् त्रन्स्लतिओन् ओफ़् थे भागवत पुराण ब्य् च्। ल्। गोस्wअमि इत् इस् स्ततेद् थत् वेर्सेस् ३४ अन्द् ३५ अरे मिः सिन्ग् इन् थे ओल्देस्त् मनुस्च्रिप्त् येत् फ़ोउन्द् ओफ़् श्रीमद् भागवत, एxइस्तिन्ग् इन् थे सरस्wअति भवन लिब्रर्य् अत्तछेद् तो थे क़ुएएन्ऽस् चोल्लेगे अत् वाराणसी। विजयध्वज रेजेच्तेद् थेसे त्wओ वेर्सेस्, अस् wएल्ल् अस् थे ओने इम्मेदिअतेल्य् प्रेचेदिन्ग् थेम्, अस् इन्तेर्पोलतेद्। ↩︎

  6. थेसे वेर्सेस् अरे क़ुओतेद् इन् कृष्ण-सन्दर्भ १०६। ↩︎

  7. ‘स्वेन रूपेणऽ इति पाठः । ↩︎

  8. ‘तथात्मनिऽ इति पाठः । ↩︎

  9. ‘सम्राट्ऽ इति पाठः । ↩︎

  10. ‘आत्मनः सदृशं गुणैःऽ‘ आत्मनोऽनवं गुणैःऽ इति पाठौ । ↩︎

  11. ‘अनपेक्षमाणःऽ इति पाठः । ↩︎